← सूक्तं ७.११६ अथर्ववेदः - काण्डं ७
सूक्तं ७.११७ (७.११२)
वरुणः
सूक्तं ७.११८ →
दे. आपः, वरुणश्च। अनुष्टुप्, १ भुरिक्

शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥१॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥