← सूक्तं ९.०६ | अथर्ववेदः - काण्डं ९ सूक्तं ९.०७ ब्रह्मा |
सूक्तं ९.०८ → |
दे. अतिथिः, विद्या। १ विराट् पुरस्ताद्बृहती, |
यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥१८॥
यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥१९॥
उप हरति हवींष्या सादयति ॥२०॥
तेषामासन्नानामतिथिरात्मन् जुहोति ॥२१॥
स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥२२॥
एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥२३॥
स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥२४॥
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥२५॥
सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥२६॥
सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥२७॥
प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥२८॥
प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥२९॥
योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥३०॥ {१६}