← सूक्तं ७.११७ अथर्ववेदः - काण्डं ७
सूक्तं ७.११८ (७.११३)
भार्गवः
सूक्तं ७.११९ →
दे. तृष्टिका। १ विराडनुष्टुप्, २ शंकुमती चतुष्पदा भुरिगुष्णिक्।

तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके ।
यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥१॥
तृष्टासि तृष्टिका विषा विषातक्यसि ।
परिवृक्ता यथासस्यृषभस्य वशेव ॥२॥