अद्वैतसिद्धिः/प्रथमपरिच्छेदः भागः २

← प्रथमपरिच्छेदः भागः १ अद्वैतसिद्धिः
मधुसूदनसरस्वती
द्वितीयपरिच्छेदः →

 

[1-2-1]

                ननु- विश्वस्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षाधीनायाः प्रतिकर्मव्यवस्थायाः अनुपपत्तिरिति चेन्न। वृत्तिः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिकस्थलापेक्षया वैलक्षण्यात्। तथा हि- अन्तःकरणं चक्षुर्वत्तेजोवयवि। तच्चेन्द्रियद्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति। यथा नद्याद्युदकं प्रणाल्या निःसृत्य केदाराद्याकारं भवति। सैव वृत्तिरित्युच्यते। तत्र जीवचैतन्यमविद्योपाधिकं सत् सर्वगतं अन्तःकरणोपाधिकं सत् परिच्छिन्नमिति मतद्वयम्। तत्राऽद्ये विषयप्रकाशकं जीवचैतन्यम्। द्वितीये ब्रह्मचैतन्यम्। आद्ये पक्षेऽपि जीवचैतन्यमविद्यानावृतम्, आवृतं च। तत्राऽद्ये वृत्तिर्जीवचैतन्यस्य विषयोपरागार्था। द्वितीये त्वावरणाभिभवार्था। परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकतदधिष्ठानचैतन्याभेदाभिव्यक्त्यर्था। अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते, न तु विषयैः, असङ्गत्वात्, यथा गोत्वं सर्वगतमपि सास्नादिमद्व्यक्त्याऽभिव्यज्यते, न तु केसरादिमद्व्यक्त्या। यथा वा प्रदीपप्रभा आकाशगन्धरसादिव्यापिन्यपि तानप्रकाशयन्ती रूपसंसर्गितया रूपमेव प्रकाशयति तद्वत्। केवलाग्न्यदाह्यस्यापि अयःपिण्डादिसमारूढाग्निदाह्यत्ववच्च केवलचैतन्याप्रकाश्यस्यापि घटादेस्तत्तदाकारवृत्त्युपारूढचैतन्यप्रकाश्यत्वं युक्तम्। एवञ्चानावृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः। आवृतत्वपक्षे तत्तदाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्यावरणाभिभवेन तत्तदर्थप्रकाशः। अन्तःकरणावच्छिन्नचैतन्यरूपत्वे जीवस्यावच्छेदकान्तःकरणतत्तद्विषयाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्याभिव्यक्तौ तत्तत्प्रकाशः।

 

                यद्यपि प्रकाशकमधिष्ठनचैतन्यं सर्वगतं जीवचैतन्यं चान्तःकरणावच्छिन्नम्, तथापि चैतन्याभेदेनाभिव्यक्तत्वाद् व्यवस्थोपपत्तिः।

 

                ननु- इयं प्रतिकर्मव्यवस्था नोपपद्यते। तथा हि- स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात् पूर्वं घटादेः सत्त्वे प्रतीतिमात्रशरीरत्वव्याप्तकाल्पनिकत्वायोगः। न च काल्पनिकत्वविशेषः प्रातिभासिकत्वादिरेव तद्व्याप्तः, गौरवात्। न च प्रतीतिमात्रशरीरत्वाभावेऽपि ज्ञाननिवर्त्यत्वादिनैव कल्पितत्वं भविष्यति। प्रतीतिमात्रशरीरत्वाभावेन ज्ञानविर्त्यत्वाभावस्याप्यापाद्यत्वात्। प्रतीतेर्विश्वसत्यत्वेन वा मिथ्यात्वेऽपि स्वप्नादिवदिन्द्रियसन्निकर्षनिरपेक्षतयैवोपपत्तेः। व्यावहारिकत्वस्यापि भ्रान्तिदैर्ध्यमात्रेणोपपत्तेश्चेति चेत्, मैवम्। प्रतीतिमात्रशरीरत्वस्य कल्पितत्वं न व्याप्यम्। दृग्दृस्यसम्बन्धानुपपत्त्यादिसहकृतोक्तानुमानात् प्रपञ्चे कल्पितत्वे सिद्धे प्रत्यभिज्ञाबलाच्च स्थायित्वे तत्रैव व्यभिचारात्। न च शुक्तिरूप्यादिप्रत्यभिज्ञासाम्यं प्रकृतप्रत्यभिज्ञाया इति- वाच्यम्, प्रतीत्यविशेषेऽपि वणिग्वीथीस्थशुक्तिरूप्ययोः परीक्षितत्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्वरूपविशेषसम्भवात्। तथापि परोक्षवृत्तेरिवापरोक्षवृत्तेरपि प्रकाशकत्वमस्तु, किं तदुपरक्तचैतन्येनेति चेन्न। परोक्षस्थलेऽपि परोक्षवृत्युपरक्तचैतन्यस्यैव प्रकाशकत्वात्। अथ तत्राप्यपरोक्षैकरसचैतन्योपरागे विषयापरोक्ष्यप्रसङ्गः, न। विषयचैतन्याभिव्यक्तावेव विषयस्यापरोक्ष्यम्। न च परोक्षस्थले तदस्ति। विषयेन्द्रियसन्निकर्षाभावेन विषयपर्यन्तं वृत्तेरगमनाद्। अन्तरेव तत्र धीसमुल्लासात्। अपरोक्षस्थले तु प्रमातृचैतन्याभेदाभिव्यक्ताधिष्ठानचैतन्योपरागो विषयेऽस्ति। तत्र विषयस्य कर्मकारकत्वात्। न च वृत्तिगतविशेषादापरोक्ष्यम्। तत्र हि विशेषो विषयकृतश्चेदोमिति ब्रूमः। जातिकृतस्तु विशेषो न सम्भवति। सोऽयमिति प्रत्यभिज्ञायां परोक्षत्वापरोक्षत्वयोः सङ्करप्रसङ्गाद्, अव्याप्यवृत्तित्वात्, प्रमात्वादिनां सङ्करप्रसङ्गाच्च।

 

                किं च वृत्तेर्जडत्वादेव न प्रकाशकत्वम्। न च- वृत्तावन्तःकरणावृत्त्यपि स्वप्रकाशकत्वं ज्ञानत्ववदिति वाच्यम्। स्वप्रकाशात्मसम्बन्धेनैव तस्याः प्रकाशत्वोपपत्तौ तत्स्वप्रकाशत्वे मानाभावात्। किं च घटं जानामीत्यनुभूयमानसकर्मकवृत्त्यन्या संविद् घटप्रकाशरूपा घटः प्रकाशत इत्याकारकानुभवसिद्धैव। न च करोति यतते चलति गच्छतीत्यादावेकार्थत्वेऽपि सकर्मकाकर्मकत्वस्वभावत्वदर्शनाद् अत्राप्येकार्थत्वेऽपि तथा स्यादिति वाच्यम्। तत्राप्येकार्थत्वाभावात्। अनुकूलयत्नो हि कृञ्‌धात्वर्थः। यत्यर्थस्तु यत्नमात्रम्। एवं गम्यर्थ उत्तरसंयोगफलकः स्पन्दः। चलत्यर्थस्तु स्पन्दमात्रम्। तथा चैकार्थकत्वे कुत्रापि न सकर्मकत्वाकर्मकत्वव्यवस्था। न च- त्वन्मते परिणतेरकर्मकत्वात् परिणतिविशेषभूताया वृत्तेः कथं सकर्मकत्वमिति वाच्यम्। एकस्य हि सकर्मकत्वाकर्मत्वे एकरूपेण विरुद्धे, न तु रूपान्तरेणापि, मानाभावात्। यथा स्थितेरकर्मिकाया अपि अगमनत्वेन रूपेण सकर्मकत्वम्, तथा परिणतित्वेन रूपेणाकर्मिकाया अपि वृत्तेः ज्ञानत्वेन सकर्मकत्वं भविष्यतीत्यदोषः। ननु तर्ह्यतीतः प्रकाशते इति धीर्न स्यात्, इष्टापत्तेः। तत्रापि  वृत्तिप्रतिबिम्बतचैतन्यसत्त्वेन प्रकाशत इत्यादिप्रयोगसम्भवाच्च। ननु यथा अज्ञानविरोधिवृत्तावनुभवत्वं नास्ति, किंतु अन्यत्र, तथा द्वेषविरोधिवृत्तेरन्यत्रेच्छात्वमित्यपि स्यादिति चेन्न। बाधकसत्त्वासत्त्वाभ्यां विशेषात्। अत्रेव तत्र सकर्मकाकर्मकविलक्षणक्रियाननुभवाच्च। यथा च वृत्त्यतिरिक्तभानसिद्धिस्तथा स्वयंज्योतिष्ट्वप्रस्तावे विस्तरेण वक्ष्यामः।

 

                ननु- अस्तु चैतन्यस्य विषयप्रकाशकत्वम्, तथाप्यन्तःकरणस्य देहान्निर्गतिः न कल्प्या।  परोक्षवैलक्षण्याय विषयस्याभिव्यक्तापरोक्षचिदुपराग एव वक्तव्यः। चिदुपरागादौ चापरोक्षवृत्तेस्तदाकारत्वमेव तन्त्रम्। तस्य च तत्संश्लेषं विनापि परोक्षवृत्तेरिव तत्सन्निकृष्टकरणजन्यत्वेनैवोपपत्तिः, न तु प्रभाया इव वृत्तेस्तदावरणनिवर्तकत्वादौ तत्संश्लेषस्तन्त्रम्। नेत्रान्निर्गच्छद्‌ध्रुवाद्याकारवृत्त्यैव स्वसंश्लिष्टनेत्रस्थकज्जलादेर्ध्रुवनेत्रमध्यवर्तिनः

 

 

परमाण्वादेश्चापरोक्षत्वापातादिति- चेत्,न। विषयेष्वभिव्यक्तचिदुपरागे न तदाकारत्वमात्रं तन्त्रम्, परोक्षस्थलेऽपि प्रसङ्गात्, किंतु तत्संश्लेषः। प्रभाया विषयसन्निकृष्टतेजस्त्वेनावरणाभिभावकत्वदर्शनात्। तैजसस्य मनसोऽप्यज्ञानरूपावरणाभिभवाय तत्संश्लेष आवश्यकः। ध्रुवादिदेहमध्यवर्तिपरमाण्वादावतिप्रसङ्गस्तु तदाकारत्वप्रयोजकसामग्रीविरहादेव परिहरणीयः। अन्यथेन्द्रियसन्निकर्षादेर्विद्यमानत्वात् परमाण्वाद्याकरताया दुर्निवारत्वापत्तेः। तस्मात् प्रभावदविशेषान्वयव्यतिरेकाभ्यां यत् क्लृप्तं सन्निकृष्टतेजस्त्वेनावरणाभिभावकत्वं, तस्य तदाकारत्वरूपविशेषापेक्षायामपि न त्यागः। न हि पृथिवीत्वगन्धत्वादिना कार्यकारणभावे आवश्यके अनित्यगुणत्वद्रव्यत्वादिना तत्त्यागः। अत एव- तदितरहेतुसाकल्ये सति घटचक्षुःसन्निकर्षस्यैव घटानुभवजनकत्वम्, न तु घटमनःसन्निकर्षस्य, तद्विलम्बेन तद्विलम्बाभावादिति निरस्तम्। आवरणभङ्गे सन्निकृष्टतेजःकारणत्वावधारणेन तस्याप्यावश्यकत्वात्। न च स्पार्शनप्रत्यक्षे चक्षुरादिवन्नियतगोलकद्वाराभावेनान्तःकरणनिर्गत्ययोगादावरणाभिभवानुपपत्तिरिति वाच्यम्। सर्वत्र तत्तदिन्द्रियाधिष्ठानस्यैव द्वारत्वसम्भवात्। न च अन्तःकरणवृत्तित्वाविशेषादिच्छाद्वेषादिरूपवृत्तयोऽपि देहान्निर्गत्य विषयसंसृष्टा भवन्तीति कथं न स्वीक्रियत इति वाच्यम्। आवरणाभिभावकतेजस्त्वस्य तत्प्रमापकस्य ज्ञानवत् तत्राभावात्।

 

                ननु घटप्रकाशकं चैतन्यमुपदेशसाहस्र्यनुसारेण घटाकारधीस्था चिद्वा? परागर्थप्रमेयेष्वित्यादिवार्त्तिकोक्तरीत्या धीप्रतिबिम्बचैतन्याभेदाभिव्यक्तविषयाधिष्ठानचैतन्यं वा? नाद्यः। आध्यासिकसम्बन्धस्यातन्त्रतापातात्। न द्वितीयः। आवश्यकेन विषयसंश्लिष्टवृत्तिप्रतिबिम्बितचैतन्येनैव तदज्ञाननिवृत्तिवत् तत्प्रकाशस्याप्युपपत्तौ किं विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पनेनेति चेन्न। प्रकाशकं तावद् अधिष्ठानचैतन्यम्। तच्चाध्यासेन विषयैः सह साक्षात्सम्बद्धम्। प्रकाशस्य च स्वयं भासमानस्य स्वसम्बद्धसर्वभासकत्वमपि क्लृप्तमेव। एतदनभ्युपगमे कल्पनान्तरे गौरवापत्तेः। तच्चानभिव्यक्तं निर्विकल्पकरूपमाच्छादितदीपवन्न प्रकाशकमिति तदभिव्यक्तिरपेक्षिता। तच्च परोक्षस्थले वृत्त्यवच्छेदेनैवाभिव्यज्यते। अपरोक्षस्थले तु वृत्तिसम्पर्कादापन्नजाड्याभिभवे विषयोऽभिव्यज्यते, वृत्तेर्विषयपर्यन्तत्वात्। न च परोक्षस्थलेऽप्येवं प्रसङ्गः। द्वाराभावेनान्तःकरणनिर्गत्यभावात्। ननु- वृत्तेस्तदाकारत्वं न तावत्तद्विषयत्वम्। त्वयैव निरासात्। नापि तस्मिन् चैतन्योपरागयोग्यतापादकत्वं, तदज्ञानाभिभावकत्वं वा। उभयोरपि तदाकारत्वप्रयोज्यत्वेन तत्त्वायोगात्। नापि घटादिवत् पृथुबुध्नोदराद्याकारत्वं, साकारवादापातात्। संस्थानहीनजातिगुणादिवृत्तेर्निराकारत्वप्रसङ्गाच्च। घटपटाविति समूहालस्बने विरुद्धनानाकारत्वापत्तेश्चेति चेन्न। अस्तीत्यादितद्विषयकव्यवहारप्रतिबन्धकाज्ञाननिवर्तनयोग्यत्वस्य, तत्सन्निकृष्टकरणजन्यत्वस्य वा तदाकारत्वरूपत्वात्। तदुभयं च स्वकारणाधीनस्वभावविशेषात्। न चात्माश्रयः। निवृत्तिजननस्वरूपयोग्यतया फलोपधानस्य साध्यत्वेन स्वानपेक्षणात्।

 

 

                ननु-- दृशि विषयाध्यासस्वीकर्तुर्जीवचैतन्यं वा विषयदृक्? ब्रह्मचैतन्यं वा? नाद्यः, जीवे अवच्छिन्नचित्स्वरूपे कल्पिते अध्यासायोगात्। न च विषयदृक् जीवचैतन्यमेव, अध्यासस्तु ब्रह्मचैतन्य इति वाच्यम्। दृश्ययोरेवाध्यासिकसम्बन्धापत्तेः, अध्यस्ताधिष्ठानयोरुभयोरपि दृग्भिन्नत्वात्। अत एव न द्वितीयोऽपि। सविशेषब्रह्मणोऽपि कल्पितत्वेन तत्राध्यासायोगाच्च। न च शुद्धचैतन्यमेकमेव। तदेवाधिष्ठानम्। तत्रावच्छेदकमविद्यादिकं  नाधिष्ठानकोटौ प्रविशति। तदेव च जीवशब्देन ब्रह्मशब्देन च व्यपदिश्यते, उपाधिविशेषात्। तथा च जीवचैतन्यस्य दृक्त्वेऽपि दृश्याध्यासो नानुपपन्न इति वाच्यम्। शुद्धचैतन्यस्य आसंसारमावृतत्वेन जगदान्ध्यप्रसङ्गादिति चेन्न। मूलाविद्यानिवृत्त्यभावेन सर्वत आवरणाभिभवाभावेऽपि घटाद्यवच्छेदेनावरणाभिवाद् आन्ध्यविरहोपपत्तेः। ननु तर्हीदानीमपि ब्रह्मस्फुरणे चरमवृत्तिवैयर्थ्यम्। अधिकभानेऽपि तस्य स्फुरणात्। न ह्यखण्डार्थवेदान्तजन्यायां वृत्तौ भावो अभावो वा विशेषणमुपलक्षणं वा प्रकारः प्रकाशत इति चेन्न। उपाध्यविषयकब्रह्मस्फुरणस्य चरमप्रवृत्तिप्रयुक्तत्वेन तस्याः साफल्यात्। प्रकारास्फुरणं तु तस्याः भूषणमेव। इदानीन्तनस्फुरणस्य सप्रकारकत्वेनोपाधिविषयत्वात्। `एकधैवानुद्रष्टव्यम्' इत्यादिश्रुतिबलात् स्वसमानविषयज्ञानादेव चाज्ञाननिवृत्तेरखण्डचिन्मात्रज्ञानस्यैव मोक्षहेतुत्वावधारणात्। न च अन्तःकरणावच्छिन्नचैतन्यस्य जीवत्वे सुषुप्तिदशायां तदभावेन कृतहान्याद्यापत्तिरिति वाच्यम्। तदाऽप्यस्य कारणात्मनाऽवस्थानात्। स्थूलसूक्ष्मसाधारणस्यान्तःकरणस्योपाधित्वात्। `तदपीतेः संसारव्यपदेशात्' इत्यस्मिन् सूत्रे चायमर्थः स्पष्टतरः। न च वृत्त्युपरक्तत्वंचैतन्यस्य न तत्प्रतिबिम्बितत्वम्। दर्पणे मुखस्येवानुद्‌भूतरूपेऽन्तःकरणे शब्दान्यप्रतिबिम्बनोपाधिताया अचाक्षुषचैतन्यस्य प्रतिबिम्बनायाश्चायोगादिति वाच्यम्। उद्‌भूतरूपवत्त्वं न प्रतिबिम्बनोपाधिताप्रयोजकम्। अस्वच्छेऽपि लोष्टादौ प्रतिबिम्बापत्तेः।

 

किन्तु स्वच्छत्वम्। तच्च प्रकाशस्वभावत्वेन मनसस्तत्परिणामभूताया वृत्तेश्चास्त्येव, त्रिगुणात्मकस्याप्यज्ञानस्य स्वच्छसत्त्वात्मकताया अपि सत्त्वेन तत्रापि प्रतिबिम्बनोपाधितायाः सत्त्वात्। नापि चाक्षुषत्वं प्रतिबिम्बितत्वप्रयोजकम्। अचाक्षुषस्याप्याकाशादेः प्रतिबिम्बितत्वदर्शनात्।

 

                ननु- चाक्षुषवृत्त्युपारूढचितः कथं रूपमात्रप्रकाशकत्वम्? न च प्रभावन्नियमः, वैषम्यात्। तथा हि- प्रभायां तमोविरोधित्वं रूपं प्रतीव गन्धादीन् प्रत्यपि समम्। न हि सा गन्धदेशस्थं तमो न निवर्तयति। न च अज्ञानविरोधित्वलक्षणं प्रकाशकत्वं रूपं प्रत्येव, न तु रसादीन् प्रतीति वाच्यम्। अज्ञाननिवर्तकत्वस्य वृत्तिभिन्नेऽनङ्गीकारात्। प्रभाया रूपग्राहकचक्षुःसहकारित्ववत् गन्धादिग्राहिघ्राणादिसहकारित्वाभावेऽपि चितो ग्राहकान्तरासदृकारित्वेन तद्वत्सहकारिविलम्बेन विलम्बस्य वक्तुमशक्यत्वात्। तथा च चितः सर्वगतत्वेन सर्वसम्बन्धाद्रूपादिवद् गुरुत्वादेरप्याश्रयद्वारा साक्षाद्वा सम्बन्धित्वात् प्रकाशापत्तिः, वृत्त्युपरक्तचित्सम्बन्धस्यैव प्रकाशकत्वात्। `असङ्गो ह्ययं पुरुषः' इति श्रुतिस्तु (ईश्वरस्य) तत्कृतलेपाभावपरा, न तु सम्बन्धनिषेधिका। `स यत्तत्र यत्किञ्चित्पश्यत्यनन्वागतस्तेन भवति' इति पूर्ववाक्यात्, `यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्' इत्यादिस्मृतेश्चेति चेन्न। प्रभाया रूपरसादिदेशगततमोनाशकत्वं तत्सम्बन्धाद्युज्यते, चैतन्यस्य तु स्वभावतोऽसम्बद्धत्वात् तदाकारवृत्त्या तदेकसम्बन्धस्योपादानात् कथमन्यावभासकत्वप्रसङ्गः? स्वभावतो ह्यसङ्गत्वे `असङ्गो ह्ययं पुरुषः' इति श्रुतिः प्रमाणम्। न चैषा लेपाभावपरा। अकर्तृत्वप्रतिपादनाय सम्बन्धाभावपरत्वात्। यथा चैतत्तथा व्यक्तमाकरे।

 

                एवं स्मृतिरप्येतत् श्रुत्यनुरोधेन नेया। अतः सर्वैः सह सम्बन्धाभावात्। न सर्वावभासः, किंतु यदाकारा वृत्तिस्तस्यैव। अत एव `इदं रजतम्' इति भ्रमे इदमाकारवृत्त्यवच्छिन्नचैतन्येन रजतभानानुपपत्तेः रजताकाराऽप्यविद्यावृत्तिरभ्युपेयते। स्वतश्चिद्विम्बाग्राहके चैतन्यस्य तदाकारत्वायोगात्। स्वतश्चिद्विम्बग्राहके त्वन्तःकरणवृत्त्यादौ न वृत्त्यपेक्षेति नानवस्था। न च आश्रयसम्बन्धाविशेषेऽपि रूपाकारा वृत्तिर्न गन्धाद्याकारेति कुत इति वाच्यम्। यथा तव चाक्षुषज्ञाने आश्रयसम्बन्धाविशेषेऽपि न गन्धो विषयः। तथाऽस्माकमपि चक्षुर्द्वारकवृत्तौ न गन्धाद्याकारत्वम्। इन्द्रियविषयसम्बन्धानां स्वभावस्य नियामकस्य समानत्वात्। ननु आध्यासिकसम्बन्धो वृत्तेः पूर्वमप्यस्त्येव। अन्यस्तूपरागो न दृश्यत्वे तन्त्रमिति किं तदर्थया वृत्त्येति चेन्न। जीवचैतन्यस्याधिष्ठानचैतन्यस्य वाऽभेदाभिव्यक्त्यर्थत्वाद् वृत्तेः। अन्यथा मयेदं विदितमिति सम्बन्धावभासो न स्यात्।

 

 

 

 

                ननु जीवचैतन्यस्यासङ्गत्वे ब्रह्मचैतन्यं सुतिरामसङ्गम्। तथा च मायोपाधिकविषयोपरागत्वात् स्वतः सार्वज्ञ्यं न स्यात्। न च ब्रह्म सर्वोपादानत्वादुपाधिं विनैव स्वस्वरूपवत्स्वाभिन्नं जगदवभासयतीति वाच्यम्। उपादानत्वं न तावद्विशिष्टनिष्ठं परिणामित्वम्। आध्यासिकसम्बन्धस्यातन्त्रतापत्तेः। अनाद्यविद्यादिकं प्रति तदभावाच्च। नापि शुद्धनिष्ठमधिष्ठानत्वम्। शुद्धस्य सर्वज्ञत्वसर्वशक्तित्वादेरभावादिति चेन्न। ब्रह्मणोऽसङ्गत्वेऽपि सर्वेषां तत्राध्यासेन मायोपाधिं विनैव तस्य सर्वप्रकाशकतया सार्वज्ञ्योपपत्तेः। न च शुद्धनिष्ठमधिष्ठानत्वं नोपादानत्वम् सार्वज्ञ्याभावादित्युक्तमिति वाच्यम्। अविद्याकल्पितानां सर्वज्ञत्वादीनां शुद्धे सत्त्वात्। अन्यथा तेषां तटस्थलक्षणत्वमपि न स्यात्। ननु आवरणाभिभवार्थत्वपक्षो न युक्तः। विवर्ताधिष्ठानस्य चिन्मात्रस्याज्ञानादिसाक्षित्वेन सदा प्रकाशनात्। अन्यस्याज्ञानकल्पितस्यावरणस्याभावादिति चेन्न। अज्ञानादिसाक्षित्वेन स्वप्रकाशेऽप्यशनायाद्यतीतत्वादिना प्रकाशाभावादावरणस्यावश्यत्वात्। ननु अज्ञानस्य नयनपटलवत् पुङ्गतत्वे चैत्रस्याज्ञाननाशेऽपि मैत्रस्य तदनाशाद् अप्रकाशो युक्तः। विषयगतत्वे तु चैत्रार्जितया वृत्त्या अज्ञाने दीपेन तमसीव नाशिते मैत्रस्यापि प्रकाशः स्यादिति चेन्न। चैत्रावरणशक्तेरेवाज्ञानगतायाश्चैत्रार्जितवृत्त्या नाशितत्वेन स पश्यति, न मैत्रः तत्प्रतियोगिकावरणशक्तेरनाशाद्। आवरणशक्तीनां द्रष्टृविषयभेदाभ्यां भिन्नत्वात्। तमस्तु न तथेत्येकानीतप्रदीपेनाप्यन्यात् प्रति प्रकाशो युज्यते। एतेन- एकाज्ञानपक्षे शुक्तिज्ञानेन तदज्ञाननिवृत्तौ सद्य एव मोक्षापातः। अनिवृत्तौ रूप्यादेः सविलासाविद्यानिवृत्तिरूपबाधायोग इति निरस्तम्। आवरणशक्तिनाशेऽपि मूलाज्ञाननाशाभावेन सद्यो मोक्षाभावस्य रूप्यादौ सविलासशक्तिमदविद्यानिवृत्तिरूपबाधस्य चोपपत्तेः।

 

                ननु एकाज्ञानपक्षे रूप्यादेः शुक्तिज्ञानेन स्वकारणे प्रविलयमात्रं क्रियते। मुद्‌गरप्रहारेणेव घटस्य। न त्वज्ञानं निवर्त्यत इति ते मतं न युक्तम्। यतो ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिबलात् ज्ञानस्याज्ञाननिवृत्तिद्वारैवान्यविरोधित्वेनाज्ञानमनिवर्त्य रूप्यादिनिवर्तकत्वायोगात्। शुक्तिज्ञानेनाज्ञानानिवृत्तावभिव्यक्तचैतन्यसम्बन्धाभावेन भ्रान्ताविव बाधेऽपि शुक्तेरप्रकाशापत्तेश्चेति चेन्न। यतो ज्ञानमज्ञाननिवर्तकमिति व्याप्तेरुच्छेदविषयत्वात्। स्वकारणे सूक्ष्मरूपेणावस्थाने तदनङ्गीकारात्। शुक्तिज्ञानस्य चानवच्छिन्नचैतन्यावरणरूपमूलाज्ञानानिवर्तकत्वेऽपि अवच्छिन्नचैतन्यावरणरूपतूलाज्ञाननिवर्तकत्वेनाभिव्यक्तचैतन्यसम्बन्धात् बाधदशायां रूप्यनिवृत्तिशुक्तिप्रकाशयोरप्युपपत्तेः। न च उपादेयभूतया वृत्त्योपादानभूताविद्याभिभवो न घटते। उपादेयेनोपादानाभिभवादर्शनादिति वाच्यम्। वृश्चिकादिना गोमयादेरुपादानस्याप्यभिभवदर्शनात्। आरम्भवादानभ्युपगमाच्च न गोमयावयवानामुपादानत्वशङ्का।

                ननु चक्षुरादिजन्यशुक्त्यादिवृत्तेः सप्रकारिकायाः निष्प्रकारकशुद्धचैतन्याविषयतया तदावरणरूपमूलाज्ञानाभिभवाभावेऽप्यवच्छिन्नविषयया तया अवच्छिन्नचैतन्यावरणरूपतूलाज्ञानाभिभवो युज्यत इति ते मतमयुक्तम्। अवच्छिन्ने अविद्याकल्पिते अप्रसक्तप्रकाशे मूलाविद्याया इव तदावरणशक्तेरयोगात्। त्वयानभ्युपगतत्वाच्च। जडविशिष्टात्मानं प्रति तदभ्युगमे च विशेषणानावरकविशिष्टावरकशक्त्यभिभवस्य विशेष्यावरकशक्त्यभिभवं विनाऽयोगेन शुक्त्याकारवृत्त्यैव शुद्धात्मप्रकाशापातादिति चेन्न। अनवबोधात्। न ह्यविद्याकल्पितेऽवच्छिन्ने अस्माभिरविद्या वा तच्छक्तिर्वाभ्युपेयते। किं तु चैतन्यमात्र न ह्यविद्याकल्पितेऽवच्छिन्ने अस्माभिरविद्या वा तत्छक्तिर्वाभ्युपेयते। किं तु चैतन्यमात्र एव। तस्मिंस्तु सर्वं जडमध्यस्तमस्तीत्येकाश्रयाश्रितत्वसम्बन्धात् जडावच्छिन्नचैतन्यमावृतमिति व्यपदेशः। घटाद्याकारवृत्त्या तु तदधिष्ठानचैतन्याभिव्यक्तौ तदवच्छेदेनैव तन्निष्ठावरणाभिभवो जायत इति न शुद्धात्मप्रकाशापत्तिः। तदुक्तं संक्षेपशारीरके-

                                आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला।

                                पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः।।

                                बहु निगद्य किमत्र वदाम्यहं शृणुत सङग्रहमद्वयशासने।

                                सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यवहारभाक्।।

 

इति च। तस्मादविद्यायां सत्यामपि शक्त्यभिभवाद्वा, तूलाज्ञाननाशाद्वा, अवस्थाविशेषप्रच्यवाद्वा, एकदेशनाशाद्वा, भीरुभटवदपसरणाद्वा, कटवत् संवेष्टनाद्वा, आवरणभङ्गानिर्मोक्षबाधानामुपपत्तिः।

 

                ननु अवस्थाविशेषाणामज्ञानाभिन्नत्वे एकाज्ञानपक्षक्षतिः। अज्ञानभिन्नत्वे च साक्षात् ज्ञानेन निवृत्तिः भ्रमाद्युपादानत्वं च न स्यात्। तेषामिव रूप्यस्यैवोपादाननाशं विना नाशप्रसङ्गश्च। शुक्त्यज्ञानं नष्टमित्यनुभवविरोधश्चेति चेन्न। यतोऽवस्था तावदवस्थावतोऽभिन्नैव। अज्ञानैक्यं तु सर्वावस्थानुस्यूतैकाकारमादाय। एवं चाज्ञानावस्थाया अज्ञानत्वेन न ज्ञानसाक्षान्निवर्त्यत्वाद्यनुपपत्तिः। यत्त्ववस्थाविशेषाणामिव रूप्यस्यैवोपादाननिवृत्तिं विना निवृत्त्यापादनं तदयुक्तम्। अज्ञान एव ज्ञानस्य साक्षाद्विरोधावधारणेनाज्ञानावस्थायास्तदभिन्नाया ज्ञानसाक्षान्निवर्त्यत्वार्हत्वात्। न तु रूप्यादीनाम्, अनीदृक्त्वात्। अनेकाज्ञानपक्षे तु शङ्कापि नोदेति। नन्वस्मिन्पक्षे एकया वृत्त्या सर्वतदज्ञानस्य निवृत्तिः? उत एकतदज्ञानस्य? आद्ये पुनः शुक्तेः कदाऽप्यप्रकाशो न स्यात्। अन्त्ये वृत्तिकालेऽपि प्रकाशो न स्यात्। एकस्यावरणस्य निवृत्तावप्यावरणान्तरानिवृत्तेरिति चेन्न। एकया वृत्त्या एकाज्ञाननाशेऽपि तयैवावरणान्तराणां प्रतिरुद्धत्वाद्। यावत् सा तिष्ठति तावत्प्रकाशः। तस्यामपगतायां पुनरप्रकाशश्चोपपद्यते। अज्ञानस्य ज्ञानप्रागभावस्थानीयत्वात्। यथा तव एकं ज्ञानमेकमेव प्रागभावं नाशयति, तन्नाशरूपेणोदयात् प्रागभावान्तरनिबन्धनमज्ञातत्वादिव्यवहारं च प्रतिबघ्नाति तथा ममाप्येकं ज्ञानमेकमेवाज्ञानं निवर्तयति, अज्ञानान्तरनिबन्धनं च प्रयोजनं प्रतिबघ्नाती ति किमनुपपन्नम्? अत्र च प्रतिबन्धपदेन कार्यानुत्पत्तिप्रयोजकत्वं कारणाभावप्रतिबन्धकसाधारणमभिहितम्। एवमवस्थाविशेषपक्षेऽपि प्रकाशाप्रकाशावुपपादनीयौ। एवममूर्तस्याज्ञानस्य यद्यपि दण्डादिना गवादीनामिवापसारणं करादिना कटादीनामिव संवेष्टनं च न सम्भवति, तथापि कार्याक्षमत्वसाम्येनापसारणसंवेष्टनपक्षौ योजनीयौ। यथा हि उत्तेजकाभावसहकृतस्य मणेः प्रतिबन्धकतायामुत्तेजकसत्त्वे प्रतिबन्धककार्याक्षमत्वं, तथा वृत्त्यभावसहकृतस्याज्ञानस्य प्रतिबन्धकतायां वृत्तौ सत्यां तत्कार्यानुदय इति द्रष्टव्यम्।

 

                ननु चैतन्यस्य निरवयवत्वात् तस्यैकदेशेन प्रकाशो न युज्यते। अथाकाश इव तत्तदर्थावच्छिन्नत्वमेकदेशशब्दार्थः, तर्हि नागन्तुकपदार्थावच्छिन्नं चैतन्यमनाद्यज्ञानस्य विषयः। निर्विषयस्यावरणस्यायोगात्। प्रागनवच्छिन्नावरणमेवेदानीमवच्छिन्नावरणं जातमित्यपि न। अवच्छिन्नचैतन्यज्ञानेनैवानवच्छिन्नावरणनाशापत्तेः। एतेन व्यक्तितः पूर्वं जातिरिव विषयात्पूर्वमज्ञानमस्तीति निरस्तमिति चेन्न। अनाद्यज्ञानविषये अनादिचैतन्ये तत्तदागन्तुकपदार्थावच्छेदाभ्युपगमाद्। `आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला' इत्युक्तत्वात्। यदवच्छिन्नगोचरा च वृत्तिस्तदवच्छेदेनैवावरणापसारणात् नानवच्छिन्नचैतन्यावरणभङ्गप्रसङ्गः। अत एव वृत्तिविषयावच्छिन्नचैतन्यात् प्रागज्ञानमस्तीत्यभिप्रायेण विषयात्प्रागज्ञानमस्तीति साधूक्तम्। तस्मादधिष्ठानचैतन्यं स्वाध्यस्तं भासयतीति सिद्धम्।

 

                तदयमत्र निष्कर्षः- यद्यपि विषयप्रकाशकं विषयाधिष्ठानभूतं प्रमेयचैतन्यम्। अन्तःकरणा-वच्छिन्नचैतन्यं तु तस्य प्रमातृ। अन्तःकरणवृत्त्यवच्छिन्नचैतन्यं तु प्रमाणम्। तथापि यदीयान्तःकरणवृत्त्या विषयपर्यन्तं चक्षुरादिद्वारा निस्सृतया यत्प्रकाशकं चैतन्यं यत्प्रमातृचैतन्याभेदेनाभिव्यज्यते तमेव स एव जानाति नान्यं नान्यो वा। अत एवैकवृत्त्युपारूढत्वलक्षणैकलोलीभावापन्नं प्रमातृप्रमाणप्रमेयचैतन्यं भवति। ततस्तदवच्छेदेनाज्ञाननिवृत्त्या भासमानं प्रमेयचैतन्यमपरोक्षं फलमित्युच्यते। तत् स्वयं भासमानं सत् स्वाध्यस्तं घटाद्यपि भासयतीति तत् फलव्याप्यमित्युपेयते। यन्निष्ठा च यदाकारा वृत्तिर्भवति तन्निष्ठं तदाकारमज्ञानं सा नाशयतीति नियमात् प्रमातृप्रमेयोभयव्यापिन्यपरोक्षवृत्तिः स्वावच्छेदेनावरणमपसारयति। प्रकाशस्य स्वावच्छेदेनावरणापसारकत्वदर्शनात्। अतः प्रमात्रवच्छिन्नस्यासत्त्वावरणस्य प्रमेयावच्छिन्नस्याभानावरणस्य चापसारणाद् घटोऽयं मे स्फुरतीत्याद्यपरोक्षव्यवहारः। परोक्षस्थले तु इन्द्रियसन्निकर्षलक्षणद्वाराभावादन्तः- करणनिस्सरणाभावेन विषयपर्यन्तं वृत्तेरगमनाद्विषयावच्छिन्नप्रमेयचैतन्येन सह प्रमातृचैतन्यस्यैकवृत्त्युपारूढत्वाभावेनापरोक्षतयाऽभिव्यक्त्यभावेऽपि प्रमातृप्रमाणचैतन्ययोरेकलोली भावापत्त्या प्रमात्रवच्छिन्नमसतत्वावरणमात्रं निवर्तते। तावन्मात्रस्य वृत्त्यवच्छिन्नत्वात्। इदमेव सुषुप्तिव्यावृत्तिशब्देन विवरणाचार्यैर्व्याख्यातम्। विषयावच्छिन्नाभानावरणतत्कार्यसद्भावेऽपि प्रमात्रवच्छिन्नासत्त्वावरणनिवृत्त्या अनुमानादौ व्यवहारोपपत्तिः। अत एव जानाम्यहं पर्वते वह्निस्स्तीति, स तु कीदृश इति मे न भातीत्यादिव्यवहारः। त्रयाणामेकलोलीभावे अपरोक्षत्वम्, द्वयोरेकलोलीभावे तु परोक्षत्वमिति न सङ्करः। वृत्तेश्च विषयेण समं साक्षादेवापरोक्षस्थले सम्बन्धः । परोक्षस्थले त्वनुमितेरनुमेयेन तद्व्याप्यज्ञानजन्यत्वम्। शाब्द्याः संसर्गेण सह तदाश्रयवाचकपदजन्यत्वम्। स्मृतेः स्मर्तव्येन सह तद्विषयानुभवजन्यत्वम्। एवमन्यत्रापि परम्परासम्बन्ध एवेति परोक्षापरोक्षविभागः। विस्तरेण व्युत्पादिताऽस्माभिरियं प्रक्रिया सिद्धान्तबिन्दौ। तस्माद्विषयस्य मिथ्यात्वेऽपि प्रतिकर्मव्यवस्थोपपत्तेरिति दिक्।

 

                                इत्यद्वैतसिद्धौ प्रतिकर्मव्यवस्थोपपत्तिः।।

 

[/1-2-1]

 

 

[1-2-2]

                                                अद्वैतसिद्धिः

 

                ननु-- मिथ्यात्वानुमानं प्रतिकूलतर्कपराहतम्। तथा हि- विश्वं यदि कल्पितं स्यात्, साधिष्ठानं स्यात्। न चैवम्, सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्याधिष्ठानत्वप्रयोजकस्य निर्विशेषे निस्सामान्ये च ब्रह्मण्यसम्भवादिति चेन्न। स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याधिष्ठानत्वप्रयोजकत्वेनाज्ञातविशेषवत्त्वस्याप्रयोजकत्वात्। तथा च निस्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात् परिपूर्णत्वानन्दत्वादिना चाज्ञानादधिष्ठानत्वमुपपन्नम्। वस्तुतस्तु- कल्पितसामान्यविशेषवत्त्वं ब्रह्मण्यपि सुलभवेव। अकल्पितसामान्यविशेषवत्त्वं चाप्रसिद्धम्। न च तत्कल्पने अन्योन्याश्रयः। कल्पितसामान्यविशेषाणां प्रवाहानादित्वात्। सत्त्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वात्। परिपूर्णानन्दत्वादीनां च विशेषत्वात्। अत एव सामान्याकारज्ञानं विना संस्कारनुद्बोधात् कथमध्यास इति न वाच्यम्। सदात्मना स्वरूपज्ञानस्यैव सामान्यज्ञानत्वात्। न ह्यध्यसनीयं सदात्मना न भाति। एतावानेव विशेषः- यदधिष्ठानं स्वत एव तदात्मना भाति। अध्यसनीयं तु तत्सम्बन्धात्। ननु- अधिष्ठानतिरोधानं विना भ्रमासम्भवः। प्रकाशरूपतिरोधाने तु तदध्यस्ताविद्यादेः प्रकाशानुपपत्तिरिति चेत्, न। एकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाशसम्भवात्। तदुक्तं वार्तिककारपादैः--

                                यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम्।

                                तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम्।। इति।

 

                न च बाधकालेऽपि सद्विशेषाज्ञानमस्तीति- वाच्यम्। परिपूर्णानन्दत्वादेः सत एव विशेषत्वेन तदा तदज्ञानाभावात्। धर्मत्वमात्रस्यैव कल्पितत्वात्। यद्वा, भ्रमविरोधिज्ञानाभाव एव तन्त्रम्। न तु विशेषाज्ञानम्। विश्वोपादानगोचराज्ञानस्य श्रवणादिजन्यमात्ममात्रविषयकं वृत्तिरूपं ज्ञानं विरोधि, न तु चिद्रूपं स्वतःसिद्धं ज्ञानम्। भ्रमविरोधिनश्च वृत्तिरूपस्य ज्ञानस्येदानीमभावोऽस्त्येव। ननु- आत्मानात्मनोर्दृग्दृश्यत्वात्मानात्मत्वादिना भेदज्ञानात् कथमध्यस्ताधिष्ठानभाव इति चेन्न। इदमनिदं न भवतीति पुरोवर्त्त्यपुरोवर्तिनोर्भेदग्रहेऽपीदं रजतमित्यध्यासवत् सन् घट इत्याद्यध्यासो भविष्यति। न हि रूपान्तरेण भेदग्रहो रूपान्तरेणाध्यासविरोधी। सन् घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटाद्यनुविद्धतया भानान्न तस्य घटाद्यध्यासाधिष्ठानतानुपपत्तिः। सद्रूपेण च सर्वज्ञानविषयतोपपत्तेर्न रूपादिहीनस्याप्यात्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिः।

 

                ननु- विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यात्। न चैवं, तस्मात् न कल्पितमिति चेन्न। अत्रापि प्रधानस्य सजातीयस्य सत्त्वात्। पूर्वप्रपञ्चसजातीयस्यैवोत्तरप्रपञ्चस्याध्यसनात्। अध्यासो हि स्वकारणतया संस्कारमपेक्षते। न तु संस्कारविषयस्य सत्यताम्, अनुपयोगात्। न च- प्रमाजन्य एव संस्कारो भ्रमहेतुः। अतो विषयसत्यत्वमावश्यकमिति वाच्यम्। मानाभावाद्, विपरीते लाघवाच्च। अत एव- अध्यस्तसजातीयं पूर्वमध्यस्तापेक्षयाऽधिकसत्ताकमपेक्षणीयमित्यपि निरस्तम्। सत्यतावदधिकसत्ताया अप्यनुपयोगात्। पूर्वं तज्ज्ञानमात्रमपेक्ष्यते, तच्चास्त्येव। ननु- एवमधिष्ठानस्यापि ज्ञानमात्रमेव हेतुः, न तु तदिति न सदधिष्ठानापेक्षा स्यादिति शून्यवादापत्तिरिति चेन्न। अधिष्ठानस्य ज्ञानद्वारा भ्रमाहेतुत्वेऽप्यज्ञानद्वारा भ्रमहेतुत्वेन सत्त्वनियमात्। भ्रमोपादानाज्ञानविषयो ह्यधिष्ठानमित्युच्यते। तच्च सत्यमेव। असत्यस्य सर्वस्याप्यज्ञानकल्पितत्वेनाज्ञानविषयत्वात्। तदसत्यत्वे तज्ज्ञानस्य भ्रमाबाधकत्वप्रसङ्गात्। जगति भ्रमबाधव्यवस्था च न स्यात्। बाधेन हि किञ्चिद्विरुद्धं तत्त्वमुपदर्शयता आरोपितमतत्त्वं बाधनीयम्। उभयाध्यासे तु किं केन बाध्येत? अत एव भगवता भाष्यकारेण- "सत्यानृते मिथुनीकृत्य" इत्युक्तम्।

 

                ननु एतत्प्रपञ्चासाध्यार्थक्रियाकारिणः प्रप़ञ्चान्तरस्याभावेन स्वोचितार्थक्रियाकारिणोऽस्य न मिथ्यात्वमिति चेन्न, स्वाप्नमायादौ व्यभिचारात्। स्वोचितार्थक्रियाकारित्वस्य पारमार्थिकसत्त्वाप्रयोजकत्वात्। नापि श्रुत्यादिसिद्धोत्पत्त्यादिमत्त्वं सत्त्वे तन्त्रम्। स्वप्नप्रपञ्चे व्यभिचारात्। तस्यापि "न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथस्सृजते" इत्यादिश्रुत्योत्पत्त्यादिप्रतिपादनात्। न च कल्पाद्यभ्रमायोगः। कल्पान्तरीयसंस्कारस्य तत्र हेतुत्वात्। न च जन्मान्तरीयसंस्कारस्य कार्यजनकत्वेऽतिप्रसङ्गः। अदृष्टादिवशेन क्वचिदुद्बोधेऽप्यन्यत्रानुद्बोधोपपत्तेः। कार्योन्नेयधर्माणां यथाकार्यमुन्नयनात्। अन्यथा जातस्य स्तन्यपानादौ प्रवृत्तिर्न स्यात्। ननु- चैत्रेण मैत्रे संस्काराध्यासेऽपि मैत्रस्य भ्रमादर्शनात् जगद्भ्रमहेतुसंस्कारस्य सत्त्वं दुर्वारम्। न च स्वेनाध्यस्तात्संस्काराद्भ्रमः। भ्रमात् पूर्वं स्वस्य कार्यानुमेयसंस्काराध्यासनियमाभावादिति चेन्न। शुक्तिरूप्यस्य कुण्डलाजनकत्ववच्चैत्राध्यस्तसंस्कारस्य मैत्रभ्रमाजनकत्वेऽपि वणिग्वीथीस्थरूप्यस्य कुण्डलजनकत्ववत् स्वेनाध्यस्तस्य संस्कारस्य वियदाद्यध्यासजनकत्वोपपत्तेः। तत्प्रतीत्यभावेऽपि तदध्यासस्य पूर्वं सत्त्वात् कृत्स्नस्यापि व्यावहारिकपदार्थस्याज्ञातसत्त्वाभ्युपगमात्।

 

                ननु- प्रातिभासिकरूप्ये त्रैकालिकनिषेधस्य त्वन्मते व्यावहारिकरूप्यविषयत्ववद् व्याहारिकप्रपञ्चेऽपि `नेह नाना' इति त्रैकालिकनिषेधस्य पारमार्थिकप्रपञ्चान्तरविषयताऽवश्यं वाच्येति चेन्न। भ्रमबाधवैयधिकरण्यापातेनास्य पक्षस्यानङ्गीकारपराहतत्वात्। अङ्गीकारेऽपि व्यावहारिकनिषेधे पारमार्थिकविषयत्वं न सम्भवति। अप्रतीतस्य निषेधायोगात्। प्रतीत्या सहाध्यासातिरिक्तसम्बन्धाभावेन पारमार्थिके प्रतीतत्वाभावात्। ननु- प्रधानाधिष्ठानयोः सादृश्याभावात्कथमध्यासः? अथ निर्गुणयोरपि गुणयोः सादृश्यवदत्रापि किञ्चित्सादृश्यं भविष्यतीति, तन्न। निर्धर्मके ब्रह्मणि तस्याप्यध्यासाधीनत्वेनान्योन्याश्रयात्। यद्यपि सादृश्यं सोपाधिकाध्यासे न कारणं, व्यभिचारात्। तथापि निरुपाधिकाध्यासेऽन्वयव्यतिरेकाभ्यां तस्यावश्यमपेक्षणीयत्वात्। सोपाधिकेऽपि `रक्तः स्फटिकः' द्रव्यत्वादिना सादृश्यानपेक्षत्वाद्। अन्तःकरणाध्यासे त्वविद्यासम्बन्धित्वस्यैव सादृश्यस्य विद्यमानत्वात्। वस्तुतस्तुन भ्रमे सादृश्यापेक्षानियमः। निरुपाधिकेऽपि `पीतः शङ्खः' इत्यादौ व्यभिचारात्। `रक्तः स्फटिकः' इत्यादावपि द्रव्यत्वादिना सादृश्यमस्तीत्यपि न। प्रधानमात्रवृत्तितया प्रागवगतमध्याससमये चाधिष्ठानवृत्तितया गृहीतं यत् तदेव हि सादृश्यं विपर्ययप्रयोजकमिति त्वयापि वाच्यम्। न तु प्रागेव प्रधानाधिष्ठानोभयवृत्तितया गृहीतम्। तस्य संशायकत्वात्। द्रव्यत्वादि च लोहितालोहितवृत्तितया प्राग्गृहीतमिति न विपर्ययप्रयोजकम्। किं च सादृश्यं न स्वतो भ्रमकारणं, मानाभावात्। किं तु संस्कारोद्बोधेन सामग्रीसंपादकतया। संस्कारोद्बोधश्च न सादृश्यैकनियतः। अदृष्टादिनाऽपि किं तु संस्कारोद्बोधेन सामग्रीसम्पादकतया। संस्कारोद्बोधश्च न सादृश्यैकनियतः। अदृष्टादिनाऽपि तत्सम्भवात्। तदुक्तम्- `सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति। चिन्तादिकं च प्रणिधानसूत्रे व्याख्यातम्। तथा चान्यतः संस्कारोद्वोधे सति सादृश्यमनुपयोगि। तदुक्तं विवरणे `निरुपाधिकभ्रमकार्यदर्शनमेव गुणावयवसामान्याभावेऽपि केतकीगन्धसदृशः सर्पगन्ध इतिवत् सादृश्यान्तरं वा, शङ्खपीतिमादाविव कारणान्तरं वा कल्पयति' इति।

 

                ननु- दोषं विना भ्रमस्वीकारे तदप्रामाण्यस्य स्वतस्त्वापत्तिः, दोषजन्यत्वस्वीकारे तु दोषस्याप्यध्यसनीयत्वेनानवस्थापत्तिरिति- चेन्न। अनाद्यविद्याध्यासस्य दोषानपेक्षत्वात्। साद्यध्यासस्य चाविद्यादोषजन्यत्वात् नाप्रामाण्यस्य स्वतस्त्वम्। नाप्यनवस्था। अन्यथा तार्किकाणामप्यनादिप्रमा गुणं विनाऽपीति प्रामाण्यपरतस्त्वं भज्येत। जन्यप्रमामात्रस्य गुणजन्यत्वं तु जन्याध्यासमात्रस्य दोषजन्यत्वेन समम्। ननु- लाघवेन प्रथमोपस्थितत्वेन च प्रवृत्तिमात्रं प्रति संसर्गधिय इव धूममात्रं प्रति वह्नेरिव चाध्यासमात्रं प्रति दोषादीनां जनकत्वादविद्याद्यासोऽपि कथं क्लृप्तकारणेन विना भवतु? अन्यथा संसर्गधीरपि प्रवृत्तिविशेषे, वह्निरपि धूमविशेषे हेतुरिति स्यात्। तथा चाख्यातिवादश्चानुमानमात्रोच्छेदश्चापद्येयाताम्। किं च अविद्यारूपविषयस्यानादित्वेऽपि तत्प्रतीतेर्दोषाजन्यत्वे प्रामाण्यापातः। अप्रामाण्यप्रयोजकस्य दोषजन्यस्याभावात्।

 

                अथ भेदवदविद्याख्यदोषस्य स्वपरनिर्वाहकत्वम्, एवमपि भेदो भिन्न इतिवद् `अज्ञानमज्ञातम्' इति व्यवहारो भवतु। प्रतीतिमात्रशरीरस्य स्वविषयधीहेतुत्वं कुत? स्वस्य स्वस्मात् पूर्ववृत्तित्वासम्भवादिति- चेन्न। अध्यासत्वस्य लघुत्वेऽपि प्रथमोपस्थितत्वेऽपि न दोषजन्यतायां तन्त्रत्वम्। दोषस्यापि दृश्यत्वेनाध्यसनीयतयाऽनवस्थापत्तेः। यथा नित्यज्ञानवादिनां ज्ञानत्वस्य न शरीरजन्यतावच्छेदकत्वं, न वा गुणजन्यत्वस्य प्रामाण्यप्रयोजकत्वं, बाधकबलात्, तद्वत् जन्याध्यासं प्रत्येवं दोषादीनां कारणत्वम्। गुणाजन्यत्वेऽप्यबाधितविषयथा नित्यज्ञानप्रामाण्यवत् दोषाजन्यत्वेऽपि बाधितविषयतयाऽनाद्यध्यासस्याप्यप्रामाण्योपपत्तिः। बाधितविषयत्वेऽपि न दोषजन्यत्वमवच्छेदकम्। दोषजन्यत्वेऽप्यवच्छेदकान्तरान्वेषणेऽनवस्थापातात्। बाधितविषयत्वस्य दोषाजन्यवृत्तित्वेऽपि दोषजन्यत्वस्य तद्व्याप्यत्वोपपत्तेः। अत एव शबरस्वामिना `यस्य दुष्टं करणं, यत्र च मिथ्येति प्रत्ययः स एवासमीचीनो नान्यः' इति वदता दुष्टकरणजन्यत्वमन्तरेणापि अर्थान्यथात्वमप्रामाण्यप्रयोजकमुक्तम्। अविद्याध्यासरूपस्य साक्षिचैतन्यस्याविद्याजन्यत्वानभ्युपगमात् न प्रतीतिमात्रशरीरत्वव्याघातः। `अहमज्ञः' इत्याद्यभिलापकारणीभूतवृत्तिरूपाध्यासं प्रति त्वविद्यायाः कारणत्वमस्त्येव, घटादीनामिव स्वप्रत्यक्षं प्रति। वह्निविशिष्टधियोस्तु बाधकाभावात् सामान्येनैव धूमप्रवृत्ती प्रति हेतुतेति न पूर्वोक्तदोषापातः। ननु- अविद्याध्यासस्यानादित्वेन दोषाद्यनपेक्षावदधिष्ठानानपेक्षापि स्यादिति चेन्न। जनकत्वेनाधिष्ठानानपेक्षायामप्याश्रयत्वेन तदपेक्षानियमात्। परममहत्त्वादेराश्रयापेक्षावद् अध्यासस्य साधिष्ठानकत्वनियमेनात्रापि परतन्त्रत्वस्य समत्वात्। भास्यस्याविद्याध्यासस्य भासकतयाऽप्यधिष्ठानापेक्षणाच्च। अविद्यावच्छिन्नस्य चैतन्यस्याविद्यादिसकलद्वैतद्रष्टत्वात् तस्यैव चान्तःकरणावच्छेदेन प्रमातृत्वाद् भ्रमप्रयमयोः सामानाधिकरण्योपपत्तेर्भ्रमस्य समानाधिकरणप्रमानिवर्त्यत्वमुपपद्यते।

 

                ननु देहेन्द्रियादिकं विना कथमन्तःकरणाध्यासः? काऽत्रानुपपत्तिः? अधिष्ठानापरोक्षत्वं हि अपरोक्षभ्रमे कारणम्। तद् यत्राधिष्ठानं स्वतो नापरोक्षं, यथा शुक्त्याद्यवच्छिन्नचैतन्यं, तत्र तदपरोक्षतार्थं देहेन्द्रियाद्यपेक्षा। प्रकृते चाविद्यावच्छिन्नं चैतन्यमधिष्ठानम्। तत्र चैतन्यस्य स्वप्रकाशत्वेनाविद्यायाश्च तदध्यस्तत्वेन तेनैव साक्षिणा अपरोक्षत्वात् कुत्र देहेन्द्रियाद्यपेक्षा? अथैवं प्रलये देहेन्द्रियाद्यभावेऽप्यज्ञानसद्भावेनान्तःकरणाध्यासप्रसङ्गः। न, तदा देहेन्द्रियादिसर्जनविलम्बहेतुनैव तद्विलम्बसम्भवात्। अन्यथा तदा देहेन्द्रियादिकमपि कुतो नोत्पद्येत? न च- दोषादीनामध्यस्तत्वेन तदभावस्य तात्त्विकत्वाद् अतात्त्विकेन तात्त्विककार्यप्रतिबन्धस्यायुक्तत्वात्, बौद्धेन दुष्टतया कल्पितस्य वेदजन्यज्ञानस्येव कल्पितदोषजन्यस्य द्वैतविज्ञानस्य प्रामाण्यापात इति वाच्यम्। बौद्धकल्पितस्य प्रातिभासिकदोषस्य व्यावहारिकवेदापेक्षया न्यूनसत्ताकत्वेन तदप्रामाण्याप्रयोजकत्वेऽप्यविद्याख्यदोषद्वैतप्रपञ्चयोः समसत्ताकत्वेन कार्यकारणभावनियमेन च कारणीभूताविद्याख्यदोषाभावे कार्यभूतद्वैतप्रपञ्चतद्विज्ञानयोरभावनियमेन नाविद्यामिथ्यात्वेन द्वैतज्ञानसत्यतापातः। कारणमिथ्यात्वे कार्यमिथ्यात्वस्यावश्यकत्वात्। ब्रह्मज्ञानेतराबाध्यत्वरूपव्यावहारिकत्वस्य बाध्याबाध्यसाधारणस्य मिथ्यात्वसिद्ध्यनपेक्षत्वात् न सत्त्वविभागासिद्धिः। ननु दोषादीनां रूप्यादिभ्रमहेतूनां पारमार्थिकसत्त्वमौत्सर्गिकप्रामाण्येन सिद्धमिति परमार्थसतामेव तेषां हेतुत्वमिति चेन्न। व्यावहारिकप्रामाण्यस्य साक्षिणा ग्रहणेऽपि त्रिकालाबाध्यत्वरूपतात्त्विकप्रामाण्यं न केनापि गृह्यत इति प्रत्यक्षबाधोद्धारे प्रागेवाभिहितत्वात्। न च- रूप्याद्यध्यासे दोषादीनामधिष्ठान- समसत्ताकत्वं दृष्टमिति इहापि तथेति वाच्यम्। साधर्म्यसमजात्युत्तरत्वात्। वस्तुतस्तु सर्वत्र चैतन्तस्यैवाधिष्ठानत्वेन कुत्रापि दोषादीनामधिष्ठानसमसत्ताकत्वाभावात्। न च- बाधकं ज्ञानं सत्यमेव वक्तव्यम्, अन्यथा बाधपरम्परया अनवस्थापत्तेरिति वाच्यम्। वेदान्तवाक्यजन्यचरमचित्तवृत्तेः कतकरजोन्यायेन स्वपरबाधकतयाऽनवस्थाया अभावात्। दृश्यत्वमात्रेण युगपत्कृत्स्नबाधसम्भवात्। न हि गुहायां न शब्द इति शब्दः स्वं न निषेधति। अन्यथा स्वस्य स्वेनानिषेधे तवाप्यनवस्थापत्तिः। शब्दमात्रनिषेधानुभवविरोधश्च। यद्यपि बाधकज्ञानं वृत्त्युपरक्तचैतन्यरूपं स्वतः सत्यमेव। तथापि तदवच्छेदिकाया वृत्तेर्दृश्यत्वेन मिथ्यात्वाद् बाधोपपत्तिः।

 

                ननु बन्धस्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वे तदभावार्थं यत्नो न स्यात्। अत्यन्ताभावस्यासाध्यत्वात्, अत एव न तत्प्रतीत्यभावार्थमपि यत्नः। तस्या अपि मिथ्यात्वाद्; अन्यथा मोक्षेऽपि बन्धप्रतीत्या तद्दशायामपि प्रातिभासिकबन्धापातात्। अथ पारमार्थिकत्वाकारेण मिथ्यात्वं, स्वरूपेण तु निवृत्तिरेव, न। तस्याः स्वरूपाबाधेनाप्युपपत्तेरिति चेन्न। सत्यस्य ब्रह्मणो निवृत्त्यदर्शनेन स्वरूपतो मिथ्यात्वाभावे निवृत्त्ययोगात् मिथ्यात्वं निवृत्त्यनुकूलमेव। न च तदर्थं प्रवृत्त्यनुपपत्तिः, अधिष्ठानसाक्षात्कारानन्तरं तथैव। ततः पूर्वं तु कण्ठगतविस्मृतचामीकरप्राप्तय इव भ्रमबाधकज्ञानोत्पत्तये प्रवृत्त्युपपत्तेः। अत्यन्ताभावाधिकरणे च प्रतियोगिवत्तन्निवृत्तिरप्युपपादितैव। न च- त्रैकालिकनिषेधप्रतियोगिनि तुच्छे निवृत्तिर्न दृष्टेति कथं तादृशि प्रपञ्चे सा स्यादिति वाच्यम्। यथाकथंचित् सजातीयेऽदर्शनस्याप्रयोजकत्वात्। अन्यथा अनुत्पन्ने निवृत्तिर्न दृष्टेति प्रागभावोऽपि न निवर्तेत। तस्मात् स्वभावविशेष एव तुच्छनित्यविलक्षणो निवृत्तिप्रयोजक इति वाच्यम्। सा च निवृत्तिरधिकरणस्वरूपेति पक्षे घटनाशार्थं मुद्गरपातादाविव मननादौ प्रवृत्तिरूहनीया। अतिरिक्तेति पक्षे त्वनिर्वचनीया, पञ्चमप्रकारा चरमवृत्तिरूपा वा सा, सर्वथा जन्यैवेति न काऽप्यनुपपत्तिः।

 

                ननु बन्धस्य ब्रह्मण्यध्यस्तत्वे तन्निदिध्यासनसाध्यतत्साक्षात्कारनिवर्त्यत्वं श्रवणादिनियमादृष्टसापेक्षब्रह्मज्ञाननिवर्त्यत्वं च न स्यात्। न हि देवतानिदिध्यासनसाध्यतत्साक्षात्कारनिवर्त्यं दुरितं तत्राध्यस्तम्। न वा दूरगमनादिनियमादृष्टसापेक्षसेतुदर्शनविवर्त्यं दुरितं तत्राध्यस्तमिति चेन्न। आत्माध्यस्तगौरत्वादेः, शुक्त्याद्यध्यस्तरूप्यादेश्च तत्तत्साक्षात्कारनिवर्त्यत्वदर्शनेन प्रपञ्चस्यापि ब्रह्मण्यध्यस्ततया तत्साक्षात्कारनिवर्त्यत्वस्यावश्यकत्वात्। न हि शुक्त्याद्यध्यस्तं रूप्यादि शुक्त्यादिज्ञानं विना निवर्तते। देवतादर्शनादिना तु प्रायश्चित्तसमकक्ष्येण दुरितस्य कारणात्मनाऽवस्थानमात्रं क्रियते, नतु शुक्तिज्ञानेन रूप्यस्वेव निवृत्तिः। अधिष्ठानाज्ञानरूपोपादानकस्यारोपितस्य तन्निवृत्तिं विना निवृत्त्ययोगात्। अज्ञाननिवृत्तिश्चाधिष्ठानज्ञानादेवेत्युक्तं प्राक्। श्रवणादिनियमादृष्टं च न मुक्तिं प्रति कारणं किन्तु ब्रह्मापरोक्ष्यं प्रति।

 

                ननु- अवघातसाध्यवैतुष्यान्यापूर्वस्येव श्रवणादिसाध्यापरोक्ष्यान्यमुक्तेरेव तत्साध्यत्वम्। अन्यथा श्रवणनियमादृष्टसाध्ये साक्षात्कारे श्रवणनिरपेक्षस्योपायान्तरस्याप्रसक्त्या तत्प्रसक्त्यधीननियमविध्ययोगात्। न च- परोक्षज्ञानं श्रवणाद्, अपरोक्षं तु नियमादृष्टादिति युक्तम्। वणादिविधौ परोक्षज्ञानप्रवाहरूपनिदिध्यासनसाध्यापरोक्षस्यैव दृशिनोद्देशात्। त्वन्मते परोक्षज्ञाने कामनाया अयोगेन तस्योद्देश्यत्वायोगाच्चेति। चेन्न। तत्र क्रत्वर्थस्य नियमापूर्वस्य परमापूर्वसाधकत्वेऽपि पुरुषार्थहिरण्यधारणादिनियमादृष्टस्य तदभाववत् श्रवणादिसाध्यसाक्षात्कारान्यफलाभावेऽपि तेनैव फलवत्त्वोपपत्तेः। `सर्वापेक्षा च यज्ञादिश्रुतेरश्वत्' इति न्यायात्, `सर्वं कर्माखिलं पार्थ! ज्ञाने परिसमाप्यते' इति स्मृतेश्च। अत्र सर्वाखिलपदाभ्यां कर्मशब्दवाच्यापूर्वमात्रस्य ज्ञाने समाप्तिर्दर्शिता। मेक्षस्याविद्यानिवृत्तिरूपस्य ज्ञानातिरिक्ता साध्यत्वनियमाच्च। ज्ञाने समाप्तिर्दर्शिता। मोक्षस्याविद्यानिवृत्तिरूपस्य ज्ञानातिरिक्तासाध्यत्वनियमाच्च। ज्ञाने त्वसंभावनादिनिवृत्त्या प्रतिबन्धकदुरितनिवृत्त्या च दृष्टादृष्टांशोपयोगः। सामान्यपुरस्कारेण च प्रसक्तस्य साधनान्तरस्य निवृत्तिः सर्वत्र नियमविधेः फलम्। विशेषरूपेण त्वपूर्वविधित्वमेव। यथा हि `व्रीहीनवहन्ति' इत्यादावपूर्वसाधनीभूतव्रीहिवैतुष्ये (विशिष्य) अवघातातिरिक्तसाधनान्तराप्रसक्तावपि व्रीहिवैतुष्यमात्रे प्रसक्तस्य नखविदलनादेर्निवृत्तिः, विशिष्य कार्यकारणभावबोधनात्, तथा निर्विशेषब्रह्मात्माभेदसाक्षात्कारप्रतिबन्धनिवृत्तौ श्रवणाद्यतिरिक्तसाधनान्तराप्रसक्तावप्यात्मज्ञानमात्रप्रतिबन्धवृत्तौ साङ्ख्यादिशास्त्रस्यापि प्रसक्तेः, तन्निवृत्तिर्विशिष्य वेदान्तवाक्यविचारविधानादिति परमगम्भीरोऽयं ग्रन्थार्थः।

 

                ननु- यदि विश्वं कल्पितं स्यात्, तदा `जन्माद्यस्य यतः' इति सूत्रे, `यतो वा इमानि' इत्यादिश्रुतौ च जन्माद्युक्तिः, `ईक्षतेर्नाशब्दम्' इति सूत्रे, `तदैक्षत' इत्यादिश्रुतौ च ईश्वरस्येक्षापूर्वककर्तृत्वोक्तिः, `लोकवत्तु लीलाकैवल्यम्' इति सूत्रे, `आप्तकामस्य कास्पृहा'त्यादिश्रुतौ च प्रयोजनाभावेऽपि लीलया सृष्ट्याद्युक्तिः, `वैषम्यनैर्घृण्ये न सापेक्षत्वात्' इति सूत्रे `पुण्येन पुण्यं लोकं न्यति' इत्यादिश्रुतौ च कर्मसापेक्षत्वेनावैषम्योक्तिः, `तेजोऽतस्तथा ह्याह' इति सूत्रे, `वायोरग्निः' इत्यादिश्रूतौ च तेज आदेर्वाय्वादिजन्यत्वोक्तिः, `विपर्ययेण तु क्रमोऽत उपपद्यते च' इति सूत्रे, `पृथिव्यप्सु प्रलीयते' इत्यादिस्मृतौ च पृथिव्यादीनामबाधौ लयोक्तिरित्याद्ययुक्तं स्यात्। न हि कल्पिते तत्तद्विरोधशङ्का तन्निराकरणं च युक्तमिति चेन्न। प्रपञ्चस्य कल्पितस्यापि व्यावहारिकसत्त्वाभ्युपगमेन तद्दशायां विरोधशङ्कातत्परिहारयोरुचितत्वात्। इन्द्रजालादावध्यस्तेऽप्यैन्द्रजालिकादेरीक्षापूर्वक स्रष्ट्रत्वादेर्दर्शनाच्च। यथा च कल्पितस्यापि जन्माद्युपपत्तिस्तथाऽनिर्वचनीयवादे वक्ष्यते। स्वप्नेऽपि सृष्ट्यादेः श्रुत्या प्रतिपादनाच्च। अध्यस्तस्यापि सर्पस्य भयकम्पादिजनकत्ववत् वाय्वादीनां तेजआदिजनकत्वमप्युपपन्नम्। `तदभिध्यानादेव तु तल्लिङ्गात्सः' इति सूत्रे च तत्तद्भावापन्नस्य ब्रह्मण एव कारणत्वाभिधानात्। अबादौ पृथिव्यादिलयोक्तिरपि तत्तद्भावापन्नचैतन्ये व्याख्येयेति नाधिष्ठानातिरिक्ते लयोक्तिः। वैषम्यनैर्घृण्यप्रयोजनादिशङ्खापरिहारादिकं तूपासनावस्थायाम्। भोक्तापत्तेरविभागश्चेत्स्याल्लोकवत्' इति आपाततः परिणामवादाभ्युपगमेन। `तदनन्यत्वमारम्भणशब्दादिभ्यः' इति तु विवर्तवादे परमसिद्धान्तदशायां न शङ्का न चोत्तरम्। मायाविन इवेश्वरस्य स्वप्रतिबिम्बभूतजीवभ्रमयितृत्वेन सर्वविरोधनिरासोपत्तेः।

 

                ननु- ईश्वरस्यापि सपरिकरस्य जीवेनाध्यस्तत्वात् कथं भ्रमयितृत्वम्? न अविद्योपहितचित एवानादेरीश्वरत्वेनान्तःकरणोपहितजीवकल्पितत्वायोगात्। जीवकल्पितत्वपक्षेऽपि तादृग्धर्मविशिष्टतयैव कल्पनेन तस्य भ्रमयितृत्वाद्युपपत्तेः। `परिकल्पितोऽपि मरणाय भवेदुरगो यथा न तु नभो मलिनम्' इति न्यायात्। ननु न जीवानां वाय्वादिभ्योऽग्न्याद्युत्पत्तिरिति भ्रमोऽस्ति, यः स्वाप्नभ्रम इव श्रुतेरालम्बनं स्यात्। न च भ्रान्तिं विना कल्पितमस्ति। न चैतद्वाक्यजभ्रान्तिकल्पितमेव एतद्वाक्यालम्बनम्। वेदस्य भ्रमजनकत्वप्रसङ्गात्। अनुवादे तु न दोषः। न चेश्वर एव तत्कल्पकः। तस्य भ्रान्तत्वप्रसङ्गात्। तदभ्युपगमेऽपि न निस्तारः। भ्रान्तेर्देहेन्द्रियादिकार्यत्वात्। तेषां च पृथिव्यादिकार्यत्वात्। पृथिव्याद्युत्पत्तेः प्राक् भ्रान्त्ययोगादिति चेन्न। भ्रान्तिमात्रे देहेन्द्रियाद्यपेक्षायाः प्रागेव निरासात्। ईश्वराध्यस्तवाय्वादिहेतुकाग्न्याद्युत्पत्त्यालम्बनत्वेन वेदस्य भ्रमाजनकत्वाद्। अध्यस्तस्य चाध्यस्तत्वेन स्फुरणान्न मायाविन इव ईश्वरस्य भ्रान्तत्वप्रसङ्गः। न चाध्यस्तत्वे उत्पत्त्याद्यनुपपत्तिः। अनध्यस्तस्य क्वाप्युत्पत्त्याद्यदर्शनेनाध्यस्तत्वस्यैव तदुपपादकत्वात्। सत्कार्यवादासत्कार्यवादनिषेधेनानिर्वचनीयकार्यवादमात्रे कार्यकारणभावपर्यवसानात्। तदेवं कृत्स्नस्य प्रपञ्चस्याद्वैते ब्रह्मणि कल्पनोपपत्तेर्न प्रतिकूलतर्कपराहतिः।

 

                                इत्यद्वैतसिद्धौ ब्रह्मणि प्रतिकलतर्कनिराकरणम्।।

 

[/1-2-2]

 

[1-2-3]

                एतदनुमानम् `एकमेवाद्वितीयम्' इत्यादिश्रुतिरप्यनुगृह्णाति। ननु श्रुत्यास्वस्वरूपस्वप्रामाण्यस्वयोग्यतादेर्मिथ्यात्वाबोधनेन प्रत्यक्षादिसिद्धतत्सत्त्वोपजीवनेन च ब्रह्मेतरसकलमिथ्यात्वासिद्धिः, `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्ये'ति न्यायेन प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिश्च, योग्यतादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्त्विकत्वापत्तिः, शब्दबोध्यस्य शब्दतत्प्रामाण्ययोग्यतादिना समसत्ताकत्वनियमात्। न च सदर्थे स्वाप्नदेवतावाक्ये व्यभिचारः आप्तत्वापौरुषेयत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगात्, किं तूपश्रुतिवत्तादृशशब्दज्ञानं लिङ्गत्वेन प्रमाणमिति चेन्न निर्दोषशब्दत्वेन तस्य शब्दविधयैव प्रामाण्यसम्भाद्, आप्तत्वापौरुषेयत्वयोर्दोषाभाव एवोपक्षयाद् व्याप्त्याद्युपस्थितिकल्पने गौरवाद्, वक्तुः क्तल्पितत्वेऽपि तद्‌गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वाच्च। तथा च शब्दसमसत्ताकत्वस्य व्यभिचाराद् योग्यतादिसमसत्ताकत्वनियमसिद्धेरप्रयोजकत्वाच्च, परोक्षत्वानित्यत्वाद्युपाधिसम्भ्वाच्च श्रुत्या योग्यतादिसकलमिथ्यात्वबोधनेऽपि तदर्थस्य न मिथ्यात्वम्, मिथ्यात्वप्रयोजकरूपाभावात्। महाभाष्योक्तन्यायोदाहरणमपि न युक्तम्, विषयवैषम्यात्। तथा हि- `शतानि सहस्राणी'त्यत्र सर्वनामस्थानसंज्ञकशिसन्निपातेन विहितो नुम् `ष्णान्ताषडि'ति षट्संज्ञाद्वारा `षड्भ्यो लुगि'ति शिश्वरूपसर्वनामस्थानस्य पञ्चेत्यादाविव लुङ्‌निमित्तं न भवति, तत्सन्निपातेनैव विहितत्वात्, तत्सद्भावनियमेनैव विहितत्वादित्यर्थः। अलुप्तस्यैव सर्वनामस्थानस्य नुम्निमित्तत्वात्, `न लुमताङ्गस्ये'ति लुमता लुप्तेऽङ्गकार्यनिषेधात्। तथा चालुप्तप्रत्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः। यत्र तु `प्रत्ययलोपे प्रत्ययलक्षणमि'ति न्यायेन लुप्तेऽपि प्रत्यये कार्यं भवति तत्रालुप्तत्वविशेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्तत्वात् न सन्निपातलक्षणन्यायावतारः प्रत्ययसद्भावस्य तत्रानुपजीव्यत्वात्। एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात् तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेतन्न्यायावतारः। प्रत्यक्षादेस्तु स्वरूपेणैव निमित्तता स्वप्नाद्यर्थस्याप्यर्थक्रियाकारित्वदर्शनेन प्रागेवोपपादिता। अतो यद् बाध्यते तात्त्विकत्वं तन्नोपजीव्यम्, यच्चोपजीव्यमर्थक्रियासामर्थ्यलक्षणव्यावहारिकप्रामाण्यं तच्च न बाध्यत इति किं केन सङ्गतम्? तदुक्तं टीकाकृद्भिः- `उत्पादकाप्रतिद्वन्द्वित्वा'दिति। अत एव ज्योतिष्टोमादिविधेरुपजीव्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्ययोग्यता दीतरविषयत्वेन सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वस्य वोपपत्तौ न तात्त्विकसर्वमिथ्यात्वकल्पनं युक्तमिति अपास्तम्, दृष्टान्ते अग्निविद्यादेरिव दार्ष्टान्तिके योग्यतादेस्तात्त्विकस्यानुपजीव्यत्वात्। न हि योग्यता तात्त्विकयोग्यतात्वेन निमित्तम् किं तु योग्यतात्वेनैव। सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः। `सत्यं ज्ञानमनन्तं ब्रह्म', `तत्सत्यं स आत्मे'त्यादिश्रुत्या सत्यत्वप्रतिपादनात्, न सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वोपपत्तिः। तस्माद्योग्यतादेः मिथ्यात्वेपि वेदान्त बोध्यं सत्यमेवेति स्थितम्। यथाचाविद्यातत्कार्यस्य स्वरूपतो निषेधेऽपि तुच्छवैलक्षण्यं, पारमार्थिकत्वाकारेण निषेधे वा पारमार्थिकत्वधर्मशून्यस्यापि ब्रह्मणः स्वरूपेण सत्त्वं, तथोपपादितमधस्तात्। ननु- तत्त्वमस्यादिवाक्येन प्रत्यक्षाद्यविरोधाय तत्त्वंपदलक्षितयोरैक्यमिव मिथ्यात्वश्रुत्यापि तदविरोधाय प्रत्यक्षादिसिद्धादन्यस्यैव मिथ्यात्वं बोध्यम्, अन्यथा प्रत्यक्षाद्यनुग्रहाय व्यावहारिकमपि सत्त्वं न कल्प्येत `नेह नाने'त्यादिनिषेधेनात्यन्तासत्त्वबोधनाद् इति चेन्न, विशिष्टयोरैक्य विशेषणयोरप्यैक्यापातेन सर्वत्र विशिष्टाभेदपरवाक्यस्य लक्षितविशेष्यैक्यपरत्वनियमेन `तत्त्वमसी'त्यत्रापि तथाभ्युपगमात्। तदुक्तम्-

 

                                अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः।

                                घटते न यदैकता तदा नतरां तद्विपरीतरूपयोः।। इति।

 

                मिथ्यात्वबोधकश्रुतौ तु नास्ति प्रत्यक्षादिविरोधः, तात्त्विकत्वांशस्यानुपजीव्यत्वाद्, व्यावहारिकसत्त्वस्य चोपजीव्यत्वान्नात्यन्तासत्त्वकल्पनमित्यस्याप्युक्तप्रायत्वात्। ननु- श्रुतेस्तात्पर्यं चैतन्यमात्रे वा? द्वितीयाभावविशिष्टे वा? तदुपलक्षिते वा? नाद्यः विश्वमिथ्यात्वासिद्धेरिष्टापत्तेः, तस्य स्वप्रकाशतया नित्यसिद्धत्वेन श्रुतिवैयर्थ्याच्च। न द्वितीयः, अखण्डार्थत्वहानात्। अत एव न तृतीयः काकवदितिवद् द्वितीयाभाववदित्यनेनापि सप्रकारकज्ञानजननेनाखण्डार्थत्वायोगात्, चिन्मात्रस्य नित्यसिद्धत्वेन तदन्यस्य च मुमुक्ष्वज्ञेयत्वेन काकेन संस्थानविशेषस्येव द्वितीयाभावेनोपलक्ष्यस्यान्यस्याभावात् तस्योपलक्षणत्वायोगाच्चेति चेन्न, काकस्य संस्थानविशेष इव द्वितीयाभावस्य स्वरूपमेवोपलक्ष्णत्वायोगाच्चेति चेन्न, काकस्य संस्थानविशेष इव द्वितीयाभावस्य स्वरूपमेवोपलक्ष्यमित्युपलक्ष्याभावनिबन्धनोपलक्षणत्वानुपपत्तेरभावात्। उपलक्षणत्वे हि उपलक्ष्यसत्त्वमात्रं तन्त्रम्, न तु तस्य स्वरूपातिरिक्तत्वमपि, गौरवाद्, उपलक्ष्यतावच्छेदकरूपाभावेऽपि स्वतोव्यावृत्तजातिवदुपलक्ष्यत्वसम्भवात्। अत एव न सप्रकारकत्वापत्तिः, काकवदित्यत्राप्युपलक्षणस्याप्रकारत्वात्, किं तु स्वरूपातिरिक्तधर्मस्य तत्रोपलक्षणत्वेन सप्रकारत्वम्, इह तु तन्नेति वैषम्यम्। न चोपलक्षणवैयर्थ्यम्, अनर्थनिवृत्तिहेतुत्वेन द्वितीयाभावद्वारकस्वरूपज्ञानस्योद्देश्यत्वात्, तस्य प्रागसिद्धत्वात्। न च मिथ्यात्वासिद्ध्येष्टापत्तिः, अवान्तरतात्पर्यस्य तत्रापि सत्त्वात्, तद्‌द्वारैव स्वरूपचैतन्ये महातात्पर्यात्।

 

                अत एव- श्रुतिबोध्यस्य विशेषणस्योपलक्षणस्य वा द्वितीयाभावस्य सत्त्वे अद्वैतहानिः, असत्वे चादण्डे दण्डीति वाक्यवत् काकहीने काकवदिति वाक्यवच्चाद्वैतवाक्यस्यातत्त्वावेदकत्वापत्तिरिति निरस्तम्। आद्ये द्वितीयाभावसत्त्वेन द्वितीयाभावासिद्ध्यापादनस्यानुचितत्वाद्, अभावस्याधिकरणातिरेकानभ्युपगमाच्च। द्वितीये तु सृष्ट्यादिवाक्यवदुपलक्ष्यस्वरूपसत्यत्वमादाय तत्त्वावेदकत्वात्, मुख्यतात्पर्यविषयस्यासत्यतायामेवातत्त्वावेदकत्वाभ्युपगमात्। अत एव महातात्पर्याभिप्रायेण चैतन्यमात्रे तात्पर्यमित्याद्यपक्षेऽपि न दोषः, अवान्तरतात्पर्येण मिथ्यात्वसिद्धेरपि स्वीकारेणेष्टापत्तेरप्यसम्भवात्।

 

                ननु द्वितीयाभावे महातात्पर्याभावः किं प्रमाणान्तरप्राप्त्या, यथा वायुक्षेपिष्ठत्वादौ? उत तद्विरोधित्वेन यथात्मवपोत्खननादौ? उतोद्देश्यविशेषणत्वादिना यथा ग्रहैकत्वादौ? नाद्यः, त्वयैव द्वितीयाभावस्य प्रमाणान्तरप्राप्त्यनभ्युपगमात्। द्वितीयेऽपि विरोधिमानं न तावत्प्रत्यक्षादि द्वैतग्राहि त्वन्मते तस्यैव श्रुतिबाध्यत्वात् नाद्वैतवाक्यान्तरम् तस्यात्ममात्रपरत्वे द्वितीयाभावविरोधित्वात्, न हि विशेष्यविषयं `अग्निहोत्रं जुहोती'ति वाक्यं विशिष्टविषयेण `दघ्ना जुहोती'ति वाक्येन विरुध्यते द्वैताभावपरत्वे त्वेकविषयत्वेन सुतरामविरोधात्। नापि तृतीयः, `ग्रहं संमार्ष्टी'त्यत्र संमार्जनस्येवाखण्डार्थपरे वाक्ये विधेयान्तरस्याभावेन विशेष्यस्य शास्त्रगम्यस्य चिन्मात्रस्याप्राप्तत्वेनोद्देश्यत्वायोगाच्च द्वितीयाभावस्योद्देश्यविशेषणत्वानुपपत्तेः, अविवक्षाहेतोरनुवाद्यत्वस्याप्यभावाच्चेति चेन्न, स्वयमेव स्वबोधितमपि द्वितीयाभावं द्वितीयत्वादेव निषेधतीति स्वविरोधादेव श्रुतेस्तत्रातात्पर्यात्। मानविरोधित्वमात्रस्य तात्पर्याभावे प्रयोजकत्वात् स्वविरोधेऽपि न क्षतिः।

 

                ननु- एकेनैव प्रमाणेनैकस्य प्राप्तिनिषेधावनुपपन्नौ न, रूपभेदेनाविरोधात्। द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते। तस्य च प्राप्यतावच्छेदकरूपं द्वितीयाभावत्वम् तच्च न निषेध्यतावच्छेदकम् किं तु द्वितीयत्वमेव निषेध्यमात्रानुगतम्। तत्र तदनभ्युपगमे तु न तस्य निषेध्यत्वम् न वा तेनात्मनः सद्वितीयत्वापत्तिरिति न कोऽपि दोषः। यत्र तु प्राप्यतावच्छेदकमेव निषेध्यतावच्छेदकं तत्र प्राप्तिनिषेधशास्त्रयोरतुल्यविषयत्वेऽपि विशेषशास्त्रविषयपरित्यागेन सामान्यशास्त्रप्रवृत्तिः तुल्यविषयत्वेत्वगत्या विकल्प इति न निषेधस्यासङ्कोचेन प्रवृत्तिः। यथा `न हिंस्यात्सर्वा भूतानी'ति निषेधशास्त्रस्य `अग्नीषोमीयं पशुमालभेते'त्यादिप्राप्तिशास्त्रविषयेतरविषयत्वं, `अतिरात्रे षोडशिनं गृह्णाति' `नातिरात्रे षोडशिनं गृह्णाती' त्यादिप्राप्तिनषेधशास्त्रयोस्तु विकल्पेनैकविषयत्वम्, एकस्यैव हिंसात्वस्य षोडशिग्रहत्वस्य च प्राप्तिनिषेधयोरवच्छेदकत्वात् तत्र निषेधशास्त्रस्यासंकुचद्‌वृत्तित्वे प्राप्तिशास्त्रस्य सर्वात्मना वैयर्थ्यापत्तिः प्रकृते च द्वितीयत्वेन रूपेण निषेधस्यैव शास्त्रार्थत्वान्न कस्यापि वैयर्थ्यशङ्का। अत एव द्वितींयाभावनिषेधे पुनर्द्वितीयोन्मज्जनापत्तिरिति निरस्तम्। उपपादितमेतत् मिथ्यात्वमिथ्यात्वसाधने। यथा प्रतियोग्यभावयोर्निषेध्यतावच्छेदकैक्ये नैकनिषेधेऽपरसत्त्वात्तिरिति। न च स्वेनैव निषिद्धस्य द्वितीयाभावस्य द्वितीयस्यैव विशेषणत्वेनोपलक्षणत्वेन वा पुनरुपादानं न युक्तमिति वाच्यम्, अभावबुद्धौ निषिद्धस्यापि प्रतियोगिनः `सा शुक्ति' रित्यत्र प्रतिषिद्धस्यापि पूर्वप्रतीतरजतस्योपलक्षणतयोपादानदर्शनाद्, असङ्कीर्णज्ञानप्रयोजकत्वस्य प्रकृतेऽपि तुल्यत्वात्। तस्मात् `एकमेवाद्वितीय' मित्यादिश्रुतिर्विश्वमिथ्यात्वे प्रमाणमिति सिद्धम्।

                                इत्यद्वैतसिद्धौ सामान्येन मिथ्यात्वश्रुत्युपपत्तिः।

 

[/1-2-3]

 

[1-2-4]

                                                अद्वैतसिद्धिः

 

                ननु- आपातप्रतिपन्न एव न तावत् श्रुत्यर्थः, `कश्छन्दसां योगमावेद धीर' इति श्रुत्या `बिभेत्यल्पश्रुताद्वेद' इति स्मृत्या च वेदार्थस्यातिगहनतोक्तेः, मीमांसावैयर्थ्यप्रसङ्गाच्च, किन्तु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थः, अविरोधग्रहणार्थं च मीमांसासाफल्यम्, अत एव `आज्यैः स्तुवते' `आकाशादेव समुत्पद्यन्त' इत्यादावापातप्रतीतघृतगगनादिपरित्यागेनाज्याकाशादिपदानां सामपरमात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांसयोश्चित्राकाशाद्यधिकरणेषु, अन्यथा तत्तत्पूर्वपक्षाभ्युपगमापत्तेः, तथा चोक्तं वार्तिककारैः शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानमित्यत्र-

                               

                                असन्निकृष्टवाचा च द्वयमत्र जिहासितम्।

                                ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च।।

 

                                विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः।

                                बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात्।।

 

                                अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते।

                                अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहृतौ।। इति।

 

अन्यत्राप्युक्तम्-

 

                                विरुद्धवत्प्रतीयन्त आगमा यत्र ये मिथः।

                                तत्र दृष्टानुसारेण तेषामर्था विवक्षिताः।। इति।

 

                तथा च प्रत्यक्षादिविरोधात् पूर्वोत्तरविरोधाच्च नाद्वैतपरत्वमेकमेवेत्यादिवाक्यानामिति चेन्न। द्वैतप्रत्यक्षस्य चन्द्रप्रादेशिकत्वप्रत्यक्षवत् सम्भाविताप्रामाण्यतया अद्वैतश्रुतिविरोधित्वाभावात्। यथा च श्रुत्या प्रत्यक्षं बाध्यते, तथा प्रपञ्चितमधस्तात्। किं च प्रत्यक्षं नियतविषयम्, श्रुतिः सर्वविषया, तथा च यत्र प्रत्यक्षेण भेदो न गृहीतः, तत्रैवाभेदश्रुतेरवकाशः। ननु ययोरैक्यं श्रुत्या बोध्यते तयोर्भेदः प्रसक्तो न वा? नान्त्यः, अप्रसक्तप्रतिषेधापातात्, नाद्यः, प्रसञ्जकप्रमाणविरोधेनैक्यस्य बोधयितुमशक्यत्वादिति चेन्न, अन्त्यपक्षाभ्युपगमे दोषाभावात्। अप्रसक्तप्रतिषेध इति च किमप्रसिद्धप्रतियोगित्वम्? किं वा निष्प्रयोजनत्वमिति विवेचनीयम्। नाद्यः, अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्परप्रतियोग्यनुयोगिभावेनान्यत्र निषेधसम्भवात्। न च तत्रैव प्रसिद्धिस्तन्त्रम्, निषेधप्रमामात्रोच्छेदप्रसङ्गात्। न द्वितीयः अनर्थनिवृत्तेरेव प्रयोजनत्वात्, `नान्तरिक्षेऽग्निश्चेतव्य' इत्यादौ स्तुतिमात्रप्रयोजनेनाप्यप्रसक्तनिषेधदर्शनाच्च।

 

                अथ श्रुत्या ययोरभेदो बोध्यते तयोरुपस्थितिरस्ति? न वा? नान्त्यः, अनुपस्थितयोरभेदबोधनायोगात्। आद्ये सा किं श्रुतिजन्या, प्रत्यक्षादिजन्या वा। नाद्यः। श्रुतेर्मानान्तरागोचराभेदमात्रपरत्वेन घटाद्युपस्थितेस्तज्जन्यत्वाभावेन सर्वाद्वैतासिद्धेः, श्रुतिस्थकिञ्चनेत्यादिपदानामनुवादकत्वाभ्युपगमात्। द्वितीये तु तयोर्भेदोऽपि प्रत्यक्षादिसिद्ध इति क्वाद्वैतश्रुत्यवकाशः? मैवम्, यत् प्रत्यक्षादिना गृह्यते, तद्भेदोऽपि तेन गृह्यत एवेति नियमाभावात्। तथा हि- न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम्, अभेदभ्रमोच्छेदप्रसङ्गात्। स्वरूपभेदवादिनामपि स्वरूपज्ञानाद् घटत्वादिप्रकारकात् भेदत्वप्रकारकं भेदज्ञानं विलक्षणमेव, अन्यथा भेदाग्रहनिबन्धनव्यवहारानुदयप्रसङ्गात्। अत एव स्वरूपज्ञानोत्तरकालमवश्यं भेदज्ञानमित्यपि न, अनवस्थाप्रसङ्गाच्च। तथा हि- `घटपटौ भिन्नौ जानामी'ति घटपटभेदधीः स्वप्रकाशा वा, अनुव्यवसायसिद्धा वा, साक्षिसिद्धा, वा, न स्वप्रतियोगिकभेदविषया, भेदधियः प्रतियोगिधीजन्यत्वनियमेन प्रतियोगिधीव्यक्तिभिन्नव्यक्तित्वावश्यकत्वात्, स्वस्या एव स्वजन्यत्वानुपपत्तेः। ज्ञानान्तरेण च तद्भेदग्रहे क्वचिद् भेदधीधाराविश्रान्तिरवश्यं वाच्या, अन्यथा सुषुप्तिविषयान्तरसञ्चारादिकं न स्यात्। अतः तत्रापि चरमभेदधीरेवोदाहरणम्। तथा च बाधकत्वाभिमता या घटपटभेदधीः स्वभेदाविषया भासते तया सह बाध्यत्वाभिमताया ऐक्यधिय ऐक्यं बोधयित्वा निर्बाधा सती श्रुतिः सर्वाभेदे पर्यवस्यति। न ह्यभेदेऽपि बाध्यबाधकभाव स्वस्यापि स्वबाधकतापत्तेः। तदुक्तं खण्डनकृद्भिः।

 

                                सुदूरधावनश्रान्ता बाधबुद्धिपरम्परा।

                                निवृत्तावद्वयाम्नायैः पार्ष्णिग्राहैर्विजीयते।। इति।

 

                न च- सिद्धान्ते घटतद्धीभेदग्राहिणा स्वप्रकाशेन साक्षिणा स्वस्मिन्नितरभेदस्यापि ग्रहणान्नानवस्था, अन्यथा स्वस्य घटादिभ्योऽभेदसंशयः स्यादिति वाच्यम्, साक्षिणः स्वप्रकाशत्वेऽपि स्वनिष्ठेतरप्रतियोगिकभेदग्रहे इतरप्रतियोग्युपस्थितिसापेक्षत्वात्। अन्यथा स्वस्यान्तःकरणाद्यभेदभ्रमो न स्यात्। स्वप्रकाशेन भेदाग्रहेऽपि मानान्तरेण भेदग्रहात् न घटाद्यभेदसंशयः इति न किञ्चिदेतत्। स्यादेतत्- `घटपटौ भिन्ना'विति प्रत्यक्षं स्वस्याद्वैतज्ञानादिना भेदं विनानुपपत्तेस्तमप्याक्षिपतीति सर्वत्र भेदस्याप्रत्यक्षत्वेऽपि नाद्वैतश्रुतेरवकाशः। अत्रोच्यते- आक्षेपो हि अनुमानमर्थापत्तिर्वा? तत्र विवादाध्यासिता बुद्धिः सर्वतो भिन्नेति नानुमानं सम्भवति, स्वतोऽपि भेदसाधने बाधाद्, दृष्टान्तस्य च साध्यविकलत्वात्। यतःकुतश्चिद् भेदसाधने त्वनुमानाविषये लब्धावकाशा श्रुतिरभेदं बोधयिष्यति। न च स्वव्यतिरिक्तात् सर्वतो भिन्नेति साध्यम्, अद्वैतवादिनं प्रत्यप्रसिद्धविशेषणत्वात्। एतेन- सर्वं सर्वस्माद्भिन्नमिति वाक्यमपि निरस्तम्, तदुक्तम्-

 

                                हेत्वाद्यभावसार्वज्ञ्ये सर्वं पक्षयताऽऽस्थिते।

                                किञ्चित्तु त्यजता दत्ता सैव द्वारद्वयश्रुतेः।। इति।

 

                नाप्यर्थापत्तिः सर्वभेदविषया, स्वावियत्वात्। ययोर्हि भेदं विना यत्रानुपपत्तिर्गृहीता, तयोस्तत्र भेदग्रहेऽप्यनुपपत्तावनुपपत्त्यन्तराग्रहणात्। सर्वत्र तद्‌ग्रहणे तु धाराविश्रान्तौ चरमधीरुदाहरणम्। तदुक्म्-

 

                                आद्यधीवेद्यभेदीयाप्यन्याऽनुपपन्नता।

                                स्वज्ञानापेक्षणादन्ते बाधते नाद्वयश्रुतिम्।। इति।

 

                ननु यावदुपपादकं तत्सर्वमर्थापत्तेविषयः, न तु यत्किञ्चिदुपपादकम्, तथा चार्थापत्तेरितरस्माद् भेदाभावे तत्रैवाभेदश्रुतेर्लब्धावकाशत्वाद् घटपटभेदासिद्ध्यापत्तेरर्थापत्तिभेदस्यापि घटपटभेदोपपादकत्वेनार्थापत्तिविषयत्वं वाच्यम्, अन्यथा दृग्दृश्यसम्बन्धानुपपत्तिर्ज्ञाननिवर्त्यत्वानुपपंत्तिश्च स्वमिथ्यात्वविषया न स्यात्, `सर्वं खल्विदं ब्रह्मे'ति श्रुतिः `नेह नाने'ति ब्रह्मणि भेदमात्रनिषेधानुपपत्तिश्च स्वाभेदविषया न स्यात्, तथा च तत्रापि श्रुत्यन्तरमर्थापत्त्यन्तरं वा वाच्यमिति तवाप्यनवस्थापत्तिः इति। मैवं वोचः, वस्तुत उपपादकत्वं नार्थापत्तिविषयत्वे तन्त्रम्, कितूपपादकत्वेन ज्ञातत्वम्, अन्यथा अर्थापत्तिभ्रमानुपपत्तेः। तथा च येन रूपेणोपपादकत्वं गृहीतं, तद्रूपावच्छिन्नमुपपादकमर्थापत्तेर्विषयः। तत्र यद्यर्थापत्तिगतभेदसाधारणमुपपादकतावच्छेदकमेकं भवेत् तदा सोऽपि भायादेव। न चैवमस्ति तदनिरूपणात्। तथा हि- घटपटभिन्नत्वमुपपाद्यम्, तदुपपादकं च न सर्वभिन्नत्वम्, स्वतोऽपि भेदापत्त्या तदसम्भवात्। नापि स्वातिरिक्तसर्वभिन्नत्वम्; अद्वैतवादिनं प्रति स्वातिरेकविशेषणासिद्धेः, स्वत्वाननुगमाच्च। तथा च तेन तेन रूपेण तत्तद्भिन्नत्वमेव उपपादकमुपेयम्। अत उपपादकतावच्छेदकनानात्वान्न सर्वमुपपादकमर्थापत्तेर्विषय इति पृथक्पृथगनुपपत्तिज्ञानापेक्षायां सर्वत्रानुपपत्तिज्ञाने अनवस्थानात् क्वचिद्धाराविश्रान्तौ तत्रैव लब्धावकाशा श्रुतिः सर्वाद्वैते पर्यवस्यतीति किमनुपपन्नम्? दृष्टान्ते च सर्वत्र स्वसाधारणमुपपादकतावच्छेदकमेकमेवेति तदवच्छिन्नतया स्वस्यापि भानमिति वैषम्यम्। तथा हि- दृश्यत्वावच्छिन्नमिथ्यात्वं विना दृक्सम्बन्धानुपपत्तिग्रहात्तदवच्छिन्नमिथ्यात्वमर्थापत्तेर्विषय इति स्वमिथ्यात्वमपि स्वविषयः, एवमेव ज्ञाननिवर्त्यत्वानुपपत्तेरपि स्वविषयत्वम्, तत्रापि दृश्यत्वादेरेकस्यैवावच्छेदकत्वात्। एवं च ब्रह्मणि सर्वाभेदबोधिकायाः श्रुतेर्भेदमात्रनिषेधान्यथानुपपत्तेश्च स्वाभेदविषयत्वमविरुद्धम्। न हि सर्वभेदे स्वभेदापत्तिरिव सर्वाभेदे स्वाभेदे दोषाय। तस्मादद्वैतश्रुतिर्बाध्यबाधकयोरैक्यबोधनेन निराबाधा सर्वाद्वैतं प्रतिपादयति।

 

                ननु- शब्दबुद्धिकर्मणां विरम्य व्यापाराभावात् कथमादावल्पविषया बुद्धिःपश्चाद् बहुविषया भवतीत्युच्यत इति चेन्न, श्रुतितो द्रागेव जातायाः सर्वविषयाया अद्वैतबुद्धेः प्रामाण्यं व्यस्थापयन्तीनामस्मद्‌बुद्धीनामेव क्रमेण जायमानत्वात्। अयोग्यताज्ञानं च न शाब्दबोधे प्रतिबन्धकम्, न वा योग्यताज्ञानं हेतुः, येन प्रथमं सर्वाद्वैतबुद्धिर्न स्यात्। तदुक्तम्-

 

                                अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि।

                                अबाधात्तु प्रमामत्र स्वतः प्रामाण्यनिश्चलाम्।। इति।

 

                वेदान्तकल्पलतिकायामस्यार्थस्य प्रपञ्चो द्रष्टव्यः। एतेन- चरमज्ञानमिथ्यात्वेऽपि न तद्विषयस्य मिथ्यात्वम्, ज्ञानमिथ्यात्वस्य विषयमिथ्यात्वासाधकत्वात्, अद्वैतज्ञाने व्यभिचारादिति निरस्तम्, श्रुत्यैव द्वैतमात्रनिषेध्यत्वबोधानात्। अद्वैतज्ञानविषये च मिथ्यात्वबोधकाभावादेव सत्यम्, न तु ज्ञानमिथ्यात्वादिति न किञ्चिदेतत्। ननु द्वैतज्ञानाद्वैतज्ञानयोरभेदे कथं बाध्यबाधकभावः? न च व्यावहारिकभेदमात्रेण सः,  द्वैतज्ञानस्यापि बाधकत्वापत्तेः इति चेन्न, व्यावहारिकभेदमात्रस्य बाधकत्वाप्रयोजकत्वात्। यद्वि परीक्षितप्रमाणभावत्वेन बलवत्, तद्‌ बाधकम्, यत्तु सन्दिग्धप्रमाणभावत्वेन दुर्बलं तद्‌ बाध्यमिति व्यवस्थायां द्वैतज्ञानस्य दुर्बलत्वेनाबाधकत्वस्याद्वैतज्ञानस्य च बलवत्त्वेन बाधकत्वस्य शब्दप्रत्यक्षबलाबलविचारे दर्शितत्वात्। यत्तु- `आपो वा इदं सर्वं भूत' मित्यादिश्रुतिः `विमतं जलाभिन्नं प्रतीतत्वात् जलवदि'त्यनुमानं वा स्वबाधकस्य जलाभेदं गृहीत्वा निर्बाधं सत् त्वदुक्तन्यायेन सर्वस्य जलाभेदं बोधयेद्- इति, तन्न, जलाभेदबोधनेऽपि बाध्यबाधकयोरैक्याबोधनाद् बाधकस्य बाधकत्वोपपत्तेः, ऐक्यज्ञानभेदज्ञानयोर्बाद्यबाधकभावस्य जलाभेदज्ञानेनानपायात्। बाधकाभेदो हि बाधकत्वाभावे प्रयोजकः, बाधकस्य स्वबाधकत्वादर्शनात्। अतो न बाध्यबाधकैक्यज्ञानस्य जलाभेदज्ञानसाम्यम्। एतेन- पूर्वं सर्वस्माद्भिन्नमिति मद्वाक्यमद्वैतवाक्यतज्ज्ञानतद्विषयाणां तेभ्यो भेदमादौ गृहीत्वा निर्बाधं सत्सर्वभेदे पर्यवस्यतीति निरस्तम्, बाध्यबाधकयोरभेदे बाधकत्वाभाववत् भेदेऽपि बाधकत्वं न स्यादित्यत्र हेत्वभावात् पूर्वोक्तदोषाच्चेति दिक्।

 

                सर्वासत्त्वं सर्वमिथ्यात्वान्नातिरिच्यते, अतः `सर्वमसदि'ति प्रत्यवस्थानमनवकाशम्। ननु श्रुत्या सर्वस्य मिथ्यात्वं वा बोध्यते, ब्रह्माभिन्नत्वं वा। आद्ये `सर्वं खल्विदं ब्रह्मे'ति सामानाधिकरण्यं न स्यात्, सत्यानृतयोरैक्यायोगात्। द्वितीये `इदं रजतं' `गौरोऽह' मित्यादिभ्रमाणां प्रमात्वं स्यात्, आत्मनि देहादिभेदस्यानृतादिव्यावृत्तेश्च बोधकानां वेदान्तानां `नेदं रजत'मित्यादिबाधकस्य चाप्रामाण्यं स्यात्, घटज्ञानेनैव तदभिन्नब्रह्मतदभेदादेः सर्वस्यापि वस्तुतो ज्ञानत्वेन सार्वज्ञ्यम्, वेदान्तानां वैयर्थ्यम्, सद्यो मोक्षश्च स्यात्, सुखदुःखबन्धमोक्षभेदाऽभेददूषणभूषणजयपराजयभ्रान्तिप्रमादेरपि वस्तुतो भेदाभावेन सर्वसङ्करापत्त्या स्वक्रियास्वन्यायस्ववचनविरोधाश्च स्युरिति चेन्न, आद्ये `मृद् घटः' `इदं रजत'मित्यादाविव उपादानोपादेयभावेनापि सामानाधिकरण्योपपत्तेः। द्वितीये वस्तुतो भेदाभावेऽपि आविद्यकभेदमादाय सर्वव्यवस्थोपपत्तेः। न च भेदस्याप्यनाविद्यकब्रह्माभिन्नत्वेनाविद्यकत्वायोग इति- वाच्यम् आविद्यकत्वस्याप्याविद्यकस्यैवाङ्गीकात्, अथाविद्यकत्वस्यापि ब्रह्माभिन्नत्वात् कथमाविद्यकत्वमिति चेत्, तस्मिन्नपि तस्य कल्पितत्वादिति गृहाण।

 

                ननु- मुक्तावाविद्यकस्यापि भेदस्याभावेनानन्दस्य दुःखाभिन्नत्वेनापुरुषार्थत्वापातः, तत्तदसाधारणस्वभावस्य तत्र तत्राभावेऽपि तत्तदभेदे पारिभाषिकोऽयमभेदो भेदे पर्यवस्येद्, असाधारणरूपेण भेदमभ्युपेत्य सद्रूपेण भेदनिषेधेऽपि इष्टापत्तिरप्रसक्तनिषेधश्चेति चेन्न, एकस्यामेव ब्रह्मव्यक्तौ तत्तदसाधारणस्वभावानां कल्पितत्वेनासत्त्वात् सर्वकल्पनानिषेधकाले कल्पितधर्मावच्छिन्नभेदाभेदादिप्रसक्तरेयोगात्। अत एव नाप्रसक्तप्रतिषेध इष्टापत्तिर्वा, `सद् द्रव्यं' `सन् गुण' इत्यादिप्रतीत्या प्रसक्तानां तत्तद्धर्माणां ब्रह्मणि प्रतिषेधात्। अतः सर्वधर्मशून्याया एकस्या एव सद्‌व्यक्तेश्चिदानन्दरूपायाः प्रतिपादनान्न पारिभाषिकोऽयमभेद इति सिद्धम्। तदेवं `सर्वं ब्रह्माभिन्नमि'ति मते मिथ्याभूतस्य ब्रह्मभेदेऽपि सन्मात्रमेव ब्रह्माभिन्नमिति मते वा न प्रत्यक्षादिविरोधः नापि पूर्वोत्तरविरोधः।।

                               

                                                इत्यद्वैतश्रुतेर्बाधोद्धारः।

[/1-2-4]

 

 

[1-2-5]

                                                अद्वैतसिद्धिः

 

                ननु- यद्यपि सलिल एको द्रष्टा अद्वैत इत्यत्र सलिलशब्दस्य तत्सादृश्यस्वच्छत्वमात्रपरत्वात् तस्य च सर्वमलासंसर्गित्वस्वरूपस्याद्वैतेऽप्युपपत्तेः, `सदेव सोम्येदमग्र आसी'दित्यत्र चाग्रपदस्य `तदैक्षत नामरूपे व्याकरो'दित्यादेश्च कालेक्षणनामरूपात्मकप्रपञ्चप्रापकस्याविद्यकद्वैतविषयकत्वेन वास्तवाद्वैतविरोधित्वाभावः तथापि `सदेव सोभ्येदमग्र आसी'दित्यनेन इदं शब्दोदितस्य विश्वस्य सदभेदेन सत्त्वमुक्त्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः। न हि `सदासी'दित्यस्यासदासीदित्यर्थ इति चेन्न, सद्व्यतिरेकेण नासीदित्यर्थस्यैव निषेधार्थत्वात्। विवृतं चैतद् भाष्यकारादिभिरारम्भणाधिकरणे। न च- सद्‌व्यतिरेकेणासत्त्वोक्तौ सदात्मना सत्यत्वमागच्छतीति वाच्यम्। आगच्छतु नाम। को हि ब्रह्माभिन्नस्यासत्त्वसाधनाय प्रवृत्तौ यो बिभीयात्। अद्वैतवाक्यस्य च षड्‌विधतात्पर्यलिङ्गवत्तया बलवत्त्वेनाविद्यकद्वैतप्रतिपादकत्वं सृष्ट्यादिवाक्यानामिति श्रवणस्वरूपनिरूपणे वेदान्तकल्पलतिकायामभिहितमस्माभिः, इहाप्यभिधास्यते षड्‌विधतात्पर्यलिङ्गानि प्रदर्शयद्भिः। अत एकविज्ञानेन सर्वविज्ञानप्रतिज्ञयोपक्रमात् `एतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसी'त्युपसंहाराच्च अद्वैतस्यैव महाप्राकरणिकतया तदनुसारेण तद्वाक्यस्थपदानां व्याख्येयत्वावधारणात्, नानार्थपदानामर्थान्तरोपस्थापकत्वसम्भवेऽपि प्रकृतवाक्यार्थानन्वयितया तत्परित्यागेन प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितिपरत्वमेवास्थेयम्। तत्र न द्वितीयमद्वितीयमिति तत्पुरुषाभ्युपगमे न द्वितीयम् किंतु प्रथमं तृतीयं वेत्यर्थः स्यात्, स च न सम्भवति तयोरपि किञ्चिदपेक्ष्य द्वितीयत्वाद्। अतो न विद्यते द्वितीयं यत्रेति बहुव्रीहिरेवादरणीयः। न च एकेनैवाद्वितीयपदेन भेदत्रयनिषेधसम्भवे एकावधारणपदयोर्वैयर्थ्यमिति वाच्यम्। विजातीयं किञ्चिदपेक्ष्य द्वितीयत्वावच्छिन्ननिषेधस्याद्वितीयशब्दार्थत्वात्। अयं चात्र सङ्कोचो बलीवर्दपदसन्निधानाद् गोपद इव सजातीयस्वगतभेदनिषेधकैकावधारणपदसन्निधिप्रयुक्त एव। तदुक्तम्-

 

                                वृक्षस्य स्वगतो भेदः पत्रपुष्पपलादिभिः।

                                वृक्षान्तरात्सजातीयो विजातीयः शिलादितः।।

                                तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते।

                                एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात्।। इति।

 

                स्वगतभेदः नानात्वरूपजीवेश्वरभेदः। सजातीयभेदोऽत्र द्रव्यत्वादिना सजातीयपृथिव्यादिभेदः। विजातीयभेदो गुणादिभेदः। अथवा जडभेदो विजातीयभेदः। चैतन्यभेदः सजातीयभेदः। ज्ञानानन्दादिधर्मभेदः स्वगतभेदः। यदि च "अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते, नाश्वो न गर्दभ" इति महाभाष्यानुसारात् समानजातीयद्वितीयपरत्वं द्वितीयशब्दस्य तदा अद्वितीयशब्दस्य सजातीयभेदनिषेधपरत्वम्, विजातीयस्वगतभेदनिषेधपरत्वं तु एकावधारणपदयोर्यथेष्टं व्याख्येयम्। अथवा अद्वितीयपदेनैव भेदत्रयनिषेधः, एकावधारणपदे तु सङ्कोचशङ्कापरिहाराय।

 

                यत्तु केनचित् प्रलपितं- द्वितीयशब्दः सहायवाची, `असिद्वितीयोऽनुससारपाण्डव'मिति प्रयोगात्, `असिद्वितीयः असिसहायः' इति महामाष्योक्तेश्च, तथा चाद्वितीयमसहायमित्यर्थोऽस्तु, एवमेकशब्दस्यापि नानार्थत्वेनाविरुद्धार्थमादायोपपत्तौ न मिथ्यात्वपर्यवसायिताऽऽस्थेया। तथा च `एके मुख्यान्यकेवला' इत्यमरः, `एकशब्दोऽयमन्यप्रधानासहायसङ्खयाप्रथमसमानवाची'ति `एको गोत्र' इति सूत्रे कैयटः। `ष्णान्ताषडि'ति सूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बह्वर्थः, अस्ति सङ्खयार्थः, अस्त्यसहायवाची, अस्त्यन्यार्थः इत्यादि व्याख्यातवान्। तथा च जीवादिभ्योऽन्यत्वं प्राधान्यं वा एकशब्दार्थोऽस्तु। एवमन्यान्यपि श्रुतिपदानि व्याख्येयानि इति। तत् पूर्वोक्तयुक्तिभिरपास्तम्। विस्तरेण च वक्ष्यते तात्पर्यनिरूपणे। तदेवं सद्रूपे ब्रह्मणि पदत्रयेण भेदत्रयनिषेधात् तद्भिन्नमिथ्यात्वे पर्यवसितं `एकमेवाद्वितीय'ति वाक्यम्। एवमन्या अपि श्रुतयः स्मृतयश्च ग्रन्थविस्तरभयान्नोदाहृताः। स्वयमेव सूरिभिराकारे द्रष्टव्याः।।

 

                                इत्यद्वैतसिद्धौ सर्वाद्वैतश्रुतेः अद्वैततात्पर्यकत्वनिर्णयः।

[/1-2-5]

 

[1-2-17]

                                                अद्वैतसिद्धिः

 

                `तरति शोकमात्मवित्', `तथा विद्वान् नामरूपाद्विमुक्तः', `भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे।।' इत्यादिश्रुतिस्मृतिबोधितज्ञाननिवर्त्यत्वान्यथानुपपत्तिरपि बन्धमिथ्यात्वे प्रमाणम्। सत्यत्वे ब्रह्मवदनिवर्त्यत्वापत्तेः। तथा हि- शुक्तिरूप्यरज्जुसर्पादौ ज्ञाननिवर्त्यत्वे न तावत् तत्तद्रूपवत्त्वं ज्ञाननिवर्त्यतावच्छेदकम्। अननुगमात्। किन्तु सर्वानुगतं मिथ्यात्वमेवाज्ञानकल्पितत्वापरपर्यायमवच्छेदकम्, एवं ज्ञानस्यापि तन्निवर्तकत्वे न। शुक्त्यादिविषयत्वमच्छेदकम्। अननुगमात्। किन्तु सर्वानुगतमधिष्ठानप्रमात्वमेव। तथा च यत्र ज्ञानस्याधिष्ठानप्रमात्वेन निवर्तकता, तत्र मिथ्यात्वेनैव निवर्त्यतेति नियमः सिध्यति। एतादृशनियमानभ्युपगमे चानन्तनियमकल्पनागौरवरूपो बाधकस्तर्कः। तथा हि- यन्निष्ठा यदाकारा प्रमारूपाऽन्तःकरणवृत्तिरुदेति, तन्निष्ठं तदाकारमज्ञानं नाशयतीति नियमस्य सिद्धत्वात्। उपादाननाशस्य चोपादेयनिवर्तकत्वात् शुक्त्यादिज्ञानेन तत्तदाकाराज्ञाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तराकल्पनेन लाघवमनुकूलस्तर्कोऽस्मत्पक्षे। अज्ञानोपादेयत्वं च शुक्तिरजतादीनामन्वयव्यतिरेकसिद्धमग्रे स्थास्यति। एवं स्थिते कृत्स्नस्यापि प्रपञ्चस्यात्मप्रमानिवर्त्यत्वे तदज्ञानकल्पितत्वमेव तत्रावच्छेदकं कल्प्यते। न त्वननुगतमाकाशत्वादि। न वा ब्रह्मभिन्नत्वं सद्भिन्नत्वं वा सर्वानुगतमपि। तुच्छेऽतिप्रसक्तेः। तद्वारकविशेषणप्रक्षेपे तु सदसद्विलक्षणत्वरूपमिथ्यात्वमेव निवर्त्यताप्रयोजकं पर्यवसितम्। अन्यथा नियमान्तरकल्पनागौरवापत्तेः। तथा च शुक्त्यादिज्ञनस्य येन रूपेण निवर्तकत्वं, तेन रूपेणात्मज्ञानस्य निवर्तकत्वम्। रूप्यादौ येन रूपेण निवर्त्यत्वं, प्रपञ्चे तद्रूपं विनाऽनुपपद्यमानं स्वोपपादकतया तत्र तत् कल्पयतीति सिद्धं मिथ्यात्वम्।

 

                ननु भवेदेतदेवम्, यद्यात्मज्ञानस्य प्रपञ्चे निवर्त्ये शुक्त्यादिज्ञानसाधारणमधिष्ठानप्रमात्वमेवावच्छेदकमित्यत्र किञ्चिन्मानं भवेद्। रूपान्तरेणापि निवर्तकत्वसम्भवात्। श्रुतिस्तु द्वैतप्रपञ्चस्याद्वितीयात्मज्ञानं निवर्तकमित्येतावन्मात्रे प्रमाणम्। न त्ववच्छेदकविशेषेऽपि। न च ज्ञाननिवर्त्यतामात्रान्मिथ्यात्वसिद्धिः, सेतुदर्शनादिनिवर्त्यदुरितादिषु व्यभिचारात्। तत्र विहितक्रियात्वादिना निवर्तकत्वान्न व्यभिचार इति चेत्, प्रकृतेऽपि रूपान्तरं नावच्छेदकमिति कुतो निरणायि? ज्ञानस्य हि स्वप्रागभावं प्रति प्रतियोगित्वेन निवर्तकता, पूर्वज्ञानादिकं प्रति तु उत्तरविरोधिगुणत्वेन, संस्कारं प्रति फलत्वेन, रागादिकं प्रति विषयदोषदर्शनत्वेन, विषं प्रति गरुडध्यानत्वेन, सेत्वादिदर्शनस्य दुरितं प्रति विहितक्रियात्वेन। एवं च मिथ्यात्वं विनापि ज्ञाननिवर्त्यत्वदर्शनात् न तन्मिथ्यात्वस्य साधकम्। उदाहृतेष्वपि सत्यत्वासंप्रतिपत्त्या मिथ्यात्वमेवास्तीति चेत्, अस्तु वा मास्तु। ज्ञाननिवर्त्यत्वमात्रं तु न तस्य साधकमिति ब्रूमः। हेत्वन्तरेण सिद्धौ चैतदुपन्यासो व्यर्थः। शुक्तिरूप्यादौ कथमिति चेच्छृणु। अधिष्ठानज्ञानत्वेन तत्र ज्ञानस्य निवर्तकत्वात्। अधिष्ठानज्ञानत्वं हि अज्ञाननाशकज्ञानत्वं वा, अज्ञानसमानविषयकप्रमात्वं वेति तेन रूपेण निवर्तकत्वे मानाभावात् नात्माज्ञानोपादानकत्वरूपमित्यात्वसिद्धिः प्रपञ्चस्येति प्राप्तम्। अत्रोच्यते। आत्मज्ञानस्याप्यधिष्ठानज्ञानत्वेनैव प्रपञ्चं प्रति निवर्तकत्वम्। प्रकारान्तरासम्भवात्। तथा हि- प्रतियोगित्वं तावन्नावच्छेदकम्। प्रपञ्चस्य भावरूपत्वात्। ज्ञानस्य प्रागभावनिवृत्तिरूपत्वेन प्रतियोगित्वेन प्रागभावनिवर्तकत्वासिद्धेश्च। नाप्युत्तरगुणत्वम्। आकाशादेरात्मविशेषगुणत्वाभावाद्। इच्छादेरपि प्रपञ्चनिवर्तकत्वापाताच्च। नापि फलत्वम्। संस्कारस्य स्मरणजनकत्ववदाकाशादेरात्मज्ञानजनकत्वाभावात्। संस्कारस्य स्मृत्यनाश्यत्वेनोदाहरणासिद्धेश्च। विषयदोषदर्शस्य तु रागादिनिवर्तकत्वं रागादिकारणीभूतबलवदनिष्टाननुबन्धीष्टसाधनत्वभ्रमरूपतत्कारणनिवर्तकत्वेनेति न प्रकृतोदाहरणादतिरिच्यते। शुक्तिरूप्यतुल्यत्वात्। गरुडध्यानं तु न प्रत्युदाहरणम्। ध्यानस्य रागादेरिव ज्ञानत्वानभ्युपगमात्। ज्ञानस्येच्छानधीनत्वेन तदधीनज्ञानापेक्षया वैलक्षण्यात्। स्पष्टं चैतदाकरे। ज्ञानत्वेऽपि तस्य सेतुदर्शनपक्षान्नातिरेकः, शास्त्रविहितत्वाविशेषात्। केवलं सेत्वादिदर्शनवद्विहितक्रियात्वमवशिष्यते। तच्च न सम्भवति। ज्ञानस्य कर्तुमकर्तुमशक्यत्वेन विधेयत्वायोगात्। विस्तरेण च ज्ञाने विधिराकरेषु निराकृतः। निराकरिष्यते चेहापि। सेतुदर्शने कथमिति चेत्? विशिष्टाकारेण विषेयत्वोपपत्तेः। न हि सेतुदर्शनमात्रस्य दुरितनाशकत्वम्। तत्रत्यम्लेच्छानामपि दुरितनाशप्रसङ्गात्। किन्तु परराष्ट्रादुपस्थानादिपूर्वकव्रतकलापविशिष्टस्य। तथा च छत्रपादुकादिवर्जनदोषोद्धोषणदूरदेशगामित्वभिक्षाभोजित्वादिनियमानां कृतिसाध्यत्वात् तद्विशिष्टं सेतुदर्शनमपि कृतिसाध्यमिति विशिष्टरूपेण विधानोपपत्तिः। आत्मज्ञाने तु नास्ति किञ्चिद्विशेषणमपि कृतिसाध्यं, येन तद्विशिष्टत्वेनापि विधेयत्वं स्यात्। कर्मसमुच्चयस्य निराकरिष्यमाणत्वाद्। बन्धस्याज्ञानमात्रहेतुकत्वेन ज्ञानातिरिक्तनिवर्तकानपेक्षणाच्च। बन्धस्याज्ञानहेतुकत्वं च `मायां तु प्रकृतिं विद्यात्' `अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' इत्यादिश्रुतिस्मृतिन्यायसिद्धम्। वक्ष्यते चाग्रे। अज्ञाननिवर्तकज्ञानस्य चोत्पत्तिमन्तरेणान्यापेक्षा नास्तीति शुक्त्यादिज्ञाने दृष्टम्। तथा चोक्तं वार्तिककृद्भिः।

 

                                "तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः।

                                अविद्या सह कार्येण नासीदस्ति भविष्यति"।। इति।

                                "प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत्।

                                सा चात्मोत्पत्तितो नान्यद् ध्वान्तध्वस्तावपेक्षते।।"

 

                इति च। अत एव `यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति।' `यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिश्रुतिः।

 

                                `या निशा सर्वभूतानां तस्यां जागर्ति संयमी।

                                यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनोः।।'

 

इत्यादिस्मृतिश्चाविद्यावस्थायां संसारोपलम्भं विद्यावस्थायां च तदनुपलम्भं दर्शयति। तस्मादधिष्ठानप्रमात्वेनात्मज्ञननिवर्त्यत्वाच्छुक्तिरूप्यादिष्विव बन्धेऽपि मिथ्यात्वं सिद्धम्।

 

                यत्त्वीश्वरज्ञानेन सत्यं घटादि निवर्तत इति प्रत्युदाहरणम्। तन्न। ईश्वरज्ञानस्य तार्किकमतेऽपि उपादानगोचरापरोक्षज्ञानत्वेनैव कारणत्वाद्। अभावस्य च निरुपादानत्वाद्, अभावं प्रति कारणत्वे मानाभावात्। सोपादानत्वे तु समवेतत्वेन तस्यापि भावत्वापत्तेः। अन्यन्ताभावादिवच्च तदजन्यत्वेऽपि ध्वंसस्य तद्विषयत्वोपपत्तेः। न च तादृगीश्वरज्ञाने सम्प्रतिपत्तिरप्यन्येषामिति न काऽप्यनुपपत्तिः। यथा च शुक्त्यादिज्ञानस्यरूप्यादिनिवर्तकत्वमप्रामाण्यज्ञानविरहमपेक्ष्यैव, एवमात्मज्ञानस्यापि श्रवणादिनिर्वृत्तावसम्भावनादिनिवृत्तिरूपाप्रामाण्यज्ञानविरहापेक्षत्वमिति न किञ्चिदप्यधिकं कल्पितम्। आत्मज्ञानस्य सर्वसुकृतसाध्यत्वं शुक्त्यादिज्ञानापेक्षया विलक्षणमिति तु दृष्टान्तदार्ष्टान्तिकयोर्वैधर्म्यमात्रोद्भावनाद् वैधर्म्यसमा जातिः। अज्ञानस्य च समानाधिकरणसमानाकारज्ञाननिवर्त्यत्वं, जीवन्मुक्तौ च प्रारब्धकर्मप्रतिबन्धेन बन्धनाशविलम्ब इत्यादि सर्वमुपरिष्टादुपपादयिष्यते। सत्यस्य ज्ञाननिवर्त्यत्वे तु आश्रयविषयोभयसम्बन्धित्वादिना अतिप्रसङ्गो विवरणकारैर्वर्णितः। तस्मादधिष्ठानज्ञानत्वेन ज्ञाननिवर्त्यत्वं मिथ्यात्वे प्रमाणमिति सिद्धम्।

 

                                इत्यद्वैतसिद्धौ ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः।

 

[/1-2-17]

 

 

[1-2-19]

                                                अद्वैतसिद्धिः

 

                शुक्तिरूप्यस्वप्नादिवद् दृष्टिदृष्ट्यन्यथानुपपत्त्याऽपि जगतो मिथ्यात्वसिद्धिः। अथ केयं दृष्टिसृष्टिः? (1)दृष्टिरेव सृष्टिरिति वा? (2)दृष्टिव्यतिरिक्तसृष्ट्यभावो वा? (3)दृष्टिव्यतिरेकेण सृज्याभावो वा? (4)दृष्टिसामग्रीजन्यत्वं वा? (5)दृष्टिसमानकालीनसृष्टिर्वा? (6)दृष्टिसत्तासमानसत्ताकसृष्टिर्वा? (7)सदसद्विलक्षणत्वं वा? (8)त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा? (9) अज्ञातसत्त्वाभावो वा? (10)ज्ञातैकसत्त्वं वा? आद्ये वृत्तिरूपा चैतन्यरूपा वा दृष्टिरभिमता? प्रथमे चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसृष्ट्यापत्तिः। द्वितीये सर्वदाऽपि सृष्ट्यापत्तिः। न द्वितीयः। चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः। न तृतीयः। `ज्ञातो घटो न ज्ञानम्' इति अनुभवविरोधात्। न चतुर्थः। एकसामग्रीप्रसूतत्वेन घटादेर्दृष्ट्यभिन्नत्वेनानन्तरोक्तदोषात्। न पञ्चमः। शाब्दादिज्ञानसमकालोत्पन्नघटादौ सिद्धसाधनात्। तद्वदन्यत्रार्थान्तरतापत्तेश्च। न षष्ठः। उभयसत्त्वेऽप्युपपत्तेः सिद्धसाधनात्। न सप्तमः। अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः। नाष्टमः त्रिविधसत्त्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षेतद्वति जगति तद्बहिर्भावानुपपत्तेः। न नवमः। तुच्छसाधारण्यात्। न दशमः। सुखादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तराच्चेति- चेन्न। दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्यज्ञातसत्त्वाभावस्य वा, प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा, द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात्। तथा च न सुखाद्यंशे सिद्धसाधनम्, तद्वदन्यत्रार्थान्तरं वा।

 

ननु--

                                जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा।

                                अविद्या तच्चितोर्योगः षडस्माकमनादयः।।

 

इति प्राचां वचनेन, बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यवार्तिकविवरणादिग्रन्थेन विरोध इति चेन्न। अनाद्यतिरिक्ते सृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराच्च। तावतैव बौद्धाभिमतक्षणिकत्वनिराकरणोपपत्तेर्नाकरविरोधः। प्रत्युताकरेषु बहुशो दृष्टिसृष्टिरुपपादितैव।

 

                नन्वेवं प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादिविधेर्ब्रह्मसाक्षात्कारार्थं श्रवणादिविधेराकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुक्तेति चेन्न। स्वाप्नकार्यकारणभावबोधकवदुपपत्तेः। न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वप्नवाक्यतन्मीमांसातुल्यतापत्तिः। विषयबाधाबाधाभ्यां विशेषोपपत्तेः। अत एव तृप्त्यर्थं भोजने परप्रत्ययनार्थं शब्दादौ च प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति निरस्तम्। स्वाप्नव्यवहरवदुपपत्तेः।

 

                अथैवं घटादेः स्वज्ञानात् पूर्वमसत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तिः। अधिष्ठानस्यापि शुक्तिदमंशस्य रूप्यादिवद् `इदं रजतम्' इति ज्ञानात् प्रागसत्त्वेन संप्रयोगादिहेतुत्रय जन्यत्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तु सम्भेदाभाव इत्यस्य स्वरूपलक्षणस्य चायोग इति चेन्न। प्रतिकर्मव्यवस्थायाः संप्रयोगादिहेतुत्रय जन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात्। सत्यस्य वस्तुनो मिथ्यावस्तुसम्भेदावभास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेप्यविरुद्धम्। न हि इदमंशा वच्छिन्नं चैतन्यं न वस्तु, न वा मिथ्यारूप्यस्य तेन सह न सम्भेदावभासः। न च- `इदं रूप्यम्' इति ज्ञानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति- वाच्यम्। `इदं रूप्यम्' इति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात्। न हि सत्ताकाल इव सत्ताविरहकालेऽपि अज्ञानं विरुध्यते। न च- `इदं रूप्यं नेदं रूप्यम्' इति ज्ञानयोर्भिन्नविषयत्वेन बाध्यबाधकभावानुपपत्तिरिति- वाच्यम्। भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः। न च- रूप्यादिबाधस्यापि दृष्टिसृष्टित्वे तेन रूप्यादेर्मिथ्यात्वासिद्धिरिति- वाच्यम्। बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम्, न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात्। न च- सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापत्तिरिति- वाच्यम्, जीवब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानुभ्युपगमस्योक्तत्वात्। न च सुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः, कारणात्मना संस्कारादेः सत्त्वात्। न च मोक्षस्य दृगन्यत्वेन स्वाप्नमोक्षवद् दृष्टिसृष्ट्यापत्तिः। मोक्षस्य ब्रह्मस्वरूपत्वेन दृग्भिन्नत्वासिद्धेः। न च- चैतन्यमात्ररूपा दृष्टिर्न सृष्टिः किन्तु वृत्तिविशिष्टचैतन्यरूपा वा, वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम्। तथा च तस्या अपि दृष्ट्यन्तरं सृष्टिरित्यनवस्थेति- वाच्यम्। चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः,तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः। वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था। अत एव- दोषाज्ञानद्रष्टृदेहेन्द्रियादीनामभावे न भ्रम इति तेषामपि दृष्टिसृष्टित्वे अनवस्थेति- निरस्तम्। स्वाप्नभ्रमवद् देहेन्द्रियादिनैरपेक्ष्येणाप्युपपत्तेः। अन्वयव्यतिरेकानुविधानं च तद्वदेव। न च- दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति- वाच्यम्। ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववत् दृष्टिसृष्टेर्दृष्टिसृष्टित्वेऽपि घटादेरपि दृष्टिसृष्टित्वोपपत्तेः।

 

                ननु ऐक्यप्रत्यभिज्ञाविरोधः। पूर्वकालप्रतीतस्येदानीमभावात्। न चैषा भ्रान्तिः। दीपादौ परिणामभेदस्येवेह बाधकस्याभावात्। तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य च प्रसङ्ग इति चेन्न। `नेह नाना' इत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधृते रज्जुसर्पादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकालातिरिक्तकालसत्त्वे बाधकम्। अतो भिन्नकालानामात्मभिन्नानां प्रत्यभिज्ञा भ्रान्तिः। आत्मन्येकत्वप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः। एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात्। पुरुषान्तरप्रतीतेन सहैककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव। प्रतिभासस्य भेदात्। यथा एकस्यामेव रज्जवां मन्दान्धकारर्तिन्यां दशानां युगपत् सर्पभ्रमेण पलायमानानां परस्परसंवादेनैक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञा भ्रमः, अन्यभ्रमसिद्धस्यान्येन ज्ञानुमशक्यत्वात्।

 

                ननु- अत्र कथमभेदभ्रमः? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेन्न, स्वाप्नाभेदभ्रमवद् दृष्टिसृष्टिसिद्धसादृश्यादिसम्भवात्। न चैवमभेद एवोत्पद्यतामिति वाच्यम्। इष्टापत्तेः। रज्जुसर्पादिवदुत्पन्नस्यैव ग्रहणनियमात्। न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः। मायाया विचित्रशक्तिकत्वाभ्युपगमात्। न च `सोऽयं देवदत्तः' इति दृष्टान्तेन तत्त्वमस्यादिवाक्ये जहदजहल्लक्षणयैक्यपरत्वोक्तयोग इति वाच्यम्। यद्यपि धर्मवद्धर्म्यभेदोऽपि बाधित एवेति जहदजहल्लक्षणापि न युज्यते। तथापि यदा धर्माभेदो बाधान्न गृहीतः, किन्तु धर्म्यभेद एव, तदा `सोऽयम्' इत्यादौ जहदजहल्लक्षणासम्भवेन दृष्टान्तत्वोपपत्तिः। न चाभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगः। आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात्। अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्च। न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति- वाच्यम्। अबाधितविषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः। तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः। न च `ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे। ध्रुवं विश्वमिदं जगत्' इत्यादिश्रुतिविरोधः। अनित्यतावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं सन्तानाविच्छेदपरत्वस्यैव युक्तत्वात्। अन्यथा `ध्रुवो राजा' इत्यादावगतेः। दृष्टिसृष्टौ च `एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति' इति श्रुतिः सुप्तोतथितजीवात् प्रामादिसृष्टिं प्रतिपादयन्ती प्रमाणम्। न च सुषुप्तौ प्राणादिप्रपञ्चस्य सत्त्वात्किमर्थं पुनः सृष्टिरिति वाच्यम्। `न तु तद्‌द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात्। न च सुषुप्तौ `हिता नाम नाड्य' इति नाडीसत्त्वप्रतिपादकवाक्यविरोधः। केन क्रमेण सुषुप्तो भवतीत्यपेक्षायां `हिता नाम नाड्यो हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते' इत्यादिना सुषुप्त्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि। वाक्यान्तरविरोधात्, प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तेः।

 

                ननु- `यत्रैष एतत्सुप्तोऽभूत्' इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात्तत्कर्तृकैव प्राणादिसृष्टिर्न तु सुप्तोत्थितजीवकर्तृका। अन्यथाऽग्र्यूर्णनाभ्यादेस्तन्तुविस्फुलिङ्गादिजननोक्तिरत्रापि वाक्ये सर्वलोकसृष्ट्युक्तिश्चालीकार्था स्यात्। न हि दृष्टिसृष्टिपक्षे अग्न्यूर्णनाभ्यादेस्तन्त्वादिजनक्तवं सर्वलोकसृष्टिर्वास्तीति चेत्, न। यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात्। न च यत्रेत्यस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः। अनन्तरवाक्ये `क्वैष तदाभूत्' इत्यत्र क्व तदेति पदद्वयोपादानस्यैव विनिगमकत्वात्, यत्रेत्यनेन देशनिर्देशे क्वेति देशप्रश्नानुपपत्तेः। कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः। भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथा व्याख्यानात्। ऊर्णनाभ्यादेस्तन्त्वादिजन्मोक्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुरुध्य। सर्वलोकादिसृष्टिश्च तत्तद्‌दृष्टिव्यक्तिमभिप्रेत्य। यदा तत् पश्यति, तत्समकालं तत् सृजतीत्यत्र तात्पर्यात्। न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः। जगदुपादानस्याज्ञानस्य विचित्रशक्तिकत्वात्। उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकल्पलतिकादावस्माभिरभिहितम्। वासिष्ठवार्तिकामृतादावाकरे च स्पष्टमेवोक्तम्। यथा-

 

                                `अविद्यायोनयो भावाः सर्वेऽमी बुद्बुदा इव।

                                 क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम्।'

 

इत्यादि। तस्मात् ब्रह्मातिरिक्तं कृत्स्नं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातितिकसत्त्वं सर्वस्येति सिद्धम्।

 

                                रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितम्।

                                प्रबुद्धदृष्टिसृष्टत्वात्सुषुप्तौ च लयश्रुतेः।। इत्यद्वैतसिद्धौ दृष्टिसृष्ट्युपपत्तिः।

 

[/1-2-19]

 

 

[1-2-20]

                                                अद्वैतसिद्धिः

 

                स च द्रष्टैक एव। तन्नानात्वे मानाभावात्। ननु-- कथमेक एव जीवः? प्रतिशरीरं `अहं सुखी, अहं दुःखी, अहं संसारी, अहमस्य स्वामि' इत्याद्यनुभवविरोधादिति चेन्न। अविद्यावशाद् ब्रह्मैवैकं संसरति। स एव जीवः। तस्यैव प्रतिशरीरमहमित्यादिबुद्धिः। स्वाप्नशरीरे `अयं सुखी, अयं दुःखी' इत्येव यत्र बुद्धिर्न त्वहं सुखीत्यादि, तत्तु  निर्जीवम्। यत्र त्वहमित्यादि तत् सजीवम्। जाग्रच्छरीरान्तरे अहमिति प्रतीत्यवच्छेदके सजीवतोक्तिर्न द्वितीयेन जीवेन सजीवत्वमित्यभिप्रेत्य। तत्र मानाभावात्। बन्धमोक्षादिव्यवस्थानुपपत्तिस्तत्र मानमिति चेन्न। बन्धमोक्षगुरुशिष्यादिव्यवस्थायाः स्वप्नवद्यावदविद्यमुपपत्तेः। न चैवं तस्मिन्नेकस्मिन्नेव जीवे सुप्ते समस्तजगदप्रतीत्यापातः। समष्ट्यभिमानिनो मुख्यजीवस्यासुप्तत्वात्। तस्मिन् लयकाले प्रसुप्ते जगदप्रतीतेः। अन्तःकरणावच्छिन्ने जीवाभासे तु सुप्ते तमेव प्रति जगदप्रतीतिः। न त्वन्यानपि प्रति। तपुपाधीनामप्रलीनत्वात्। संस्कारस्य कारणात्मना स्थितेर्न सुप्तस्य पुनरुत्थानानुपपत्तिरित्युक्तम्।

 

                एतेन- मम कल्पकत्वे तव मोक्षार्थं प्रवृत्त्ययोगः। तव कल्पकत्वे त्वत्कल्पितास्मदादिबोधार्थं तव शब्दप्रयोगाद्यनुपपत्तिः। न च स्वप्नवत् पर्यनुयोगायोगः। एवमपर्यनुयोज्यत्वे निर्मर्यादतया कथानधिकारप्रसङ्गादिति निरस्तम्। चैत्रमैत्रादिसर्वाभिमानिनो जीवस्य कल्पकत्वेन तव ममेत्यादिविकल्पानुपपत्तेः। नापि स्वक्रियादिविरोधः। स्वक्रियायाः कल्पितत्वादिनिश्चयविरहकालीनत्वेन पर्यनुयोगायोगात्। अथ ब्रह्मण एव जीवत्वेन तस्यैव बन्धमोक्षाविति तस्य नित्यमुक्तत्वादिश्रुतिविरोधः। न। मुक्तेः स्वस्वरूपत्वेन बन्धस्य चाऽविद्यकत्वेन तदविरोधः। न हि मृगतृष्णिकाकल्पितोदकेन स्वभावशुष्काऽपि मरुभूमिरार्द्रीभवति।

 

                एतेन कल्पितस्य जीवस्य कल्पकं प्रति प्रत्यक्त्वायोगः। तेन कल्पकेन प्रत्यक्त्वेनाज्ञानात्। अन्यस्यानुभवितुरभावात्। तथाऽनुभवापलापे एकजीवाद्वैतश्रुत्यादेरप्यसिद्धिरिति निरस्तम्। अनेकशरीरैकजीववादस्याङ्गीकारात्। न च तर्हि तमेव प्रति प्रत्यक्त्वपराक्त्वयोरयोगः। मैत्रं प्रति त्वमितिधीविषयस्य चैत्रस्य तमेव प्रति अहमितिधीविषयत्वायोगश्चेति वाच्यम्। भिन्नभिन्नान्तःकरणाभेदाध्यासेन तत्तदन्तःकरणमादाय प्रत्यक्त्वपराक्त्वाहमित्यादिबुद्धिविषयत्वव्यवस्थोपपत्तेः। न च चैत्रसुखदुःखादीनां मैत्रेणानुसन्धानापत्तिः। अन्तःकरणावच्छिन्नेनाविद्यावच्छिन्नेन वा? नाद्यः। तत्र परस्परं भेदात्। न द्वितीयः इष्टापत्तेः। अत एव चैत्रस्य शुक्तिसाक्षात्कारेण रजतभ्रमनिवृत्तावन्येषामपि तन्निवृत्तिः स्यादिति निरस्तम्। अन्तःकरणभेदेन व्यवस्थोपपत्तेः। ननु एवं मुक्तावपि चैत्राद्यन्यतमान्तःकरणावच्छेदेन साक्षात्कारे उत्पन्ने तदवच्छेदेनैव संसारनिवृत्तिः स्यात्, न तु तदितरान्तःकरणावच्छेदेनापीति चेन्न। तत्साक्षात्कारस्य सविलासमूलाज्ञाननिवृत्तिरूपतया तत्कालेऽन्तःकरणस्याभावेन वैषम्यात्।

 

                ननु श्रुतिषु `अविद्यायामन्तरे वर्तमानाः' इत्यादावविद्या, `रमणीयचरणाः' इत्यादौ कर्मबन्धः, `सति सम्पद्य न विदुः' इत्यादौ सुषुप्तिः, `वेदान्तविज्ञानसुनिश्चितार्थाः' इत्यादौ तत्त्वज्ञानं, `परामृतात्परिमुच्यन्ति सर्वे' इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेषूच्यत इति चेन्न। `अनादिमायया सुप्तो यदा जीवः प्रबुध्यते' इत्यादिश्रुतिस्थैकवचनप्राप्तैकत्वविरोधेनोदाहृतश्रुतीनामनेकत्वपरत्वाभावात्। सर्वजनीनभ्रमसिद्धतदनुवादेनाविरोधात्। न चोदाहृतश्रुतिविरोधेन `इति सृष्टौ विनिश्चिताः' इति पूर्वेण, `स पूज्यः सर्वभूतानाम्' इत्युत्तरेण च विरोधेनेदमेकवचनं `यदा नीतिपरो राजा,' `स्वर्गकामो यजेत' इत्यादिवन्नैकत्वपरमित्येव किं न स्यादिति वाच्यम्। प्रत्यक्त्वपराक्त्वमहमित्यादिव्यवहारप्रयोजकान्तःकरणाभेदाध्यासबलाद् बहुत्वस्य प्राप्तत्वेन पूर्वोत्तरवाक्योदाहृतश्रुत्यादीनामतत्परत्वात्। न च मुक्तबहुत्वं नान्यतः प्राप्तमिति वाच्यम्। जीवबहुत्वस्य प्राप्तत्वेन मुक्त्यंश एवाप्राप्तत्वपर्यवसानात्। न चैकस्यैव जीवस्य सर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्य ईश्वरकारणत्वविधायकैः श्रुत्यादिभिर्विरोधः। अविद्यायाः चिन्मात्राश्रयत्वोपपादने निरसिष्यमाणत्वात्। न चै एवं सर्वज्ञत्वसर्वकर्तृत्वादिबोधकश्रुतीनां निर्विषयत्वम्। शुद्धचैतन्ये ज्ञत्त्वस्यैवाभावात्। ईश्वरस्य च जीवभिन्नस्याभावाद्, जीवे सार्वज्ञ्यस्यानुभवबाधितत्वादिति वाच्यम्। समष्ट्यभिमानिनो जीवस्य सर्वज्ञत्वसर्वकर्तृत्वादिस्वीकारात्। न चानुभवविरोधः अन्तःकरणाभेदाध्यासबलात्तदननुभवतद्विपरीतानुभवयोरुपपत्तेः। सर्वाभिमानिनस्तु सार्वज्ञ्यानुभवोऽस्त्येव। अत एव `तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप इत्याद्युपपद्यते। न च `आचार्यवान् पुरुषो वेद' इति श्रुतेरुपदेशं विना जीवस्य तत्त्वज्ञानमनुपपन्नम्। उपदेष्टव्यादन्यस्य चैतन्यस्याभावाच्च नोपदेशो युज्यत इति वाच्यम्। स्वप्न इवोपदेष्टुः कल्पितस्य सम्भवात्।

 

                ननु उपदेष्टृत्वं न कल्पितमात्रस्य। किन्तु तत्त्ववित्त्वेन कल्पितस्य। तथा चोपदेशात्प्राक् तत्त्वज्ञाने तदैव मोक्षापत्तिः। उपदेशवैयर्थ्यं च। चैवं स्वप्नेऽपि तुल्यम्। तदा हि शब्दविशेषवक्तृत्वेनैव गुरुकल्पना, न तूपदेशसाध्यज्ञानविषयविशेषवित्त्वेनेति विशेषादिति चेन्न। अत्रापि तद्वदेव वाक्यविशेषवक्तृत्वेनैव तत्कल्पनसम्भवात्। ननु तर्हि `यदेव भगवान्वेद तदेव मे ब्रूहि' इत्यादिश्रुतिः, `उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः' इत्यादिस्मृतिश्चायुक्ता स्यादिति चेन्न। सामान्यतो मोक्षोपयोगिज्ञानविषयवित्त्वेनाज्ञाततत्त्ववित्त्वेन तत्त्वमस्यादिवाक्यवक्तृत्वेन वा कल्पितस्य उपदेष्टृत्वसम्भवेन उदाहृतवाक्याविरोधात्। अन्यथा तवापि मते तत्त्ववित्त्वेन प्रमित एवाचार्यत्वेनानुसरणीय इति प्रथमत एव तत्त्वज्ञाने तत्कालमोक्षापत्त्युपदेशवैयर्थ्यादिकं च स्यात्। एतेन `स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्'  इत्यादिविधिरपि भावितत्त्वज्ञानिकल्पकचेतनं प्रत्येव। न च तस्य शिष्यः स्वाज्ञानकल्पित इति जानतस्तन्मोक्षार्थं प्रवचने प्रवृत्तिर्युक्ता। न च स्वप्नवत् कल्पितत्वाज्ञानात्प्रवृत्तिः। तत्त्वविदस्तदज्ञानानुपपत्तेरिति निरस्तम्। स्वप्नगुरुवत् कल्पितत्वेन गुरोरपर्यनुयोज्यत्वात्। न च तत्त्वज्ञानहेतुत्वेन वेदस्य मीमांस्यत्ववद् गुरोरपि पर्यनुयोज्यत्वमिति वाच्यम्। तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परिहारात्। न च कथास्वपि सदुत्तरापरिस्फूर्तावहं त्वल्कल्पितो न पर्यनुयोज्य इत्युत्तरं स्यादिति वाच्यम्। कथायाः कल्पितत्वानिश्चयकालीनत्वेन समयबन्धविशेषनिबन्धनत्वेन च तादृगुत्तरानवकाशात्। तस्माच्छिष्यवत् गुरोरपि कल्पितत्वात् स्वप्नवत्सर्वव्यवस्थोपपत्तिः।

 

                अथ कल्पको न निश्चिताद्वैतः। शास्त्रप्रणयनवैयर्थ्यात्। नाप्यनिश्चिताद्वैतः। शास्त्रस्य प्रमामूलकत्वाभावप्रसङ्गादिति चेन्न। प्रमामूलकत्वाभावेऽप्यबाधितविषयत्वेन शास्त्रप्रामाण्योपपत्तेरन्त्यपक्षाभ्युपगमात्। न चामुकः स इत्यनिश्चये बह्वायाससाध्यमोक्षार्थं प्रवृत्त्ययोगः। प्रतिशरीरमहमहमिकया `बद्धोऽहम्' इति निश्चयस्य स्वानुभवसाक्षिकत्वेन प्रवृत्तिसम्भवात्, एकेनैव जीवेन चैत्रमेत्रादिशरीराणां सजीवत्वसम्भवस्य प्रागेवोक्तत्वात्। किं च चैत्रमैत्रादिषु `कोऽसौ' इति प्रश्नस्य किं केनचित् क्रोडीकृतं चैतन्यं विषयः। किं वा निरस्तसमस्तभेदम्। नाद्यः। तस्य कल्पितत्वेनाकल्पकत्वात्। न द्वितीयः। तस्यैकत्वेन तदनिश्चयासिद्धेः। शुद्धचित एकत्वेन वस्तुतोऽसंसारित्वेऽपि आवरणविक्षेपशक्तिद्वयशालिस्वाश्रिताविद्यावशात् संसारित्वकल्पकत्वमोक्षार्थं यतमानत्वाद्युपपत्तिः।

 

                नन्वनादौ संसारे कस्यचित्तत्वज्ञानं मुक्तिश्चाभून्न वा? आद्ये इदानीं संसारोपलब्धिर्न स्यात्। जीवस्यैकत्वाद्। अन्त्ये संप्रदायासम्भवेन तत्त्वज्ञानासम्भव इति चेन्न। न ह्यसाम्प्रदायिकत्वमुत्पत्तिविरोधि। अपूर्वजातीयानुत्पत्तिप्रसङ्गात्। किन्तु कारणासत्त्वम्। तन्नेदानीम् उपदेष्ट्रादिकारणस्य कल्पनासुदृढस्य सत्त्वात्। जीवैक्यस्य प्रमाणासिद्धत्वेन संसारोपलम्भ एवातः पूर्वं तत्त्वज्ञानानुत्पत्तौ प्रमाणम्। न च तत्त्ववित्त्वेन श्रुत्यादिसिद्धानां शुकवामदेवादीनां मुक्तिर्मा भूत्, मम तु भविष्यतीति कथं श्रद्दध्यादिति वाच्यम्। शास्त्रप्रामाण्यदार्ढ्यादिति गृहाण। अन्यता तेषां महानुभावानां मुक्तत्वेऽपि मम भविष्यति न वेति शङ्कापिशाच्या प्रवृत्तिप्रतिबन्धापत्तेः। ननु तर्हि श्रुतिप्रामाण्यबलादेव तत्सिद्धो जीवभेदः, पूर्वमपि केषांचिन्मोक्षश्चाभ्युपेयताम्। श्रूयते हि `तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्,' `अजो ह्योको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः', `नित्यो नित्यानां चेतनश्चेतनानाम्' इत्यादि। स्मर्यते च-

 

                                बहवो ज्ञानतपसा पूता मद्भावमाश्रिताः।

                                इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।।

 

इत्यादीति चेन्न। उक्तवाक्यानां सार्वलौकिकभ्रमसिद्धभेदानुवादकत्वेन तत्परत्वाभावात्। जीवैक्यबोधकवाक्यानां च मानान्तराप्राप्तस्वार्थपरत्वात्। स्वप्नन्यायेन भेदस्य कल्पितत्वोपपत्तेश्च। ज्ञानस्तुतिपराणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति। तात्पर्यवद्वाक्याविरोधेनातात्पर्यवद्वाक्यानां गुणवादत्वोपपत्तेः।

 

                                "अतीतानागताश्चैव यावन्तः सहिताः क्षणः।

                                ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक्।।"

 

इत्यादिस्मृतिरपि जीवोपाधिभेदानुवादकतया व्याख्येया। तस्मादविद्योपाधिको जीव एक एवेति सिद्धम्। इत्यद्वैतसिद्धौ एकजीवाज्ञानकल्पितत्वोपपत्तिः।।

 

[/1-2-20]

 

 

[1-2-21]

                                                अद्वैतसिद्धिः

 

                अथ- केयमविद्या? न तावद् (1) अनादिभावरूपत्वे सति ज्ञाननिवर्त्या सेति। सादिशुक्त्याद्यवच्छिन्नचैतन्यावारकाज्ञानेऽव्याप्तेः। तस्यानादित्वाभावात्। अभावोपादानाज्ञाने च भावत्वाभावात्तत्राव्याप्तिः। अभावस्य भावोपादानकत्वे असत्यस्यापि सत्योपादानकत्वं स्याद्। अज्ञानानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यादिति। अत्र ब्रूमः- रूप्योपादानाज्ञानमप्यनादिचैतन्याश्रितत्वादनाद्येव। उदीच्यं शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिः। भावत्वं चात्राभावविलक्षणत्वमात्रं विवक्षितम्। अत आरोपिताभावोपादानाज्ञानेऽप्यभावविलक्षणत्वस्वीकारान्नाव्याप्तिः। न च सजातीयोपादानकत्वनियमः, अन्यथा असत्यस्यापि सत्यमुपादानं स्यादिति वाच्यम्। सर्वथा साजात्ये सर्वथा वैजात्ये वोपादानोपादेयभावादर्शनेन तथा साजात्यस्य वैजात्यस्य वा आपादयितुमशक्यत्वात्। न हि कार्याकारकारणाकारतोऽप्यभेदे कार्यकारणभावः। सत्यस्य त्वसत्योपादानत्वे सत्यस्य निवृत्त्यसम्भवेन तदुपादेयस्यासत्यस्यापि निवृत्तिर्न स्याद्। उपादाननिवृत्तिमन्तरेणोपादेयानिवृत्तेः। अतो न सत्यमसत्यस्योपादानम्। सत्यस्यापरिणामित्वाच्च। विवर्ताधिष्ठानत्वं त्वभ्युपेयत एव। न च ब्रह्माज्ञाने ब्रह्मणो वृत्त्यव्याप्यत्वपक्षेव्याप्तिः। तस्य ज्ञानानिवर्त्यत्वादिति वाच्यम्। स्वरूपसदुपाधिमत्तद्विषयकज्ञानविवर्त्यस्य तन्मतेऽपि भावात्। उपपादितं चैतद् दृश्यत्वहेतूपपादने।

 

                अथ- औपाधिकभ्रमोपादानाज्ञाने, ब्रह्मसाक्षात्कारानन्तरविद्यमानजीवन्मुक्ताज्ञाने च ज्ञाननिवर्त्यत्वाभावादव्याप्तिः। तयोर्ज्ञाननिवर्त्यत्वे उपाधिकालजीवन्मुक्तिकालयोरेव ज्ञानप्रागभाववत्तन्निवृत्त्यापत्तिरिति चेन्न। उपाधिप्रारब्धकर्मणोः प्रतिबन्धकयोरभावविलम्बेन निवृत्तिविलम्बेऽपि तयोर्ज्ञाननिवर्त्यत्वानपायात्। न हि क्वचिदविल्बेन जनकस्य क्वचित् प्रतिबन्धेन विलम्बे जनकताऽपैति। न च तर्हि ज्ञातेऽपि तत्राज्ञात इति व्यवहारापत्तिः। तादृग्व्यवहारे आवरणशक्तिमदज्ञानस्य कारणत्वेन तदावरणशक्त्यभावादेव ईदृग्व्यवहारानापत्तेः। यथा चैतत्तथोपपादयिष्यते। न चाविद्याचैतन्यसम्बन्धेऽतिव्याप्तिः। साक्षाज्ज्ञाननिवर्त्यत्वस्य विवक्षितत्वात्, तस्याप्यविद्यात्मकत्वाद्वा। न च विशेषणान्तरवैयर्थ्यम्। अनादिपदस्योत्तरज्ञाननिवर्त्ये पूर्वज्ञाने, भावपदस्य ज्ञानप्रागभावे ज्ञानजन्यकार्यप्रागभावे चातिव्याप्तिवारकत्वेन सार्थकत्वात्। ज्ञानत्वेन साक्षाज्ज्ञाननिवर्त्यत्वं तु भवति लक्षमान्तरम्। ननु- असम्भवः कल्पितत्वेन दोषजन्यधीमात्रशरीरस्याज्ञानस्य ज्ञाननिवर्त्यस्याभावविलक्षणस्यि च रूप्यवदनादित्वायोगादिति चेन्न। कल्पितत्वमात्रं हि न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्त्रम्। किन्तु प्रतिभासकल्पकसमानकालीनकल्पकवत्त्वं, सादिकल्पकवत्त्वं, विद्याऽनिवृत्त्यप्रयुक्तनिवृत्तिप्रतियोगित्वं, प्रागभावप्रतियोगित्वं वा तन्त्रम्। न च तत् प्रकृतेऽस्ति। ज्ञाननिवर्त्यत्वसमानाधिकरणाभावविलक्षणत्वेनाविद्यायाः सादित्वसाधने `अजामेकाम्' `अनादिमायया' इत्यादिशास्त्रविरोधः। अनादित्वसाधकेन ज्ञाननिवर्त्यत्वे सति भावविलक्षणत्वेन सत्प्रतिपक्षश्च, भावत्वस्योपाधित्वं च।

 

                न च अभावविलक्षणाविद्यादौ भावविलक्षणत्वमसम्भवि, परस्परविरोधादिति वाच्यम्। भावत्वाभावत्वयोर्बाधकसत्त्वेन तृतीयप्रकारत्वसिद्धौ परस्परविरहव्यापकत्वरूपविरोधासिद्धेः। परस्परविरहव्याप्यत्वरूपस्तु विरोधो नैकविरहेणापरमाक्षिपति। न हि गोत्वविरहोऽश्वत्वमाक्षिपतीत्युक्तम्। न चात्मवदनादेरभावविलक्षणस्यानिवर्त्यत्वम्। आत्मत्वस्यैवोपाधित्वात्। न चात्यन्ताभावान्योन्याभावयोः साध्याव्याप्तिः। अधिकरणातिरिक्तस्यानिवर्त्यस्यात्यन्ताभावादेरनभ्युपगमात्। न च तुच्छे साध्याव्याप्तिः। अभावविलक्षणत्वरूपसाधनावच्छिन्नसाध्यव्यापकत्वोपपत्तेः। किं च सादित्वमनादित्वं वा न निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकम्। ध्वंसप्रागभावयोस्तदभावात्। नापि भावत्वविशेषितं तत् तथा। अभावे तदसत्त्वेन भिन्नभिन्नप्रयोजककल्पनापत्तेः। भावनिवृत्त्यनिवृत्त्योरेव तयोः प्रयोजकत्वे च भावविलक्षणाविद्यादौ ताभ्यां तयोरनापादनात्। तस्मान्नाशसामग्रीसन्निपातासन्निपातावेव निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकाविति मन्तव्यम्। तौ च फलबलकल्प्याविति न कोऽपि दोषः। अपि च यद्यविद्यादेरभावविलक्षणत्वसमानाधिकरणानादित्वेनाऽत्मवदनिवर्त्यत्वं साध्यते। तर्हि भावविलक्षणत्वेन प्रागभाववन्निवर्त्यत्वमेव किं न साध्यते? न च ध्वंसात्यन्तान्योन्याभावेषु व्यभिचारः। अधिकरणातिरेके तेषामपि निवर्त्यत्वाभ्युपगमात्। न च- अज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्त्वमनुवृत्तिनियमेन निवृत्त्ययोग इति वाच्यम्। दुःखशुक्तिरूप्यादेः स्वभासके साक्षिणि सत्येव निवृत्त्यभ्युपगमेन साक्षिभास्यानां यावत्साक्षिसत्त्वमवस्थाननियमानभ्युपगमात्। किं च केवलचिन्मात्रं न साक्षि, किन्त्वविद्यावृत्त्युपहितम्। तथा चास्थिराविद्यावृत्त्युपहितस्य साक्षिणोऽप्यस्थिरत्वेन तत्सत्त्वपर्यन्तमवस्थानेऽप्यविद्यादेर्निवृत्तिरुपपद्यते। न च वृत्त्यनुपधानदशायामविद्यादेः शुक्तिरूप्यवदसत्त्वापत्तिः। सादिपदार्थं एवैतादृङ्नियमाद्। धारावाहिकाविद्यावृत्तिपरम्पराया अतिसूक्ष्माया अभ्युपगमाद्वेति शिवम्।

 

                (2) यद्वा भ्रमोपादानत्वमज्ञानलक्षणम्। इदं च लक्षणं विश्वभ्रमोपादानमायाधिष्ठानं ब्रह्मेति पक्षे। न तु ब्रह्ममात्रोपादानत्वपक्षे, ब्रह्मसहिताविद्योपादानत्वपक्षे वा। अतो ब्रह्मणि नातिव्याप्तिः। इतरत्र तु पक्षे परिणामित्वेनाचेतनत्वेन वा भ्रमोपादानं विशेषणीयमिति न दोषः। न चाभावारोपनिवर्तकप्रमानिवर्त्येऽव्याप्तिः। तस्यापि भ्रमोपादानत्वात्। ननु- भ्रमे भावविलक्षणाज्ञानोपादानकत्वं न घटते। भ्रमस्य भावविलक्षणत्वे उपादेयत्वायोगाद्। भावत्वे च भावोपादानकत्वनियमादिति चेन्न। अज्ञानस्य भ्रमस्य च भावविलक्षणत्वेऽप्युपादानोपादेयभावोपपत्तेः। न हि भावत्वमुपादानत्वे उपादेयत्वे वा प्रयोजकम्। आत्मनि तददर्शनात्, किन्त्वन्वयिकारणत्वमुपादानत्वे तन्त्रम्। सादित्वमुपादेयत्वे। तदुभयं च न भावत्वनियतम्। अत उपादानोपादेयभावोऽपि न भावत्वनियतः। न चैवं ध्वंसस्याप्युपादेयत्वापत्तिः, इष्टापत्तेः। न चैवं ज्ञानप्रागभावस्यैव भ्रमोपादानत्वमस्तु, किमभावविलक्षणाज्ञानोपादानकल्पनेनेति वाच्यम्। प्रागभावस्य प्रतियोगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वस्याप्यसिद्धेः, तद्विशेषरूपोपादानत्वस्यैव दूरनिरस्तत्वात्। अतः सद्विलक्षमयोरज्ञानभ्रमयोर्युक्त उपादानोपादेयभावः। भ्रमस्य च सद्विलक्षणत्वमुक्तम्। वक्ष्यते च। न चैवमज्ञानानुविद्धतया भ्रमस्य प्रतीत्यापत्तिः, मृदनुविद्धतया घटस्येवेति वाच्यम्। यद् यदुपादानकं, तत् तदनुविद्धतयैव प्रतीयत इति व्याप्त्यसिद्धेः। न हि घटोपादानकं रूपं घट इति प्रतीयते। प्रकृतिद्व्यणुकाद्यनुविद्धतया प्रतीतेः परैरप्यनभ्युपगमात्। केनचिद्धर्मेण तदनुवेधस्तु प्रकृतेऽपीष्ट एव। न च यावन्ति ज्ञानानि तावन्त्यज्ञानानीति पक्षे भ्रमापूर्वकप्रमानिवर्त्येऽज्ञाने अव्याप्तिः। भ्रमोपादानतायोग्यत्वस्य विवक्षितत्वात्। सहकारिवैकल्यात् कार्यानुदयेऽपि योग्यतानपायात्। अथ योग्यतावच्छेदकरूपापरिचये कथं तद्ग्रहणम्? प्रथमलक्षणस्यैव योग्यतावच्छेदकत्वात्। एकमेवाज्ञानमिति पक्षे तु तत्र भ्रमोपादानत्वमक्षतमेव। न चैवं शुक्तिज्ञानेनैवाज्ञाननाशे मोक्षापत्तिः। तस्यावस्थाविशेषनाशकत्वाङ्गीकारात्। व्युत्पादितं चैतदस्माभिः सिद्धान्तबिन्दौ। ज्ञानत्वेन रूपेण साक्षाज्ज्ञाननिवर्त्यत्वं वा तल्लक्षणमिति च प्रागुक्तमेव। तस्मान्नाविद्यालक्षणासम्भव इति सर्वमवदातम्।

 

                                ।। इत्यद्वैतसिद्धावविद्यालक्षणोपपत्तिः।।

[/1-2-21]

 

 

[1-2-22]

                                                अद्वैतसिद्धिः

               

                तत्र चाज्ञाने सामन्यतः `अहमज्ञो मामन्यं च न जानाति' इति प्रत्यक्षं, `त्वदुक्तमर्थं न जानामि' इति विशेषतः प्रत्यक्षम्, `एतावन्तं कालं सुखमहमस्वाप्यसं न किञ्चिदवेदिषम्' इति परामर्शसिद्धं सौषुप्तप्रत्यक्षं च प्रमाणम्। न च- अहमर्थस्याज्ञानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाज्ञानपक्षे उपपद्यत इति- वाच्यम्। अज्ञानाश्रयीभूतचैतन्ये अन्तःकरणतादात्म्याध्यासेन एकाश्रयत्वसंबन्धेनोपपत्तेः। अत एव- जडे आवरणकृत्याभावात् `घटं न जानामि' इत्यादिप्रतीतेर्ज्ञानाभावविषयत्वे प्रकृतेऽपि तथाऽस्त्विति- निरस्तम्। तत्तदवच्छिन्नचैतन्यस्यैवाज्ञानाश्रयत्वेन तत्रापि तद्‌व्यवहारोपपत्तेः। न च- साक्षिवेद्ये सुखदुःखाज्ञानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जानामीति प्रतीतिः कथमुपपद्यत इति- वाच्यम्। स्वस्मिन्विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च `न जानामि' इति व्यवहारासम्भवात्, परसुखादौ `न जानामि' इति व्यवहारस्य परोक्षज्ञाननिवर्त्येन प्रमातृगताज्ञानेनैवोपपत्तेः। अत एव परोक्षज्ञानेन प्रमातृगतज्ञाने नाशितेऽपि विषयगताज्ञानसत्त्वेन `न जानामि' इति व्यवहारापत्तिरिति- निरस्तम्। प्रमातृगताज्ञानकार्यस्य `न जानामि' इति व्यवहारस्य विषयगताज्ञानेनापादयितुमशक्यत्वात्।

 

                ननु- भावरूपाज्ञानविषयत्वेनाभिमतस्य `अहमज्ञः' इति प्रत्यपस्य `मयि ज्ञानं नास्ति' इति ज्ञानाभावविषयात् प्रत्ययात् `अघटं भूतलम्' इति प्रत्ययस्य `घटो नास्ति' इति प्रत्ययादिव विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वेषाभावज्ञानयोरिव विषयभेदाप्रतीतिरिति- चेत्, सत्यम्। धर्मिप्रतियोगिज्ञानाज्ञानाज्ञानाभ्यां ज्ञानसामान्याभावज्ञानस्य व्याहतत्वेन `मयि ज्ञानं नास्ति' इत्यस्यापि भावरूपाज्ञानविषयत्वेन विषयभेदाप्रतीतेर्युक्तत्वात्। तथा हि- `मयि ज्ञानं नास्ति' इति प्रतीतिः `वायौ रूपं नास्ति' इति प्रतीतिवद्यावद्विशेषाभावान्यसामान्याभावविषया, सामान्यावच्छिन्नप्रतियोगिताकयावद्विशेषाभावविषया वा अभ्युपेया। तथा च तत्कारणीभूतधर्मिप्रतियोगिज्ञानाज्ञानाभ्यां कथं न व्याघातः? यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावाद्। अभावज्ञाने प्रतियोग्यंशे प्रकारीभूतधर्मस्यैव प्रतियोगितावच्छेदकत्वात्। अन्यथा सामान्याभावसिद्धर्न स्यात्। यावद्विशेषाभावान्यसामान्याभावानभ्युपगमेऽप्ययं दोषः। यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले `निर्घटं भूतलम्' इति प्रतीतिः स्यात्। `वायौ रूपं नास्ति' `पुरो देशे रजतं नास्ति' इत्याद्याप्तवाक्यजन्यप्रतीत्यनन्तरमपि तत्तत्संशयनिवृत्तिर्न स्यात्। एकविशेषाभावबोधनेऽपि विशेषान्तरमादाय संशयोपपत्तेः।

 

                अथ- अभावबोधे प्रकारीभूतधर्मस्यावच्छेदकत्वं पूर्वानुपस्थितमपि संसर्गमर्यादया शब्दाबोधे अन्यत्र च भासते। न ह्ववच्छेदकत्वस्य स्वरूपसंबन्धविशेषस्य ग्रहे अन्या सामग्री क्लृप्ता। तथा च तत्तद्विशेषाभावानां तत्तद्विशेषावच्छिन्नप्रतियोगिताकत्वात्, सामान्यावच्छिन्नप्रतियोगिताकत्वं यावद्विशेषाभावकूटे वा व्यासज्यवृत्तितदतिरिक्तसामान्याभावे वा प्रत्येकविश्रान्तमिति तादृगभावप्रतीतेयोर्यावद्विशेषप्रतीतिविरोधित्वात् कुतो विशेषसंशयादिरिति चेत्, सत्यम्। प्रकृतेऽपि ज्ञानत्वसामान्यावच्छिन्नप्रतियोगिताकाभावप्रतीतिर्यावज्ज्ञानविशेषविरोधिनीति कथं तत्तत्कारणत्वाभिमतज्ञानविशेषे सति सा न व्याहन्यते? तथा च क्लृप्ताभावप्रतीतिवैलक्षण्येऽवश्यकल्प्ये लाघवाद्विषयस्यैवाभाववैलक्षण्यं कल्पयितुमुचितम्। विषयावैलक्षण्ये प्रतीतिवैलक्षण्यायोगात्। विषयज्ञानमनुभूय च पुरुषस्तन्निवृत्त्यर्थं विचारे प्रवर्तत इति सर्वानुभवसिद्धम्। यद्यपि ज्ञानविशेषाभावो `न जानामी'ति प्रतीतेर्विषयः, तदा ज्ञातेऽपि तथा प्रतीत्यापातः। तद्विचारार्थं च प्रवृत्तिः स्यात्। सामान्याभावे च बाधकमुक्तमेव। तस्मादभावविलक्षणमेवाज्ञानं `मयि ज्ञानं नास्त्यहमज्ञः' इत्यादि- धीविषय इति सिद्धम्।

 

                ननु अभावविलक्षणमप्यज्ञानं `न जानामि' इति ज्ञानविरोधित्वेनैव भासते। मोहादिपदेऽपि प्रलयादिपदवत्तदनुल्लेखमात्रम्। उक्तं च विवरणे- `अज्ञानमिति द्वयसापेक्षज्ञानपर्युदासेनाभिधानाद्' इति। अन्यथा ज्ञानस्याज्ञानविरोधित्वमप्रामाणिकं स्यात्। तथा च विरोधनिरूपकज्ञानस्य ज्ञानाज्ञानाभ्यां तवापि कथं न व्याघातः? एवं निर्विषयाज्ञानाप्रतीतेर्विषयज्ञानाज्ञानयोरपि व्याघात आपदनीयः। तथा च

 

                                यत्रोभयोः समो दोषः परिहारोऽपि वा समः।

                                नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे।।

 

इति न्यायेन उभयपरिहरणीयस्य व्याघातस्य ज्ञानाभावपक्ष एवापादनमनुचितमिति- चेन्न। प्रमाणवृत्तिनिवर्त्यस्यापि भावरूपाज्ञानस्य साक्षिवेद्यस्य विरोधनिरूपकज्ञानतद्व्यावर्तकविषयग्राहकेण साक्षिणा तत्साधकेन तदनाशाद्व्याहत्यनुपपत्तेः। अज्ञानग्रहे विषयगोचरप्रमापेक्षायां व्याहतिः स्यादेव, सा च नास्ति। तदुक्तं विवरणे- `सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव'इति। न चैवं ज्ञानाभावपक्षेऽपि विषयादिज्ञानं साक्षिरूपम्। `न जानामि' इति धीस्तु प्रमाणवृत्त्यभावविषयेति न व्याहतिरिति- वाच्यम्। भावरूपाज्ञानस्य साक्षात् साक्षिवेद्यत्वेन तदवच्छेदकविषयादेस्तद्‌द्वारा साक्षिवेद्यत्वसम्भवेऽपि अभावस्यानुपलब्धिगम्यत्वेन साक्षात् साक्षिवेद्यत्वाभावात् न  तद्‌द्वारा तदवच्छेदकविषयादेः साक्षिवेद्यत्वमिति वैषम्यात्। यद्यपि ज्ञानं साक्षिवेद्यं, तद्‌द्वारा तदवच्छेदको विषयश्च साक्षिवेद्यः, तथापि ज्ञानाभावो न साक्षिवेद्यः, तस्यानुपलब्धत्वात्। उत्पन्नं च ज्ञानं साक्षात् साक्षिवेद्यम्। तस्मिंश्चोत्पन्ने तद्विषयोऽपि स्फुरतीति कुतो ज्ञानाभावोऽपि? अज्ञानविशेषणतया तु अनुत्पन्नमपि ज्ञानं साक्षिवेद्यमिति न दोषसाम्यम्। न च- अवच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्विशिष्टाज्ञानज्ञानम्? विशेषणज्ञानाधीनत्वाद्विशिष्टज्ञानस्येति- वाच्यम्। विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वे मानाभावात्। प्रतियोगित्वाभावत्वयोः पूर्वानुपस्थितयोरपि तार्किकैरभावबोधे प्रकारीभूय भानाभ्युपगमात्। तथापि- विशेषणतावच्छेदकप्रकारकज्ञानं विना कथं विशिष्टवैशिष्टबुद्धिरिति- चेन्न। विशिष्टवैशिष्ट्यबुद्धित्वेन विशेषणतावच्छेदकप्रकारकज्ञानत्वेन च कार्यकारणभावे मानाभावात्। प्रत्यक्षत्वादिरूपेण पृथक् पृथक् क्लृप्तकार्यकारणभावेनैवोपपत्तेः विशिष्टवैशिष्ट्यबुद्धित्वस्यार्थसमाजसिद्धत्वात्। इह च सामग्रीतुल्यत्वेन `विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति न्यायेन विशिष्टवैशिष्ट्यज्ञानसम्भवात्। अन्यथा तार्किकाणामपीश्वरस्य भ्रान्तिज्ञत्वं न स्यात्। भ्रमविषयस्य स्वातन्त्र्येण ग्रहे भ्रान्तत्वापत्त्या भ्रमावच्छेदकतयैव तद्‌ग्रहणं वाच्यम्। तथा च क्व प्राक्तदवच्छेदकग्रहनियमः? ग्रहणसामग्रीतुल्यत्वं च प्रकृतेऽपि समम्।

 

                ननु- श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानं त्वयापि वाच्यम्। तथा च तत्रापि व्याहतिस्तुल्येति- चेन्न। श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानरूपस्य प्रतियोगिनो ज्ञानाज्ञानाभ्यां व्याहत्यभावात्। न हि श्रवणादिसाध्यत्वमोक्षहेतुत्वादिप्रकारकं ब्रह्मज्ञानज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यम्, मोक्षहेतुर्वा। येन तस्मिन् सति तादृग्ज्ञानप्रागभावो व्याहन्येत।

 

                नन्वेवं- `न जानामि' इति धियो ज्ञानाभावविषयत्वेऽपि न प्रतियोगिज्ञानादिना व्याहतिः। सामान्यतो विषयप्रतियोगिज्ञानेऽपि विशेषतस्तदभावसम्भवात्। अन्यथा प्रागभावधीर्न स्यात्। तत्प्रतियोगिविशेषस्य सामान्यधर्मं विना विशेषतो ज्ञातुमशक्यत्वादिति- चेन्न। विशेषज्ञानाभावे हि विशेषज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोऽपि ज्ञात एवेति विशेषज्ञानाभावव्याघातात्। यत्किञ्चिद्विशेषाभावश्च न सामान्यावच्छिन्नप्रतियोगिताक इत्युक्तम्। प्रतियोगितावच्छेदकप्रकारकज्ञानाभावेन प्रागभावप्रतीतिरसिद्धैव। ननु- प्रतियोगितावच्छेदकप्रकारकज्ञानं नाभावज्ञाने कारणम्। किंत्वभावज्ञाने भासमानप्रतियोगिवृत्तिधर्मप्रकारकं ज्ञानम्। सामान्यलक्षणप्रत्यासत्त्यभ्युपगमे तु प्रतियोगिविषयत्वमपि तस्याधिकम्। इतरथा तु तदेव इष्टवृत्तिसामान्यधर्मप्रकारकज्ञानमिवासिद्धव्यक्तिविषयेच्छाकृत्योः। न च- प्रतियोगितानवच्छेदकधर्मेण कथं प्रतियोगिता गृह्यतामिति- वाच्यम्। विशेषावच्छिन्नाया व्याप्तेरिव सामान्येन ग्रहणसम्भवात्। तथा हि- `इदमभिधेयवत्, प्रमेयात्' इत्यनुमाने `यत्र प्रमेयं तत्राभिधेयम्' इति व्याप्तिग्रहणसमये वृत्तिमत्प्रमेयत्वावच्छेदेनैव सामानाधिकरण्यरूपव्याप्तिसत्त्वेऽपि तस्याः प्रमेयत्वरूपेणैव ग्रहणं, न तु वृत्तिमत्प्रमेयत्वेन, गौरवात्। वृत्तिमत्त्वविशेषणस्य व्यभिचारावारकत्वेन वैयर्थ्याच्च। अवृत्तिषु साध्यसामानाधिकरण्यरूपव्याप्त्यभाववत् साध्याभावसामानाधिकरण्यरूपव्यभिचारस्याप्यभावात्। व्यर्थविशेषणत्वरहितत्वे सति व्यभिचारिव्यावृत्तत्वमात्रेणैव व्याप्यतावच्छेदकत्वसम्भवाच्च। तथा च यथा वृत्तिमत्प्रमेयगतापि व्याप्तिः प्रमेयत्वेनैव गृह्यते, तथा तत्तन्नीलादिव्यक्तिगता प्रतियोगिता नीलत्वादिरूपेण गृह्यत इति न काचिदनुपपत्तिः। एवं च `इहेदानीं' घटो नास्ति' इति प्रतीतिरिव घटोपादानगततत्प्रागभावविषया `मयि ज्ञानं नास्ति' इति प्रतीतिरपि प्रमातृगततत्प्रागभावविषयेऽति न काप्यनुपपत्तिरिति- चेन्न। अभावज्ञाने प्रतियोग्यंशे भासमानस्य धर्मस्यैव प्रतियोगितावच्छेदकतया यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले `निर्घट भूतलम्' इति, घटज्ञानवत्यपि स्वस्मिन् `मयि घटज्ञानं नास्ति' इति च प्रतीतेरापत्तेः पूर्वोक्तदोषात्। यत्किञ्चिद्‌घटज्ञनं घटाभावज्ञाने प्रतिबन्धकमिति तु ज्ञानज्ञानेऽपि तुल्यम्। उदाहृतव्याप्तिग्रहणे तु बाधकाभावात् सामान्यावच्छेदेऽपि न दोषः।

 

                अथैवं प्रागभावप्रतीतिरेव न स्यात्। न स्यादेव। `घटो भविष्यति' इति प्रतीतेः धात्वर्थभविष्यत्ताविषयत्वेन प्रागभावाविषयत्वात्। अन्यथा दिनान्तरोत्पत्स्यमानघटे एतद्दिनवृत्तिप्रागभावप्रतियोगित्वेन `अद्य घटो भविष्यति' इति धीप्रसङ्गः। भविष्यत्त्वं च प्रतियोगितद्‌ध्वंसानाधारकालसम्बन्धित्वम्। ध्वंसत्वं च प्रागभावानङ्गीकर्तृमते कादाचित्काभावत्वमेव। तदङ्गीकर्तृमतेऽपि प्रतियोग्यजनककादाचित्काभावत्वम्। जनकत्वं च स्वरूपसम्बन्धविशेषो न प्रागभावघटितः। प्रागभावस्याजनकत्वापत्तेः। अन्यथात्माश्रयात्। अतः प्रागभावमङ्गीकुर्वतोऽपि तत्प्रत्यक्षत्वं दुर्लभम्। तमनङ्गीकुर्वतस्तु न काऽपि हानिः। `इहेदानीं घटो नास्ति' इति प्रतीतिस्तु सामान्यधर्मावच्छिन्नप्रतियोगिताकतत्कालावच्छिन्नयावद्विशेषभावविषया, समयविशेषस्याप्यभाववाच्छेदकत्वात्। अन्यथा `आद्यक्षणे घटो नीरूपः' इत्यादिप्रतीतिर्न स्यात्।

 

                अथ- अस्मिन्पक्षे सामान्याभावो न सिध्येदिति- चेत्, प्रागभावाभ्युपगमेऽपि तुल्यमेतत्। सामान्याभावप्रागभावयोः सुन्दोपसुन्दयोरिव परस्परपराहतत्वात्। तथा हि- प्रागभावसिद्धौ विशेषाभावस्यापि सामान्यावच्छिन्नप्रतियोगिताकत्वात् न तावन्मात्रप्रमाणकसामान्याभावसिद्धिः। सामान्याभावसिद्धौ च विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात् कादाचित्काभावस्य च सामान्याभावत्वायोगात् न सामान्यधर्मावच्छिन्नप्रतियोगिताकविशेषप्रतीतिमात्रशरणप्रागभावसिद्धिरिति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति। ननु- यावद्विशेषाभावनिश्चयेऽपि `रूपं वायुवृत्ति न वा', `वायू रूपवान्न वा' इति रूपाभावसन्देहात् निश्चिते च संशयायोगाद्यावद्विशेषाभावान्यसामान्याभावसिद्धिः। अत एतावन्त्येव रूपाणीति निश्चयदशायामेतादृशसंशयस्याननुभूयमानत्वेन तदनिश्चयदशायामेवैतादृशः संशयो वाच्य। तथा च `रूपत्वं पार्थिवाप्यतैजसरूपन्नितयातिरिक्तवृत्ति भविष्यति' इत्यधिकसंभावनया अनिश्चितेष्वेव संशयः। उक्तसम्भावनाविरहसहकृतनिश्चयस्यैव प्रतिबन्धकत्वादिति- चेन्न। एवं प्रतिबन्धककल्पने मानाभावाद्। उक्तसम्भवनाविरहदशाया मप्येतादृशसंशयदर्शनाच्च।

 

 

                ननु-- यथा यावद्विशेषाभावेभ्योऽतिरिक्तः सामान्याभावो रूपस्य संशयकोटिः, तथा रूपसामान्यमपि यावद्विशेषेभ्योऽतिरिक्तं संशयकोटिर्नाभ्युपगन्तुं शक्यते। तथा च कथं रूपस्य संशयकोटित्वम्? सर्वरूपाभावनिश्चयात्। यदि तु नीलपीताद्यभावत्वेन निश्चयेऽपि रूपाभावत्वेनानिश्चयाद्रूपसंशय इति ब्रूषे, तदा किं सामान्याभावेन? रूपत्वावच्छिन्नप्रतियोगिताकाभावत्वेन संशयसम्भवात्। धर्मिकल्पनातो धर्मकल्पनाया लघुत्वेन यावद्विशेषाभावानामेव रूपत्वावच्छिन्नप्रतियोगिताकत्वकल्पनाद्। अतो न यत्किञ्चिदभावमादाय `घटो नीरूपः' इति प्रतितिप्रसङ्ग इति- चेन्न। यावद्विशेषाभावेषु यद्रूपत्वावच्छिन्नप्रतियोगिताकत्वं, तत् प्रत्येकविश्रान्तं, व्यासज्यवृत्ति वा? आद्ये यत्किञ्चिदभावमादाय `घटो नीरूपः' इति प्रतीतिप्रसङ्गः। द्वितीये, तत्तद्रूपत्वावच्छिन्नप्रतियोगिताकत्वस्याव्यासज्यवृत्तिस्वभावत्वेन तद्व्यतिरिक्तं रूपत्वावच्छिन्नप्रतियोगिताकत्वं व्यासज्यवृत्ति कल्पनीयम्। तद्वरं रूपत्वावच्छिन्नप्रतियोगिताक एक एवाभावः कल्प्यते। ममैकोऽभावः रूपत्वावच्छिन्नप्रतियोगिताकत्वं चेति वस्तुद्वयं कल्प्यम्। तव तु रूपत्वावच्छिन्नप्रतियोगिताकत्वं तस्य च व्यासज्यवृत्तित्वेन बहुष्वभावेषु प्रत्येकं संबन्धा इति बहु कल्प्यम्। `धर्मिकल्पनातो धर्मकल्पनाया लघुत्वम्' इति न्यायस्तु कल्पनीयाधिक्यापेक्षः। किं च घटद्वये यावद्विशेषाभावसत्त्वेऽपि रूपसामान्याभावबुद्ध्यनुदयाद् ऐकाधिकरण्यावच्छेदेनाप्यभावा विशेषणीयाः। तथा चातिगौरवम्। अपि च व्यासज्यवृत्तिधर्मग्रहे यावदाश्रयग्रहस्तद्भेदग्रहश्च हेतुः। अगृहीतेष्वभिन्नतया वा गृहीतेषु वस्त्रादिषु द्वित्वादिबुद्ध्यनुदयात्। तथा च यावदभावतद्भेदाग्रहे प्रथमत एव नीरूप इति धीर्न स्यात्। व्यासज्यवृत्तिसामान्यप्रतियोगिताकत्वस्याग्रहणात्। अतः सामान्याभावस्य प्रामाणिकत्वात् कथं तत्पराहतिरिति- चेत्, अत्र ब्रूमः- एवं तर्हि सामान्यप्रकारेण विशेषाभावाप्रतीतेर्ज्ञानविशेषप्रागभावो न जानामीति धियो ज्ञानत्वावच्छिन्नप्रतियोगिताको न विषय इति सिद्धं नः समीहितम्। न हि प्रागाभावोऽपि कश्चित्सामान्याभावोऽस्ति। येन तत्प्रतियोगिता सामान्यधर्मेणावच्छिद्येत, विशेषाभावप्रतियोगिता तु तत्तद्‌घटत्वादिना विशेषेणावच्छिद्यते। न च तेन तेन रूपेण भविष्यद्धटादि ज्ञातुं शक्यम्। तज्जन्मान्तरं तु तत्तद्रूपेण तज्ज्ञानसम्भवेऽपि न प्रागभावधीः प्रत्यक्षा स्यात्। तदानीं प्रागभावासत्त्वात्। प्रत्यक्षस्य विषयजन्यत्वात्। सामान्यप्रकारकज्ञानं च न विशेषाभावज्ञाने हेतुरित्युक्तम्। प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्याभावत्वप्रकारकाभावज्ञाने हेतुत्वात्। तस्यानुमानगम्यत्वेऽपि `न जानामि' इति धियोऽपरोक्षायस्तद्विषयत्वायोगात्। अव्यभिचारिलिङ्गाद्यभावात्तदनुमानमपि दूरनिरस्तमेव। ननु- `इदं मा भूत्' इतीच्छाविषयतया तत्सिद्धिः। न, प्रागभावस्य स्वरूपतोऽसाध्यत्वेन प्रतियोगिजनकविघटनेन तत्संबन्धस्येवात्यन्ताभावसम्बन्धस्यापि साध्यत्वात्तेनैवान्यथासिद्धेः।

 

                अथ- उत्पन्नस्य द्वितीयक्षणे पुनरुत्पत्त्यभावात्तत्पूर्वक्षणे सामाग्र्यभावो वाच्यः। स च प्रागभावाभावादेव। अन्यहेतूनां सत्त्वादिति- चेन्न। सामयिकात्यन्ताभावेनैवान्यथासिद्धेः। उत्पन्नस्यैव स्वोत्पत्तिविरोधित्वाच्च। अपि च सामग्री कार्यसत्त्वे प्रयोजिका, न तु तस्याऽद्यकालसम्बन्धरूपोत्पत्तावपि। आद्यकालसम्बन्धो हि स्वसमानकालीनपदार्थध्वंसानाधारकालाधारत्वम्। तत्र सामग्री कार्यस्य कालाधारत्वांशमात्रे प्रयोजिका, न तु विशेषणांशेऽपि। तस्य तादृक्पदार्थध्वंससामग्रीविरहादेव सिद्धेः। पाकजरूपादिभेदोऽप्यग्निसंयोगभेदात् पूर्वरूपादिध्वंसभेदाद्वा, न तु प्रागभावभेदात्। प्रतियोगिभेदं विना प्रागभावभेदायोगाच्च। नाप्युपादानत्वव्यवस्था तत्र मानम्। तन्तुत्वादिनैव तत्सिद्धेः। अन्यथा प्रागभावस्य सम्बन्धिविशेषोऽपि कुतः सिद्ध्येत्? न च तदत्यन्ताभाववतः कथं तदुपादानत्वम्? सम्बन्धान्तरेण त्वयाऽप्यभ्युपगमात्समयावच्छेदतदनवच्छेदाभ्यां वैलक्षण्याभ्युपगमाच्चेत्यलमतिविस्तरेण।

 

                एवं सामान्याभावोऽपि गौरवपराहत एव। तथा हि- सामान्यावच्छिन्नप्रतियोगिताकत्वं, अभावः, तस्य च तत्तदधिकरणसम्बन्धा इति त्रयं वा कल्प्यताम्? क्लृप्तत्तदधिकरणसम्बन्धानामेकाधिकरणवृत्तित्वावच्छेदेन सिद्धानामभावानां सामान्यावच्छिन्नप्रतियोगिताकत्वं, तस्य च व्यासज्यवृत्तित्वमिति द्वयं वा कल्प्यताम्। तत्रोत्तरः पक्ष एव प्रेक्षावद्भ्यो रोचते। आद्यक्षणे `घटो नीरूपः' इति प्रतीतेः सर्वसिद्धत्वाद्। यावदश्रयतद्भेदग्रहस्य द्वित्वादिग्रहे हेतुत्वेऽपि उक्तप्रतियोगिताग्रहे हेतुत्वानभ्युपगमात्। कार्योन्नेयधर्माणां यथाकार्यमुन्नयनात्। न चैवं- अतिलाघवात् क्लृप्तानामधिकरणानामेवाभावधीहेतुत्वमस्तु, किं विशेषाभावैरपीति- वाच्यम्। अस्माकमिष्टापत्तेः। घटाभावो नेत्यादावतिरिक्ताभावस्य त्वयाऽप्यनभ्युपगमेन भावस्याप्यभावत्वप्रकारकप्रमाहेतुत्वस्योभयवादिसिद्धत्वात्।

 

                यदपि कश्चिदाह- प्रतियोगितावच्छेदकभेदस्याभावभेदनियामकत्वाद्विशेषाभावान्यसामान्याभावसिद्धिः। अन्यथा अभावभेदासिद्धेः। प्रतियोगिभेदस्याभावभेदकत्वे एकघटप्रतियोगिकस्य प्रागभावादिचतुष्टयस्याभेदप्रसङ्गद्। अवच्छेदकभेदात्तु तद्भेद न कोऽपि दोषः। क्वचित्तादात्म्यस्य, क्वचित्संसर्गस्य, क्वचित् पूर्वापरकालीनतत्तद्‌घटत्वादेश्च भेदात्- इति। तन्न। संसर्गप्रतियोगिविशेषणसाधारणस्यैकस्यावच्छेदकत्वस्य दुर्वचत्वात्। तादात्म्यादेश्च प्रतियोगितावच्छेदकत्वे मानाभावात्। भेदसिद्धिस्तु भाववदभावस्यापि विरुद्धधर्माध्यासादेव। अवच्छेदकभेदस्याभावभेदनियामकत्वं लिङ्गविधया तज्ज्ञापकत्वमेव वाच्यम्, न तु तज्जनकत्वम्। तच्च न। विपक्षबाधकतर्काभावेन सामानाधिकरम्याभावेन च व्याप्तेरेवासिद्धेः। अत एव- तदितरधर्मावच्छिन्नप्रतियोगिताकत्वं तदवच्छिन्नप्रतियोगिकताकान्यत्वव्याप्यमित्यपि- निरस्तम्। एवं चावृत्तीनां गगनादीनां समनियतानां चाऽन्येषां धर्माणामेक एवात्यन्ताभावः, युगपद्विनष्टानामुत्पन्नानां वा समानदेशानामसति बाधके एक एव ध्वंसः प्रागभावो वा, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽपि चेदभावः प्रामाणिकः तदा तस्यैकस्यैव प्रतियोगिताः सवैरैव व्यधिकरणैः सर्वैश्च समानाधिकरणैः संबन्धैरेवावच्छिद्यन्ताम्। आकाशाभाव एव वा तथाऽऽस्ताम्। एकेनैवोपपत्तावभावभेदकल्पने मानाभावात्। न च- एवमेक एव जगतीतले भवत्वभावः। स एव तत्तदवच्छेदकदेशकालादिभेदेन तत्तद्व्यवहारभेदं जनयिष्यतीति किमधिककल्पनयेति- वाच्यम्। उपपद्यते चेदस्तु। प्रकृते तु न बाधकं किञ्चित्। अत एव वैशेषिकाणां स्वाभ्युपगतकालपदार्थस्यैव सर्वव्यवहारहेतुत्वोपपत्तौ न पदार्थान्तरसिद्धिरित्यद्वैतवादिनो वदन्ति। तदेवं `अहमज्ञः' इति ज्ञानस्याभावज्ञानसामग्रीविलक्षणसामग्रीजन्यत्वादभावविलक्षणविषयत्वं सिद्धम्।

 

                एवं `त्वदुक्तमर्थं न जानामि' इति प्रत्यक्षस्यापि। ननु- `साक्षात्त्वदुक्तार्थविषयं प्रमाणज्ञानं मयि नास्ति' इत्येतद्विषयकमुदाहृतज्ञानम्। तच्च न साक्षादर्थविषयम्। प्रमाणज्ञानावच्छेदकतयाऽर्थस्य भानाद्, अतो न व्याघात इति- चेन्न। साक्षात्त्वदुक्तार्थमवेत्य हि तदभावो ग्राह्यः। तज्ज्ञानं च न साक्षिणा। स्वस्मिंस्तादृक्प्रमाणज्ञानाभावात्। अन्यनिष्ठं तु शब्दादिना ग्राह्यम्। शब्दादिश्च त्वदुक्तार्थं बोधयन्नेव तद्विषयत्वं ज्ञाने बोधयेत्। तथा च प्रथमतस्त्वदुक्तार्थविषयकं साक्षादेव ज्ञानमागतमिति तन्निषेधे न कुतो व्याघातः? अत एव- विशेषस्य स्वरूपतो ज्ञानेऽपि विशेषप्रकारकज्ञानाभावो न व्याहत- इत्यपास्तम्। करतलामलकज्ञाने स्वविषयव्यावर्तकधर्मविषयत्वं प्रसिद्धमिह निषिध्यत इत्यपि न। त्वदुक्तत्वस्यापि मदुक्ताद्व्यावर्तकत्वेन सामान्यतो व्यावर्तकधर्मविषयत्वस्य निषेद्धुमशक्यत्वात्।

 

                ननु- अवच्छेदकतया विशेषज्ञाने जातेऽपि न व्याहतिः। तथा हि- न हि विशेषज्ञानाभावस्त्वदुक्तार्थविषयकज्ञानाभावो वाऽत्र प्रतीयते। किं तु त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानाभावः। तत्र च त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानत्वेन प्रतियोगिज्ञानेऽपि तादृक्प्रकारकतद्विशेष्यकज्ञानाभावसम्भवः। अस्य ज्ञानस्य ज्ञाने विशेष्ये विशेषप्रकरकत्वप्रकारकत्वात्। यत्रापि `त्वदुक्तविशेषं न जानामि' इत्यभिलापः, तत्राप्येवमेव व्याहत्यभावः कथंचिदुन्नेयः। न च यत्रोक्तप्रतियोग्यप्रसिद्धिः तत्र कथमभावप्रतीतिरिति- वाच्यम्। समवेतवाच्यत्वं नास्तीत्यत्रेव विशेष्ये विशेषणाभावविषयत्वेन व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकाभावविषयत्वेन वोपपत्तेरिति- चेन्न। अनुभवविरोधाद्। विशेषज्ञानाभावस्य त्वदुक्तार्थज्ञानाभावस्य वाऽनभ्युपगमे तद्विषयज्ञानसत्त्वेन तद्व्यवहारापत्तेश्च। न चैवं दृश्यते। स्वतःप्रामाण्यमते तु तत्प्रकारकत्वे तद्विशेष्यकत्वे च गृह्यमाणे तद्वत्त्वग्रहमस्यावश्यकतया तदंशे तत्प्रकारकतद्विशेष्यकत्वस्य तादृशप्रतियोगिज्ञाने सम्भवात् स्पष्ट एव व्याघातः। भावरूपाज्ञानपक्षे तु सर्वस्यापि साक्षिवेद्यतया न व्याघात इत्युक्तम्। तदेवं `त्वदुक्तमर्थं न जानामि' इति प्रत्यक्षं भावरूपाज्ञानविषयमिति सिद्धम्।

 

                `एवमेतावन्तं कालं न किन्चिन्दवेदिषम्' इति परामर्शसिद्धं सौषुप्तं प्रत्यक्षमपि भावरूपाज्ञानविषयमेव। ननु- परामर्शः किमनुमानं, किं वा स्मरणम्? आद्ये ज्ञानाभाव एवानुमीयताम्, किं भावरूपाज्ञानेन? तथा हि- संप्रतिपन्नोदयास्तमयकालवद्विवादपदयोरप्युदयास्तमययोरन्तरालकालमनुमाय तत्कालमहं ज्ञानाभाववान्, अवस्थाविशेषवत्त्वात्, ज्ञानसामग्रीविरहवत्त्वात्, तुल्ययोगक्षेम आत्मादौ स्मर्यमाणेऽपि तद्वत्तया नियमेनास्मर्यमाणत्वाद्वेति प्रयोगसम्भवात्। द्वितीये तु नास्त्युपपत्तिः। संस्कारासम्भवाद्। विनश्यदेव हि ज्ञानं संस्कारं जनयति, विना व्यापारं व्यवहितकार्यजननाक्षमत्वाद्। अविनश्यता तु तेन स्वयमेव तत्कार्यस्य जनयितुं शक्यत्वात् किमिति संस्कारो जन्येत? न हि संस्कारोऽपि प्रत्यक्षः। येन कार्यान्यथानुपपत्तिमन्तरेणापि अभ्युपेयेत। सौषुप्तं चानाद्यज्ञानोपरक्तं साक्षिचैतन्यरूपं ज्ञानं स्वतो वा उपाधितो वा न विनश्यतीति संस्कारं कथं जनयेत्? तदभावात् कथं स्मर्येत, अस्मर्यमाणं वा क्वथं प्रमाणत्वेनोदाह्रियेतेति- चेन्न। न तावदनुमानं तत्र सम्भवति। हेतोः पक्षविशेषणस्य चाज्ञानात्। न हि ज्ञानाभावमन्तरेणावस्थायां विशेषो वक्तुं शक्यः। ज्ञानसामग्रीविरहश्च ज्ञानाभावानुमेयत्वेनान्योन्याश्रयग्रस्तः। न चेदानीन्तनेनेन्द्रियप्रसादेन पूर्वकालीनं तदुपरममनुमाय सामग्रीविरहानुमानम्। इन्द्रियप्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वासिद्धेः। नियमेनास्मर्यमाणत्वं च यथाश्रुतं वा सुषुप्तिकालावच्छेदेनेति वा? आद्ये असिद्धिः। द्वितीये तूपेक्षणीयज्ञानाभावो न सिध्येत्। तत्रैव व्यभिचारश्च।

 

                न च- तर्हि प्रातरनुभूतचत्वरे गजज्ञानाभावं कथमिति- वाच्यम्। ज्ञानानुपलब्ध्यैवेत्यवेहि। अनुपलब्धिज्ञानं च भावरूपाज्ञानेन लिङ्गेन। तथा हि- पूर्वकालेऽहं, गजज्ञानाभाववान्, गजाज्ञानवत्त्वात्, यन्नैवं तन्नैवम्, यथा गजज्ञानवानहमिति। एवं सर्वत्राज्ञानस्य ज्ञानाभावव्याप्यत्वेन तदनुमापकत्वम्। न च- सुषुप्तिकाले ज्ञानाभावानुमानार्थं भावरूपाज्ञानमिव रागाभावानुमार्थं द्वेषोऽपि स्वीकरणीयः तद्विरोधिपदार्थानुभवं विना तदभावानुमानायोगादिति- वाच्यम्। भावरूपाज्ञानेन ज्ञानाभावेन वा रागाभावानुमानसम्भवात्। तस्यापि तद्विरोधित्वात्। अथापरोक्षतो ज्ञाते त्वज्ञानाभावात् कथं परोक्षज्ञानाभावानुमानम्? सामग्रीविरहादिनेति गृहाण। न चात्राप्यन्योन्याश्रयः। शब्दादीनां योग्यानां योग्यनुपलब्ध्या अभावनिश्चयेन परोक्षज्ञानविरहज्ञानं विनैव सामग्रीविरहनिश्चयात्। सुषुप्तिकाले चेन्द्रियादिघटितसामग्रीविरहस्य फलाभावं विना ज्ञातुमशक्यत्वेनान्योन्याश्रयोक्तेः। न च स्मरणपक्षे संस्कारानुपपत्तिः। अज्ञानस्याज्ञानवृत्तिप्रतिबिम्बितसाक्षिभास्यत्वेन वृत्तिनाशादेव संस्कारोपपत्तेः। अज्ञानवृत्तिप्रतिबिम्बितचैतन्यस्यैव साक्षिपदार्थत्वात्। न च- जागरेऽप्यज्ञानस्य वृत्तिवेद्यत्वे वृत्त्यभावदशायां संशयाद्यापत्तिरिति- वाच्यम्। अज्ञानविषयाज्ञानाभावेन तदयोगात्। संशयादेस्तत्कारणीभूताज्ञानसमानविषयत्वनियमात्। भावत्वादिना संशये त्विष्टापत्तिरेव। भावत्वादेः साक्षिवेद्यत्वाभावेनाज्ञानविषयत्वाद्। अज्ञानस्य स्वरूपेणैव साक्षिवेद्यत्वात्। ननु- तदा ज्ञानाभावोऽपि स्वरूपेणैव भासताम्। सप्रतियोगिकत्वेनाभावज्ञान एव प्रतियोगिज्ञानस्य हेतुत्वाद्। अन्यथा `प्रमेयम्' इति ज्ञानेऽप्यभावो न भासेतेतिचेन्न। साक्षिणा तावन्न स्वरूपेणाभावावगाहनम्। तस्य साक्षात्साक्ष्यवेद्यत्वात्। नापि शब्दादिना। तदानीं तेषामभावात्। नाप्यनुपलब्ध्या। तस्याः प्रतियोगिज्ञाननिरपेक्षाया अजनकत्वात्। न च- दृष्टाभावान्तरविलक्षणस्वभाव एवायमभाव इति स्वरूपेण साक्षिवेद्योऽस्त्विति- वाच्यम्। निर्विकल्पकबुद्धिवेद्यत्वे भावत्वस्यैवौचित्याद्। अन्यथा परिभाषामात्रापत्तेः। ननु ज्ञानविरोधित्वादेस्तदाऽननुभवेन `नावेदिषम्' इति तेनाकारेण कथं परामर्शः? न। द्रष्टर्यन्तःकरणतादात्म्येनाहमुल्लेखस्येव ज्ञानविरोधित्वादेरपि तदैवानुभूयमानत्वेन तदंशे परामर्शत्वानभ्युपगमात्। सुषुप्तिकालीनस्य द्रष्टुरेव मरामृष्टत्वात्।

 

 

 

                नन्वज्ञानवृत्तिप्रतिबिम्बतचैतन्यरूपस्याज्ञानानुभवस्य जाग्रत्यपि विद्यमानत्वात् कथमज्ञानस्मरणम्? न हि धारावाहिकेषु अनुभवेषु तुल्यसामग्रीकेषु स्मरणव्यवहारः। तथा च धारावाहिकोऽज्ञानानुभव इति वक्तव्यम्, न तु परामर्श इति। सत्यम्। शुषुप्त्याख्यायास्तामस्या अज्ञानवृत्तेर्नाशेन जाग्रति तद्विशिष्टाज्ञानस्य साक्षिणाऽनुभूयमानत्वाभावेन संस्कारजन्याविद्यावृत्त्यैव सुषुप्तिविशिष्टाज्ञानभानात् परामर्शत्वोपपत्तेः। केवलाज्ञानांशे तु तुल्यसामग्रीकत्वाद्धारावाहिकत्वमेव। अत एव कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रलयोपमं सुषुप्तिरित्यभिप्रेत्य वार्तिककारपादैः सौषुप्ताज्ञानस्मरणमपाकृतम्। तथा चोक्तम्-

 

                                न सुषुप्तिगविज्ञानं नाज्ञासिषमिति स्मृतिः।

                                कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक्।।

 

                                न भूतकालस्पृक्प्रत्यङ् न चागामिस्पृगीक्ष्यते।

                                स्वार्थदेशः परार्थोऽर्थो विकल्पस्तेन स स्मृतः ।।

 

इत्याद्यव्याकृतप्रक्रियायाम्। विवरमकारैस्तु- `अभावप्रत्ययालम्बना वृत्तिर्निद्रा' इति योगसूत्रानुसारेण तमोगुणात्मकावरणमात्रालम्बना काचिद्वृत्तिः सुषुप्तिरित्यभिप्रेत्य तदुपरक्तचैतन्यस्य तन्नाशेनैव नाशात्तत्कालीनाज्ञानानुभवजनिसंस्कारवशेन `न किञ्चिदवेदिषम्' इति `स्मरणमभ्युपेतम्' इति वार्तिकविवरणयोरेप्यविरोधः। अत एवोक्तं वार्तिककारैरुषस्तिब्राह्मणे-

 

                                न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयेते।

                                नावेदिषं सुषुप्तोऽहमिति धीः किम्बलाद्भवेत्।। इत्यादि।

                               

                अभिप्रायस्तु वर्णित एव। साक्ष्यज्ञानसुखाकारास्तिस्रोऽविद्यावृत्तयः सुषुप्त्याख्यैकैव वा वृत्तिरित्यन्यदेतत्। निर्विकल्पकस्यापि स्मरणजनकत्वम्, अहंकारोपरागकालीनत्वाभावेन तत्तानुल्लेख इत्यादि सर्वमुपपादितमस्माभिः सिद्धान्तबिन्दौ। तस्मात् सौषुप्तानुभवोऽपि भावरूपाज्ञानविषय इति सिद्धम्। इत्यद्वैतसिद्धौ अज्ञानप्रत्यक्षत्वोपपत्तिः।

 

 [/1-2-22]

 

[Page no.337]

                                ******** proof completed *********

 

 

Jaya Gurudatta

न्यायामृतम्

 

                                                अद्वैतसिद्धिः

 

 

[1-2-23]

                                अनुमानमपि तत्र विवरणोक्तं प्रमाणम्- `विवादपदं प्रमाणज्ञानम्, स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वाद्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति। अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामज्ञानानिवर्तिकायां बाधवारणाय। धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञानानिवर्तिकायाः पक्षबहिर्भावाय विवादपदमिति विशेषणम्। विशेषाकारप्रमाणवृत्तिरिति फलितोऽर्थः। परोक्षप्रमाया अप्यसत्त्वावरणरूपप्रमातृगताज्ञानिवर्तकत्वात् न तदंशेऽपि बाधः। नन्विदमिति प्रमाणवृत्तेरज्ञानानिवर्तकत्वे अज्ञातज्ञापकत्वरूपप्रमात्वेन व्यवहारो न स्यात्, न इदमाकारभ्रमसंशयादर्शनेन तद्गोचराज्ञानकल्पने मानाभावेन तत्र सुखादिज्ञानवद्यथार्थत्वमात्रेण प्रमात्वव्यवहारोपपत्तेः। यथाहुः- `धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्यय' इति। यदि तु भ्रमसंशयाजनकमपि तदाकारमज्ञानमनुभवबलादास्थीयेत, तर्हि सापि पक्षेऽन्तर्भवतु, प्रमाणवृत्तित्वावच्छेदेनैवाज्ञाननिवर्तकत्वानपायात्, तदा च विवादपदमिति विशेषणमनादेयम्। एतस्मिन् पक्षे भ्रमोपादानत्वयोग्यत्वमविद्यालक्षणं द्रष्टव्यम्, भ्रमोपादानत्वस्य धर्म्यंशज्ञान निवर्त्याज्ञानेऽव्याप्तेरित्यवधेयम्। धारावाहिकबुद्धीनां च तत्तत्कालावच्छिन्नार्थविषयत्वेनाज्ञातज्ञापकत्वमस्त्येव; कालस्य सर्वप्रमाणवेद्यत्वाभ्युपगमात्। अनात्माकारप्रमाणवृत्तीनां च तत्तदवच्छिन्नचैतन्यविषयत्वेन स्वविषयावरणनिवर्तकत्वमस्त्येव, चित्त्वेनैव प्रकाशप्रसक्तेः, न त्वनवच्छिन्नचित्त्वेन, गौरवात्, `एतावन्तं कालं मया न ज्ञातोऽयमिदानीं ज्ञात' इत्यनुभवाच्च। रूपादिहीनस्यापि तत्तदवच्छिन्नचैतन्यस्य प्रत्यक्षादिविषयत्वमुक्तं प्राक्। प्रतिकर्मव्यवस्थामभ्युपगम्य चेदमनुमानम्, न तु दृष्टिसृष्टिपक्ष इति ध्येयम्। साध्ये चाद्यं विशेषणं' प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते प्रागभावेनार्थान्तरवारणाय। तदुदीच्यध्वंसादिकमादाय नार्थान्तरप्रसक्तिः, किन्तु पूर्ववर्त्त्यभावमादायेति वस्तुगतिमनुरुध्य प्राक्पदम्। अवैयर्थ्यं च प्रतियोगिविशेषणत्वेनाखण्डाभावसम्पादकतया।

 

                एतेन- यतो ज्ञानमज्ञानस्यैव निवर्तकमिति नियमात् स्वनिवर्त्यपदेनैव प्रागभावव्युदासे किमाद्यविशेषणेनेति- निरस्तम्; प्रमात्वेन ज्ञाननिवर्त्यत्वमन्येषां नेत्यत्र तात्पर्यात्। न च स्वविषयावरणपदेनैव तद्व्युदासः, `अस्ति प्रकाशत' इति व्यवहारविरोधित्वरूपस्यावरणत्वस्य भावाभावसाधारणत्वात्। वृत्तिजनकादृष्टेनार्थान्तरवारणाय तु विशेषणमिदम्। न चावरणपदेनैव तद्व्युदासे स्वविषयेति व्यर्थम्, यददृष्टं स्वविषयज्ञानजनकं विषयान्तरज्ञानप्रतिबन्धकतया तदावरकं, तादृशादृष्टपूर्वकत्वेनार्थान्तरवारकत्वात्।

 

                न च जडे अज्ञानस्यानङ्गीकाराच्चितश्चाज्ञानादिसाक्षितया भासमानत्वात् क्वावरणमितिवाच्यम्, अज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽपि `अस्ति प्रकाशत' इति व्यवहाराभावेन तदंशेऽज्ञानावरणस्यावश्यकत्वात्। वक्ष्यते चैतत्। स्वनिवर्त्येति च विशेषणं वृत्तिप्रतिबन्धकादृष्टेनार्थान्तरवारणाय। न च- चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्धिः तन्निवर्त्यत्वे तद्व्युदसनमशक्यमिति- वाच्यम्, प्रतिबन्धकादृष्टे विद्यमाने न ज्ञानोत्पत्तिरिति प्रथमं तन्निवृत्तेः कारणात्मना स्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वम्। न चैवमपि स्वनिवर्त्यत्वमव्याहतम्, स्वनिवर्त्यस्वरूपत्वे तात्पर्यात्। अन्धकारेणार्थान्तरवारणार्थमिदमिति- केचित्। तन्न, स्वदेशगतेत्यनेनैव तद्व्युदासात्। यथा च वृत्तिप्रतिबिम्वितचैतन्यस्य विषयावच्छिन्नचैतन्येन सहैकलोलीभावादज्ञाननिवर्तकत्वं, तथोक्तं प्राक्। स्वदेशगतेति च विशेषणं विषयगताज्ञातत्वेनार्थान्तरवाणाय। यद्यप्यविद्याविषयत्वरूपमज्ञातत्वमसिद्धम्, ज्ञातत्वाभावरूपं तु प्रथमविशेषणेनैव परास्तम्, तथापि प्रथमेन प्रागभावव्युदासादत्यन्ताभावव्युदासाय चतुर्थमिति द्रष्टव्यम्।

 

                ननु- कथं ज्ञानाश्रयगतत्वमज्ञानस्य? वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिदनाश्रितत्वादिति चेन्न; अन्तःकरणस्य चिदाश्रितत्वेन तद्‌वृत्तेस्तत्प्रतिफलितचैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वसम्भवात्, किञ्चिदवच्छिन्नतदाश्रितस्यापि तदाश्रितत्वानपायात्, कर्णशष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत्। एवं च भावाभावसाधारणमावरणमिति मतेन साध्यमुपपादितम्। अभावो नावारक इति सिद्धान्ते तु साध्यद्वये तात्पर्यम्- स्वप्रागभावातिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकम्। स्वविषयावरण (स्वनिवर्त्यस्वदेशगतवस्त्वन्तर) पूर्वकमित्यपरमिति न किञ्चिदसमञ्जसम्।

 

                हेतौ च प्रकाशकत्वं प्रकाशकपदवाच्यत्वं, अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम्। यद्यपि प्रकाशकपदवाच्यत्वं नामकरणवशात् कस्मिंश्चित् पुरुषेऽप्यस्ति, तथापि प्रकाशकशब्देन शास्त्रे सर्वदेशकालयोर्वा व्यवह्रियमाणत्वं तद्विवक्षितम्। अथवाऽस्तु साधारणम्। अप्रकाशितार्थगोचरेति विशेषणाद् व्यभिचार व्युदासः।

 

                अप्रकाशितत्वं च `न प्रकाशत' इति व्यवहारगोचरत्वम्, तच्च स्वप्रकाशचैतन्येऽप्यस्तीत्युपपादितम्। एवं निरुक्ताप्रकाशविरोधित्वमपि ज्ञानालोकयोः प्रत्यक्षसिद्धम्। उक्तं च विवरणे- `ज्ञानप्रकाश्यत्वादज्ञानविरोधित्वादन्यदेव आलोकप्रकाश्यत्वं तमोविरोधित्वं नामेति। अत उभयोरेव साक्षादप्रकाशविरोधित्वसम्भवान्नेन्द्रियसन्निकर्षादौ व्यभिचारः। एवं चाप्रकाशितार्थगोचरत्वे सति प्रकाशशब्दवाच्यत्वाद् अप्रकाशविरोधिप्रकाशत्वादिति वा हेतुः पर्यवसितः। विपर्ययविषयस्तु नाज्ञातः, विपर्ययान्यकालासत्त्वेन तस्यानिर्वचनीयस्य मानगोचरत्वाभावेन प्रकाशप्राक्कालसत्त्वघटिताप्रकाशितत्वासम्भवाद्, अत एव स नाप्रकाशविरोधी, स्वविषये अप्रकाशाभावाद्, अधिष्ठानाप्रकाशस्तु तस्य जनक एव। स्मरेण च व्यभिचाराभावः स्पष्टः। अनुकूलतर्कश्च `त्वदुक्तमर्थं न जानामीति प्रतीत्यन्यथानुपपत्त्यादिरूपः प्रागुक्त एव। एतेन गोशब्दवाच्यत्वेन पृथिव्या अपि शृङ्गित्वानुमानापातोऽपास्तः, तत्रानुकूलतर्काभावात्। अज्ञानस्य स्वरूपेणाज्ञानाविषयत्वेऽपि तद्भावत्वादिकमज्ञानविषयो भवत्येव, तस्याज्ञानग्राहकसाक्ष्यग्राह्यत्वात्। अन्यथा तत्र विवादो न स्यात्। एवं प्रमाया स्वविषयावरणाभावपूर्वकत्वमपि न प्रमास्वरूपग्राहकसाक्षिग्राह्यम्। तथा च तद्‌ग्राहिकाया एतस्या अनुमितेः साध्यसाधनोभयाधिकरणत्वात् न कोऽपि दोषः दृष्टन्ते चान्धकाराव्यवहितोत्पत्तिकत्वं विशेषणम्। तेन न प्रथमपदवैयर्थ्यं न वा द्वितीयादिप्रभायां साध्यसाधननैकल्प्यम् विस्तरेण चान्यत्र व्युत्पादितमिदमस्माभिः।

 

                ननु- अनादित्वे सति भावत्वमभावविलक्षणत्वं वा, न निवर्त्यनिष्ठम्, अनादिभावमात्रवृत्तिधर्मत्वाद्, अनाद्यभाव विलक्षणमात्रवृत्तित्वाद्वा, आत्मत्ववत्। निवर्त्यत्वं वा, नानादिभावनिष्ठम्, अनाद्यभावविलक्षणनिष्ठं नेति वा, निवर्त्यमात्रवृत्तित्वात्, प्रागभावत्ववत्। अनादित्वं वा, नावरणनिष्ठम्, अनादिमात्रवृत्तित्वात्, प्रागभावत्ववत्। प्रमाणज्ञानं वा अनाद्यभावान्यानाद्यनिवर्तकम्,, ज्ञानत्वाद्, भ्रमवदित्यादिना सत्प्रतिपक्षता, कृत्यभावमात्रेणाकृतस्य कृतिवत् पूर्वप्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं चेति- चेन्न, अनुकूलतर्काभावेनाप्रयोजकत्वात्, सिद्धान्तिहेतोश्चानुकूलतर्कसद्भावेन साध्यव्याप्यत्वे निश्चिते सत्प्रतिपक्षाप्रयोजकत्वादीनामनवकाशात्। अनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेराद्यानुमानेनाविरोधश्च। द्वितीये त्वनाश्रितमात्रवृत्तित्वमुपाधिः। तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपधिः। पश्चमे सकलानाद्यवृत्तित्वमुपाधिः। षष्ठे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति च दूषणानि।

 

                तत्त्वप्रदीपिकोक्तं च- चैत्रप्रमा, चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका, प्रमात्वान्मैत्रप्रमावत्। विगीतो विभ्रमः, एतज्जनकाबाध्यातिरिक्तोपादानकः, विभ्रमत्वात्, सम्मतवदिति। अत्राद्ये सुखादिज्ञानेषु न बाधः, अन्तःकरणवृत्तेरेव प्रमापदेनोक्तेः। चैत्रगतत्वं च नानादेर्विशेषणम्, मैत्रप्रमायाश्चैत्रनिष्ठानादिनिवर्तकत्वाभावेन दृष्टान्ते साध्यवैकल्यापातात्, किन्तु प्रमातदभावयोरन्यतरस्य। प्रमायाश्चात्मगतत्वं प्राग्व्याख्यातम्। साध्ये तु प्रमापदमुपरञ्जकमेव। यदि त्वभावे प्रागिति विशेषणं नास्ति, `तदा भावरूपाज्ञानस्यापि स्वाभावाभावत्वेन तदतिरिक्तानादिनिवर्तकत्वे बाधवारणाय। चैत्रासमवेतत्वं चैत्रान्यसमवेतत्वं च नोपाधिः, चैत्रसुखादौ व्यभिचारेण साध्याव्यापकत्वात्।'

 

                न च चैत्रप्रमा चैत्रगतस्याभावातिरिक्तस्यानादेर्निवर्तिका न, प्रमात्वात्, मैत्रप्रमादिवदिति सत्प्रतिपक्षः, प्रतियोगिप्रसद्ध्यप्रसिद्धिभ्यां व्याहतेः। चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं तु नोपाधिः, चैत्रगतप्रमाभावातिरिक्तस्य स्वजन्यव्यवहारप्रागभावस्य निवर्तकतया पक्षे साधनव्यापकत्वात्। विपक्षबाधकसत्त्वाच्च नाभाससाम्यम्। अत एव द्वितीयानुमानमपि सम्यक्। न च- विगीतो विभ्रमः, एतज्ज्ञानजनकबाध्यातिरिक्तोपादानकः, विभ्रमत्वात्, सम्मतवदिति सत्प्रतिपक्ष इति- वाच्यम्, बाध्यस्य त्वन्मतेऽजनकत्वात्, साध्याप्रसिद्धेः, ब्रह्माविद्योभयोपादानकत्वेनाविरोधाच्च।

 

                नव्यास्तु विमता प्रमा, प्रमाभावातिरिक्तस्यानादेर्निवर्तिका, कार्यत्वाद्, घटवद्। भ्रमानुत्तरप्रमा, स्वाभावातिरिक्तस्वविरोधिनिवर्तिका, प्रमात्वात्, भ्रमोत्तरप्रमावत्। ज्ञानत्वं, स्वविषयावरणनिवर्तकनिष्ठम्, अप्रकाशितार्थप्रकाशवृत्तित्वाद् आलोकत्ववत्। अनित्यज्ञानम्, अभावत्वानधिकरणस्वविरोधिसमानाधिकरणम्, प्रयत्नान्यत्वे सति सविषयत्वे सत्यनित्यत्वाद्, अनित्येच्छावत्। सा हि तादृग्द्वेषसमानाधिकरणा। न चैतेषु अप्रयोजकत्वशङ्का, विपक्षबाधकतर्कस्योक्तत्वात्। एवमन्यदप्यूहनीयम्। ज्ञानविरोधित्वं, अनादिभावत्वसमानाधिकरणम्, सकलज्ञानविरोधिवृत्तित्वाद्, दृश्यत्ववत्। यद्वा- अनाद्यभावविलक्षणत्वम्, ज्ञानविरोधिवृत्ति, अनाद्यभावविलक्षणमात्रवृत्तित्वाद्, अभिधेयत्ववदिति। एवमभावविलक्षणाज्ञाने अनुमानान्यूहनीयानि।

 

                                इत्यद्वैतसिद्धावविद्यानुमानोपपत्तिः।

[/1-2-23]

 

[1-2-24]

                                                अद्वैतसिद्धिः

 

                एवं श्रुतयश्च। तत्र छान्दोग्ये अष्टमाध्याये- `तद्यथापि हिरण्यं निधिनिहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन प्रत्यूढा' इति श्रुतिर्ब्रह्मज्ञानप्रतिबन्धकत्वेनानृतं ब्रुवाणा तादृगज्ञाने प्रमाणम्। न च ऋतशब्दस्य `ऋतं पिबन्ता'वित्यत्र सत्कर्मणि प्रयोगदर्शनाद् `ऋतं सत्यं तथा धर्म' इति स्मृतेश्च ऋतशब्दस्य सत्कर्मप्रत्वादनृतशब्दस्य दुष्कर्मपरत्वमिति वाच्यम्। उत्तरत्र `य आत्माऽपहतपाप्मे'त्यादिना आत्मनोऽपहतपाप्मत्वप्रतिपादनेन दुष्कर्मप्रत्यूढत्वविरिधात्। सुषुप्तौ कर्ममात्रनाशे दुष्कर्मणोऽप्यभावात्। कारणात्मनाऽवस्थाने चाज्ञानस्यावश्यकत्वात्। कर्मण आवरणत्वानुपपत्तेश्च। ब्रह्मवेदनप्रतिबन्धकतया ह्यनादिब्रह्मावरकं ज्ञाननिवर्त्यं वाच्यम्। तथा च कर्मेव प्रधानमपि नानृतपदाभिधेयम्। तयोर्ज्ञानानिवर्त्यत्वात्। ज्ञाननिवर्त्यत्वे च `भूयश्चान्ते विश्वमायानिवृत्ति'रित्यादिश्रुतिर्मानम्। न च अत्र निवृत्तिस्तरणमात्रम्। `मायामेतां तरन्ति ते' इति स्मृतेरिति वाच्यम्। ज्ञानहेतुकतरणस्य निवृत्त्यतिरिक्तस्यासम्भवेन उभयोर्नाशमात्रार्थत्वात्। न च `तम आसी'दित्यस्य सत्त्वप्रतिपादकस्य बाधकं विना पारमार्थिकसत्त्वपरत्वेन कथमावरणस्यानृतत्वमिति वाच्यम्। `नासतदासीन्नो सदासी'दित्यनेन पारमार्थिकत्वतुच्छत्वयोर्निषेधेन व्यावहारिकसत्त्वपरत्वात्। न च अनेन माया प्रतिपाद्यते, मायाशब्दार्थश्च नाज्ञानम्, मायिनो ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्वनिरवद्यत्वादिश्रुतिविरोधादिति वाच्यम्। उपाधेः प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वज्ञ्याद्यापादनायोगात्। सार्वज्ञ्याद्यैश्वर्यस्य मायानिबन्धनत्वाच्च। न च `मय ज्ञान' इति धात्वर्थानुसारात् माया कथमज्ञानमिति वाच्यम्। `एवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासीकरोति माया चाविद्या च स्वयमेव भवती'ति श्रुत्या मायाऽविद्ययोरैक्यप्रतिपादनान्माया अज्ञानमेव। घट चेष्टाया'मिति धातुजस्यापि घटशब्दस्य चेष्टावाचकत्वाभाववादत्रापि ज्ञानवाचकत्वाभावात्। `माया प्रज्ञा वयुनमिति' ज्ञानपर्याये निघण्टुकारवचनं च ज्ञानाकारपरिणामित्वादज्ञानस्योपपन्नम्। वृत्तिज्ञानस्याज्ञानाभिन्नत्वाद् अज्ञानस्यैवानिर्वचनीयविचित्रशक्तियोगान् न विचित्रशक्तिमति मायाशब्दप्रयोगानुपपत्तिः। क्वचिन् मणिमन्त्रादौ तत्प्रयोगस्तूपचारात्। न च शुक्तिरूप्यादौ मायाशब्दाप्रयोगात् न मृषार्थोऽयमिति वाच्यम्। वज्रादौ पृथिवीत्वादिव्यवहाराभावेऽपि पृथिवीत्ववत् व्यवहाराभावेऽपि मायात्वानपायाद्। ऐन्द्रजालिकादौ बहुशो मायाशब्दप्रयोगदर्शनाच्च। मायाया अज्ञानान्यत्वे ज्ञाननिवर्त्यत्वविरोधाच्च। नीहारतमःशब्दावप्यस्मिन्मते अज्ञानस्यावारकत्वाद्युज्येते, नान्यमते। अनृतनीहारादिशब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकत्वोपादानत्वादिविरोधश्च। तस्मा `दनृतेन प्रत्यूढाः', `नीहारेण प्रावृताः',`तम आसीत्', `मायां तु प्रकृतिं विद्याद्', `अजामेकां लोहितशुक्लकृष्णाम्', `अविद्यायामन्तरे वर्तमानाः', `भूयश्चान्ते विश्वमायानिवृत्ति'रित्याद्याः श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम्।।

 

                                इत्यद्वैतसिद्धावविद्याप्रतिपादकश्रुत्युपपत्तिः।।

[/1-2-24]

 

[1-2-25]

                                                अद्वैतसिद्धिः

 

                जीवस्यानवच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिश्च तत्र मानम्। न च जीवस्य ब्रह्मभेदेनैव तादृगप्रकाशोपपत्तिः, जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वात्। न चानवच्छिन्नानन्दस्यापि प्रकाशमानप्रत्यङ्मात्रत्वेनाप्रकाशमानत्वानुपपत्तिः, शरीरप्रतियोगिकस्यात्मनि स्वरूपभेदस्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाशमानत्वोपपत्तेरुक्तत्वात्।

 

                भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम्। न चान्तःकरणमुपादानम्, अन्तःकरणस्य ज्ञानजनने प्रमाणव्यापारसापेक्षत्वेन प्रमाणाविषये शुक्तिरूप्यादौ ज्ञानाजनकत्वात्, सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च। न च ब्रह्मैवोपादानम्, तस्यापरिणामित्वात्। न च विवर्ताधिष्ठानत्वेन शुक्त्यादेरिवोपादानत्वम्, अविद्यामन्तरेणातात्त्विकान्यथाबावलक्षणस्य विवर्तस्यैवासम्भवात्, शुक्त्यादेरधिष्ठानावच्छेदकतया विवर्ताधिष्ठानत्वाभावात्। न च- उपादानापेक्षस्य विवर्तस्य तात्त्विकातिरिक्तोपादानकल्पनवदविद्यादेराश्रयसापेक्षस्य ब्रह्मातिरिक्तमतात्त्विकमधिकरणं कल्प्यं स्यादिति- वाच्यम्, ब्रह्मणि एव विकारित्वे अनित्यत्वादिप्रसक्तिवद् ब्रह्मण एवाधिष्ठानत्वे बाधकाभावेन द्वितीयस्याधिकरणस्याकल्पनात्। न च- असत्यस्य सत्यरूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्पनमिति- वाच्यम्, परिणामिसत्तासमानसत्ताकत्वनियमेनासत्यत्वस्यैवाभावात्। न च- घटादौ स्वसमानसत्ताकोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशोपादानकल्पने घटादेः स्वाधिकसत्ताकोपादानानपेक्षत्ववद् वियदादेरपि ब्रह्मानुपादानकत्वं स्यादिति- वाच्यम्, `तदभिध्यानादेव तु तल्लिङ्गात्स'इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादानकतया तादृशोपादानानपेक्षत्वासिद्धेः। अत एव- रूप्येऽपि स्वसमानसत्ताकस्य निमित्तस्यापि कल्पनापत्तिरिति- निरस्तम्, निमित्तमात्रे वा इयं कल्पना? विशेषे वा? नाद्यः, अधिष्ठानरूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात्। द्वितीये तूत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेः। न च त्रिगुणात्मकं प्रधानमुपादानमिति वाच्यम्, तस्यासत्यत्वे अविद्यानतिरेकात्। सत्यत्वेऽपि सावयवम्? निरवयवं वा? आद्ये अनादित्वभङ्गः। द्वितीये परिणामित्वायोगो ब्रह्मवत्। न चाविद्यापक्षेऽपि समः पर्यनुयोगः, तस्याः काल्पनिकत्वेन पर्यनुयोगायोगात्। तस्मादर्थापत्तिरविद्यायां प्रमाणम्। इत्यद्वैतसिद्धावविद्यायामर्थापत्तिः।

[/1-2-25]

 

 

[1-2-27]

                                                अद्वैतसिद्धिः

               

                सा चाविद्या साक्षिवेद्या, न तु शुद्धचित्प्रकाश्या। साक्षी चाविद्यावृत्तिप्रतिबिम्बितचैतन्यम्। तेन निर्दोषचित्प्रकाश्यत्वेनाज्ञानस्य पारमार्थिकत्वापत्तिः, मोक्षेऽपि तत्प्रकाशापत्तिः, न च तदानीमविद्याया निवृत्तत्वात् तत्प्रकाशाभावः, प्रतीतिमात्रशरीरस्य प्रतीत्यवृत्तौ निवृत्त्ययोगादित्यादिदोषानवकाशः। अत एवोच्यते राहुवत् स्वावृतचैतन्यप्रकाश्याऽविद्येति। न चैवं कदाचिदविद्याया अप्रतीत्यापत्तिः, इष्टापत्तेः, समाधौ तथाभ्युपगमात्। न चाविद्यावृत्तेर्दोषजन्यत्वादत्र कथमविद्यावृत्तिः? अविद्याया एव दोषत्वात्। न च वृत्तेरपि वृत्त्यन्तरप्रतिबिम्बितचिद्भास्यत्वे अनवस्था, स्वस्या एव स्वभानोपाधित्वात्।

 

                ननु- प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ्यम्, न च प्रमाणैरसद्व्यावृत्तिमात्रं बोध्यत इति वाच्यम्, अज्ञानमगृह्णतां तत्रासद्व्यावृत्तिबोधेऽप्यसामर्थ्यादिति- चेन्न, प्रमाणोपनीतासद्व्यावृत्तिविशिष्टाज्ञानं हि साक्षिणा गृह्यते। तथाचासद्व्यावृत्त्युपनयने प्रमाणानां चरितार्थत्वात् न काप्यनुपपत्तिः।

 

                                इत्यद्वैतसिद्धावविद्याप्रतीत्युपपत्तिः।।

[/1-2-27]

 

 

[1-2-28]

                                                अद्वैतसिद्धिः

 

                अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव। तदुक्तम्-

 

                                आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला।

                                पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः।।

 

दर्पणस्य मुखमात्रसम्बन्धेऽपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपातित्वात्। ननु कथं चैतन्यमज्ञानाश्रयः? तस्य प्रकाशस्वरूपत्वात्, तयोश्च तमःप्रकाशवद्विरुद्धस्वभावत्वादिति- चेन्न, अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रम्, किन्तु वृत्तिप्रतिबिम्बितम्, तच्च नाविद्याश्रयः, यच्चाविद्याश्रयः, तच्च नाज्ञानविरोधि। न च तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाशत्वापत्तिः, वृत्त्यवच्छेदेन तस्या एवाज्ञानविरोधित्वात्, स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन स्वभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन नद्दाहकत्वात्। ननु अहमज्ञ इति धर्मिग्राहकेणि साक्षिणा अहङ्काराश्रितत्वेनाज्ञानस्य ग्रहणाद् बाधः, न च स्थौल्याश्रयदेहैक्याध्यासादहं स्थूल इति वदज्ञानाश्रयचिदैक्याध्यासाद् दग्धृत्वायसोरेकाग्निसम्बन्धादयो दहती'तिवदज्ञानाहङ्कारयोरेकचिदैक्याध्यासाद्वा `अहमज्ञ'इति धीर्भ्रान्तेति वाच्यम्, चितोऽज्ञानाश्रयत्वासिद्ध्या अन्योन्याश्रयादिति चेन्न, अहङ्कारस्याविद्याधीनत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे `अहमज्ञ' इति प्रतीतेरैक्याध्यासनिबन्धनत्वेनाबाधकत्वात्। न च अविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु अविद्यायामनुपपत्तेरलङ्कारत्वादिति वाच्यम्, अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेनाकल्पितत्वायोगात्, चिन्मात्राश्रितत्वं विनातद्‌गोचरचरमवृत्त्यनिवर्त्यत्वापातात्, स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयत्वायोगात्। न चाविद्यायामनुपपत्तिरलङ्कारः, अनुपपत्तिमात्रं नालङ्कारः, किन्तु सत्त्वादिप्रापकयुक्तावनुपपत्तिः, अन्यथा वादिवचसोऽनवकाशापत्तेः। ननु- `निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्यमुक्त' इति श्रुतिविरोधात् न शुद्धचितोऽविद्याश्रयत्वम्, न हि मौढ्यं न दोषः, नापि बन्धकाज्ञानाश्रयो मुक्तः। न च तात्त्विकाविद्यादेरेव निषेधः, त्वन्मते तस्याप्रसक्तेः, जीवेऽपि तदभावेन जीवब्रह्मणोः सावद्यत्वनिरवद्यत्वव्यवस्थाश्रुतिविरोध इति चेन्न, अवद्यस्य चिति कार्यकारित्वाभावेन कार्यकरत्वाकर्यकारत्वाभ्यामेव सावद्यत्वनिरवद्यत्वव्यवस्थोपपत्तेः, उपाधेः प्रतिबिम्बपक्षपातित्वात्। न च चिन्मात्रस्याविद्याश्रयत्वे प्रमाणाभावः, जीवाश्रितत्वे च प्रमाणमस्तीति वाच्यम्, `मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर'मिति श्रुतेरेव प्रमाणत्वात्। न च `ज्ञाज्ञावीशानीशा'विति जीवाज्ञानप्रतिपादकश्रुतिविरोधः, तदाश्रयत्वाभावेऽपि तत्कार्ययोगितया अज्ञत्वव्यपदेशोपपत्तेः। न च ब्रह्मणोऽपि जीवाश्रिताज्ञानविषयत्वेन मायित्वोपपत्तिरिति वाच्यम्, जीवत्वस्याश्रयतावच्छेदकत्वे परस्पराश्रयप्रसङ्गात्।

 

                ननु- शुक्त्याद्यज्ञानवत् ज्ञातुरर्थाप्रकाशरूपमिदमप्यज्ञानं स्वकार्येण भ्रान्त्यादिना स्वनिवर्तकेन तत्त्वज्ञानादिना स्वसमानयोगक्षेमेण ज्ञानप्रागभावेन च सामानाधिकरण्याय ज्ञात्रात्मनिष्ठम्, न तु चैतन्यरूपज्ञानमात्राश्रितमिति चेत्, न, चैतन्यस्यैव ज्ञातृत्वेन ज्ञातुरर्थाप्रकाशरूपत्वस्य सम्यक् ज्ञानाश्रयत्वस्य भ्रान्त्यादिसामानाधिकरण्यस्य चोपपत्तेः। न चैवं ज्ञातृत्वे सत्यविद्याश्रयत्वम्, अविद्यायां च ज्ञातृत्वमित्यन्योन्याश्रय इति वाच्यम्, अविद्याया ज्ञातृत्वानपेक्षत्वेनान्योन्याश्रयाभावात्। न हि सामानाधिकरण्यमस्तीत्येतावतैव तदपेक्षया अनया भवितव्यम्। न च- शरीरेऽपि ज्ञातृत्वाध्यससम्भवेन तत्राप्यज्ञानाश्रयत्वापत्तिरिति वाच्यम्, न हि ज्ञातृत्वाध्यासो अज्ञानाश्रयत्वे प्रयोजकः, येन तन्मात्रेण तदापद्येत, किन्तु प्रसक्तप्रकाशत्वं अज्ञानानश्रितत्वं च। न चैवं अविद्याश्रयस्य ज्ञातृत्वभोक्तृत्वादिमत्त्वे जीवाश्रिताज्ञानपक्षप्रवेश इति- वाच्यम्, अविद्यावच्छिन्नस्य हि ज्ञातृत्वम्, अविद्या च नाविद्यावच्छेदेन, सामानाधिकरण्यं चावच्छेद्यांशैक्यमादाय। यथोपाधिसम्बनधो मुखमात्र एव, औपाधिकमालिन्यसम्बन्धस्तु उपाध्यवच्छिन्ने, बिम्बप्रतिबिम्बयोरैक्यात्, तथा सामानाधिकरण्यमपि। यथा प्रतिबिम्बो न वस्त्वन्तरं, तथा वक्ष्यते। ननु- शुक्त्यज्ञानमपि शुक्त्यवच्छिन्नचैतन्यगतं वाच्यम्, तथा च `अहं जानामीच्छामी'तिवद् `अहं न जानामीति ज्ञातृस्थत्वानुभवविरोध इति चेन्न, अज्ञानद्वैविध्यात्। एकं हि शुक्त्यवच्छिन्नचैतन्याश्रितं तद्‌गतापरोक्षभ्रमजनकं तद्विषयापरोक्षप्रमानाश्यम्, अपरं च परोक्षभ्रमजनकं तद्विषयप्रमामात्रनाश्यम् प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचैतन्याश्रितमित्युक्तं प्राक्। तत्र प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचैतन्यगताज्ञानविषयकोऽयमनुभवः। तेन प्रमातृतिष्ठत्वविषयतास्य न विरुध्यते। अत एव विषयगताऽज्ञाने विद्यमानेऽपि प्रमातृगताज्ञाननाशेन न जानामीति व्यवहाराभावः।'

 

                ननु- उपाधेः प्रतिबिम्बपक्षपातित्वान्न ब्रह्मणः संसारित्वमित्युक्तं, तदयुक्तम्, बिम्बप्रतिबिम्बभावस्यैवासम्भवात्। तथा हि- अचाक्षुषस्य चैतन्यस्य गन्धरसादिवत् प्रतिबिम्बनानर्हत्वात्, प्रतिबिम्बत्वे जीवस्य सादित्वापाताच्च, सूर्यस्य सरिज्जल इव मरीचिकाजलेष्वप्रतिफलनेन चिदसमानसत्ताकस्याज्ञानस्य चितं प्रत्युपाधित्वायोगाद्, अस्वच्छस्याज्ञानस्य प्रतिबिम्बनोपाधित्वायोगाच्च, अविद्यायाश्चिन्मात्राभिमुख्यासम्भिवाच्च, अज्ञानस्याकाशाद्यात्मना परिणामे प्रतिबिम्बापायापाताच्चेति चेन्न, रूपवतः एव प्रतिबिम्ब इत्यस्या व्याप्तेः रूपादौ व्यभिचाराद् यथा भङ्गः, एवमाकाशादौ व्यभिचाराच्चाक्षुषस्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तेर्भङ्गः। वस्तुतस्तु- श्रुतिबलाच्चितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिः, तथा च रसादिव्यावृत्तं फलैकोन्नेयं प्रतिबिम्बप्रयोजकम्। नापि जीवस्य सादित्वापत्तिः, उपाधिबिम्बसम्बन्धानादित्वेनानादित्वोपपत्तेः। विस्तरस्तु सिद्धान्तबिन्दौ। यत्तूक्तं मरीचिकाजले सूर्यप्रतिबिम्बादर्शनाद् बिम्बसमानसत्ताकत्वं प्रतिबिम्बोद्‌ग्राहित्वे प्रयोजकमिति। तन्न, अध्यस्तस्य स्फटिकलौहित्यस्य दर्पणे प्रतिबिम्बदर्शनात्। तस्मान्मरीचिकाजलव्यावृत्तं स्वच्छत्वं फलैकोन्नेयं अननुगतमेव प्रतिबिम्बोद्‌ग्राहित्वे प्रयोजकम्, तच्च प्रकृतेऽप्यस्ति। अत एवाज्ञानस्यास्वच्छत्वान्न प्रतिबिम्बोपाधित्वमिति निरस्तम्।

 

                यच्चोक्तं- चिन्मात्राभिमुख्याभावादिति, तत्किं सर्वात्मना चिदाभिमुख्याभावाद्वा? आभिमुख्यमात्राभावाद्वा? नाद्यः, चैतन्यवद्विभुत्वपक्षे सर्वात्मनापि सम्भवात्। न्यूनपरिमाणत्वेऽपि न दोषः, न्यूनपरिमाणस्यापि अधिकपरिमाणाकाशादिप्रतिबिम्बोद्‌ग्राहित्वदर्शनात्। न द्वितीयः, चैतन्यस्य सर्वतोऽपि प्रसृतत्वेन व्यवधानाभावेन च आभिमुख्यस्य सद्भावात्। न चाकाशाद्यात्मना परिणामे प्रतिबिम्बापायापत्तिः, प्रतिबिम्बप्रयोजकरूपाविरोधिपरिणामस्य प्रतिबिम्बाविरोधित्वेन प्रतिबिम्बानपायात्। न च- मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्रत्वरूपव्यक्त्यन्तरस्येव जीवब्रह्मानुगतचित्त्वातिरिक्तचिन्मात्रत्वरूपस्याज्ञानाश्रयत्वयोग्यव्यक्त्यन्तर स्याभावान्मुखमात्रसम्बन्ध्यादर्शवच्छिन्मात्रसम्बन्ध्यज्ञानमिति कथम् इति वाच्यम्, अपरामृष्टभेदस्य मुखादेर्मात्रापर्थत्वेनानुगतधर्म्यतिरेकसम्भवात्।

 

                ननु- उपाधिः प्रतिबिम्बपक्षपातीति सामान्यव्याप्तेरज्ञानं स्वाश्रय एव भ्रान्त्यादिहेतुरिति विशेषव्याप्त्या बाध इति चेन्न, विशेषव्याप्तिग्राहकसहचारदर्शनस्य विवादविषयातिरिक्तेऽसम्भवेन विशेषव्याप्त्यसम्भवात्। न च बन्धस्य चिन्मात्राश्रितमोक्षसामानाधिकरण्यानुपपत्तिः, अवच्छेद्यांशमादाय सामानाधिकरण्यस्योक्तत्वात्।

 

                ननु- उपाधेः प्रतिबिम्बपक्षपातित्वं तत्र स्वधर्मप्रतिभासकत्वं वा? स्वकार्यप्रतिभासकत्वं वा? स्वकार्यनिष्ठधर्मप्रतिभासकत्वं वा? प्रतिबिम्बं प्रति स्वविषयाच्छादकत्वं वा? नाद्यः, सुषुप्त्याद्यनुवृत्तस्याविद्यारूपस्याविद्यावच्छिन्नत्वरूपस्य वा, तत्प्रतिबिम्बितत्वस्य वा,सुषुप्त्यादावननुवृत्तस्य कर्तृत्वप्रमातृत्वादिरूपस्य वा संसारस्याज्ञाननिष्ठत्वाभावात्। ज्ञानक्रियासंस्कारादीनां त्वन्मते अज्ञाननिष्ठत्वेऽपि नित्यातीन्द्रियाणां तेषामात्मनि कदाप्यप्रतितेः। `अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः।' इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा, येन स्वनिष्ठबन्धरूपधर्मसंक्रामकत्वं स्यात्। न द्वितीयः, विच्छेदादेरुपाधिकार्यस्य बिम्बे महाकाशे च दर्शनात्, मुखस्य बिम्बत्वादेर्ब्रह्मस्थसार्वज्ञ्यादेश्चानौपाधिकत्वापाताच्च। नापि तृतीयचतुर्थौ, दर्पणघटादावदृष्टेः। एवं बुद्धिरूपोपाधिरपि न प्रतिबिम्बपक्षपातीति चेन्न, अतिशयेन कार्यकरत्वमेव तत्पक्षपातित्वम्। तथा च विच्छेदादिरूपकार्यकरत्वसाम्येऽपि स्थौल्याद्यवभासरूपकार्यकरत्वेन दर्पणादेः प्रतिबिम्बपक्षपातित्ववत् कर्तृत्वभोक्तृत्वादिसंसाररूपकार्यकरत्वेनाविद्यायामपि प्रतिबिम्बपक्षपातित्वोपपत्तेः।

 

                यत्तूक्तं मुखादिगतं बिम्बत्वं ब्रह्मगतं सार्वज्ञ्यादिकं चानौपाधिकं स्यादिति। तन्न, उपाधौ बिम्बकार्यकरत्वमेव नेतीति न ब्रूमः किन्तु प्रतिबिम्बे अतिशयेनेति। यदपि बुद्धिरूपोपाधेरपि न प्रबिम्बपक्षपातित्वम्, तस्य प्रतिबिम्बापक्षपातिजपाकुसुमस्थानीयत्वेन तत्पक्षपात्यादर्शस्थानोयत्वाभावादिति। तन्न, स्वनिष्ठस्थौल्यावभासकत्वेनादर्शस्येवास्यापि स्वनिष्ठधर्मावभासकत्वेन तद्वत् पक्ष पातित्वसम्भवात्। तस्मादविद्याकृतविच्छेदेन ब्रह्मण्येव नित्यमुक्तत्वसंसारित्वसर्वज्ञत्वकिञ्चिज्ज्ञत्वादिव्यवस्थोपपत्तिः। एतेन असर्वज्ञत्वादिनानुभवसिद्धाज्जीवात् अन्यस्य चेतनस्याभावेन सार्वज्ञ्यादिश्रुतिर्निविषया स्यात्, एकजीववादे संसार्यसंसारिव्यवस्थाऽयोगाद् `द्वा सुपर्णा' `य आत्मनि तिष्ठन् इत्यादिश्रुतिभिः `अन्यश्च परमो राजन् तथाऽन्यः पञ्चविंशकः।' `तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप' इत्यादिस्मृतिभिः `शारीरश्चोभयेऽपि हि भेदेनैनमधीयते' `भेदव्यपदेशाच्च' इत्यादिसूत्रैः `तस्माच्छारीरादन्य एवेश्वरः। आत्मानौ तावेतौ चेतनौ, एकः कर्ता भोक्ता अन्यस्तद्विपरीतोऽपहतपाप्मत्वादिगुण' इत्यादिभाष्यैः `तत्त्वज्ञानसंसरणे चावदातत्वश्यामत्वादिवत् नेतरेतरत्रावतिष्ठेते' इत्यादिविवरणग्रन्थैश्च विरोध इति निरस्तम्। ननु चिन्मात्रस्याज्ञानं स्वाभाविकम्? औपाधिकं वा? नाद्यः, आत्मवदनिवृत्तिप्रसङ्गात्। नान्त्यः, स्वस्यैवोपाधित्वे आत्माश्रयाद्, एतदपेक्ष्यान्यापेक्षत्वे अन्योन्याश्रयात्, तदन्यान्यापेक्षत्वे चानवस्थानादिति- चेन्न, स्वस्यैवाश्रयत्वोपाधित्वात्। न चात्माश्रयः, भेदस्य स्वभेदकत्ववदुपपत्तेः, स्वाभाविकस्यापि घटरूपस्य तत्प्रगभावस्य च निवृत्तिदर्शनात्।

 

                                इत्यद्वैतसिद्धौ अज्ञानस्य चिन्मात्राश्रयत्वोपपत्तिः।

[/1-2-28]

 

 

[1-2-29]

                                                अद्वैतसिद्धिः

 

                ननु- शुद्धब्रह्मणः चिन्मात्रस्याज्ञानाश्रयत्वे सार्वज्ञ्यविरोधः। न च विशिष्ट एव सार्वज्ञ्यम्, `तुरीयं सर्वदृक्सदा' इति शुद्धस्यैव सर्वज्ञत्वोक्तेरिति चेन्न, सर्वदृक्पदेन सर्वेषां दृग्भूतं चैतन्यमित्युच्यते, न तु सर्वज्ञं तुरीयम्, तस्माद्विशिष्ट एव सार्वज्ञ्यम्। तच्चाविद्यां विना न सम्भवतीत्यविद्यासिद्धिः। तथा हि- सर्वज्ञो हि प्रमाणतः, स्वरूपज्ञप्त्या वा। तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूलत्वाद्, असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषयासङ्गतेः। तदुक्तम्-

 

                                स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितम्।

                                तच्चोभयं विनाऽविद्यासम्भन्धं नैव सिध्यति।। इति।

 

                न च- स्वरूपज्ञप्तेः स्वतः कालाद्यसम्बन्धेऽसत्त्वापातेन स्वतः सम्बन्धाभावेऽसर्वगतत्वापातेन चाविद्ययेव स्वत एवान्येन सम्बन्धो वक्तव्य इति वाच्यम्, अविद्यासम्बन्धस्याप्याविद्यकत्वेनाविद्ययेवेति दृष्टान्तानुपपत्तेः। स्वतः परतो वा कालादिसम्बन्धेन सर्वसम्बन्धेन चासद्वैलक्षण्यसर्वगतत्वयोरुपपत्तेर्न तयोरर्थे स्वतः कालसम्बन्धसर्वसम्बन्धापेक्षा। असङ्गत्वश्रुतिरपि स्वतः सङ्गाभावविषयत्वेनोपपद्यते। अत एव `अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चने'ति- निरस्तम्। तस्माच्चिन्मात्राश्रितैवाविद्या। इत्यज्ञानवादे सर्वज्ञस्याविद्याश्रयत्वोपपत्तिः।

 

[/1-2-29]

 

[1-2-31]

                                                अद्वैतसिद्धिः

 

                वाचस्पतिमिश्रैस्तु जीवाश्रितैवाऽविद्या निगद्यते। ननु- जीवाश्रिताऽविद्या तत्प्रतिबिम्बतचैतन्यं वा, तदवच्छिन्नचैतन्यं वा, तत्कल्पितभेदं जीवः, तथा चान्योन्याश्रयइति चेन्न, किमयमन्योऽन्याश्रय उत्पत्तौ? ज्ञप्तौ? स्थितौ वा? नाद्यः, अनादित्वादुभयोः। न द्वितीयः, अज्ञानस्य चिद्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात्। न तृतीयः। स किं परस्पराश्रितत्वेन वा, परस्परसापेक्षस्थितिकत्वेन वा स्यात्। तन्न, उभयस्याप्यसिद्धेः, अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेऽपि चिति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात्। न चैवमन्योन्याधीनताक्षतिः, सामानकालीनयोरप्यवच्छेद्यावच्छेदकभावमात्रेण तदुपपत्तेः, घटतदवच्छिन्नाकाशयोरिव प्रमाणप्रमेययोरिव च। तदुक्तम्-

 

                                स्वेनैव कल्पिते देशे व्योम्नि यद्वद् घटादिकम्।

                                तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः।। इति।

 

एतेन- यद्युत्पत्तिज्ञप्तिमांत्रप्रतिबन्धकत्वेनान्योऽन्यापेक्षताया अदोषत्वम्, तदा चैत्रमैत्रादेरन्योन्यारोहणाद्यापत्तिरिति निरस्तम्, परस्परमाश्रयाश्रयिभावस्यानङ्गीकारात्। न चेश्वरजीवयोरीश्वरजीवकल्पितत्वे आत्माश्रयः, जीवेशकल्पितत्वे चान्योन्याश्रयः, न च शुद्धा चित् कल्पिका, तस्या अज्ञानाभावादिति- वाच्यम्, जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वेनैतद्विकल्पानवकाशात्। तस्माज्जीवाश्रयत्वेऽप्यदोषः। इत्यद्वैतसिद्धौ अज्ञानस्य जीवाश्रयत्वोपपत्तिः।।

 

[/1-2-31]

 

[1-2-32]

                                                अद्वैतसिद्धिः

 

                अविद्याया विषयोऽपि सुवचः। तथा हि- चिन्मात्रमेवाविद्याविषयः, तस्याकल्पितत्वेनान्योऽन्याश्रयादिदोषाप्रसक्तेः, स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन् आवरणकृत्यसम्भवाच्च, नान्यत्, तस्याज्ञानकल्पितत्वाद्, अप्रसक्तप्रकाशत्वेनावरणकृत्याभावाच्च। ननु- किमावरणकृत्यं (1) सिद्धप्रकाशलोपो वा? (2) असिद्धप्रकाशानुत्पत्तिर्वा? (3) सतः प्रकाशस्य विषयासम्बन्धो वा (4) प्राकाट्याख्यकार्यप्रतिबन्धो वा? (5) नास्ति न प्रकाशत इति व्यावहारो वा? (6) अस्ति प्रकाशत इति व्यवहाराभावो वा? (7) नास्तीत्यादिव्यवहारयोग्यत्वं वा? (8) अस्तीत्यादिव्यवहारायोग्यत्वं वा? नाद्यद्वितीयौ, स्वरूपप्रकाशस्य नित्यसिद्धत्वेन तल्लोपानुत्पत्त्योरसम्भवात्, तदन्यस्य च स्वप्रकाशे तस्मिन्ननपेक्षितत्वात्। न तृतीयः, ज्ञानस्य विषयसम्बन्धैकस्वभावत्वात्, स्वयंज्ञानरूपत्वेन त्वन्मते सम्बन्धानपेक्षणाच्च। नापि चतुर्थः, त्वन्मते चैतन्यातिरिक्तस्य तस्याभावात्। नापि पञ्चमः, सुषुप्तौ व्यवहाराभावेनानावरणापातात्। नापि षष्ठः, व्यवहारस्याभिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्त्वाद्, वृत्तेश्च मोक्षेऽप्यसत्त्वात्। अभिलपनरूपत्वे मोक्षेऽप्यावरणप्रसङ्गात्। नापि सप्तमाष्टमौ, तयोरप्यारोपितत्वेनावरणं विनायोगादिति- चेन्न। नास्ति न प्रकाशत इति व्यवहार एवाभिज्ञादिसाधारणः, अस्ति प्रकाशत इत्येतद्‌व्यवहाराभावो वा आवरणकृत्यम्। आवरणं च तद्योग्यता अज्ञानसम्बन्धरूपा सुषुप्त्यादिसाधारणी आब्रह्मज्ञानमवतिष्ठते। तेन सुषुप्तिकाले नानावरणम्, मोक्षकाले च नावरणम्।

 

                यदुक्तमस्याप्यारोपितत्वेनावरणसापेक्षत्वमिति। तन्न, अज्ञानसम्बन्धरूपस्यावरणस्यानादित्वेन चित्प्रकाश्यत्वेन च उत्पत्तौ ज्ञप्तौ स्थितौ वा स्वानपेक्षणात्। ननु- अद्वितीयत्वादिविशिष्टे तथा व्यवहारेऽपि अवस्थात्रयेऽप्यसन्दिग्धाविपर्यस्तत्वेन प्रकाशमानात्मरूपे अध्यासाधिष्ठाने सुखादिज्ञानरूपे चिन्मात्रे तदभावेन तत्कल्प्ययोर्योग्यत्वायोग्यत्वयोरभाव इति- चेन्न, शुद्धरूपायाश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणाप्रकाशमानत्वात्, तदर्थं तस्या एवावरणकल्पनात्, परिपूर्णाद्याकारस्य मोक्षदशानुवृत्तत्वेन शुद्धचिन्मात्रत्वात्। न च- निर्विभागचितः कथमेवं घटत इति वाच्यम्, आवरणमहिम्नैव परिपूर्णं ब्रह्म नास्ति न प्रकाशत इति व्यवहारः, अस्ति प्रकाशत इति व्यवहारप्रतिबन्धश्च, अध्यासाधिष्ठानत्वादिना प्रकाशमानता चाविरुद्धेति।।

 

                अत एव- अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वविरुद्धे योग्यत्वायोग्यत्वे कथमिदानीमपि ब्रह्मणि स्याताम्? न च- अज्ञानादिमत्त्वेनापरोक्षव्यवहारयोग्यत्वं स्वरूपेण च तदयोग्यत्वमित्यविरोध इति- वाच्यम्, स्वरूपस्याप्रकाशत्वादिति- निरस्तम्, परिपूर्णाद्याकारेण इदानीं व्यवहाराभावेऽपि अपरोक्षव्यवहारयोग्यत्वानपायात्। न चैवं- सुखादेरज्ञानावच्छिन्नचित्प्रकाश्यत्वे `सुखादिकं न प्रकाशत' इत्यनुभवापातेन सुखादिकं प्रकाशत इत्यनुभवार्थं चितोऽज्ञानानवच्छेदेन प्रकाशोऽङ्गीकरणीय इति- वाच्यम्, इष्टापत्तेः, अनुक्तोपालम्भनत्वात्। न ह्यज्ञानावच्छेदेन चित् प्रकाशत इति ब्रूमः। अत एव च- नित्यातीन्द्रियेऽप्यज्ञानावच्छेदकतया अपरोक्षव्यवहारेण तत्रापि स्वप्रकाशापत्तिरिति- निरस्तम्, अज्ञानानवच्छेदेन तादृशस्य व्यवहारस्योक्तेः।

 

                ननु- प्रदीपावारकघटादिवच्चैतन्यावारकाविद्या चैतन्यस्यान्यसम्बन्धं प्रतिबघ्नातु अन्यं प्रति चैतन्यमाच्छादयतु, न तु चैतन्यं प्रत्येव चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा, न हि दीपो घटावृतोऽपि स्वयं न प्रकाशते, तमःसम्बन्धापातात्। न च- कल्पितभेदं जीवचैतन्यं प्रति शुद्धचैतन्यमाच्छादयतीति- वाच्यम्, आवरणं विना भेदकल्पनस्यैवायोगात्। यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः, तदभावस्यैवेदानीमज्ञानेन साधनीयत्वाच्चेति- चेन्न, कल्पितभेदं जीवं प्रति शुद्धचैतन्यस्याबृतत्वात्। न च- भेदकल्पनस्यावरणोत्तरकालीनत्वादिदमयुक्तमिति- वाच्यम्, भेदावरणयोरुभयोरप्यनादित्वेन परस्परानन्तर्याभावात्। यच्चोक्तं- यो मोक्षे भावी चैतन्यं प्रति प्रकाशः, तदभाव इदानीमज्ञानसाध्य- इति। तन्न, मोक्षे जन्यस्य चैतनप्रकाशस्याभावात्, कल्पितभेदापगमे शुद्धचैतन्यं प्रत्येव प्रकाशस्य जीवं प्रत्यपि सम्भवात्।

 

                यच्चोक्तं- प्रकाशस्वरूपे चैतन्ये कथमज्ञानम्? न ह्यालोके तमः- इति। तन्न, अज्ञानतमसोर्विरोधितायामनुभवसिद्धविशेषात्। तथा हि- `त्वदुक्तमर्थं न जानामी'ति प्रकाशमाने वस्तुनि अज्ञानस्यानुभवात् स्वरूपचैतन्यं साक्षी वा नाज्ञानविरोधि, तमसस्तु आलोके सत्यननुभवाद्, आलोकमात्रं तद्विरोधि। वस्तुतस्तु- अवतमसे विषयप्रकाशकालोकसहभावदर्शनेन तमस्यपि नालोकमात्रं विरोधि। न च- `त्वदुक्तार्थो न प्रकाशत' इत्यनुभवादस्तु तत्र भासमाने अज्ञानम्, सुखादिस्फुरणे भासमाने न प्रकाशत इत्यननुभवात् कथं तत्राज्ञानमिति- वाच्यम्, सुखादिस्फुरणं न प्रकाशत इत्यनुभवाभावेऽपि अनवच्छिन्नाकारेण न प्रकाशत इत्यनुभवाद्, आवरकाज्ञानस्य तत्राप्यावश्यकत्वात्। यदपि- `त्वदुक्तमर्थं न जानामी'त्यत्र भासमाने नाज्ञानम्, किन्तु गुहास्थं तमश्छन्नमितिवत् त्वदुक्तं न जानामीत्यनावृतसामान्यावच्छेदेनैव विशेषाज्ञानमनुभूयते, न हि परिचित्तस्थमज्ञानं प्रातिस्विकरूपेणानूद्यते, एवं च तद्विशेषसंशयं प्रति तत्सामान्यनिश्चय इव तद्विशेषावच्छिन्नाज्ञानज्ञानं प्रति तत्समान्यज्ञानमेव हेतुः, तथा दर्शनात्, न हि विशेषे ज्ञाते तदज्ञानधीर्दृष्टा, अवच्छेदकज्ञानस्य ह्यवच्छिन्नज्ञानहेतुतापि दर्शनादेव कल्प्या, न चातिप्रसङ्गः, सामान्यविशेषभावस्यैव नियमकत्वाद्- इति। तन्न, अज्ञानं हि विशेषावच्छिन्नतया भासते? सामान्यावच्छिन्नतया वा? आद्ये विशेषे भासमानत्वमागतमेव। न हि विशेषमभासयन्विशेषाज्ञानमित्यवभासयति। तथा च सामान्यनिश्चयजनितोऽपि संशयो विशेषमवगाहते यथा, तथा सामान्यज्ञानजनितोऽप्यज्ञानप्रत्ययो विशेषं विषयीकरिष्यतीति कुतो भासमाने नाज्ञानमिति। न द्वितीयः, सामान्यज्ञानेन तदवच्छिन्नतयैव गृहीतस्याज्ञानस्य विशेषसम्बन्धित्वे मानाभावेन भासमाने सामान्य एवाज्ञानमवगतम्। वस्तुतः प्रतीतिप्रमाणकत्वात्। तथा च परचित्तस्थं यथा अनूद्यते, तथा ज्ञानं तथैवाज्ञानं चेति सिद्धम्।

 

                ननु- यथा द्वेषस्येष्टत्वेऽपि द्विष्टस्य नेष्टत्वम्, ईश्वरस्य भ्रान्तिज्ञत्वेऽपि न भ्रमविषयज्ञत्वम्, अस्मदादीनामीश्वरसार्वज्ञ्यज्ञानेऽपि न सर्वज्ञत्वम्, एवमज्ञातज्ञानाभावेऽपि अज्ञानज्ञानमिति- चेन्न, दृष्टान्तासम्प्रतिपत्तेः। तथा हि- इच्छा तावज्ज्ञानसमानविषया, ज्ञानं चावच्छेदकतया द्विष्टमपि विषयीकरोतीति इच्छाया अप्यवच्छेदकतया तद्विषयत्वात्। न हीच्छा इष्टतावच्छेदकाविषया भवति। एतावानेव विशेषः- किञ्चित् साध्यतया विषयीकरोति, किञ्चित् अवच्छेदकतया। ईश्वरोऽपि भ्रमविषयमगृहीत्वा भ्रमं न गृह्णाति। भ्रमो हि भ्रमत्वेन ग्राह्यः। भ्रमत्वं च रजताभाववति रजतख्यातित्वं वा, असत्ख्यातित्वं वा, अनिर्वचनीयख्यातित्वं वा। तस्मिन् गृह्ममाणे सर्वथा विषयग्रहः। इयांस्तु विशेषः। यद् भ्रान्तः स्वातन्त्र्येण गृह्णाति, ईश्वरस्तु तज्ज्ञानावच्छेदकतयेति, ईश्वरसार्वज्ञ्यज्ञानमस्माकं तु सर्वज्ञपदेन। तत्र सर्वपदप्रतिपाद्यं जानन्नेवास्मदादिस्तत्र ज्ञानसम्बन्धं गृह्णातीति ईदृशं सार्वज्ञ्यमिष्टमेव। विशेषस्त्वीश्वरस्य न कुत्राप्यज्ञानम्, अस्मादृशां तु विशेषेष्वज्ञानमिति कृत्वा। एवं च ज्ञात एव विशेषे अज्ञानज्ञानमिति। न च- घटादेरज्ञानावच्छेदकतया भानेऽपि घटाद्यज्ञाननिवृत्तिं विना तदवच्छिन्नसंयोगादिज्ञानादर्शनेन प्रकृतेऽपि विषयावच्छिन्नाज्ञानज्ञानार्थं तदवच्छेदकविषयाज्ञाननिवृत्तेरपि वक्तव्यत्वेनाज्ञानाविरोधिज्ञानवद् अज्ञानाविरोधिनी अज्ञाननिवृत्तिरपि स्वीकार्या स्यादिति वाच्यम्, संयोगादिसत्त्वस्यावच्छेदकघटादिसत्त्वसापेक्षत्वेऽपि यथा अभावे न स्वाधिकरणीयप्रतियोगिरूपावच्छेदकसत्त्वापेक्षा, विरोधात्, तथा अज्ञानज्ञानस्यापि न स्वविषयाज्ञाननिवृत्त्यपेक्षा, विरोधात्। न चैवं- तद्विषयकज्ञानापेक्षापि मास्तु, विरोधस्य समानत्वाद् अविरोधकल्पनाबीजस्य ज्ञान इवाज्ञाननिवृत्तावपि समानत्वात्, तथा च विषये अज्ञात एवाज्ञानं ज्ञायते, विषयविशेषावच्छिन्नबुद्धिस्तु तमसीव विशेषज्ञानानन्तरं `एतावत्कालममुमर्थं नाज्ञासिषमित्येवंरूपा जायत इति- वाच्यम्, हन्तैवमभावस्वभावविरोधिप्रतियोगिज्ञाननिरपेक्षज्ञानविषयत्वमभाववैलक्षण्यसाधकमज्ञाने उपपादितमायुष्मता। किञ्च यद्यज्ञानं स्वकाले विषयावच्छिन्नतया न भासयेत्, तदा तु `त्वदुक्तमर्थं न जानामी'ति विषयावच्छिन्नाज्ञानस्य वर्तमानार्थप्रत्ययो विरुद्ध्येत। तस्मात् विषयाज्ञानसाधकत्वात् साक्षिरूपविषयप्रकाशोऽपि नाज्ञानविरोधी, किन्तु प्रमाणवृत्तिः। एकविषयत्वेऽपि प्रमाणवृत्तितदतिरिक्तवृत्त्योरज्ञानविरोधित्वाविरोधित्वे घटविषयकयोः सौरालोकज्ञानयोः सौरचाक्षुषप्रकाशयोर्वा तमोविरोधित्वाविरोधित्ववदुपपद्येते। न च- वृत्तिश्चैतन्यस्य विषयोपरागार्थेति मते अस्या अज्ञाननिवर्तकत्वाभावाद् इदमयुक्तमिति- वाच्यम्, अज्ञाननिवर्तकत्वेन निवृत्तिप्रयोजकत्वस्यैव उक्तत्वात्। तच्च सम्बन्धसम्पादनद्वाराऽस्मिन्पक्षेऽपि अस्त्येव। न च- अज्ञानस्य स्वविरोधिज्ञानाभावव्यापकत्वेन मोक्षेऽप्यज्ञानापात इति- वाच्यम्। मोक्षदशायामज्ञाननिवृत्तिश्रवणेन स्वविरोधिज्ञानप्रागभावमात्रव्यापकत्वात्। न च- कथं प्रमाणवृत्तिमात्रविरोधित्वे अज्ञानमात्र विरोधित्वेनैव न जानामीत्याकारेण प्रत्ययः? इति- वाच्यम्, घटादिमात्रविरोधिनो घटाभावादेः भावसामान्यविरोधित्वेनाभावत्वेन प्रतीतिवत् ज्ञानविशेषविरोधिनोऽप्यज्ञानस्य ज्ञानसामान्यविरोधित्वेन प्रतीतिसम्भवात्। न ह्यभावपदादिनाभावप्रतीतौ घटाभावोन भासते। अथ सा विरोधिता तत्र विशेषमात्रपर्यवसन्ना, समं प्रकृतेऽपि, अन्यत्राभिनिवेशात्। न च- `न जानामी'ति ज्ञप्तिविरोधित्वस्यैवानुभवात् कथं वृत्तिविरोधित्वम्? त्वन्मते चैतन्यस्यैव ज्ञप्तित्वात्, चैतन्यज्ञानयोरविरोधे ज्ञानत्वाज्ञानत्वायोगादिति- वाच्यम्। मन्मते वृत्तिप्रतिबिम्बितचैतन्यं जानामीति व्यवहारविषयः। तथा च न जानामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानबिरोधित्वं विषयीक्रियते। एवं च न चैतन्येऽज्ञानविरोधित्वम्, नापि वृत्तौ, वृत्त्युपारूढचित एवार्थप्रकाशकत्वेन तथात्वात्।

 

                ननु- वृत्तेरप्यर्थप्रकाशकत्वं विना जातिविशेषेणैवाज्ञानतत्कार्यनिवर्तकत्वे इच्छादि निवर्त्यद्वेषादिवत् सत्त्वापत्त्या शुक्त्यादिज्ञानवदर्थप्रकाशकत्वेन तन्निवर्तकत्वे वक्तव्ये चैतन्यस्यापि तत्सत्त्वेन तन्निवर्तकत्वावश्यम्भावेन तन्निवृत्त्यापातः, नित्यातीन्द्रिये परोक्षवृत्तौ सत्यामप्यज्ञानानिवृत्त्या सुखादावपरोक्षवृत्त्यभावेऽपि स्फुरणमात्रेणाज्ञानादर्शनेन चान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानविरोधित्वाद्- इति चेन्न, प्रमाणवृत्त्युपारूढप्रकाशत्वेन निवर्तकत्वं ब्रूमः, न तु जातिविशेषेण, प्रकाशत्वमात्रेण वा। अतो नेच्छादिनिवर्त्यद्वेषादिवदेतन्निवर्त्यानां सत्त्वापत्तिः, न वा चैतन्यमात्रस्य निवर्तकत्वापत्तिः। अत एव- शाब्दादिवृत्तौ सत्यामपि अज्ञानानिवृत्त्या सुखादौ प्रमाणवृत्त्यभावे स्फुरणमात्रेणाज्ञानादर्शनेननान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानादौ विरोधित्वमिति- निरस्तम्, परोक्षवृत्तेर्विषयपर्यन्तत्वाभावेन न विषयगताज्ञाननिवर्तकत्वम्, सुखादौ च ज्ञातैकसत्त्वादज्ञाननिवृत्तिं विनैवाज्ञानादर्शनम्। अतोऽन्वयव्यतिरेकयोरन्यथासिद्ध्या स्फुरणमात्रं नाज्ञानविरोधि। न चात्मनोऽज्ञानाश्रयविषयत्वे स्वसत्तायामप्रकाशाविधुरत्वेन स्वप्रकाशत्वसाधनायोगः, परिपूर्णत्वादिना अप्रकाशविधुरत्वाभावेऽप्यध्यासाधिष्ठानत्वादिना प्रकाशमानतयाऽप्रकाशविधुरत्वसम्भवात्।

 

                न च- वृत्तिचितोर्वैषम्योक्तिरयुक्ता, वृत्तिवत्साक्षिणोऽपि समानविषयतया अज्ञानविरोधित्वानुभवाद्, अन्यथा साक्षिवेद्ये चैत्रेच्छासुखादौ मैत्रस्येव चैत्रस्याप्यज्ञानं स्यात्, नो चेन्मैत्रस्याप्यज्ञानं न स्यादिति- वाच्यम्, साक्षिणि यदज्ञानविरोधित्वमनुभूयते तन्नाज्ञाननिवर्तकत्वनिबन्धनम्, किन्तु स्वविषय इच्छादौ यावत्सत्त्वं प्रकाशादज्ञानाप्रसक्तिनिबन्धनम्। वृत्तेश्च स्वविषये प्रसक्ताज्ञाननिवृत्तिनिबन्धनमेवेत्युभयोर्वैषम्योक्तिर्युक्तैव। अज्ञानाप्रसक्तेरेव चैत्रेच्छादौ चैत्रस्य नाज्ञानव्यवहारः, मैत्रस्य तु प्रमात्रज्ञानादेव तद्‌व्यवहारः। न च- तर्ह्यात्मन्यपि तत एव तदप्रसक्तिरिति- वाच्यम्, दत्तोत्तरत्वात्। किं च साक्षिवेद्यत्वं तदप्रसक्तौ तन्त्रम्, आत्मा तु न तद्वेद्यः, चिद्रूपत्वात् प्रकाश एवेति। न च- तर्हि सुतरामज्ञानानुपपत्तिः तेजसीव तमसः, अन्यथा घटादिरालोकमिवात्मापि स्वव्यवहारे ज्ञानान्तरमपेक्षेतेति- वाच्यम्, अज्ञानावृतत्वाद् घटवदज्ञाननिवर्तकान्तरापेक्षा चेत्तर्हीष्टापत्तिः, वृत्तेरेवापेक्षणात्, प्रकाशान्तरापेक्षायां जडत्वस्योपाधित्वात् प्रकाशत्वेऽप्यज्ञानाविरोधित्वस्योपपादितत्वात्। अत एव सर्वं वस्तु ज्ञाततयाज्ञाततया च साक्षिचैतन्यस्य विषयः, ज्ञानाज्ञानयोः स्वविषयावच्छिन्नयोरेव भानात्। एतेन- अन्धकारावृतवत् ज्ञानाभाववाच्छेदकविषयवच्चाज्ञानावृतस्याप्यप्रकाशेन साक्षिवेद्यत्वायोग इति निरस्तम्; विषयावच्छेदेनानुभवविरोधात्।

 

                ननु- वृत्तेरज्ञानविरोधित्वेऽप्यात्मविषया वृत्तिरिदानीमप्यस्त्येवेति कथं तत्राज्ञानम्? किं च त्वन्मते घटाद्यपरोक्षवृत्तेरपि घटाद्यवच्छिन्नचिद्विषयत्वेन सुतरां चित्यज्ञानासम्भवः। न च- विशिष्टचैतन्यरूपजीवविषया वा घटावच्छिन्नचैतन्यविषया वा वृत्तिरज्ञानविषयीभूतकेवलचिदविषयत्वादज्ञानविरोधिनी न स्यादिति- वाच्यम्, `दण्डी चैत्र' इति वृत्त्या चैत्राज्ञानानभिभवापातात्। घटाकाशज्ञाने महाकाशाज्ञानस्य महत्त्वाज्ञाने पर्यवसानम्। अत एवाकाशो ज्ञात इति प्रतीतिः। न च श्रवणादिजन्यैव वृत्तिरज्ञानविरोधिनी, भ्रमकालीनापरोक्षज्ञानानधिकविषयज्ञानेन कारणान्तरजन्येनापि अज्ञानानिवृत्तावतिप्रसङ्गाद्, अनधिकविषयत्वे श्रवणादिवैयर्थ्यात्, सत्यत्वापाताच्चेति- चेन्न, यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते अज्ञानविशेषः एवज्ञानपक्षे अवस्थाविशेषः शक्तिविशेषो वा अविद्यागतो विशिष्टगोचरवृत्त्या निवर्तत एव। प्रपञ्चनिदानभूतं तत्त्वमस्यादिवाक्यजन्याखण्डार्थगोचरवृत्तिनिवर्त्यमज्ञानं परमवशिष्यते, भेदभ्रमस्यानुभूयमानत्वात्। यथा अयमिति ज्ञानात्तत्राज्ञाने निवृत्तेऽपि सोऽयमित्यभेदगोचरवृत्तिनिवर्त्याज्ञानमवशिष्यते। तथा च विषयकृतविशेषाभावेऽपि कारणविशेषजन्यत्वेन विशेषेण निवर्तकत्वे श्रवणवैयर्थ्यं सत्यतापत्तिश्च निरस्ता, अन्यथा सोऽयमित्यत्राप्यगतेः। किं च जीवविषया वृत्तिरविद्यावृत्तिः, न तु प्रमाणवृत्तिः, तस्या एवाज्ञानविरोधित्वात्। तदुक्तं विवरणे- `जीवाकाराहंवृत्तिपरिणतान्तःकरणेन जीवोभिव्यज्यत' इति। अस्यार्थः- जीवाकाराहंत्वप्रकारिकाविद्यावृत्तिः, तया परिणतान्तकरणेनान्तःकरणपरिणामभूतज्ञानरूपवृत्तिसंसर्गेण जीवोऽभिव्यज्यत इति।

 

                न च- `घटोऽय'मिति ज्ञानेन चरमवृत्तिनिवर्त्याज्ञानमपि निवर्ततामिति- वाच्यम्, तदवच्छिन्नाज्ञातत्वप्रयोजकाज्ञानविशेषादेरेव तदवच्छिन्नज्ञाननिवर्त्यत्वस्य फलबलेन स्वीकारात्। अवतमस इव विषयप्रकाशकालोकस्य सर्वतमोऽनिवर्तकत्वेऽपि किञ्चित्तमोनिवर्तकत्वम्। तस्मात्सिद्धमाश्रयत्वविषयत्वभागिनी शुद्धचिदिति।

 

                एतेन- देहादिभेदो वा अभोक्तृत्वाद्यभेदो वा ब्रह्माभेदो वा अद्वितीयमात्राभेदो वा तद्विशिष्टात्मा वा न तद्विषयः, तेषामात्मंमात्रत्वे उक्तदोषाद्, भिन्नत्वे अद्वैतक्षतेः, आविद्यकत्वे अन्योन्याश्रयादिति अनुक्तोपालम्भनम्- अपास्तम्। ब्रह्माभेदादेरात्ममात्रतापक्षे तस्याज्ञानविषयत्वमेव, दोषस्य परिहृतत्वात्। यत्तु प्रसङ्गादुक्तम्- द्वितीयाभावोपलक्षितात्मनोऽज्ञानविषयत्वे तादृश स्यैव चरमवृत्तिविषयवत्वं वाच्यम्, तथा च वेदान्तानामप्युपलक्षणरूपप्रकारयुक्तोक्तात्मपरत्वे अखण्डार्थताहानिः, अकाके काकवदित्यस्येवास्याप्यप्रामाण्यापत्तिः, उपलक्षणस्य मिथ्यात्वाद्- इति। तत्राखण्डार्थवादे वक्ष्यामः।

 

                न च- न्यूनाप्यङ्गुलिरधिकमाच्छादयति, अविषयसम्बन्धिनी कथमधिकमाच्छादयेदितिवाच्यम्, दत्तोत्तरत्वात्। तस्मादविद्या स्वरूपत आश्रयतो विषयतश्च सुनिरूपा।

 

                                इत्यद्वैतसिद्धावविद्याया विषयोपपत्तिः।

[/1-2-32]

 

[1-2-33]

                                                अद्वैतसिद्धिः

 

                ततश्चाहङ्कारादिसृष्टिः। ननु- अहमर्थ आत्मैव, तस्य कथमविद्यातः सृष्टिः? न च- सुषुप्तौ स्वयं प्रकाशमानस्यात्मनः सम्भवेऽप्यनेवंविधस्याहमर्थस्याभावः, यदि च सुषुप्तावहमर्थः प्रकाशेत, तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्थमाणात्ममात्रत्वादिति- वाच्यम्, हेतोरसिद्धेः, तर्के इष्टापत्तेः। न ह्यद्यापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति। आत्मान्यत्वेनाप्रकाशत्वसाधने तेन च तदन्यत्वसाधने अन्योन्याश्रयः। न चाहमर्थस्यापरामर्शः, सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति तस्यैव परामर्शादिति- चेन्न, अहङ्कारस्तावदिच्छादिविशिष्टतयैव गृह्यत इत्यावयोः समम्। सुषुप्तौ च नेच्छादय इति कथं तदाऽहमर्थानुभवः? न च- इच्छादिगुणविशिष्ट एवाहमर्थो गृह्यत इत्यत्र न नः सम्प्रतिपत्तिरिति- वाच्यम्, गुणिग्रहणस्य गुणग्रहणव्याप्तत्वाद्, अन्यथा रूपादिहीनोऽपि घटः प्रथेत। न च- रूपादिरहितानां तेषामसत्त्वं तत्र बीजमितिवाच्यम्, पूर्वरूपनाशाग्रिमरूपानुत्पत्तिक्षणाद्यक्षणादौ तद्विनापि सत्त्वात्। एवं च गुणग्रहणे कथं गुणिग्रहणम्? तथा च निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम्। अनुभवाभावे च न तस्य जागरे परामर्शः। तथा चाज्ञानाश्रयत्वेन सुषुप्तावनुभयमानादात्मनोऽहङ्कारो भिन्नः। एवमेवात्मान्यत्वे सिद्धे अस्वप्रकाशत्वसाधने नान्योन्याश्रयः। न च तर्हि `अहमस्वाप्स'मित्यहमर्थस्य परामर्शानुप्रवेशानुपपत्तिः, तदंशे परामर्शत्वासिद्धेः। एवं सत्यपि यथाऽज्ञानांशे तस्य परामर्शत्वं, तथोपपादितमधस्तात्। यद्यप्यहमस्वाप्समित्यादिज्ञानान्नान्य आत्मपरामर्शः, तथाप्यहमर्थस्य सुषुप्तिकालाननुभूतत्वेन तत्काले अज्ञानाश्रयत्वेन चानुभूतात्मन्येव परामर्शत्वपर्यवसानम्। अत एव चिदस्वपीत् स्वयमस्वपीदिति परामर्शाकारतापत्तिर्निरस्ता, तत्कालानुभूतान्तःकरणसंसर्गेण अहमित्याकारोपपत्तेः। यत्तूक्तं विवरणे- `अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमः, न निष्कलङ्कचैतन्ये, तस्य मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वाद्'इति। तदत्र न विरोधाय, मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वादिति हेतूक्त्या न निष्कलङ्क इति उपाधिमात्रविरहिणि प्रत्यभिज्ञाननिषेधेन चान्तःकरणपदस्य उपाधिमात्रपरत्वात्। तथा च सुषुप्तावप्यज्ञानोपहित एवात्मा गृह्यते। किं चान्तःकरणविशिष्टे प्रत्यभिज्ञाननिषेधो नाभिज्ञानषेधोऽपीति न विरोधः, सुषुप्तावभिज्ञाया एवोक्तत्वात्। न च यद्यहमर्थो न परामृश्येत, तर्हि एतावन्तं कालं सुप्तोऽहमन्यो वेति' संशयः स्यात्, न त्वहमेवेति निश्चय इति वाच्यम्, सुषुप्तिकालानुभूतात्मैक्याध्यासादिति गृहाण। यथा पूर्वदिनानुभूतदेवदत्तादभिन्नतयानुभूते चैत्रे सोऽयं न वेति न संशयः, किन्तु स एवेति निश्चयः। किञ्च निश्चये सति संशयाभावनियमः, न तु निश्चयाभावे संशयनियमः। तदुक्तम्- `आरोपे सति निमित्तानुसरणम्, न तु निमित्तमस्तीत्यारोपः' इति। न च- एतावन्तं कालमहं स्वप्नं पश्यन्नासं जाग्रदासमित्यत्रेवाहमस्वाप्समित्यत्रापि अहमंशे परामर्शत्वानुभवात् कथं तत्रापरामर्शत्वमिति- वाच्यम्, परामृश्यमानात्मैक्यारोपात्तद्भनांशे परामर्शत्वाभिमानात्।

 

न च- अपरामर्शे परामर्शत्वारोपो न दृष्ट इति- वाच्यम्, तद्भिन्ने तत्त्वेनानुभूयमाने परामर्शत्वारोपदर्शनात्।

 

                अत एव- अहमर्थस्यात्मान्यत्वे यः पूर्वं दुःखी, सोऽधुना सुखी जात इतिवद् यः पूर्वं मदन्यः सुषुप्तः सोऽधुना अहं जात इति धीः स्यादिति- निरस्तम्, यथा दुःखित्वेन प्राक् ज्ञानं, तथा मदन्यत्वेन प्राक् ज्ञानाभावात्। सुषुप्तावहमर्थाप्रकाशवत् तदन्यत्वस्याप्यप्रकाश एव। एवं च प्रागसत्त्वाग्रहणात् पूर्वकालगृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्ययः विवेकिनां चैतादृग्बुद्धाविष्टापत्तेः। न च- सिद्धे अहमर्थस्यात्मान्यत्वे परामृश्यमानात्मैक्यारोपः, सिद्धे च तस्मिन् सुप्तावप्रकाशेनाहमर्थस्यात्मान्यत्वसिद्धिरित्यन्योन्याश्रय इति- वाच्यम्, आत्मान्यत्वसिद्धेः प्रागेवाहमर्थापरामर्शस्य साधनाद्, अहमस्वाप्समित्यस्यैवात्मपरामर्शत्वाङ्गीकारेण न दृष्टहानादृष्टकल्पनापत्तिः। अत एव च सुषुप्तावहमर्थप्रकाशे ह्यस्तन इव स्मर्येतेत्यत्र नेष्टापत्त्यवकाशः। किं च `एतावन्तं कालमहमित्यभिमन्यमान आस'मिति परामर्शः स्यात्। न च- अहमर्थप्रकाशे तदभिमानापादनं कर्णस्पर्शे कटिचालनमिति- वाच्यम्, तवैव हि तत्। अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततया परस्परप्रकाशेन परस्परपरामर्शापादनस्याव्यधिकरणत्वात्। न च तवापि `आत्मेत्यभिमन्यमान आस'मिति परामर्शापत्तिः, अहङ्कारस्य तत्र तन्त्रतया तदभावे तदापादयितुमशक्यत्वात्। यत्तु- सुषुप्तावहमर्थो भासत एव। `न किञ्चिदहमवेदिष'मिति अज्ञानपरामर्शस्यात्माद्यज्ञानादन्यदिवाहमर्थाज्ञानादन्यदेवाज्ञानं विषयः, अन्यथा विरोधाद्- इति। तदज्ञानविजृम्भितम्, न हि साक्षिवेदनमज्ञानविरोधि। सुषुप्तौ च यथाहमर्थानवभासः तथोक्तम्। न विजानात्ययमहमस्तीति श्रुतिरपि तदानींतनाहमर्थाज्ञाने प्रमाणम्। न चेयं श्रुतिर्नात्मानं न परांश्चेति सुषुप्तावात्माज्ञानश्रुतिवद्विशेषाज्ञानपरा, `अहरहर्ब्रह्म गच्छन्ति सति संपद्य न विदु'रित्यात्मवेदनबोधकश्रुतिविरोधेन विशेषाज्ञानपरत्वं युक्तम्। न च प्रकृते तथा, विरोधाभावात्।

 

                यत्तु- अहमर्थस्तावत् स्मर्ता। स चाविद्यावच्छिन्नचैतन्यं वा? अन्तःकरणावच्छिन्नचैतन्यं वा? आद्ये योऽहमकार्षं सोऽहं सौषुप्तिकाज्ञानादि स्मरामीत्यनुभवविरोधः। अन्त्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यम्, स्मृतिसंस्कारानुभवानामेकाश्रयाणामेव कार्यकारणभावाद्, योऽहमन्वभूवं सोऽहं स्मरामी'ति प्रत्यभिज्ञानाच्च इति। तन्न, दत्तोत्तरत्वात्। उक्तं ह्यविद्यावच्छिन्नचैतन्यमनुभवितृ, तदेव चान्तःकरणावच्छेदेनानुभूयमानं स्मर्त्रिति न तयोर्वैरूप्यम्। न च- अविद्यावच्छिन्नचितोऽपि नैक्यमस्ति, अन्तःकरणरूपोपाधिभेदेन भेदादिति- वाच्यम्, अविद्यावच्छिन्न एवान्तःकरणावच्छेदात्। न च- तथाप्यविद्यान्तःकरणरूपोपाधिभेदेन मठाकाशतदन्तःस्थघटाकाशयोरिव उपहितभेदः स्यादिति वाच्यम्, दृष्टान्तासम्प्रतिपत्तेः। तयोरेवोपाध्योः परस्परमुपहितभेदकत्वम्, यौ परस्परानुपहितमुपधत्तः। अन्यथा कम्ब्वच्छिन्नग्रीवावच्छिन्नाकाशादन्य एव घटाकाशः स्यात्। न चैवं सुषुप्तावहमर्थाभावे अहं निर्दुःखः स्यामितीच्छया सुषुप्त्यर्थं प्रवृत्त्ययोगः, `कृशोऽहं स्थूलो भवामी'तिवत् प्रवृत्त्युपपत्तेः। न च- तत्र कार्श्यादिनिष्कृष्टस्य शरीरस्यैव स्थौल्याधिकरणतया विवेकिनामुद्‌देश्यत्वमिति- वाच्यम्, प्रकृतेऽप्यन्तःकरणादिनिष्कृष्टस्यैव तदुद्‌देशविषयत्वात्।

 

                ननु- `योऽहं सुप्तः सोहं जागर्मि' `योऽहं पूर्वेद्युरकार्षं सोऽहमद्य करोमी'ति प्रत्यभिज्ञानुपपत्तिः, अहमर्थस्य भेदात्। कृतहानाकृताभ्यागमप्रसङ्गश्च, कर्तुर्भोक्तुश्चाहमर्थस्य भिन्नत्वाद्, अभिन्ने चैतन्ये कर्तृत्वाद्यभावात्, तदारोपस्याप्यभावाद्, देहादावतिप्रसङ्गाच्चेति- चेन्न, सुषुप्तौ कारणात्मना स्थितस्यैव उत्पत्त्यङ्गीकारेण सर्वोपपत्तेः। न च- `अथ हैतत्पुरुषः स्वपिती'त्यारभ्य `गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मन' इत्यादिश्रुतौ मनआदीनामेवोपरमोक्तेर्नाहङ्कारोपरम इति- वाच्यम्, मनस उपरमे तेनैवाहंकारोपरमस्यापि प्राप्तेः। अहङ्कारो हि अनुभवामीत्यात्मानुबन्ध्यनुभवस्याहं कर्तेत्यचिदनुबन्धिकर्तृत्वादेश्चाश्रयः चिदचित्संवलनात्मकत्वादध्यस्य। तस्य चाचितोऽन्तःकरणस्योपरमे उपरतिः। `अथातोऽहङ्कारादेशः अथात आत्मादेश' इति श्रुतिरपि पृथगुपदेशेन पार्थक्ये प्रमाणम्।

 

                ननु- आत्मनस्त्वन्मते `स एवाधस्ता'दित्युपदिष्टेन भूम्नेवाहङ्कारेणाप्यैक्येऽपि पृथगुपदेशो युक्तः। न च- भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोः सार्वात्म्यायोगाद्, अहङ्कारस्य तु आत्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति वाच्यम्, अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरप्युपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्यार्थ एव किं न स्यात्- इति चेन्न, अहङ्काराद् भिन्नात्मनो भूमरूपब्रह्मभिन्नत्वस्य प्रत्यक्षासिद्धत्वेऽपि तदभिन्नत्वस्यापि तदसिद्धतया उभयोः सार्वात्म्योपदेशानुपपत्तिसहकारेणास्याः श्रुतेस्तयोरभेदपरत्वमुचितम्, प्रकृते चाभेदपरत्वे विरोधः, जडाजडयोरैक्यायोगात्। न च- त्वन्मते भूमाहङ्कारात्मनां बिम्बप्रतिबिम्बमुखस्थानीयाविद्योपाधिकब्रह्मजीवचिन्मात्रत्वसम्भवेनाहङ्कारस्य जीवात् पार्थक्यासिद्धिरिति- वाच्यम्, `यत्र नान्यत् पश्यति' `स एवाधस्ता'दित्यादिना भूमस्वरूपोत्त्यनन्तरं यत्रेत्यधिकरणाधिकर्तव्यनिर्देशात्स इति पारोक्ष्यनिर्देशाच द्रष्टर्जीवादन्यत्वप्रसक्तौ तद्वारणार्थं `अथातोऽहङ्कारादेश इत्यहङ्कारेण भूम्नि निर्दिष्टे अहङ्कारस्य देहादिसङ्घाते अविवेकिप्रयोगदर्शनात् तदभेदप्रसक्तौ निष्कृष्टाहङ्कारकेवलात्मस्वरूपमादाय `अथात आत्मादेश'इति द्रष्टृभेद उच्यत इत्येतादृशार्थपरत्वेन बिम्बप्रतिबिम्बकल्पनाया अत्रासम्भवात्। सम्भवे वा अविद्योपाधिकजीवस्याहङ्कारत्वोक्तिः स्थूलारुन्धतीन्यायेन। अत एव- `स एवेदं सर्वम्' `अहमेवेदं सर्वम्' `आत्मैवेदं सर्व' मित्याद्युपसंहाराणां `स एवाधस्तादहमेवाधस्तादात्मैवाधस्ता'दित्युपक्रमैः `सर्वं समाप्नोषि ततोऽसि सर्व' इत्यादिस्मृतिभिश्च सर्वगतत्वपरत्वेन न सार्वात्म्यपरत्वम्, येनाहंपदस्य निष्कृष्टाहङ्कारचैतन्यपरत्वं स्यात्। सर्वगतत्वं चानेकेष्वपि सम्भवत्येव। भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्ध्या मध्ये अहङ्कारोपदेशवैयर्थ्यं चेति- निरस्तम्। `स भगवः कस्मिन् प्रतिष्ठित' इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टं? परमार्थतः क्वचिदधिष्ठितत्वं वा? आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थपर- `अन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति पूर्ववाक्यानुसारेण `स एवाधस्ता'दित्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकत्रैव वाक्ये उपक्रमादिकल्पनेनार्थान्तराकल्पनात्, कल्प्यमानस्य च प्रकृतार्थानुपपादकत्वात्, सर्वगता जातिरिति पक्षे व्यापकजातेरिव भूम्नोऽपि अन्याधिष्ठितत्वसम्भवात्, `सर्वं समाप्नोषी'त्यादिस्मृतेः सार्वात्म्यपरत्वस्य उपपादितत्वात्। नापि मध्ये अहङ्कारोपदेशवैयर्थ्यम्, ब्रह्मण आपरोक्ष्याय अहङ्कारैक्योक्तेः। न च- त्वन्मते प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्त्वेन तदैक्योक्त्यैवापरोक्ष्यसिद्ध्या अहङ्कारे अविद्यमानसार्वात्म्योक्त्ययोग इति- वाच्यम्, आत्मसम्बन्धेनैवाहङ्कारोऽप्यपरोक्ष इत्यात्मैक्यादेवापरोक्ष्यं यद्यपि सिद्धं, तथाप्यहङ्कारे आपरोक्ष्यस्य सुप्रसिद्धत्वादहङ्कारोक्तिर्नायुक्ता। यत्तु-

 

                                `भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः।

                                 जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः।

                                अणुरूपोऽपि भगवान् वासुदेवः परो विभुः।

                                आत्मेत्युक्तः स च व्यापी'

 

इत्यादिस्मृत्या श्रुतेः सार्वात्म्यं नार्थः, किं तु सर्वगतत्वम्- इति। तन्न, श्रुतिविरोधेन स्मृतेरेव सार्वात्म्यपरत्वम्, न तु स्मृत्या श्रुतेरन्यथा नयनम्। न च- मोक्षधर्मे-

 

                                अनिरुद्धो हि लोकेषु महानात्मा परात्परः।

                                योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्।।

                                सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः।

 

इत्यनेन `सैव हि सत्यादय' इति सूत्रेण चाहङ्कारस्यात्मत्वम्, अन्यथा व्याप्त्युक्तिरयुक्ता स्यादिति- वाच्यम्, `अहङ्कारश्चाहङ्कर्तव्यं चे'ति श्रुतेः `महाभूतान्यहङ्कार' इति स्मृतेः अहङ्कारस्य व्यापकत्वासम्भवाद् `अहं मनुरभवमित्यादाविवाहम्पदस्य निष्कृष्टाहङ्कारचैतन्यपरत्वात्। ननु- अनयोः श्रुतिस्मृत्योर्महत्तत्त्वकार्यं मनआदीनां कारणं वैकारिकादिभेदेन त्रिविधमहङ्कारादिपदवाच्यं विषयः, न त्वहमर्थः, तथा च स्मृतिः-

                               

                                महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यचोदितात्।

 

                                क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत।।

 

इत्यादेरविरुद्धार्थमादायोपपत्तेः। विरुद्धार्थत्वकल्पनायां `बुद्धिरव्यक्तमेव चे'त्यत्र क्षेत्रे प्रत्युक्तबुद्धिशब्देन संविद उक्तौ संविदोऽपि क्षेत्रत्वापत्तिः। न च- बुद्धिशब्दस्य नानार्थत्वम्, न त्वहङ्कारस्यात्मातिरिक्तार्थकत्वमिति- वाच्यम्`दम्भाहङ्कारसंयुक्ता' इत्यादौ देहे अहम्बुद्धौ गर्वे च प्रयोगेण `गर्वोऽभिमानोऽहङ्कार' इत्यभिधानेन चाहमर्थवाचित्वनियमाभावात्, तथा चात्मवाच्यहंशब्दोऽस्मच्छब्दसिद्धः, अहङ्कारशब्दोऽनात्मवाची। तत्पर्यायस्त्वहंशब्दो मान्ताव्ययमिति- चेन्न, मान्तदान्तत्वभेदेनार्थभेदकल्पनमयुक्तम्। सर्वेषामेव तेषां `अह'मिति प्रतीयमानाहङ्कारविषयत्वमेव, पर्यायतयैव प्रयोगदर्शनात्। अहङ्कारातिरिक्तात्मनि प्रयोगस्तु लक्षणया, मान्तदान्तत्वेनानिर्धारिताहंशब्दस्याहङ्कारे प्रयोगदर्शनस्य नियामकत्वात्। यथा-

 

                                अनिरुद्धो हि लोकेषु महानात्मा परात्परः।

                                योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्।। इति।

                                सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः।

 

इत्यत्र लक्षणयाऽहङ्कारशब्दः आत्मनीति। यत्तु अहमर्थे आत्मानात्मधर्मदर्शनमसिद्धम्, कर्तृत्वादेरात्मधर्मत्वाद्- इति। तत्र कर्तृत्वादेरनात्मधर्मत्वं यथा तथा वक्ष्यामः। ननु- अनात्मधर्मत्वेऽपि कर्तृत्वादेस्तदाश्रयस्याभानेऽपि कर्तृत्वादिकमात्मनि भासताम्, `गौरोऽह'मित्यत्र शरीरगतगौरत्वमिवेति चेन्न, दृष्टान्तासम्प्रतिपत्तेः, तत्रापि देहत्वेनाभानेऽपि गौरत्वमनुष्यत्वादिना तत्प्रतीतेः।

 

                अनुमानं च- अहमर्थः, अनात्मा, अहंप्रत्ययविषयत्वात्, शरीरवत्। न चाहमर्थान्तर्गताधिष्ठानभूतचितोऽपि तत्प्रत्ययविषयत्वात् तत्र व्यभिचारः, येन रुपेणाहम्प्रत्ययविषयता, तेन रूपेण तस्याप्यनात्मत्वात् स्वरूपेणाहम्प्रत्ययविषयत्वाभावान्न व्यभिचारः। अहमर्थः, आत्मान्यः, अहंशब्दाभिधेयत्वात्, अहंकारशब्दाभिधेयवत्। न चात्रासिद्धिः, पर्यायताया दर्शितत्वात्। न च- त्वयाप्यात्मनो गौरोऽहमित्यनात्मारोपाधिष्ठानत्वं, मा न भूवं भूयासमित्यादिना परमप्रेमास्पदत्वं, अहमर्थस्य स्वसत्तायां प्रकाशाव्यभिचारेणात्मनः स्वप्रकाशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तं स्यादिति- वाच्यम्, इदम इवाधिष्ठानावच्छेदकत्वेनाधिष्ठानत्वोक्तेः। परमप्रेमास्पदत्वमहमर्थे आत्मैक्यारोपात्। न चैवमन्योन्याश्रयः, सुषुप्तिकालीनप्रकाशाप्रकाशाभ्यां वैधर्म्येण भेदसाधनात्। न चाहमर्थप्रेम्णोऽन्यस्य प्रेम्णोऽननुभवः, परामर्शसिद्धसुषुप्तिकालीनतादृशप्रेमानुभवस्य सत्त्वात्। न च अहिते हितबुद्ध्या प्रेमोत्पत्तिदर्शनेऽपि अप्रेमास्पदे प्रमास्पदतारोपो न दृष्ट इति- वाच्यम्, अहमर्थे आत्मैक्यारोपनिबन्धनं प्रेमास्पदत्वम्, न तु स्वाभाविकमिति ब्रूमः, न तु प्रेमास्पदत्वारोपम्। अहमर्थात्मनोर्भेदेऽपि अहमर्थस्य प्रकाशाव्यभिचारः स्वप्रकाशात्मसम्बन्धं विना न घटत इति सोऽपि तत्र प्रमाणमिति नायुक्तिलेशोऽपि। न च-

 

                                समारोप्यस्य रूपेण विषयो रूपवान् भवेत्।

                                विषयस्य तु रूपेण समारोप्यं न रूपवत्।।

 

इति वाचस्पत्युक्तेरन्तःकरणगताप्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तिरिति- वाच्यम्, किमधिष्ठानगतधर्मस्यारोप्येऽभानमापाद्यते? आरोप्यगतधर्मस्याधिष्ठाने भानं वा? नाद्यः, यद्धर्मवत्तया ज्ञायमाने अधिष्ठाने आरोप्यनिवृत्तिस्तस्यैवारोप्येऽभाननियमेन प्रकृते तदभावात्। न द्वितीयः, अधिष्ठानगतधर्मप्रतीत्यविरोधिनः आरोप्यगतस्याधिष्ठाने भानेऽपि प्रकृते अविरोधात्। आत्मैक्याध्यासकाल एव प्रेमास्पदत्वसम्भवेनारोप्येऽपि अप्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिः? यथा इदमिति रजताध्यासकाल एव रजते अनिदन्त्वाप्रतीतिः। यत्तु- कैश्चित् परिह्रियते- सुखानुभवरूपस्यात्मनो अहमर्थात् भेदेनैव सुखमनुभवामीत्यादौ प्रतीतिः- इति, तन्न, वैषयिकसुखानुभवस्यात्मान्यत्वात्। न च- मोक्षे अहमर्थाभावेनात्मनाशो मोक्ष इति बाह्यमतापत्तिः, प्रेमास्पदस्याहमर्थस्य त्वन्मतेऽपि नाशात्, तदन्यस्य शून्यस्य तन्मतेऽप्यनाशादिति- वाच्यम्; औपाधिकप्रेमास्पदनाशेन बाह्यमतप्रवेशापत्तौ शरीरनाशेऽपि तदापत्तेः। एतावताहमर्थस्य मुक्त्यनन्वयेऽपि `माममृतं कृधि' `ज्योतिरहं विरजा विपाप्मा भूयासमिति श्रुतिरपि चैतन्यगतमेवामृतत्वं विषयीकरोति, `अहं पुष्टः स्या'मितीच्छेव स्वसमयविद्यमानशरीरवृत्तिपुष्टिम्। न च- `शरीरं पुष्टं स्या'दिति शरीरमात्रे पुष्टीच्छावद् `आत्ममात्रं मुक्तं स्या'दितीच्छाया अदर्शनेन मुक्तेरनिष्टत्वापत्तिरिति- वाच्यम्; इच्छासमये अन्तःकरणाध्याससम्भवेन यद्यपि नात्ममात्रगतमुक्तीच्छा, तथापि विशिष्टगतमुक्तीच्छाया एव विवक्षितविवेकेन विशेष्यमात्रगतमुक्तिविषयत्वपर्यवसानात् तस्यामिष्टत्वोपपत्तेः। न चाहमर्थस्यान्तःकरणग्रन्थित्वे `मम मन इति धीर्न स्यात्; चिदचिद्‌ग्रन्थिरहङ्कारः, अचिन्मात्रमन्तःकरणम् इति भेदेन षष्ठ्युपपत्तेः। न चैवं- `मनः स्फुरति मनोऽस्ती' त्यादिज्ञानादहमिति ज्ञानस्य वैषम्यानुभवो न स्यात्, चिदचित्सम्बलनविषयत्वाविशेषादिति- वाच्यम्, संवलनं हि न सम्बन्धमात्रम्, किन्तु तादात्म्येन प्रतिभासः। स च तत्र नास्तीति विशेषात्।

 

                ननु- सर्वापि भ्रान्तिर्द्व्यंशविषया; अन्यथा निरधिष्ठानकभ्रमापत्तेः, न च `अह'मिति बुद्धेः द्व्यंशत्वमनुभूयते। कल्प्यते चेत्, आत्मेति बुद्धेरपि द्व्यंशत्वं कल्प्यतामिति- चेन्न, किमिदं द्व्यंशविषयत्वम्? अधिष्ठानारोप्यविषयत्वं चेत्तर्हीष्टापत्तिः, अहमर्थमिथ्यात्वस्यैव द्वितीयांशविषयत्वे प्रमाणत्वात्। आत्मेत्यत्र तु द्व्यंशविषयत्वे नैवं प्रमाणमस्ति, येन तथा कल्प्यते। न च द्व्यंशविषयत्वं भिन्नभिन्नप्रकारावच्छिन्नारोप्यविषयत्वम्, रजतत्वसंसर्गारोपनिबन्धनेदंरजतमिति प्रतीतौ व्यभिचारात्। न हि रजतत्वेऽपि तत्र कश्चन प्रकारो भासते, रजतादेस्तत्र प्रकारत्वकल्पने मानाभावात्, तत्कल्पनां विनैवोपपत्तेः, तथा कल्पनायामतिप्रसङ्गादप्रयोजकत्वाच्च। यद्वा- अत्रापि `अहं स्फुरामि' `अहमस्मी'ति द्व्यंशता भात्येव `रूप्यं स्फुरति' `रूप्यमस्तीत्यत्रेव। इयांस्तु विशेषः- यत्तत्र इदंत्वावच्छिन्नस्फुरणमधिष्ठानमिति इदं रूप्यमिति धीः, इह तु स्फुरणमात्रमधिष्ठानमिति स्फुरामीत्येव बुद्धिः। न च भ्रमस्याप्यध्यस्तत्वेनाधिष्ठानत्वायोगः, भ्रान्तोऽसि, स्फुरणं चैतन्यं ब्रूमः, न त्वविद्यावृत्त्यादिकम्। एवं च न प्रत्यक्षमहमर्थस्यात्मत्वे प्रमाणम्।

 

                नाप्यनुमानम्। तथा हि- अहमर्थो, मोक्षान्वयी, तत्साधनकृत्याश्रयत्वात्, सम्मतवद्- इत्यत्र विशेषव्याप्तौ दृष्टान्ताभावः। न हि कृत्याश्रये मोक्षान्वयित्वं क्वचित् सम्प्रतिपन्नमस्ति। सामान्यव्याप्तेः स्वर्गसाधनकृत्याश्रये ऋत्विजि स्वर्गानन्वयेन व्यभिचारात्। अहमर्थः, अनर्थनिवृत्त्याश्रयः, अनर्थाश्रयत्वात्, सम्मतवदित्यत्र शरीरे व्यभिचारः। न च तत्रानर्थाश्रयत्वमसिद्धम्, `अहमज्ञ' इति प्रतीत्या अहमीव `स्थूलोऽहमज्ञ' इति प्रतीत्या शरीरेऽपि तत्सत्त्वाद्, अन्यथा असिद्धिप्रसङ्गात्। अनात्मत्वं, नाहमर्थवृत्ति, अनात्ममात्रवृत्तित्वाद्, घटत्ववदित्यत्र कृत्याश्रयावृत्तित्वमुपाधिः,। नापि `कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि' `स प्राणमसृजत हन्ताहमिमास्तिस्रो देवता' इत्यादौ जगत्कारणे सति प्राणमनःसृष्टेः पूर्वमहंत्वोक्तेः, `तदात्मानमेवावेद् अहं ब्रह्मास्मीत्यवधारणेन शुद्धात्मनोऽहन्त्वोक्तेः, अनवद्यस्य ब्रह्मणोऽहमुल्लेखोक्तेः, `अहमित्येव यो वेद्यः स जीव इति कीर्तितः। स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः।।' इत्यादौ मोक्षान्वयोक्तेश्चैताः श्रुतयः प्रमाणम्, विशिष्टवाचकस्यैवाहम्पदस्य लक्षणया निष्कृष्टाहङ्कारचैतन्ये प्रयोगात्। लक्षणाबीजभूताऽनुपपत्तिरुक्ता। एतेन- `मामेव ये प्रपद्यन्ते' इत्यादिस्मृतयोऽपि- व्याख्याताः। अत एव `तद्योऽहं सोऽसा' वित्यादावपि लक्षणाऽऽश्रयणीया, विशिष्टवाचकत्वेन क्लृप्तस्य विशेष्ये लक्षणाया आवश्यकत्वात्।

 

                                ।। इत्यद्वैतसिद्धावहमर्थस्यानात्मत्वोपपत्तिः ।।

[/1-2-33]

 

[1-2-34]

                                                अद्वैतसिद्धिः

 

                ननु- कर्तृत्वं यद्यनात्मधर्मः स्यात्, कथमात्मनि भासेत? न च- जपाकुसुमस्थं लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृत्वमात्मन्यध्यस्तं, न तु तात्त्विकम्, निर्विकारत्वश्रुतिविरोधात्, सुषुप्तौ बुद्ध्यभावेऽकर्तृत्वदर्शनाच्चेति- वाच्यम्, एवं हि `रक्तं कुसुम'मितिवत् कदाचिद् मनः कर्त्रिति प्रत्यक्षप्रमा `लोहितः स्फटिक' इतिवत् चैतन्यं कर्त्रिति भ्रमश्च स्यादिति चेन्न, कर्तृत्वविशिष्टान्तःकरणस्य चैतन्यात्मनाध्यासेन न तथा प्रतीतिः, कुसुमस्य तु स्फटिकात्मना नाध्यास इति वैषम्यात्। न च- अधिष्ठानात्मनाऽनध्यस्तजपाकुसुमस्थानीयमुपाधिं विना भीषणत्वादियुक्तसर्पस्य रज्ज्वात्मनेव कर्तृत्वादियुक्तबुद्धेश्चिदात्मनाध्यासे रज्जौ भीषणत्वान्तरस्येवात्मनि कर्तृत्वान्तरस्यानध्यासेन सोपाधिकत्वं न स्यादिति- वाच्यम्, आत्मनि कर्तृत्वान्तरस्यैवाध्यासात्। न च तर्हि कर्तृत्वद्वयस्य विविच्य प्रतीतिः स्यात्, आत्मान्तःकरणयोरैक्याध्यासात्। रज्जुसर्पादौ अध्यस्यमानक्रूरत्वादिविशिष्टसर्पापेक्षया अधिकसत्ताकस्य सर्पान्तरस्य सम्भवेन नायमुपाधिः, अतो निरुपाधिकत्वम्। अत्र त्वध्यस्यमानान्तःकरणापेक्षया कर्तृत्वादिधर्मविशिष्टमन्यदधिकसत्ताकं नास्त्येवेति अन्तःकरणमत्रोपाधिरिति न सोपाधिकत्वानुपपत्तिः। न च एवमपि मनो न स्फुरणम्, किन्तु स्फुरतीति तयोर्भेदधीदशायां प्रत्येकं `रक्तं कुसुमं' `स्फटिको रक्तः' इतिवत् `मनः कर्तृ' `चैतन्यं कर्त्रि'ति प्रतीत्यापत्तिरिति- वाच्यम्, तादात्म्यारोपविरोधिभेदग्रहस्यैव तत्प्रयोजकत्वात्, प्रकृते च तदभावात्। यत्त्वभेदग्रहदशायामपि `अयं भीषणः सर्पो भीषणः, अहं गौरः शरीरं गौरमि'तिवत् `मनः कर्तृ' `चैतन्यं कर्त्रि'ति प्रतीतिः स्यादिति, तन्न, तादात्म्यग्रहस्यैव प्रतिबन्धकस्य सत्त्वेन दृष्टान्तस्यैवासम्प्रतिपत्तेः।

 

                यदपि सोपाधिकत्वे तन्त्रत्वेनाधिष्ठानसमसत्ताकत्वमुपाधेः तद्धर्मस्य वा, अध्यस्यमानापेक्षयाधिकसत्ताकत्वं वा तयोरिति पक्षद्वयमुद्भाव्य प्रकृते तद्द्वयं न सम्भवतीति दूषणाभिधानम्, तदनुक्तोपालम्भनम्, यदन्वयव्यतिरेकानुविधायितया यत्प्रतीयते तदपेक्षया अधिकसत्ताकतद्धर्माश्रयान्तराभावस्यैव सोपाधिकत्वे तन्त्रत्वात्। न चैवं क्षीरसम्प्रक्तनीरैक्याध्यासनिबन्धनक्षीरधर्मप्रतीतिः सोपाधिकी स्यात्, तस्याः सोपाधिकत्वे इष्टापत्तेः। ननु- बुद्धिगतं कर्तृत्वं किमहमर्थे, अहमर्थगतं वात्मनि अध्यस्यते। आद्ये आरोपितस्याप्यनर्थस्यात्मन्यभावे तस्य बन्धमोक्षानधिकरणत्वापत्तिः, द्वितीये अनध्यासेनैव `अहं कर्ते'ति प्रतीत्त्युपपत्तौ किमध्यासेनेति चेन्न, अहङ्कारस्तु चिदचिद्‌ग्रन्थिरूपतया द्व्यंशः। तत्राचिदंशे बुद्धौ कर्तृत्वसत्त्वेऽपि तद्विशिष्टाया बुद्धेश्चित्यैक्याध्यासं विना `अहं कर्ते'ति प्रतीतेरयोगेनाध्यासस्यावश्यकत्वात्। एतेन- आरोपितकर्तृत्वस्याप्यभावे आत्मनो बन्धमोक्षानधिकरणत्वं स्यादिति- निरस्तम्।

 

                न च `कर्ता शास्त्रार्थवत्त्वादि'त्यधिकरणे त्वयाऽपि साङ्ख्यरीत्या बुद्धेः कर्तृत्वे प्राप्ते, जीवस्यैवेति सिद्धान्तितत्वेन विरोधः। न चाविवेकनिबन्धनं जीवनिष्ठत्वम्, अविवेकस्य साङ्ख्यमतेऽपि सत्त्वादिति- वाच्यम्, बुद्धेरेव कर्तृत्वम्, भोक्तृत्वं चैतन्यस्येति पूर्वपक्षं कृत्वा कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यनियमेन भोक्तृत्ववत् कर्तृत्वमप्यङ्गीकर्तव्यमित्युक्तम्, न तु बुद्धेः अकर्तृत्वं आत्मनो वा स्वाभाविकं कर्तृत्वंमिति। `यथा च तक्षोभयथा' इत्युत्तराधिकरणे पूर्वाधिकरणोक्तस्यात्मकर्तृत्वस्य स्वाभाविकत्वपूर्वपक्षे औपाधिकत्वस्य स्थापितत्वात्। अतो न तदधिकरणविरोधः।

 

                यदपि बुद्धेः कर्तृत्वे करणत्वं कथमिति? तदप्ययुक्तम्, अन्यत्र कर्त्र्या एव बुद्धेरुपलब्धिं प्रति करणत्वोपपत्तेः। न च कर्तृत्वाद्यनर्थरूपबन्धस्य बुद्धिगतत्वेन मोक्षस्यापि तदन्वयापत्तिः, अनर्थतन्निवृत्त्योरैकाधिकरण्यनियमादिति- वाच्यम्, कर्तृत्वादेश्चेतनगततयैवानर्थतया बुद्धेरनर्थानाश्रयत्वात्। न च चैतन्यगतस्यानर्थत्वे चैतन्यस्याप्यनर्थकोटौ निवेशापत्तिः, आत्मसबन्धित्वेनैवानर्थस्य हेयत्वेनात्मनोऽपि हेयत्वं सर्वमतेऽपि स्यात्। आरोपितत्वपुरस्कारेणानर्थत्वाभावात् नान्योन्याश्रयः। न च- शुद्धात्मनः कदापि नानर्थाश्रयत्वेन प्रतीतिः, भ्रमकाले अहं भोक्ता प्रमाकाले बुद्धिर्भोक्त्रीति प्रतीतेरिति- वाच्यम्, शुद्धस्य भोक्तृत्वाद्यनर्थानाश्रयत्वेऽपि उपहितस्य शुद्धात्स्वाभाविकभेदाभावेन बन्धमोक्षसामानाधिकरण्योपपत्तेः। एतेन- बुद्धिः श्रवणादिकर्त्रीति तस्या एव फलं मोक्षोऽपि स्यादिति वाच्यम्, `शास्त्रफलं प्रयोक्तरी'ति न्यायाद्, अन्यथाऽतिप्रसङ्गादिति- निरस्तम्,जातेष्टिपितृयज्ञयोर्व्यभिचारात्। न च पूतपुत्रकत्वं स्वर्गभागिपितृकत्वं वा कर्तृगतमेव फलम्, तस्य फलत्वेनाश्रवणात्। न च तादृक्पुत्रकत्वं फलेन सम्बन्धः, न तु फलमिति- वाच्यम्, एवं हि संयुक्तसमवायादिना पित्रन्यस्यापि तत्फलं स्यात्, अशास्त्रीयत्वाविशेषात्। न च- पित्रर्थपुत्रगतं पूतत्वादिकं तदनुष्ठातुः पितुरेव फलम्, तेन तदुद्देशात्, न चेहात्मा अन्तःकरणार्थः येनात्मगतो मोक्षः तस्योद्देश्यः स्यादिति- वाच्यम्, आत्मा यद्यपि नान्तःकरणार्थः, अहमर्थगततया तथापि फलस्योद्देश्यत्वानुभवाद् अहमर्थस्य चात्मानात्मरूपत्वेनात्मन्यपि फले उद्देस्यगतत्वानपायात्। यद्वा- आरोपितानारोपितसाधारणं कर्तृत्वमेव फलभाक्त्वे प्रयोजकम्, तच्चात्मन्यस्त्येव। न च शरीरेऽप्यारोपितकर्तृत्वेन फलभाक्त्वापत्तिः, फलपर्यन्तमसत्त्वेन फलभाक्त्वासम्भवात्। न हि कर्तुः फलभाक्त्वनियमं ब्रूमः किन्तु फलभाजः कर्तृत्वनियमम्, अजनितफलकर्मकर्तरि व्यभिचारात्, अप्रयोजकेत्वाच्च।

 

                ननु- मनसः कर्तृत्वं न घटते, कृतिकर्मत्वस्य करणत्वस्य च तद्विरोधिनः श्रुत्यादिसिद्धत्वाद्, बुद्ध्यभावेऽपि कर्तृत्वस्य श्रूयमाणत्वाच्च। तथा हि- `तन्मनोऽकुरुते'त्यादौ मनसः कृतिकर्मत्वम्, `शृण्वन्तः श्रोत्रेण विद्वांशो मनसे'त्यादिश्रुतौ `शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नर' इत्यादिस्मृतौ च करणत्वम्, `मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तैवे'त्यादिश्रुतौ मनउत्क्रमणेऽप्यात्मनः कर्तृत्वम्, तथा `परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाण' इत्यादौ स्वरूपाविर्भावरूपपरममुक्तावपि कर्तृत्वं `कर्ता विज्ञानात्मा यो वेदेदं जिघ्राणीति स आत्मा' `आनन्दभुक्त्या प्राज्ञ' इत्यादिश्रुतितश्च कर्तृत्वम्, तथा च बुद्धिर्न कर्त्रीति- चेन्न, `विज्ञानं यज्ञं तनुते' इत्यादिश्रुत्या मनसः कर्तृत्वेन स्वकृतिकर्मत्वविरोधेऽपि तत्रेश्वरकृतिकर्मत्वस्य उपलब्धिं प्रति करणत्वस्य चाविरोधाद्, ईश्वरे अविद्यावृत्तिरूपज्ञानेच्छावत् तद्रूपकृतिसम्भवात्।

 

                न च- विज्ञानपदं ब्रह्मपरम्, `विज्ञानं ब्रह्म चेद्वेद, तस्माच्चेन्न प्रमाद्यति, शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते।' इत्यादिवाक्यशेषादिति- वाच्यम्, वाक्यशेषोक्तमुमुक्षुज्ञेयशुद्धब्रह्मणो यज्ञकर्तृत्वासम्भवेन कर्तृत्वेन प्रतिपाद्यमाने विज्ञाने ततोऽर्थान्तरत्वनिश्चयाद्, `अन्नं ब्रह्मेत्युपास्त' इत्येतद्वाक्यसमानयोगक्षेमत्वाच्च। `तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वात् न स पश्यती'त्यादि स्मृतेः `प्रकृतेः क्रियमाणानी'त्यादिस्मृतेश्च। न चात्मनि स्वातन्त्र्येण कर्तृत्वनिषेधबोधकत्वमनयोः, सामान्यतो निषेधे बाधकाभावात्। अत एव `ध्यायतीव लेलायतीवे'त्यादाविवशब्दः। न चेवशब्दः परतन्त्रप्रभौ प्रभुरिवेतिवत् जीवकर्तृत्वे परतन्त्रतामात्रपरः तद्वदत्र बाधकाभावात्। न च- बुद्ध्यभावेऽपि आत्मनः कर्तृत्वश्रवणाद् बुद्धेः कर्तृत्वासम्भव इति- वाच्यम्; बुद्धेः कर्तृत्वे जनकत्वमात्रे वा सर्वथा तस्या जीवनिष्ठत्वेनाभिमतायां कृतावपेक्षणीयत्वेन तदभावे कर्तृत्वबोधकस्य तवापि मते उपचरितार्थत्वात्, निर्धर्मकत्वनिर्विकारत्वनिष्क्रियत्वादिबोधकश्रुतिविरोधाच्च। न च- निर्धर्मकत्वरूपधर्मभावाभावाभ्यां व्याघातात् ज्ञानत्वसाक्षित्वादिवत् सत्यस्यासत्यस्य वा ज्ञातृत्वादेरप्यात्मन्येव सम्भवाच्च निर्धर्मकत्वश्रुतिर्न श्रूयमाणार्थपरेति- वाच्यम्, निर्धर्मकत्वस्य धर्माभावरूपस्य ब्रह्मस्वरूपानतिरेकेण धर्मत्वाभावेन व्याहत्यभावात्। यत्त्वसत्यस्य सत्यस्य वा ज्ञातृत्वस्यात्मन्यपि सम्भव इत्युक्तं। तदिष्टमेव। न ह्यारोपितमपि कर्तृत्वमात्मनि प्रतिषेधामः। न च- निर्विकारत्वं द्रव्यान्तररूपतया परिणामाभावपरम्, न तु विशेषाकाराभावपरम्,तच्चात्मनः कर्तृत्वादिसत्त्वेऽप्यविरुद्धमिति- वाच्यम्, द्रव्यान्तररूपतया परिणामनिषेधकमपीदं वाक्यं निर्धर्मकश्रुत्यनुसारेण विशेषाकारमात्रस्यैव निषेधपरम्, सामान्यनिषेधेनैव विशेषनिषेधप्राप्तेः। नापि- निष्क्रियत्वे क्रिया परिस्पन्दो वा? धात्वर्थो वा? आद्ये इष्टापत्तिः, द्वितीये आत्मन्यपि अस्त्यादिधात्वर्थरूपसत्तादेः सत्त्वेनासिद्धिरिति वाच्यम्, ब्रह्मण एव सद्रूपत्वेन तत्र सत्तादेरप्यभावात्, क्रियापदस्य कृतिपरत्वाच्च। अत एव मनसोऽभावे सुषुप्तौ कर्तृत्वाद्यदर्शनम्। न च- तदापि श्वासादिकर्तत्वं दृश्यत एव, सुषुप्तौ `भूर्भूरित्येव प्रश्वसिती'ति श्रुतेरितिवाच्यम्, `न तुद्वितीयमस्ती'त्यादि श्रुत्या तं प्रति श्वासस्यैवाभावेन तत्कर्तृत्वस्य सुतरामसम्भवात्। यद्वा- क्रियाशक्तिप्राधान्येन प्राणात्मकस्यान्तःकरणस्य तदापि सत्त्वेन तदुपाधिककर्तृत्वस्य तदापि सत्त्वात्। तथा च श्रुतिरन्यपरा। दर्शनं च द्रष्ट्रविद्याकल्पितश्वासादिविषयम्। इदं च दृष्टिसृष्टिवाद एव समर्थितम्। `कामः संकल्पः' इत्यारभ्य `ह्रीर्धीर्भीरित्येतत्सर्वं मन एवे'त्यन्ता श्रुतिरपि मनसः कर्तृत्वपरा, न तु मनसो निमित्तत्वपरा। न च- `मनसा वा अग्रे संकल्पयती'त्यादिश्रुत्या `आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण' इत्यादि श्रुत्या च मनसः करणत्वमिति वाच्यम्, मनोव्यतिरिक्तस्य संकल्पानाश्रयत्वेन `मनसा वा' इति श्रुतेरुपचरितार्थत्वात्।

 

                नापि(1) आत्मा मोक्षसाधनविषयकृतिमान्, तत्फलान्वयित्वात्, सम्मतवत्, (2) अज्ञानं ज्ञानसमानाधिकरणम्, ज्ञाननिवर्त्यत्वात् ज्ञानप्रागभाववत्, (3) दुखादिभोगः मोक्षसमानाधिकरणः बन्धत्वात्, सम्मतवदित्याद्यनुमानैरात्मनः कर्तृत्व सिद्धिरिति- वाच्यम्, आद्यानुमाने आरोपितानारोपितसाधारणकृतिमत्त्वं वा साध्यम्? अनारोपितकृतिमत्त्वं वा? आद्ये इष्टापत्तिः। द्वितीये जातेष्टिपितृयज्ञजन्यफलान्वयिनि व्यभिचारः। द्वितीयानुमानेऽपि आरोपितानारोपितसाधारणज्ञानाधिकरणवृत्तित्वं वा? अनारोपितज्ञानाधिकरणवृत्तित्वं वा? अत्राप्याद्ये इष्टापत्तिः। द्वितीये अनादिभावभिन्नत्वस्योपाधित्वम्। तृतीयानुमाने आरोपितानारोपितसाधारणसम्बन्धेन मोक्षसामानाधिकरण्ये इष्टापत्तिः। अनारोपितसम्बन्धेन सामानाधिकरण्ये साध्याप्रसिद्धिः। तस्मात् सिद्धं मनसः कर्तृत्वमात्मन्यारोप्यत इति।।

 

                                इत्यद्वैतसिद्धौ कर्तृत्वाध्यासोपपत्तिः।।

[/1-2-34]

 

[1-2-35]

                                                अद्वैतसिद्धिः

 

                ननु- `अहमर्थस्यानात्मत्वे ब्राह्मणोऽहं काण' इत्यादिप्रत्यक्षं देहेन्द्रियादौ आत्मैक्याध्यासे प्रमाणं न स्याद्, ऐक्यबुद्धावात्मनोऽविषयत्वादिति- चेन्न, अहमित्यस्य द्व्यंशत्वेन चिदंशे कर्तृत्वादिविशिष्टान्तःकरणैक्याध्यासवद् ब्राह्मणत्वकाणत्वादिविशिष्टदेहेन्द्रियाद्यैक्याध्यासेनात्मैक्यविषयत्वसम्भवात्। तथा चात्मनि देहेन्द्रियाद्यैक्याध्यासो युज्यत एव। नच- एवं देहात्मैक्यस्य प्रत्यक्षत्वे तद्विरोध्यनुमानागमयोरप्रामाण्यप्रसङ्गः वह्निशैत्यानुमानवत्, श्रूयमाणार्थे `यजमानः प्रस्तर' इत्यागमवच्च। तथाच न देहात्मनोर्भेदसिद्धिः स्यादितिवाच्यम्, चन्द्रपरिमाणप्रत्यक्षविरोध्यनुमानागमादिदृष्टान्तेन प्रत्यक्षविरोधिनः परीक्षितागमानुमानादेः प्रामाण्यस्य व्यवस्थापितत्वेन तथापि तयोर्भेदसिद्धिसम्भवात्। न च- परस्परभिन्नत्वेन निश्चितानां देहेन्द्रियादीनां युगपदेकात्मैक्याध्यासायोगः, न हि भिन्नत्वेन निश्चितयो रजतरङ्गयोरेकदैकशुक्तिकायामैक्याध्यास इति- वाच्यम्, `देहादिन्द्रियमन्यद्, इन्द्रियाद् देहोऽन्य' इति भेदबुद्‌ध्या `देहोऽहमिन्द्रियमित्यैक्याध्यासासम्भवेऽपि ब्राह्मणादन्य काणः काणादन्यः ब्राह्मण इति भेदबुद्ध्यभावेन ब्राह्मणोऽहं काण इत्येकदा ऐक्याध्याससम्भवात्, समानप्रकारकभेदधिय एव विरोधित्वात्।

 

                ननु- भेदमात्रस्याप्यध्यस्तत्ववादिनस्तव देहात्मनोर्भेदस्याप्यध्यस्तत्वेन जीवब्रह्मणोरिव तदभेदस्तात्त्विकः स्यात्। मिथ्यात्वं हि अधिष्ठानज्ञानावाध्यात्यन्ताभावप्रतियोगित्वम्। तद्वाध्यात्यन्ताभावप्रतियोगत्वस्य सत्त्वेऽपि असम्भवात्। अभेदश्च भेदात्यन्ताभाव इति कथं भेदमिथ्यात्वे अभेदः सत्यो न स्यात्? न च- देहस्याप्यध्यस्तत्वेन तेन सहात्मनो न भेदो नाप्यभेद इति- वाच्यम्, अध्यस्तादपि रूप्याच्छुक्तेः स्वज्ञानाबाध्यभेददर्शनादितिचेन्न, भेदस्य मिथ्यात्वेऽपि अभेदो न तात्त्विकः, भावाभावयोरुभयोरपि मिथ्यात्वस्य प्रागेवोपपादितत्वात्। इयांस्तु विशेषः- यदत्राभेदो व्यवहारकालीनेन परीक्षितप्रमाणभावेनानुमानादिना बाध्यते, भेदस्तु देहात्मनोर्न तेन, किन्तु चरमवृत्त्येति। न च- एवं गेहीतिवद् `देही'ति प्रतीति'र्न स्यात्, किन्तु देहोऽहमिति- वाच्यम्, देहत्वेन भेदग्रहाद् ब्राह्मणत्वादिना भेदाग्रहाच्च ब्राह्मणोऽहं देह्यहमित्युभयप्रतीत्युपपत्तेः। देवदत्ताद् यज्ञदत्तोऽन्य इति भेदबुद्धावपि तत्त्वेनोपस्थिताद् देवदत्ताद्यज्ञदत्ते `सोऽय'मित्यभेदभ्रमदर्शनात्।

 

                ननु- ब्राह्मणोऽहं मनुष्योऽहमिति कथमध्यासरूपम्? मनुष्यत्वब्राह्मणत्वादेः शरीरविशिष्टात्मवृत्तित्वेन प्रमात्वस्यैव सम्भवात्। तदुक्तम्-

 

                                ब्राह्मणोऽहं मनुष्योऽहमित्यादिस्तु प्रमैव नः।

                                देहभेदयुतो यस्माद् ब्राह्मणादिपदोदितः।।

 

इति- चेन्न, मनुष्यत्वादेर्देहविशिष्टात्मवृत्तित्वे चक्षुरादिगम्यत्वं न स्याद्, देहविशिष्टात्मनश्चक्षुरगम्यत्वात्। न च- एकदेशस्य चक्षुर्गम्यत्वाद् विशिष्टगतजातिः चक्षुषा गृह्यत इति- वाच्यम्, व्यासज्यवृत्तेरुभययोग्यतायामेव योग्यत्वनियमात्। अन्यथा ऐन्द्रियकानैन्द्रियकवृत्तिसंयोगद्वित्वादेः प्रत्यक्षता स्यात्। व्यासज्यवृत्तित्वस्य जातावदृष्टचरत्वात् पृथिवीत्वादिना सङ्करापत्तेः, तव मते आत्मनोऽणुत्वेन तद्‌वृत्तित्वेऽतीन्द्रियत्वप्रसङ्गात्। न चैवं `देहो ब्राह्मणो मनुष्य' इत्यादिप्रतीत्यापत्तिः, अहंत्वसामानाधिकरण्यभ्रमजनकदोषस्यैव तादृक्प्रतीतिप्रतिबन्धकत्वात्। उक्तबाधकैर्दैहवृत्तित्वे अनन्यगतिकत्वेन तथा कल्पनात्, `कृशोऽहं स्थूलोऽह'मित्यादौ कार्श्यादिविशिष्टैक्याध्यासस्यावश्यकत्वाच्च। न च- अयमौपचारिकप्रयोगः पुत्रे कृशे अहं कृश इतिवत्, तदुक्तं-

 

                                कृशोऽहं कृष्ण इत्यादौ कार्श्यादिर्देहसंस्थितः।

                                पुत्रादिस्थितकार्श्यादिवदात्मन्युपचर्यते।।

 

                इति- वाच्यम्, एवं सति देहादिभिन्नात्मास्तित्वप्रतिपादिकाया `अस्तीत्येवोपलब्धव्य' इति श्रुतेरनुवादकतापत्तेः, मम देह इत्यनौपचारिकः, अहं गौर इत्याद्यौपचारिक इत्यत्र विनिगमकाभावाच्च।

 

                ननु- इदं विनिगमकम्, जातमात्रस्य पश्वादेः प्रवृत्त्यादिहेतोरिष्टसाधनताद्यनुमितेर्हेतुर्यत्स्तन्यपानम्, तदिष्टसाधनम्, यथा पूर्वदेहीयं स्तन्यपानमित्यादिव्याप्तिस्मृतिस्तावन्न देहान्तरास्मृतौ युक्ता। न च `मम प्राक् देहान्तरमभूदि'ति स्मरतस्तस्यैक्यधीः सम्भवती। किंत्वनेकमण्यनुस्यूतसूत्रमिवानेकदेहेष्वनुस्यूतमात्मानं पश्यतः स्वतो भेदधीरत्रेति- चेन्नः, पूर्वदेहस्मृतिं विनापि अनुमितिहेतुव्याप्तिस्मृतेः सम्भवात्। न हि व्याप्त्यनुभव इव व्याप्तिस्मरणसमयेऽपि दृष्टान्तज्ञानापेक्षा, येन तदर्थं तद्‌देहस्मृतिरपेक्ष्येत।

 

                न च- तथापि `योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रणप्तॄननुभवामि, योऽहं स्वप्ने व्याघ्रदेहः, सोऽहमिदानीं मनुष्यदेह इति देहभेदधीपूर्वकं स्वस्यैक्यमनुसन्दधानः कथं ततो भेदं न जानीयादिति- वाच्यम्; विरुद्धधर्मरूपलिङ्गधीजन्यभेदधीसम्भवेऽपि अपरोक्षाभेदभ्रमे अविरोधात्। न च- प्रत्यक्षे धर्मिणि भेदकसाक्षात्कारो भेदसाक्षात्कारव्याप्तः, इह च व्यावृत्तत्वेन बुद्धिस्थदेहादितो भेदकस्यानुवृत्तत्वस्यात्मनि प्रत्यभिज्ञाप्रत्यक्षसिद्धत्वाद् व्यावर्तकसाक्षात्कारस्यैवैक्यापरोक्षभ्रमविरोधित्वात् निरुपाधिकत्वेन विशेषदर्शनाप्रतिबध्यत्वस्य वक्तुमशक्यत्वात् कथमैक्यभ्रम इति- वाच्यम्, भेदकसाक्षात्कारस्य भेदसाक्षात्कारेण व्याप्तेरैक्यारोपेण सह विरोधस्य चासिद्धेः। नीला बलाकेत्यत्र नीलाद् भेदकस्य बलाकात्वस्य ग्रहेऽपि नीलभेदसाक्षात्काराभावस्य तदभेदसाक्षात्कारस्य च दर्शनात्। न च तत्र दोषप्राबल्यात् तथा, प्रकृतेऽपि दोषप्राबल्यान्नेति केन तुभ्यमभ्यधायि?

 

                एवं `ब्राह्मणो यजेते'त्यादिश्रुतिरपि ब्राह्मणत्वाश्रयशरीरस्य जडत्वेनानियोज्यतया तदैक्याध्यासापन्नमात्मानं नियुञ्जाना तत्र प्रमाणम्। न च ब्राह्मणत्वायदेद्देन सम्बन्धान्तरमादायैव नियोज्यत्वोपपत्तिः, तस्यानतिप्रसक्तस्य वक्तुमशक्यत्वात्। तथा हि- न तावत्संयोगः, आत्मनो विभुत्वेन सर्वदेहसाधारण्यात्। नापि स्वस्वामिभावः सम्बन्धः, पश्वादिसाधारणत्वात्। नापि साक्षात् स्वस्वामिभावः सम्बन्धः, पश्वादिव्यावृत्तस्य देहादिगतस्वस्वामिभावे साक्षात्त्वस्य वक्तुमशक्यत्वात्। नापीच्छानुविधायित्वम्, आमवातजडीकृते तदभावात्। नापि तदिन्द्रियाश्रयत्वम्, तद्धि तत्सम्बद्धेन्द्रियाश्रयत्वं वा? तज्ज्ञानजनकेन्द्रियाश्रयत्वं वा? नाद्यः, अतिप्रसङ्गात्। न द्वितीयः, ज्ञानपदेन स्वरूपचैतन्योक्तावसम्भवः, अन्तःकरणवृत्त्युक्तौ तेनापि सम्बन्धार्थमध्यासस्यावश्यकत्वात्। तद्वरं देहस्यैवाध्यासिकः सम्बन्ध इत्युच्यताम्। अत एव- साक्षात् प्रयत्नजन्यक्रियाश्रयत्वं वा, तद्भोगायतनत्वं वा, तत्कर्मार्जितत्वं वा सम्बन्ध इति- निरस्तम्, तत्कर्मार्जितत्वस्य पुत्रादिसाधारणत्वाच्च। न च- तत्रादृष्टेन स्वत्वमेवोत्पाद्यते, न तु पुत्रादिरिति- वाच्यम्, ग्रामादिवत् पुत्रस्य सिद्धत्वाभावेन स्वत्वोत्पादनार्थमपि तदुत्पादनस्यावश्यकत्वात्। अन्यथा स्वदेहसुखादिष्वप्यस्यादृष्टेन स्वत्वमेवोत्पाद्यते, न तु स्वदेहादिरित्यपि स्यात्। तथा च पूर्वानुत्पन्नमदृष्टेन स्वत्वसहितमेवात्पाद्यते। पूर्वोत्पन्ने तु स्वत्वमात्रमिति विभागः।

 

                एतेन- श्रुतिस्थं ब्राह्मणपदं किं लक्षणया देहविशेषैक्याध्यासवत्परम्? देहविशेषसम्बन्धपरं वा? सम्बन्धस्तु अन्यस्याभावादैक्याध्यास एव। यद्वा देहविशेषपरम्? आत्मा तदैक्याध्यासात्प्रवर्तत इति। नाद्यः, विधौ लक्षणाया अयोगात्, पुत्रमित्रादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति अध्यासस्वीकारेण ब्राह्मणमित्रस्य शूद्रस्याधिकारप्रसङ्गात्, शूद्रमित्रस्य ब्राह्मणस्यानधिकारप्रसङ्गाच्च। न द्वितीयः, तदिन्द्रियाश्रयत्वादेः सम्बन्धान्तरस्यैव सम्भवात्। न तृतीयः तस्य जडत्वेन नियोज्यत्वासम्भवादिति- निरस्तम्, चरमपक्षे दूषणमनुक्तोपालम्भनम्, प्रथमद्वितीयपक्षयोरेव क्षोदसहत्वेनाङ्गीकारविषयत्वाद्, विधौ लक्षणायाः `गोभिः श्रीणीत मत्सर'मित्यादौ दर्शनात् स्वीयत्वाद्यप्रतिसन्धाननिबन्धनस्य पुत्रमित्रादिव्यावृत्तस्यैव सर्वानुभवसाक्षिकस्याध्यासस्य प्रयोजकतया नोक्तस्थले अतिप्रसङ्गाप्रसङ्गौ। कादाचित्कस्य तादृशाध्यासस्यैव ब्राह्मणपदप्रयोगनिमित्तत्वेन ब्राह्मणो न हन्तव्य इत्यादेः सुषुप्तविषयत्वादिकमपि सङ्गच्छते। तथा जीवन्मुक्तविषयत्वमपि। तस्यावरणशक्तिनिबन्धनाध्यासाभावेऽपि विक्षेपशक्तिनिबन्धनाध्याससम्भवात्। न चैवं कदाचिदध्यासस्य प्रयोजकत्वे महापातकेन नष्टब्राह्मण्यस्याप्यधिकारप्रसङ्गः, तत्र महापातकस्यैवानधिकारप्रयोजकत्वम्, न तु ब्राह्मण्याभावस्य, `पतितो ब्राह्मण'इति व्यवहारेण तदभावस्यैवाभावात्। तथा चोक्तं भाष्ये- `सर्वाणि विधिनिषेधशास्त्राण्यध्यासमूलानी'ति।

 

                प्रमातृत्वाद्यन्यथानुपपत्तिरप्यध्यासे मानम्। कदाचिदध्यासस्यैव प्रयोजकत्वेन सुषुप्तौ तदभावेऽपि ज्ञातृत्वस्य घटादिप्रनाकाले तदभावेऽपि प्रमातृत्वस्य दर्शनात् कथमैक्याध्यासः तत्र प्रयोजक इति निरस्तम्। तदुक्तं भाष्ये- प्रमातृत्वादिकमध्यासमूलमिति। अत एव चार्वाकादीनामनभिसंहितप्रबलागमानुमानादीनां देह एवात्मेति प्रवादः। अन्यथा प्रत्यक्षप्रामाण्यवादिनस्तस्य तादृशव्यवहारानुपपत्तेः। न च- चार्वाकादेरनुमानाभासाज्जाते देहात्मैक्यभ्रमे प्रत्यक्षत्वाभिमान इति- वाच्यम्, प्रत्यक्षेण भेदे गृहीते अनुमानाभासादिनाऽभेदस्य बोधयितुमशक्यत्वात्। तथा च प्रत्यक्ष एवायमैक्यभ्रमः। अत एवाङ्गुल्या देहं प्रदर्श्य वदत्ययमहमिति। अत एव देहात्मैक्यनिषेधकश्रुतिरप्युपपद्यते, अन्यथा तस्याप्रसक्तप्रतिषेधकतापत्तेः। न च कुसमयप्राप्तनिषेधिका सा, प्रत्यक्षविरुद्धकुसमयस्याप्यनवकाशात्। तस्मादाभीरसाधारणाद् `अहं गौर' इत्यादिप्रत्ययादात्मन्यन्तःकरणैक्याध्यासाद् देहतद्धर्माध्यासोऽपीति सिद्धम्।

 

                                इत्यद्वैतसिद्धौ देहात्मैक्याध्यासोपपत्तिः।।

 [/1-2-35]

 

[1-2-36]

                                                अद्वैतसिद्धिः

 

                ननु एवमविद्यायां तन्निबन्धनाध्यासे न सिद्धेऽपि न तस्यामनिर्वचनीयत्वसिद्धिः, लक्षणप्रमाणयोरभावात्। तथा हि- किमिदमनिर्वाच्यत्वम्? (1) न तावन्निरुक्तिविरहः, (2) तन्निमित्तज्ञानविरहो वा, (3) तन्निमित्तार्थविरहो वा, (4) तन्निमित्तसामान्यविरहो वा। आद्ये अनिर्वाच्य इत्यनेनैव निरुक्त्या `इदं रूप्य'मिति निरुक्त्या च व्याघातात्। द्वितीये निरुक्तिरूपफलसत्त्वेन तन्निमित्तविरहस्य वक्तुमशक्यत्वात्। अत एव न तृतीयः, अर्थस्य निरुक्तावनिमित्तत्वाच्च। फलसत्त्वादेव न चतुर्थः। नापि (5) सद्विलक्षणत्वे सत्यसद्विलक्षणत्वम्, सदसद्रूपत्वेऽप्युपपत्तेः। अत एव (6)न सत्त्वराहित्ये सत्यसत्त्वविरहः, तथा च लक्षणासम्भव इति- चेन्न, (1) सद्विलक्षणत्वे सति असद्विलक्षणत्वे सति सदसद्विलक्षणत्वम्, (2) सत्त्वासत्त्वाभ्यां विचारासहत्वे सति सदसत्त्वेन विचारासहत्वं वा, (3) प्रतिपन्नोपाधौ बाध्यत्वं वा इत्यादिलक्षणे निरवद्यत्वसम्भवात्। न च आद्ये सतोऽपि सदन्तरविलक्षणत्वात् सिद्धसाधनमिति- वाच्यम्, सत्त्वावच्छिन्नभेदस्य सन्नेति प्रतीतिप्रयोजकस्य सद्वैलक्षण्यपदार्थत्वात्। न हि सति सदन्तरभेदेऽपि सन्नेति प्रतीतिः, अतो न सिद्धसाधनम्। एवं च सत्त्वरहितत्वे सति असत्त्वरहितत्वे सति सदसत्त्वरहितत्वमपि साधु।

 

                स्यादेतत्- सत्त्वं तावत्(1) सत्ताजातिर्वा? अर्थक्रियाकारित्वं वा? (3) अबाध्यत्वं वा? (4) प्रामाणिकत्वं वा? (5) अशून्यत्वं वा? (6) ब्रह्मत्वं वा? (7) पराङ्गीकृतं वा? नाद्यद्वितीयौ, शुद्धात्मनि सद्वैलक्षण्यस्य प्रपञ्चे सद्वैलक्षण्याभावस्य चापातात्। न तृतीयः, त्वन्मते तुच्छस्याप्यबाध्यत्वेन तत्र सद्वैलक्षण्यस्यानिर्वाच्यत्वस्य बाध्यत्वेनासद्वैलक्षण्यस्य चायोगात्। न चतुर्थः, प्रमा ह्यन्तःकरणवृत्तिः, तद्विषयत्वस्य प्रपञ्चेऽपि सत्त्वेन सद्वैलक्षण्यस्य तत्रासत्त्वप्रसङ्गात्। न पञ्चमः, तस्य प्रपञ्चेऽपि विद्यमानत्वेन तद्वैलक्षण्याभावप्रसङ्गात्। न षष्ठः, तद्वैलक्षण्यस्य जगति सत्त्वेनेष्टापत्तेः। न सप्तमः, पराभ्युपगतस्य सत्त्वस्यासत्त्वविरहरूपत्वेन उभयवैलक्षण्योक्त्ययोगात्। अत एव- एतेषां विरहस्यासत्त्वरूपत्वं- निरस्तम्। अथासत्त्वं निरुपाख्यत्वम्? निःस्वरूपत्वं वा? नाद्यः, असदादिपदेनैव ख्यायमानत्वात्, न द्वितीयः स्वरूपेण निषेधपक्षे शुक्तिरूप्यादेरपि निःस्वरूपत्वेनासद्वैलक्षण्यानुपपत्तेरिति- चेन्न, पराभिमतसत्त्वासत्त्वे एव विवक्षिते, न तु पारिभाषिके अतो न तादृक्सदसद्वैलक्षण्योक्ताविष्टापत्तिः नापि- तयोः परस्परविरुद्धत्वेन एकनिषेधस्यापरविधिपर्यवसन्नतया एकत्रोभयवैलक्षण्यं व्याहतमिति- वाच्यम्, निषेधसमुच्चयस्यातात्त्विकत्वाङ्गीकारात् न व्याहतिः, न ह्यतात्त्विकरजतेन शुक्तेर्विरोधः। न च तर्हि सदादिवैलक्षण्योक्तिः कथम्? तत्तत्प्रतियोगिदुर्निरूपतामात्रप्रकटनाय। न हि स्वरूपतो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवं सम्भवति।

 

                ननु- सत्त्वादिराहित्यस्यातात्त्विकत्वेऽपि सत्त्वादेर्दुर्निरूपत्वमात्रेणानिर्वाच्यत्वे पञ्चमप्रकाराविद्यानिवृत्तौ `नानिर्वाच्योऽपि तत्क्षय' इति अनिर्वाच्यत्वनिषेधायोगः, सत्त्वादिवत्तद्राहित्यस्याप्यतात्त्विकत्वे सत्त्वादौ प्रमाणनिरासेन तद्राहित्ये तदुक्त्ययोगः। अविरोधाय विधिसमुच्चयस्यैवातात्त्विकत्वस्वीकारश्चेति- चेन्न, पञ्चमप्रकाराविद्यानिवृत्तिपक्षे नैतत्त्रतयविलक्षणत्वमात्रमनिर्वाच्यत्वम्, किन्तु मुक्तिकालानवस्थायित्वसहितम्। तथा च मुक्तिकालावस्थायिन्यामविद्यानिवृत्तौ अनिर्वाच्यत्वनिषेधो युज्यते। सत्त्वादिराहित्ये तु अबाधितार्थविषयकप्रमाणोक्तिर्नास्त्येव। ज्ञापकमात्रोक्तिस्तदंशेऽसाधारणी। अतो वादिविप्रतिपत्तिनिरासार्था। अतात्त्विकविधिसमुच्चयापत्तिस्त्विष्टैव। न ह्यतात्त्विकसत्त्वासत्त्वे निषेधसमुच्चयेऽपि विरुध्येते। यत्तु विधिसमुच्चयस्यातात्त्विकत्वपक्षे भ्रान्तिबाधव्यवस्था न स्यादित्युक्तम्, तन्न, अतात्त्विकत्वादेव भ्रान्तेर्बाधस्य सत्त्वप्रतिषेधस्याप्रतिक्षेपात् सत्त्वस्यातात्त्विकत्वाच्च तदुपपत्तेः।

 

                ननु- निषेधसमुच्चयस्यातात्त्विकत्वं किमुभयातात्त्विकत्वाद्वा? एकैकातात्त्विकत्वाद्वा? नाद्यः, उभयतात्त्विकत्ववदुभयातात्त्विकत्वस्यापि विरुद्धत्वात्, विधिसमुच्चयस्य तात्त्विकत्वापाताच्च। एकैकप्रतियोगितात्त्विकत्वापत्तेरेव न द्वितीयोऽपि, तात्त्विकात्यन्ताभावप्रतियोगिन एव अतात्त्विकत्वादिति- चेन्न, उभयातात्त्विकत्वादेव निषेधसमुच्चयस्यातात्त्विकत्वम्। न चोभयतात्त्विकत्ववदुभयातात्त्विकत्वमप्येकत्र विरुद्धम्, वल्मीकादावेकत्र स्थाणुत्वपुरुषत्वयोरतात्त्विकत्वदर्शनात्। न च परस्पर विरहरूपयोरेकत्रोभयोरतात्त्विकत्वं विरुद्धम्, एकत्र तन्त्वादौ घटतत्प्रागभावयोरुभयोरपि अतात्त्विकत्वदर्शनात्। न च प्रतियोगितदत्यन्ताभावयोरेवायं नियमः, नियामकाभावादस्माकमसम्प्रतिपत्तेः। वस्तुतस्तु- सत्त्वासत्त्वयोर्न परस्परविरहरूपत्वम्, किन्तु परस्परविरहव्याप्यतामात्रम्। न च- तादृशपारिभाषिकसदसद्वैलक्षण्योक्तौ नास्माकमनिष्टम् इति- वाच्यम्, सत्त्वमबाध्यत्वम्, असत्त्वं सत्त्वेन प्रतीत्यनर्हत्वम्, तदुभयवैलक्षण्यं च तव जगत्यसम्प्रतिपन्नमिति कथमिष्टापत्त्यवकाशः? इष्टापत्तौ च कथं न मतक्षतिः? अत एव ध्वंसानुपलक्षिततदुपलक्षितसत्तायोगित्वरूपनित्यत्वानित्यत्वयोः सत्ताहीने सामान्यादावभाववदुत्तरावधिराहित्यं नित्यत्वं, भावान्यनिवृत्तिमत्त्वं चानित्यत्वम्, तदुभयाभावः प्रागभाव इव क्वचिद्रूप्यादौ मिथ्याभूते सत्त्वासत्त्वयोरभावः। स्यादित्याहुः, उक्तसत्त्वासत्त्वयोः परस्परविरहव्याप्यत्वेऽपि परस्परविरहानात्मकत्वात्। उक्तनित्यत्वानित्यत्ववत्।

 

                ननु- इदं नित्यत्वानित्यत्वयोर्मिलितयोर्व्यतिरेकः सामान्ये प्रागभावे चास्तीत्युक्तम्, तदयुक्तम्, नित्यत्वस्य सामान्यानुगतध्वंसाप्रतियोगित्वरूपत्वाद्, अनित्यत्वस्य च प्राग्भावानुगततत्प्रतियोगित्वरूपत्वात् प्रागभावस्यापि प्रतियोग्येव ध्वंसः, भावस्यैवाभावो निवृत्तिः, अभावस्य तु भाव एवेति स्वीकारात्। ध्वंसोपलक्षितानुपलक्षितसत्ताराहित्यरूपनित्यत्वानित्यत्वयोः सामान्यादौ भाववदेकत्र सत्त्वासत्त्वे स्यातामित्यपि स्यादिति- चेन्न, न हि वयं दृष्टान्तमात्रेण सत्त्वासत्त्वव्यतिरेकयोरेकत्र स्थितिं ब्रूमः येन ध्वंसोपलक्षितानुपलक्षितसत्ताराहित्यरूपपारिभाषिकनित्यत्वानित्यत्वयोरेकत्र सामान्यादौ सद्भावनिदर्शनेन सत्त्वासत्त्वयारेकत्र सत्त्वमुच्यते, किन्तु प्रमाणैः सिद्धे निषेधसमुच्चये सामान्यादिव्यावृत्तनित्यत्वानित्यत्वयोर्निषेधसमुच्चयं दृष्टान्तयामः। एवं च सामान्याद्यनुगतत्वदुक्तनित्यत्वा- नित्यत्वयोर्निषेधसमुच्चयस्यादृष्टान्तत्वेऽपि न क्षतिः। अत एवोक्तमध्यस्ते नित्यत्वानित्यत्वयोरिव सत्त्वासत्त्वयोरप्यभावौ न विरुद्धौ, धर्मिण एव कल्पितत्वेन विरुद्धयोरपि धर्मयोरभावाद्, इति। न चैवं कल्पितस्यानित्यत्वाभ्युपगमविरोधः, तात्त्विकानित्यत्वाभावेऽपि  धर्मिसमसत्ताकानित्यत्वसत्त्वेनाभ्युपगमे विरोधाभावात्। न च- कल्पितत्वहेतोर्विरुद्धधर्माभावरूपसाध्यस्य च भावाभावाभ्यां व्याघात इति- वाच्यम्, अतात्त्विकहेतुसद्भावेन तात्त्विकधर्माभावस्य साधनेन व्याघाताभावात्। अत एव स्वरूपतो दुर्निरूपस्य न किञ्चिदपि रूपं वास्तवं सम्भवतीति प्राचामुक्तिरपि सङ्गच्छते, व्यावहारिकेणैव दुर्निरूपत्वेन हेतुना व्यावहारिकवास्तवरूपाभावस्य साधनात्। अत एव- दुर्निरूपत्वरूपहेतोर्वास्तवरूपाभावसाध्यस्य चातात्त्विकत्वेऽसिद्धिबाधौ तात्त्विकत्वे व्याघात इति- निरस्तम्, धर्मिसमसत्ताकहेतुसाध्यादिसत्त्वेनासिद्ध्याद्यभावात्, तात्त्विकहेत्वाद्यभावाच्च न व्याघातः। स्वरूपतो दुर्निरूपत्वं च कल्पितत्वमेव।

 

                एतेन- किमिदं स्वरूपतो दुर्निरूपत्वं केनापि प्रकारेण वा? केनापि दुर्निरूपत्वमित्येतदन्यप्रकारेण वा? सत्त्वासत्त्वाभ्यां वा? केनापि दुर्निरूपत्वमित्येतदन्यप्रकारेण वा? सत्त्वासत्त्वाभ्यां वा? नाद्यः, केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण दुर्निरूपत्वादुर्निरूपत्वाभ्यां व्याघातात्। अत एव न द्वितीयः, केनापि प्रकारेण दुर्निरूपत्वादुर्निरूपत्वाभ्यां व्याघातात्। अत एव न द्वितीयः, केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्यप्रकारेण दुर्निरूपत्वस्य केनापि प्रकारेण दुर्निरूपत्वान्यत्वात्, मिथ्यात्वादिना कल्पितस्य सुनिरूपत्वाच्च। न तृतीयः, तस्य सदसद्वैलक्षण्यावास्तवत्वाहेतुत्वादिति- निरस्तम्, तृतीयपक्षस्य क्षोदसहत्वाच्च। तथा हि- सत्त्वासत्त्वाभ्यां दुर्निरूपत्वं हि बाधिततद्‌द्वयकत्वम्। तच्च धर्मविशिष्टधर्म्यतात्त्विकत्वे हेतुः। तथा च सदसद्वैलक्षण्यमपि धर्मस्तदतात्त्विकत्वे कथं न हेतुः स्यात्? न च- एवं कल्पितस्य दृश्यादृश्यबाध्याबाध्यदुर्निरूपसुनिरूपत्वादिबहिर्भावोऽपि स्यादिति वाच्यम्, तात्त्विकदृश्यत्वाद्यशेषधर्मबहिर्भावस्य कल्पिते इष्टत्वात्, अतात्त्विकस्य दृश्यत्वादेर्व्यावहारिकप्रमाणैर्यथायथमङ्गीकृतस्यैवमप्यविरोधात्। अदृश्यत्वादिकं तु व्यावहारिकं नास्त्येव। प्रातिभासिकं चैतदप्यङ्गीकुर्म एव। एवं च तार्किकमते संयोगतदभावयोरिव भट्टमते भेदाभेदयोरिव सत्त्वासत्त्वाभावयोरप्यविरोध एव।  च- एवं सत्त्वासत्त्वयोरपि तद्वदेवाविरोधः स्यादितिवाच्यम्, अतात्त्विकयोरविरोधे इष्टापत्तेः, निषेधसमुच्चयस्यापि तात्विकस्यानङ्गीकारेण तत्साम्येन विधिसमुच्चयस्य तात्त्विकस्यापादयितुमशक्यत्वात्। न च तात्त्विकसंयोगतदभावनिदर्शनबलात्तदापादनायम्, दृष्टान्तेऽपि तात्त्विकत्वासम्प्रतिपत्तेः।

 

                ननु अनिर्वाच्यत्वं सत्त्वासत्त्वादिना विचारासहत्वम्। तच्च न तावत् सत्त्वाद्यनधिकरणत्वम्, असतो ब्रह्मणश्च निधर्मकत्वेन तत्रातिव्याप्तेः। न च- कल्पितसत्त्वाधिकरणत्वं ब्रह्मण्यपीति- वाच्यम्, तस्य जगत्यपि विद्यमानत्वेन तत्राव्याप्तेः। नापि सत्त्वाद्यत्यन्ताभावाधिकरणत्वम्, निर्धर्मकब्रह्मणः सत्त्ववत्तदत्यन्ताभावस्याप्यभावेन तुच्छेऽप्यसत्त्ववत्तदत्यन्ताभावस्याप्यभावेन कथंचिदतिव्याप्तिनिरासेऽपि तुच्छब्रह्मणोर्निर्धर्मकत्वेन धर्मवत्त्वादेरेवानिर्वाच्यत्वलक्षणत्वापातात्, निर्विशेषश्रुत्यापि व्याघातेन धर्ममात्रनिषेधायोगेन ब्रह्मणि सत्त्वराहित्ये तदत्यन्ताभावस्य दुर्वारत्वात्। नापि सद्रूपत्वाद्यभावः, ब्रह्मणः सत्त्वाभावे सद्रूपत्वाभावेन तत्रातिव्याप्तेः। नापि सत्त्वादिना प्रमाणागोचरत्वम्, अखण्डार्थनिष्ठवेदान्तैकवेद्यब्रह्मणोऽपि सत्त्वादिप्रकारकप्रमाणागोचरत्वादिति- चेन्न, सत्त्वादिना विचारासहत्वं सत्त्वाद्यत्यन्ताभावाधिकरणत्वम्। न चातिव्याप्तिः, ब्रह्मणि सत्त्ववत्तदत्यन्ताभावस्याप्यभावाद्, अन्यथा निर्विशेषत्वादिश्रुतिविरोधापत्तेः। न च निर्विशेषत्वरूपविशेषसत्त्वासत्त्वाभ्यां व्याघातेन श्रुतिरन्यपरा, विशेषस्य कल्पितत्वेन तदभावासत्त्वेन तत्सत्त्वाभावेन व्याघाताभावात् स्वाप्नगजतदभाववत्। अत एव- सत्त्वराहित्येऽपि तदत्यन्ताभाव आवश्यक- इत्यपास्तम्।

 

                ननु- एवं विशेषवत्त्वम्, धर्मवत्त्वं वा अनिर्वाच्यत्वमस्त्विति- चेन्न, आस्तां तावदयं सुहृदुपदेशः। उक्तलक्षणस्य निष्पन्नत्वात्। यद्वा- सत्त्वादिना विचारासहत्वं सद्रूपत्वाद्यभावः। सत्त्वरूपधर्माभावेऽपि यथा ब्रह्मणः सद्रूपत्वं तथोपपादितमधस्ताद्, अतो न तत्रातिव्याप्तिः। न च- एवं सदात्मके ब्रह्मणि श्रौतसत्पदादौ लाक्षणिकत्वं न स्यादिति- वाच्यम्, सत्त्वधर्मविशिष्टवाचकस्य तस्य निर्धर्मके लक्षणाया आवश्यकत्वात्। न हि निर्धर्मकस्वरूपवाचकत्वं कस्यचिदपि पदस्यास्ति। ननु- सत्त्वादिराहित्यमतात्त्विकमपि न तावत् प्रातिभासिकम्, रूप्यप्रपञ्चयोर्ब्रह्मवत् पारमार्थिकत्वापत्तेः, नापि धर्मिसमसत्ताकम्, बाधबोध्यस्य भ्रान्तिसिद्धेन साम्यायोगात्। नापि व्यावहारिकम्, जगति व्यावहारिकत्वे रूप्ये प्रातिभासिकत्वे चोक्तदोषात्, रूप्ये व्यावहारिकत्वे च जगति पारमार्थिकत्वापातेनाद्वैतहानिरिति- चेन्न, धर्मिसमसत्ताकस्यैव सत्त्वादिविरहस्येष्टत्वात्। न च बाधबोध्यस्य भ्रान्तिसिद्धेन साम्यायोगः, बाधस्याधिष्ठानमात्रगोचरत्वेन रूप्यवत्तत्सत्त्वविरहस्यापि साक्षिसिद्धतया बाधबोध्यत्वाभावात्। न चैवं सत्त्वप्रतीतिविरोधः, अतात्त्विकस्य तस्याप्यङ्गीकारात्। न च- एवं तात्त्विकसत्त्वविरहस्यैव लक्षणत्वपर्यवसानम्, तात्त्विकत्वं चाबाध्यत्वम्, तथा च बाध्यत्वमेव लक्षणमस्त्विति- वाच्यम्, बाध्यत्वस्यान्यविशेषणत्वेनोपात्तस्य लक्ष्येधर्मिण्यनन्वयेन तन्मात्रमुपादायेतरवैयर्थ्यस्य वक्तुमशक्यत्वात्। न च- श्रुत्या युक्त्या च भेदं निराकुर्वता कथं सदसद्भिन्नत्वरूपं तद्व्याप्तं वाऽनिर्वाच्यत्वं समर्थ्यत इति- वाच्यम्, मा विषीद, अतात्त्विकस्यैव तस्य समर्थनात्, बाध्यत्वं तु मिथ्यात्वनिरूपणसमय एव निरूपितम्। तस्मान्न शुक्तिरूप्यप्रपञ्चसाधारणानिर्वाच्यत्वलक्षणानुपपत्तिः।।

 

                                ।। इत्यद्वैतसिद्धौ अनिर्वाच्यत्वलक्षणम्।।

[/1-2-36]

 

[1-2-37]

                                                अद्वैतसिद्धिः

 

                प्रमाणं च प्रत्यक्षानुमानागमार्थापत्तयः (1) प्रत्यक्षं तावन्मिथ्यैव रजतमभादित्यादि। न च मिथ्याशब्दोऽसत्पर्यायः, वक्ष्यमाणयुक्त्या नृशृङ्गादिसाधारणासत्त्वस्य ख्यायमानरूप्यादौ वक्तुमशक्यत्वात्। न चैतावन्तं कालमसदेव रजतमभादित्यनुभवविरोधः, अनिर्वाच्यत्वैकदेशसत्त्वव्यतिरेकविषयत्वेनैवोपपत्तेः। न चैवं `सत्यं ज्ञानमनन्तं ब्रह्मे'त्यत्रापि सत्यमित्यस्यासत्त्वव्यतिरेकविषयतयैवोपपत्तिः, ब्रह्मणि सद्रूपतायाः प्रागुपपादितत्वेन तस्यासत्त्वव्यतिरेकविषयत्वकल्पनाया अनुचितत्वात्। तथा च ब्रह्मणि सत्प्रत्ययस्य रूप्ये असत्प्रत्ययस्य च सत्त्वासत्त्वयोर्बाधकासत्त्वतत्सत्त्वाभ्यां विशेषेण न प्रसङ्गसाम्यम्।

 

                (2) अनुमानं च- `विमतं सत्त्वरहितत्वे सति असत्त्वरहितत्वे सति सत्त्वासत्त्वरहितम्, बाध्यत्वाद् दोषप्रयुक्तभानत्वाद्वा, यन्नैवं तन्नैवम्, यथा ब्रह्म। न चाप्रसिद्धविशेषणत्वम्, `सत्त्वासत्त्वे, समानाधिकरणात्यन्ताभावप्रतियोगिनी, धर्मत्वाद्रूपरसवत्, सत्त्वमसत्त्वानधिकरणानिष्ठम्, असत्त्वं वा, सत्त्वानधिकरणानिष्ठम्, धर्मत्वाद्रूपवद्' इति सामान्यतस्तत्सिद्धेः। न च साध्यैकदेशसिद्ध्या अंशतः सिद्धसाधनम्, गुणादिकं गुण्यादिना भिन्नाभिन्नम्, समानाधिकृतत्वादित्यत्रेव सिषाधयिषाबलेन सिद्धसाधनविरहस्योपपादितत्वात्। न च सत्त्वासत्त्वयोः परस्परविरहरूपतया साध्यं व्याहतमिति वाच्यम्, अतात्त्विकत्वेन परस्परविरहानात्मकत्वेन च समाहितत्वात्। भेदस्य तात्त्विकस्यैव निरसिष्यमाणत्वेन न तेन विरोधः। न च ब्रह्मवत् सत्त्वराहित्येऽपि सद्रूपत्वेनानिर्वाच्यत्वाभावोपपत्त्या अर्थान्तरम्, सत्त्वरहितस्य प्रपञ्चस्य सद्रूपत्वे मानाभावेन बाधात्। ब्रह्मणि च शून्यतापत्तिरेव सद्रूपत्वे प्रमाणम्। न च विमतं सदसदात्मकम्, बाध्यत्वाद् व्यतिरेकेण ब्रह्मवदित्याभाससाम्यं, विमतमसत् सत्त्वानधिकरणत्वात्, नृशृङ्गवदिति सत्प्रतिपक्षश्चेति वाच्यम्,ख्यातिबाधान्यथानुपपत्तिलक्षणविपक्षबाधकतर्कस्य वक्ष्यमाणत्वेनाभाससाम्यसत्प्रतिपक्षयोरभावात्। न चासदेव रजतमभादिति प्रत्यक्षबाधः, असदित्यस्य सत्त्वाभावविषयकत्वस्योक्तत्वाद्, अन्यथा ख्यात्यनुपपत्तेः। अत एव मिथ्याशब्दोऽप्यसत्पर्याय इति निरस्तम्। न चैवं ब्रह्मण्यपि सत्त्वाभावेनासदिति बुद्धिः स्यात्, निर्धर्मके सत्त्वरूपधर्माभावविषयकप्रतीतेरिष्टत्वात्, तुच्छत्वविषयकप्रतीतेरापादकाभावात्। न चैवमसत्त्वाभावेन जगति सदिति प्रतीत्यापत्तिः, इष्टापत्तेः। न च नृशृङ्गासत्त्वबुद्धितो नास्या वैलक्षण्यमनुभूयत इति वाच्यम्, एतावता तस्या अपि सत्त्वराहित्यविषयकत्वमस्तु न तु तदनुरोधेन एतस्यास्तुच्छत्वविषयकत्वम्, तुच्छत्वे अत्र बाधकसत्त्वात्, समानाकारप्रतीत्योरपि विचित्रविषयकत्वस्य प्रागेव दर्शितत्वाच्च।

 

                यत्तु- सत्त्वासत्त्वविकल्पेषु आद्यद्वितीययोर्जगति सत्त्वराहित्यांशे रूप्यादावसत्त्वराहित्यांशे, तृतीयचतुर्थयोः उभयत्राप्यसत्त्वराहित्यांशे, पञ्चमे तूभयत्र सत्त्वराहित्यांशे, सप्तमेऽप्युक्तन्यायेन उभयत्राप्यसत्त्वराहित्यांशे, एवमेवाबाध्यत्वशून्यत्वे, प्राणाणिकत्वशून्यत्वे च पक्षे बाधः, षष्ठे त्वबाध्यत्वरूपसत्त्वेनाप्युपपत्त्या अर्थान्तरम् इति तन्न, पूर्वोक्तासत्त्वमादायांशतो बाधसिद्धसाधनादेः परिहृतत्वात्। एवं सामान्यतो अनिर्वाच्यत्वसाधकमप्येतदर्थपरतया नेयम्। व्याघातादिपरिहारोऽप्येवमेव।

 

                ननु साध्यप्रसिद्ध्यर्थानुमाने सत्त्वासत्त्वे, `समानाधिकरणात्यन्ताभावप्रतियोगिनी न भवतः, परस्परात्यन्ताभावत्वात्, घटत्वाघटत्ववत्। असत्त्वं, सत्त्वानधिकरणानिष्ठं न, तत्प्रतिषेधरूपत्वात्, यथा अनित्यत्वं, नित्यत्वानधिकरणानिष्ठं न, एवं सत्त्वमपि पक्षीकृत्य प्रयोक्तव्यम्- इति सत्प्रतिपक्षता, परस्परविरहानात्मकत्वं चोपाधिरिति चेन्न, सत्त्वासत्त्वयोः परस्परविरहानात्मकत्वस्योक्तत्वेन हेतोरसिद्धत्वाद्, उपाधेः साधनव्यापकत्वाच्च, ख्यातिबाधान्यथानुपपत्त्या विपक्षबाधकतर्केण उपाधिसत्प्रतिपक्षयोरनवकाशात्।

 

                यत्तु- नित्यानित्यत्वदृष्टान्ते साधनवैकल्यमुक्तं, तदयुक्तम्, परेम ध्वंसाप्रतियोगित्वतत्प्रयोगित्वयोः परस्परविरहरूपयोः नित्यत्वानित्यत्वयोः सविध एवोक्तेः। यत्तु घटत्वाघटत्वे, समानाधिकरणात्यन्ताभावप्रतियोगिनी, धर्मत्वाद् रूपरसवत्, कल्पितत्वमकल्पितत्वानधिकरणानिष्ठम्, धर्मत्वाद्रूपवदिति चाभाससाम्यम्। सद्विलक्षणत्वासद्विलक्षणत्वकल्पितत्वाकल्पितत्वानधिकरणानिष्ठम्, धर्मत्वादूपवदिति चाभाससाम्यम्।

 सद्विलक्षणत्वासद्विलक्षणत्वकल्पितत्वाकल्पितत्वदृश्यत्वादृश्यत्वदुर्निरूपत्वादुर्निरूपत्वादौ प्रथमस्य द्वितीयतृतीययोर्यथाक्रममसद्वैलक्षण्ये सद्वैलक्षण्ये च त्रिष्वपि ज्ञेयत्वव्यवहार्यत्वादौ व्यभिचारश्च इति, तन्न, क्षितिः, सकर्तृका, कार्यत्वात्, घटवदित्यनुमाने अङ्कुरः सकर्तृकः कार्यत्वादित्याभाससाम्यं अङ्कुरादौ व्यभिचारो वा यथा न दोषः, तथा धर्मत्वेन हेतुना समानाधिकरणाभावप्रतियोगित्वं साधयतो मम घटत्वाघटत्वादौ साध्यसत्त्वेन व्यभिचाराभावाद् हेतोश्चानाभासत्वात्। न ह्यविरुद्धधर्मत्वादिकं तादृक्साध्यसत्त्वे प्रयोजकम्, किन्तु धर्मत्वमात्रम्। न हि दृश्यत्वादिधर्माणां कुत्राप्यभावासम्भवः। तदुक्तं- `न हि स्वरूपतो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवं सम्भवती'ति। अत एवात्यन्ताभावप्रतियोगित्वेऽपि न व्यभिचारः। न चात्मनिष्ठात्यन्ताभावप्रतियोगित्वेनार्थान्तरम्, आत्मनो निर्धर्मकत्वेनात्यन्ताभावस्याप्यभावाद्, अनात्मनिष्ठत्वेन विशेषणाद्वा। न चैवं कल्पितत्वमकल्पितत्वानधिकरणानात्मनिष्ठात्यन्ताभावप्रतियोगि, अनात्मनिष्ठात्यन्ताभावप्रतियोगित्वाद्, अकल्पितत्ववदित्याभाससाम्यम्, अस्याः प्रसक्तेरिष्टत्वात्। मिथ्यात्वे यथा मिथ्यात्वसाधकदृश्यत्वादेर्न व्यभिचारः, तथास्यापि वादिविशेषं प्रति एकदेशसाधनेन साध्याप्रसिद्धिशङ्कापि। तथा हि- सत्ख्यातिवादिनं प्रति असद्विलक्षणं विमतं सद्विलक्षणम्, बाध्यत्वात्, शुक्तिरजतसंसर्गवत्। असत्ख्यातिवादिनं प्रति सद्विलक्षणं विमतम्, असद्विलक्षणम्, अपरोक्षधीविषयत्वाद्, घटवत्। पक्षधर्मताबलादनिर्वचनीयत्वसिद्धिः। यथा च सिद्धसाधनव्याघातादिकं, तथोक्तमधस्तात्। एवं प्रपञ्चनिष्ठव्यतिरेकप्रतियोगित्वं, सत्त्वासत्त्वोभयवृत्ति, प्रपञ्चनिष्ठव्यतिरेकप्रतियोगिमात्रवृत्तित्वाद्, व्यवहार्यत्ववत्। सदसदुभयवृत्तित्वं, प्रपञ्चनिष्ठव्यतिरेक- प्रतियोगित्ववृत्ति, सत्त्वासत्त्वोभयवद्वृत्त्यशेषवृत्तित्वात्, भेदप्रतियोगित्ववत्। अप्रयोजकत्व- मनुकूलतर्कोक्त्या निरसिष्यते। तस्मादनुमानमत्र मानम्।।

 

                                इत्यद्वैतसिद्धौ अनिर्वाच्यत्वसाधकानुमानम्।।

[/1-2-37]

 

[1-2-38]

                                                अद्वैतसिद्धिः

 

                %ख्यातिबाधान्यथानुपपत्तिसमर्थनम्% :- अर्थापत्तिरपि ख्यातिबाधान्यथानुपपत्त्यादिरूपा तत्र प्रमाणम्। तथा हि- विमतं रूप्यादि सच्चेन्न बाध्येत, असच्चेन्न प्रतीयेत, बाध्यते प्रतीयतेऽपि, तस्मात् सदसद्विलक्षणत्वादनिवचनीयम्। ननु- सत्ताजात्यर्थक्रियाकारित्वादिकमनङ्गीकारपराहतं त्वन्मते व्यभिचारि च। न च व्यवहारदाशाबाध्यत्वमापाद्यम्, तथा सति `नेह नाने'ति श्रौतनिषेधेन व्यवहारदशायामबाध्यस्य जगतोऽनिर्वचनीयत्वासिद्धिप्रसङ्गाद्, यौक्तिकबाधस्य व्यवहारदशायामपि दशनाच्च। अबाध्यत्वरूपं सत्त्वमापाद्याविशिष्टम्, प्रमाणिकत्वं तु ब्रह्मनिष्ठानिर्विशेषत्वादौ तत्त्वावेदकश्रुतिवेद्ये ब्रह्मभिन्नतया बाध्ये व्यभिचारीति सत्त्वानिरुक्तिः- इति। मैवम्, सत्त्वं ह्यत्र प्रामाणिकत्वम्, प्रामाणत्वं च तत्त्वावेदकत्वम्, तच्च लक्षणया शुद्धब्रह्मबोधकवेदान्तवाक्ये न तु निर्विशेषत्वादिधर्मप्रतिपादके अतो न तत्र व्यभिचारः। न च स्वतः प्रकाशमाने ब्रह्मणि चिन्मात्रे वैयर्थ्येन प्रमाणाप्रवृत्त्या प्रामाणिकत्वाबाध्यत्वयोर्व्याप्तिग्रहो न स्यात्, प्रत्युत ब्रह्मभिन्न एव प्रामाणिकत्वसत्त्वेन तस्य बाध्यत्वेनैव सह व्याप्तिः स्यादिति- वाच्यम्, ब्रह्मणः स्वप्रकाशत्वेऽपि व्यवहारप्रतिबन्धकाज्ञाननिवृत्त्यर्थं प्रमाणप्रवृत्तेः सफलत्वात्। अत एव न बाध्यत्वेन सह प्रामाणिकत्वस्य व्याप्तिः, ब्रह्मणि व्यभिचाराद्विरोधाच्च। न हि तत्त्वमावेदयता वेद्यमतत्त्वं नाम।

 

                ननु- रूप्यादिबाधकस्य तत्त्वावेदकत्वे अद्वैतहानिः अतत्त्वावेदकत्वे तन्निबन्धनं रूप्यादेरप्रामाणिकत्वं न स्यादिति चेन्न बाधकस्यातत्त्वावेदकत्वेऽपि रूप्याद्याप्रमाणिकत्वे प्रयोजकतैव बाध्यान्यूनसत्ताकत्वस्यैव बाधकत्वे तन्त्रत्वात्। अत एव अतत्त्वावेदकव्यावहारिकप्रमाणबाधितस्यापि रूप्यादेरद्वैतवत् स्वतः प्रामाण्यप्रयुक्तपारमार्थिकत्वमस्तु। न चास्य तत्त्वावेदकाद्वैतश्रुतिबाधः, तस्याः भेदश्रुतिवत् प्रत्यक्षप्राप्तव्यावहारिकरूप्यनिषेधानुवादितयोपपत्तेरिति निरस्तम्, अधिकरणानात्मकत्वपक्षे द्वैतनिषेधस्यापि व्यवहारिकत्वोपपादनाच्च।

 

                केचित्तु- सदित्यसत एव विलक्षणमिह विवक्षितम्। न च- असत एवेत्यवधारणस्य सदसद्विलक्षणं न चेदित्यर्थपर्यवसानेन प्रतियोग्यप्रसिद्ध्या आपादकाप्रसिद्धिरिति वाच्यम्, प्रतियोगिप्रसिद्धेरनुमानेन प्रागेव साधितत्वात्। न च सदसद्विलक्षणं न चेदित्यत्र सत् किमिति पूर्वविकल्पप्रसरः, प्रामाणिकत्वरूपसत्त्वे दोषानवकाशात्। न च बाधेनवानिर्वाच्यत्वसिद्ध्या ख्यात्युक्त्ययोगः, तस्या अर्थापत्त्यन्तरत्वात्, आकरे एकत्वोक्तिस्तु प्रयोजनवाक्यादिति कण्ठतस्तात्पर्यतश्चेति- आहुः

 

                यद्वा- अबाध्यत्वमेव सत्त्वम्, न च- तर्ह्यापाद्यावैशिष्ट्यम्, अबाध्यत्वं हि त्रैकालिकनिषेधाप्रतियोगित्वम्। तेन च विपरीतप्रमाविषयत्वाभाव आपाद्यत इति नापाद्यावैशिष्ट्यम्। व्यवहारस्यापाद्यत्वेन वा नापाद्यावैशिष्ट्यम्। न च बाध्यत्वेनैवासद्व्यावृत्तेरपि सिद्ध्या अनिर्वचनीयत्वसिद्धिपर्यवसानेन शेषवैयर्थ्यम्, न प्रतीयेतेत्यत्र विपर्यये दृश्यत्वेनैव सद्वैलक्षण्यसिद्ध्या न बाध्येतेत्युक्तिरप्ययुक्तेति वाच्यम्, बाध्यत्वदृश्यत्वयोरेकैकस्य सदसद्व्यावृत्त्युभयसाधकत्वं यद्यपि सम्भवति तथाप्येकैकस्य एकैकदेशव्याप्यत्वग्रहदशायामुभयोः साफल्याद्, उभयव्याप्यमप्येकैकमेकदेशसाधकत्वेनोपन्यस्यतः प्रति एकैकसाधकत्वस्य दोषावहत्वाभावात्। अर्थापत्तिद्वयं वैतत्, एकत्वोक्तिस्तु असतो बाध्यत्वं सतोऽप्यात्मनो दृश्यत्वमङ्गीकुर्वतः परस्य मते एकैकेन उभयसाधनासम्भवनिबन्धना।

 

                ननु- न बाध्येतेत्यत्र बाधः किं बाधकज्ञानेन निवृत्तिः? त्रैकालिकनिषेधो वा? नाद्य इष्टापत्तिः। द्वितीये असद्विलक्षणत्वपक्षेण बाध्यते चेति विपर्ययापर्यवसानमिति- चेन्न, उभयथाप्यदोषात्। न चाद्य इष्टापत्तिः, ज्ञाननिवर्त्यत्वे श्रुत्यादिसम्मतेरुक्तत्वात्। द्वितीयेऽपि नासद्विलक्षणत्वेन विपर्ययापर्यवसानम्, प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वस्यासत्यसम्भवेनासद्वैलक्षण्यस्यैव विपर्ययपर्यवसानप्रयोजकत्वात्।

 

                असच्चेदित्यत्रापि यद्यप्यसत्त्वं न सत्ताजातिराहित्यम्, सत्ताहीने सामान्यादौ व्यभिचारात्। यत्त्वात्मनि व्यभिचारादित्युक्तं परैः। तन्न, तन्मते आत्मनि सत्तायाः सत्त्वेनापादकस्यैवाभावाद्, अस्मन्मते च तत्र दृश्यत्वस्यैवाभावेनापाद्यस्यैवाभावात्। नापि बाध्यत्वम्, शुक्तिरूप्यादौ व्यभिचारापत्तेः, तथापि निरूपाख्यत्वं निःस्वरूपत्वं वा असत्त्वम्। न च- निरुपाख्यत्वं ख्यात्यभावः तथा चापाद्यावैशिष्ट्यमिति वाच्यम्, निरुपाख्यत्वस्य पदवृत्त्यविषयत्वरूपत्वात्। ननु- निःस्वरूपत्वं स्वरूपेण निषेधप्रतियोगित्वम्, तच्च प्रपञ्चसाधारणमिति तत्र व्यभिचारः, न व पारमार्थिकत्वाकारेण निषेधो न स्वरूपतः प्रपञ्चस्येति वाच्यम्, निर्धमकब्रह्मण्यपि तेन रूपेण निषेधात्तस्यापि मिथ्यात्वापत्तेरिति चेन्न। मिथ्यात्वलक्षणे प्रतिपन्नोपाधाविति विशेषणबलात्तत्र नातिव्याप्तिरित्युक्तत्वात्। यस्मिन्नपि पक्षे प्रपञ्चस्य स्वरूपेण निषेधः, तदा अप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेधप्रतियोगित्वं निःस्वरूपत्वम्। न चैतत् प्रपञ्चेऽस्ति, येन तस्मादसन्न भवतीति विपर्ययपयवसानं न स्यात्।

 ननु न प्रतियेतेत्यत्र प्रतीतिसामान्यविरहस्तावदापाद्यते, तदयुक्तम्, असन्नृशृङ्गमित्यादिवाक्यादसतोऽपि प्रतितेः, अन्यथा असद्वैलक्षण्यज्ञानायोगः, असत्प्रतीतिनिरासायोगश्च, असत्पदस्य अनर्थकत्वे प्रयुक्तपदानां सम्भूय कार्यकारित्वायोगे बोधकत्वानुपपत्तिः, असतोऽसत्त्वेनाप्रतीतौ असद्व्यवहारानुपपत्तिः, तदुक्तम्-

 

                                असद्विलक्षणज्ञप्तौ ज्ञातव्यमसदेव हि।

                                तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते।।

 

                इति- चेन्न, प्रतीत्यभावेऽपि असतो असन्नृशृङ्गमिति विकल्पमात्रेणैव सर्वोपपत्तेः। तदुक्तम्- `शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति। न च- विकल्प इच्छादिवत् ज्ञानान्यवृत्तिर्वा? ज्ञानविशेषो वा? आद्ये अनुभवविरोधप्रतीत्ययोगौ, द्वितीये असतः प्रतीतिरागतैव। वस्तुशून्य इत्यत्रापि किमपि नोल्लिखतीति वा? असदवोल्लिखतीति वा? आद्ये अनुभवविरोधः, द्वितीये इष्टापत्तिरिति वाच्यम्, विकल्पस्य ज्ञानान्यवृत्तित्वे बाधकाभावात्, शशविषाणमनुभवामीत्यप्रत्ययाच्च। वस्तुशून्यता च सोपाख्यधर्मानुल्लेखित्वम्, अतो न कोऽपि दोषः। विकल्पस्य ज्ञानत्वे तु तदन्यज्ञानविषयत्वाभाव आपाद्यः। शुक्तिरूप्यादेरसत्त्वे च प्रतीतिविषयत्वं विकल्पान्यप्रतीति विषयत्वं वानुपपन्नमित्यनिर्वाच्यत्वसिद्धिः। यद्वा- सत्त्वेन प्रतीत्यभाव एवापाद्यः।

 

                ननु- प्रमारूपतादृक्प्रत्ययाभावापादनमिष्टमेव। न ह्यसतः सत्त्वेन प्रतीतिः केन चित् प्रमोच्यते। न च तादृग्भ्रान्तिविरहः तादृक्प्रतीतिसामान्यविरहो वाऽऽपाद्यः येन पुंसा शशे शृङ्गाभावो नावगतः, तस्य गोशृङ्गमस्तीति वाक्यादिव शशशृङ्गमस्तीति वाक्यादपि भ्रान्तिदर्शनात्, न हि घढधषादिशब्दवदत्र पदार्थानुपस्थापकत्वम्, न वा कुण्डमजाजिनमित्यादिवदन्वयाबोधकत्वम्, अयोग्यताज्ञानाभावस्य योग्यताभ्रमस्य वा आकाङ्क्षादिसामग्रीसध्रीचीनस्य सत्त्वाद्, अन्यथा प्रतीत्याद्यभावाप्रसङ्ग इति चेन्न, `इदं रजत'मिति प्रात्यक्षिकभ्रमवद् अस्याप्यनिर्वाच्यविषयत्वात्। न च अस्याप्यनिर्वाच्यत्वे रूप्यात् भेदो न स्यादिति वाच्यम्, को हि अनिर्वाच्यादनिर्वाच्यं भेत्तुमध्यवसितः? यमेवमाक्षिपसि, किन्तु निःस्वरूपात्। यथा च सत्त्वेन न निःस्वरूपविषयत्वं यथोक्तं प्राक्। न चैवं शशशृङ्गादेरनिर्वाच्यत्वे निःस्वरूपत्वोच्छेदः शशशृङ्गमस्तीत्यत्र शशे शृङ्गारोपेण शशीयत्वारोपेण वा अनिर्वाच्यविषयत्वेऽपि `असन्नृशृङ्ग'मित्यादिवाक्यश्रवणसमनन्तरं विकल्प्यमानाखण्डशशशृङ्गादेरनिर्वाच्यानात्मकस्य निःस्वरूपत्वात्। न चात्र निःस्वरूपत्वादिविकल्पः उक्तोत्तरत्वात्। न च- `अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि।' इति त्वन्मते तस्याध्यस्तस्यास्तित्वस्यानिर्वाच्यत्वेऽपि `शशशृङ्गमसदिति वाक्यादिव `शशशृङ्गमस्ती'ति वाक्येऽपि शशशृङ्गशब्देनासत एव प्रतीतिरिति वाच्यम् अस्तित्वस्यानिर्वाच्यत्वेन शशशृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम्। अत्यन्तासच्चानधिष्ठानमिति न शशशृङ्गपदाभ्यां तदुपस्थितिः, दृष्टान्तीकृतवाक्ये तु नानिर्वाच्यं किञ्चिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यात्। अत्यन्तासत्यपि ज्ञानमित्यादि तु अस्त्यादिवदसमभिव्याहृतशशशृङ्गमसदिति वाच्यपरम्। न च- `तद्धैक आहुः असदेवेदमग्र आसी'दिति श्रुत्या असतः सत्त्वेन प्रतीतिरिति वाच्यम्, यथा नानया असतः सत्त्वप्रतिपादनं तथोक्तं मिथ्यात्वलक्षणे।

 

                तार्किकास्तु- शशशृङ्गादिपदानामपार्थकतैवेति वदन्ति। चानन्वयनिश्चयविरहदशायां प्रवृत्तिपर्यन्तानुभवविरोधः, अनन्वयनिश्चयदशायामेवाबोधकतोक्तेस्तद्विरहदशायामपि नाखण्डशशशृङ्गादिबोधकत्वम्, किन्तु सन्मात्रगोचरव्यधिकरणप्रकारकज्ञानं वा, सदुपरागेणासद्गोचरज्ञानं वा। केवलासद्भाने सामग्रीविरहात्। तदुक्तं बौद्धाधिकारे- `सङ्गतिग्रहणाभावात् शशशृङ्गादिपदानामबोधकते'ति। न च यौगिकशब्दानामवयवसङ्गत्यतिरेकेण पृथक्सङ्गत्यनपेक्षत्वम्, अवयवशक्तिप्राधान्येन बोधने अखण्डासद्बोधनस्याशक्तत्वाद्, अवयवानां स्वशक्त्यपुरस्कारेणाप्रत्यायकत्वात्। न हि पाचकादिः पाकादिमबोधयन् बोधयति। नच तर्हि शशशृङ्गमसच्छशशृङ्गं नास्तीत्यादिवाक्यानामबोधकत्वम्, तेषां शशे शृङ्गाभावबोधकत्वात्। एषा तु बोधकता न शशशृङ्गपदमात्रे, किं तु नास्तीतिपदसमभिव्याहृते। अतो न नास्तीति पौनरुक्त्यरूपशङ्काभासाद्यवकाश इति। यद्वा- अपरोक्षप्रतीत्यभाव आपाद्यः। न च यदसत्तन्न प्रतीयत इति व्याप्तिज्ञानस्य प्रत्यक्षमावश्यकम्, अतश्चासतोऽपि प्रत्यक्षत्वम्, अन्यथा असतोऽपि असत्त्वबुद्धिर्न स्यात्, तथा च शशशृङ्गादेः, प्रत्यक्षत्वमेवेति- वाच्यम्, साक्षादित्यनिषेध्यतयेति चापरोक्षप्रतीतिविषयविशेषणात्। उक्तस्थले च ज्ञानविषयतया निषेध्यतया च विषयत्वमिति नास्ति विशिष्टाभावस्यापाद्यस्यासम्भवः। यद्वा- सत्त्वेनापरोक्षप्रतीतिविषयत्वाभाव आपाद्यः। न च इदं रूप्यमित्यादि भ्रान्त्या अत्यन्तासदेव सत्त्वेन प्रतीयत इति वाच्यम्, अत्यन्तासतस्तादृशप्रतीतिविषयत्वे सामग्र्यभावात्। इन्द्रियसन्निकर्षो हि प्रत्यक्षे सामान्यसामग्री, न चासति सोऽस्ति। न च प्रातिभासिकत्वपक्षे रूप्यादेः प्रतीतिपूर्वकालेऽसत्त्वेन कथं सन्निकर्षरूपप्रत्यक्षसामग्रीसम्भव इति वाच्यम्, अस्मिन्मते ज्ञातैकसति रूप्यादौ साक्ष्यपरोक्षे अज्ञाननाशकान्तःकरणवृत्तिप्रयोजकसन्निकर्षानुपयोगात्। न हि तवापीश्वरसाधारणप्रत्यक्षमात्रे सन्निकर्षो हेतुः। न च प्रमायां निर्दुष्टेन्द्रियसन्निकर्षो हेतुः, न तु भ्रमे, स हि दोषसहितेन्द्रियादेव भविष्यतीति वाच्यम्, सन्निकर्षो हि इन्द्रियवत्सामान्यसामग्री, तदनपेक्षस्येन्द्रियस्याजनकत्वमित्युक्तत्वात्। न च तर्हि शाब्दबोधसामान्यसामग्र्या योग्यताज्ञानादेरभावात् कथं परोक्षविकल्पः स्यात्? अयोग्यताज्ञानविरहो हि सामान्यसामग्री, न तु योग्यताज्ञानम्, असंसर्गाग्रहरूपायोग्यताज्ञानविरहस्य विशिष्टज्ञाने आवश्यकत्वात्। स चासद्वोधके वाक्येऽस्त्येव। न हि शशशृङ्गे असत्त्वं नास्तीति जानानः शशशृङ्गमसदित्यवगच्छति। एतन्निबन्धन एवापरोक्षप्रतीतौ प्रद्वेषः।

 

                एतेन सन्मात्राविषयकापरोक्षज्ञानमसद्विषयकम्, सत्त्वानधिकरणविषयकप्रतीतित्वादसद्विषयकपरोक्षप्रतीतिवत्। न च अत्र प्रातिभासिकसाधारणसद्विवक्षायामाश्रयासिद्धिः। परमार्थसद्विवक्षायां मात्रपदवैयर्थ्यमिति वाच्यम्, भ्रममात्रस्यैवाधिष्ठानीभूतपरमार्थसद्विषयतया मात्रपदं विना आश्रयासिद्धेर्दुष्परिहरत्वादिति निरस्तम्, सामग्रीविरहेण बाधात्, शाब्दत्वस्योपाधित्वाद्, धर्मादिकमपरोक्षप्रतीतिविषयः प्रतीतिविषयत्वादित्याद्याभाससाम्याच्च। किञ्चासतो रूप्यस्यापरोक्षप्रतीतिविषयत्वे शशशृङ्गादेरप्यपरोक्षप्रतीतिविषयत्वं स्याद्, विशेषाभावात्, सविशेषत्वे असत्त्वव्याकोपात्।

 

                ननु- सदसतोः सत्ता निःस्वरूपत्वादिनैव नृशृङ्गशशशृङ्गादीनामपि परस्परं नृशृङ्गशशशृङ्गादिशब्दैरेव परोक्षप्रतीतिव्यवहारविषयत्वादेर्विशेषस्यासत्त्वाविरोधिनो बुद्धिसिद्धस्य सम्भवः। न च सर्वसामर्थ्यहीनस्यासतः सता ज्ञानेन कथं सम्बन्धः? विषयत्वस्य तत्र वक्तुमशक्यत्वाद्, भाति प्रतीयत इत्यादिकर्तृकर्मत्वादिविरोधाच्चेति वाच्यम्, अतीतादेः स्मृत्यनुमित्यादिविषयत्वादिवदुपपत्तेः। न च तत्र प्रतीत्यादेरेव विषयत्वम्, तावतैव तत्र विषयताव्यवहार इति- वाच्यम्, समं ममापीति चेत्, मैवम्, शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशब्देनेव शशशृङ्गशब्देनापि नृशृङ्गस्य प्रतीयमानत्वेन नृशृङ्गादिशब्दैरेव प्रतीयमानत्वादेरपि परस्परविशेषस्य वक्तुमशक्यत्वात्। न च दुष्टेन्द्रियादे रूप्यसंस्कारसाचिव्यवच्छशशृङ्गसंस्कारसाचिव्याभावात् तस्यापरोक्षभ्रमाविषयत्वम्, अन्यथा तवाप्यनिर्वाच्यान्तरमेव तत्र कथं नोत्पद्येतेति वाच्यम्, संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोगः, स्मृतित्वापत्तेः, कित्वर्थोत्पत्तिद्वारा। तथा च संस्कारनियामकतापि अनिर्वाच्यतापक्ष एव न त्वसद्विषयतापक्षे। वस्तुतस्तु संस्कारस्तावत् तात्त्विकरजतादिगोचर एव प्राथमिकरजतादिभ्रमे प्रयोजकः सर्वमते, स चासद्रूप्यशशशृङ्गादिसर्वसाधारण एव, तदविषयत्वाविशेषात्। तथा च कथं स नियामको भवतु?

 

                %प्रवृत्तिविषयत्वान्यथानुपपत्तिः।% एवं प्रवृत्तिविषयत्वान्यथानुपपत्तिरपि प्रमाणम्। इदमंशस्यासद्रूप्यात्मना प्रतीतौ सामग्रीविरहस्योपपादनात्। ननु- अनिदं रूपे प्रातिभासिके यदिदंत्वं व्यावहारिकसत्त्वं च तद्‌द्वयं न तावत् सद् अद्वैतव्याकोपात्, नाप्यनिर्वाच्यम्, तथा सति तस्यासद्वैलक्षण्यार्थ प्रातिभासिकत्वाय सत्त्वेन प्रतीत्या भाव्यम्। एवं च तदपि सत्त्वमनिर्वाच्यं चेत्, तस्यापि सत्त्वेन प्रतीत्या भाव्यमित्यनवस्था, तथा च तयोरसत्त्वं वाच्यम्। तदुक्तम्- अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते।

 

                                सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता।।

                                तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः। इति।

 

टीकायामपि इदंत्वसत्त्वयोः सत्त्वायोगादनिर्वाच्यत्वे इदंत्वेन रूप्यावगाहि तदप्रतीतौ प्रवृत्त्ययोगात् सत्त्वेन भाने च तस्मिन्नपि सत्त्वादिविकल्पप्रसरेणानवस्थानादिदंत्वव्यावहारिकसत्त्वयोरसत्त्वमित्युक्तमिति चेन्न, तयोरसत्त्वे अपरोक्षप्रतीतिविषयत्वे सामग्र्यभावादेर्बाधकस्योक्तत्वाद् अनिर्वाच्यत्वमेव। न च तथा सत्त्वेन प्रतीत्या भाव्यम्, इष्टापत्तेः। न चैवमनवस्था, सत्त्वस्य सदिति प्रतीतावतिरिक्तसत्त्वस्यानपेक्षणात्, अन्यथा त्वत्पक्षेऽप्यसति रूप्ये यत्सत्वं प्रतीयते तस्य सत्त्वायोगात् असत्त्वे च तथैव प्रतीतौ प्रवृत्त्यनुपपत्तिः, सत्त्वेन प्रतीतावनवस्था च स्यात्।

 

                न च- सत्त्वे सत्त्वासत्त्वयोरौदासीन्येऽपि असतः सत्त्वेन प्रतीत्या प्रवृत्त्युपपत्तेः असति प्रतीतस्य सत्त्वस्य सत्त्वेनाप्रतीतावपि असत्त्वसिद्धेश्च नास्माकं काप्यनुपपत्तिः, तव तु रूप्यादिसत्त्वस्य सत्त्वेनाप्रतीतौ प्रवृत्त्युपपत्तावपि प्रातिभासिकत्वानुपपत्तिरिति- वाच्यम्, एवं हि तत्सत्वं स्वरूपतो न सत्, तुच्छत्वाद्, विज्ञानतोऽपि न सत्, सत्त्वेनाप्रतीतेः। तथा च असति कथं तन्निबन्धनो व्यवहारः। न च प्रतिभासकाले सत्त्वे स्वरूपतो निषेधप्रतियोगित्वं न स्यात्, पारमार्थिकत्वेन निषेधप्रतियोगित्वे अनवस्थैवेत्यसत्त्वमेव रूप्यादीनामिति वाच्यम्, प्रतीतिकाले सत्त्वेऽपि स्वरूपतो निषेधस्य पारमार्थिकत्वेन निषेधेऽप्यनवस्थापरिहारस्य चोक्तत्वात्। नापि प्रत्येकात्मकत्वे अनुपपत्त्या उभयात्मकतैवास्त्विति वाच्यम्, दत्तोत्तरत्वाद्, भ्रमत्वानुपपत्तेश्च। न चानिर्वाच्यविषयत्वेन यथा तव मते भ्रमत्वं, तथा सदसदात्मकत्वे यत् सत्त्वं तद्विषयत्वेन भ्रमत्वमस्तु, एवं तर्हि `सच्चासच्च रजत'मित्याकारताया दुर्निवारत्वापत्तेः। न च असदेव रूप्यमिति बाधस्य सद्वैलक्षण्यविषयत्ववत् सद्रजतमिति भ्रमस्याप्यसद्वैलक्षण्यमेव विषयोऽस्तु, तथा च प्रातीतिकमपि सत्त्वं मास्त्विति- वाच्यम्, तथा सति बाधेन भ्रमविषयसत्त्वानपहारे बाधकत्वव्यवहारोच्छेदप्रसङ्गाद्, अगृहीतासत्त्वस्यापि इदं रजतं सदिति प्रतितेश्च। न हि पुनरगृहीतसत्त्वस्यासद्रूप्यमभादिति प्रत्ययः बाधस्य प्रसक्तिपूर्वकत्वात्।

 

                ननु- असद्विलक्षणं चेन्न बाध्येत, सद्विलक्षणं चेन्न प्रतीयेत, अतोऽनुपपत्त्या अनिर्वाच्यत्वाभाव एव किं न सिध्येत्, न च- बाधाप्रतीत्योर्लाघवात् सत्त्वासत्त्वे प्रयोजके, न त्वसद्वलक्षण्यसद्वैलक्षण्ये, गौरवादिति वाच्यम्, बाधप्रतीत्योरेव प्रथमोपस्थितयोः प्रयोजकजिज्ञासायामसत्त्वसत्त्वयोः प्रयोजकत्वं कल्प्यते, लाघवात्, प्रथमोपस्थितत्वाच्च, न तु सद्विलक्षणत्वादेः गौरवात्, चरमोपस्थितत्वाच्च। तदनन्तरं च भानप्रयोजकाभावादेवाभानोपपत्तौ न प्रयोजकान्तरकल्पना। नृशृङ्गादेरसत्त्वेऽपि न बाधः, प्रसक्त्यभावादिति- चेत्, मैवम्, सत्त्वं न तावत् प्रतीतिप्रयोजकम्, रूप्यस्य उभयमतेऽप्यप्रतीत्यापत्तेः, नाप्यसत्त्वं बाधप्रयोजकम्, उभयमतसिद्धासति बाधादर्शनात्, रूप्ये चासत्त्वस्याद्याप्यसिद्धेः, प्रत्युतासत्त्वेऽनुपपत्तेर्वक्ष्यमाणत्वात् गौरवं प्रामाणिकम्। तस्मात् सिद्धं ख्यातिबाधान्यथानुपपत्त्या अनिर्वाच्यत्वमिति।

 

                                इत्यद्वैतसिद्धौ ख्यातिबाधान्यथानुपपत्तिः।

[/1-2-38]

 

 

[1-2-39]

                                                अद्वैतसिद्धिः

 

                केचित्तु बाध्यत्वं सत्यसति चानुपपन्नमिति अनिर्वाच्यत्वमिति आहुः। न च अतीते तत्कालासति ध्वंसप्रतियोगित्ववत् सर्वदा असत्यप्यत्यन्ताभावप्रतियोगित्वं स्यात्, तथा च बाध्यत्वं नात्यन्तासत्त्वविरोधीति वाच्यम्; कालान्तरसत्तायाः कालान्तरसत्तां प्रत्यनुपयोगेऽपि विद्यमानतादशायामेव घटादौ ध्वंसप्रतियोगात्वम्; `अनित्यो घटो स्ती'ति प्रतीतेः न तु ध्वंसादिकाले घटे ध्वंसप्रतियोगित्वम्; तदानीं घटादीनामेवाभावात्। न च तर्हि घटो न ध्वंसप्रतियोगीति प्रत्ययः स्यात्; न, रूपवानित्यस्यापि प्रसङ्गात्। अथ यावत्सत्त्वं रूपसत्त्वान्नैवम्, समं प्रकृतेऽपि। वस्तुतस्तु, ध्वंसकालेऽपि घटो ध्वस्तः इति ध्वंसप्रतियोगिता घटे प्रतीयत एव। तथा चानिर्वाच्यत्वेऽपि प्रतियोगित्वादिकमनुपपन्नमेवेति- चेत्, सत्यम्, सत्त्वमेव यत्किञ्चित्कालाबाध्यत्वरूपं तत्र प्रयोजकम्, न तु त्रिकालाबाध्यत्वरूपम्; गौरवात्। न च तर्हि कथं सति बाध्यत्वमनुपपन्नम्; न सन्मात्रे, किन्तु परमार्थसतीत्यवेहि। तथा चानिर्वाच्यतापक्षे नानुपपत्तिः। न च तर्हि कथमसद्वैलक्षण्यप्रतियोगित्वमसति कथं वा नासदासीदिति श्रौतनिषेधः। असत्त्वं तावन्निस्वःरूपत्वम्। तद्वैलक्षण्यं सत्स्वरूपत्वं तच्च निष्प्रतियोगिकमेव। श्रुत्यर्थोऽपि तदेव। तथा च नास्ति प्रतियोगित्वप्रतिपत्तिः। न च शशशृङ्गं नास्तीति प्रत्यक्षत एवासति निषेधप्रतियोगित्वमनुभूयत इति- वाच्यम्, योग्यानुपलब्धिस्तावदभावग्राहिका। योग्यता च शशशृङ्गादीनां दोषघटिता वाच्या। तस्यां नानुपलम्भः। अनुपलम्भे च न सेति योग्यानुपलब्धेरसम्भवात्। तदुक्तं-

 

                                दुष्टोपलम्भसामग्री शशशृंगादियोग्यता।

                                तस्यां नानुपलम्भोऽस्ति नास्ति सानुपलम्भन।। इति।

 

                न च- प्रतियोगिसत्त्वविरोध्यनुपलब्धिरेव तद्‌ग्राहिका, सा च प्रकृतेऽस्त्येवेति वाच्यम्, स्तम्भात्मनि योग्यत्वप्रतिसद्ध्या पिशाच उपलम्भापादनं सम्भवति। शशशृङ्गास्तित्वं न योग्यतया व्याप्तम्। यद्वलात्तेन उपलम्भ आपाद्येत। तथा च नात्रप्रतियोगिसत्त्वविरोधिनी अनुपलब्धिः। अत एव पिशाचादीनां भेदः प्रत्यक्षः नात्यन्ताभावः। न च शृङ्गादिकं योग्यतया व्याप्तमेवेति वाच्यम्, तावता हि शृङ्गाभाव एव योग्यानुपलब्धिसम्भवः, न त्वलीकाभावे। एवञ्च शशशृङ्ग नास्तीत्युल्लिखन्त्या अपि बुद्धेः शशे शृङ्गाभाव एव विषयः। गवि शशशृंगं नास्तीस्यस्या अपि गवाधिकरणकशृङ्गेशशीयत्वाभावो विषयः, अनन्यगतिकत्वात्। अत एव गोरनन्वयोऽपि नास्ति, शशशृङ्गादेरुपस्थित्यभावात् न तदभावग्रह इति तार्किकरीत्या उक्तत्वाच्च। अत एव सप्तम पदार्थत्वनिषेधस्यासम्भवात् पदार्थाः। षडेवेत्यत्र कुसृष्टिव्याख्यानम्।

 

                न च `घटो नास्तीति बुद्धेर्घटसंसर्गाभाव एव विषयः, न तु घटाभावः, पूर्वं तत्र घटस्य सत्त्वेन तदत्यन्ताभावस्याभावात्, प्राक्प्रध्वंसाभावयोः प्रतियोगिकाले असम्भावितत्वाद् भेदस्य घटापसरणानपसरणयास्तुल्यत्वात्, संसर्गोऽपि न तात्त्विकः, प्रतियोगिनि पूर्वपद् ध्वंसाद्यनुपपत्तेः, किन्तु असन् संसर्ग इति वाच्यम्, उक्तमत्रोदयनाचार्यैः- यन्निबन्धना हि यत्प्रतीतिः तदभावनिबन्धनैव तदभावप्रतीतिः। इह च घटास्तित्वप्रतीतिः संयोगनिबन्धना, तदभावप्रतीतिः संयोगाभावनिबन्धनैव। स च संयोगस्तात्त्विक एव। न च ध्वंसादिविकल्पः, घटानयनात् प्राक् संयोगप्रागभावस्य घटे अपसारिते संयोगध्वंसस्य सत्त्वात्। न हि घटे अन्यत्र नीते तद्देशे घटसंयोगोऽस्ति, येन प्रागभावादिर्व्याहन्येत। तथा च संसर्गप्रतियोगिकाभावस्वीकारेऽपि नासत्प्रतियोगिकाभावासिद्धिः।

 

                वस्तुतस्तु- घटप्रतियोगिकत्वेनैवाभावस्यानुभवान्नायं संयोगप्रतियोगिको भवितुमर्हति। एवं च सति (1) कालविशेषसंसर्ग्यत्यन्ताभावो वा (2) उत्पादविनाशशीलः तुरीयः संसर्गाभावो वा (3) भूतलादिसंयुक्तस्य घटस्य विशेषणाभावप्रयुक्तविशिष्टाभावो वा अङ्गीकरणीयः। न च- अत्राद्य ध्वंसादरुच्छदः कपालेऽपि घटान्यकालसंसर्गिणैवात्यन्ताभावेन तद्व्यवहारोपपत्तिरिति वाच्यम्, `दण्डी गौरश्चलतीति विलक्षणव्यवहारत्रये द्रव्यगुणकर्माणि विलक्षणानि हेतुर्यथा, तत्रात्रापि नास्ति नष्टो भविष्यतीति विलक्षणव्यवहारत्रयस्यैकेनात्यन्ताभावेनोपपादयितुमशक्यत्वाद्विलक्षणाभावत्रयसिद्धिः। समयविशेषसंसर्गश्च तत्समयावच्छिन्नं स्वरूपमेव संयोगध्वंसादिर्वा। न च संयोगादिध्वंसादिनैवावश्यकेन तर्हि प्रतीत्युपपत्तिरिति वाच्यम्, घटप्रतियोगिकत्वेनानुभवानुपपत्तेरुक्तत्वात्। न च कपालेऽपि घटध्वंसादिः सम्बन्धस्थानीयोऽस्तु, एक एवात्यन्ताभावो व्यवहारयत्विति वाच्यम्, विलक्षणव्यवहारत्रयानुपपत्त्या दत्तोत्तरत्वात्। अत एव द्वितीयतृतीयपक्षावपि क्षोदसहौ, घटप्रतियोगिकत्वानुभवस्यान्यथा उपपादयितुमशक्यत्वात्। एतेन दण्डसत्त्वेऽपि पुरुषासत्त्वाद्दण्ड्यभावदर्शनादस्तु तत्र विशिष्टाभावः, न चात्र संयोगसत्त्वे संयोग्यभावो दृष्टः, तथा च न विशिष्टस्याभावः, किन्तु विशेषणस्यैवेति निरस्तम्, संयोगिप्रतियोगिकत्वेनानुभवात्। संविदेव हि भगवती वस्तूपगमे शरणमिति। तस्मान्निषेधप्रतियोगित्वान्यथानुपपत्त्यापि अनिर्वाच्यत्वसिद्धिः। इत्यद्वैतसिद्धौ निषेधप्रतियोगित्वानुपपत्त्याऽनिर्वचनीयत्वसमर्थनम्।

               

[/1-2-39]

 

[1-2-40]

                                                अद्वैतसिद्धिः

 

                `नासदासीन्नो सदासी' दित्यादिश्रुतयोऽप्यनिर्वाच्यत्वे प्रमाणम्। न च अत्र सदसच्छब्दौ पञ्चभूतपरौ, `न सत्तन्नासदुच्यत' इत्यादौ भूते प्रयोगाद्, `यदन्यद्वायोरन्तरिक्षाच्चैतत् सद्वायुरन्तरिक्षं चेत्यस'दिति श्रुतेश्चेति वाच्यम्, प्रसिद्धपरत्वे सम्भवति अप्रसिद्धपरताया अयुक्तत्वात्। न हि भूते सदसच्छब्दौ प्रसिद्धौ, किन्तु पारमार्थिकापारमार्थिकयोरेव। न च `नासदासी'दित्यत्राप्रसिद्धप्रतिषेधापत्तिः, नो सदासी'दित्यनेन सद्भिन्नत्वे उक्ते असत्त्वस्यापि प्रसक्तेः।न च तदानीमित्यस्य वैयर्थ्यम् `नासीद्रजो नो व्योमे'ति रजोनिषेधादावेव तदन्वयात्। न हि रजःप्रभृतीनां सर्वदा अनस्तित्वम्। न च `नो सदासी' दित्यनेनैव रजःप्रभृतिनिषेधे सिद्धे पृथङ्‌निषेधानुपपत्तिः, `नो सदासी' दित्यत्र सच्छब्दस्य परमार्थसत्परत्वेन व्यावहारिकसतो रजःप्रभृतेर्निषेधस्य ततः प्राप्त्यभावात्। आनीदवातं स्वधया तदेकमिति वाक्यशेषाद् ब्रह्मणोऽपि अनिर्वाच्यत्वप्रसङ्गः `तम आसी' दिति वाक्याद् अविद्याया इवेति चेत्, श्रुत्यन्तराविरोधाय सदेकं ब्रह्म सदासीन्न सदसद्विलक्षणमित्यर्थपर्यवसानात्।

 

                इति अद्वैतसिद्धौ नासदासीदित्यादिश्रुत्यर्थापत्तिः।

[/1-2-40]

 

[1-2-41]

                                                अद्वैतसिद्धिः

 

                %असत्ख्यातिभङ्गः% तस्मादनिर्वाच्यख्यातिरेव प्रमाणसम्भवात्, न त्वसदन्यथाख्यातिः, प्रमाणविरहात्। न चासद्भाने असदेव रजतभादिति प्रत्यक्षं मानम्, अनन्तरोक्तबाधकेन सद्वैलक्षण्यविषयकत्वात्। न चेदं प्रत्यक्षमपि, त्वयापि हि असदात्मना सतः प्रत्यक्षत्वमङ्गीक्रियते। न चात्र पूर्वकालीनभानविषये रजते असत्त्वमिति ज्ञानम् असदात्मना सद्विषयीकरोति।

 

                न च `विमतमसत्, सत्त्वानधिकरणत्वात्, शशशृङ्गवत्। विमता अप्रमा असद्विषयिणी, सत्त्वानधिकरणविषयकत्वात्, सन्मात्रविषयकत्वे सति सविषयकत्वात्, नृशृङ्गमसदित्यादिवाक्यजन्यपरोक्षवदिति'- अनुमानं तत्र मानम्। पूर्वोक्तयुक्त्या तत्र बाधात्। प्रथमानुमाने शब्दैकसमधिगम्यत्वस्य द्वितीयतृतीययोः परोक्षत्वस्योपाधित्वाच्च। किञ्चासत्ख्यात्यङ्गीकारेण बौद्धमतप्रवेशापत्तिः। न च सदुपरागो विशेषः, तथाप्यसत्ख्यात्यापत्तेः तदवस्थत्वात्। न च- तार्किकैरपि असतः संसर्गस्य भानाङ्गीकारेण तेषामप्येवमापाद्येतेति वाच्यम्, तथाङ्गीकारे तेषामपि तथैव। वस्तुतस्तु- तेषामपि सत्संसर्गभान एव निर्भरता। शुक्ती रूप्यं तत्तादात्म्यं चेत्यतोऽन्यस्य रजतभ्रमे अविषयत्वात्, तेषां च सत्यत्वात्। न च तर्हि भ्रमत्वानुपपत्तिः, व्यधिकरणप्रकारकत्वेन तत्त्वात्। न च रजतप्रतियोगिकसंसर्गस्य शुक्त्यनिष्ठत्वादसत्संसर्गभानं विना व्यधिकरणप्रकारकत्वमेव न स्यादिति वाच्यम्, तत्किमायुप्मन्नसत्संसर्गः शुक्तिनिष्ठः, येन तद्विषयत्वं व्यधिकरणप्रकारकत्वाय अङ्गीकुरुषे? तस्माद् भासमानवैशिष्ट्यप्रतियोगित्वं न प्रकारत्वम्, किन्तु ज्ञानविषययोः, स्वरूपसम्बन्धविशेषः। स च स्वरूपसम्बन्धः सन् वा संसर्गो भासतामसन्वा, उभयथापि समान एव। न च शशशृङ्गमसदित्यादिवाक्यैरसत्यपि परोक्षप्रतीतेस्त्वयाङ्गीकारेण तवाप्यसत्ख्यात्यापत्तिः, तत्र हि न प्रतीतिः, किन्तु विकल्पमात्रमित्युक्तत्वात्। तस्मान्नासत्ख्यातिः। इत्यसत्ख्यातिभङ्गः।

 

%अन्यथाख्यातिभङ्गः-% नाप्यन्यत्र स्थितस्य रूप्यस्य भानादन्यथाख्यातिः, अत्यन्तासतइवान्यत्र सतोऽप्यपरोक्षप्रतीतिप्रयोजकसन्निकर्षानुपपत्तेस्तुल्यत्वात्। न च संस्कारस्मृतिदोषाणां प्रत्यासत्तित्वम्, रजतप्रत्यक्षमात्रे रजतसंयोगत्वेन कारणत्वावधारणात्, सन्निकर्षान्तरसत्त्वेऽपि तदभावे रजतप्रत्यक्षोत्पत्तेर्वक्तुमशक्यत्वात्। न च लौकिकप्रमारूपप्रत्यक्षएवतस्य कारणत्वम्, अस्य विभागस्य स्वशिष्यानेव प्रत्युचितत्वात्, गौरवकरत्वात्, निर्विकल्पकसाधारण्याभावाच्च। रजतेन्द्रियसन्निकर्षजस्य रजते रजतत्वप्रकारकज्ञानस्य भ्रमत्वानुपपत्तेः। `इमे रङ्गरजते' इति भ्रमे विद्यमानोऽपि रजतसन्निकर्षो जनको न भवति, अनुमिताविव क्वचिद्विद्यमानोऽपि विषयः। अथानुमितेर्विषयजन्यत्वे प्रत्यक्षत्वापत्तिः, अतीते अनागते च विषये अनुमितिर्न स्यादिति बाधकम्, रजतप्रत्यक्षस्य रजतसन्निकर्षजन्यत्वे प्रमात्वापत्तिः, असन्निकर्षे च तत्प्रत्यक्षं न स्यादिति बाधकं प्रकृतेऽपि तुल्यम्। यदि तु दोषमहिम्ना रजतसन्निकर्षस्य रङ्गज्ञानांशे जनकत्वम्, रङ्गसन्निकर्षस्य च रजतज्ञानांशे, तदा रजतज्ञानांशे तत्सन्निकर्षाजन्यत्वात् प्रमात्वाभाववत् प्रत्यक्षत्वाभावोऽपि स्यात्। तस्मात् `इमे' इत्येवेन्द्रियजन्यम्, `रङ्गरजते' इति तु स्मृतिरूपमविद्यावृत्त्यात्मकमनिर्वचनीयत्वादित्यन्यत्र विस्तरः। इत्यन्यथाख्यातिभङ्गः।

[/1-2-41]

 

[1-2-42]

                                                अद्वैतसिद्धिः

 

                तच्चानिर्वचनीयमज्ञानोपादानकम्, तत्त्वज्ञानेन नाश्यं च। ननु- एवं `रूप्यमुत्पन्नं नष्टं चे'ति धीप्रसङ्गः, त्रैकालिकनिषेधप्रतीतिश्च न स्यादिति चेन्न, उत्पादविनाशप्रतीतिरियं भ्रान्तिसमये आपाद्यते? बाधसमये वा? नाद्यः, पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव तत्र प्रतिबन्धकत्वाद्, विरोधिज्ञानानुदयेन रूप्यस्याविनाशाच्च। न द्वितीय, अत्यन्ताभावग्रहस्यैव प्रतियोगिग्रह इव तदुत्पादविनाशग्रहेऽपि प्रतिबन्धकत्वात्। न हि कुत्रापि कदापि अत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीतिरस्ति। न च त्रयाणां सत्त्वे कथमत्यन्ताभावबुद्ध्या विनाशबुद्धिप्रतिबन्धः? विनाशबुद्ध्यैवात्यन्ताभावबुद्धिः किमिति न प्रतिबध्यते? नियामकाभावादिति वाच्यम्, फलबलेनात्यन्ताभावधीसामग्र्या एव बलवत्त्वेन तस्यैव विनिगमकत्वात्। न च तर्हि उत्पादाद्यधिकरणे अत्यन्ताभावः कथम्? प्रतीतिमुपलभस्व, यथा अपरोक्षप्रतीत्याद्यन्यथानुपपत्त्या सिद्धोत्पादादिकस्य त्रैकालिकनिषेधप्रतियोगित्वं विषयीक्रियते।

 

                यद्वा- न स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वम्, किन्तु पारमार्थिकत्वाकारेण। न च पारमार्थिकसत्त्वस्यापि प्रतिभाससमये प्रतीतत्वेन न त्रैकालिकनिषेधप्रतियोगित्वं सम्भवति रजतप्रतियोगित्वेनानुभवविरोधश्चेति वाच्यम्, प्रतीतिकालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तत् निषिध्यते, किंत्वन्यत्र वृत्त्येवेति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वेऽनुभवविरोधोऽपि। ननु यद्यपि प्रसक्तिर्ज्ञानम्, सा च स्मृतिरूपा पारमार्थिकत्वस्यास्त्येव तथापि निषेध्यताप्रयोजकपारमार्थिकत्वाकारेण प्रातिभासिकस्य प्रसक्तिर्नास्तीति चेन्न। व्यधिकरणधर्मावच्छिन्नप्रतियोगिको ह्ययमभावः, तत्प्रतीतौ च न विशिष्टप्रसक्तिरुद्देश्या, प्रत्येकप्रसक्त्यैव तत्प्रतीत्युपपत्तेः। निर्विकल्पकादभावप्रतीतिरिष्टापत्त्यैव परिहरणीया।

 

                यद्वा- लौकिकपरमार्थरजतस्यैव तत्र त्रैकालिकनिषेधः। न च तर्हि `नेह नाने'ति निषेधायापि तात्त्विकप्रपञ्चान्तरोररीकारापत्तिः, नेह नानेति निषेधस्थले किञ्चनेति पदसन्दंशात् प्रतीयमानसर्वनिषेधस्यावश्यकतया निषेध्यत्वेन प्रपञ्चान्तरकल्पनाया गौरवकरत्वात्, प्रकृते तु सर्वत्वेन प्रतियोग्यनुल्लेखाद् आपणस्थरूप्यनिषेधस्य इदम्यावश्यकत्वेनाप्रतीतनिषेधकल्पनैव युक्ता। न चान्यथाख्यातिभिया तस्याप्रसक्तौ कथं तन्निषेधः? अपरोक्षत्वाभावेऽपि स्मृतिरूपतत्प्रसक्तेः सम्भवात्। एतेन अधीस्थं पारमार्थिकत्वमवच्छेदकम्, अनवच्छेदकस्याभासस्य धीस्तु निषेधधीहेतुरिति परास्तम्। न च आरोपपूर्विकैव निषेधधीः,तस्यानारोपात् कथं तदभावप्रत्यय इति वाच्यम्, आरोपस्य हेतुतायां मानाभावेन प्रतियोगिस्मरणाधिकरणानुभवादिनैव तदुपपत्तेः। अत एव न बुद्धिपूर्वकतदारोपोऽपि। अन्यथाख्यातेः सामग्र्यभावेनासत्ख्यातिवत् प्रागेव निरासादारोपस्य विशेषादर्शनजन्यत्वेन बुद्धिपूर्वकत्वानुपपत्तेश्च।

 

                किञ्चाभासप्रसक्तिरेव तत्प्रसक्तिः। ननु आभास इत्यप्रसक्ते रजतत्वाकारेणाभासानाभासयोः प्रसक्तिः वाच्या, सा चानुपपन्ना, उभयोरेकसामान्याभावात्, फलबलेन व्याप्तिग्रहे सामान्यस्य प्रत्यासत्तित्वेऽपि अन्यत्रातिप्रसङ्गेन तदभावाच्चेति चेन्न, शुक्तिरूप्यस्यापणरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदर्थिप्रवृत्त्यनुपपत्त्या तदुभयसामान्यस्यैकस्यावश्यकत्वात्। तेन सामान्येन प्रत्यासत्त्या आपणरूप्ये ज्ञानं न ब्रूमः, किन्तु प्रतियोगितावच्छेदकप्रकारकं ज्ञानं प्रतियोग्यविषयकमपि अभावप्रतीत्युपयुक्तं संवृत्तमिति। अतो न सामान्यप्रत्यासत्तिनिबन्धनातिप्रसङ्गावकाशः। यत्तु व्याप्तिग्रहे सामान्यप्रत्यासत्तिमङ्गीकृत्यातिप्रसङ्गेनान्यत्र तदनङ्गीकरणं, तदाशीविषमुखे अङ्गुलिं निवेश्य वृश्चिकाद्भयनाटनम्। प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यादिति व्याप्तिग्रह एवातिप्रसङ्गस्य प्राचीनैरुक्तत्वात्। इदं च यथाश्रुतप्राचीनग्रन्थानुसारेणोक्तम्। अन्योन्याभावमादाय तु लौकिकपरमार्थरजतस्य निषेध्यत्वं प्राग्व्याख्यातं न विस्मर्त्तव्यम्।

 

                 न च सोपादानत्वे सकर्तृकत्वापत्तिः, इष्टापत्तेः। ननु एवमपि रूप्यस्य कथमज्ञानमुपादानम्? तदनुविद्धतया अप्रतीतेः, इदमंशानुविद्धतया प्रतितेरङ्गुलिनिर्देशाच्चेलाञ्चलबन्धनादितश्चेदमंश एव सत्यविकाराविरोधेन मिथ्याविकारात्मना विवर्तत इत्यङ्गीक्रियतामिति- चेन्न, शुक्त्यज्ञानस्य तावदन्वयव्यतिरेकाभ्यां कारणत्वमावश्यकमिति उपादानमपि तदेवास्तु। तत्कल्पनाया एवाभ्यर्हितत्वाद्, उपादानान्तरासिद्धेः। किञ्च शुक्तिज्ञानमज्ञानं नाशयद्रूप्यमपि नाशयति। तच्च तदुपादानत्वं विना न घटते, निमित्तनाशस्य कार्यनाशं प्रत्यप्रयोजकत्वाद्, उपादेये उपादानानुवेधनियमाभावात्, `रूपं घटः' `कपालो घट' इत्यप्रतितेः कथंचिदनुवेधस्य जडत्वादिनात्रापि सम्भवात्। अनवच्छेदकतया इदमंशे इदमंशानुविद्धतया प्रतीतिरेव तदनुविद्धतया प्रतीतिः। कार्यकारणयोरभेदादंगुलिनिर्देशादिकमप्युपपद्यते। न च- परोक्षज्ञानस्याप्यज्ञाननाशकतया श्वैत्यानुमित्या अज्ञाने नाशिते पीतभ्रमानुदयः स्यात्, उपादानाभावादिति वाच्यम्, विषयगताज्ञानस्य परोक्षवृत्त्याऽनाशात्। न च अपरोक्षवृत्तेरज्ञाननाशकतायामपि `घटोऽय'मिति साक्षात्कृते पटोऽयमिति वाक्याभासाद् भ्रमानुत्पत्तिप्रसङ्गः। न ह्यत्र वह्निना सिञ्चतीत्यत्रेवान्वयविरोध्युपस्थितिरस्ति, येनेष्टापत्तिरवकाशमासादयेदिति वाच्यम्, यदा हि घटत्वं पटत्वविरुद्धतयाऽवगतं, तदा हि तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टापत्त्यवकाशः? यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानम्, तदा घटत्वज्ञानेन तदज्ञाननाशेऽपि पटत्वविरुद्धतया अज्ञातविशेषाज्ञानस्य सत्त्वात्तदुपादानक एव भ्रम इति न काप्यनुपपत्तिः।

 

                न च साक्षिवेद्याज्ञानसुखादौ ज्ञानाभावत्वदुःखाभावत्वारोपौ न स्याताम्, अज्ञानरूपोपादानाभावादिति- वाच्यम्, दुःखाभावभिन्नत्वेन ज्ञानाभावभिन्नत्वेन दुःखत्वविरुद्धधर्मवत्तयाऽज्ञानत्वविरुद्धधर्मवत्तया वा अधिष्ठानज्ञानं भ्रमनिवर्त्तकम्। तच्च विरोधभेदादि न साक्षिगम्यम्, किंत्वनुपलब्धिगम्यम्। तथा च तदज्ञानमेव भ्रमोपादानम्। न च परोक्षाध्यासो न परोक्षज्ञानेन निवर्तेत, तस्याज्ञानानिवर्तकत्वादिति वाच्यम्, परोक्षाध्यासे हि प्रमातृगताज्ञानमेवोपादानम्। तच्च परोक्षज्ञानेनापि निवर्तत इत्युक्तत्वात्। न च रूप्यं दृष्ट्वाऽधिष्ठानतत्त्वज्ञानं विना निवृत्तस्य पुंसोऽज्ञाननिवृत्त्यभावेन रूप्यतज्ज्ञानयोरविद्यापरिणामयोरनिवृत्त्या रूप्यधीसामग्री सद्‌भावेन तद्धीर्दुर्वारैवेति वाच्यम्, रूप्यं तद्धीश्च उत्पन्ने तावदुदीच्यज्ञानेन उपादाने विलीयते। उपादानस्य निवृत्तिः परं न भवति, अधिष्ठानतत्त्वज्ञानाभावात्। रूप्य बुद्ध्यन्तरोत्पत्तिस्तु इदमाकारान्तःकरणवृत्तिसद्भावेनानुत्पन्नाधिष्ठानतत्त्वसाक्षात्कारस्य भवत्येव। तदभावे तद्विलम्बादेव विलम्ब इति न काप्यनुपपत्तिः। तथा च सर्वप्रत्ययानां स्वगोचरशूरत्वात् प्रतीतिकाले रजतस्य विद्यमानता सिद्धा। न चैवं तात्त्विकत्वमपि सिध्येत्, तस्यापि प्रातीतिकत्वादिति वाच्यम्, अपरोक्षप्रतीत्या तावत् त्रिकालाबाध्यत्वरूपं तात्त्विकत्वं विषयीकर्तुं न शक्यत इत्युक्तत्वात्। परोक्षप्रतीत्या विषयीकृतमपि तात्त्विकत्वं प्रातीतिकमेव, कालान्तरबाधेन पुनरतात्त्विकत्वस्य सम्भवात्। इत्याविद्यकरजतोत्पत्त्युपपत्तिः।

 

[/1-2-42]

 

[1-2-43]

                                                अद्वैतसिद्धिः

 

                तस्मादधिष्ठानांशे अन्तःकरणवृत्तिः अध्यस्तांशे चाविद्यावृत्तिः। तस्यां च तादात्म्यस्य भानात् नाख्यातिमतप्रवेशः।

 

                ननु- एवमिदमशंश्याप्यध्यस्तत्वेन इदमिति द्व्यात्मकम्, इदं रूप्यमिति च त्र्यात्मकम्, स्वप्ने इदं रूप्यमिति ज्ञानं चतुरात्मकं च स्यादिति चेन्न, इदंत्वस्याध्यस्तत्वेऽपि नेदमिति द्व्यात्मकम्, इदंत्वाद्यधिष्ठानस्य स्वप्रकाशकत्वात्। न हि वयं सर्वत्राध्यासे द्व्यात्म्यकतां ब्रूमः, अपि त्वन्तःकरणवृत्तिसव्यपेक्षाधिष्ठानप्रकाशे। अत एव नेदं रूप्यमिति त्र्यात्मकम्, स्वप्ने तु चतुरात्मकत्वशङ्का सर्वथाऽनुपपन्ना, इदं रूप्ययोरप्यध्यसनीयत्वाद्, अविद्यावच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वात्। न च रूप्यज्ञानस्याचाक्षुषत्वे `रूप्यं पश्यामी'ति चाक्षुषत्वानुभवविरोधः, चाक्षुषेदंवृत्त्यवच्छिन्नचैतन्यस्थाविद्यापरिणामत्वेन चाक्षुषत्वोपचाराद्, अनुभवत्वमात्रानुभव एव `आत्मनं पश्यामी' त्युल्लेखदर्शनाच्च। ननु रूप्यज्ञानस्याविद्यावृत्तित्वेन प्रातिभासिकतया प्रतिभासावश्यंभावेनाध्यस्तविषयज्ञानस्य चाध्यस्तत्वनियमेनाविद्यावृत्तेरपि अविद्यावृत्तिप्रतिबिम्बतचैतन्यवेद्यत्वम्, एवं तस्यापि तस्यापीत्यतवस्थितिरिति- चेत् सत्यमेतत्। न पुनरनवस्था, अविद्यावृत्तिप्रतिभासके चैतन्ये अविद्या वृत्तेः स्वत एव उपाधित्वेन वृत्त्यन्तरानपेक्षत्वात्।

 

                ननु- अज्ञानस्य रूप्याकारज्ञानात्मना परिणामे रूप्यमिति प्रतीतेर्ज्ञानगताकारेणैवोपपत्तावतीतविषयकज्ञानन्यायेन वोपपत्तौ रूप्यरूपाविद्यापरिणामकल्पना न युक्तेति चेन्न, ज्ञानाकारेणैव सविषयकत्वे साकारवादप्रसङ्गात्। अतीतविषयवदुपपादनेऽपि अपरोक्षत्वानुपपत्तेरुक्तत्वात्। न च दोषाणां स्वाश्रय एवातिशयहेतुत्वेन चक्षुर्गतदोष जन्यो भ्रमः कथमचाक्षुषः स्यात्? अन्यथा त्वचा गृहीते शङ्खे चक्षुषा गृहीते रूप्यसादृश्ये च निमीलितचक्षुषोऽपि पीतभ्रमरूप्यभ्रयोरापत्तेरिति वाच्यम्, दोषाणां स्वाश्रय एवातिशयज नकत्वमित्यस्यैवासिद्धेः नियामकाभावात्। न चोक्तातिप्रसङ्गो नियामकः, स्वसम्बन्धिनि कार्यजनकत्वाङ्गीकारेणानतिप्रसङ्गात्। सम्बन्धश्च स्वाश्रयजन्यज्ञानविषयत्वरूपः। स च न तद्वति संस्कारविषयग्रहीन्द्रियजन्याधिष्ठानज्ञानस्यापरोक्षभ्रमहेतुत्वात् त्वचा गृहीते तदभावात् सादृश्यं गृहीत्वा चक्षुर्निमीलनस्थले इदंवृत्तिसद्भावे प्रमाणाभावेन नातिप्रसङ्गापादनं शक्यम्। तत्सत्त्वे इष्टापत्तिरेव। ननु एवं वृत्तिभेदज्ञानैक्यानुभवविरोधः। न च अध्यस्तेनाभेदेन विषययोरेकतापन्नत्वात् ज्ञानयोरैक्यमुपचर्यत इति वाच्यम्, एवमेकत्वप्रतिपादकप्रयोगसमर्थनेऽपि अनुभवविरोधस्यापरिहारादिति चेन्न, विषययोरभेदाध्यासे ज्ञानयोरप्यभेदाध्यास इत्यस्य उपचारशब्दार्थत्वेनानुभवविरोधाभावात्। न च तर्हि धारावाहिकज्ञानेष्वैक्याध्यासापत्तिः विषयैक्यज्ञानस्यारोपनिदानस्य सत्त्वादिति वाच्यम्, आरोपस्य कारणानापाद्यत्वात्। न च विषयैक्यस्य ज्ञानैक्याध्यासनिमित्तत्वं न दृष्टमिति वाच्यम्, पूर्वोक्तयुक्त्या ज्ञानभेदे सिद्धे अपूर्वकल्पनायामपि दोषाभावात्। यद्वा यथेदमंशावच्छिन्नचैतन्यगताविद्यापरिणामत्वात् रूप्यमिदंत्वेन भाति, तथेदमाकारान्तःकरणवृत्त्यवच्छिन्नचैतन्यगताविद्यापरिणामत्वेन रूप्यज्ञानमिदंज्ञानत्वेन भाति। न च तर्हि बाधकाद्विषययोरिव ज्ञानयोरपि भेदधीप्रसङ्गः, विषयभेदग्रहज्ञानभेदग्रहयोर्भिन्नसामग्रीकत्वेनापादनस्याशक्यत्वात्। केचित्तु भ्रमकाले विषयैक्यग्रहनियमवत् न ज्ञानैक्यग्रहनियमः, तं विनापि प्रवृत्त्याद्युपपत्तेः, तथा च बाधकाले न तदनैक्यग्रहनियमोऽपीति आहुः। न च इदं वृत्तेर्ज्ञातैकसत्त्वेन तदवच्छिन्नचैतन्यगताज्ञानमेव नास्तीति वाच्यम्, वृत्तेः साक्षिवेद्यत्वेन यद्यपि तद्गोचरज्ञानं नास्ति, तथापि तदवच्छिन्नचैतन्ये शुक्त्यवच्छिन्नगोचराज्ञानसत्त्वात्। तथा च इदं वृत्तिराश्रयावच्छेदिका न तु विषयावच्छेदिकेति वस्तुस्थितिः। अत एव शुक्तितत्त्वं जानतः इदंवृत्तितत्वं चाजानतो रूप्यनिवृत्तावपि तदज्ञानानुवृत्तिप्रसङ्ग इति निरस्तम्, शुक्तितत्त्वाज्ञानस्यैव उभयपरिणामत्वात्, इदमंशस्तदाकारवृत्तिश्च एतद्‌द्वयमाश्रयमात्रावच्छेदकमित्युक्तत्वात्। न चैवमपि अबाधितज्ञानैक्यानुभवविरोधः, अध्यस्तेन सहेन्द्रियासम्प्रयोगस्यैव बाधकत्वात्। न च सन्निकर्षः प्रमासामग्री, करणानां प्राप्यकारित्वनियमेन सन्निकर्षस्यापि सामान्यसामग्रीत्वात्। न हि दृष्टा छिदा दारुवियुक्तकुठारेणेत्यन्यत्र विस्तरः।

 

                यत्तु शुक्तिरेव विवर्ताधिष्ठानमस्तु, न चैतन्तमिति, तन्न अधिष्ठानस्य भ्रमजनकाज्ञानविषयत्वेन तदकल्पिततया सत्यत्वनियमात्, शुक्तेश्च मिथ्यात्वात्। यद्वा अविद्यावृत्तेर्न ज्ञानत्वम्, अतः ज्ञानैक्यधीः, ज्ञानत्वस्याज्ञाननिवर्तकमात्रवृत्तित्वात्। न च- एवं धारावाहनस्थले द्वितीयादिज्ञाने ज्ञानत्वं न स्यादिति- वाच्यम्, तस्यापि तत्तत्कालविशष्टग्राहकत्वेनागृहीतग्राहकतया ज्ञाननिवर्तकत्वात्। वस्तुतस्तु- यावन्ति ज्ञानानि तावन्त्यज्ञानानीति व्यवहितज्ञानेनैवाव्यवहितज्ञानेनापि अज्ञाननिवर्तनादिति न काप्यनुपपत्तिः। परोक्षस्थलेऽपि प्रमातृगताज्ञाननिवृत्तिरस्त्येवेति तत्र जानामीति प्रत्ययः। तेन सहाभेदग्रहात् परोक्षभ्रमेऽपि जानामीति प्रत्ययः। न च विवरणे अन्तःकरणपरिणामे ज्ञानत्वोपचारात् इदं वृत्तेरपि ज्ञानत्वोक्तौ विवरणविरोधः, तस्य प्रकाशत्वनिबन्धनज्ञानपदप्रयोगविषयत्वमित्येतत्परत्वात्, न त्वज्ञाननिवर्तकत्वनिबन्धनज्ञानपदप्रयोगोऽप्यौपचारिक इति तस्यार्थः। तथा चाविद्यावृत्तौ यत्र ज्ञानपदप्रयोगः तत्रोपचारिक एव। न च अविद्या वृत्तेरज्ञानत्वे ज्ञानस्यौत्सर्गिकं प्रामाण्यमिति विरुध्येत, निरपवादनियमस्यैव सम्भवादिति वाच्यम्, इच्छाजनकवृत्तिमात्रस्य ज्ञानत्वमभिप्रेत्य उत्सर्गत्वोक्तेः। यद्वा- वृत्तिभेदेऽपि इदंरूप्ययोरिदमंशावच्छिन्नचैतन्यप्रकाश्यत्वेन फलैक्यात् ज्ञानैक्यधीः। न च परोक्षभ्रमे अपरोक्षैकरसचैतन्यरूपफलैक्याभावात् कथं तन्निबन्धनज्ञानैक्यानुभव इति वाच्यम्, तत्र फलैक्यमप्युपचर्य ज्ञानैक्योपचार इत्येव विशेषात्। ननु त्वन्मते यथाक्रममिदंरूप्याकारान्तःकरणवृत्त्यविद्यावृत्तिप्रतिबिम्बिताभ्यां वा तदभिव्यक्ताभ्यां वा, इदमंशावच्छिन्नतदनवच्छिन्नाभ्यामिदमंशरूप्याधिष्ठानचैतन्याभ्यां वा, वेद्यत्वेनावच्छिन्नफलस्य भेदात् कथं फलैक्यम्? अनवच्छिन्नप्रलीभूतचिन्मात्राभेदस्य सर्वत्र समानत्वात्। नहीदमंशेऽपि तदवच्छिन्नमेव चैतन्यमुपादानम्, आत्माश्रयात्। न वा रूप्ये इदमंशानवच्छिन्नमुपादानम्, `इदं रूप्य'मिति प्रतीत्यनुपपत्तेरिति चेन्न, अविद्यावृत्तिस्तावन्नाज्ञाननाशिका, किंत्वन्तःकरणवृत्तिरिदमाकारा। तथा च तदभिव्यक्तचैतन्यमेव रूप्यमभिव्यनक्तीति फलैक्यसम्भवात्। न ह्यवच्छेदकभेदेन फलभेदः किन्तु व्यञ्जकभेदेन। तथा च परमार्थसच्चैतन्यमधिष्ठानमध्यस्तज्ञानस्य। तच्च द्विविधं व्यावहारिकसत् प्रातिभासिकसच्चेति। तदुक्तं- `प्राग् व्यावहारिकसत्त्वविषयत्वात् प्रत्यक्षं नागमबाधकमिति'। परमार्थसत्त्वमादाय त्रिविधं सत्त्वम्। इति भ्रमस्य वृत्तिद्वयत्वोपपत्तिः।

 

[/1-2-43]

 

[1-2-44]

                                                अद्वैतसिद्धिः

 

                ननु- एवं सत्त्वत्रैविध्यविभागो नोपपद्यते, प्रातिभासिकादप्यपकृष्टस्य स्वाप्नरूप्यस्य व्यावहारिकादप्युत्कृष्टाया अविद्यानिवृत्तेः सद्भावादिति चेन्न, स्वाप्ने प्रातिभासिकनिकृष्टत्वे प्रमाणाभावात्। तथा हि प्रातिभासिकत्वं हि प्रतिभासमात्रसत्त्वम्, तच्च स्वप्नजागरयोः समानम्। ननु जागरे अधिष्ठानतावच्छेदकेदमंशस्याधिकसत्ताकत्वम्, स्वप्नकाले तस्यापि प्रातिभासिकत्वमित्येव निकृष्टत्वमिति चेन्न, स्वप्ने हि इदमो नाधिष्ठानावच्छेदकत्वम्, तुल्यवदारोप्यत्वात्। तत्राधिष्ठानमविद्यावच्छिन्नमेव चैतन्यमिति वक्ष्यते। अविद्यानिवृत्तेः पञ्चमप्रकारतापक्षे संसारकालीनसत्त्वस्यैवायं विभाग इति न न्यूनता। यद्वा- अविद्यानिवृत्तेः सत्त्वाभावेन सत्त्वविभागे न तदसंग्रहनिबन्धनो दोषः। वस्तुतस्तु- अविद्यानिवृत्तिः ब्रह्मस्वरूपा अनिर्वचनीया वेति न विभागन्यूनता। न च विभागस्य तात्त्विकत्त्वे अपसिद्धान्तः, अतात्त्विकत्वे त्रिविधत्वं गतमेवेति वाच्यम्, ब्रह्मातिरिक्तमतात्त्विकमिति वदतो विभागातात्त्विकत्वस्येष्टत्वात्। न च तर्हि तात्त्विकत्रैविध्यहानिः, को हि त्रैविध्यस्य तात्त्विकत्वं ब्रवीति? किन्तु व्यावहारिकत्वमेव। न च तात्त्विकस्य ब्रह्मणोऽतात्त्विकाच्छुक्तिरूप्याद् बाधाधिगम्यस्य विभागस्य कथमतात्त्विकत्वमिति वाच्यम्, बाधबोध्यत्वं न तात्त्विकत्वे प्रयोजकम्, किंत्वबाध्यत्वम्। तच्च न ब्रह्मातिरिक्तवृत्ति, नेह नानेत्यादिना बाधात्। न च त्रिविधसत्त्वाङ्गीकारे ब्रह्मैव सदिति स्वमतविरोधः, तस्य परमार्थसद् ब्रह्मैवेत्येतत्परत्वात्। एतेन विश्वमिथ्यात्वब्रह्मनिर्विशेषत्वादावप्येवं विकल्प्य दूषणमित्यपास्तम्।

 

                ननु- अत्र परमार्थसदेव सदितरद् द्वयं सद्विलक्षणमेव सत्त्वेन भाति, बाधविलम्बाविलम्बाभ्यां तद्भेद इत्यभिप्रेतम्? उत वा सत्त्वस्यैवावान्तरभेद इति? नाद्यः, त्वन्मते रूप्याभावे रूप्यधीरिव सत्त्वाभावे सत्त्वबुद्धेरयोगात्। कदाचिदपि सत्त्वाभावे  तुच्छवदुत्पत्त्याद्ययोगात्, व्यावहारिके प्रातिभासिकादर्थगतविशेषाभावेन तत्रार्थक्रियादेः श्रुतीनां तद्विषयत्वेन प्रामाण्यस्य चायुक्त्यापातात्। प्रत्युत नभो नैल्यभ्रमहेतोरिव अर्थभ्रान्तिहेतुत्वेनाप्रामाण्यनिश्चय एव स्यात्। नान्त्यः, आरोपितानारोपितसाधारणसामान्यधर्माभावाद्, व्यावहारिकस्यानारोपितविशेषत्वे इष्टापत्तेश्चेति चेन्न, द्वितीयपक्षस्यैव क्षीदक्षमत्वात्। तथा हि अबाध्यत्वरूपमारोपितानारोपितयोः सामान्यम्। अन्यथा बाध्येऽपि स्वकालाबाध्यत्वमात्रेणारोपितेऽपि तस्य सम्भवात्, आरोपितानारोपितयोरेकसामान्याभावे प्रवृत्त्याद्यनुपपत्तेरुक्तत्वात्। अत एवोक्तम्-

 

                आकाशादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यता काचिदन्या।

                तत्सम्पर्कात् सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ।। इति।

 

                यथा प्रातिभासिकरजते ज्ञातैकसदेकं रजतत्वम्, लौकिकपरमार्थरजते चाज्ञातसदपरं रजतत्वम्, तदुभयानुगतं चारोपितानारोपितसाधारणं रजतत्वं रजतशब्दालम्बनम्, एवमाकाशादावारोपितैका सत्यता, चिदात्मनि चानारोपिताऽपरा, तदुभयसाधारणी चान्या व्यावहारिकी सत्यता सत्यशब्दालम्बनमिति भावः। सद्विशेषत्वेऽपि व्यावहारिकस्य प्रपञ्चस्य नानारोपितविशेषत्वम्, येनेष्टापत्तिरवकाशमासादयेत्, सत्त्वस्यानारोपितत्वात्मकत्वाभावात्। सत्त्वाङ्गीकारादेव नोत्पत्त्यादिविरोधोऽपि। न च- स्वरूपेण बाध्यत्वं प्रपञ्चेऽपि नास्ति, तुच्छत्वप्रसङ्गात्, पारमार्थिकत्वाकारेण बाध्यत्वं निर्धर्मकतया ब्रह्मण्यप्यस्तीति कथं कदाचिद्वाध्यत्वमादाय व्यावहारिकत्वादिस्थितिरिति वाच्यम्, मिथ्यात्वरूपसाध्यनिरुक्तावेवास्य दत्तोत्तरत्वात्।

 

                यत्तु- सप्रकारकस्यैव ज्ञानस्य प्रपञ्चबाधकत्वं वक्तव्यम्, निष्प्रकारकत्वे बाधकत्वायोगात्, तथा च सप्रकारस्तात्त्विक एव स्यात्- इति, तन्न, स्वरूपोपलक्षणोपलक्षित स्वरूपविषयकव्यावृत्ताकारज्ञानस्यैव निष्प्रकारकत्वेपि बाधकत्वमित्यस्यापि प्रागेवोक्तत्वात्। स्वरूपोपलक्षणनिबन्धनव्यावृत्ताकारत्वेऽपि यथा नाखण्डार्थत्वक्षतिः तदप्युक्तमधस्तात्।

 

                ननु- व्यावहारिकप्रातिभासिकयोर्बाध्यत्वाविशेषे किंन्निबन्धनो भेदः? न तावन्मायिकत्वाविद्यकत्वाभ्यां भेदः, मायाविद्ययोरभेदात्। अर्थगतविशेषाभावे तदयोगाच्च। नाप्यर्थक्रियाकारित्वाकारित्वाभ्यां विशेषः, स्वाप्नघटादौ स्वाप्नजलाहरणाद्यर्थक्रियादर्शनात्। न चार्थक्रियायां व्यावहारिकत्वं विशेषणम्, अन्योन्याश्रयात्, स्वाप्नाङ्गनालिङ्गनादौ प्रातिभासिके व्यावहारिकसुखजनके अतिव्याप्तेश्च। नापि ब्रह्मज्ञानबाध्यत्वतद्‌भिन्नज्ञानबाध्यत्वाभ्यां विशेषः, त्वन्मते रूप्यादेरपि शुक्त्यवच्छिन्नब्रह्मधीबाध्यत्वाद्, ब्रह्मण्यध्यस्तस्य क्षणिकत्वादेरपि प्रातिभासिकस्य ब्रह्मधीबाध्यत्वेनातिप्रसङ्गाच्च। नापि ब्रह्मप्रमाबाध्यत्वतदन्यप्रमाबाध्यत्वाभ्यां विशेषः, त्वन्मते ब्रह्मज्ञानस्यैव प्रमात्वात्। नापि प्रमाबाध्यत्वभ्रान्तिबाध्यत्वाध्यां विशेषः, भ्रान्तिबाध्यत्वस्य ब्रह्मण्यपि सत्त्वात्। नापि पारमार्थिकविषयधीबाध्यत्वव्यावहारिकविषयधीबाध्यत्वाभ्यां विशेषः, अन्योन्याश्रयात्। नाप्यन्योन्येतरत्वाभ्याम्, भेदकाभावे इतरत्वस्यैवायोगाद्, अन्योन्याश्रयाच्चेति- चेन्न, सप्रकारकनिष्प्रकारकज्ञानबाध्यत्वाभ्यां शुद्धब्रह्मधीबाध्यत्वतदन्यधीबाध्यत्वाभ्यां वा महावाक्यजन्यधीबाध्‌यत्वतदन्यधीबाध्यत्वाभ्यां वा स्वबाधकधीबाध्यत्वतदन्यधीबाध्यत्वाभ्यां वा भेदसम्भवात्। शुद्धशब्देन निर्धर्मकाधिष्ठानमात्रमेवात्र विवक्षितम्। न च- निर्धर्मकं यद् वस्तुगत्या तज्ज्ञानं भ्रमकालेऽपि, निर्धर्मकत्वविशिष्टस्य तदुपलक्षितस्य वा ज्ञानं चेद्विवक्षितं, तदा अखण्डार्थताहानिः, प्रकारीभूतनिर्धर्मकत्वद्वितीयाभावादेस्तात्त्विकत्वापत्तिश्चेति- वाच्यम्, निर्धमकं यद् वस्तुगत्या तन्मात्रगोचरज्ञानस्य विवक्षितत्वात्, तस्य च भ्रमकालेऽभावात्। निधर्मकत्वादिस्तद्बुद्धावुपायत्वमात्रम्, न तु तद्बुद्धौ विषयत्वम्। अतो नाखण्डार्थताहानिप्रकारतात्त्विकत्वापत्ती। निष्प्रकारकत्वेऽपि संशयादिनिवर्तकत्वमुपपादितमेव। तस्मादज्ञानोपादानकं जगत् मिथ्येति सिद्धम्।

 

                                उपाधिबाधप्रतिपक्षशून्यं विपक्षबाधागमसव्यपेक्षम्।

                                दृश्यत्वमव्याहतमम्बरादिमिथ्यात्वसिद्धौ सुदृढं हि मानम्।।

 

                तदेवं दृश्यस्य प्रपञ्चस्य मिथ्यात्वात्तदतिरिक्तब्रह्मरूपाखण्डार्थनिष्ठवेदान्तवाक्यं परतत्त्वावेदकम्। सखण्डार्थविषयकं सर्वमतत्वावेदकमेवेति। यद्यपीदं ब्रह्मज्ञानाव्यवहितभ्रमविषये प्रातिभासिके व्यावहारिकलक्षणमतिव्याप्तम्। प्रातिभासिकलक्षणं चाव्याप्तम्, तथापि करणसंसर्गिदोषप्रयुक्तत्वं तदसंसर्गिदोषप्रयुक्तत्वं च तयोर्लक्षणं निरवद्यम्। इति सत्त्वत्रैविध्योपपत्तिः।

 

                                अविद्यातत्कार्यात्मकनिबिडबन्धव्यपगमे।

                                यमद्वैतं सत्यं प्रततपरमानन्दममृतम्।।

                                भजन्ते भूमानं भवभयभिदं भव्यमतयो।

                                नमस्तस्मै नित्यं निखिलनिगमेशाय हरये।। 1 ।।

 

                                अनादिसुखरूपता निखिलदृश्यनिर्मुक्तता।

                                निरन्तरमनन्तता स्फुरणरूपता च स्वतः।।

                                त्रिकालपरमार्थता त्रिविधभेदशून्यात्मता।

                                मम श्रुतिशतार्पिता तदहमस्मि पूर्णो हरिः ।। 2 ।।

 

 

                इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीचरणशिष्यश्रीमधुसूदन सरस्वतीविरचितायामद्वैतसिद्धौ सपरिकरप्रपञ्चमिथ्यात्वनिरूपणं नाम प्रथमः परिच्छेदः।। 1 ।।

                                                ------------

[/1-2-44]