अद्वैतसिद्धिः/तृतीयपरिच्छेदः

← द्वितीयपरिच्छेदः अद्वैतसिद्धिः
मधुसूदनसरस्वती
चतुर्थपरिच्छेदः →


[3-1]

                                1. मनननिदिध्यासनयोः विवरणोक्तश्रवणाङ्गत्वभङ्गः

 

                तदेवमैकात्म्ये व्यवस्थिते तत्साक्षात्काराय श्रवणमङ्गि, मनननिदिध्यासने तदङ्गतया मुमुक्षुभिरनुष्ठेये। तदुक्तं विरणे- `श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्, मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते' इति फलोपकार्यङ्गे। ननु श्रवणं तावद्विचाररूपं शाब्दज्ञाने न करणम्, वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्ज्ञानरूपे वा करणे इतिकर्तव्यमात्रत्वादिति चेन्न, शब्दशक्तितात्पर्यावधारणं तावद् विचारः। अवधृततात्पर्यकश्च शब्दः करणमिति विचारस्य करणकोटिप्रवेशेनेतिकर्तव्यतात्वाभावाद् अङ्गित्वनिर्णयात्। तदुक्तं विद्यासागरेण अनुमितौ लिङ्गज्ञानवत्तात्पर्यविशिष्टशब्दज्ञानं करणम्, अतस्तात्पर्यावधारणरूपविचारस्याङ्गित्वम्। न च आकाङ्क्षादिसहितशब्दज्ञानस्यैव करणत्वसम्भवे तात्पर्यभ्रमनिरासोपक्षीणतयोक्ततात्पर्यज्ञानस्य करणकोटिप्रवेशे मननादेरपि तत्कोटिप्रवेशः स्यादिति युक्तम्, एवं साकाङ्क्षादिधियोऽपि निराकाङ्क्षत्वादिभ्रमनिरासकत्वमात्रेणोपयोगापत्तौ आकाङ्क्षादिकमपि करणकोटिप्रविष्टं न स्यात्। न चान्योन्याश्रयः, सामान्यतोऽर्थावगमनेन तात्पर्यग्रहसम्भवात्। अन्यथा नानार्थादौ विनिगमनादिकं च न स्यात्। तथा च सर्वत्र तात्पर्यज्ञानस्याजनकत्वेऽपि यत्र तात्पर्यसंशयविपर्ययोत्तरं शाब्दधीः, तत्र तात्पर्यज्ञानस्य हेतुता ग्राह्या संशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येव। अत एव न विवरणविरोधोऽपि।

                ननु तात्पर्यज्ञानस्य करणकोटिप्रवेशे वेदेऽपि तात्पर्यभ्रमसम्भवात् वाह्यागमेऽपि तात्पर्यप्रमासम्भवात् शाब्दज्ञानकरणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्याद् इति चेन्न, वेदे कदाचित् कस्यचित् कुत्रचित्तात्पर्यभ्रमेऽपि निर्दुष्टत्वेन यथार्थतात्पर्यमस्त्येव, परागमे तु पौरुषेयतया प्रतारणादिमत्पुरुषप्रणीततया दुष्टत्वेन न तथेति दुष्टत्वादुष्टत्व न्यवस्थासंभवात्। तात्पर्यांशस्यावघातादेरिव योगे शब्दे सन्निपत्योपकारकतया करणकोटिप्रविष्टत्वेनाङ्गित्वम्। न च दृष्टान्ते करणद्रव्यशेषत्वात् तथा, सर्वसाम्यस्य दृष्टान्तत्वाप्रयोजकत्वात्। ननु सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथा प्रयाजादिकं प्रत्यवघातादिः शेषी स्यादिति चेन्न, विशिष्टयागप्रविष्टतया शेषित्वे इष्टापत्तेः असाधारण्येन शेषिता तु असाधारणफलोपकारकत्वे स्यात्, असम्भावनाविशेषनिवृत्तिरूपासाधारणोपकारजनकत्वात् सापि श्रवणस्य सम्भावितैव। अत एवोक्तं चित्सुखाचार्यैः- `करणीभूतशब्दगताशयहेतुत्वात् श्रवणस्य करणत्वेनाङ्गित्वम्, मनननिदिध्यासनयोस्तु सहकारि भूतचितगतातिशयहेतुत्वात् फलोपकार्यङ्गते'ति। न च एवं सोमयागसहकारिभूतदीक्षणीयाद्यङ्गस्य तद्गतातिशयहेत्वभिषवग्रहणादिकं प्रत्यङ्गत्वप्रसङ्ग इति वाच्यम्, पूर्ववदुक्तोत्तरत्वात्। तदुक्तं तत्त्वशुद्धौ- `करणीभूतशब्दधर्मशक्तितात्पर्यविषयत्वात् श्रवणस्य करणान्तर्भावेनाङ्गित्व'मिति।

                न च शब्देनापरोक्षज्ञप्तौ अप्रतिरुद्वापरोक्षज्ञप्तौ चोत्पाद्यायां मनननिदिध्यासनयोरिव परोक्षज्ञप्तावप्रतिरुद्धपरोक्षज्ञप्तौ चोत्पाद्यायां श्रवणस्याप्यपेक्षिततया त्रयाणामपि फलोपकार्यङ्गत्वमेवेति कथं परस्पराङ्गाङ्गिभाव इति वाच्यम्, मनननिदिध्यासने फले जनयितव्ये शब्दस्य सहकारिणं सम्पादयतः श्रवणं तु तस्य जनकतामेवेति विशेषात्। यत्र च नैवं, तत्र तुल्यवदङ्गतैव। एतेन- "यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्याद् ऊर्गित्यन्नाद्यकामाय ऊ इति स्वर्गकामाये'ति श्रुतानां वृष्ट्यादिफलाय सौभरेतिकर्त व्यतानिधनगतहीषादीनां श्रवणमननादिवत् परस्परमङ्गाङ्गिभावप्रसङ्ग इति निरस्तम्, करणस्वरूपसम्पादकत्वसहकारिसम्पादकत्वरूपतत्प्रयोजकस्यात्रेव तत्राभावात्। न च एवं करणापूर्वोत्पत्तौ यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ तदर्थः प्रयाजादिः शेषः स्यादिति वाच्यम्, एकफल उभयोर्यागार्थत्वाभावेन विशेषात्। ननु क्लृप्तं परोक्षज्ञानं लोके शब्दस्य फलम्। तथा च शब्दातिशयाधायकस्य श्रवणस्य साक्षात्कारफलजनकाङ्गित्वं कथमिति चेत्, साक्षात्त्वं न जातिः न वा इन्द्रियजन्यत्वादिकं नियामकम्, किन्तु विषयगताज्ञाननिवर्तकत्वमेवापरोक्षत्वे प्रयोजकम्। तथा चाज्ञाननिवर्तकत्वं विषयपर्यन्तत्वेन। तच्चात्मपर्यन्तत्वादत्रास्त्येवेति नादृष्टकल्पना। इत्थं च प्रकरणबलादपि सिद्धमस्याङ्गित्वम्, श्रवणस्य फलसम्बन्धेन प्राधान्यसिद्धावितिकर्तव्यताकाङ्क्षायाः संभवात्।

                ननु यद्यपि चित्तैकाग्र्यस्य सूक्ष्मवस्तुज्ञानहेतुत्वं दृष्टमस्ति, तथापि मननं न चित्तैकाग्र्यहेतुः युक्त्यनुसन्धानरूपमननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टात्वेन चित्तैकाग्र्यहेतुत्वकल्पने सति दृष्टहान्यापत्तेः मननविधेरपूर्वविधित्वापाताच्च `मतिर्यावदयुक्तते'ति स्मृतिविरोधाच्चेति चेन्न, तादृक्छङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्तत्वेनावधारणविषयकोटौ चित्तप्रवणतायास्तावत्पर्यन्तत्वस्य दृष्टत्वेन दृष्टहान्यापूर्वविधिस्मृतिविरोधाभावात् निदिध्यासनस्य तु विपरीतभावनानिवर्तकता सकलसिद्धा। ननु तन्निवृत्तेः न ज्ञानहेतुता दृष्टा रूप्यसंस्कारानुवृत्तावपि शुक्तिसाक्षात्कारदर्शनादिति चेत्, `इयं शुक्ति'रिति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कारसत्त्वेऽपि तद्रजतमित्यस्मरणेन विपरीतसंस्कारनिवृत्तेस्तत्रापि सत्त्वात्।

                ननु शब्दसामर्थ्यरूप लिङ्गेन `ततस्तु तं पश्यते निष्कलं ध्यायमान' इत्यादि वाक्येन निदिध्यासनस्य फलसम्बन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपत्याङ्गमिति चेन्न, निदिध्यासनपदस्य बर्हिर्देवसदनमित्यादाविव साक्षात्काररूपफलसम्बन्धे न शक्तिरिति शब्दसामर्थ्याभावात्। वाक्येऽपि योग्यताबलाच्छ्रवणमेवाध्याह्नियते। तथा च तच्छ्रवणाद्ध्यायमानो निष्कलं ब्रह्म पश्यतीत्यनुकूलार्थस्यैव पर्यवसानात्। तस्मात् "द्रष्टव्यः श्रोतव्य' इति दर्शनेनाव्यवहितपाठरूपसन्निधानात् श्रवणस्य दर्शनेन साक्षादन्वयाङ्गित्वम्। किञ्च निदिध्यासनरूपभावनाप्रकर्षजन्यत्वे साक्षात्कारस्य कामिनीसाक्षात्कारवत् अप्रमात्वापातः। न च मूलप्रमाणदाढ्यर्यात् प्रमात्वं तर्हि तदेव साक्षात् करणमस्तु ? किं तदुपजीविनान्येन ? एतेन निदिध्यासनसहकृतमनःकरणत्वमपि निरस्तम्।। इत्यद्वैतसिद्धौ मनननिदिध्यासनयोः श्रवणाङ्गत्वम्।। 1 ।।

[3-1]

 

[3-2]

                                2. श्रवणादिविधेः विवरणोक्तनियमविधित्वभङ्गः

 

                तच्च श्रवणादिकं विषयावगमं प्रत्यन्वयव्यतिरेकसिद्धोपाय इति तद्विधेर्नापूर्वविधित्वम्, किन्तु नियमविधित्वमेव। ननु अत्र श्रवणस्यापरोक्षफलं प्रति साधनत्वम्। तच्चान्यतो नावगतमित्यपूर्वविधित्वमिति चेन्न। गान्धर्वशास्त्रविचारे षड्‌जादिसाक्षात्कारे हेतुताया दृष्टत्वात्। न च एतावता शास्त्रविचारः सर्वत्रार्थसाक्षात्कारहेतुरिति न सिद्धम्, धर्मशास्त्रविचारे व्यभिचारादिति वाच्यम्, अपरोक्षार्थकशास्त्रविचारत्वेन साक्षात्कारजनकतायास्तद्दर्शनबलेन सिद्धेः। आत्मा च षड्‌जादिवदपरोक्षः, न धर्मादिः। न च अपरोक्षे विचारवैयर्थ्यम्, न हि यद्यदपरोक्षं तत्तद्विचार्यत इति नियम इति वाच्यम्। अपरोक्षे विचार्यत्वनियमाभाववदविचार्यत्वनियमोऽपि नास्ति। षड्जादावपरोक्षेऽपि विचार्यत्वदर्शनात् तद्वदेव साफल्यसम्भवाच्च। सन्दिग्धत्वसप्रयोजनत्वयोरेव सर्वत्र विचार्यत्वे प्रयोजकत्वात्। एतेन विचार्यशास्त्रार्थस्य साक्षात्कारयोग्यस्य साक्षात्कारे स हेतुरिति न युज्यते। कालान्तरे साक्षात्करिष्यमाणत्वेन तद्योग्ये विचार्यशास्त्रार्थे स्वर्गनिध्यादौ विचारेण तदभावादिति निरस्तम्। निध्यादिसाक्षात्कारे तदसन्निकर्षादजातेऽपि विचारस्य तद्धतुता न गच्छति। तत्र विचार इन्द्रियसहकारित्वेन तद्विलम्बेन विलम्बात्, प्रकृते तु शाब्दत्वात् साक्षात्कारस्य न तदपेक्षा, अपरोक्षयोग्यार्थसात्कारत्वेन कार्यत्वस्य तादृशार्थकशास्त्रविचारत्वेन साधनत्वस्य सत्त्वात्। एतेन प्रकृतकार्यविजातीयकार्ये प्रकृतविचारविजातीयविचारस्य हेतुताक्लृप्तिमात्रेण तस्यापूर्वविधित्वत्यागे अपूर्वविधिमात्रोच्छेदापात इति निरस्तम्।

                ननु पाक्षिकप्राप्तौ नियमः, सा च साधनान्तरप्राप्तौ, न च रूपादिरहितात्मज्ञाने तत्प्राप्तिरस्तीति चेन्न। निर्विशेषात्मनि मानान्तराप्राप्तावपि आत्मनि सामान्यतस्तत्प्राप्तिरस्तीति नियमसम्भवात्। यथाऽपूर्वीयेषु व्रीहिविशेषेषु नखविदलनादेरप्राप्तावपि व्रीहिसामान्ये तत्प्राप्त्या व्रीहीनवहन्तीति नियमविधिः।

                ननु व्रीहीनवहन्तीत्यत्र व्रीहिपदमपूर्वीयद्रव्यपरं न तु व्रीहिमात्रपरम्, अन्यथा यवेष्ववघात औपदेशिको न स्यात्, नीवारेषु च व्रीहित्वाभावेनातिदिष्टोऽपि बाध्येतेति नवमे स्थापितत्वेनापूर्वीयद्रव्य एव नखविदलनादिप्राप्तिर्वक्तव्या। अन्यथा वैतुष्यमात्रे अवघातनियमे द्रव्यार्जने याजनाद्युपायनियमवत् तस्य पुरुषार्थत्वप्रसङ्गेन लौकिकेष्वपि व्रीहिषु दलने प्रत्यवेयादिति चेन्न, नियम्यमानावघातस्यापूर्वीयद्रव्यमात्रविषयत्वेऽपि सामान्यविषयकप्राप्त्यैव नियमोपपत्तौ विशेषविषयप्राप्तेरनपेक्षितत्वात्। न च निर्विशेषसविशेषरूपविशिष्टद्वयानुगते विशेषाभावादिद्वारा वेदान्तवेद्ये चिन्मात्रे न मानान्तरप्राप्तिरिति वाच्यम्। उभयानुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तेः सत्त्वात्। सजातीये प्राप्त्यापि यत्र सजातीयान्तरे नियमसम्भवः, तदा किमु वाच्यमेकस्मिन्नेवात्मनि अवस्थाविशेषेण मानान्तरप्राप्त्या विशेषान्तरे नियम इति। न च एवं विशेषान्तरे प्राप्त्या विशेषान्तरनियमे वैयधिकरण्यमिति वाच्यम्, व्यक्तिसामानाधिकरण्याभावेऽपि अनन्यगत्या सामान्यधर्ममादाय सामानाधिकरण्याङ्गीकारात्।

                ननु अत्रान्यैव गतिरस्ति अपूर्वीयव्रीहिषु नियमादृष्टाजनकस्यापि दलनस्य प्राप्तिरस्ति। न हि यत्र तेन वैतुष्यसम्पादनं तत्र तत्प्राप्तिः, किन्तु शक्तत्वेन प्रसक्तिमात्रमिति चेन्न, एवं तद्योग्यत्वमिति पर्यवसितोऽर्थः। तच्च तज्जातीयेऽन्वयी न तु तत्र, तथा च वैयधिकरण्यतादवस्थ्यम्। प्रकृते च सविशेषनिर्विशेषरूपदशाद्वयानुगतैकात्मविषयतया वैयधिकरण्यशङ्कानवकाशाच्च।

                तत्त्वकौमुदीकृतस्तु- `यथा मन्त्रार्थज्ञानस्य कल्पसूत्रात्मीयग्राहकवाक्यादिनापि प्राप्तत्वेन पक्षे अप्राप्तमन्त्रसाध्यत्वं नियम्यते मन्त्रैरेव स्मृतिः साध्येति तथा वेदान्तमूलस्त्रीशूद्रसाधारणस्मृतिपुराणादिप्राप्त्या पक्षे अप्राप्तवेदान्तश्रवणादिपरिपूरणार्थो नियमः । `तस्मात् न ब्राह्मणोऽवैदिकमधीयीत' इति श्रुतेः `श्रोतव्यः श्रुतिवाक्येभ्य' इत्यादिस्मृतेश्चेति आहुः। न च `इतिहासपुराणाभ्यां वेदं समुपबृम्हये'दित्यादिस्मृतिविरोधः, अविचारितेन उपबृम्हणायोगादिति वाच्यम्, वेदान्ततात्पर्यनिर्णयाय तद्विचारापेक्षायामपि ब्रह्मज्ञाने तद्विचारापेक्षाविरहात्। न च कर्मविषयकस्मृतिभिः कर्मज्ञानस्येव ब्रह्मविषयात् भारतादेरितिहासादपि साक्षात् ब्रह्मज्ञानस्योदयात् ब्रह्मज्ञानेऽपि तदपेक्षेति वाच्यम्, उभयत्रपि स्मृत्यादेः स्वातन्त्र्येणाप्रमाणतया श्रुतितात्पर्यनिर्णायकत्वात्। अत एवोक्तं- `वेदं समुपबृम्हये'दिति, न तु वेदार्थं जानीयादिति। यत्तु- `श्रोतव्यः श्रुतिवाक्येभ्य' इत्यादिकं श्रुतिमूलप्रमाणाभिप्रायकम् इति तन्न, पञ्चमीप्रतीतहेतुत्वस्य साक्षात् सम्भवे पारम्पर्यकल्पनायोगात्।

                न च विप्रकीर्णनानाशाखार्थसङ्ग्रहादिरूपेणेतिहासादिना तत्त्वनिश्चयदर्शनात् सति च तस्मिन् विविदिषाद्वारा तदर्थाया अन्तकरणशुद्धेरनपेक्षितत्वात् आपरोक्षस्य विषयभावादेव सिद्ध्या वेदजन्यब्रह्मज्ञाने इतिहासजन्यादधिकस्यापरोक्ष्यस्याननुभवेन तस्य नियमादृष्टासाध्यत्वात् ज्ञानस्य च स्वप्रागभावनिवर्तन इवि अज्ञाननिवर्तने अदृष्टनिरपेक्षत्वात्, अन्यस्य च नियमादृष्टसाध्यस्याभावात् न नियमविधिरिति वाच्यम्, `तमेतं वेदानुवचनेने'त्यादि श्रुतिबलात् यज्ञादिजन्यादृष्टस्य नियमादृष्टस्यच विविदिषाद्वारकान्तःकरणशुद्धेरेव सर्वादृष्टसाध्यायाः सम्भवेन ज्ञानस्वरूपोपकारितया तत्साध्याज्ञाननिवृत्तौ तदपेक्षत्वाच्च विद्यायुक्ततदयुक्तकर्मजन्यफलगतचिराचिरस्वरूपातिशयवत् नियमादृष्टजन्यसाक्षात्कारे तदजन्यतत्त्वनिश्चयापेक्षयातिशयकल्पनस्यावश्यकत्वाच्च नियमविधित्वसम्भवात्। तस्मात्-

                नियमादृष्टसाध्यस्य व्यावर्त्यस्यापि सम्भवात्।

                श्रवणादेर्नियमनं सर्वथैवोपपद्यते।। इति ।

                अत एव शूद्रप्रणीतात्मप्रबन्धादिप्राप्तिनिमित्तकाप्राप्तांशपूरणार्थो नियमविधिरित्याचार्यान्तरोक्तिरपि व्याख्याता। इति विवरणोक्तनियमोपपत्तिः।। 2 ।।

[3-2]

 

[3-3]

                                3. परमते श्रवणादिविध्यनुपपत्तिः

 

                ननु किमिदं श्रवणं नाम ? शक्तितात्पर्यावधारणं वा ? तद्विशिष्टशब्दावधारणं वा ? तात्पर्यप्रमापकलिङ्गावधारणं वा ? आगमाचार्योपदेशजज्ञानं वा ? नाद्यः, अवाच्ये ब्रह्मणि शक्त्यसम्भवात्। तात्पर्यमपि न तावदापातधीजन्यस्य विचारनिवर्त्यस्य संशयस्य धर्मिणि, तस्य प्रागेव निश्चितत्वेन तन्निश्चयार्थं तात्पर्यनिश्चयसाधनस्य विचारस्य वैयर्थ्यात्, अन्यथा विचारानन्तरमपि संशयादिप्रसङ्गात्। नापि संशयधर्मिगतप्रकारविशेषे तद्विशिष्टे तदुपलक्षिते वा, अखण्डार्थताहानेः, अवधारणस्य ज्ञानत्वे विधेयत्वस्य त्वयानङ्गीकारात्। अत एव न द्वितीयादि। नापि गुरुमुखाद्वेदान्तानां ब्रह्मणि सम्योजनं श्रवणम्, तस्याद्यपक्षानतिरेकात्। नापि वाक्यविशेषप्रयोगरूपवादकथा श्रवणम्, तत्र श्रवणपदाप्रयोगात्। अत एव मनननिदिध्यासनयोरपि न विधिः, तयोरपि ज्ञानानतिरेकादिति चेन्न, आद्यपक्षस्यैव क्षोदक्षमत्वात्। न च तत्र शब्दशक्त्यसम्भवो दोषः, शुद्धेशक्त्यसम्भवेऽपि विशिष्टशक्तेस्तद्वोधोपयोगिन्या अवधारणीयायाः सम्भवात्, तात्पर्यस्यापि संशयधर्मिणो निश्चितत्वेन तत्रासम्भवेऽपि संशयकोट्युपलक्षिते निर्विशेषे सम्भवेन विचारवैयर्थ्यात्। न चाखण्डार्थताहानिः, स्वरूपमात्रोपलक्षकतया अखण्डार्थताया उपपादितत्वात्। न चावधारणस्य ज्ञानरूपतया अविधेयता, तस्य तर्कत्वेन ज्ञानविजातीयचेतोवृत्त्यन्तरत्वात्, सुरेश्वराचार्यैः `श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नत' इति श्रवणादौ क्रियापदप्रयोगात्। एवमेव मनननिदिध्यासनयोरपि विधेयावमुक्षेयम्। न च ताप्तर्यरुपे विषये उपक्रमादिरूपे च प्रमाणे सति जायमानस्य तस्य ज्ञानबहिर्भावानुपपत्तिः तद्बहिर्भूतवाग्धेनूपासनादौ प्रमाणवस्तुपरतन्त्रत्वादर्शनादिति वाच्यम्, मन्मते लिङ्गस्य प्रामाण्यानभ्युपगमेन सति प्रमाण इत्यस्यैवाभावाद्, उपक्रमादेः प्रमाणत्वपक्षे तत्पूर्वकालीनत्वेनास्य प्रमाणे सतीत्येतदंशासिद्धेः। तस्मात् श्रवणादेरधीरूपतया मनोव्यापारत्वेन विधेयत्वोपपत्तिः। सिद्धान्तबिन्दुकल्पलतिकयोर्विस्तरः।

                यच्चानुवादित्वादिवर्णनं वाचस्पत्ये, तत् प्रस्थानान्तरत्वान्न विधित्वोक्तिविरोधि।। इत्यद्वैतसिद्धौ श्रवणादेर्विधेयत्वोपपत्तिः।। 3 ।।

[3-3]

 

[3-4]

                                4. श्रोतव्यः इत्यादेरनुवादकत्वभङ्गः

 

[3-4]

 

[3-5]

                                5. श्रवणविधेर् विवरणोक्तविचारविधायकत्वभङ्गः

 

                एवं विचारविधायकश्रवणविधिरेव जिज्ञासासूत्रमूलम्। न च विचारविधौ श्रवणसाध्यापरोक्षज्ञानाधीनाया अपरोक्षज्ञानकामनाया अधिकारिविशेषणत्वाङ्गीकारेण अन्योन्याश्रयापात इति वाच्यम्। अधीतवेदस्य विदितपदपदार्थसङ्गतिकस्यापाततो जायमानपरोक्षज्ञानाधीनापरोक्षज्ञानकामनाया अधिकारिविशेषणत्वेनोक्तान्योन्याश्रयानवतारात्। न च जिज्ञासासूत्रोक्तो विचारस्तत्त्वनिर्णायकन्यायानुसन्धानरूपः, अन्यथा न्यायग्रथनात्मकशास्त्रारम्भसिद्धये तत्कर्तव्यतोक्त्ययुक्तेः, इतरस्य वेदेतिकर्तव्यतात्वानुपपत्तेश्च। श्रवणं च नोक्तन्यायानुसन्धानरूपं मननाभेदप्रसङ्गात्। अतो न श्रवणविधिजिज्ञासासूत्रयोर्मूलमूलिभाव इति वाच्यम्। जिज्ञासासूत्रस्य श्रवणविधिसमानविषयकतया मूलमूलिभावाभावेऽपि श्रवणविधिविषयशक्तितात्पर्यावधारणात्मकश्रवणाक्षिप्तोपक्रमोपसंहारादितात्पर्यलिङ्गविचारमादाय समानविषयत्वसम्भवेन तदुपपत्तेः। मननं तु श्रुतस्यार्थस्य युक्तिभिश्चिन्तनमिति न तदभेदोऽपि, अर्थाक्षिप्तविचारस्येतिकर्तव्यतात्वेऽपि तात्पर्यावधारणरूपे श्रवणे उक्तस्याङ्गित्वस्यानपायात्। यत्तु युक्तिभिरनुचिन्तनं नाम यदि श्रवणनिश्चितस्य तात्पर्यस्य तद्विषयशब्दस्य वा स्मरणम्, प्रत्यभिज्ञानं वा, संस्कारदार्ढ्यफलकं श्रवणसमानाकारमभिज्ञान्तरं वा, तर्हि तस्यावश्यकश्रवणावृत्त्यैव सिद्धेः मननविधिवैयर्थ्यम्, त्रिविधस्यापि तस्य श्रवणानन्तर्गतयुक्त्यनपेक्षत्वेन श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिरितिस्मृतिविरोधश्च, `श्रवणं यावदज्ञानं मतिर्यावदयुक्तता' इति मननस्य श्रवणानिवर्तितायुक्तत्वशङ्कानिवर्तकत्वप्रतिपादकस्मृतिविरोधश्च इति। तन्न, अनुचिन्तनस्य श्रुतार्थविषयकयुक्तायुक्तत्वादिसंशयनिवर्तकयुक्त्यनुसन्धानरूपत्वेन विवक्षिततया त्वदुक्तदोषानवकाशात्। न च एवं युक्तायुक्तत्वसंशयादेः संशयपूर्वपक्षसिद्धान्तात् मीमांसाशास्त्रारम्भोपयुक्तविचारकर्तव्यतां प्रतिपादयदाद्यसूत्रं मननविधिमूलमेवस्यात्, न तु श्रवणविधिमूलमिति वाच्यम्। तात्पर्यविषययुक्तायुक्तत्वादिसंशयादिनिवर्तकविचारापेक्षया तात्पर्यनिर्णायकश्रवणाक्षिप्तलिङ्गविचारस्याभ्यर्हिततया तदाक्षेपकश्रवणविधिमूलत्वस्यैव वक्तुं शक्यत्वात्, युक्तायुक्तत्वविचारस्यानुषङ्गिकत्वाच्च।

                यद्वा समन्वयाध्यायोक्ततात्पर्यनिश्चायकोपक्रमादियुक्त्यनुसन्धानं श्रवणं द्वितीयाध्यायोक्तार्थासत्त्वशङ्कानिवर्तकयुक्त्यनुसन्धानं मननम्। ननु एवं विवरणोक्तिविरोधः, यौक्तिकासम्भावनाविपरीतभावनानिरासितर्काणां प्रथमज्ञानान्तर्भूतत्वाद् इत्यादिना अर्थापत्तीनामपि श्रवणान्तर्गतिमुक्त्वा "ब्रह्मात्मत्वविपरीतभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्यत्वमसम्भावना विपरीतभावना तु शरीराध्याससंस्कारप्रचयः" इत्यादिना असम्भावनानिवर्तकस्य मननस्यार्थनिश्चयानन्तरभाविभावनाप्रचयहेतुचित्तैकाग्र्यहेतुताया एवोक्तत्वादिति चेन्न, भिन्नप्रस्थानतया विवरणविरोधस्याकिञ्चित्करत्वात्। न च जिज्ञासासूत्रस्यांशे मननविधिमूलत्वापातः, समन्वयोक्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वस्यैव वक्तव्यत्वोपपत्तेः।

                ननु `मन्तव्यश्चोपपत्तिभि'रिति स्मृतिगतोपपत्तिशब्दस्य मतिर्यावदयुक्ततेति स्मृतिस्थायुक्त शब्दस्य श्रोतव्यः श्रुतिवाक्येभ्य इति श्रुतिशब्दस्येव सामान्यपरत्वाहानेन `आदौ यच्छ्रद्धया सिद्धं पश्चान्न्यायेन साधितम्' इति न्यायेन युक्त्यनपेक्षश्रद्धामात्रेण प्रतिवाक्यमयमस्य वाक्यस्यार्थ इति गुरुमुखाद्वेदार्थग्रहणं श्रवणं पश्चात् न्यायानुसन्धानं मननमिति भेदसम्भवे युक्तिष्वेव श्रवणमननभेदकथनायोग इति चेन्न, वाक्यार्थग्रहणस्य प्रमारूपतया अविधेयत्वस्योक्तत्वात्। ननु उक्तस्य वाक्यार्थग्रहणस्य श्रवणादित्रयानन्तर्भावे चतुर्थस्यापि मुमुक्ष्वनुष्ठेयत्वापात इति चेन्न, तस्य ज्ञानरूपतया अनुष्ठानानर्हत्वात्, श्रद्धामात्रात् स्वत एव जातत्वेनापुन्तन्त्रत्वाच्च। न चैवं केवलं गुरुमुखात्तदर्थं श्रुतवति श्रुतमनेनेति प्रयोगानुपपत्तिः, विधेयत्वान्यथानुपपत्त्या अर्थान्तरत्वे स्थिते अस्य प्रयोगस्य गौणतादिना कथञ्चिदुपपादनीयत्वात्। अत एव स्मृतिगतोपपत्त्ययुक्ततापदयोर्न सामान्यपरता। न च प्रमाणभूतश्रुतितात्पर्ये निश्चिते अर्थसत्वार्थमुपपत्यपेक्षायोगीन मननस्यार्थासत्वरूपाप्रामाण्यशङ्कानिवर्तकत्वे वक्तव्ये निश्चितप्रामाण्यस्य पुंसो मननाभावप्रसङ्ग इति वाच्यम्। तादृशं प्रति तदभावस्येष्टत्वात्, कृष्णले अतिदेशप्राप्तस्यावघातस्य द्वारबाधेन बाधदर्शनात्। तस्मात्तात्पर्यावधारणं श्रवणम्। तच्च लिङ्गविचाराधीनमिति विचारकर्तव्यतापरमाद्यसूत्रं श्रवणविधिमूलकम्, न तु मननविधिमूलकमिति सिद्धं जिज्ञासासूत्रस्य श्रवणविधिमात्रमूलकत्वम्।।

                ननु त्वन्मते कर्मकाण्डविचारो यथोत्तरक्रतुविधिप्रयुक्तः, तथा ब्रह्मकाण्डविचारोऽपि मानविधिप्रयुक्त इत्येव किं न स्यात् ? उत्तरक्रतुविधिभिः स्वानुष्ठाप्यार्थनिर्णयान्तविचारस्येव `तरति शोकमात्मवि'दित्यादिना शोकनिवृत्तिहेतुत्वेनावगतेनात्मज्ञानेन स्वसिद्धये वेदान्तविचारस्याक्षेपात्। युक्तं चानेकेषां क्रतुविधीनामाक्षेपकत्वादप्ये- कस्यैवाक्षेपकत्वमिति चेन्न, यद्यपि कार्येण कारणाक्षेपः सम्भवति, तथापि तस्य वैधत्वसिद्ध्यर्थं विधिमूलत्वस्यावश्यं वक्तव्यत्वात्। अन्यथा कर्मकाण्डविचारस्यापि कर्मज्ञानादेवाक्षेपे अध्ययनविधेर्वोत्तरक्रतुविधीनां वा आक्षेपकत्वोक्तिरयुक्ता स्यात्, मननविधिमूलत्वं वदता त्वयापि अस्याक्षेपस्यावश्यं परिहरणीयत्वात्। एतेन अर्थावगमपर्यन्ताध्ययनविधिप्रयुक्तत्वस्य कर्मविचारवद् ब्रह्मविचारेऽपि संभवे न श्रवणविधिप्रयुक्तत्वम्। न च साक्षात्कारफलकमावृत्तिगुणकं मननाद्यङ्गकमिदं श्रवणमध्ययनविधिप्रयुक्तश्रवणमात्राद् भिन्नमिति विध्यन्तरं युक्तमिति वाच्यम्, ब्रह्मविचारस्याप्यध्ययनविधिप्रयुक्तत्वेऽपि साक्षात्कारस्यापरोक्षैकरसात्मविषयत्वेनैव सिद्धेः, आवृत्तेश्च विध्यन्तराङ्गीकारेऽपि अवघातवद् दृष्टफलत्वेन वक्तव्यत्वात् कर्मकाण्डेऽपि तात्पर्यावधारणपर्यन्तविचारावृत्तेरपेक्षितत्वात्, ततः परं ब्रह्मकाण्डेऽपि तदावृत्तेरनपेक्षितत्वात्। मननस्य च कर्मकाण्डेऽपि तदर्थनिश्चयायापेक्षितत्वादध्ययनविधिविहितैकदेशारण्यकाध्ययनानुवादेन वाक्यान्तरेणारण्याद्यङ्गान्तरविधानवत् मुण्डककारीर्याद्यध्ययनानुवादेन शिरोव्रतभूमिभोजनाद्यङ्गविधानवत् `तां चतुर्भिरादत्त' इत्यर्थप्राप्ताभ्यादानानुवादेन सङ्ख्याविधानवच्छाध्ययनविध्याक्षिप्तविचारैकदेशानुवादेन त्वद्रीत्या मननाद्यङ्गविधानस्य सम्भवादिति निरस्तम्, मननविधिमूलत्ववादिनोऽपि समानत्वादध्यनविधेः स्वाध्यायावाप्तिफलकतया अर्थज्ञानफलकत्वाभावाद्, अध्येतव्य इति कर्मप्रधानतव्यप्रत्ययेन स्वाध्यायस्यैव फलत्वावगमात्। न च तस्यापुरुषार्थतया फलवदर्थावबोधपर्यन्तं व्यापारः, `चित्रया यजेत पशुकाम' इत्यादावपि काम्यमानपश्वादेरप्यफलत्वापत्तेः, परम्परया पुरुषार्थसाधनतया फलत्वे प्रकृतेऽपि तस्य सम्भवात्। तस्माच्छ्रवणविधिर्मूलं विचारविधायकजिज्ञासासूत्रस्य, न तु मननविधिरिति सिद्धम्।। इत्यद्वैतसिद्धौ विचारस्य श्रवणविधिमूलत्वोपपत्तिः।। 5 ।।

[3-5]

 

[3-6]

                                6. अध्ययनविधेर् नित्यत्वेऽपि विचारविधायकत्वम्

 

                प्रस्थानान्तरे तु अध्ययनविधेरेवार्थावगमपर्यन्तत्वात् काण्डद्वयविचाराक्षेपकत्वम्, श्रवणादिषु च न विधिः। तेषामन्वयव्यतिरेकसिद्धसाक्षात्कारसाधनताकत्वादित्युक्तम्। न च अध्ययनाभावे प्रत्यवायश्रवणादध्ययनस्य नित्यताया अप्यवगमात् कथं तस्यार्थावगमपर्यन्तत्वमिति वाच्यम्, अर्थज्ञानार्थत्वेऽपि अध्ययनविधेरवैयर्थ्याय अधीतेनैव वेदेन कर्तव्यतां ज्ञात्वा अनुष्ठितं कर्म फलायालमित्यादिनियमाश्रयणादसत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्ध्या प्रत्यवायश्रवणोपपत्तिः। तथा चार्थज्ञानार्थस्यापि अध्ययनस्य फलतो नित्यत्वमिति केचित्। अपरे तु अनध्ययने सन्ध्यानुपासन इव साक्षात् प्रत्यवायश्रवणेनाध्ययनस्यादृष्टत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च तादर्थ्यमपीत्युभयार्थता पशुपुरोडाशादिवदिति आहुः। अत्र चाध्ययनविधेर्नित्यत्वे सत्युभयविचाराक्षेपकत्वं परेणाप्यङ्गीकृतं, तदयुक्तम्, जिज्ञासासूत्रस्य मननविधिमूलत्ववादिनस्तस्य तदङ्गीकारानर्हत्वात्, अयुक्तत्वशङ्कानिवर्तकमननरूपविचारस्यापि अध्ययनविध्याक्षिप्तत्वेन तत्र विधिवैयर्थ्यात् सूत्रस्य तन्मूलत्वासिद्धेः।। इत्यद्वैतसिद्धौ वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वस्योपपत्तिः।। 6 ।।

[3-6]

 

[3-7]

                                7. स्वमते श्रवणादिविधिसमर्थनम्

 

                यत्तु शब्दजज्ञानस्वरूपमेव श्रवणं विधेयमिति, तन्न, आपातदर्शनस्य तद्विना जायमानत्वात्। न च तद्भिन्ने प्रतिवाक्यमस्य वाक्यस्यायमर्थ इति सिद्धार्थोपदेशेनानेकशाखास्थवाक्यार्थज्ञानम्, वेदान्तरूपवाक्यार्थविचारस्य सामान्यतः साधनत्वेन प्राप्तत्वात्। न च यथा घटादावितरभेदे सिद्धेऽपि पृथिवीइरेभ्यो भिद्यत इत्यत्र न सिद्धसाधनम्, यथा च स्थानप्रकरणाधिकरणोक्तरीत्या राजसूयान्तर्गतेष्टिपशुसोमेषु प्रातिस्विकरूपेण चोदकत इतिकर्तव्यताप्राप्तावपि राजसूयरूपे तदप्राप्तिः, तथा वेदान्तविचारत्वोपहिते ब्रह्मज्ञानहेतुताया अप्राप्तेरपूर्वविधितेति वाच्यम्, सामान्यतः प्राप्तसाधनसाध्यभावमनादृत्य विशेषोपाधिना आप्राप्तसाधनत्वप्राप्तये अपूर्वविध्यङ्गीकारे ज्योतिष्टोमादिवाक्यविचारेऽपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनतासिद्धये अपूर्वविध्यन्तरकल्पनापत्तेः।

                एतेन निदिध्यासनस्याव्यक्तस्वभावब्रह्मसाक्षात्कारहेतुता नान्यतः प्राप्तेति स तावदपूर्वविधिः, तथा अज्ञातादौ निदिध्यासनासम्भवेन श्रवणमननयोर्निदिध्यासने लिङ्गादेव प्राप्तावपि नियतविषयकनिदिध्यासनविषयगुणान्यगुणेषु लिङ्गेन तयोरप्राप्तेः तद्विधिरप्यपूर्वविधिरेव, एवं च श्रवणमननयोर्निदिध्यासितव्यगुणांशे दृष्टद्वारेण, अन्यत्र त्वदृष्टद्वारेण निदिध्यासनाङ्गतेति- निरस्तम्। श्रवणादीनां निर्गुणविषयतया सगुणविषयत्वाभावात्, विपरीताङ्गाङ्गिभावस्य स्थापितत्वाच्च, सूक्ष्मार्थगोचरनिदिध्यासनस्य तादृशार्थविषयकसाक्षात्कारहेतुताया दृष्टत्वेनापूर्वत्वाभावाच्च।। 7 ।।

[3-7]

 

[3-8]

                                8. ज्ञानविधिसमर्थनम्

 

                ननु अत्र श्रूयमाणलिङादेः का गतिरिति चेत्, शिलातलप्रयुक्तक्षुरतैक्ष्ण्यवत् कुण्ठीभावात् `जर्तिलयवाग्वा वा जुहुया'दित्यादाविवार्थवादत्वमेव। न च `पत्न्यवेक्षितमाज्यं भवति', `विदुषा कर्म कर्तव्यं तस्मात् पश्येत नित्यशः।' इत्यादिना ज्ञानस्यापि विधानं दृष्टमिति वाच्यम्, तत्र तद्धेत्विन्द्रियसंयोगादेर्विधेयत्वाद् अनन्यगत्या लक्षणाया इष्टत्वात्। न च `न विधौ परः शब्दार्थ' इत्यनेन विरोधः `गोभिः श्रीणीत मत्सर'मित्यादौ विधिवाक्येऽपि लक्षणादर्शनेन तस्यौत्सर्गिकत्वाद्, अर्थवादानुरोधेनविधौ न परः शब्दार्थ इत्यर्थकत्वाच्च। न च साक्षात्कृतिसाध्यत्वस्य इन्द्रियसम्प्रयोगेऽप्यभावाद् इन्द्रियनिष्ठक्रियाद्वारा परम्परया कृतिसाध्यत्वस्य ज्ञानेऽपि सम्भवाद्, अनिच्छतो दुर्गन्धादिज्ञानवद् अनिष्ठसम्प्रयोगस्यापि दर्शनाच्च ज्ञानसाम्यं संयोगस्येति वाच्यम्, स्वर्गादाविव स्वेच्छाधीनकृतसाध्यत्वस्य विधेयताप्रयोजकस्य ज्ञाने अभावात्, सम्प्रयोगस्य तु तद्वैपरीत्येन विशेषात्। न च `भक्षेही'ति भक्षमन्त्रेषु तृप्तेरनुनिष्पादिततयाऽननुष्ठेयत्वेन तृप्तिप्रकाशभागस्य तत्र विभज्य विनियोगाभावेऽपि अवेक्षणस्यानुष्ठेयत्वात् तत्प्रकाशकभागस्य अवेक्षणो विनियोग इति तृतीयाध्यायोक्तिविरोध इति वाच्यम्, इन्द्रियसम्प्रयोगरूपावेक्षणस्य तृप्त्यादिवदनुनिष्पादित्वाभावेनानुष्ठेयतया तत्प्रकाशकभागस्य तस्मिन्विभज्य विनियोग इत्येवम्परत्वात्। यच्च एकश्रोत्रगतानेकगकारेषु बुभुत्साप्रयत्नाभ्यामभीष्टगकारज्ञानदर्शनेन ज्ञानस्यापि विधेयत्वमिति, तन्न, अनभिमतविषयवैमुख्यस्यैव बुभुत्साप्रयत्नसाध्यतया ज्ञानं प्रति तयोरजनकत्वात्। न च- "यदेव विद्यया करोती"ति विद्याया अङ्गत्वश्रवणाद् अविहितस्य चाङ्गत्वानुपपत्त्या विद्याया विधेयत्वमिति वाच्यम्, तस्य वाक्यस्योद्‌गीथोपासनाप्रकरणस्थतया तत्रत्यविद्यापदस्य उपासनापरतया विहितत्वेनाङ्गत्वाविरोधात्, `तन्निर्धारणानियमस्तद्‌दृष्टे'रित्यत्र विद्याया अङ्गावबद्धाया अङ्गत्वनिरासेऽपि न विधेयत्वहानिः।

                ननु यथा दुर्गन्धादिज्ञानस्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वम्, यथा च ज्ञानान्तरस्य नियमादृष्टासाध्यत्वेऽपि ब्रह्मज्ञानस्य तत्साध्यत्वम्, यथा पर्वतादिज्ञानस्य नयनोन्मीलने सति प्रयत्नान्तरनिरपेक्षत्वेऽपि ध्रुवारुन्धत्यादिज्ञाने तत्सापेक्षत्वम्, तथाऽतिसूक्ष्मब्रह्मज्ञानस्य इच्छाप्रयत्नसाध्यत्वसम्भव इति चेन्न, प्रामाणिकदृष्टविजातीयकिञ्चिद्धर्मदर्शनेनाप्रामाणिकवैजात्यस्य कल्पयितुमशक्यत्वात्, प्रयत्नान्वयव्यतिरेकयोश्च ज्ञानसाधनजनने उपक्षीणतया ध्रुवारुन्धात्यादिनिदर्शनान्यथासिद्धतया तन्न्यायेन ब्रह्मज्ञाने कृतिसाध्यत्वस्य वक्तुमशक्यत्वाच्च। न च शास्त्रार्थज्ञानस्य नियमेन पुंतन्त्रत्वदर्शनाद् ब्रह्मणश्च शास्त्रार्थत्वात् तज्ज्ञानस्य पुंतन्त्रत्वमिति वाच्यम्, तत्रापि ज्ञानसाधनस्यैव पुंतन्त्रत्वात्। यच्च प्रशस्ताप्रशस्तज्ञानयोर्विधिनिषेधदर्शनम्, तदपि ज्ञानकारणविषयकमेव। यच्च इच्छादिना उत्पत्तिनिरोधयोरनुभवः, सोऽपि करणव्यापारविषयक एव। न च एवं नामादिषु ब्रह्मोपासनायां त्वया विधेयत्वेनाङ्गीकृतायां पुंतन्त्रत्वं न सिध्येत्, तत्रापि मनोधारणादेरेव पुंतन्त्रत्वस्य वक्तुं शक्यत्वादिति वाच्यम्, ज्ञानविध्युक्तानुपपत्तेस्तत्राभावेन निरोधादीनामन्यपरत्वस्य वक्तुमशक्यत्वात्। न च उक्तज्ञानरूपश्रवणादिष्वतिप्रयत्नसाध्यत्वस्यानुभवसिद्धत्वाद् विधेयत्वमिति वाच्यम्, अनुभवान्यथासिद्धेरुक्तत्वात्। न च त्वयापि निदिध्यासनस्य परोक्षज्ञानसन्तानरूपस्य विधेयत्वं वदता सन्तानिनां ज्ञानानामपि विधेयत्वमङ्गीकर्तव्यमेव तदविधाने सन्ततिविधानानुपपत्तेरिति वाच्यम्, आवृत्तिगुणयोगस्यैव विधेयत्वाद् उपनिषदमावर्तयेदित्यत्रेव । न च श्रवणादेः ज्ञानानात्मकत्वे श्रवणं यावदज्ञानमित्यज्ञानविरोधित्वस्मृतेः श्रवणेनाज्ञानं निवृत्तमित्यनुभवस्य चानुपपत्तिरिति वाच्यम्, आवृत्तिगुणयोगवाक्यार्थप्रमित्युपयुक्ततात्पर्यनिर्णयद्वारा उपक्रमादिलिङ्गविचारात्मकश्रवणादेरज्ञानादिविरोधितया स्मृत्यनुभवयोरुपपत्तेः। `विज्ञाय प्रज्ञां कुर्वीते'त्यादौ ज्ञानविधावुक्तानुपपत्त्या प्रज्ञाशब्दस्य विचारलाक्षणिकत्वोपपत्तेः। न च त्वया विधेयत्वेनाङ्गीकृतस्य ध्यानस्य ज्ञानभिन्नत्वे तस्य स्वविषये व्यवहारजनकत्वं न स्यादिति वाच्यम्, तदन्यज्ञानेनैव तत्कारणतयाऽऽवश्यकेन तद्विषये व्यवहारोपपत्तेः प्रमाणवतोऽस्य गौरवस्यादोषत्वात्। अत एव ध्यानविषये जानामीत्यनुभवस्मरणे तद्भिन्नज्ञानप्रयुक्ततया व्याख्याते। तस्याभिध्यानादिति श्रुतौ ध्यानस्य मायाख्याविद्यानिवर्तकत्वेऽपि तदुक्तिः ध्यानानन्तरभाविसाक्षात्कारद्वाराभिप्रायेति न तया विरोधः। यत्तूपासीतेत्युपक्रम्य `य एवं वेदे'त्युपसम्हारेण त्वयापि विधेयत्वेनाङ्गीकृतायामुपासनायां विदिधातुप्रयोगेण उपासनायाः ज्ञानत्वावगमाद् अन्यत्रापि ज्ञानत्वं न विधेयत्वविरोधीति, तन्न, उक्तानुपपत्त्या विदेस्तत्रामुख्यत्वेनैव ज्ञानत्वागमकत्वाद् धात्वनेकार्थत्वेन वा। न च मानतन्त्रतामात्रेण कथमपुंतन्त्रता प्रतिग्रहीत्रादितन्त्रस्यापि दानादेस्तद्दर्शनादिति वाच्यम्; न ह्यन्यतन्त्रतामात्रेणाविधेयत्वं ब्रूमः किन्तु पुमिच्छाभिर्यत्कारणे सति अन्यथा कर्तुमशक्यत्वम्। ज्ञानस्य पुरुषतन्त्रताभङ्गः।

                किं च विधीयमानं ज्ञानं किं शाब्दम् ? किं वा तदभ्यासः ? यद्वा तत्त्वमनपेक्ष्यारोपितविषयतया ध्यानम् ? किं वापरोक्ष्यफलकं ज्ञानान्तरम् ? नाद्यः, कर्मकाण्ड इव गृहीतसङ्गतेः स्वतः सिद्धत्वेन कृत्यसाध्यतया विध्यविषयत्वात्। न च कर्मकाण्डेऽप्यापातजन्यस्य स्वतः सिद्धत्वेऽपि विमर्शजन्यस्य कृतिसाध्यत्वम्, अन्यथा अध्ययनविधेरुत्तरक्रतुविधेर्वा तदाक्षेपकता न स्यादिति वाच्यम्, तज्जनकविचार एव विधेयताप्रयोजककृतिसाध्यत्वपर्यवसानेन तादृशज्ञानेऽप्यसम्भवात्। न द्वितीयः, स किं मोक्षाय विधीयते ? साक्षात्काराय वा ? नाद्यः, तस्य नैयोगिकत्वेन स्वर्गादिवदनित्यत्वापातात्। न च बन्धध्वंसस्य नैयोगिकत्वेऽपि ध्वंसत्वात् श्रुत्यादिबलाच्च नित्यत्वोपपत्तिरिति वाच्यम्, न हि मन्नय इव त्वन्नयेऽपि बन्धध्वंसमात्रं मुक्तिः किन्तु लोकान्तरप्राप्तिः, तस्यामुक्तदोषतादवस्थ्यापत्तिः। न चानावृत्तिश्रुत्या नित्यत्वम्, `तद्यथेहकर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इति श्रुत्या नैयोगिकस्यानित्यत्वावगमात्। न चैतच्छ्रतिविरोधेन तस्यानित्यत्वाबोधकत्वम्, `यत्कृतकं तदनित्यम्' इति युक्त्युपोद्वलिततया प्राबल्यात्। न द्वितीयः, तत् किं दृष्टफलकम् ? अदृष्टफलकं वा ? नाद्यः, परोक्षज्ञानाभ्यासेन तत्त्वसाक्षात्कारादर्शनात्। न द्वितीयः, प्रमाणायत्तत्वात्तस्य। अत एव न तृतीयः, ध्यानस्य ज्ञानरूपत्वाभावाच्च। न चतुर्थः शब्दस्यापि प्रामाण्याभावापाताद् ब्रह्मणि प्रमाणीभूतज्ञानकर्तव्यतायामेव प्रामाण्यात्। न च महातात्पर्यमादाय ब्रह्मण्यपि प्रामाण्यम्, तादृशज्ञानस्यापि प्रमाणायत्ततया विधिफलत्वाभावात्। तस्मात् पत्न्यवेक्षितमाज्यमित्यादावपि ज्ञानस्याविधानाद् ध्यानस्यापि विज्ञानव्यतिरेकसाधनात् सूक्ष्मशास्त्रार्थबुद्धौ कृत्यन्वयव्यतिरेकयोस्तत्साधनविषयतयान्यथासिद्धत्वाच्च नात्मज्ञानं विधातुं शक्यते। तदेवं श्रवणस्य ज्ञानरूपत्वे विधेयत्वानुपपत्तिः। तस्मात् ज्ञानविजातीयं श्रवणम् अपरोक्षज्ञानजनकशब्देतिकर्तव्यतारूपविचारात्मकं मनननिदिध्यासनाङ्गकं प्रमेयावगमं प्रत्यङ्गतया प्रधानभूतमपरोक्षज्ञानफलकतया विधीयत इति सिद्धम्।। इत्यद्वैतसिद्धौ ज्ञानविधिभङ्गः।। 8 ।।

[3-8]

 

[3-9]

                                9. शाब्दप्रत्यक्षभङ्गः

 

                ननु कथमपरोक्षज्ञानजनकत्वं शब्दस्य ? मानाभावादिति चेन्न, "तद्धास्य विजज्ञौ तमसः पारं दर्शयती"त्यादेः "वेदान्तविज्ञानसुनिश्चितार्था" इत्यादेश्च मानत्वात्। पूर्ववाक्ये तज्जनकापरोक्षज्ञानस्योपदेशमात्रसाध्यत्वोक्तेः, द्वितीयश्रुतौ शाब्दज्ञानस्य विपदेन विशेषविषयत्वस्य लाभात् सुपदेनापरोक्षत्वोक्तेः। न च विजज्ञावितीत्यादेः परोक्षज्ञानेनापि चरितार्थता, "तमसः पारं दर्शयती"त्युत्तरवाक्यस्वरसेन अपरोक्षज्ञानपरत्वसिद्धेः। न च ग्राममार्गोपदेष्टरि ग्रामं दर्शयतीतिवत् परम्परया प्रयोजकतयोपचारः साक्षात्साधनत्वे बाधकाभावेन तस्यात्रान्याय्यत्वाद्, उपदेशातिरिक्तकारणस्य नारदसनत्कुमाराख्यायिकायामप्रतीतेश्च। न च मनसैवानुद्रष्टव्यमित्यादिश्रुतिविरोधःष तस्याश्चित्तैकाग्र्यपरत्वात्। न च सुपदस्याप्रामाण्यशङ्काविरहपरत्वेन द्वितीयवाक्येन तेनापरोक्षरूपताप्राप्तिः, अन्यथा वेदान्तबोध्यस्य विचारकर्तव्यतादेश्चापरोक्षत्वापातादिति वाच्यम्, निश्चितपदेनैवाप्रामाण्यशङ्काविरहादेर्लब्धतया सुपदस्यातत्परत्वात्। नापि वेदान्तबोध्यस्य ब्रह्मातिरिक्तस्याप्येवमापरोक्ष्यापत्तिः, अर्थपदस्य मुख्यतस्तात्पर्यविषयपरत्वाद्, वेदान्तबोध्यताया ब्रह्ममात्रपर्यवसन्नत्वाच्च।

                एवमनुमानमप्यत्र मानम्- `अपरोक्षत्वम्, तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववत्'। न च कर्मकाण्डजन्यज्ञानवृत्तीत्येवमपि साध्येतेति वाच्यम्, विपक्षबाधकसत्त्वासत्त्वाभ्यां विशेषात्। तथा हि तत्त्वमस्यादिवाक्यस्यापरोक्षज्ञानाजनकत्वे अपरोक्षभ्रमनिवृत्तिर्न स्यात्। न च मनसैवापरोक्षज्ञानम्, मनसः कुत्राप्यसाधारण्येन प्रमाकरणत्वाभावाद्, आत्मनः स्वप्रकाशत्वात् सुखादीनां साक्षिवेद्यत्वात्। न च शब्दे अपरोक्षज्ञानजनकत्ववद् अन्यत्राक्लृप्तमेव मनसि तत्कल्पनीयम्। एवं हि सर्वांशस्यैव मनसि कल्प्यत्वेन विशेषात्। न चैवं ज्योतिष्टोमादिविषयककर्मकाण्डजन्यज्ञाने कल्पकमस्ति। तत्र हि कल्पनीयमनुष्ठानाय वा ? फलाय वा ?   नाद्यः, परोक्षज्ञानादेव तत्सम्भवात्। तत एवानुष्ठानात् फलसिद्धेर्न द्वितीयोऽपि।

                न च विमतः शब्दो नापरोक्षधीहेतुः शब्दत्वादिति प्रतिसाधनम्, `दशमस्त्वमसी'त्यादावेव व्यभिचारात्। न च तत्रापीन्द्रियमेव करणं शब्दस्तत्सहकारीति वाच्यम्, क्वचित् बहुलतमे तमसि लोचनहीनस्यापि तद्वाक्यादपरोक्षभ्रमनिवर्तकस्य दशमोऽस्मीत्यपरोक्षज्ञानस्य दर्शनात्। यत्रापीन्द्रियसद्भावः, तत्रापि तदप्रयोजकमेव। न च धर्मवांस्त्वमसि पर्वतोऽग्निमानित्यादौ विशेष्यापरोक्षत्वेऽपि विशेषणपारोक्ष्यवद् अत्रापि दशमत्वे पारोक्ष्यमस्त्विति वाच्यम्, अत्र परोक्षत्वे अपरोक्षभ्रमानिवृत्तिप्रसङ्गात्।

                ननु एवमपि शब्दस्यापरोक्षज्ञानजनकत्वं किं स्वाभाविकम् ? उतापरोक्षविषयनिमित्तकम् ? नाद्यः, अतिप्रसङ्गात्। न द्वितीयः, जीवाः परमात्मनो न भिद्यन्ते आत्मत्वादित्यादिना जायमानानुमितेः श्रवणात् प्रागापततो वेदान्तजन्याया भाषाप्रबन्धजन्याया अनधीतवेदान्तजन्याया ऐक्यप्रतीतेश्चापरोक्ष्यापातात् श्रवणनियमादेरनियमात्। किञ्चार्थस्यापरोक्ष्यं न तावदपरोक्षबुद्धिरूपत्वम्, ब्रह्मण्यस्य सत्त्वेऽपि दशमत्वादावभावात्, चैत्रापरोक्षज्ञाने मैत्रस्य शब्दादिना आपरोक्ष्यादर्शनाच्च। नाप्यपरोक्षव्यवहारविषयत्वम्, व्यवहारापरोक्ष्यस्य तादृगर्थभेदविषयकत्वरूपत्वे अन्योन्याश्रयात्, अपरोक्षोऽयमित्येवंरूपत्वे अज्ञानावृतेऽपि तदभावात्, त्वयापि न प्रकाशत इत्यादिव्यवहारार्थमेवावरणकल्पनाद्, उक्तव्यवहारयोग्यत्वरूपत्वे व्यवहितघटे शब्दादपरोक्षज्ञानप्रसङ्गाद्, अपरोक्षज्ञानजन्यत्वरूपत्वे च वक्ष्यमाणपक्षान्तर्भावात्। तस्मादर्थस्यापरोक्षधीविषयत्वमेवापरोक्षत्वं वाच्यम्। तत्र चैतज्ज्ञानविषयत्वेन तदुक्तावन्योन्याश्रयः, ज्ञानान्तराभिप्राये तु केषाञ्चिदपरोक्षे स्वर्गादावस्माकं शब्दादपरोक्षधीप्रसङ्गात्। एकपुमभिप्राये तु पूर्वापरोक्षे शब्दादिना इदानीमपरोक्षधीप्रसङ्गात्। एककालाभिप्राये प्रत्यक्षाग्नौ लिङ्गाच्छब्दाद्वा आपरोक्ष्यं स्यादिति चेन्न, यं शाब्दबोधमादाय यस्य बोध्यत्वम्, तत्साक्षात्कारार्थं तदभिन्नार्थावगाहित्वनिमित्तकमित्युक्तदोषानवकाशात्।

                न च एवं प्रत्यक्षान्तर्भावः शब्दस्य स्यादिति वाच्यम्, बोध्यभिन्नार्थकशब्दातिरिक्तत्वे सति प्रत्यक्षप्रमाकरणत्वस्य प्रत्यक्षस्यान्तर्भावे तन्त्रत्वात्। ननु- "मनसैवानुद्रष्टव्य"मित्यादेरिव मनःकरणताप्रतिपादकस्य प्रकृते अभावात् अनौपदेशिकं शब्दस्य साक्षात्कारकरणत्वमिति चेन्न, "तं त्वौपनिषदं पुरुषं पृच्छामी"त्यादौ तत्र साधुरिति तदन्यासाधुत्वे सति तत्साधुत्वरूपसाध्वर्थविहिततद्धितश्रुत्या एव मानत्वात्। ननु मनसः करणत्वेऽपि औपनिषदत्वस्य निदिध्यासनापेक्षिततया अन्यथासिद्धिः, न, "यन्मनसा न मनुत" इति मनसः करणत्वनिषेधात्। न च "यतो वाचो निवर्तन्त" इति शब्दस्यापि करणत्वानुपपत्तिः, औपनिषदत्वश्रुत्यनुसारेण तस्याः शक्त्या अबोधकत्वपरत्वात्। तदुक्तं- `चकितमभिधत्ते श्रुतिरपी'ति। न च मनसैवानुद्रष्टव्यमिति तृतीयाश्रुत्यनुसारेण न मनुत इत्यस्यैवापक्वमनोविषयतयाऽन्यथानयनसाम्यमिति वाच्यम्, एवं साम्येऽपि मनसः करणत्वे ह्यधिककल्पना। शब्दस्य करणत्वे त्वल्पकल्पनेति विशेषात्। तस्मात्तत्वमस्यादिवाक्यस्यापरोक्षज्ञानजनकत्वादविद्यानिवृत्त्यात्मकमोक्षसाधनब्रह्मसाक्षात्काराय मननाद्यङ्गकं श्रवणमङ्गि नियमविधिविषय इति सिद्धम्।। इत्यद्वैतसिद्धौ शब्दादपरोक्षोपपत्तिः।।

                विश्वेश्वराख्यस्य गुरोः प्रसादादद्वैतसिद्धिर्मधुसूदनस्य।

                अभूदभूमिः खलु दूषणानां गुणैरमेयैरवगुम्फितश्रीः।।

                ससम्भ्रममपेक्षया परगुणोन्नतिर्दुःसहा

                नितान्तमनपेक्षया निजपुमर्थहानिः परा।

                अतः सुमतयो यथानयमुपेक्ष्य दुर्मत्सरं

                प्रयोजनवशानुगाः कुरुत मत्कृतौ सत्कृतिम्।।

                इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीचरणशिष्य श्रीमधुसूदनसरस्वतीविरचितायामद्वैतसिद्धौ श्रवणादिनिरूपणं नाम तृतीयः परिच्छेदः।। 9 ।।

[3-9]