← सूक्तं ९.०७ अथर्ववेदः - काण्डं ९
सूक्तं ९.०८
ब्रह्मा
सूक्तं ९.०९ →
दे. अतिथिः, विद्या। १ विराट् पुरस्ताद्बृहती,

इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३१॥
पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३२॥
ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥
प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३४॥
कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३५॥
श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३६॥
एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥३७॥
अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविच्छेदाय तद्व्रतम् ॥३८॥
एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥३९॥ {१७}