अद्वैतसिद्धिः/चतुर्थपरिच्छेदः

← तृतीयपरिच्छेदः अद्वैतसिद्धिः
मधुसूदनसरस्वती

 

[4-1]

                                1. अविद्यानिवृत्तिभङ्गः

 

                ननु मुक्तिस्तावदविद्यानिवृत्तिर्न सम्भवति। तथा हि- सा किमात्मरूपा ? तद्भिन्ना वा ? नाद्यः, असाध्यत्वापत्तेः द्वितीयेऽपि किं सती ? मिथ्या वा ? आद्ये अद्वैतहानिः, द्वितीये अविद्यातत्कार्यान्यतरत्वापत्तिरिवि चेन्न, चरमवृत्त्युपलक्षितस्यात्मनोऽज्ञानहानिरूपत्वात्। तथा चोपलक्षणसाध्यतयैव मुक्तेरपि साध्यता। न चोपलक्षणनिवृत्त्या मुक्तेरपि निवृत्तेः, पाके निवृत्तेऽपि पाचकानिवृत्तिदर्शनात्। तदुक्तम्-

                "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः।

                उपलक्षणनाशेऽपि स्यान्मुक्तिः पाचकादिवत्।।" इति ।

                न च वृत्त्युपलक्षितस्य पश्चादिव पूर्वमपि सत्त्वेन मोहकालेऽपि तद्धान्यापत्तिः, पूर्वमसिद्धस्योपलक्षणत्वायोगात्, नहि पाकसंबन्धात् पूर्वं पाचको भवति तथा व्यवह्नियते वा। यत्तु पाककर्तृत्वमेव पाचकत्वम्, तदा अपचति तत्प्रयोगो भूतपूर्वन्यायेनौपचारिकः। यदि तु पाककर्तृतावच्छेदकावच्छिन्नत्वं तत्कर्तृत्वात्यन्ताभावानधिकरणत्वं वा, तद्‌द्वयमपि पश्चादस्ति। न चैवं मुक्तावात्मातिरिक्तं योग्यत्वादिकमस्ति, चिन्मात्रं तु प्रागप्यस्ति इत्यसाध्यतापत्तिः, काकोपलक्षितत्ववद् वृत्त्युपलक्षितत्वस्याधिकत्वे सविशेषतापत्तिः इति, तन्न, उपलक्ष्यस्वरूपस्यासाध्यत्वेऽपि उपलक्षणगतसाध्यत्वोपपत्तेः, घटाकाशे उत्पत्तिवत्। यद्वा अविद्यानिवृत्तिस्तद्विरोधिवृत्तिरेव यावत्कार्योत्पत्तिविरोधिकार्यमेव ध्वंस इत्यङ्गीकारात्। न च वृत्तौ नष्टायां विरोधिनः कार्यान्तरस्यानुदयात् तदापि ध्वंससत्त्वेन स न ध्वंस इति वाच्यम्, यावद्विरोधिकार्योदयमेव तथात्वाद्, यावद्विभागं तस्य ध्वंसरूपत्वेऽपि विभागध्वंसस्याधिकरणरूपतावच्चरमवृत्तिपर्यन्तं विरोधिकार्यरूपत्वेऽपि ध्वंसस्य चरमवृत्तिध्वंसस्याधिकरणरूपतैव।

                ननु इयं प्रक्रिया किमन्यत्र ? इहैव वा ? नाद्यः बिम्बप्रतिबिम्बैक्याज्ञाननिवृत्तिरपि ज्ञाततदैक्यरूपेति तदैक्यधीकाले सोपाधिकतद्भेदभ्रमोपादानाज्ञानानुवृत्त्ययोगात्। नान्त्यः, नियामकाभावात्। न चेह निवृत्तेर्ज्ञाताधिष्ठानातिरेके विश्वमिथ्यात्वश्रुतिपर्यालोचनया निवृत्तेरपि निवृत्त्यापत्तिर्नियामिका, तस्या ज्ञानाद्विश्वनिवृत्तिपरत्वेन स्वतात्पर्यविषयनिवृत्तीतरमिथ्यात्वपरत्वादिति चेन्न, न तावदाद्ये दोषः, सोपाधिकभ्रमे उपाधिविरहकालीनस्यैव तस्य तथात्वात्। नापि द्वितीयः, नेति नेतीतिश्रुतेः स्वारस्येनात्मातिरिक्तसर्वनिवृत्तावेव तात्पर्यात्। न च वृत्त्युपलक्षित आत्मा जीवन्मुक्तावप्यस्तीति तदापि मोक्षापत्तिः, मुक्तिमात्रापादनस्येष्टत्वात्, परममुक्तेश्चरमसाक्षात्कारोपलक्षितात्मस्वरूपत्वेन तदापादकाभावात्। न च चमरसाक्षात्कारनिवृत्तेरात्मत्वेऽसाध्यत्वापत्तिः, अविद्यानिवृत्तेरसाध्यत्वेऽप्रवृत्त्यापत्तिवद् अत्र तदभावात्। न च जीवन्मुक्तिप्रयोजकवृत्त्यपेक्षया परममुक्तिप्रयोजकवृत्तौ आनन्दाभिव्यक्तिगतविशेषाभावे चरमक्षणेन चरमश्वासेन वा उपलक्षित आत्मा मुक्तिरिति किं न स्यादिति वाच्यम्, प्रारब्धकर्मप्रयुक्तविक्षेपाविक्षेपाभ्यामभिव्यक्तिविशेषस्याङ्गीकारात्।

                एतेन वेदान्तश्रवणादिसाध्यः पुमर्थो वाच्यः, न च स त्वन्मते वक्तुं, शक्यः, मुक्त्यनुस्यूतसुखज्ञप्तिरूपस्यात्मनः पुरुषार्थत्वेऽप्यसाध्यत्वात्, वृत्तेः साध्यत्वेऽपि स्वतोऽपुमर्थत्वात्। तस्मादात्मव्यतिरिक्त एव वृत्तिसाध्य आवरणनिवृत्तिरूपः आनन्दप्रकाशः पुमर्थो वाच्यः। तथा च कथमात्मैव निवृत्तिरिति अपास्तम्, प्राप्तप्राप्तिरूपतया फलस्यानन्दप्रकाशस्य स्वरूपतोऽसाध्यत्वेऽपि तत्तिरोधायकाज्ञाननिवर्तकवृत्तेः साध्यत्वमात्रेण साध्यत्वोपपत्तेः, कण्ठगतचामीकरादौ तथा दर्शनात्। तस्मादज्ञानहानिरात्मस्वरूपं तदाकारा वृत्तिर्वेति सिद्धम्। ये तु पञ्चमप्रकारादिपक्षाः, ते तु मन्दबुद्धिव्युत्पादनार्था इति न तत्समर्थनमर्थयामः।। इत्यद्वैतसिद्धौ अविद्यानिवृत्तिनिरूपणम्।। 1 ।।

[4-1]

 

[4-2]

                                2. अविद्यानिवर्तकभङ्गः

 

                अविद्यानिवर्तकं च यद्यपि न स्वप्रकाशब्रह्मरूपज्ञानमात्रम्, तस्य तत्साधकत्वात्, तथापि श्रवणादिसाध्यापरोक्षवृत्तिसमारूढं तदेव। अत एवैतदपास्तम्- किं स्वप्रकाशचिदविद्यानिवर्तिका ? तदाकारा अपरोक्षवृत्तिर्वा ? नाद्यः, तस्या इदानीमपि सत्त्वात्। न द्वितीयः, असत्यात्सत्यसिद्धेरयोगाद् अज्ञाने न जानामीति ज्ञप्तिरूपचिद्विरोधस्यानुभवेनाज्ञाप्तिरूपवृत्तिविरोधस्यासंभवात्, चिता प्रकाशमानसुखादावज्ञानादर्शनाच्च। किञ्च इच्छानिवर्त्यद्वेषवज्जातिनिबन्धनवृत्तिनिवर्त्यस्याज्ञानस्याविशेषेण सत्त्वापत्तिः इति वृत्त्युपारूढचितो वा चित्प्रतिबिम्बधारिण्या वृत्तेर्वा निवर्तकत्वात्। न चासत्यायाः सत्योत्पादकत्वविरोधः, अभावस्य भावजनकत्ववदस्य संभवात्, प्रातिभासिकस्य व्यावहारिकसुखजनकत्वदर्शनाच्च। नापि न जानामीति ज्ञाप्तिरूपचिद्विरोधित्वानुभवविरोधः चिदसंसृष्टवृत्तेर्विरोधित्वस्यानङ्गीकारात्। यत्तूक्तं द्वेषवत् सत्यत्वमिति तन्न, अधिष्ठानतत्त्वसाक्षात्कारत्वनिबन्धननिवर्तकत्वस्य शुक्त्यादिज्ञानवदत्रापि संभवेन तन्निवर्त्यरूप्यवत् सत्यत्वानापत्तेः। यत्तूक्तं चरमवृत्तेर्घटादिवृत्त्या चिद्विषयत्वे अविशेषः इति, तन्न, अवच्छिन्नानवच्छिन्नविषयतया विशेषात्। यत्तु स्वनिवर्तकत्वे स्थितिविरोधः स्वोपादाननिवर्तकत्वं त्वदृष्टचरम् इति, तन्न, अन्यत्रादृष्टस्यापि प्रमाणबलादत्रैव कल्पनात्। तथा हि- `मायां तु प्रकृतिं विद्या'दित्यवगतमायोपादानकत्वस्याप्यात्मतत्त्वसाक्षात्कारस्य `तरति शोकमात्मवित् सोऽविद्याग्रन्थिं विकिरतीह सोम्ये'त्यादिना तन्निवर्तकत्वस्य च प्रमितत्वात्। वृत्तिप्रतिबिम्बतचितो निवर्तकत्वे तु नोक्तवचसः शङ्कापि। तदुक्तम्-

                "तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत्।

                सूर्यकान्तमुपारुह्य तन्न्यायं चिति योजयेत्।।"

                न च अपरोक्षवृत्तौ सत्यां चिदप्रतिबिम्बनिबन्धननिवृत्तिविलम्बादर्शनात् न विशिष्टे निवर्तकतेति वाच्यम्, शुद्धजडस्य शुद्धचितश्च जडतया तद्भासकतया चाज्ञानानिवर्तकतया विशिष्टे निवर्तकताया आवश्यकत्वात्। यत्तु निवर्तकं ज्ञानमपि न शुद्धविषयकम्, तस्यादृश्यत्वात्, नापि विशिष्टविषयकम्, तस्याध्यस्तत्वेन भ्रमत्वापत्तेः इति, तन्न, उपहितस्य विषयत्वेऽपि उपाधेरविषयत्वेनाभ्रमत्वात्। यत्तु अन्त्यस्य ज्ञानस्य किं निवर्तकम् ? स्वयम् ? अन्यद्वा ? नाद्यः, अन्यनिरपेक्षप्रतियोगिनो ध्वंसजनकत्वे क्षणिकत्वापत्तेः, दग्धदारुदहनस्यापि ईश्वरेच्छादिनैव नाशात्। कतकरजस्तु न पङ्कं नाशयति, नापि स्वम्, विश्लेषमात्रदर्शनात्। नान्त्यः। शुद्धात्मनः किञ्चिदपि प्रत्यहेतुत्वात्, तदन्यस्य च निवृत्तत्वाद् इति, तन्न, तन्तुनाशस्य पटनाशप्रयोजकत्वदर्शनेन स्वोपादानाविद्यानाशस्यैव तन्नाशकत्वात्। न च अविद्यानाशे तदुपलक्षितात्मा वा ? वृत्तिर्वा ? पूर्वत्र शुद्धस्याहेतुत्वम्, द्वितीये प्रतियोगिमात्रस्यैव नाशकतापर्यवसानमिति वाच्यम्, उभयथाप्यदोषाद्, वृत्तिमादायैव ब्रह्मण उपहितत्वेन शुद्धत्वाभावात्। प्रतियोगिनः प्रतियोगित्वेन नाशकतायामितरानपेक्षत्वे हि क्षणिकत्वम्, रूपान्तरावच्छेदेन यत् कारणं तस्यापेक्षणे न तदिति उपादाननाशत्वावच्छिन्नस्य स्वस्यैव क्षणिकत्वानापादकं नाशकत्वं स्यात्। द्वितीयकारणनिरपेक्षप्रतियोगिनः प्रतियोगित्वोपादाननाशत्वरूपद्वयावच्छिन्नस्य नाशकत्वोपपत्तेः। वस्तुतस्तु अविद्यानिवृत्तेवृत्तिरूपतया न निवर्तकखण्डनावकाशः, वृत्तिनिवृत्तेरात्मरूपतया न तज्जनकखण्डनावकाशोऽपीति सर्वमवदातम्।। इत्यद्वैतसिद्धौ अविद्यानिवर्तकनिरूपणम्।। 2 ।।

[4-2]

 

[4-3]

                                3. निर्विशेषसुखस्य पुरुषार्थत्वभङ्गः

 

                ननु त्वन्मते मुक्तौ न दुःखोच्छेदमात्रम्, किन्तु निरतिशयानन्दस्फुरणमपि। तदुक्तम्-

                `तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः।

                निःशेषदुःखोच्छेदाच्च पुरुषार्थः परो मतः।।' इति ।

                तत्र न सुखात्मता तावत्पुरुषार्थः, सुखी स्यामितिवत् सुखं स्यामितीच्छाया अदर्शनात्, पुमर्थताया इच्छानियम्यत्वात्। अन्यथा बौद्धमतसिद्धात्मनाशादिरपि पुमर्थः स्यात्। अत एव नापरकीयं सुखं पुमर्थः, तथेच्छाविरहात्, गौरवाच्च। सुखसाधने परकीयेऽपि स्वकीये पुमर्थत्वस्यापरकीयेऽप्यस्वकीये अपुमर्थत्वस्य च दर्शनेन इष्टत्वाविशेषात्। सुखेऽपि तत्कल्पनाच्च। दुःखतत्साधनयोः स्वकीयतयैवापुमर्थत्वस्य दर्शनेन सुखादेरपि तथैव पुरुषार्थत्वाच्चेति चेन्न। सुखादौ हि पुमर्थता नापरकीयत्वप्रयुक्ता, नापि स्वकीयत्वप्रयुक्ता, गौरवात्। किन्तु साक्षात्क्रियमाणतया, सम्बन्धस्य चानित्यत्वसाधनपारतन्त्र्यादेरिवावर्जनीय- सन्निधिकत्वात्। न च ईश्वरस्याप्यस्मदादिसुखं पुमर्थः स्यादिति वाच्यम्, हेयतया अज्ञातत्वे सतीत्यस्यापि तत्र प्रयोजकत्वादीश्वरादिना चात्मादिसुखस्य हेयत्वेनैव ज्ञानात्। स्वरूपसुखे चेष्टापत्तेः। न च गौरवम्, स्वसंबन्धित्वेन पुमर्थतावादिनोऽपि निलीनसुखे पुरुषार्थतानिवृत्त्यर्थं तथावश्यं वर्णनीयत्वात्।

                यत्तु साक्षात्कारेऽपि स्वकीयतया पुरुषार्थतापक्षे मुक्तस्य सुखसाक्षात्काररूपतया तं प्रत्यपि तस्यापुरुषार्थतापत्तिः, स्वेतरासम्बन्धित्वेन स्वस्य पुरुषार्थत्वे मुक्तस्वरूपेण सुखेन संसारीतरासंबन्धेन संसारिणः पुरुषार्थप्रसङ्गः इति, तन्न। साक्षात्क्रियमाणत्वेनैव हि पुमर्थता। मुक्तसुखसाक्षात्कारस्य तं प्रति पुमर्थत्वेऽपि न संसारिणस्तथा, तं प्रत्यभासमानत्वाद्, भाने वाऽसंसारित्वेनेष्टापत्तिः। यत्तु प्रत्यक्प्रकाशमानत्वेन सुखं पुमर्थः इति, पदप्येतेन व्याख्यातम्। प्रत्यक्‌प्रकाशमानत्वेन साक्षात्क्रियमाणताया एवोक्तेः। यत्तु सुखत्वेन प्रकाशमानं सुखं पुमर्थः, न च तत्परमते मोक्षेऽस्ति इति, तन्न, साक्षात्क्रियमाणत्वेनैवातिप्रसङ्गानिरासे अधिकोक्तेर्गौरवकरत्वात्।।

                ननु कस्यायं मोक्षः पुमर्थः ? किमहमर्थस्य ? आहोस्विच्चिन्मात्रस्य ? नाद्यः, त्वन्मतेऽहमर्थस्य मुक्त्यनन्वयात्। नान्त्यः, `अहं मुक्तः स्या'मितिवच्चिन्मात्रं स्यादितीच्छाया अननुभवादिति चेन्न अहमर्थगतं चिदंशं मुक्तिकालान्वयिनं प्रति पुमर्थस्य मोक्षे संभव इत्युक्तप्रायत्वात्। न च सुखस्य दुःखाभावमात्रत्वे वैशेषिकमोक्षवदपुमर्थता, अतिरेके सद्वितीयत्वमिति वाच्यम्, दुःखाभावातिरेकेऽप्यात्मानतिरेकात्। न च आत्मनः सुखमात्रत्वे प्रकाशमात्रत्वे वा सुखप्रकाशाभावेनापुमर्थत्वम्, उभयात्मकत्वे चाखण्डार्थत्वहानिरिति वाच्यम्, सुखप्रकाशयोरेकात्मरूपतया उभयत्वस्यैवाभावात्। न चार्थभेदाभावे सुखप्रकाश इति सहप्रयोगायोगः, अविद्याकल्पितदुःखजडात्मकत्वरूपव्यावर्त्यभेदेन तदुपपत्तेः। यत्तु दुःखाभावस्य सुखस्य च तत्त्वतो दुःखाद्भेदे अपसिद्धान्तः, अभेदे त्वपुमर्थता इति, तन्न, दुःखस्य कल्पितत्वेन तद्भेदस्य तत्समानयोगक्षेमतया तात्त्विकत्वाभावेनापसिद्धान्ताभावात्। यत्तु स्वप्रकाशस्य सुखस्य स्वतः स्फुरणेऽपि दुःखाभावस्यास्फुरणादपुमर्थता इति, तन्न, दुःखाभावस्यात्मानतिरेकेणात्माभिन्ने सुखे स्फुरति तस्यापि स्फुरणात्, तत्त्वेनास्फुरणस्याप्रयोजकताया उक्तत्वात्। तस्मात्स्वप्रकाशचिदभिन्नं सुखं पुमर्थः।। इति चिन्मात्रस्य मोक्षभागित्वोपपत्तिः।। इत्यद्वैतसिद्धौ मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वम्।। 3 ।।

[4-3]

 

[4-4]

                                4. जीवन्मुक्तिभङ्गः

 

                तच्च जीवन्मुक्तानां स्वानुभवसिद्धम्। जीवन्मुक्तश्च तत्त्वज्ञानेन निवृत्ताविद्योऽप्यनुवृत्तदेहादिप्रतिभासः। न च तत्त्वज्ञानादविद्यानाशे सद्यःशरीरपातापत्तिः, निवृत्तसर्पभ्रमस्यापि संस्काराद् भयकम्पानुवृत्तिवत्, दण्डसंयोगनाशेऽपि चक्रभ्रमणवच्च संस्कारानुवृत्तेरविद्यानिवृत्तावपि तत्कार्यानुवृत्तिसंभवात्। न च क्रियाज्ञानयोरेव संस्कार, नान्यस्येति वाच्यम्, निःसारितपुष्पायां सम्पुटिकायां पुष्पवासनादर्शनात्, विमतो नाशः संस्कारव्याप्तः, संस्कारनाशान्यत्वे सति नाशत्वात्, ज्ञाननाशवत् इत्यनुमानाच्च, संस्कारः कार्योऽपि ध्वंस इव निरुपादानकः अविद्येव च शुद्धात्माश्रित इति नाविद्यासापेक्षः। न च भावकार्यस्याध्यस्तस्य संस्कारदेहादितद्धेतुप्रारब्धकर्मादेः स्थित्यर्थः तदुपादानाज्ञानानुवृत्त्यापात इति वाच्यम्, विनश्यदवस्थस्य समवायिकारणं विना स्थितिदर्शनात्। न च क्षणमात्रस्थितावपि कथं बहुक्षणस्थितिरिति वाच्यम्, सत्युपपादके क्षणगणकल्पनाया अप्रयोजकत्वात्। तत्र क्षणमात्रं स्थितिः, समसमयस्याजनकत्वात्, अत्र तु प्रतिबन्धकाभावसहकृतहेतोस्तावत्कालमभावात्। अत एव पूर्वज्ञानानिवृत्तस्याध्यस्तस्य तदनधिकविषयेण कथं निवृत्तिरिति निरस्तम्, प्रतिबन्धकाभावसहकारासकाराभ्यां विशेषात्। जीवन्मुक्तिदशायामानन्दस्फूर्त्यापादनमिष्टमेव, तत्त्वे ज्ञाते द्विचन्द्रादिवद्दोषाद्बाधितानुवृत्तिसंभवाच्च। न च तत्रेवात्र ज्ञानानिवर्त्यदोषाभावेन वैषम्यम्, यावत्प्रतिबन्धकसत्त्वं ज्ञानानिवर्त्यस्य दोषस्यात्रापि संभवात्, सर्वज्ञानानिवर्त्यस्य तस्य कुत्राप्यसंप्रतिपत्तेः। तदुक्तं- `न हि जात्यैव कश्चिद् दोषोऽस्ती'ति।

                यद्वा अविद्यालेशानुवृत्त्या देहाद्यनुवृत्तिः। ननु लेशो नावयवः, अज्ञानस्य निरवयवत्वाद्, अत एवाविद्या दग्धपटन्यायेन तावत्तिष्ठतीत्यपि निरस्तम्, निरवयवे एतन्न्यायासंभवादिति चेन्न, आकारस्यैव लेशशब्दार्थत्वाद्, `इन्द्रो मायाभिः पुरुरूप ईयत' इत्यादिश्रुत्या अविद्याया अनेकाकारत्वावगमात्। आकारिनिवृत्तावप्याकारस्यानुवृत्तिर्व्यक्तिनिवृत्तावपि जातेरिव। ननु कोऽयमाकारो नाम जातिर्वा ? शक्त्यादिरूपो धर्मो वा ? सुवर्णकुण्डलादिवदवस्थाविशेषो वा ? नाद्यौ, तयोर्देहादिभ्रमोपादानत्वे अविद्यात्वापातात्, अनुपादानत्वे च उपादानान्तराभावेन देहादिभ्रमोत्पत्त्ययोगात् आत्मान्यत्वेन ज्ञाननिवर्त्यत्वेन चाविद्यातत्कार्यान्यतरत्वावश्यंभावेनाज्ञाने निवत्ते स्थित्ययोगाच्च। अत एव न तृतीयः। अवस्थावन्तं विना अवस्थायाः स्थित्ययोगादिति चेन्न, अनेकशक्तिमदविद्यायाः प्रपञ्चे पारमार्थिकत्वादिभ्रमहेतुशक्तेः प्रपञ्चे अर्थक्रियासमर्थत्वसम्पादकशक्तेश्च प्रारब्धकर्मसमकालीनतत्त्वसाक्षात्कारेण निवृत्तावपि अपरोक्षप्रतिभासयोग्यार्थभासजनिकायाः शक्तेरनुवृत्तेः तद्वती अविद्यापि तिष्ठत्येवेति नोक्तदोषावकाशः। न चाविद्यायां सत्यां कथं मुक्त इति व्यपदेशः ? शक्तिनाशमात्रात्। अत एव समये सर्वशक्तिमदज्ञाननाशः तज्जातीयेनाप्रतिरुद्धेन प्रत्ययेन। तथा च श्रुतिः- `तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्ति'रिति। न च भूय इत्यस्य योजनादित्यनेनान्वयात् न लेशानुवृत्तावस्याः श्रुतेर्मानतेति वाच्यम्, विशेषणान्वयापेक्षया विशेष्यान्वयस्याभ्यर्हितत्वात् तत्त्वभावादित्यनेन व्यवधानाद् अन्त इति पदवैयर्थ्याच्च विपरीतयोजनस्यासङ्गतेः। न च लेशस्थितौ कर्मानुवृत्तिः तदनुवृत्तौ च ज्ञानप्रतिबन्धेन लेशस्थितिरित्यन्योन्याश्रय इति वाच्यम्, न तावत् ज्ञप्तौ `भूयश्चान्ते विश्वमायानिवृत्ति' रित्यादिश्रुतेरेव लेशानुवृत्तेरवगतत्वात्, नापि स्थितौ एककालीनत्वेन दोषाभावात्।

                यद्वा अज्ञानस्य सूक्ष्मावस्था लेशः। यथा `तस्मात् फले प्रवृत्तस्य यागादेः शक्तिमात्रकम्। उत्पत्तावपि पश्वादेरपूर्वं न ततः पृथक्।।' इति वार्तिकेन यागे गतेऽपि यागसूक्ष्मावस्थारूपमपूर्वं यागे साधनतानिर्वाहकमङ्गीक्रियते, तथा अज्ञाने गतेऽपि तत्सूक्ष्मावस्थारूपो लेशो देहादिप्रतीत्यनुकूलः स्वीक्रियते, स्वर्गजनकताग्राहश्रुतेरिवात्रापि जीवन्मुक्तिश्रुतेस्तादृगर्थस्वीकारात्। तस्मादविद्यालेशानुवृत्त्या जीवन्मुक्तिरुपपन्नतरा।। इत्यद्वैतसिद्धौ जीवन्मुक्त्युपपत्तिः।। 4 ।।

[4-4]

 

[4-5]

                                5. मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम्

 

                यत्तु परमतेऽपरोक्षज्ञानिनोऽपि स्वयोग्यपरमानन्दहेतुपरमकाष्ठापन्नभक्त्यभावे तत्साध्यस्य मोचकस्य ईश्वरप्रसादस्याभावेन प्रारब्धकर्मणा संसारानुवृत्तौ जीवन्मुक्तिः तद्भावे तु प्रसादस्यापि भावेन निःश्शेषदुःखनिवृत्तिविशिष्टस्वतोनीचोच्चभावापन्नस्वरूपानन्दाविर्भावरूपा मुक्तिरिति तन्न, `तावदेवास्य चिर'मित्यादिश्रुत्या अस्योत्पन्नतत्त्वसाक्षात्कारस्य प्रारब्धकर्मक्षयमात्रमपेक्षणीयं कैवल्यसंपत्त्यर्थमिति प्रतिपादनेन ईश्वरप्रसादापेक्षाया वक्तुमशक्यत्वात्। स्मृतिपुराणादीनां श्रुतिविरोधेन स्तुतिपरत्वात्। `यमेवैव वृणुते तेन लभ्यः तस्मैष आत्मा विवृणुते तनूं स्वा'मिति भक्तिजन्येश्वरप्रसादस्यापि तत्साक्षात्कारस्वरूप एवोपयोगस्य बोधितत्वेन स्मृत्यादीनामपि तदनुसारित्वात् वैपरीत्येन साध्यसाधनभावे मानाभावात्। न च प्रारब्धकर्मक्षये प्रसादविनियोगः, प्रसादनिरपेक्षभोगादेव तत्सिद्धेः। नापि मुक्तावुच्चनीचभावः, तस्य द्वितीयसापेक्षत्वेन तदासंभवात्। `परमं साम्यमुपैती'ति साम्यश्रुतेश्च। सातिशयत्वे मुक्तेः स्वर्गादिवदनित्यत्वं स्यात्। अधिकदर्शने दुःखद्वेषादिकं च स्यात्।

                ननु मुक्तौ अतारतम्यं किं भेदाभावात्, उत सत्यपि भेदे तत्साम्यात्। नाद्यः, श्रुत्या भेदसिद्धेः। नान्त्यः, साम्यं किं जीवेश्वरयोः, उत जीवानामेव। नाद्यः, तयोर्विभुत्वाणुत्वशेषशेषिभावस्वातन्त्र्यपारतन्त्र्यादिना तारतम्यात्। अनेकेश्वरापत्त्या जगत्प्रवृत्त्ययोगात्। तद्‌द्वयतारतम्यप्रतिपादकस्मृतिभिः `जगद्‌व्यापारवर्ज'मित्यादिसूत्रैरुत्कृष्टत्वनिकृष्टत्वग्राहकानुमानैर्विरोधाच्च। नान्त्यः, जीवान् प्रति शेषिणो लक्ष्मीतत्त्वात् तान् प्रति नियामकाद् विष्वक्सेनादितश्चेतरजीवानां निकृष्टत्वात्। `सैषानन्दस्ये'त्यादितैत्तरीयादिश्रुतिभिः।

                मुक्तानामपि सिद्धानां नारायणपरायणः।

                सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने।।

                इत्यादिस्मृतिभिः `वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवमि'त्यादि सूत्रैरुक्तश्रुतितर्कानुगृहीतैरनुमानैर्विरोधाच्चेति चेन्न, भेदाभावेन तारतम्यासिद्धेः। यथा च श्रुत्यादेर्न भेदपरत्वं तथा प्रागेव गतम्। यत्तु द्वितीयपक्षमाशङ्क्य दूषणं, तदकाण्डताण्डवम्, भेदसत्त्वे अभेदात्मकपरमसाम्याभावात् तत्सत्त्वे भेदस्यैवाभावात्।

                किं च तारतम्याभिधानं परममुक्तौ ? उत ब्रह्मलोकादिवासरूपापरममुक्तौ वा ? नाद्यः, `एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्तावधृतेरिति तृतीयान्त्याधिकरणे `ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शना'दित्येतत्सूत्रोक्तज्ञानगतैहिकत्वामुष्मिकत्वरूपविशेषवन्मुक्तावपि तारतम्यमाशङ्क्य निषेधात्। द्वितीये त्विष्टापत्तिः।

                यत्तु मुक्तजीवभोगः ईश्वरभोगान्निकृष्टः जीवभोगत्वात् संसारिभोगवत्। एवं जीवज्ञानादिकमपि पक्षीकृत्य प्रयोग ऊहनीयः। ईश्वरानन्दः, जीवानन्दादुत्कृष्टः तन्नियामकानन्दत्वात् यदेवं तदेवं यथा सेवकानन्दात् सेव्यानन्दः। ईश्वरः, जीवस्वभावानन्दादित उत्कृष्टस्वभावानन्दादिमान् तत्प्रेप्सुत्वे सति तत्र शक्तत्वाद्, यो यत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान् यथा संमतः इत्यादीनि तारतम्यसाधकानि इति, तन्न; आद्ये मुक्तस्य ब्रह्मरूपतया उपाधिकृतजीवत्वाभावेनाश्रयासिद्धेः, ईश्वरत्वाभावेन साध्याप्रसिद्धेः, स्वरूपासिद्धेश्च। द्वितीयाद्यनुमाने जीवेश्वरविभागकाले तारतम्यसाधनं चेत्सिद्धसाधनं, तद्भिन्ने काले चेत्, पूर्वदोषानतिवृत्तिः। `सैषानन्दस्ये'त्यादिश्रुतिभिः मानुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तेषु उत्तरोत्तरशतगुणत्वरूपतारतम्यमुपाधितारतम्येन वदन्तीभिर्निरुपाधिके स्वरूपानन्दे तारतम्यस्य वक्तुमशक्यत्वात्। एतेन प्रकृता बन्धनिवृत्तिः, स्वसजातीयबन्धनिवृत्त्याश्रयप्रतियोगिकतारतम्यवन्निष्ठा बन्धनिवृत्तित्वात् निगडबन्धनिवृत्तिवदिति निरस्तम्, तारतम्यस्य गुणगतजातित्वेन बन्धनिवृत्त्याश्रयात्मनि वक्तुमशक्यत्वात्। अत एव निवृत्तिगततारतम्यसाधनमपि अपास्तम्, निवृत्तेर्निरतिशयत्वादानन्दस्य स्वरूपतया उभयवादिसिद्धत्वेन गुणत्वाभावेन तत्रापि तस्य वक्तुमशक्यत्वात्। एतेन स्वरूपसुखानां प्रत्येकमेकत्वेनाणुत्वेन च संख्यापरिमाणकृतवैषम्याभावेऽपि जलसुधापानजन्यसुखयोरिव मधुरमधुरतरत्वादिवच्च स्वरूपकृतवैषम्यं मुक्ताविति निरस्तम्, वैषयिकसुखे साधनतारतम्यप्रयुक्ततारतम्येऽपि स्वरूपानन्दे तदभावाच्च।

                न च सालोक्यादिमुक्तिः सायुज्यादिमुक्तिभ्योऽपकृष्टेति प्रसिद्धिविरोधः, परापरमुक्तिरूपतया तदुपपत्तेः। सायुज्यादिमुक्तावुत्कृष्टत्वव्यपदेशोऽपकृष्टत्वाभावमात्रेण। ननु सायुज्यं नैक्यम्। `चन्द्रमसः सायुज्यं सलोकतामाप्नोति' इत्यादि श्रुत्या सत्यपि भेदे सायुज्योक्तेः `सयुजः परमात्मानं प्रविश्य च बहिर्गताः।' इत्यादौ सयुजां प्रवेशमात्रोक्तेश्च, सयुजो भावः सायुज्यमिति युजशब्देन संबन्धस्यैवोक्तेः `सालोक्यमपि सामीप्यं सारूप्यं योग एव च'।। इति स्मृतौ सायुज्ये संबन्धवाचकयोगशब्दप्रयोगाच्च। तस्मात्सायुज्यं नाम क्षीरनीरवद् अन्यदेहाविष्टग्रहदेवतादिवच्च संश्लेषमात्रं, न त्वैक्यमिति चेत्, न, व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वेनापुमर्थत्वात्। न चैतल्लोकस्थितस्य जीवस्य लोकान्तरस्थितालोकिकशरीरावच्छिन्नेनेश्वरेण संश्लेषः साध्यः, `अत्र ब्रह्म समश्नुत' इति श्रुतेः। उत्क्रमणगमनादिसाध्यब्रह्मलोकावाप्तिवदुपाध्यवच्छिन्नजीवस्यानवच्छिन्नब्रह्माभेदरूपपरममुक्तेः। पारलौकिकफलत्वाभावात्, `ब्रह्मविदाप्नोति परं' इत्यादौ अवाप्तेः ब्रह्मरूपत्वात् सायुज्यस्यापि तद्रूपतया अङ्गीकरणीयत्वाच्च। `चन्द्रमसः सायुज्यमि'त्यादौ एकोपाध्यवच्छिन्नस्योपाध्यन्तरावच्छिन्नेन ऐक्यानुपपत्तिवदत्रानुपपत्तेरभावात्, प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वाच्च, सायुज्यशब्दस्तावद्विभक्तत्वाभावाभिप्रायकः।

                यच्च उत्तरोत्तरं शतगुणानन्दप्रकाशकवाक्येषु प्रतिवाक्यं मुक्तावकामहतशब्दप्रयोगात् मानुषानन्दवद् अकामहतमुक्तानन्देऽपि तारतम्यम् इति, तन्न, `एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति सर्वेषां लौकिकानन्दानां परमानन्दान्तर्भावाभिधानोपपत्तेः, न तु तस्य तस्याकामहतस्य तावानेवानन्द इति, येन तत्रापि तारतम्यं कल्प्येत। तथा च `सोऽश्नुते सर्वान् कामान्' `कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधी'त्यादिश्रुतेः `स हि मुक्तोऽकामहत' इत्यादिब्रह्माण्डोक्तेश्च न विरोधः। ननु एकस्यैव श्रोत्रियस्य सर्वत्र परामर्शे मानुषानन्दादिभ्यः सावधारणशतगुणितमनुष्यगन्धर्वाद्यनेकानन्दा एकस्मिन् विरुद्धाः, भिन्नाश्चेदकामहतत्वादेरेकरूपतया श्रुतस्याव्यवस्थापकत्वादानन्दव्यवस्थाऽयोगः। अत व्यवस्थार्थं एतत् पदाकाम एतदितरपदकामश्च लक्ष्यते, तदाऽश्रुतकल्पना बाधश्च। नहीन्द्रादिपदे वा राजपदे वा निष्कामस्य भिक्षुकस्य इन्द्राद्यानन्दानुभवोऽस्ति, तस्माच्छ्रत्या पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा, `श्रोत्रियस्य चे'त्यादिना `यश्च श्रोत्रिय' इत्यादिना चोत्तरवाक्येन मुक्तस्य तदुच्यत इति चेन्न, सर्वेषु वाक्येषु अकामहतस्य मुक्तस्यैकत्वेऽपि तदानन्दे सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन्नानन्दे वक्तव्ये परामृश्यते, तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभिधानोपपत्तेः `अधिकं प्रविष्टं न तु तद्धानि'रिति न्यायात्। साम्ये हि तत्सजातीयधर्मवत्त्वं तन्त्रम्, न तु तदितरधर्मानधिकरणत्वमपि, गौरवात्।

                यच्च मुक्तसुखं परस्परतारतम्यवत् परस्परतारतम्यवत्साधनकत्वात् संमतवदिति, तन्न, असिद्धेः। ननु मुक्तिः प्रयागमरणभगवद्‌द्वेषादिसाध्येति मते ज्ञानकर्मसमुच्चयसाध्येति मते च प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् नासिद्धिः। ज्ञानैकसाध्येति मतेऽपि `कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति' `सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यै'रित्यादिश्रुत्या `ब्रह्मादि तद्वेद न चैव सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः।' इत्यादिस्मृतिभिः देवादिमनुष्यादिस्थमुक्तिहेतुब्रह्मज्ञानगतस्य बहुबहुतरशाखाश्रवणसाध्यत्वस्य बहुबहुतरगुणविषयत्वं विनाऽयोगेनार्थापत्त्या च तत्सिद्धिरिति चेन्न, केवलकर्मपक्षे समुच्चयपक्षे वा कर्मसाध्यत्वेन मुक्तेरनित्यत्वापत्तेः, `नान्यः पन्थाः' इत्यादिश्रुतिविरोधाच्च, तृतीयपक्षे तूदाहृतश्रुतीनां ब्रह्मविद्यादुर्लभत्वप्रतिपादनपरत्वेन तदुक्तसाधनसाध्यत्वाप्रतिपादकत्वात्। न चार्थापत्त्या तत्सिद्धिः, ब्रह्मसाक्षात्कारस्य निर्गुणविषयतया गुणविषयत्वायोगात्। यत्तु-

                यस्य आशिष आशास्ते न स भृत्यः स वै वणिक्।

                स वै भृत्यः स वै स्वामी गुणलुब्धौ न कामुकौ।।

                मुमुक्षोरमुमुक्षुस्तु वरश्चैकान्तभक्तिमान्।

                इत्यादिस्मृत्या मुमुक्षुभक्तापेक्षया अमुमुक्षोर्भक्तस्याधिक्योक्तेः, तदाधिक्यस्य लोकरीतिसिद्धत्वाच्च `भक्तिः सिद्धेर्गरीयसी'तिस्मृत्या अल्पभक्तिसाध्यमुक्त्यपेक्षया अधिकमुक्तिहेतुभक्तेरपि आधिक्यस्योक्तेश्च इति, तन्न, `यस्त आशिषः' इत्यादिना फलमनिच्छतो गुणलोभेन या भक्तिस्तस्यास्तु गरीयस्त्वं यत् प्रतिपादितं, तत्तत्त्वसाक्षात्कारे त्वरासम्पादकं न तु मुक्तितारतम्याक्षेपकम्। `भक्तिः सिद्धे'रित्यादिना प्रतिपादितं गरीयस्त्वमपि तज्जनकत्वमात्रेण पुत्रात्पितुरिव। यत्तु-

                अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते।

                तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः।।'

इत्यत्रापिशब्देन,

                स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।

                किं पुनर्ब्रह्मणाः पुण्या भक्ता राजर्पयस्तथा।।'

                इत्यत्र कैमुत्येन च साधनतारतम्येन साध्ये तत्प्रतीतिः इति, तन्न, न हि तरणेऽपीत्यस्यान्वयः, किंतु अधिकारिणि। तथा च विलम्बिततरणरूपफलसम्बन्धमात्रपर्यवसानात् कैमुत्यस्यापि त्वराफललाभमात्रेणोपपत्तेः साधनमात्रतारतम्यस्य फलतारतम्याप्रयोजकत्वाच्च। न हि दण्डतारतम्येन घटतारतम्यं क्वचिदपि दृश्यते। यत्तु-

                साधनस्योत्तमत्वेन साध्यमुत्तममाप्नुयुः।

                ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः।।

                इति ब्राह्मे' `अधिकं तव विज्ञानमधिका च गतिस्तवे'ति साक्षान्मोक्षधर्मे च साधनतारतम्येन साध्ये तदुक्तिः इति, तन्न, साधनोत्तमत्वेन साध्योत्तमत्वस्यापरममुक्तिविषयत्वात्, विज्ञानगताधिक्योक्तेरपि साक्षात्कारप्रयोजकसगुणविषयकज्ञानपरत्वाच्च, अत एव दहरादिविद्यानामधिकाल्पगुणविषयकत्वेन साधनतारतम्यं यत्पराभिमतं तदप्येवमिति न कश्चिद्दोषः।

                तस्मात्स्वरूपानन्दस्य स्वप्रकाशात्मरूपिणः।

                प्राप्तिर्मुक्तिर्न तत्रास्ति तारतम्यं कथंञ्चन।। 1 ।।

                ।। इत्यद्वैतसिद्धौ मुक्तौ तारतम्यभङ्गः।।

                यो लक्ष्म्या निखिलानुपेक्ष्य विबुधानेको वृतः स्वेच्छया

                यः सर्वान् स्मृतमात्र एव सततं सर्वात्मना रक्षति।

                यश्चक्रेण निकृत्य नक्रमकरोन्मुक्तं महाकुञ्जरं

                द्वेषेणापि ददाति यो निजपदं तस्मै नमो विष्णवे।। 2 ।।

                श्रीमाधवसरस्वत्यो जयन्ति यमिनां वराः।

                वयं येषां प्रसादेन शास्त्रार्थे परिनिष्ठताः।। 3 ।।

                सहजसरलां प्रेम्णा दीर्घां समस्तविशोधिनीं

                सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः।

                कथमपि सती पूता सद्यस्तया विषयीकृता

                मम कृतिरियं हित्वा दोषान्भवत्वतिसद्‌गुणा।। 4 ।।

                गुरूणां माहात्म्यान्निजविविधविद्यापरिचयात्

                श्रुतेर्यन्मे सम्यङ्मननपरिनिष्पन्नमभवत्।

                परब्रह्मानन्दस्फुरणमखिलानर्थशमनं

                तदेतस्मिन् ग्रन्थे निखिलमतियत्नेन निहितम्।। 5 ।।

                इह कुमतिरतत्त्वे तत्त्ववादी वराकः

                प्रलपति यदकाण्डे खण्डनाभासमुच्चैः।

                प्रतिवचनममुष्मै तस्य को वक्तुविद्वान्

                न हि रुतमनुरौति ग्रामसिंहस्य सिंहः।। 6 ।।

                कुतर्कगरलाकुलं भिषजितुं मनो दुर्धियां

                मयायमुदितो मुदा विषविघातिमन्त्रो महान्।

                अनेन सकलापदां विघटनेन यन्मेऽभवत् परं

                सुकृतमर्पितं तदखिलेश्वरे श्रीपतौ।। 7 ।।

                ग्रन्थस्यैतस्य यः कर्ता स्तूयतां वा स निन्द्यताम्।

                मयि नास्त्येव कर्तृत्वमनन्यानुभवात्मनि।। 8 ।।

                श्रीव्यासशङ्करसुरेश्वरपद्मपादान्

                वेदान्तशास्त्रसुनिबन्धकृतस्थथान्यान्।

                विद्याप्रदानिह यतिप्रवरान्दयालून् सर्वान्

                गुरून् सततमेव नमामि भक्त्या।। 9 ।।

                सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात्।

                अद्वैतसिद्धिरधुना चतुर्थी समजायत।। 10 ।।

                इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वती श्रीचरणशिष्यश्रीमदुसूदनसरस्वतीविरचितायामद्वैतसिद्धौ मुक्तिनिरूपणं नाम चतुर्थः परिच्छेदः।।

[4-5]