← सूक्तं ७.०९५ अथर्ववेदः - काण्डं ७
सूक्तं ७.०९६(७.९१)
अथर्वा।
सूक्तं ७.०९७ →
दे. चन्द्रमाः(इन्द्रः?)। त्रिष्टुप्।

इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥१॥