अधिकारणचिन्तामणिः/तृतीयोऽध्यायः

← द्वितीयोऽध्यायः अधिकारणचिन्तामणिः
तृतीयोऽध्यायः
[[लेखकः :|]]
चतुर्थोऽध्यायः →

श्रीः

।3.1.1.

1. एवं सिद्धविषयनिरूपणपरपूर्वद्विकचिन्ता कृता। अथ साध्यविषयनिरूपणपरोत्तरद्विकचिन्तायामुत्पत्ति

क्रमेण चतुर्थाध्यायनिरूपणीयसाध्यांशात्पूर्वं साधनचिन्ता तृतीये क्रियत इति द्विकसङ्गतिः, अध्यायसङ्गतिश्चेएए एतत्सर्वं 'अतिक्रान्त' इत्यादिना सविस्तरं भाष्यएवोक्तमिति तत्रैव द्रष्टव्यम्। तृतियाध्यायपादद्वन्दसंगतिरपि

तत्रैव भाष्ये सुव्यक्तमुक्ता। 'उपासनारम्भाभ्यर्हितोपायश्च प्राप्यस्तुव्यतिरिक्तवैतृष्णा चेति। तत्सिद्धयर्थं जीवस्य

लोकान्तरेषु सञ्चरतो जाग्रतस्स्वपतस्सुषुप्तस्य मूच्र्छतश्च दोषाः, परस्य ब्राहृणस्तद्रहितताकल्याणगुणाकरत्वञ्च प्रथमद्वितीययोः पादयोः प्रतिपाध्यते' इति। अधिकरणसङ्गतिरुत्तरत्र भविष्यति। अत्र कश्चिच्चोदयति--साध्येति

मुक्तिस्साध्या? न वा? नचेत् साधनाध्यायक्लृप्तिर्विफसा प्रसजति। साध्या चेत् सा मुक्तिर्नश्वरी स्यात्।

ततश्च कथं पुनरावृत्तिशून्योऽपवर्गस्स्यादिति। तदेतत्प्रतिक्षपति---मैवमिति। प्रतिक्षेपप्रकारं दर्शयति-ब्रााहृेति।

परभजनवता पुरुषेण प्रागसिद्धैव साध्या। तह्र्रनुभूतेस्साध्यत्वादनित्यत्वं स्यादित्याशङ्क्य परमतप्रक्रिययैव

अनित्यत्वं परिहरति-- धीसङ्कोचेति। ज्ञानसङ्कोचप्रणाश एव ब्राहृानुभूतिः। प्रध्वंसस्य च कृतकत्वेऽपि प्रणाशो नास्तीति परवादिनोऽपि वदन्ति। तेन ब्राहृानुभूतिः प्रणाशरूपत्वादुत्तरावधिरहितेत्यर्थः। अयमर्थः--अस्मत्पक्षेऽपि भावान्तराभावाङ्गीकाराद्भावएवाभावोऽपि स्यात्। 'न च पुनरावर्तते' इति प्रमाणबलात्नित्यत्वसिद्धिश्च। धियो विकासस्स्वाभाविक एव वेदान्तसिद्धान्ते। उपाधिवशात्सङअकोचो जातः। तस्मिन्सङ्कोचे निवृत्ते स्वाभाविको विकासएवावतिष्ठत इति हि 'सचानन्त्याय कल्पते' इति श्रुत्यैव साक्षादुच्यत इति।।

2. अत्र तृतीयेऽध्याये पूर्वोत्तरपादद्वन्द्वयोरर्थविभागं चतुर्णामपि पादानामर्थभेदश्च दर्शयति-- पादाभ्यामिति। वैराग्यपादोभयलिङ्गपादाभ्यां भविनां जीवानां ब्राहृविद्याधिकारं जनयति पश्चात् उभाभ्यां पादाभ्यां तेषामेवजीवानामङ्गास्सहितां तामेव ब्राहृविद्यां प्रदर्शयतीत्यर्थः। चतुर्णामपि पादानामर्थभेदाननुक्रमेण दर्शयति ऐश्व्रयादाविति। ऐश्वर्यादौ विरक्तिर्वैराग्यपादे, उभयलिङ्गपादे तु निरवधिविभवे परमपुरुषे निरतिशयाभिलाषोत्पत्तिः, गुणो#ोपसंहारपादे तु विद्याभेदावलम्भः विद्याङ्गपादे पुनर्विद्योपकरणसंपत्तिरिति विभागः।।

3. अत्र कश्चिदचूचुदत् वेदान्तश्रवणवेलायां विरक्तएवादितः प्रवर्तते तेन प्रागेव वैराग्यस्य सिद्धत्वात् पुनस्तृतीयाद्यपादे वैराग्यसम्पादनं न कर्तव्यमिति। तदितमाह- संसारेति। अस्मिन् शारीरकशास्त्रे संसारोद्विग्रचेता जीव एवाधिकरोति। अतश्शास्त्रारम्भएव वैराग्यं सिद्धम्। पुनरत्र वैराग्यपादः किमर्थमारभ्यत

इति। अर्धाङ्गीकारेणोत्तरमाह-- सत्यमिति। दिं्वविधं हि वैराग्यं शास्त्रश्रवणौपयिकं तावदेकम्, उपासनानुष्ठानौपयिकञ्चान्यद्वैराग्यम्। तदत्र निरुप्यत इति न पादारम्भनैष्फल्यम्। तदेतद्विशदयति-- प्राप्येति।

'एते वै निरयास्तात स्थानस्य परमात्मनः' इति परमात्मस्थानापेक्षया स्वर्गादीनां निरयतुल्यतानुसन्धानमुपासनारम्भोपयुक्तं तदस्मिन्नेव पादे सिध्यतीति सफलोऽयं वैराग्यपादारम्भः। तदिदमाह

मुत्तयुपायप्रारम्भेऽम्यर्हितं स्यादिति। तदेव विशतयति-- त्वरत इति। स्पष्टदृष्टस्वबोधः-- परमपुरुषस्सर्वशेषी अहं पुनस्सूरिवन्नित्यमेव तदनुभवयोग्यः अथापि कर्मवशात् संसारामीति स्पष्टदृष्टस्वज्ञानवान् पूर्वं व्याधत्वेनावस्थितराजकुमारवत् स्वस्वरूपस्य सम्यगवलोकनेन पुनरसङ्कुचित ब्राहृानुभवाय त्वरत इत्यर्थः।।

4. पूर्वाधिकरणे 'संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ' इत्यत्र मूर्तिप्रसङ्गः कृतः। अधुना पुनरेकां मूर्तिं

परित्यज्य देशान्तरे मूत् र्यन्तरप्राप्तौ किं पूर्वमूर्तिसंगतभूतसूक्ष्मैः परिष्वक्तो याति नेति विचार्यते। तदर्थविचारस्तु-

किं देहान्तरं गच्छन् जीवो भूतसूक्ष्मैर्देहबीजैस्सम्परिष्वक्तो रंहति उतासम्परिषिवक्त इति। ' वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति तु पञ्चम्यामाहुतावापः पुरुष वचसो भवन्ति इति प्रश्नप्रतिनचने किं सम्परिष्वक्तस्य रंहणं गमयतो नेति। किं श्रद्धादिशब्दैरवस्थाविशेषापन्नान्यबादिद्रव्याण्युच्यन्ते, उत तत्परिष्वक्तो जीव इति। किं केवलेष्टापूर्तकारिणां पितृयाणेन निवर्तने ' एष सोमो राजा ' इति सोमशब्दस्य सोमदेहजीवपरत्वं ' तस्या आहुतेस्सोमो राजा संभवति' इति सोमशब्तस्य सोमदेहजीवपरतामवगमयति नेति।

अत्र पूर्वपक्षमाह- देहाध्यमिति। पूर्वदेहान्निष्क्रान्तस्य पुरुषस्य देशान्तरप्राप्तौ तत्रतत्रैव देहेन्द्रियादिकं कर्मानुरुपमपूर्वं सिध्यत्येव यथा तत्र भोग्यमुपलभ्यते। तस्मात्पूर्वदेहात् गृहीतैः प्राणाध्यैर्भूतसूक्ष्मैश्च सम्परिष्वक्त

एव यातीति कल्पनागौरवं स्यात्। ननु जीवस्य गमनं भूतसम्बन्धमन्तरेण कथं घटत इत्याशङ्क्याह-जीवस्येति।

परिमितमानत्वं हि गमने कारणम्। तेनाणोर्जीवस्य गमनमणुत्वादेव सङ्घटते। द्रव्यान्तरसंयुक्तस्येति कल्पने

गौरवमेव दोषः। ईश्वर एव ' ऊध्र्वं प्राणमुन्नयत्यपानं प्रत्यगस्यापि" इति प्राणनीत्या जीवस्यापि गतिंजनयतीति।

उक्तं पक्षं प्रतिक्षिपति- मैवमिति। तदेव विवृणोति-- खच्छन्देति। यध्यथेश्वरः करोतीति श्रुतिप्रमितं

तत्तथैवेति प्रामाणिकैरभ्युपगन्तव्यम्। नपुनरीश्वरकृत्ये श्रुतिसिद्धे गौरवादि दोष उदाहार्यः । आनुमानिक्यां हि कल्पनायां गौरवदोषमुदाहरन्ति न्यायवादिनः। श्रुतिप्रमितनियतौ स्वच्छन्दकृत्ये गौरवाभिधानस्यायुक्तत्वादित्यभेध्योऽयं हेतुनिर्देशः।।

5. ननु पञ्चाग्निविध्यां भूतसूक्ष्मैः परिष्वक्तो जीवो यातीति भवद्भिरुच्यते, तत्र कोऽयं भूतपञ्चकवाचकश्शब्दः

श्रद्धाशब्दएव जलवाचक उपलक्षणन्यायेन भूतपञ्चकं वदतीति चेत् ; श्रद्धाशब्दस्यैव कथं जलवाचकत्वमित्याशङ्क्योभयीमपि शङ्कां परिहरत्यनुक्रमेण-- नानाजातीयेत्यादिना। अयमर्थः-- लोकेऽपि जनो नानाद्रव्यसङ्घातरूपे वस्तूनि बहुद्रव्यनाम्नैव व्यवहरतीति द्रृष्टमेव घृतप्रचुरमौषधं घृतमेवेति। श्रद्धाशब्दो

जलवाचकत्वाज्जलसंसृष्टानि भूतान्तराण्यचपि वदतीति। नन्वन्यभूतवाचकश्शब्दः कथमन्यस्यापि भूतस्य वाचक

इत्याशङ्क्य देहे जलस्य भूयस्त्वाज्जलवाचकश्शब्दो भूतान्तराण्यपि वदतीति युक्तमेवेत्याह प्राचुर्यादिति।

श्रद्धाशब्दोक्तन्यायोऽयं ' पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इत्यप्छब्देऽपि समान इत्याह-- एवमिति। तर्हि

एकभूतेन सृष्टिः किं न स्यादित्याशङ्क्याह-- व्यष्टिमिति। पञ्चीकृतैरेव हि भूतैर्देहादिषु सर्वत्रापि सृष्टिर्दृश्यते। तत्र तारतम्यमपि दृश्यते। वातपित्तश्लेष्माचिवैषम्यं तत्तद्भूतवैषम्य प्राचुर्यादेव हि देहेषु जायते।

तदितमाह-- तारतम्यमिति। श्रद्धाशब्दः कथं सलिलवाचीति द्वितीयं चोध्यमवशिष्यते तत्रोत्तरम् -- श्रद्धाशब्दस्विति। तत्र हेतुमाह-- निगम इति। 'श्रद्धा वा आपः' इति निगमे श्रद्धासमाख्यावत्वेनापामुक्तेः।।

6. अत्र कानि पञ्चाग्नित्वेन परिकल्प्यन्ते कानि वा होतव्यानि के च ते होतार इत्याशङ्क्य सर्वमेतद्विच्य

दर्शयति -- ध्यौरिति। ध्यौः पर्जन्यः पृथिवि पुरुषो योषिदिति पञ्चाग्नयः। परिकरसहितानित्यग्निकल्पनोपकरणसाहित्यमुच्यते। श्रद्धासोमवर्षान्नरेतांसि होतव्यानि। श्रद्धाख्यं भूतसूक्ष्मं क्रमपरिणामेन सोमवर्षान्नरेतोरूपं भवतीत्यन्वयः। सजीवमिति-- जीवसहितं भूतसूक्ष्ममित्यर्थः। भूतसूक्ष्मविशिष्टो

जीवो होतव्य इति भावार्थः। जीवस्यैव प्राधान्यात्। तनुतरमरुतः पितृदेहधारकमरुतो जुह्वतीत्यर्थः।।

3.1.2.

1. अत्र सङ्गतिर्भाष्ये "केवलेष्टापूतदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्तनञ्चाम्नातं ' यावत्सम्पातमुत्वाथैतमेवाध्वानं पुनर्निवर्तन्ते' इति। तत्र प्रत्यवरोहन् जीवः किमनुशयवान्

प्रत्यवरोहति उत नेति संशय्यते इति। तदर्थविचारस्तु किं यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते इति

आम्नातो निवर्तमानस्सानुशयो निवर्तते उत निरनुशय इति। किं 'यावत्सम्पातम्' इति वाक्यं सम्पातशब्दस्य

फलदानप्रवृत्तकर्मपरत्वाभावेन सर्वकर्मपरत्वात् निरनुशयस्य निवर्तनमवगमयति नेति। किमत्र सम्पातशब्दः

कर्ममात्रपर उत फलप्रदानप्रवृत्तकर्मपर इति। किं ' तध्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां

योनिमापध्येरन्' इति वाक्यं सम्पातशब्दस्य फलप्रदानप्रवृत्तकर्मपरतामवगमयति नेति। किं 'रमणीयचरणाः' इति

चरणशब्द आचारपर उत कर्मपर इति। अत्र पूर्वपक्षी मन्यते ---इष्टापूर्तादीति। श्रौतस्मार्तं कर्म यध्यदिह

करोति तत्कृत्स्नमपि स्वर्गादौ स्थलान्तरे भुक्त्वा तदन्ते पुनरिहायाति। अतो निरनुशाय एवायाति। अनुशयो

नाम-- फलदयपर्यन्तमात्मन्यनुशेत इति कर्मवर्ग उच्यते। तेन सर्वं कर्म भुक्त्वा स्वयमेवायातीति पूर्वपक्षिणोऽभिप्रायः। तत्प्रतिक्षिपति--इत्यसदिति। अत्र हेतुमाह--दृष्टबाधादिति। सर्वेषामपि कर्मणां

परत्रैवोपभोगादनन्तरमागमने कर्मानुरूपं केचिच्चण्डालयोनिमापध्यन्ते केचिद्ब्रााहृणयोनिमिति दृष्टं वैषम्यं बाध्येत।किञ्च 'प्राप्यान्तं कर्मणस्तस्य' इत्यत्र कात्स्न्र्ये कर्मणोऽन्तं प्राप्येति न श्रूयते। तेनोपभुज्यमानस्य

कर्मणोऽन्तं प्राप्य कर्मान्तरेण सहागच्छतीति कार्यानुरूपं स्पष्टमेतत्। युक्त्यन्तरमाप्याह-- सुकृतेति।

रमणीयचरणा रमणीयां योनिमापध्येरन् कपूयचरणाः कपूयां योनिमापध्येरन्निति सुकृतदुष्कृतफलत्वेन

जातिभेदाध्ययनात्। उक्तमर्थं निगमयति-- तस्मादिति। प्रारब्धशेषैस्तदितरसहितैरिति- अयमर्थः कर्मविभाक

शास्त्रेष्वेकस्यैव कर्मणस्स्वर्गादिफलं तदन्ते पुनरैहिकफलमपि भोक्तव्यत्वेनाभिधीयते। तेन प्रारब्धफलमपि कर्म

भुक्त्वा तदवशेषेणाभुक्तफलेन कर्मान्तरेण च युक्तः पुनरावर्तत इति सर्वप्रमाणाविरोधेन नेतव्यमिति। स्वर्गपान्थ

इति 'गतागतं कामकामा लभन्ते ' इति प्रमाणमुपदर्शयति।

2. अत्र ' यथेतमनेवञ्च ' इति सूत्रखण्डे गमनागमनयोर्वैषम्यस्याभिधानात् तदेव वैषम्यं दर्शयति-धूममिति।धूमं

राÏन्त तिमिरकलुषितं पक्षं दक्षिणावृत्तिमासान् पश्चात्पितृलोकं गमनं चन्द्रमपि मृतः कर्मी प्राप्नोति।

प्रत्यावृत्तौ तु चन्द्राद्गमनं गगनाद्वायुं ततो धूमं तस्मादब्भ्रं अब्भ्रान्मेघम्, अत्राब्भ्रमेघशब्दौ चार्थभेदादपुनरुक्तौ,

अपो बिभर्तीत्यब्भ्रशब्देन कथ्यते मेघ एव। ' मिह सेचने ' इति सेचमावस्थाविशिष्टवेषेण स एव मेघ इत्पुच्यते।

व्रीह्रादीन्-- पितृभक्षणीयव्रीह्रादीनित्यर्थः। रेतस्सिगिति जनक उच्यते। अथ जननीं यातीत्यन्वयः। यातनाचक्रवर्तीति-- यातनाचक्रे वर्तते इत्यर्थः। अथवा संसारवत्र्मनि सर्वत्र इति चक्रवर्ती।।

3. अत्र पूर्वपक्षवादी मन्यते-- पूर्वकृतकर्मशेषेणावरुह्र जात्यादिकं प्राप्नोतीति भवतोक्तं तन्नोपपध्यते कपूयचरणाः कपूयां योलिमित्यादिना वाक्येन चरणस्यैवोपादानात् तस्य च केवलाचारमात्रत्वादिति। तदिदमाह--

आचारेति। आगतस्य जातिभोगादिकं केवलाचारमात्रसाध्यं स्यात् चरणवचनात्। ननु आचार एव कर्म कर्मेवाचार इत्याशङ्क्य विभागमाह-- कर्मेति। श्रूयते हि--- ' यान्यनवध्यानि कर्माणि तानि सेवितव्यानि '

यान्यस्माकं सुचरितानि' इति। तदिदं प्रतिक्षिपति-- न सदिति। तत्र हेतुमाह-- गत्यभावादिति। आचारस्य शब्दस्य कर्मवाचकत्वेऽपि कर्माचारयोद्र्वयोरपि तस्मिन्वाक्ये दृष्टत्वाद् गत्यभावेन शब्दसाफल्यार्थं तथाकथनम्।

तदेवोपपादयति--मुख्यमिति। वृत्याप्रवृत्या कर्मण्यपि मुख्यं चरणवचनं नैकदेशे आचारमात्रे निरोध्यम्। पुण्यं

कर्माचरति, पापं कर्माचरति, इति हि प्रयोगप्रसिद्धिरुपलभ्यते। एवं जात्यादिः कर्मभेदप्रभव इति कर्मविपाक

शास्त्रैस्तत्रतत्र 'चण्डालः प्रेत्य जायते' शुचिनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते' इति प्रमिते सति आचारसाध्य--

मचिन्त्यमेव न चिन्त्यमित्यर्थः। द्रृढतरप्रमाणप्रमितत्वात्। द्रृश्यते ह्राचारसाध्यतया ' सन्ध्याहीनोऽशुचिर्नित्यमनर्ह-

-स्सर्वकर्मसु ' इत्यादावुत्तरकर्माधिकारादिकम्।।

4. अत्र प्रसङ्गादाचारस्यावश्यकर्तव्यत्वमाह -- प्राप्तेति । इत्थं किल कश्चिन्मनुते कर्मानुष्टानादेव

स्वर्गादिसिद्धिः, किमनेनाचारेणेति। तत्रोत्तरं प्राप्तेत्यादि। प्राप्तानां सन्ध्यावन्दनादीनामृतिवृत्तौ ऋषयः प्रतिपदं

प्रत्यवायानाहुः। उत्तरकर्मानधिकारादीन्दोषानित्यर्थः। तदनुसरणतः ---आचारानुसारात्। प्राचीनपापप्रणाशञ्चाहुः। ' यदह्वा पापकार्षम् ' इत्यादिभिश्श्रूयते। 'शुचिना कर्म कर्तव्यम्' इत्यादिना पुनराचारानुसारात् पुण्यकर्मार्हताञ्चाहुः। एवमेतैर्हेतुभिः सत्कर्ममात्रात् त्रिदिव इति धियैवाचारस्य परित्यागो

नार्ह इत्याह-- नात इति। अत्र प्रमाणं दर्शयति ' आचारहीनं न पुनन्ति ' इत्यादिकम् --नाहीति।आचारप्रीहीणे पुरुषे श्वदृतिजलसमो वेदवर्गश्शोधको न भविष्यतीत्यर्थः।।

3.1.3

1. अत्र सङ्गतिर्भाष्ये 'केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम्। इदानीमनि-

--निष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति नेति संशय्यते ' इति। तदर्थविचारस्तु-- किमनिष्टादिकारिणोऽपि

यमयातनामनुभूय चन्द्रमसं गत्वा निवर्तन्त उत नेति। किं ' ये वै केच ' इति वाक्यमनिष्टादिकारिणामपि चन्द्रम

सः प्राप्तिमवगमयति नेति। किमत्र सर्वशब्दः प्रेतमात्रविषयः उतष्टादिकारिप्रेतविषय इति। किं पितृयाणगमनमनि

ष्टादिकारिणामेवेति। किं 'य इमे ग्राम इष्टापूर्त 'इत्युपक्रमः पितृयाणस्येष्टादिकारिमात्रविषत्वमवगमयति नेति।

' वेत्थ यथा केनासौ लोको न सम्पूर्यते' इत्यस्य प्रतिवचने ' अथैतयोः पथोः ' इत्युपक्रमस्य ' जायस्य म्रियस्वेत्ये

तत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते ' इत्येतस्य स्वर्लोकारोहाभावः, तृतीयस्थानस्य पञ्चमाहुतिमन्तरेण

पुरुषत्वनिष्पत्तिमवगमयति नेति। अत्र पूर्वपक्षमारचयति-- सर्वेषामिति। सर्वषां देहापाते सति नियमवती

चन्द्रमसः प्राप्तिरुक्ता, तस्मात्पापोत्तराणामधिकपापोपहतानामपि निरयुगतिपुरस्कारिणी चन्द्रप्राप्तिरिति। उत्तं

प्रतिक्षिपति--नेति। प्रतिक्षेपमेव विवृणोति-- लोक इति। अयमर्थः-- ' चन्द्रमसमेव ते सर्वे गच्छन्ति ' इति

सर्वसब्दासङ्कोचार्थप्रेवह्रनिष्टादिकारिणामपि चन्द्रमसः प्राप्तिर्भवतोच्यते। ' तेनासौ लोको न सम्पूर्यते ' इति

वचनबलात्सङ्कोचो न दोष इति। उक्तमर्थं निगमयति-- त इति। अनिष्टादिकारिणस्ते यमशासनेन तध्यातनान्ते चन्द्रमस प्राप्यैव कुत्सितांयोनिं प्रतिपध्यन्त इति।।

2. ननु पञ्चमाहुत्यपेक्षया जन्मवतां जन्म कथ्यते कथं तर्हि पापोत्तराणां पञ्चमाहुतिमन्तरेण जन्म भवतीत्याशङ्

क्याह-- जन्मेति। जरायुजप्रभृतीनां जन्म तावत् प्रमाणप्रतिपन्नमेव। अथापि पञ्चमाहुत्यापेक्षा वक्तुं न शक्यत एव

पितृशरीरान्मातृशरीरप्रवेशादर्शनात्। कथं तर्हि पञ्चमाहुत्यपेक्षावचनमित्याशङ्क्याह-- भूयिष्टैरिति।अयमर्थः

पञ्चमाहुत्यपेक्षावचनं सामान्यम्। तत्तु यत्रापवादो नास्ति तत्रैवावकाशं लभते नान्यत्र। भूयिष्टादृष्टजन्मानो

द्रौपदीधृष्टध्युम्नादयः पञ्चमाहुतिं नापेक्षन्ते। एवं जरायुजादयोऽपि भूयिष्टपापजन्यत्वात्। तद्वदेव पञ्चमाहुत्यपे

क्षावत् धूमादिमार्गोऽप्यवदनवानित्यर्थः। अस्मिन्नर्थे सुकृतविशेषादतिशयिताद्ब्राहृलोकप्राप्तिपर्यन्तं स्वतस्सिद्ध-

दिव्यदेहादिपरिग्रहेण प्रयाताः कतिकति श्रूयन्ते। त एव पञ्चमाहुत्यनपेक्षदेहपरिग्रहे दृष्टान्ततयापादेया इत्यर्थः।।

3.1.4.

1.अत्र सङ्गतिर्भाष्ये इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तित्युक्तम्। अवरोहप्रकारश्च

'अथेतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाब्भ्रं भवत्यब्भ्रं भूत्वा मेघो

भवति मेघो भूत्वा प्रवर्षति ' इतिवचनात्। यथेतमनेवञ्चेत्युक्तम्। तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाका

--शादिभाव उत तत्सादृश्यापत्तिमात्रम्' इति। तदर्थविचारस्तु ' यथैतमाकाशम् ' इत्याकाशादिभावो देवमनुष्यादि

-भाववदाकाशादिदेहापत्तिरुत तत्सादृश्यापत्तिमात्रमिति। अत्र कश्चिन्मन्यते-- पञ्चस्वाहुतिषु प्रथमचरमयोराहुत्

-- योर्देहवत्वं निर्विवादमेव ' तस्या आहुतेस्सोमो राजा सम्भवति ' 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति देहवत्वस्य प्रकटमेव कथनात्। तथा आकाशवायुप्रभृतिष्वपि जन्मैव स्यात् पुरुषस्य, सोमो राजा भवतीति प्रथमश्रुतस्य भवतेर्धातोरन्वयादिति। तदेतदाह-- आहुत्योरिति। तन्निराकरोति-- आसारमिति। तदेव

प्रकटयति-- रेतस्सिगिति। यथा पितृशरीरप्रवेशे केवलं संसर्गमात्रम्, एवमाकाशादिभावेऽपि संसर्गविशेषात्

पृथगभिधानानर्हतामात्रमेवाकाशादिवादिना शब्देनाभिधेयमित्यर्थः। उक्तार्थे हेतुमाह-- ध्युभ्वोरिति। मध्ये शरीर

परिग्रहे शरीरस्य पुण्यफलभोगार्थत्वात् पुण्यफलमपि श्रूयते। नच कश्चिदुपभोगो दृश्यते इत्यर्थः।।

3.1.5.

1. अत्र सङ्गतिर्भाष्ये ' आकाशप्राप्तिप्रभृति यावद्व्रीह्रादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्टति उतानियम

इति विशये इति। तदर्थविचारस्तु- किमाकाशप्राप्तिप्रभृति व्रीह्रादिप्रप्तेः प्रागाकाशादिषु चिरं तिष्ठत्युताचिरेण

निष्क्रामतीति। व्रीह्रादिप्राप्तौ ' अतो वै खलु दुर्निष्प्रपतरम् ' इति दुर्निष्प्रपतरत्वाभिधानमन्यत्राचिरनिष्क्रमणमवग

-मयति नेति। अत्र पूर्वपक्षमाह-- व्योमादीति। अत्र जीवस्य व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तमेव

विशेषनिर्देशाभावान्मातृशरीरे शुक्लावस्थान्यायेनानियतिरेव स्यात्। शुक्लावस्था हि परिपूर्णगर्भपर्यन्तमवस्थाने

चिरं मध्ये पाते पुनचिरमिति दृष्टमेव। निराकरोति- नेति। तत्र हेतुमाह--स्वारसिक्या इति। ' अतो वै खलु दुर्निष्प्रपतरम् ' इति स्वारसिक्याः वाक्यप्रवृत्तेविध्यमानत्वादित्यर्थः। तदेव स्वारसिकत्वमाह--व्रीह्रादिभ्य इति।

व्रीह्रादिभ्यो हि दुर्निष्प्रपतरमिति विशेषवचनमितरेभ्यः सुप्रपतरत्वमाचष्टे। तेन पूर्वं वाक्यशक्त्यैव शीघ्रं तत्तदृ

शायास्त्यजनमिति परिज्ञायते। विषयविशेषे दुर्निष्प्रपतरत्वाभिधानमितरत्र दुर्निष्प्रपतरत्वं निषेधतीत्यर्थः।।

3.1.6.

1. भाष्य एव सङ्गतिव्र्यक्ता " अवरोहन्तो जीवा व्रीह्रादिभावेन जायन्त इति श्रूयते मेघो भूत्वा प्रवर्षति ' त

इह व्रीहियवा ओषधिवनस्पतयस्तिलभाषा जायन्ते ' इति। ते किमन्यैर्भाक्तृभिव्र्रीह्रादिशरीरैरधिष्ठितान् व्रीह्रादीना

श्लिष्यन्ति, उत ते भोक्तारो व्रीह्रादिशरीरा जायन्त इति विशये जायन्त इति वचनाद्देवो जायते मनुष्यो जायत

इतिवद्व्रीह्रादिशरीरा एवेति प्राप्ते उच्यते " इति। तदर्थविचारस्तु-- अवरोहतो जीवान्प्रति ' त

इह व्रीहियवा ओषधिवनस्पतयस्तिलभाषा जायन्ते ' इति श्रुतिः किमन्यभोक्तृशरीरभूतव्रीह्रादिशरीरा जायन्त इति

गमयति नेति। जायन्त इति वचनं किं देवोजायते मनुष्यो जायत इतिवदुत्पत्तिपरमुत सम्बन्धमात्रपरमिति।जायन्त इति श्रवणस्य 'कपूचरणाः ' इत्यादिवत् कर्मसम्बन्धाभावस्संश्लेषमात्रपरतामवगमयति

नेति। अत्र पूर्वपक्षी मन्यते-- जन्मेति। व्रीह्रादिभावेन जायन्त इति ह्रत्र जन्मैव श्रूयते। अत इदं जन्म

देवत्वमत्र्यत्ववत्स्यात्। ननु स्थावराणां नैरात्म्यमेव। तेन कथं स्थावरभावेन जीवस्य जन्मेति कश्चिदाह।तदिदं

वेदान्तबहिष्ठस्य वचनमित्याह-- नैरात्म्यमिति। इमं पूर्वपक्षं निराकरोति-- नेति। तदेव विवृणोति-- पुण्यस्येति।

पञ्चाग्निविध्यायां हीष्टापूर्तादिकर्मकारिणां पुण्यफलमभिधीयते। एवं प्राधान्येन पुण्यफलमभिधानप्रसङ्गे 'शरीरजैः

कर्मदोषैर्याति स्थावरतां नरः ' इति स्थावरजन्मप्राप्तिरूपं पापफलमभिधीयत इति न युक्तमेतत्। तर्हि 'जायन्ते'

इति साक्षाज्जननं कथमभिधीयत इत्याशङ्क्यान्याधिष्ठिते पितृशरीरे यथा जनिवचनं तथान्याधिष्ठते व्रीह्रादि

शरीरेऽपि जनिवचनमवरोहतो जीवस्य औपचारिकमिति न कश्चिद्विरोधः।।

2. अत्र कश्चिच्चोदयति--'द्दष्टवदानुश्रविकस्स ह्रविशुद्धिक्षयातिशययुक्तः ' इति साङ्ख्याहिंसायोगादंशेना

विशुद्धत्वं यज्ञादीनां वदन्ति। तेन पुण्यांशफलं स्वर्गादि पापांशफलं तु व्रीह्रादिभावः , अतः पुण्यफलप्रसङ्गेऽपि

पापफलाभिधानं युक्तमेवेति। तदेतदनुवदति-हिंसेति। पश्वालम्भादिरूपहिंसायोगादशुद्धं श्रुतिविहितमपीष्टादिकं

तदिति न्याय्यम्। अतः सुकृती व्रीह्रादिभावप्रभृतिषु पापांशं भुङ्क्त इति। अनूदितमर्थं प्रतिक्षिपति-- अयुक्तमिति। तत्र हेतुमाह-उक्तेति। मन्त्रैरर्थवादैश्च पशुहितमित्येव खल्वेषा हिंसोक्ता। 'न वा उ एतन्म्रियसे '

इत्यादिर्मन्त्रः। अथर्ववादोऽपि ' हिरण्यशरीर ऊध्र्वं स्वर्गं लोकमेति ' इति। ननु श्रुतिरपि योग्यमेवार्थं ब्राूयात्।

दुःखजननरूपस्य संज्ञपनस्य कथं पशुहितत्वमित्याशङ्क्य द्दष्टान्तेनोपपादयति- तच्चिकित्सावदिति। लोके हि

अधिकसुखप्राप्तिहेतुभूतमल्पदुःखात्मकं शस्त्रलवनक्षाराग्निकर्मादिकं हितमित्येवाभिधीयते तद्वदित्यर्थः। ननु तर्हि

बन्धुवधोऽपि हितस्स्यादित्याशङ्क्य हिताहितविभागश्शास्त्रैकसमधिगम्य इत्यभिप्रायेणाह--ब्राूत इति। ' यद्वै किञ्च

मनुरवदत्तद्भेषजम् ' इत्युक्तवचनप्रामाण्यशाली भगवान्मनुर्यज्ञे वधस्य वधत्वमेव नास्तीत्याह। हिंसात्वं नास्तीत्य

--र्थः। अशास्त्रीयमार्गेण प्राणवियोजने हिंसात्वं प्रसज्यते। यथा राज्ञां युद्धे शस्त्रुवधो न हिंसा। यथा वा चोरवधः। तस्यैव सर्वत्र विषयभेदेन हि पुण्यापुण्यव्यवस्था। आत्महननमपि क्वचित्पुण्यकोटिमाटीकते ' ब्रााहृणार्थे

गवार्थे वा सम्यक्प्राणान्परित्यजेत् '। तेन न यज्ञादिषु हिंसा न च तत्फलानुभवः, नापि विधिस्पृष्टो दोषः, नापि

हिंसकत्वं वैदिकानामिति रमणीयमेतत्। ननु ज्ञानप्रसङ्गेष्वितिहासपुराणेषु क्वचित् क्वचित् कर्मनिन्दा द्दश्यते

तत्कथमित्याशङ्क्याह-स्तौतीति। नहि निन्दा निन्ध्यं निन्दितुं प्रवर्तते अपितु निन्दितादितरत् प्रशंसितुमिति

न्यायेन तत्रतत्र विवक्षितज्ञानादिप्रशंसार्थैव कर्मनिन्दा। नचात्यन्तमवश्यकर्तव्यकर्मनिन्दा अध्यात्मशास्त्रेषु

फलसङ्गकतृत्वादिनिन्दायामेव तत्र तात्पर्यात्। तात्पर्ये हि शब्दः प्रमाणमिति हि तान्त्रिकाः। अन्यथा 'कर्मण्यकर्म यः पश्येत् ' इत्यादिकं सकलमपि गीताशास्त्रं लोलुप्येतेति।।

3. अत्र कश्चिदाह-- किमनेन कथञ्चित्समाधानेन। साङ्ख्याः खलु तत्त्वविदग्रण्याः संज्ञपनं दोषमाहुः।अन्यथा

कथं पुराणादिभिः पिष्टपशूपादानादिप्रसङ्ग उच्यत इति। इत्थं खलु साङ्ख्यानामभिप्रायः-- 'न हिंस्यात् ' इति

निषेधो रागप्राप्तहिंसाविषयः। 'आलभेत ' इति वैधहिंसा विधिप्राप्ता। विधिनिषेधयोर्विरोधे विहितव्यतिरिक्तविषयो

निषेध इति विषयभदेन विधिनिषेधव्यवस्था कर्तव्येति मीमांसका वदन्ति। तन्न युज्यते विरोधे सत्येव हि विषय

-भेदेन व्यवस्था कार्या। स एवात्र न विध्यते। संज्ञापनविधिर्हि पश्वालम्भनेन क्रतुसाद्गुण्यमाह। ' न हिंस्यात् '

इति निषेधो हिंसायाः पापहेतुत्वम्। एकमेव कर्म विधिनिषेधाभ्यामुभयमपि सुखदुःखात्मकं कार्यं करोतीति को

विरोधः। तेन सविषान्नभक्षणन्यायेन हिताहितरूपं यज्ञादिकमिति। तदनुवदति-- कर्तुरिति। सांख्यभक्ता इति

परिहासवचनम्। उक्तेऽपि युक्ते मार्गे पुनः पुनः परिचोदकः केवलं भक्त्यैव साङ्ख्यसिद्धान्तप्रक्रियां प्रलपतीत्यर्थः

अयमत्र निर्णयः---अहितत्वप्रसङ्गमेव निवारयितुं सयुक्तिके मन्त्रे चार्थवादे च जाग्रति महाजनपरिग्रहादालम्भन

-विधिवचनप्रामाण्ये च तिष्टति कथं सांख्यः पापसङ्करं प्रवदेदिति। तदिदमाह--निर्धूत इति। कथं तर्हि पुराणे

-तिहासादिषु पिष्टपश्वादिकल्पनं कथ्यत इत्याशङ्क्य तदपि कालविषेशनियतधर्मविशेषत्वान्न विरूध्यत इत्याह-

-पिष्टेति। यथा घटिकाव्यवस्थादिविशेषाद्धर्मव्यवस्था धार्मिकैरेव परिगृह्रते, एवमिहापीति न कश्चिद्विरोधः।।

4. पुनरपि सांख्यपक्षे दोषान्तरं समुच्चिनोति-- किञ्चेति। तदुपपादयति-- उत्सर्गेति। अयमर्थः-- यध्यपि

' स्वर्गकामो यजेत ' इत्यादिषु काम्यविधिषु स्वर्गरागात्तत्साधनक्रतूपकारकहिंसायां पुरुषः प्रवर्तत इति तत्र

हिंसांशस्य पापरूपत्वात् तत्फलं व्रीह्रादिस्थावरभावेनानुभूयत इत्युच्यते। तथाप्यत्र उत्सर्गापवादन्यायं जहतस्तव

'शरदि पशुमालभेत ' इत्यादि नित्यहिंसा कथं सिध्येत्। तत्र हिंसा नित्यप्राप्ता न रागजन्या। ननु तत्रापि

रागोऽस्ति सर्ववर्णिनामपि स्वधर्मानुष्ठानेऽपरिमितसुखप्राप्तिवचनादिति चेत् न नित्यकाम्यलोपप्रसङ्गात्।

तदिदमाह-- कीद्दशी नित्यहिंसेति। नित्यहिंसैव न सिध्येदित्यर्थः। ननु पिष्टादिनापि नित्यत्वसिद्धेर्विरोधो

नास्तीतिचेत् तत्राह-- तव हीति। सर्वत्रोत्सर्गापवादन्यायं जहतस्तवेत्यर्थः। श्रुतिपुराणादिषु पञ्चमहायज्ञप्रस्तावे

' पञ्चसूना गृहस्थस्य वर्तन्तेऽहरहस्तथा'। खण्डनी पेषणी इत्यादिना पेषणादेरपि हिंसात्वकथनात् तव विहितेषु

निषेधाविषयः किंचिदपि नास्त्येव।एवमस्त्विति चेन्न मन्त्रार्थवादविरोधस्य पूर्वमेवोक्तत्वात्। ननु ' विवाहकाले

ऋतुसम्प्रयोगे ' इत्यादिना ' अनाक्रोश्यमाक्रोश्यानृतं वोक्त्वा त्रिरात्रमक्षारलवमभोजनम् ' इति चानृतकथनं विधाय

तत्प्रायश्चित्तं विधीयते तत्र कथमिति चेत् सत्यं तत्रागत्या तदाश्रयणमित्याह-- यत्रासत्यादिवैधमिति। इतरवदिति-- अनृतकथनविधानवत् प्रायश्चित्तविधानमपि स्यादित्यर्थः। अथवा तत्र विहिते दोषसद्भावेन

प्रायश्चित्तं न विधीयते। किंतु जातेष्टिवन्नैमित्तिकमेव किञ्चित्तद्विधीयत इति न विधिनेषेधयोरेकविषयत्वमित्याह-

अथवा केवलं तन्निमित्तमिति। तत् अनृतकथनं पुत्रजननवन्निमित्तमात्रमित्यर्थः।।

5. एतस्य पादस्य सांख्यमायावादिनोः पक्षनिराकरणे विशेषेणोपकारकत्वं दर्शयति-- आश्लिष्टमिति। एवं किल

सांख्याः प्राहुः केचिन्मायावादिनश्च। बाधकैर्देहादिभिरश्लिष्टं नभो मुसलैरिव क्षेत्रिणं प्राहुः। नह्राकाशो मुसल

- प्राहारैर्बाद्यते एवं बाधकैर्दैहादिभिस्सांख्यमृषावाध्युक्तमात्मतत्वमपि न बाध्यतेऽसङ्गतत्वादिति। इत्थं फलभोक्तृत्वं नास्तीत्युक्त्वा कर्तृत्वमपि नास्तीत्याह-- कर्माकर्तारमिति। अत्राप्याहुरित्यनुषज्यते। तर्हि जीवस्य

कर्तृत्वाभावे कुत्र फलमित्याशङ्क्याह--फलमित्यादि। जीवोपाधिभूताहङ्कारनिष्ठमित्यर्थः। तर्हि सांसारिकफल

-मस्त्वहङ्कारादेः, मोक्षः कस्येत्याशङ्क्य मोक्षोऽपि प्रकृतेरित्याह-अव्यक्तस्येति। ' संसरति बध्यते मुच्यते च

नानाश्रया प्रकृतिः, इति हि माङ्ख्यप्रक्रिया। 'तस्मान्न बध्यते नापि मुच्यते नापिसंसरति कश्चित् ' इति

जीवस्यानादिमुक्तत्वमेवाहुः।' पुरुषस्तु सदा पुष्करपलाशवन्नर्लेपः' इति साङ्ख्यानामाख्यानम्। अत्र सर्वत्राहुतिर्यन्

- वयः।इदं साङ्ख्यमृषावादिनोरभिमतं जीवस्यैव संसारसम्बन्धप्रतिपादनात् सूत्रकारो निराचकारेत्याह- तेषामिति

अयं वैराग्यपादः साङ्ख्यमृषावादिनोर्मतं बहिरकृत निराचकारेत्यर्थः। अत्रायं विशेषः-- साङ्ख्यानां प्रकृतिस्सत्या प्रकृतिसम्बन्धप्रयुक्ताः सुखदुःखादयो दोषा मिथ्येतिपक्षः। मृषावादिनां पुनर्मायापि मिथ्या तत्सम्बन्ध

प्रयुक्तसंसारोऽपि मिथ्येति पक्षः। पक्षद्वयमपि संसारसम्बन्धपारमाथ्र्यप्रतिपादनेन निराकृतमित्यर्थः।।

6. अत्रोक्तानां षण्णामधिकरणानामर्थभेदान् विभज्य दर्शयति-- पाद इति। अस्मिन्पादे षडर्थाः प्रतिपाध्याः।

तानेवार्थाननुक्रमेणाह- वपुरिति। वपुर्देहं विजहज्जीवो भूतसूक्ष्मैस्सहेयादित्येकोऽर्थः। अपरस्तु-- भुक्तस्वर्गस्सानु

-शय एव यथेतमनेवञ्चावरोहेदिति। तृतीयः पुनर्निरयपथजुषां नरकमार्गेण गच्छतां चन्द्रावाप्तिर्न स्यादिति।

चतुर्थोऽप्याकाशादिसाद्दश्यमेव न पुनस्तद्रूपेण जन्मेति। आकाशादेरवरोहश्शीघ्रएवेति पञ्चमः। षष्ठोऽपि

परशरीरे व्रीह्रादौ चिरं योगमात्रमिति। योगस्तु-संसर्गमात्रमित्यर्थः।।

इति तृतीयाध्याये प्रथमपादः समाप्तः

। 3.2.1.

1. अत्र वैराग्यरपादानन्तरमुभयलिङ्गपादारम्भमाक्षिप्य सम्धत्ते-- ब्राहृैवेति। पूर्वमुभाभ्यामध्यायाभ्यां सर्वैरपि स्वैः

स्वभावैरन्वितं ब्राहृ प्रत्यपादि। अयञ्च साधनाध्यायः। अस्मिन्नध्याये समन्वयाविरोधाध्यायप्रतिपाध्यस्य ब्राहृणः

पुनराकृष्य चिन्ता किमर्थेति चोदकाभिप्रायः। चोध्यं निराकरोति-- मैवमिति। अयमत्राभिप्रायः-- सत्यमयं साधनाध्यायः। अथापि ब्राहृचिन्ता विशेषतः कर्तव्यैव। साधनं हि द्विविधम्- साध्योपायस्सिद्धोपायश्च। सिद्धोपाय

ईश्वरः। साध्योपायस्सद्विध्यादिभेदवती तद्भिक्तिरेव। विध्याभेदश्च रूपभेदात्। रूपञ्च विध्यायाः प्राधान्येन वेध्यं

ब्राहृैव। तस्य च भेदस्तद्गुणभेदात्। एवञ्च साधनाध्यायप्रतिपाध्यसाधनरूपभक्तिविषयत्वेन स्वयञ्च सिद्धोपायतया

साधनत्वेन साधनाध्याये ब्राहृचिन्ता विशेषेण सङ्गच्छत इति। तत्र ब्राहृचिन्तनस्य विध्योपकारकत्वं तावदाह--

विध्या इति। तद्धि तद्रूपभेदादिति-- तद् ब्राहृविशदीकरणं तद्रूपभेदात् तद्गुणभेदात् तेनोभयलिङ्गत्वादि

विशेषणोपेतं ब्राहृात्र चिन्तनीयमित्यर्थः। अस्य सिद्धोपायत्वप्रतिपादनार्थं ब्राहृचिन्तनं सफलमित्याह--सिद्धेति।द्वं

खलु विशेषतः प्रतिपाध्यम्- ब्राहृणस्सिद्धोपयत्वं सिद्धप्राप्यत्वञ्च। एतदुभयप्रतिपादनं प्राप्ये ब्राहृणि तृष्णाविशेष

सिद्धयर्थम्। तृष्णाविशेषाभावे खलुपायाधिकार एव पुरुषस्य न स्यात्। स्वर्गकामो हि यागादिष्वधिकुरुते एवं

परब्राहृप्राप्तिकामो हि ब्राहृोपासनेष्वधिकुर्यात्। तथा चोभयलिङ्गपाद उपासनानुष्ठाने विशेषेणोपकरोतीति शरीरकशास्त्रसारोऽयं पाद इति न नैरर्थक्यप्रसङ्गः। तृष्णाप्रथिम्न इति-- तृषणाभिवृद्धयर्थमित्युच्यते।अभिवर्धते

ह्रत्र तृष्णा ' स स्वेनैव फलप्रदः ' इत्युक्तप्रकारेण स्वप्रापकत्वेन स्वयमेव ब्राहृणि परिज्ञाते इति भावः।।

2. किंञ्च अखिलहेयप्रत्यनीककल्याणैकतानताप्रतिपादनपरोऽयमुभयलिङ्गपादो मृषावादिप्रभृतीनां परेषां प्रतिक्षेपे विशेषेणोपकरोतीति सफलएवेत्याह -- नैर्गुण्यमिति। ब्राहृणो नैर्गुण्यं चेत् गुणोपसंहारपादाधिकरणेषूभय

लिङ्गपादप्रतिपादितकल्याणगुणभेदैब्र्राहृविध्याविभागो वितथस्स्यात्। ननु कल्पितैरेव गुणैब्र्राहृाविध्याविभागस्स्या

-दिति परपक्षमनुवदति --सोऽस्विति। तत् प्रतिक्षिपति- श्रुतिमतविहतिरिति। अनादिनिधनाविच्छन्नसम्प्रदायतया

प्रतिपन्नस्य श्रुत्यर्थस्य कल्पितत्वे किमकल्पितं स्यात् ? तथा च गुणानां कल्पितत्वं वदन् वेदान्तबहिर्भूत इत्यर्थः।

ननु वेदान्तेऽपि 'मनो ब्राहृेत्युपासीत ' इत्येवमादिषु 'गरुडमात्मानं जानीयात् ' इत्यादिवद् द्दष्टिविधिद्र्दश्यते

तद्वदत्रापि स्यादित्याशङ्क्य निराकरोति-- नात्रेति। एकत्रागत्या द्दष्टिविधिपरिग्रहे सर्वत्रापि तथैव स्यादिति न

वक्तुं शक्यत इत्यर्थः। अन्यत्रान्यगुणारोपेणानुसन्धाने हि द्दष्टिविधिः। ब्राहृणस्तु सत्यत्वज्ञानत्वादिकं स्वरूपगुणत्व

वादबाध्यमित्यर्थः। एवं कल्याणगुणैकतानत्वप्रतिपादकप्रमाणविरोधात् मृषावादिनो दोषमुक्त्वा निर्दोषत्वप्रतिपादक

-प्रमाणविरोधादपि मृषावादिपक्षस्य दुष्टत्वमाह-निर्दोषत्वमिति।ब्राहृनिर्दोषत्वञ्च नित्यमेवेति प्रमाणानुसारेण यदि

वदसि तथा ब्राहृव्यतिरिक्तस्य संसरतो जीवस्याभावाद् ब्राहृणो नित्यनिर्दोषत्वाच्च मुधा निरर्थक एव संसाररूप

दोषशान्त्यर्थो वेदान्तश्रवणादिप्रयास इति नैरर्थक्यमेव शास्त्रारम्भस्य। तर्हि निर्दोषत्वं ब्राहृणः कल्प्यमिति वदाम

इति परस्याभिप्रायमाशङ्क्य प्रतिक्षिपति-- कल्प्यमिति। निर्दोषत्वं कल्प्यं चेत् दुष्टतैव ब्राहृणः प्रकृतिस्यादिति

पुनश्शास्त्रारम्भवैयथ्र्यमिति परेषां प्रतिक्षेपायोभयलिङ्गपादस्सफल एव।।

3. इत्थं निर्विशेषत्वस्य मिथ्यात्वे दोषं द्दष्ट्वा पुनस्सत्यत्वं वदतो बम्भ्रम्यमाणस्य मृषावादिनो बहूनपि दोषानाह---किञ्चेति। ब्राहृणो निर्विशेषत्वपारमाथ्र्ये ब्राहृजिज्ञासा कर्तव्येति आदौ चिन्त्यत्ववादो न स्यात्, तथा-

-प्रमाणगोचरत्वमपि तथैव स्वसिद्धान्तसारभूतं स्वयम्प्रकाशत्वमानन्दरूपत्वं विश्वाध्यासाधिष्ठानत्वं ' बहुस्याम् '

इति स्वस्य बहुभवनसङ्कल्पः। एताद्दशं सर्वमपि गुणजातं निर्विशेषे ब्राहृणि कथं स्यात् ? न कथंचित् स्यादित्यर्थः। एते गुणा यदि परमार्थास्तदा सगुणवादप्रसङ्गः। अपरमार्थाश्चेत् स्वयम्प्रकाशत्वानन्दत्वयोरप्यपर-

-मार्थत्वे स्वसिद्धान्तस्य मूलोच्छेदः। बौद्धादिभ्यो वैषम्यञ्च किं स्यात् ? अयमर्थविरोध उक्तः।श्रुतिविरोधमप्याह--

सर्वेति। श्रुतिप्रमाणविरोधमुक्त्वा स्ववचनविरोधमप्याह-- स्ववचनेति। प्रत्यक्षादिकृत्स्नप्रमाणविरुद्धवादित्वादिकं

मृषावादिनस्सुप्रसिद्धमेव ' दुर्घटत्वमविध्याया भूषणं नतु दूषणम् ' इति। तद् भूषणं चेद् ब्राहृैवाविध्या, निरधिष्ठान एव भ्रमः, निष्प्रकाशमेव ब्राहृेत्यादिकमप्यत्यन्तदुर्घटं श्रेष्ठमेव भूषणं स्यादिति माध्यमिकविजयतूर्यमेव

जोघुष्येत।मायावैयात्येत्यादि-- मायाधाष्टर्¬ात् कष्टां दशामापन्नानामष्टपादकल्पनां मृषावादिनामिह गुणोपसंहार

पादप्रतिपाध्यं सकलमपि सगुणोपासनं समूलोन्मूलनमर्हतीति सर्वशास्त्रव्याकोपः।।

4. अस्मिन्नुभयलिङ्गपादे यदि ब्राहृ चिन्त्यमुच्यते तर्हि जीवस्य स्वप्नाध्यवस्थाकथनं कथं सङ्घटेतेत्याशङ्क्य

स्वपनादिद्दष्टिरपि भगवत्सङ्कल्पादेव सिध्यतीति तत्प्रदर्शनस्यापि भगवन्माहात्म्यप्रदर्शपरत्वादस्मिन्पादे सङ्गति

र्युज्यत इति परिहरति--त्यक्तमिति। अयमत्र शब्दार्थः--दोषैस्त्यक्तं गुणाढ¬ं ब्राहृ यदि पुनरिह चिन्त्येत तर्हि

जीवस्य स्वप्नाध्यवस्थमननमथ वैराग्यपादानन्तरमस्मिन्पादे कथं संघटेतेति शङ्का। तामिमामां निराकरोति-

नेति। तदेव विवृणोति-- स्वप्नेति। स्वप्नार्थस्यापि भगवानेव रुाष्टति तत्रुाष्टृभावप्रभृतिबहुविधब्राहृमाहात्म्यसि

--द्धयै तथा अस्य जन्तोस्स्वमुक्तावत्यन्त परवशताज्ञप्तये चैतज्जीवस्य स्वप्नाध्यवस्थामननमत्र क्रियते।

अयमर्थः-- न जीवस्स्वप्राधान्येनात्रोच्यते, अपि तु परमात्मनो जग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थाकतृत्वप्रतिपादनार्थम्

इति परमात्मैवास्मिन्पादे सर्वत्र प्राधान्येनोच्यत इति।।

5. अत्र केचिदाहुः --- ' अस्मिन्नुभयलिङ्गपादे पूर्वार्धं जीवपरं वैराग्यपादशेषभूतम्, उत्तरार्धं परमात्मपरमिति।

एतदनुवदति - पादस्येति। पश्चार्धमत्रास्मिन्पादे साक्षादनुघटितमुपास्त्यर्थ तत्तद्भगवद्गुणोक्तेरिति।

इदमेकदेशिमतं नातीव ह्मध्यमिति निराकरोति-- एतदिति। तत्र हेतुमाह-- शबलितेति। सङ्कीर्णकथने

चातुरीवैपरीत्यादिति। तर्हि पादपूर्वार्धे जीवदोषग्रहणं किमर्थमित्याशङ्क्य ब्राहृगुणाभिव्यक्त्यर्थमिति परिहरति-

ब्राहृेति।संसरतो जीवस्य कथने हि संसारमोचकस्य परमात्मनो माहात्म्यं सिध्यतीत्यर्थः।शब्दार्थस्तु - जीवदोष

ग्रह इह तु मुखमुपाय इत्यर्थ इति।।

6. अत्र चोदयति ' स्वप्नसृष्टिः परमार्थभूतेति भवद्भिरुच्यते तत्कथं सङ्घटते ? अतीतानागतयोरपि स्वप्ने

दर्शनात्। असम्भाविततार्थदर्शनं हि जागरे मिथ्या किं पुनस्स्वप्ने। अतस्स्वप्नसृष्टिर्नपरमार्थभूता ' इति। तदिदमाह--स्वप्न इति। अयमत्र शब्दान्वयः-- स्वप्नेऽर्थास्सृष्टास्सन्तु। अथापि बहुविधा भ्रान्तिरत्र स्वप्ने

दुस्त्यजा प्रधवस्तानां पित्रादीनामिदानीन्तनवदनुभवात् स्वप्नलब्धानां सुवर्णादीनामस्थिराणामपि स्थायितादि

भ्रमाच्च, अतः स्वप्नस्य अपारमाथ्र्यं तव वक्तव्यमिति। तदिदमर्धाह्गीकारेण निराकरोति-- सत्यमिति। तत्र

अङ्गीकृतमनङ्गीकृञ्च विभज्य दर्शयति-- श्रुत्यादीति। श्रुत्यादिसिद्धेऽर्थे श्रुतहानायोगात् सर्वकर्तुर्भगवतस्तत्का

- लमात्र तत्तत्पुरुषमात्रानुभाव्यस्तुसृष्टिमङ्गीकृत्यात्यन्तव्याहतेष्वर्थेषु बाधादेव जागरवद् भ्रान्तिमङ्गीकृत्य सर्वं

निर्वहन्तश्श्रुतिसिद्धमर्थं न क्षिपाम इति।।

7. तर्हि स्वयमेकत्र वर्तमानस्य स्वप्ने देशान्तरगमनं पारमार्थिकं कथं स्यादित्याशङ्क्य नानाशरीरपरिग्रहवतो

योगिन इव विश्वकर्तुर्भगवतस्सङ्कल्यप्रभावात् सर्वं सङ्घटत इत्याह -- कश्चिदिति। अयमत्र शब्दान्वयः--

-कश्चिध्योगी योगप्रभावात् स्वपरगृहयोस्स्वैरसञ्चारन्यायेन पूर्वदेहान्निष्क्रान्तो विशति परवपुर्देहान्तरं प्राप्नोति। तेनैव तत्र सञ्चारादिकमपि करोति।पूर्वं शरीरमपि भूयस्समागत्य प्राप्नोतीति। तथा स्वप्ने पूर्वशरीरं

परित्यज्य भगवता सृष्टं शरीरान्तरं स्वप्नद्रष्टा प्रप्नोति स्वप्नान्ते पूर्वशरीरं पूनः प्रप्नोतीति केचित्प्रतिपेदिरे।

तदिदमाह -- इत्थमिति। पक्षान्तरमप्याह-- श्वासवृत्त्येति। अयं खल्वन्येषामभिप्रायः -- यदि स्वप्ने शयितः पुरुषः पूर्वशरीरं परित्यज्य शरीरान्तरं परिगृह्णाति, तदा पूर्वस्मिन् शरीरे श्वासवृत्तिर्न स्यात्। अतस्तस्मिन्नेव

शरीरे जीवोऽवतिष्ठते। भगवता सृष्टेषु तु स्वाप्नेषु शरीरान्तरेषु ' प्रदीपवदावेशः ' इति वक्ष्यमाणान्यायेन

धर्मभूतज्ञानव्याप्त्या सौभरिन्यायस्य सिद्धत्वात् धर्मभूतज्ञानव्याप्त्यैव शरीरान्तरपरिग्रह इति निरणैषुरिति।।

8. अत्र सङ्गतिर्भाष्ये ' एवं कर्मानुरुपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम्। इदानीमस्य स्वप्नवस्था परीक्ष्यते ' इति। तदर्थविचारस्तु -- ' न तत्र रथा न रथयोगा न पन्थानो भवन्ति '

इत्यारभ्य स्वप्नसृष्टिराम्नायते, सा किं पारमार्थिकी, उत मायामात्रमिति। किं 'सृजते स हि कर्ता ' इति निर्देशः

पारमार्थिकतामवगमयति नेति। किमयं निर्देशस्सृष्टिकर्तुः कर्तृत्वपरः, उत स्वप्नज्ञानवत्कर्तृत्वपर इति। किं

प्रजापतिवाक्यावगतसत्यसङ्कल्पत्वस्य जीवस्य स्वप्ने सङ्कल्पमात्रात् सृष्टिस्सम्भवति नेति। य एषु सुप्तेषु

जागर्ति कामंकामं पुरुषो निर्मिमाणः ' इति जीवस्य स्वप्ने सङ्कल्पमात्रात् रुाष्टृत्वमवगमयति नेति। किमिदं

वाक्यं जीवपरमुत परमात्मपरमिति।अस्मिन् खल्वधिकरणे स्वप्नसृष्टिर्जीवकार्यमुत परमात्मकार्यमिति चिन्त्यते।

अत्र पूर्वपक्षवादी मन्यते --उक्तमिति।उक्तं हि दहरवाक्यशेषभूते प्रजापतिवाक्ये प्रजानां पत्या सत्यसङ्कल्पता

ध्यं दहरवद् दहराकाशवज्जीवस्यापि।भविनीति सप्तमी। जीवे इत्यर्थः। तेन स्वसङ्कल्पात् सृष्टिस्स्वप्ने

जीवस्यैव समुचिता। किञ्चात्रपुत्रादीनां सृज्यत्वमुच्यते।पुत्रादिसम्बन्धो जीवस्यैव सङ्घटते रथादीनां जीवानुकूल

-वस्तूपलक्षणत्वात्। तेन पुत्रादिकतृत्वेन प्रकृतो जीवस्स्वाभीष्टं स्वाप्नमर्थः सृजेदित्यर्थः। इममर्थं प्रतिक्षिपति

--मैवमिति।तत्र हेतुमाह-- मुक्ताविति। ताद्दग्गुणोक्तेः --जीवस्यापहतपाप्मत्वदिगुणाष्टकाविर्भावस्योक्तेः स्वप्नावस्थायामन्धप्रयो जीवः कथमपहतपाप्मत्वादिगुणाष्टकं प्राप्नुयादित्यर्थः। हेत्वन्तरमप्याह --अनभिमतेति।

यदि जीवस्स्वयमेव स्वार्थं स्वप्ने सृजति तदानीं नियतमेवानुकूलं सृजेत्। सुप्तः खलु कदाचित्प्रतिकूलानपि

स्वप्ने पश्यति। तन्न युज्यते सत्यसङ्कल्पत्वे जीवस्य स्वप्रतिकूलं स्वयमेव कथं सृजेदिति। तृतीयमपि हेत्वन्तरमाह -- स्वाप्नानां सूचकत्वादिति। शुक्लानि सर्वाणि शुभावहानीत्येवं स्वप्नेऽपीश्वरसङ्कल्पेन स्वयमागतानि शुभाशुभसूचकानीति प्रतिपत्तव्यमित्यर्थः। तस्मादीश्वररुाष्टृत्वमेव स्वप्नप्रपञ्चस्य। तदिदमाह -

निखिलजगदिति।।

9. अत्र ' कामङ्कामं पुरुषो निर्मिमाणः ' इति विषयवाक्ये किं णमुल्यप्रत्ययेनाभिधानम् ? किं वा कामंकाममिति कर्मभूतविषयविशेषाभिधानम्? इत्याशङ्क्य भगवतस्सत्यसङ्कल्पस्य रुाष्टृत्वाभिधानार्थं णमुलेव

समुचित इत्याह - कामंकाममिति। जीवस्यासत्यसङ्कल्पस्य कर्तृत्वायोगात्। तथा च सतीश्वर एवानुध्यते।

अयंच परमात्मा सुप्तेषु पुरुषेषु जागर्ति। तेन तस्याश्चर्यरुपकार्यकरणे कर्तृत्वं युज्यत इत्यर्थः। तस्य जागरणञ्च श्रतिसिद्धमित्याह --विशदमिति। ' प्राज्ञेनात्मना सम्परिष्वक्तः ' इति हि श्रूयते। ननु जागिवत् स्वप्नस्यापि परमार्थसृष्टिरूपत्वे कथं तत्तत्कालावसायित्वम्? कथंवा तत्तदेकैकपुरुषमात्रानुभाव्यत्वं? इत्याशङ्क्य

निरङ्कुशस्वतन्त्रेश्वरसङ्कल्पविशेषादित्यभिप्रायेण परिहरति--तत्तदिति। न केवलं स्वप्न एव तत्तत्कालावसान

-कार्यसृष्टिः, अपितु जागरेऽपि मेघोदयादीनां ताद्दक्त्वेनोपलम्भो द्दश्यते। ननु तथप्येकपुरुषानुभाव्यत्वं न द्दश्यत

इति चेत् तदपीश्वरसङ्कल्पादिति मन्तव्यम्। द्दश्यन्ते हि मन्त्रौषधसिद्धाञ्जनादिप्रभावत् तत्तत्पुरुषमात्रानुभाव्या

विषयविशेषाः। अपर्यवियाज्यः खल्वीश्वरसृज्यत्वे हेत्वन्तरमप्याह --तत्तत्कर्मानुरूपं फलवितरणमिति। स्वप्नदर्शनं हि सुखदुःखात्मकत्वात्कर्मफलं कर्म चेश्वरसङ्कल्पविशेष इतीश्वरायत्तत्वमेव स्वाप्नस्यार्थजातस्य।

पापी हि पापानुरूपं स्वप्नं पश्यति धर्मोत्तरस्तु तदनुरूपमिति महानयं मार्गस्सर्वैरप्यनतिलङ्घनीयएव। एतदप्युक्तमाप्तैरिति -- अयमभिप्रायः।कस्यचित्क्वापि काले शुभप्रप्तिरितस्य पुनरशुभप्राप्तिरिति निमित्तसामुद्रिकतत्तद्ग्रहसञ्चारादिना विद्वद्भिरभिधीयते, प्रतिबन्धादिना यदि तन्न स्यात् तत्स्वप्नेऽपि न प्राप्यत

इति तैरेवाभिधीयते, अतोऽपि कर्मफलत्वं सिद्धं स्वाप्नस्य सुखदुःखादेरिति।।

10. अत्र ' मायामात्रन्तु कात्स्न् र्येन ' इति सूत्रे मायाशब्दप्रयोगमात्रमवलम्ब्य श्रुतिमुखसुगता वेदवादच्छद्मबौद्धा मृषावादिनो विश्वमिथ्यात्वमाहुः। तन्मतं दूषयति -- मायेति। तत् प्रपञ्चमिथ्यात्वं तैश्शारुाारम्भे कथितमिति पुनरत्राभिधाने पौनरुक्त्यमसङ्गतत्वञ्च। तेनेश्वरविचित्रसृष्टिस्स्वप्नप्रपञ्च इत्येतदेवात्रोच्यते नपुनर्विश्वमिथ्यात्वम्। मायाशब्दमात्रवलम्बनेनैव हि मृषावादिनामिदमभिधानम्, तदपि तेषामनालम्बनमित्याह -- मायाशब्द इति। न हि लोके मायाशब्दो मिथ्यावचन इत्याभिधानिकाः पठन्ति।

' माया तु वयनं ज्ञानम् ' इति हि नैघण्टुका ज्ञानविशेष एव मायाशब्दं प्रयुञ्जते। 'इन्द्रो मायाभिः पुरुरूप ईयते'

इत्यादावीश्वरस्सङ्कल्पविशेषैर्नानारूपोऽनुभूयत इति ह्रुच्यते। आह च पराशरः--

' अनेकशक्तिरूपाणि तत्करोति जनेश्वर।

देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया।।

जगतामुपकाराय न सा कर्मनिमित्तजा।। इति।

लीलेति स्वसङ्कल्प एवोच्यते। स च सङ्कल्पो ज्ञानञ्च माया, अतो न मायाशब्दो मिथ्यावाची, अपित्वाश्चर्यसृष्टिवाची, यद्वा तत्सृष्टिहेतुभूतशक्तिविशेषवाची, अथवा तत्तत्सृष्टिनिदाननिमित्तभूतसङ्कल्पविशेषवा

--ची। द्दश्यन्ते हि प्रयोगाः ' देवमायेव निर्मिता ' इति। मिथ्यात्वे हि कल्पितेति व्यपदिश्येत। अन्यदपि।

' तेनमायासहरुां तत् शम्बरस्याशुगामिना।

बालस्य रक्षता देहमैकैकश्येन सूदितम्।। इति।

अत्र हि सूदितमिति नाश्यत्वमेवोच्यते। नाशो हि परमार्थसतः प्रध्वंसः। अन्यथा बाध्यत्वमेवोच्येत। बाधो हि

प्रतिपन्नोपाधौ निषेध्यत्वमिति भृषावादिनो वदन्ति। 'मायां तु प्रकृतिं विध्यात्' इति मायाशब्दस्य मिथ्यार्थत्वव्यावृत्त्यर्थं हि प्रकृतिं विध्यादित्युच्यते। अत एव ' मायामृगो ह्मतः ' इत्यत्र मारीचस्य प्रध्वंस एव वण्र्यते। मेघनादमायादिष्वपि मन्त्रविशेषसाध्यपरमार्थसर्पाणामेव मायेति व्यवहारः। कथमन्यथा गरुडप्रभावविशेषैर्निराकरणायत्वं युज्यते? किञ्च सर्वलोकप्रसिद्धोऽयं व्यवहारः। सामभेददानदण्डमायेन्द्रजालोपेक्षा इति साप्तोपाया नीतिशास्त्रेषु निर्दिश्यन्ते। तत्र मायेन्द्रजालयोर्वैषम्यमुच्यते।

मन्त्रादिशक्तिविशेषात् परमार्थसर्पादिसृष्टिर्माया। तस्मादेव मन्त्रादिशक्तिविशेषादपरमार्थगजतुरगरथपादातादि

प्रदर्शनेन परकटकभञ्जनमिन्द्रजालफलमिति। एवमन्यत्राप्युदाहरणानि द्रष्टव्यानि। अथापि पुराणेषु पामरप्रयोगेषु

च मिथ्याविषयेऽपि मायाशब्दः प्रयुज्यत इत्याशङ्क्योत्तरमाह-- उपचरत्विति। न ह्रौपचारिकः प्रयोगश्शब्दस्य

शक्तिविशेषं नियमयतीत्यर्थः। तदिदमाह -- किं तत इति। प्रयोगप्राचुर्यमितिहासपुराणादिष्वपि प्राचुर्येण

सत्यभूतएवासुरराक्षसास्त्रादावेव द्दष्यत इत्याह -- सत्य इति। ' मेघोदयस्सागरसंनिवृत्तिः ' इत्युपक्रम्य

' विष्णोर्विचित्राः प्रभवन्ति मायाः ' इति पुराणेष्वपि पठ¬ते। तर्हि कृत्स्नस्यपि कार्यस्य मायाशब्दवाच्यत्वे किं

नियामकमित्याशङ्क्याह--उचितनियमन इति। अयमर्थः-- आश्चर्यरूपकार्यविशेषो मायेत्युच्यते इन्द्रजाले

मायाशब्दभिधानमाश्चर्यरूपत्वाविसेषादौपचारिकमिति मायेन्द्रजालयोर्विभागः। ' देवी ह्रेषा गुणमयी मम माया

दुरत्यया ' इति वचनं त्रिगुणस्यैव विचित्रप्रप्चसृष्टिहेतोमार्याशब्वाच्यत्वं व्यक्तमेव स्थापयति।।

3.2.2.

1. अत्र सङ्गतिर्भाष्ये ' इदानीं सुषुप्तिस्थानं परीक्ष्यते ' इति। पूर्वं स्वप्नो निरूपितः, इदानीं सुषुप्तिस्थानमित्यर्थः। तदर्थविचारस्तु-- किं नाडीपुरीतह्ब्राहृाणि जीवस्य विकल्पेन सुषुप्तिस्थानानि? उत

समुच्चयेनेति। किमेषां प्रसादखट्वापर्यङ्कवत् कार्यभेदोऽस्ति नेति। ' सत आगच्छामहे' इति ब्राहृणः प्रबोधश्रवणं

ब्राहृणः पर्यङ्कस्थानीयतामवगमयत् किं कार्यभेदमवगमयति नेति। अत्र पूर्वपक्षीमन्यते--स्थानं जन्तोरित्यादि।

जन्तोस्सुषुप्तौ श्रुतिरनियमतो नाड¬ः पुरीतत् ब्राहृेति च स्थानं वक्ति वदति। तस्मात् त्रयाणामपि स्थानानां

मिथो नैरपक्ष्यात् नाड¬ो वा पुरीतद्वा ब्राहृवेति विकल्प इति पूर्वपक्षः। उक्तमर्थं प्रतिक्षिपति--तन्नेति। प्रतिक्षिपमेव युक्त्या विवृणोति--प्रासादेति। अयमर्थः-- समुच्चये कार्यभेदाभावे हि विकल्पो न्याय्यः। अत्र पुनः

कार्यभेदेन समुच्चयेन योजितानां प्रासादखट्वापर्यङ्कन्यायेन नाडीपुरीतद्ब्रााहृणं विकल्पो न न्याय्य एव।स च

विकल्पोऽष्टदोषदुष्ट एव। तदेवाह--पक्षेपक्ष इति। ' व्रीहिभिर्यजेत ' ' यवैर्यजेत ' इति विकल्पेनानष्ठीयमानयो

व्रीहियवयोः प्रथमं व्रीह्रनुष्ठाने यवशास्त्रविषयौ द्वौ दोषौ स्तो यवशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति।

समनन्तरं कदाचिद्यवशास्त्रानुष्ठाने व्रीहिशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति द्वौ दोषौ स्तः। तस्मिन्नेव

यवानुष्ठानसमये यवशास्त्रे त्यक्तप्रामाण्यस्वीकारस्स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ भवतः। पुनः परिवृत्य

व्रीहिशास्त्रानुष्ठानरूपे तृतीये प्रयोगे व्रीहिशास्त्रे त्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ

स्त इति प्रयोगत्रयादष्टदोषदुष्टत्वं द्वयोरपि शास्त्रयोश्चत्वारश्चत्वारो दोषा इति प्रथमानुष्ठानवेलायां द्वौ दोषौ,

द्वितीयानुष्टानवेलायं चत्वारस्तृतीयानुष्ठानवेलायां पुनद्र्वौ दोषाविति बुद्ध्या विभज्य धीमद्भिर्भावनीयम्।

प्रकारान्तरेणाप्यष्टदोषदुष्टत्वमाहुर्विकल्पविषयमाचार्यः-- व्रीह्रनुष्ठाने यवशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति

चत्वारो दोषाः। एवं यवानुष्ठाने व्रीहिशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषा इत्यष्टदोषदुष्टत्वम्।

तेनायमर्थः--गत्यभावे विकल्पस्स्वीकार्यः सम्भवन्त्यां गतौ समुच्चय इति। अत्र तु प्रासादखट्वापर्यङ्कन्यायेन समुच्चयस्य सम्भवाद् विकल्पो न स्वीकार्यः। क्रमघटितचतुर्दोषयुक्त इति -- प्रयोगत्रयसुद्धमष्टदोषदुष्टत्वमनु

--वदति। तेन प्रयोगद्वायादिति बालकानां प्रतिभासो दुष्प्रतिभास इत्यर्थः।।

3.2.3.

1. सङ्गतिर्भाषेये ' किं सुषुप्त एव प्रबोधसमय उत्तिष्ठत्युतान्य इति संशये ' इति। तदर्थविचारस्तु-- किं

सुषुप्तादन्यः प्रबोधसमये उत्तिष्ठति, उत स एवेति। किं सुषुप्तौ सकलोपाधिविनिर्मोकोऽस्त्युत नेति। किं कर्मानुस्मृतिशब्दविधयस्सकलोपाधिविनिर्मोकाभावं गमयन्ति नेति। ननु सुषुप्तिर्नाम मुक्तिप्रायैव मुक्तिः किल

जहदरसुखगणा दुःखसङ्घातविरहिता ब्राहृण्यपीतिरेव प्रलय एव श्रुत्यैवख्याप्यते तेन तदनु सुषुप्त्यनन्तर

मुद्बुध्यमानस्तनुभृदन्य एवेति पूर्वपक्षानुवादः क्रियते-- मुक्तिरिति।इमं पक्षं प्रतिक्षिपति--मैवमिति। मुक्तेस्स्वापस्य विशेषं दर्शयति--कर्मानुवृत्तेरित्यादिना।पूर्वकर्मानुवृत्तेः कर्मफलस्य सुखदुःखादेर्दर्शनात् कर्मानुवृत्ति

द्र्दश्यते। अन्यत्वे कथमिव स्मरणं सम्भवति? शब्दोऽपि ' त इह व्याघ्रो वा' इत्यादिभाष्योपात्तः। विधिरपि--

--सुषुप्तस्यैव मुक्तत्वे मोक्षार्थविधयः कथं सङ्घटेरन्? अयत्नलभ्यस्य किं यत्नेनेति। स्वपदनुवदनादिति--'नाहं

खल्वयमेवम् ' इत्यादिना ' नाहमात्र भोग्यं पश्यामि' 'विनाशमेवपितो भवति ' इति सुषुप्तस्यानुवदनाच्च। प्राचीन

एव विनष्टप्रायः पुरुषः प्रबुद्धो भवतीति मन्तव्यम्।।

2. अत्र सुषुप्तस्यैव प्रबोधसमये पुनरुत्थानमिति किमर्थं स्थाप्यते विशेषप्रयोजनाभावदित्याशङ्क्यात्यन्तोपयुक्तं

प्रयोजनविशेषमाह-- जीवानादित्वमित्यादिना पद्येन। जीवानामनादित्वसिद्ध्यर्थमिदं सूत्रं चेत् तत्रोक्तमेव

' न कर्माविभागादिति चेन्नानादित्वात्'।इत्यादिना। मोक्षे द्दषदनुकरणक्षेपणं मूढत्वक्षेपणमनेन सूत्रेण क्रियते चेत्

तदप्युत्तरत्र करिष्यते। स्थायित्वोपपादनेन जीवानां स्वर्गाध्यर्थप्रवृत्तिः क्रियते चेत् सापि श्रुतिनयविदिता

कृत्स्नस्यापि मीमांसाशास्त्रस्य स्थायित्वमन्तरेणानुपपत्तेस्स्वर्गाध्यर्थप्रवृत्तिरपि श्रुत्या तदनुग्राहकन्यायेन च पूर्वमेव

विदिता। आत्मस्थैर्योपपादनेन क्षणभङ्गभङ्गश्चेत् सोऽपि सौगताधिकरणादिषु सिद्धः। जीवस्य सुषुप्तावीश्ववरैक

त्वनिराकरणार्थमिदमधिकरणं चेत् तस्य कल्पान्तेऽप्येकत्वमपि नामरूपादिप्रहाणमात्रान्न पुनस्स्वरूपैक्यादिति

तत्रतत्रोक्तम्। तेन साप्युक्तिर्नियमितविषया। अतो भूयश्चिन्ता सुषुप्तेः न कर्तव्येति कस्यचिद् बालप्रायस्य

चोध्यमनूदितं परिहरति-- प्रलयसमदशासज्जिहासादिसिद्ध्या इति। नैयायिकदुर्दुरूढाः केचित् पाषाणप्रायेमेव

मोक्षं वदन्ति। तर्हि ' नाहमत्र भोग्यं पश्यामि ' 'विनाशमेवापीतो भवति ' इति निन्दिता सुषुप्तिरपि मुक्तिस्स्यात्,

नेयं मुक्तिरिति मनीषिभिः प्रथ्र्यते। एवं पाषाणवन्मुक्तिरिति वैराग्यपादे तन्मुक्तिनिन्दया तज्जिहासाविशेषोऽपि

सिध्यति तदर्थमयं प्रसङ्ग इति न नैरर्थक्यमित्यर्थः।।

3.2.4.

1. जाग्रत्स्वप्नसुषुप्तिरूपावस्थाविशेषान् परिशोध्यानन्तरं मूच्र्छारूपा सुषुप्तितुल्यावस्था विचार्यत इति सङ्गतिः।

जाग्रत्स्वप्नयोः प्रज्ञायुक्तत्वात् सुषुप्तिमूच्र्छयोः प्रज्ञाविलोपरूपत्वात् तयोर्मिथस्सङ्गतिः। तदर्थविचारस्तु-- किं

मूच्र्छा जाग्रत्स्वप्नसुषुप्त्यादीनामन्यतमावस्था, उतावस्थान्तरमिति। किं लक्षणतो भेदो व्यवस्थापयितुं शक्यते नेति। किं सूक्ष्मप्राणसम्बन्धो मूच्र्छेति लक्षणं भवति नेति। अत्र पूर्वपक्षी प्राह जाग्रत्स्वप्नसुषुप्तिमरणभेदेन चत्वारो

ह्रवस्थाविशेषा लोके प्रसिद्धाः। तत्र जाग्रत्स्वप्नौ बाह्रज्ञानविरहितौ न भवतः सुषुप्तिश्च श्वासपूर्णत्वान्न

मूच्र्छा मरणमेव प्रशमितकरणप्राणवर्गत्वादिति। तदिदमनुवदति--जाग्रदिति। तत्प्रतिक्षिपति--नेति। मूच्र्छामरणयोर्भेदे कारणभेदमेव तावत् प्रामाण्यति--मृत्यादेरिति। अभिघातादिमात्रान्मूच्र्छा शिरश्छेदादेर्मरणमिति

मूच्र्छामरणकारणयोर्भेदादित्येको हेतुः। हेत्वन्तरमाप्याह--स्थितीति। मूÐच्छते पर्यन्तस्थिताः स्थितो वा मृतो वेति

विशेरते। स च संशयो मूच्र्छामरणयोर्वैषम्यमावेदयति। तृतीयमपि हेतुमाह--उत्थितेरिति। मूÐच्छतेष्वेव कश्चिन्मन्त्रौषधादिविभावात् पुनरुत्तिष्ठते। मृतस्तु गच्छत्यमेव एवमुत्थानस्यानियतत्वादित्यर्थः। तर्हि मूच्र्छेति

कोऽयमवस्थाविशेष इत्याशङ्क्याह-- मर्तुमिति। मर्तुं प्रक्रम्य विधिना मध्ये विमतीति मरणस्यार्थसम्पत्तिरूपावस्थाविशेषो मूच्र्छेतिपरिकल्पनीयमिति। अर्धमरणं मूच्र्छेत्यर्थः।।

2. अत्राष्टानामप्यधिकरणानामन्योन्यार्थभेदोपपादनात् पेटिकाभेदमुत्तरपेटिकायामवान्तरपेटिकाभेदञ्चाह--

जन्तूनामिति। एवं चतुर्भिरधिकरणैर्जन्तूनां जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु यद्वैशसं तद्दर्शितम्। अतः परंतु

सर्वस्थानयोगेऽपि स्वयमनघशुभगुणं ब्राहृ संशोध्यत इति पेटिकाविभागः। उत्तरपेटिकायामपि पूर्वभागस्योत्तर

भागस्य चार्थभेदेन वैषम्यमाह-- संसर्गेत्यादिना। उभाभ्यामधिकरणाभ्यां दोषवत्ससर्गमूलांस्तत्तादाम्याभिधानमूलां

श्च दोषान् परिहरति। अथोत्तराधिकरणद्वयार्थमाह --हीनत्वेति। सर्वस्मात्परत्वाभावे निरतिशयौदार्याभावे

चोपास्यत्वासम्भवात् सर्वस्मात्परत्वहानिं निरतिशयौदार्यरहितत्वं चोत्तराभ्यामधिकरणाभ्यां निराकरोतीति मिथो

विभागः।।

3.2.5.

1. पूर्वाधिकरणे संसरन्तं मरणावस्थाधीनं जीवं वैराग्यातिशयसिद्धयर्थमुक्त्वा प्राप्यतृष्णाविशेषसिद्ध्यर्थं भगवत

उभयलिङ्गत्वमुच्यत इति सङ्गतिः। तदिदं व्यक्तमेव दर्शयति--नैर्गुण्यमिति। अत्र मृषावादिनां पक्षनूद्य

विशेषतस्तत्प्रतिक्षेपपार्थमेवेदमधिकरणं प्रवृत्तम्। ते खल्वेवमाहुः-' निर्गुणं निरञ्जनम् ' इति ब्राहृणो नैर्गुण्यमेव

प्रामाणिकम्। तर्हि ' सत्यकामसत्यसङ्कल्पः ' इत्यादि गुणवचनस्य का गतिरत्याशङ्क्याह-- गुणवचनमिति।

अविद्यापरिकल्पितधर्मार्थवादमात्रमेव गुणवचनं प्रलोभनार्थमित्यर्थः। तर्हि गुणाभावे किं ब्राहृणो दोषवत्तवमेव

स्वाभाविकमिति भवतोच्यत इत्याशङ्क्याह-- नैर्दोष्यमिति। अयमर्थः-- ब्राहृणि नैर्गुण्यं नैर्दोष्यं चोभयमपि

स्वाभाविकमिति। तदिदमाह-- वस्तुवत्त्येति। तर्हि श्रुतिपुराणादिसिद्धं ब्राहृगुणविग्रहादिकं संसारसम्बन्धश्च

सर्वलोकप्रसिद्धः किं भवेदित्याशङ्क्याह--तदितरदिति। उक्तमेतदेकदेशमात्रमस्माभिः। इत्थमेवं

जीवेश्वरैश्वर्यापहरणप्रवृत्तकुहनावादमोमुह्रमानान् निराकर्तुं ' न स्थानतोपि ' इत्यधिकरणमारभ्यते। अनेकश्रृङ्गम्--बहुप्रकारमित्यर्थः।।

2. ' दोषदर्शनात् ' इत्यादिना भाष्ये सङ्गतिव्र्यक्ता। प्रदर्शिता चास्माभिः पूर्वमेव। तदर्थ विचारस्तु-- सुषुप्त्युत्

क्रान्त्यादिस्थानेषु स्थितस्य जीवस्य ये भवन्त्यपुरुषार्थाः, ते तदन्तर्यामिणस्तच्छरीरस्यापि प्रसज्यन्ते नेति। किं

जीवस्यापुरुशार्थसम्बन्धश्शरीरसम्बन्धनिबन्धनः, उत कर्मसम्बन्धनिबन्धन इति। किं सशरीरस्यापि ब्राहृण

उभयलिङ्गत्वं श्रुतिप्रतिपन्नं कर्मसम्बन्धस्यैवापुरुषार्थत्वहेतुतामवगमयति नेति। किं श्रुतिप्रतिपन्नमुभयलिङ्गं

तात्त्विकम्? उतातात्त्विकम्? इति। किं ' अथात आदेशो नेतिनेति ' इति प्रकृतः सर्वविशेषनिषेधः ? उत

प्रकृतैतावत्त्वनिषेधः ? इति। किं सर्वविशेषनिषेधे वाक्योपक्रमोपसंहारसामञ्जस्यम् ? उत प्रकृतैतावत्त्वनिषेधे ?

इति। अत्र पूर्वपक्षाभिप्रायं विशेषतः प्रदश्र्य सिद्धान्ताभिप्रायेण निराकरणमपि दर्शयति--हेयमिति। इत्थं किल

पूर्वपक्षी मस्यते- पूयशोणिताद्मज्जनं हि यथा राजकिङ्करस्य हेयं तथा राज्ञोऽपि हेयमेव अन्यथा तस्य हेयत्वमेव न स्यात्। तथा चेश्वरस्यापि जीववत् देहावस्थानं दुःखकारणमेव स्यात्। ननु जीवः कर्मपरतन्त्रो देहे

वर्तते, ईश्वरः स्वेच्छयैव, अतो न दोष इत्याशङ्क्यपरिहरति -- स्वेच्छयेति। स्वेच्छयापि पूयशोणितादिमज्जनं

दुःखकारणमेव द्दश्यते। अपयर्नुयोज्यत्वाद् वस्तुस्वभावानामिति। उक्तमर्थं प्रतिक्षिपति-- नेति। तत्र हेतुमाह

निरुपधेरिति। अयमर्थः-- लोके हि त्याज्योपादेयभाव उपाधिभेदेनान्यथाक्रियते। यथा प्रातरनुकूलमौष्ण्यं मध्याह्ने प्रतिकूलमेव। शैत्यं च मध्याह्नेऽनुकूलं प्रातः प्रतिकूलमेव,एवं पुरुषभेदेनापि द्दश्यते। पशूनामनुकूलं

तृणादिकं मनुष्याणां प्रतिकूलम्। एवमवस्थाभेदेनापि क्षुधितस्यानुकूलमन्नं मृष्टमेव भुक्तवतः प्रतिकूलमेव। तदिदमुक्तं भगवता पराशरेण

' तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते।

तदेव कोपाय यतः प्रसादाय च जायते।।

तस्माद् दुःकात्मकं नास्ति नच किञ्चित् सुखात्मकम्।। ' इति।

प्रतिपत्तृभेदेनापि सुखदुःखविभागो द्दश्यते। एकस्मिन्नेव बालके तव पुत्रोऽयमित्युक्ते सुखम्, शत्रुपुत्र इत्युक्ते दुःखम्। एवं तत्तदुपाधिभेदात् सुखदुःखविपरिणामस्सर्वलोकसाक्षिकः सुप्रसिद्धः एवं पुण्यपापात्मकर्मोपाधिवशज्जीवानां सुखदुःखविभागो नापह्नोतुं शक्यते। यथा लोके वातपित्तश्लेष्मवतामनुकूल

प्रतिकूलात्मकवस्तुवैषम्यमायुर्वेदादिषु पठ¬ते तथैवोपलम्यते च। तस्मान्नेश्वरस्य शरीरेष्ववस्थानात् कर्मसम्बन्ध

कथनं तत्प्रयुक्तसुखदुःखसम्बन्धकथनं वा योयुज्यते। नन्वीश्वरस्यापि शरीरसम्बन्धादेव कर्मसम्बन्धोऽपि स्यादित्याशङ्क्य परिहरति --नित्येति। अत्रायं विकल्पः-- किमीश्वरशब्देन सर्वस्वामी विश्वजगन्नियन्तोच्यते किं

वा राजादिमात्रम्। उत्तरत्र चेत् सिद्धसाधनमेव राजादीनामपि सुखदुःखानुभवस्य विभाव्यमानत्वात्। पूर्वत्र

नेश्वरत्वमेव सिध्यति सुखदुःखादिकमनुभवति, ईश्वरश्चेति व्याघातात्। कर्मफलं हि सुखदुःखानुभवः। कर्म

चेश्वराज्ञापरिपालनदुल्लङ्घनजनितो गुणविशेष एव। अथवाऽध्यात्मशास्त्रमर्यादया शासितुरीश्वरस्य निग्रहानुग्रह

सङ्कल्पः। तेनेश्वरस्य कथं सुखदुःखानुभवप्रसङ्गः ? यदि वदसि मोहादीश्वरस्यापि कश्चन प्रशास्ता अस्तीति तथा ' न तत्समश्चाभ्यधिकश्च द्दश्यते ' इत्यादिश्रुतिरेव भवतः कपोलताडनं करोतु। ताडितोऽपि यदि

प्रलपसि बहिष्कुर्वन्तु भवन्तं ब्राहृवादिनः। तस्मादीश्वरस्याज्ञापकेश्वरान्तराभान्न शास्त्रवश्यत्वम्। शास्त्रवश्यत्वा--

-भावान्न कर्मानुबन्धः। कर्मसम्बन्धाभावाच्च न शरीरसम्बन्धप्रयुक्तसुखदुःखानुभवप्रसङ्ग इति मानामानविवेककोविदानां महानुभावानां मार्गः। अयमर्थः श्रुत्यैव व्यक्तमेव विभज्य दर्शित इत्याह-- श्रुत्यैवेति।

' द्वा सुपर्णा ' इति हि श्रुतिरेकस्मिन्देहे वर्तमानयोर्जीवपरमात्मनोरेकस्य कर्मफलोपभोगमितरस्य कर्मफलभोगा--

-भावेननिरतिशयदीप्तियोगञ्चाह। ' द्वा सुपर्णा ' इत्यत्र जीवपरमात्मानावेव विभज्योक्ताविति प्रागेव प्रसाधितम्।

पैङ्गिश्रुतिविरोधाभावोऽपि तत्रैव विशदं प्रकाशित इत्युपरम्यतेऽस्माभिः।।

3. अत्र कश्चिदुक्तमर्थतत्त्वमान्ध्यादतिगर्वाच्चाजानन् पुनश्चोदयति। ' तथहि कणभक्षादिपक्षे ईश्वरस्य धर्माधर्मयोः प्रेरकत्वेन शरीरान्तरवस्थाऽपि शरीरित्वाभावान्न ब्रााहृणादिशब्दवाच्यत्वम्। तेन ' ब्रााहृणो यजेत '

' क्षत्रियो यजेत ' इत्यादिवाक्येषु विधिगोचरत्वप्रसङ्ग एव नास्ति। युष्माकं सिद्धान्ते पुनब्र्राहृक्षत्रादिशब्दानां

प्राधान्येनेश्वरवाचकत्वादीश्वर एव विधिगोचरतामश्नुते। कुर्यान्नकुर्यादिति नियाम्यत्वादीश्वरत्वमेव भज्यते ' इति।

तदिदमनुवदति- ब्राहृक्षत्रादीति। अयमत्र शब्दार्थः-- ब्राहृक्षत्रादिदेहेष्वणु र्जीव इव विभुरीश्वरोऽप्यात्मभावेन

शरीरप्रेरकत्वेन तिष्ठन् तत्तच्छब्दाभिलप्यो भवदनुमत्या ब्रााहृणादिशब्दवाच्य एव भवति। तेन स ईश्वरो

ब्रााहृणत्वाद्युपाधिविशिष्टस्तत्तद्विधिवश्यः कथं न भवति ?--ईश्वरत्वान्न भवतीति चेत् नहि साक्षात् श्रुतिप्रतिपन्नेऽर्थे

नास्तिकत्वमङ्गीकर्तव्यम्। तस्माद् विधिनिषेधशास्त्रगोचरस्येश्वरस्य सर्वदोषाकरत्वमिति। तमिममन्धप्रलापं

निराकरोति--मैवमिति। तदेव विवृणोति-न ज्ञाप्यत इत्यादिना। अयमत्र विकल्पः- किमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं

वा विधिरिति भवतोच्यते ? न तावदज्ञातज्ञापनमीश्वरस्य सम्भवतीति तदाह--न ज्ञाप्यतेऽसाविति। तत्र हेतुमाह-

अविदितविरहादिति। सर्वज्ञत्वादित्यर्थः। न हि दिवाकस्य दीपेन कश्चिदुपकारः क्रियते। अप्रवृत्तप्रवर्तनमपि न

सम्भवति। उक्तार्थस्य द्रढिम्ने लोकद्दष्ट¬ा व्यतिरेकद्दष्टान्तमाह-- किञ्चिज्ज्ञ इति। लोके हि राज्ञा भृत्यादयः

किञ्चिज्ज्ञत्वात् कर्तव्येषु बोध्यन्ते परतन्त्रत्वात् प्रेर्यन्ते चेति सर्वलोकद्दष्टं नापह्नोतव्यम्। तस्मात् सर्वज्ञ ईश्वरो

बोध्यः प्रेर्यश्च स्यादिति वचनं न बुद्धिमतां वादः अपितु बुद्धिहीनानामित्युपहसन्ति सन्तः। यत् श्रुतिप्रतिपन्नत्वाद्

ब्रााहृणादिशब्दवाच्यस्येश्वरस्यापि प्रशास्यत्वमिति, तदपि हास्यम्--श्रुतिर्हि योग्यमेवार्थं वदति। न त्वत्यन्तायोग्यं

श्रुत्यन्तरविरूद्धञ्चेति स्वयमेव भावयतु भवानपीति।।

4. अस्मिन्नुभयलिङ्गाधिकरणे ह्रखिलहेयप्रत्यनीकत्वं कल्याणैकतानत्वञ्चोभयलिङ्गत्वेनोच्यते। एतच्च

त्रिभिन्र्यायैर्निरूपितैरुपपाद्यम्। ' न हिंस्यात् सर्वा भूतानि ' ' अग्नीषोमीयं पशुमालभेत ' इत्यत्रोत्सर्गापवादन्यायो

विहितव्यतिरिक्तविषयत्वान्निषेधशास्त्रस्येति। ' प्रजापतिर्वरुणायाश्वमनयत् ' इत्यादावुपक्रमाधिकरणन्यायः,

उपसंहारदुपक्रमो बलीयान् उपक्रमस्यासञ्जातविरोदित्वादुपसंहारस्य सञ्जातविरोधित्वादिति। 'यद्युद्गातापच्छद्येत ' इत्यादावनियतपौर्वापर्यविरोधे पुनरपच्छेदाधिकरणन्यायः। ' पूर्वाबाधेन नोत्पत्तिरत्तरस्य हि

सिद्धयति ' इति पूर्वं बाधितवैवोत्तरस्योत्पत्तेः। अत्र मृषावादिनः प्राहुः--सगुणवाक्यानि तावत् प्रवर्तन्ते तानि तु

पूर्वाण्येव विधिरूपार्थप्रतिपादकत्वात्। निर्गुणवाक्यानि तु पराणि निषेधरूपार्थप्रतिपादकत्वात्। लोके हि विधिपूर्वको निषेध इति सुप्रसिद्धमेतत्। तेन विधायकस्य प्रत्यक्षप्रमाणस्य च पूर्वभावित्वाद् बाध्यत्वम्। निषेधकानां

' निर्गुणं निरञ्जनम् ' 'नेह नानास्ति किञ्चन ' इत्यादीनां वाक्यानां परत्वादि बाधकत्वम्। एवमनुमानस्यापि।

तथा कर्मशास्त्राणामपि। यानि तु वाक्यानि वेदान्तेऽपि सगुणोपासनपराणि तान्यपि कर्मशास्त्रतुल्यत्वादित्थमेव

बाध्यानि। यानि पुनः सगुणब्राहृस्वरूपपराणीति कानिचिद्वाक्यानि सगुणवादिभिरभिधीयन्ते तान्यपि विधिविषयत्वात्

पूर्वभावित्वाद् बाध्यानि। निर्गुणवाक्यानि तु निषेधविषयत्वाच्चरमभावित्वेन बाधकत्वाच्च प्रमाणत्वेनावतिष्ठन्ते। यथा अपच्छेदाधिकरणे उद्गातृप्रतिहत्र्रपच्छेतयोरवक्रमेण जातयोर्निमित्तयोः परस्परविरुद्धप्रायश्चित्तद्वयप्रसङ्गे

पूर्वापच्छेदनिमित्तप्रायश्चित्तं बाधित्वोत्तरापच्छेतनिमित्तप्रायश्चित्तमेवानुष्ठीयति। तेनात्रापि विधिवाक्यविषयगुणं

बाधित्वा निर्गुणवाक्यविषयभूतनैर्गुण्यमेव प्रामाणिकैरङ्गीकर्तव्यमिति। तदिदमितरन्यायद्वयनिरूपणेन प्रतिक्षिपति--

-उत्सर्गेणेति। ' न हिंस्यात् सर्वा भूतानि ' इत्युत्सर्गः। ' अग्नीषोमीयं पशुमालभेत ' इत्यपवादः। तत्र अपवातेनोत्सर्ग एव क्षोम्यते न पुनरुत्सर्गेणापवाद इति तान्त्रिकप्रक्रिया। तेन ' निर्गुणं निरञ्जनम् ' इत्युत्सर्गः।

'सत्यकामस्सत्यसङ्कल्पः ' इत्यपवादः। एकस्य सामान्यविषयत्वादितरस्य च विशेषविषयत्वात्। तेन सगुणवाक्येनैव निर्गुणवाक्यं हेयगुणविषयतया सङ्कोचनीयमिवि नीतिविदां निर्णयः। तदिदमाह--तस्मादिति।

' निर्गुणं निरञ्जनम् ' इति ब्रााहृे गुणादौ निषेधः 'सत्यकामस्सत्यसङ्कल्पः ' इत्यादिविधिविषयमतिक्रम्य

तिष्ठेत्। एवमुत्सर्गापवादन्यायेन सगुणनिर्गुणवाक्ययोर्विषयभेदेन विरोधशान्तिमुक्त्वा विरोधे शान्ते ससि

अपच्छेदाधिकारणन्यायापेक्षैव नास्तीत्याह--नहि समविषयेति। तुल्यविषयत्वे सत्येव ह्रपच्छेदाधिकरणन्यायः

प्रवर्तते। अपच्छेदयोः अपच्छेदत्वेन तुल्यत्वात्। अत्र पुनन्र्यायान्तरसिद्धेन विषयभेदेन विरोध उपशान्तः। तेन

तदुपशमनहेतुरपच्छेदाधिकरणन्यायो नैरर्थक्यादनपेक्षणीय एव । विषदष्टस्य मणिमन्त्रादिष्वन्यतमेन विषदोषपरिहारे किमितरेण प्रतिविधानाभासेन? अत्रापच्छेचदाधिकरणन्यायप्रसङ्गस्याभासत्वमेव प्रदर्शयति--द्दष्ट

इति। अयमर्थः-- अनियतपौर्वापर्यविषये ह्रपच्छेदाधिकरणन्यायप्रसङ्गः, यथा कदाचिदुद्गता पूर्वमपच्छिद्यते

कदाचित् प्रतिहर्ता, तेन तत्रोत्तरप्राबल्यम्। इह तु नियतपौर्वापर्यमेव विधिः पूर्वो निषेधः पर इति। उपक्रमाधिकरणे हि दातृंप्रतिग्रहीत्रोः कस्याश्वप्रतिग्रहेष्टिरिति चिन्तायामुपक्रमवाक्यानुसारेण दातुरित्येव निर्णीतम्। तेनात्रापि पूर्वप्राबल्यात् सगुणवाक्यानामेव प्राबल्यम्, न पुनर्निर्गुणवाक्यानामिति निर्णेतव्यम्। अत्र वक्तव्यशेषमशेषमपि तत्त्वमुक्ताकलापव्याख्याने तत्त्वटीकादौ च द्रष्टव्यम्। भाष्ये च प्रथमसूत्र एव ' उत्तरप्राबल्यकथनं माध्यमिकविजयप्रलङ्गेनापहसितम् ' इति। तदेवात्र विस्तरेणानुसन्धेयमवहितकरणैरन्तेवासिभिः।

किञ्चपजीव्यविरोधमालपन्ति न्यायविदः। यथाहुः---

' पूर्वात्परबलीयत्वं तत्र नाम प्रतीयते।

अन्योऽन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्।। ' इति।

तेन स्वरूपे स्वप्रामाण्ये च भेदप्रतीतिसापेक्षाणां भेदनिषेधशास्त्राणां प्राबल्यकथनमश्रुतमीमांसानां श्रुतिविस्मृतमीमांसानां वा कथनम्। नहीदं पूर्वमिदं परमिति भेदप्रतीतिमन्तरेणापच्छेदाधिकरणेऽपि प्राबल्यदौर्बल्यनिर्णयः। न च तत्प्रतीतिमन्तरेण प्रामाण्यनिर्णय इत्युपरम्यते।।

5. ' तर्हि श्रुतिमेवाश्रयामः। साहि प्रपञ्चमिथ्यात्वमेव सर्वत्र वदति। तत् तत्त्वमेव। नखलु माता विषं ददाति।

तेन ' असदेवेदमग्न आसीत् ' इत्यादिश्रुतिसिद्धत्वात् प्रपञ्चमिथ्यात्मेव तत्त्वम् ' इति केचित् प्रलयन्ति। तदेतत्

श्रुतिपर्यालोचनयैव प्रतिक्षिपति--सत्त्वं कार्यस्येति। अयमर्थः- 'कथमसतस्सज्जायेत ' इति वाक्यं हि कार्यस्य सत्त्वमङ्गीकृत्य कारणासत्त्वमेव प्रतिक्षिपति। तेन कार्यमपि सत् कारणमपि सदित्युक्तं भवति। तेन 'तद्धैक आहुः ' इत्येकशब्दप्रयोगात् असत्त्वस्य परपक्षत्वमेव प्रतीयते। शब्दान्वयस्तु-- कथमसतस्सद्भवोदित्यधीतिः

कार्यकारणयोद्र्वयोरपि सत्त्वमवगमयतीति। ननु मा भूदिदं वाक्यं ' यथा सोम्य' इति वाक्यमस्माकमवलम्बनं

स्यादित्याशङ्क्य परिहरति-- द्रव्यान्यत्वमिति। तदपि वाक्यं कारयकारणयोद्र्रव्यान्यत्वमात्रमेव प्रतिक्षिपति। नपुनः प्रपञ्चमिथ्यात्वं प्रतिपादयतीत्यर्थः। तर्हि नेह नानास्ति किञ्चन ' इति वचचचनमस्माकमवलम्बनमिति च

भवद्भिर्न वक्तव्यमित्याह-- अन्तर्भावादिति। विशिष्टे भगवति विशेषणानां अन्तर्भावात् ' नेह नाना ' इति

वाक्यमप्यब्राहृात्मकनानात्वमेव प्रतिक्षिपति। तर्हि साक्षात् 'नेति नेति'इति प्रपञ्चनिषेधकं वाक्यमस्माकं कुलधनमिति चेत् तदपि स्वप्नलब्धसुवर्णमित्याह --निर्दिष्टेति। पूर्वं ब्राहृणः कानिचिद् विशेषणान्युक्त्वा

निर्दिष्टेयत्त्वमेव ब्राहृण इति मन्दस्य शङ्कां नेति नेतीतिवादो व्यपनयति। इति न, इति न, इति प्रागुक्तप्रकारविशेषमात्रं निषिध्यते, नपुनर्वक्ष्यमाणं गुणजातमपि। अत एव सूत्रकारः प्राह ' प्रकृतैतावत्त्वं हि प्रतिषेधति ततोब्रावीति च भूयः ' इति। एवं सर्वासामपि श्रुतीनां विषयभेदेन प्रामाण्यसिद्धस्सगुणब्रााहृवादिनामेव

वेदान्तार्थनिर्णयसाद्गुण्यमिति निर्गुणवादो निर्गुणानामेव स्वेच्छालापः।।

6. ' ननु सन्त्वेतानि समाधानानि, अथाप्यसाधेयमिदमेकं द्दश्यते। सर्वत्रावस्थितस्य भगवतो ' जलाधारेष्विवांशुमान् ' इति द्दष्टान्त उपादीयते। तन्मिथ्यात्वमेव प्रतिपादयति ' इति कश्चिनमनुते, तस्याप्युत्तरमाह--तत्तद्दूस्विति। तात्पर्ये हि शब्दः प्रमाणम्। नात्र जीवानां मिथ्यात्वं विवक्ष्यते प्रमाणविरुद्धत्वात्।

अपितु ब्राहृणस्सर्वत्रावस्थितस्यापि विशेषमभूततत्तद्वस्तुगत वृद्धिह्नासभाक्त्वमेव केवलं निषिध्यते। यथा तरङ्गेषु

प्रतीयमानस्य चन्द्रबिम्बस्य तरङ्गतवृद्धिह्नासादिभाक्त्वं न परमार्थतो विद्यते। एवं सर्वान्तर्यामित्वेनावस्थितस्य

परस्य ब्राहृणस्तत्तद्वस्तुप्रयुक्तभेदोषसम्बन्धो नास्तीति। अयमत्र विद्यमानस्यापि ब्राहृणः प्रभावविशेषादौपाधिकदोषप्रसङ्गाभाव इति द्दष्टान्तप्रदर्शनमात्रमेतदिति। अयमत्रान्वयः--तत्तद्वस्तुप्रदेशे सकलगुणतया परिपूर्णं द्दश्यः परमात्मा वृद्धिहासादिभेदविधुर इति हि ' जलाधारेष्विवांशुमान् ' इत्युच्यते।

तात्पर्यानुगुणमेवार्थस्योपवर्णनीयत्वात् किमर्थमियं क्लिष्टकल्पना ? असंसर्गार्थमेवात्र निदर्शनमुच्यत इत्याशङ्कते-- अस्पर्शोदाह्मतिश्चेदिति। सर्वैरस्पृष्टमेवात्र ब्राहृोच्यत इत्यर्थः। तत्रोत्तरमाह- न हीति। न ह्रेक

एव द्दष्टान्तो महर्षिभिरुच्यते। क्वचिद् ' जलाधारेष्विवांशुमान् ' इति, इतरत्र ' आकाशमेकं हि यथा घटादिषु

पृथग्भवेत् ' इति क्वचिदविद्यमानं प्रतिबिम्बमुदाह्नियतेऽपरत्र विद्यमानमेवाकाशम्। तेनोभयद्दष्टान्तसामाञ्जस्यार्थ

मुचित एवार्थ उदाहर्तव्यः। न पुनस्तद्गतदोषैरस्पृष्टत्वमेव। अन्यथैकोपादाने इतरप्रच्यवनादुभयमपि न सिध्येत्।

एवं विस्तरेणार्थतत्त्वमुपपाद्योभयलिङ्गत्वं निगमयति--तस्मादिति। द्विलिङ्गम्--अखिलहेयप्रत्यनीककल्याणैकतानत्वादुभयगुणयुक्तम्। द्विविधविभवम्-उभयविभूतिविशिष्टम्। 'पुरुष

एवेदं सर्वम् ' इत्यादिप्रमाणप्रसिद्धविभूतिद्वयविशिष्टमित्यर्थः। विवृतं हि भगवता पराशरेण ' समस्तकल्याणगुणात्मकोऽसौ इत्यादिना। वेदान्तपक्ष इति कथनं मृषावादिपक्षस्य बौद्धपक्षनिक्षेपार्थम्।।

3.2.6.

1. सङ्गतिर्भाष्ये ' तस्याचिद्वस्तुनो ब्राहृरूपत्वप्रकार इदानीं चिन्त्यते ब्राहृणो निर्दोषत्वसिद्धयर्थम् ' इति।

अयमर्थः-- पूर्वाधिकरणे ब्राहृणो निर्दोषत्वं प्रतिज्ञातम्। तस्य निर्दोषत्वस्य प्रतिष्ठापनार्थमचिद्वस्तुनो

ब्राहृरूपत्वमहिकुण्डलन्यायेनोत प्रभाप्रभावन्न्यायेन, अथवा विशेषणविशेष्यभावेनेति चिन्त्यत इति पूर्वाधिकरणेन

सङ्गतिरिति। तदर्थविचारस्तु- किमचिद्वस्तुनो ब्राहृरूपत्वमहिकुणडलन्यायेन ? उत प्रभाप्रभावद्रूपेण ? उत

विशेषणविशेष्यबानेनांशांशित्वेन इति। किं ' स वा एष महानज आत्माजरो ऽमरः ' इत्याद्यचिद्धर्मप्रतिषेधो विशेषणविशेष्यभावेन ब्राहृरूपत्वं प्रपञ्चस्यावगमयति नेति। अत्र पूर्वपक्षमाह-विश्वरुाष्टुरिति। विश्वरुाष्टुः परमपुरुषस्य स्वांशतोऽचिद्वर्गप्रजनने स्वदुःखकारणत्वं नास्त्येव। अचितो दुःखाभावात्। अंशतश्चाचित्त्वक्लृप्तौ

मृत्तत्कार्यादिकञ्च बहूदाह्मतं द्दष्टान्तजातं सुप्रतिज्ञं स्वरसमेव भवति। अतो ब्राहृैवाव्याकृतादिसृÏष्ट विहारवशाद् विक्रियामपि करोति। ततो विकाररूपाप्यचित्सृष्टर्युज्यत एवेत्यर्थः। तदिदं प्रतिक्षिपति--नेति। तदेव

विवृणोति--स्वांश इति। अयमर्थः-- द्विविधो ह्रनर्थः। दुःखप्रजननमित्येकः। निरतिशयसुखानुभवयोग्ये वस्तुनि

मौढ¬ापादनमित्यपरः। अचिद्वस्तुनश्चिद्विलक्षणत्वेन दुःखजननाभावेऽपि निरतिशयज्ञानानन्दात्मनि वस्तुन्यंशे

अचिद्रूपतया मौढ¬ापादनमपि स्वानर्थापादनमेव। तस्मादचिद्रूपस्वांशसृष्टिर्न घटत एव।।

2. उक्तपक्षेण सह पक्षान्तराण्यप्यनूद्य निराकरोति--कश्चिदिति। पूर्वं ब्राहृ स्वयमेव स्वस्मिन्नचित्त्वमापादयतीत्याशङ्क्य दूषितम्। अधुना पूर्वोक्तदोषपरिहारार्थं केचिदनादिसिद्धो नित्य एव

कश्चिदाचिदंशो विविधविकृतिमान् वर्तत इत्याहुः। तत्रापि विरोधस्तदवस्थः-- सर्वज्ञस्य ब्राहृणो नित्यमेव

ताद्दशमौढ¬संवलितरूपकल्पनस्यात्यन्तदौस्स्थ्यात्। पक्षान्तरमनुवदति-- फेनादीति। सन्मात्रे ब्राहृणि सागरे

फेनतरङ्गबुह्बुदन्यायेन चिदचिदीश्वरात्मकं तत्त्वत्रयं विकृतिवशाज्जायत इत्यन्ये प्राहुः। तदपि ताद्दशमेव ;

निर्विकारे विकारकल्पनात् स्वानर्थकरणदोषस्य तादवस्थ्याच्च। कतिचित्पुनश्चन्द्रचन्द्रिकान्यायेन

जगह्ब्राहृणोरैकजात्यमेव ब्राुवते। तद् जगह्ब्राहृणोरैक्यप्रतिपादकवेदान्तवाक्यानामननुकूलत्वादनादरणीयमेव।

वस्तुत्वमात्रेण साजात्यञ्चेत् सर्वलोकप्रसिद्धत्वान्न वेदान्तवेद्यम्। आत्मतया साजात्यंचेत् अचिद्वस्तुनि नास्त्येव।

ईश्वरत्वेन साजात्यञ्चेत् तत्त्वत्रयपरिक्लृप्तिपराहतम्। " भोक्ता भोग्यं प्रेरितारम् " इति श्रुतिविरुद्धञ्च। अतो

विशेषणविशेष्यभावेनैकात्म्यमिति वेदान्ततत्त्ववेदिनां निर्णयः। तेन सर्वे वादिनः सर्ववेदान्तवाक्यस्वास्यविरोधादत्र

वित्रासनीया इति शब्दान्वयः।।

3.2.7.

1. भाष्य एव पूर्वाधिकरणनिगमनवाक्यान्वितेनोत्तराधिकरणोपक्रमवाक्येन सङ्गतिरुच्यते ' ब्राहृणो निर्दोषत्वेन

कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम्। इदानीमस्मात् परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्

परब्राहृणः परमपि तत्त्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते ' इति। तदर्थविचारस्तु-- यदिदमुभयलिङ्गं ब्राहृ किमस्मात्परमपि किञ्चित् तत्त्वमस्ति ? उत नेति। किमस्यैव परत्वे सेतून्मानसम्बन्धभेदव्यपदेशानामुपपत्तिरस्ति ? न वेति। अत्र सूत्रकारेणोपात्तान् पूर्वपक्षहेतूननुक्रमेणानूद्य सौत्रक्रमेण परिहारमपि दर्शयति--सेतुमिति। ' एतं सेतुं तीत्र्वा 'इति तर्तव्यत्ववचनात् 'चतुष्पाद् ब्राहृ षोडशफलम् ' इति ब्राहृणः परिमितत्ववचनात् प्राप्यसम्बन्धितोक्तेः 'अमृतस्यैष सेतुः ' इति प्राप्यस्यान्यस्यामृतस्य प्रापकतया तत्सम्बन्धित्वेनाभिधानात्, अन्याधिक्यश्रुतेरपि ' परात्परं पुरुषमुपैति दिव्यम् '

'परात्परं यन्महतो महान्तम् ' इति सर्वस्मात् परस्यान्यस्य श्रुतेश्च। अतिवहननयात् अतिवाहिकन्यायेनायं परमपुरुषो विश्वकारणभूतः प्रापक एव स्यान्न पुनः प्राप्यः। प्राप्यञ्चान्यदेव किञ्चिद् भवेदिति व्योमातीतवादिनः। तदिदं प्रतिक्षिपति -- असदिति। यज्जगत्कारणं तदेवध्येयम् ' कारणं तु ध्येयः ' इति नियमात्। यच्च ध्येयं तदेव प्राप्यम् ' ब्राहृविदाप्नोति परम् ' 'ब्राहृवेद ब्राहृैव भवति ' इति प्राप्यप्रापकयोरेकत्वनिर्णयात्। अतो योऽमृतस्य सेतुस्तदेवामृतमिति त्रय्यन्तवादिनां निर्णयः। अस्मिन् ब्राहृणि

सेतुत्वाद्युक्तिः कथमिति चेदत्रोत्तरम्- सेतुत्वेति। बहुप्रमाणैरविरुद्धां वृत्तिमङ्गीकरोतु। ईश्वरस्यैव तावत्प्राप्यत्वं

प्रापकत्वञ्च सकलवेदान्तसिद्धत्वादङ्गीकरणीयमेव। तेन सेतुत्वाद्युक्तीनां योग्यार्थकल्पनयार्थोपवर्णनं कार्यमित्यर्थः। अन्यथा लोके मुख्यामुख्यप्रयोगविभागो न स्यात्। अमुख्यप्रयोगाणां परित्याज्यत्वञ्च स्यात्। उप क्रमोपसंहापादितात्पर्यलिङ्गपरिशोधनेन विदुषां तत्रतत्र वाक्यार्थोपवर्णनमपि न स्यादिति सर्वशास्त्रसङ्क्षोभः।।

2. अत्र पूर्वं सेतुत्वादिवचनं याग्यार्थकल्पनया योज्यमित्युक्तम्। तानेव योग्यानर्थाननुक्रमेण दर्शयति-सेतुत्वमिति। सेतुत्वं सेतुतुल्याद् विधरणनियामात्--धारकत्वनियमादित्यर्थः। भगवानेव हि सर्वधारकः। अर्थान्तरमप्याह--बन्धनादिति स एव भगवालसङ्करेण सर्वमपि तत्त्वजातं सम्बध्नाति।परिमितिवचनस्यापि गतिमाह--व्याप्तेऽपीति। व्याप्तेऽप्यस्मिन्परस्मिन् ब्राहृणि परिमितिवचनं सार्थकमिति दहराकाशादिप्रसङ्गेषु तत्रतत्र सूत्रितमेव। ' चतुष्पाद् ब्राहृ ' इति वचनं तु 'पादोऽस्य विश्वा भूतानि ' इतिवत् तत्तच्छØतिभिरनुगणमेव कल्पनीयमनन्तभूम्नोऽपि ब्राहृणः। ' अमृतस्यैष सेतुः ' इत्यमृतरूपस्य

ब्राहृण इति वा ब्राहृप्राप्तिरूपमोक्षस्यामृतस्येति वा योजनीयम्।।

3. अत्र नारायणस्य परत्वमङ्गीकृत्य तस्मादप्यन्यस्य परत्वमुच्यत इति पूर्वपक्षिणा वण्र्यते। तत्र द्दष्टान्तोऽप्युक्तः। यथा 'अक्षरात् परतः परः ' इत्यत्र परतोऽक्षरादन्यः पर इति पर उच्यत इति। एवमुक्ते

द्दष्टान्तदाष्र्टान्तिकयोवषैम्यमाह--अन्यस्येति। अयमर्थः द्दष्टान्ते हि प्रथमान्तपरशब्दनिर्दिष्टस्य परस्याधिक्यवादे

पञ्चम्यन्तपरशब्दनिर्दिष्टमवधितया द्दष्टम्। तस्य च परशब्दवाच्यत्वं तत्कार्यरूपमहदाद्यपेक्षयेति वचनान्निर्णीतम। तत्र स्वकार्यापेक्षया परस्मादक्षरात् परो जीवो वा परमात्मा वेति वक्तुं शक्यते। इह पुनः

' न ह्रेतस्मादिति नेत्यन्यत् परमस्ति ' इति परमात्मापेक्षया परः प्रतिक्षिप्यते। तस्मादन्यः परो न कल्पनीय एव।

ननु ' ततो यदुत्तरतरम् ' इत्यत्र तच्छब्देन प्रकृतं परमपुरुषं निर्दिश्य ततोऽप्युत्तरतरं तत्त्वान्तरं निर्दिश्यते। अतः

परमपुरुषादुत्तरं तत्त्वमस्तीति केचिदूचुः। तत् परिहरति- एवन्त्वादिति। तत्र तत इत्येवन्त्वादिति हेतुरनूद्यते।

पूर्वं बहुभिः प्रमाणैः परमपुरुष एव परतत्त्वमित्युपपादितत्त्वादित्यर्थः। तेन 'यदुत्तरतरम् ' इत्यादिकं परमपुरुषमेवाह नपुनस्तत्त्वान्तरम्। तत इति शब्दस्यार्थान्तरमप्याह--यदि वेति। ततः परमपुरुषव्याप्यत्वेन पूर्वोक्तात् प्रपञ्चात् उत्तरतरं यदरूपमनामयमित्यन्वयः। अत्रापि परमपुरुष एव परत्वेनोच्यते। यदि परमपुरुषादुत्तरतरं वस्त्वस्तीत्यभिधीयते तदा प्रकरणोपक्रमे पुरुषसूक्तप्रत्यभिज्ञानेन परमपुरुषादुत्तरस्य

प्रतिक्षेपादुपक्रमोपसंहारयोरुपक्रमबलीयस्त्वस्यन्याय्यत्वादुपक्रमानुगुण्येनोपसंहारवाक्यमस्मदुक्तप्रक्रिययैव योजनीयमिति भावः। इयमत्रशब्दयोजना--अन्यस्येश्वरस्य ' अक्षरात्परतः परः ' इत्याधिक्यवादे परं प्रकृत्यादिकं अवधितया यत्र द्दष्टं तत्र तस्मिन्नेवोदाहरणे तदवधिरव्याकृतादिस्तदपेक्षया अवधिरस्यात्। स्वयञ्च 'अक्षरात् परतः परः' इति स्वकार्यवर्गात् परत्वेनापि निर्दिश्यते। अत्र तु ' न ह्रेतस्मादिति नेत्यन्यत्परमस्ति ' इति 'इति न ' इत्युपदिष्टादन्यत्परं नास्तीति परान्तरराहित्येनोपदिष्टे विषये तत्परोक्तेस्तस्मात्परस्यान्यस्योक्तेरयुक्तेः। तेन परत्वकल्पनं परमपुरुष एव पर्यवस्यति। ' ततो यदुत्तरतरम् ' इत्यत्र तु पञ्चम्यन्तस्य तच्छब्दस्य हेतुपरत्वमित्येको निर्वाहः। अवधिपरत्वेऽपि पूर्वोक्तात् परमपुरुषव्याप्यात्

प्रकृतत्वेन तच्छब्देन निर्देष्टुं योग्यादित्यपरो निर्वाह इति।।

3.2.8.

1. अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिमाह- आराध्य इति। यत्र हि परत्वमौदार्यञ्च स एव हि सेव्य इति लोकप्रसिद्धम्। परत्वे सत्यपि कदर्यस्यासेव्यत्वात्। तथौदार्ये सत्यपि निर्धनस्यासेव्यत्वात्। तेनोत्तरपादप्रतिपाद्योपास्यत्वसिद्धयर्थं भगवतः परत्वमुक्तं पूर्वाधिकरणे। इह पुनः फलप्रदत्वकथनात् औदार्यमुच्यत इति पूर्वोत्तराधिकरणसङ्गतिः। तदिदं परत्वं भगवतस्त्रिकाण्ड¬ां सर्वत्रोक्तमनूद्य तदन्वितमौदार्यमधुना प्रख्याप्यते। अन्वयार्थस्तु--'सर्वे वेदा यत्रैकं भवन्ति ' ' सर्वे होतारो यत्रैकं भवन्ति'।

'वर्णाश्रमाचारवता ' इत्यादिभिः प्रमाणैः प्रथमकाण्डे विष्णुरेव सर्वकर्मसमाराध्यता निर्णीतः। मध्यमकाण्डेपि

'अग्निरवमो देवतानां विष्णुः परमः' इति स एव सर्वदेवतान्तर्यामित्वेन तदध्यक्षतया प्रतिपादितः। अस्मिन्नपि

ब्राहृकाण्डे पुनरेतावता दशभिरपि पादैर्भाषितो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यमिति प्रागेवास्मिन्पादे

विशदतरमुपपादितम्। अथोभयलिङ्गपादान्ते विद्याप्रतिपादनारम्भे तत्तच्छास्त्रार्थयोग्यं नित्यनैमित्तिककाम्यरूपाणां

प्रवृत्तिनिष्ठधर्माणां कर्मयोगज्ञानयोगभक्तियोगादिरूपाणां निवृत्तिनिष्ठधर्माणाञ्चानुगुणं फलं दिशतीति विद्यारम्भ

सिद्ध्यर्थं विशदमुपपाद्यते। नहि प्रयोजनमन्तरेण प्राणिनां प्रवृत्तिस्सम्भवति। नच प्रयोजनं प्रदातारमन्तरेण। न च

प्रदातृत्वं परत्वौदार्याभ्यां विना। नापि चैतौ गुणौ पुरुषोत्तमादुभयविभूतिविशिष्टस्वात्मप्रदानमहावदान्याद् भगवतो

नारायणादन्यत्र सम्भवत इति भावः।।

2. सङ्गतिरुक्ता। तदर्थविचारस्तु- किं सापूर्वात्कर्मोपासनात् स्वर्गापवर्गफलोत्पत्तिः उत कर्मोपासनप्रीताद्र वाय्वाद्यवस्थात्

केवलाच्च परस्माद् ब्राहृण इति। किं 'स एवैनं भूतिं गमयति ' 'यमेवैष वृणुते तेन लभ्यः '

इत्यदिवाक्यशेषो वाय्वाद्यवस्थस्य केवलस्य च फलप्रदातृत्वगमयति नेति। किमयं वाक्यशेषो यथप्रतीयमानार्थः,

उतान्यपर इति। अत्र पूर्वपक्षवादी मन्यते--कृष्यादेरिति। लोकेकृष्यादेर्मर्दनादेरपि फलमस्तीत्यविवादमेतत्।

अन्यथा प्रवृत्त्ययोगात्। तच्च फलं द्दष्टद्वारेणैव जायते न पुनरद्दष्टद्वारा कल्पनागौरवप्रसङ्गात्। अव्यवहितफलोत्पत्तौ द्दष्टमपि द्वारं नापेक्षते। धर्माणां पुनः साधनत्वं श्रुत्यवगतत्वादपरित्याज्यमेव। न च 'आदित्यो यूपः ' इत्यादिवत् श्रुतिरत्र बाधवती। तेन बाधदोषोज्ज्ञिताभिश्श्रुतिभिरवगतत्वादस्येव धर्माणां साधनत्वम्। इत्थं धर्माणां साक्षात् साधनत्वे श्रूयमाणेऽपीश्वर प्रसादात् फलमिति वचनमीश्वरप्रशंसार्थमेवेति

कल्पयितुं युक्तम्। आशङ्कितमर्थं प्रतिक्षिपति- नेति। तत्र हेतुमाह--श्रौतेति। अत्रायं विभागः--कर्मैव कालान्तरभाविफलं ददातीत्येक पक्षः। कर्मव्यतिरिक्तमपूर्वाभिधानमित्यपरः। कर्मरूपाराधनप्रीतो देवताविशेष इति

तृतीयः। प्रथमपक्षे कर्मणश्चितप्रध्वस्तत्वात् फलहेतुत्वमेव न सम्भवति। द्वितीये तु पक्षे श्रुतहानाश्रुतकल्पनाभ्यां

द्वौ दोषौ स्तः। श्रूयते हि ' स एनं प्रीतः प्रीणाति ' इत्यादिना देवतायाएव फलप्रदत्वम्। तेन तृतीयः पक्षः श्रौदत्वादर्थविरोधाभावाच्च स्वीकर्तव्य इति देवताया एव फलप्रदत्वं सिद्धम्। इदं तु सामान्यं ' अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च' इति सर्वकर्मसमाराध्यत्वं सर्वकर्मफलप्रदत्वं चोच्यते। अप्रदानशीलस्य हि प्रभुत्वं

गगनकुसुमकूर्मरोमनरविषणादिष्वन्यतमायते। तेन प्रभुत्वमिति फलप्रदत्वमेवोच्यत इति भाष्यकारा निरणैषुः। तस्यैव वाक्ये वक्तुं योग्यत्वाद्काङ्क्षितत्वाच्चेति।।

3. अत्र फलप्दत्वकथने तत्रतत्र पूर्वोक्तार्थविशेषेण पौनरुक्त्यमाशङ्क्य प्रतिक्षिपति-- यद्यपीति। पूर्वं हि देवताधिकरणे ' प्रीतिः फलप्रदानञ्च देवतानां न विद्यते ' इति वदतां प्रतिक्षेपात् फलप्रदत्वमुक्तमेव। समनन्तरं तु 'कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयथ्र्यादिभ्यः ' इत्यस्मिन्नपि सूत्रे पूर्वकर्मानुरूपं पुण्यपापयोरीश्वरः प्रवर्तयतीति कर्मफलमीश्वराधीनमित्युक्तम्। तत् किमर्थं फलप्रदत्वमत्राप्युच्यते ? तदेतदङ्गीकृत्यैव प्रतिक्षिपति--

तथापीति। ' साक्षी चेता ' 'अवाक्यनादरः ' इत्यादौ तत्रतत्रवेदान्तवाक्ये साक्षित्वानादरत्ववचनात् तच्छ्रवणमात्रेण बिभ्यतउपासकस्योपासनप्रवृत्तिरेवोत्सीदेत्।तेनेश्वरस्योपेक्षकत्वादिशङ्कातङ्कपङ्किलबुद्धेरुपास-

कस्य भयनिवारणार्थं परमोदारस्य भगवतश्श्रियः पत्युः शरणागतरक्षणैकतानचित्तस्यौदार्यमेव प्रधानगुणमस्मिन्नधिकरणे प्रतिष्ठापयति सूत्रकार इति साफल्यान्न पौनरुक्त्यगन्धावकाशः।।

4. ईश्वरस्य फलप्रदानप्रकारं राजतत्पुत्रन्यायेन लोकद्दष्टप्रक्रियया प्रतिष्ठापयति--सम्राज इति। लोके हि केषाञ्चित् पुत्राणां कश्चिदपि पिता सम्राडेव भवति स च सानुकम्पः कर्तव्याकर्तव्ययोरुचितमप्यर्थं जानाति सर्वेषु च पुत्रेषु साम्यमेव भजते वदान्यश्च भवति। सर्वष्वपि पुत्रेषु औदार्यमपि साधारणमेवेत्यर्थः। एवम्भूतात्

पितुः पुत्रा नियतरुचिभिदायन्त्रितास्स्वस्वेच्छानुरूप्येण स्वाभीष्टं तंतमर्थं विन्दन्ति लभन्ते। एवं परमपुरुषादप्येतद्गुणजातोपेतात् पुत्रकल्पास्सर्वे तत्सेवकाः पुरुषाः स्वाभीष्टमर्थं लभन्त इतिशेषः। तत्र प्राप्यप्रापकतद्विरोधितदुपशमनादिकं सकलमपि पितापुत्रन्यायेनेश्वरेऽपि स्यादिति विशदं प्रकाशयति-- तत्रेति।

स्वतः प्राप्यं गृहक्षेत्रादिकं दायरूपं यत् यतः पित्राज्ञोल्लङ्घनादिहेतोस्तस्य विहतिर्भवति। तत्प्रशान्तिश्च यस्मात्--पुनरागत्य तत्पादप्रणामादेः। यच्च देयं धनाभरणपट्टवस्त्रच्छत्रचामरादिकम्। अविशेषादपराधक्षमापणाभावे दमनमपि शिक्षणमपि यथालोकं तत्सर्वमत्रापि स्यात्। राजभृत्यस्य तु राजाज्ञोल्लङ्घने पादच्छेदादिमनम्, तत्पुत्रस्य तु जीविकासङ्कोचादिकम्। एवमभागवतानां पापफलं शास्त्रोक्तं

नरकप्रायणादिकम्। भागवतानां तु बुद्धपूर्वकापराध प्रसङ्गे ' न खलु भागवता यमविषयं गच्छन्ति। इहैवैषां

केचिदुपप्लवा भवन्ति' इति काणत्वखञ्जत्वादिकमेव दमनम्। तेन ' लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत् '

इत्युक्तप्रकारेण प्रपन्नानामपराधाननुरूपदण्डनमत्यल्पमेव स्यादिति सकलफलप्रदे भगवति परमकारुणिके विश्वासेन ब्राहृविद्यानुष्ठानं सहसैव कर्तव्यमितीदमधिकरणमुपासनारम्भमेव सन्धुक्षयति।।

5. पादार्थेषु प्रधानार्थविशेषान् प्रकटयन् भगवत्पारम्यबुद्धिमुद्दीपयति--शुद्धानन्द इति। अयमत्र शब्दार्थः-- तत्

एवमुपपादनात् शुद्धानन्दस्वरूपे परस्मिन्ब्राहृणि शुभगुणजलधौ सत्यनित्यस्वदेहे परमार्थनित्यविग्रहवति

देवीभूषायुधपरिजनपरिच्छदादिभिरतिशयिनि। कनद्भोगलीलाविभूताविति विभूतिद्वयविशिष्टत्वमाह। कनदिति

देदीप्यमानत्वमुच्यते। 'अथ यदतः परो दिवो ज्योतिर्दीप्यते ' इति हि श्रुतिः। शेषित्वेति--आधेयत्वविधेयत्वशेषत्वैर्विश्वस्य शरीरत्वम्, आधारत्वादिभिरीश्वरस्य शरीरत्वमिति वेदान्तार्थतत्त्वनिर्णयसारः। सम्बन्धस्य स्तास्नुत्वं नित्यसिद्धत्वम्। स्वर्गापवर्गप्रसवितरीति 'फलमत उपपत्तेः '

इत्यधितकरणार्थं विशेषतः प्राह। एवम्भूते हरौ निर्निमेषा द्दष्टिरस्माकं श्रुतिरेवाबाधितप्रमाणमित्यर्थः। तेन

श्रुतिसिद्धेष्वेतेष्वर्थेषु विवादो न वैदिकैः कर्तव्य इत्यर्थः । तेन कक्षानुमानतुल्यैरनुमानाभासैरीश्वरगुणविग्रहविभूत्यादिकं निराकुर्वतां सर्वेषामेव पूर्ववादिनां श्रुतिरेव परिपन्थिनीति निरशिरःपवित्रत्वानुमानमपि ते नमस्कुर्वन्तु। पुरस्कुर्वन्तु च ' ब्रााहृणेन सुरा पेया ' इत्यादिकमपि वचनम्।

अथवा मनुष्यत्वादिभिस्स्वब्रााहृण्यमपि तिरस्कुर्वन्त्विति हास्यमेवावशिष्यते।।

6. उत्तरत्र विद्याभेदेषु गुणभेदकथनार्थमेतत्पादे प्रत्यधिकरणमुक्तानर्थभेदान् प्रत्येकमुपादाय प्रकटयति-- पाद

इति। स्वप्नसम्बन्ध्यर्थरुाष्टा सुषुप्त्याधृतिस्सुषुप्त्याधारस्सुप्तगोप्ता सुप्तस्य विनाशाभावेन संरक्षकः। मुग्धोह्ब्राोधातिकर्ता मूÐच्छतस्योह्बोधं कदाचित् करोति। कदाचिन्मरणमित्यादि शब्दार्थः। अनघशुभगुण

इत्युभयलिङ्गत्वमुच्यते। अचिद्भिरंशी स्वदेहैरित्यहिकुण्डलाधछिकरणार्थ उच्यते। अथ पराधिकरणार्थः--

पारम्यस्यैकसीमेति। एक एव परस्तस्मात् परो नास्तीत्यर्थः। सकलफलद इति फलाधिकरणार्थः। एवमुच्यते

भगवान् किमर्थमित्याशङ्क्याह- भक्तिभूम्न इति। वक्ष्यमाणब्राह्णविद्यारूपभक्त्यभिवृद्ध्यर्थमित्यर्थः। ननु व्यावहारिकं गुणजातमेताद्दशमस्त्विति वयमपि ब्राूम इति मृषावादिनः प्रवदान्त तत्रोत्तरमाह-- सत्ये हीति। एवमुक्ते गुणादौ सत्ये सत्येव ह्रनन्तरपादे परभजनादौ रूपभेदादिकं वक्तुं शक्यते। अयमर्थः- तत्त्वमेव

वेदान्तशास्त्रमुपपादयति। तत्प्रतिपाद्यमर्थजातमतत्त्वं चेत् किं तत्त्वम् ? न किमपीति चेत् माध्यमिकसङ्करप्रसङ्गः। विशेषणमातत्त्वं विशेष्यमात्रं तत्त्वमिति चेत् कः प्राह ? श्रुतिरितिचेद् वाच्यत्ववेद्यत्वादिभिः पुनरपि मिथ्याभूतं ब्राहृ स्यात्। स्वयम्प्रकाशं तदिति चेत् कि तत् स्वयम्प्रकाशत्वम् ?

अवद्यत्वे सति अपरोक्षव्यवहारानुगुणत्वमिति चेद् व्यवहारानुगुणत्वादेव पुनरपि मिथ्यात्वमुन्मज्जेत्।

स्वयम्प्रकाशत्वमृषात्वान्न दोषइति चेत् स्वयम्प्रकाशत्वस्य मिथ्यात्वे परप्रकाशत्वमेव तथ्यमिति पुनरपि द्दश्यत्वान्मिथ्यात्वं समर्थयसे ब्राहृण इत्यसम्बद्धवादिना भवता विवादमपि कर्तुमपत्रपामहे।।

3.3.1.

1. एवं पूर्वोक्तैर्दशभिः पादैर्मोक्षोपायोपयुक्तं तत्त्वज्ञानं प्रतिष्ठापितम्। उत्तरत्र षड्भिः पादै परब्राहृप्राप्तिरूपफलसंवलितं तद्धेतुभूतमुपासनं विशदमेव प्रकाश्यत इति पूर्वोत्तरयोरन्वयमाह--तत्त्वज्ञानेति।

मोक्ष्यमाणस्य पुरुषस्य तत्त्वज्ञानानुविद्धं हिततममुपासनमुत्तरत्र वक्तुं तत्त्वे विषये तर्कज्वरजनितमहासन्निपातप्रलापान् परवादान् निर्धूयाधुना तत्त्वबोधे निष्पन्ने सति तत्त्वज्ञानस्य सञ्जातत्वात्।

' दग्धाखिलाधिकारत्वात् ब्राहृज्ञानाग्निना मुनिः।

वर्तमानश्श्रुतेर्मूÐन्ध नैव स्याद्वेदकिङ्करः।। '

इति वेदकिङ्करत्वमपलपद्भयो मृषावादिभ्यः ' स खल्वेवं वर्तयन् यावदायुषं ब्राहृलोकमभिसम्पद्यते '

इति श्रुतिसिद्धं यावज्जीवानुवत्र्यं मुररिपुभजनं मुक्तिसिद्धये वक्तीत्यन्वयः। इत्थं किल मृषावादीमन्यते- य एव

ह्रहङ्कारादियुक्तः सएव वेदकिङ्करः ; कर्तृत्वभोक्तृत्वयोरनात्मधर्मत्वात्। काम्यकर्तृत्वं तावत् संसारहेतुत्वान्निरस्तमेव ज्ञानिनः। ब्राहृोपासनकर्तृत्वमपि तथैव निरस्तं तस्यापि सांसारिकधर्मान्तर्भावात्। ब्राहृ तु

न ज्ञेयं नोपास्यं न प्राप्यमपि। नच वेदैरयमर्थो ज्ञाप्यते। नित्यस्वयम्प्रकाशत्वात् स्वयम्प्रकाशत्वमपि न निरुच्यते।

तदनिर्वचने कथं ब्राहृसिद्धिरितिचेत् मा भूत् ब्राहृसिद्धिः। अत एव ह्रध्यात्मविदः प्रवदन्ति ' अवचनेनैव प्रोवाच '

इति। एवमसम्बद्धवादिनो मिथ्यावादिनस्सद्विद्यामपि स्वसमयसारभूततया परिगृहीतां परित्यजन्ति किमुत

दहरविद्यादिकान् विद्याभेदान् विविधगुणपरिष्कारयुक्तान्। अतस्तत्प्रतिक्षेपारभ्यत इति।।

2. अत्र तृतीयाध्याये चतुर्णामपि पादानामर्थभेदं द्विकदच्वयस्याप्यर्थभेदान्मिथोभेदं पौर्वापर्यनियमञ्च दर्शयति--

भीमाभ्य इति। अत्र पूर्वपादद्वयेऽधिकारसम्पत्तिहेतुरधिकारश्च संसारविरक्तिसंवलितो भगवति तृष्णायोगः

उभावेतावुभाभ्यां पादाभ्यामभिधीयते इति विशदं प्रकाश्यते। तत्र भीमाभ्य इत्यादिना वैराग्यपादार्थमाह

तृष्णामित्यादिनोभयलिङ्गपादार्थम्। अयमत्र शब्दान्वयः-- यावताकृष्णामृताब्धौ तृष्णां परणयति तावदुक्तमिति

उत्तरपादद्वयार्थमाह -- इत्थमिति। अयमत्र शब्दान्वयः-- उभाभ्यां पादाभ्यां लब्धाधिकारो यत्र साङ्गे साधने

प्रवर्तते तत् साङ्गं साधनं परस्मिन् पादद्वन्द्वे बहुभिदाबर्बरं निब्र्रावीति--बहुभेदेन विषमितं विकल्पितं निब्र्रावीति

सूत्रकारः। अयमर्थः--ब्राहृविद्याविशेषाः खलु ' नानाशब्दादि ' इति सप्रमाणकं भिन्नतयोपदिष्टाः। 'विकल्पोऽविशिष्टफलत्वात् ' इत्येकफलसाधनत्वेन त एव विकल्पिताः। एवमुभयाकारयुक्तसाधनजातमुदिश्यत इति । अयमत्रानुक्रमः-- वैराग्यपूर्वं हि प्राप्यतृष्णा जायते प्राप्यविषयप्रेप्सायं जातायामुपायाधिकारः उपायेप्रवृत्तस्याधिकारिणः पुरस्तादुपाये निर्णीते उपरिष्टात् करणस्थानीयसर्वब्राहृविद्याङ्गकर्मोपादित्सा जायत इति विद्याङ्गपादस्य पश्चाद्भाव इति।।

3. ननु पादार्थाभिधाने भगवता भाष्यकारेण ' इदानीं ब्राहृोपासनानां गुणोपसंहारविकल्प निर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते ' इत्युक्तम्, अत्र कोऽयं पादार्थः ? किं भेदचिन्ता उताभेतचिन्ता अथवा क्वचिद्भेदचिन्ता क्वचिदभेदचिन्ता यद्वा भेदाभेतचिन्तेति। नाद्यः ; सार्वत्रिकत्वाभावात्। अत एव न द्वितीयः।

न च तृतीयः ; अनुवृत्तार्थासिद्धेः। न चतुर्थः ; भेदाभेदात्मकस्य चिन्तनीयस्य व्याहतत्वेन तद्विषयचिन्ताया अयोगात्। चिन्ताशब्देन संशयात्मकं विचारमभिधाय पक्षद्वयाभिधानेऽपि एतस्मिन्पादे गुणोपसंहारानुपसंहारचिन्ता

हीयेत। सैव हि चिन्ता पादेऽस्मिन् प्रधाना ; गुणोपसंहारपाद इति समाख्यायोगात्। तदिदं सर्वमभिप्रेत्याह- एकस्मिन्निति। अयमत्र शब्दार्थः- एकस्मिन् पादे एक एवार्थस्स्वीकार्यो निपुणनयकृता पुरुषेण। द्वयोस्तर्कणं

विचारो न स्यात्। भेदाभेद इत्येकोऽर्थो नास्त्येव, शब्दप्रयोगमात्रेण शशविषाणादिवदस्तित्वेऽपि तस्यैव चिन्तनमस्मिन् पादे स्यात् न पुनरन्यस्य गुणोपसेहारानुपसंहारादेश्चिन्तनम्। तदिदमाह- अन्यहानप्रसङ्गादिति। उक्तमर्थं सङ्कलय्य निगमयति--तस्मादिति। एवं विकल्पदुष्टत्वादस्मिन् पादे प्रकीर्णा नयविततिन्र्यायविस्तरः प्रशिथिल इति प्रेक्षितग्रन्थचोद्ये विद्याभेदाभेदचिन्ता क्रियत इति द्दष्टभाष्यग्रन्थस्य कस्यचित् पुरुषस्य चोद्ये सति वेद्यावच्छिन्नविद्यानियमकृदयं पाद इत्यैदमथ्र्यंतात्पर्यंसमथ्र्यम्।

अयमर्थः-- नात्र भेदो नाप्यभेदः प्रधानतया चिन्त्यते, भेदाभेदौ गुणोपसंहारानुपसंहारार्थावेव। तेन गुणोपसंहारपादप्रसिद्धिरपि युज्यते। तह्र्रुपसंहारोऽनुपसंहारो वा पादार्थ इति पुनश्चोद्यमुन्मज्जतीति चेत्

यथायोग्यमुपसंहारानुपसंहारान्यतरनिर्णयः पादार्थ इत्यैकाथ्र्यसिद्धिः। वेद्यावच्छिन्नविद्यानियमकृदयमिति वेद्यं भिन्नं

चेत् विद्या च भिन्ना, अभिन्नं चेत् सा चाभिन्ना, तेन वेद्यानुरूपं विद्यानियमनमिति पादर्थैक्यसिद्धिः। अत्र वेद्यभेदस्तु गुणभेदात् नपुनब्र्राहृभेदात्। तेन गुणोपसंहारपादप्रसिद्धिस्सुतरां सङ्घटत इति।।

4. पूर्वस्मिन् श्लोके वेद्यावच्छिन्नविद्यानियमकृदयमिति पादस्यैकाथ्र्यं समर्थितम्। अत्र कश्चिदाह- अस्त्वैकाथ्र्यम्, अथापि विद्यैक्यप्रतिपादकेऽस्मिन्पादे अभेद एवैकः पादार्थः। न पुनर्विद्या भेदः, तर्हि ' विद्याभेदाभेदचिन्चा ' इति कथं भाष्यकारैरुच्यते ? इति चेत् अस्त्वपवादप्रदर्शनम्। विद्यैक्यमेव पादार्थः।

ऐक्यासम्भवे क्वचिद्भेदोऽपि स्यादित्यपवाद एव प्रदश्र्यते नपुनर्भेदः पादार्थभूत इति। इमामाशङ्कामनुवदति--

आख्यावन्तमिति। अयमत्र शब्दार्थः--गुणानामुपसंहारतो गुणोपसंहारपाद इत्याख्यावन्तमेतं पादं निजगदुः।

तत् तस्मात्कारणादाख्यासामथ्र्यात् विद्यैक्यप्रतिपादतकेऽस्मिन्पादे भेदचिन्ता त्वपवादत्वेनैव प्रसक्ता न पुनः

पादार्थतया। इममाशङ्का परिहर्तुमेव भाष्यकारैरुक्तं ' विद्याभेदाभेदचिन्ता ' इति। तदाह-- इत्थमिति। कः

पुनस्सर्वानुवृत्तः पादार्थ इति चेत्तत्राह- विषय इति।।

5. अत्र कश्चिच्चोदयति-गुणभेदात् विद्याभेद इति भवद्भिरिक्तम्। तर्हि फलभेदोऽपि स्यात्। 'यथाक्रतुरस्मिन्

लोके पुरुषो भवति तथेतः प्रेत्य भवति ' इति हि श्रूयते 'तं यथायथोपासते तथैव भवति ' इति च। तेन यद्गुणविशिष्टं भगवन्तमुपास्ते तद्गुणविशिष्टमेव प्राप्नोतीति श्रुत्यर्थः। विशेषविधौशेषनिषेधस्य न्याय्यत्वात् उपास्यगुणव्यतिरिक्तगुणविशिष्टभगवत्प्राप्तिरर्थान्निषिध्यत इति परिपूर्नब्राहृानुभवो मोक्ष इति वादमात्रमेव स्यात्।

तदिदमनुवदति--निस्सीमेति। निस्सीमानन्दपर्वोत्कर्षहेतुभूतनिरुपधिकानन्तसम्पद्गुणौधे परमात्मनि वेद्याकारभेदप्रयुक्तभेदवद्विद्याभेदैर्विभज्य प्रणिधिर्यदि स्यात्, तर्हि प्राप्तिरपि ब्राहृणि अंशत एकदेशेन स्यात्।

यावानुपासनविषय आकारस्तावानेव प्राप्याकारस्स्यात्। तथा च न परिपूर्णब्राहृानुभवः फलमित्यापतेत्। एतच्चोद्यमपाकरोति-मैवमिति। अपाकरणमेव विवृणोति-तैरेवेति। अयमर्थः-- 'यथाक्रतुरÏस्मल्लोके पुरुषो भवति '

इत्यत्रोपास्याकारस्यान्यूनभावेव प्राप्तिरुच्यते। 'तथैव भवति ' इति कृत्स्नस्याप्युपास्याकारस्य प्राप्त्यभिधानात्।

न्यूनत्वे पुनरुपास्याकारस्य कृत्स्नत्वमेव भज्येत। अधिकाकारसम्बन्धस्त्वत्र न विधीयते नापि निषिध्यते। विशेषविधौ शेषनिषेधन्यायात् निषिध्यत इति चेत् अयमपि भ्रान्तिमूल एवोपन्यासः। विधायकप्रमाणान्तराभावे हि

आर्थो निषेधः परिगृह्रेत। अत्र तु विधायकमस्ति ' निरञ्जनः परमं साम्यमुपैति ' इति श्रुत्यैव परमसाम्याभिधानात्। इदञ्च परमसाम्यं भोगमात्र एवेति सूत्रकारैरेव स्थापयिष्यते ' भोगमात्रसाम्यलिङ्गाच्च ' इति। तेन नहि वचनविरोधे न्यायः प्रभवतीति न्यायेनाधिकनिषेधो दुन्र्यायवेदिनामेव निर्णयः। तर्हीश्वरसाम्याङ्गीकारे जीवस्यापीश्वरत्वं प्रसज्य इति चेन्न ; सूत्रकारैरेव मात्रशब्दं प्रयुञ्जानैर्निरस्तत्वात्।

शब्दार्थस्तु--तैरेवधर्मैरुपास्यैरेव भगवद्गुणैस्तदितरसहितै रनुपास्यैर्गुणैरपि सहितैः पूर्णं ब्राहृैव पूर्णकामस्य

मुक्तस्य प्राप्यमिति नान्यदत्र फलमस्ति। स्वर्गादिसाधनेषु तूपास्यमन्यत् फलमन्यदिति प्रसिद्धमेतत्। तेनात्र

तत्क्रतुन्यायेनोपास्यानुपास्यकलगुणविशिष्टं तदेव ब्राहृ प्राप्यमिति तत्क्रतुन्यायस्सिध्यति। तेन न क्वचिदपि विद्यासु फलवैषम्यप्रसङ्गः।।

6. अत्र पादसङ्गतिर्भाष्ये ' उक्तं ब्राहृोपासिसिषोपजननाय वक्तव्यं ब्राहृणः फलदायितापर्यन्तम्। इदानिं ब्राहृोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते ' इति। अधिकरणावतारमप्याह 'प्रथमं तावत् ' इत्यादिना। 'फलमत उपपत्तेः ' इत्यत्र उपास्यस्य ब्राहृणस्सर्वफलप्रदाने प्राधान्यमुक्तम्, अधुना पुनर्मूर्धादिपादपर्यन्तपरिक्लृप्त्या सविग्रहब्राहृोपासनरूपाया वैश्वानरविद्यायाः परविद्यान्तरात् प्राधान्येन सैव प्रथमं

विचार्यते। अत एव भगवता पराशरेण ब्राहृविद्याप्रसङ्गेसविग्रहमेव ब्राहृ प्रथमं चिन्तनीयं शुभाश्रयत्वात्, ब्राहृस्वरूपं तु न योगयुजा चिन्त्यम्, आरूढयोगेनैव चिन्त्यमित्युक्तम्। अस्याञ्च विद्यायां पूर्वकाण्डशाखान्तराधिकरणोक्तसकलन्यायसमुच्चयस्य विद्यमान्तवात् एतद्विचारपूर्वकमेव विद्यान्तरविचारौचित्यादेषैव विद्या पूर्वं विचार्यत इतियभिप्रायः। एतदेव ' प्रथमं तावत् ' इति द्वाभ्यामपि पदाभ्यां

द्योत्यते। तदर्थविचारस्तु-- नानाशाखास्वधीताया वैश्वानरादिकाया विद्यायाः किं प्रतिशाखं भेदः, उतैक्यमिति। किं शाखान्तरे प्रत्यभिज्ञास्ति नेति। किं ' तेषामेवैतां ब्राहृविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ' इति शिरोव्रतवतामाथर्वणिकानां विद्योपदेशनियमोभेदोपपादकतया प्रत्यभिज्ञानिरोधी नेति। किं शिरोव्रतं विद्याङ्गम्,

उताध्ययनाङ्गमिति। अत्र कर्मकाण्डशाखान्तराधिकरणोक्ताभेदचकन्यायैरभेदमुक्त्वा पुनर्भेदकन्यायैराक्षिप्य भेदकानां तेषामन्यार्थत्वप्रदर्शनेनाभेदमेव पुनः प्रतिष्ठापयामास सूत्रकार इत्याह--भेद इत्यादिना। अयमर्थः- कर्मकाण्डे हि संयोगरूपचोदनाख्याविशेषात् कर्मणामैक्यमुक्तम। संयोगो नाम फलसंयोगः। रूपञ्च द्रव्यदेवते।

द्रव्यदेवते हि कर्मणो रूपमिति तान्त्रिकाः। चोदना लिङ्लोट्तव्यप्रत्ययादिशिरस्कः क्रियावाचिशब्दः। आख्या ज्योतिष्टोमादिनामधेयम्। तेषामविशेषात् कर्मैक्यमिति ' संयोगरूपचोदनाख्याविशेषात् ' इति सूत्रार्थः। भेदकप्रमाणानि तु शब्दान्तरादीनि। अपर्यायशब्दश्शब्दान्तरं यजति जुहोति ददातीत्यादि। अभ्यासस्तु ' समिधो

यजति ' 'तनूनपातं यजति ' इत्यादिरूपः पुनः पुनः पाठः। सङ्ख्या 'तिरुा आहुतीर्जुहोति ' इत्यादिषु द्दष्टा त्रित्वादिः। गुणस्तु ' तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् ' इत्यादिषु श्रुतो वाजिनादिः। 'उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति ' इत्यादिषु प्रकरणान्तरमुपलभ्यते। नामधेयमपि भेदकं

द्दश्यति 'अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योदिः ' इत्यादौ। तेन पूर्वकाण्डोक्तन्याकलापैर्भेदकैरबेदकैश्चेदमधिकरणं व्यारचितम्। तत्र शब्दान्वयस्तु-कर्मकाण्डे द्वितीयाध्याये शब्दान्तराद्यैर्भैदो विधिषु नियमितः प्रतिपादितः। समुदयनियतात् समुच्चितात् संयोगाद्यैक्यतः संयोगरूपचोदनाख्याविशेषात् अन्यः कर्मणामभेदोऽपि स्थापितः। कर्मब्राहृकाण्डयोरैकशास्त्र्यात् न्याप्रवृत्तेरपि तुल्यत्वात् विद्यामपि कर्मनीतिरेव नीतिः। इत्थं सामान्येनार्थतत्त्वमभिधाय एतस्याधिकरणस्य

सिद्धान्तारम्भपूर्वकत्वात् प्रथमं सिद्धान्तमभिधाय पूर्वपक्षाभिप्रायेणाक्षिप्य पुनस्तमेव सिद्धान्तं स्थापयामपि सूत्रकार

इति दर्शयति-- आदाविति। शब्दान्वयस्तु- तेनैव कर्मकाण्डेनैव चोदनादरेभेदादादावुदितमुक्तं शाखान्तरनयं

श्रुत्यैवाक्षिप्य श्रुत्यन्तर्गतात् भेदकप्रमाणादाक्षिप्य तं पूर्वोक्तमेवार्थं प्रतिसमाधित स्थापयामास। तत्र हेतुमाह

भेदकान्यार्थतोक्तयेति। भेदकस्य प्रमाणस्य अर्थान्तरे तात्पर्यादित्यर्थः।।

4.पूर्वं साङ्ख्यस्य नित्यमुकिं्त वदतः कथितं दूषणं मृषावादिनोऽप्यविशिष्टमित्युक्वा स्वपक्षेमोक्षं

स्वरूपतो विशदमेव दर्शयति-मोक्षेति। अत्रायं विकल्पः-- नित्यमुक्तत्ववादि मृषावादि किमागामिमोक्ष

एव नास्तीति ब्राूते किंवा भ्रान्तिसिद्धो मोक्ष इति। उभयथापि न युज्यते । तथा हि - मोक्षो यदि न स्यात् तदा सपरिकरामिदं चिन्त्यमानं साधनं मुधा स्यात् । आगामिनो मोक्षरूप फलस्याभावात्।

तर्हि मुक्तिभ्र्रान्तिसिद्धेति पक्षं परिगृह्निम इतिचेत् तत्रापि विकल्पः-- किमाधुनिकभ्रान्सिद्धो मोक्षः,

उत मोक्षदशायामुत्पन्नाय भ्रान्तया सिद्धः। न तावदाद्यः - अधुना सम्सारभ्रान्ते विद्यमानत्वेन

मोक्षभ्रान्तेरनुदयात्। नापि परः - तथा सति मुक्तिदशायामारोपितमोक्षविषयभ्रान्त्यनुवृत्तेर्यावदात्मस्वरूपं

भ्रान्तिरेव स्यात्। किञ्च श्रेत्रज्ञस्य नित्यमुक्तत्वं कथयितुस्तव साधनाध्यायोऽफल एव स्यात्, नित्यमुक्तत्वेन साधनाध्याभावात्। भ्रान्त्युपशमनार्थं साधनाध्याय इति चेत् तर्हि निवत्र्यसद्भावान्न नित्यवुक्तत्वसिद्धिः। निवत्र्यभावे तु तदेवनैष्फल्यमनुवर्तेत।तर्हिसकलसांसारिकदुःखनिवृत्तिब्र्राहृज्ञानकार्येति चेत् कार्यस्यानित्यत्तन्नाशे संसारोन्मज्जनप्रसङ्ग इत्याशङ्कयाह-प्रध्वंसेति। न्यायविदां पक्षे

प्रध्वंसरूपाणी मिक्तिः। प्रध्वंसस्य काय्र्तवेपि नित्यत्वमिति हि तेषां पक्षः। अतो नानित्यत्वप्रसङ्गः। तर्हि युष्मत्पक्षे भावरूपत्वमस्तीति चेत्--अस्त्येव । तेषामभाव एवास्मकं भावः। यथा अभावरूपत्वान्मुक्तेः कार्यत्वेपि नित्यत्वामिति न्यायवादिनः वदन्ति एवं भावान्तराभावावादिनामस्माकमपि न च पुनरावर्तते इति न्यायानुगृहीतश्रुतिसामथ्र्यादपहतपाप्मत्वादिगुणाष्टकाविर्भावरूपमुक्तेर्भावरूपत्वेऽपि नित्यत्वसिद्धिरिति कृतं विस्तरेण।।

5.उक्तं भावान्तराभावपक्षं लोकदृष्टप्रक्रियया पुरानाणुसारेण च स्थापयन् मोक्षस्य नित्यत्वं पक्षद्वयेण दर्शयति। सन्तत्यात्मेति।महि घटत्वं घटतः कपालिका इति पराशरादिवचन बलादुत्तरावस्थान्तर -मात्रस्य सन्तन्यमानस्यैव विनाशत्वेन च लोके उपलम्भात् धीशङ्गोचप्राणाश एव विकशनम्।

अतथाभूतं नित्यसिद्धस्वरूपमत्र पुनरागमात्स्यात्। आगमस्तु न च पुनरावर्तते इत्यादिकः।

अपुनरावृत्तिर्नाम विकसितज्ञानस्य पुनस्सङ्कोचाभावः।यथा न क्रियते ज्योत्स्ना मल प्रक्षीलनान्मणेः

इति शैनकवचनमप्यत्रैव संवदते। अत्र पक्षान्तरमप्याह -मन्यत इति। विकसनंस्वरूपतो नित्यमित्यकः



श्रीः

। 3.2.1.

1. अत्र वैराग्यरपादानन्तरमुभयलिङ्गपादारम्भमाक्षिप्य सम्धत्ते-- ब्राहृैवेति। पूर्वमुभाभ्यामध्यायाभ्यां सर्वैरपि स्वैः

स्वभावैरन्वितं ब्राहृ प्रत्यपादि। अयञ्च साधनाध्यायः। अस्मिन्नध्याये समन्वयाविरोधाध्यायप्रतिपाध्यस्य ब्राहृणः

पुनराकृष्य चिन्ता किमर्थेति चोदकाभिप्रायः। चोध्यं निराकरोति-- मैवमिति। अयमत्राभिप्रायः-- सत्यमयं साधनाध्यायः। अथापि ब्राहृचिन्ता विशेषतः कर्तव्यैव। साधनं हि द्विविधम्- साध्योपायस्सिद्धोपायश्च। सिद्धोपाय

ईश्वरः। साध्योपायस्सद्विध्यादिभेदवती तद्भिक्तिरेव। विध्याभेदश्च रूपभेदात्। रूपञ्च विध्यायाः प्राधान्येन वेध्यं

ब्राहृैव। तस्य च भेदस्तद्गुणभेदात्। एवञ्च साधनाध्यायप्रतिपाध्यसाधनरूपभक्तिविषयत्वेन स्वयञ्च सिद्धोपायतया

साधनत्वेन साधनाध्याये ब्राहृचिन्ता विशेषेण सङ्गच्छत इति। तत्र ब्राहृचिन्तनस्य विध्योपकारकत्वं तावदाह--

विध्या इति। तद्धि तद्रूपभेदादिति-- तद् ब्राहृविशदीकरणं तद्रूपभेदात् तद्गुणभेदात् तेनोभयलिङ्गत्वादि

विशेषणोपेतं ब्राहृात्र चिन्तनीयमित्यर्थः। अस्य सिद्धोपायत्वप्रतिपादनार्थं ब्राहृचिन्तनं सफलमित्याह--सिद्धेति।द्वं

खलु विशेषतः प्रतिपाध्यम्- ब्राहृणस्सिद्धोपयत्वं सिद्धप्राप्यत्वञ्च। एतदुभयप्रतिपादनं प्राप्ये ब्राहृणि तृष्णाविशेष

सिद्धयर्थम्। तृष्णाविशेषाभावे खलुपायाधिकार एव पुरुषस्य न स्यात्। स्वर्गकामो हि यागादिष्वधिकुरुते एवं

परब्राहृप्राप्तिकामो हि ब्राहृोपासनेष्वधिकुर्यात्। तथा चोभयलिङ्गपाद उपासनानुष्ठाने विशेषेणोपकरोतीति शरीरकशास्त्रसारोऽयं पाद इति न नैरर्थक्यप्रसङ्गः। तृष्णाप्रथिम्न इति-- तृषणाभिवृद्धयर्थमित्युच्यते।अभिवर्धते

ह्रत्र तृष्णा ' स स्वेनैव फलप्रदः ' इत्युक्तप्रकारेण स्वप्रापकत्वेन स्वयमेव ब्राहृणि परिज्ञाते इति भावः।।

2. किंञ्च अखिलहेयप्रत्यनीककल्याणैकतानताप्रतिपादनपरोऽयमुभयलिङ्गपादो मृषावादिप्रभृतीनां परेषां प्रतिक्षेपे विशेषेणोपकरोतीति सफलएवेत्याह -- नैर्गुण्यमिति। ब्राहृणो नैर्गुण्यं चेत् गुणोपसंहारपादाधिकरणेषूभय

लिङ्गपादप्रतिपादितकल्याणगुणभेदैब्र्राहृविध्याविभागो वितथस्स्यात्। ननु कल्पितैरेव गुणैब्र्राहृाविध्याविभागस्स्या

-दिति परपक्षमनुवदति --सोऽस्विति। तत् प्रतिक्षिपति- श्रुतिमतविहतिरिति। अनादिनिधनाविच्छन्नसम्प्रदायतया

प्रतिपन्नस्य श्रुत्यर्थस्य कल्पितत्वे किमकल्पितं स्यात् ? तथा च गुणानां कल्पितत्वं वदन् वेदान्तबहिर्भूत इत्यर्थः।

ननु वेदान्तेऽपि 'मनो ब्राहृेत्युपासीत ' इत्येवमादिषु 'गरुडमात्मानं जानीयात् ' इत्यादिवद् द्दष्टिविधिद्र्दश्यते

तद्वदत्रापि स्यादित्याशङ्क्य निराकरोति-- नात्रेति। एकत्रागत्या द्दष्टिविधिपरिग्रहे सर्वत्रापि तथैव स्यादिति न

वक्तुं शक्यत इत्यर्थः। अन्यत्रान्यगुणारोपेणानुसन्धाने हि द्दष्टिविधिः। ब्राहृणस्तु सत्यत्वज्ञानत्वादिकं स्वरूपगुणत्व

वादबाध्यमित्यर्थः। एवं कल्याणगुणैकतानत्वप्रतिपादकप्रमाणविरोधात् मृषावादिनो दोषमुक्त्वा निर्दोषत्वप्रतिपादक

-प्रमाणविरोधादपि मृषावादिपक्षस्य दुष्टत्वमाह-निर्दोषत्वमिति।ब्राहृनिर्दोषत्वञ्च नित्यमेवेति प्रमाणानुसारेण यदि

वदसि तथा ब्राहृव्यतिरिक्तस्य संसरतो जीवस्याभावाद् ब्राहृणो नित्यनिर्दोषत्वाच्च मुधा निरर्थक एव संसाररूप

दोषशान्त्यर्थो वेदान्तश्रवणादिप्रयास इति नैरर्थक्यमेव शास्त्रारम्भस्य। तर्हि निर्दोषत्वं ब्राहृणः कल्प्यमिति वदाम

इति परस्याभिप्रायमाशङ्क्य प्रतिक्षिपति-- कल्प्यमिति। निर्दोषत्वं कल्प्यं चेत् दुष्टतैव ब्राहृणः प्रकृतिस्यादिति

पुनश्शास्त्रारम्भवैयथ्र्यमिति परेषां प्रतिक्षेपायोभयलिङ्गपादस्सफल एव।।

3. इत्थं निर्विशेषत्वस्य मिथ्यात्वे दोषं द्दष्ट्वा पुनस्सत्यत्वं वदतो बम्भ्रम्यमाणस्य मृषावादिनो बहूनपि दोषानाह---किञ्चेति। ब्राहृणो निर्विशेषत्वपारमाथ्र्ये ब्राहृजिज्ञासा कर्तव्येति आदौ चिन्त्यत्ववादो न स्यात्, तथा-

-प्रमाणगोचरत्वमपि तथैव स्वसिद्धान्तसारभूतं स्वयम्प्रकाशत्वमानन्दरूपत्वं विश्वाध्यासाधिष्ठानत्वं ' बहुस्याम् '

इति स्वस्य बहुभवनसङ्कल्पः। एताद्दशं सर्वमपि गुणजातं निर्विशेषे ब्राहृणि कथं स्यात् ? न कथंचित् स्यादित्यर्थः। एते गुणा यदि परमार्थास्तदा सगुणवादप्रसङ्गः। अपरमार्थाश्चेत् स्वयम्प्रकाशत्वानन्दत्वयोरप्यपर-

-मार्थत्वे स्वसिद्धान्तस्य मूलोच्छेदः। बौद्धादिभ्यो वैषम्यञ्च किं स्यात् ? अयमर्थविरोध उक्तः।श्रुतिविरोधमप्याह--

सर्वेति। श्रुतिप्रमाणविरोधमुक्त्वा स्ववचनविरोधमप्याह-- स्ववचनेति। प्रत्यक्षादिकृत्स्नप्रमाणविरुद्धवादित्वादिकं

मृषावादिनस्सुप्रसिद्धमेव ' दुर्घटत्वमविध्याया भूषणं नतु दूषणम् ' इति। तद् भूषणं चेद् ब्राहृैवाविध्या, निरधिष्ठान एव भ्रमः, निष्प्रकाशमेव ब्राहृेत्यादिकमप्यत्यन्तदुर्घटं श्रेष्ठमेव भूषणं स्यादिति माध्यमिकविजयतूर्यमेव

जोघुष्येत।मायावैयात्येत्यादि-- मायाधाष्टर्¬ात् कष्टां दशामापन्नानामष्टपादकल्पनां मृषावादिनामिह गुणोपसंहार

पादप्रतिपाध्यं सकलमपि सगुणोपासनं समूलोन्मूलनमर्हतीति सर्वशास्त्रव्याकोपः।।

4. अस्मिन्नुभयलिङ्गपादे यदि ब्राहृ चिन्त्यमुच्यते तर्हि जीवस्य स्वप्नाध्यवस्थाकथनं कथं सङ्घटेतेत्याशङ्क्य

स्वपनादिद्दष्टिरपि भगवत्सङ्कल्पादेव सिध्यतीति तत्प्रदर्शनस्यापि भगवन्माहात्म्यप्रदर्शपरत्वादस्मिन्पादे सङ्गति

र्युज्यत इति परिहरति--त्यक्तमिति। अयमत्र शब्दार्थः--दोषैस्त्यक्तं गुणाढ¬ं ब्राहृ यदि पुनरिह चिन्त्येत तर्हि

जीवस्य स्वप्नाध्यवस्थमननमथ वैराग्यपादानन्तरमस्मिन्पादे कथं संघटेतेति शङ्का। तामिमामां निराकरोति-

नेति। तदेव विवृणोति-- स्वप्नेति। स्वप्नार्थस्यापि भगवानेव रुाष्टति तत्रुाष्टृभावप्रभृतिबहुविधब्राहृमाहात्म्यसि

--द्धयै तथा अस्य जन्तोस्स्वमुक्तावत्यन्त परवशताज्ञप्तये चैतज्जीवस्य स्वप्नाध्यवस्थामननमत्र क्रियते।

अयमर्थः-- न जीवस्स्वप्राधान्येनात्रोच्यते, अपि तु परमात्मनो जग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थाकतृत्वप्रतिपादनार्थम्

इति परमात्मैवास्मिन्पादे सर्वत्र प्राधान्येनोच्यत इति।।

5. अत्र केचिदाहुः --- ' अस्मिन्नुभयलिङ्गपादे पूर्वार्धं जीवपरं वैराग्यपादशेषभूतम्, उत्तरार्धं परमात्मपरमिति।

एतदनुवदति - पादस्येति। पश्चार्धमत्रास्मिन्पादे साक्षादनुघटितमुपास्त्यर्थ तत्तद्भगवद्गुणोक्तेरिति।

इदमेकदेशिमतं नातीव ह्मध्यमिति निराकरोति-- एतदिति। तत्र हेतुमाह-- शबलितेति। सङ्कीर्णकथने

चातुरीवैपरीत्यादिति। तर्हि पादपूर्वार्धे जीवदोषग्रहणं किमर्थमित्याशङ्क्य ब्राहृगुणाभिव्यक्त्यर्थमिति परिहरति-

ब्राहृेति।संसरतो जीवस्य कथने हि संसारमोचकस्य परमात्मनो माहात्म्यं सिध्यतीत्यर्थः।शब्दार्थस्तु - जीवदोष

ग्रह इह तु मुखमुपाय इत्यर्थ इति।।

6. अत्र चोदयति ' स्वप्नसृष्टिः परमार्थभूतेति भवद्भिरुच्यते तत्कथं सङ्घटते ? अतीतानागतयोरपि स्वप्ने

दर्शनात्। असम्भाविततार्थदर्शनं हि जागरे मिथ्या किं पुनस्स्वप्ने। अतस्स्वप्नसृष्टिर्नपरमार्थभूता ' इति। तदिदमाह--स्वप्न इति। अयमत्र शब्दान्वयः-- स्वप्नेऽर्थास्सृष्टास्सन्तु। अथापि बहुविधा भ्रान्तिरत्र स्वप्ने

दुस्त्यजा प्रधवस्तानां पित्रादीनामिदानीन्तनवदनुभवात् स्वप्नलब्धानां सुवर्णादीनामस्थिराणामपि स्थायितादि

भ्रमाच्च, अतः स्वप्नस्य अपारमाथ्र्यं तव वक्तव्यमिति। तदिदमर्धाह्गीकारेण निराकरोति-- सत्यमिति। तत्र

अङ्गीकृतमनङ्गीकृञ्च विभज्य दर्शयति-- श्रुत्यादीति। श्रुत्यादिसिद्धेऽर्थे श्रुतहानायोगात् सर्वकर्तुर्भगवतस्तत्का

- लमात्र तत्तत्पुरुषमात्रानुभाव्यस्तुसृष्टिमङ्गीकृत्यात्यन्तव्याहतेष्वर्थेषु बाधादेव जागरवद् भ्रान्तिमङ्गीकृत्य सर्वं

निर्वहन्तश्श्रुतिसिद्धमर्थं न क्षिपाम इति।।

7. तर्हि स्वयमेकत्र वर्तमानस्य स्वप्ने देशान्तरगमनं पारमार्थिकं कथं स्यादित्याशङ्क्य नानाशरीरपरिग्रहवतो

योगिन इव विश्वकर्तुर्भगवतस्सङ्कल्यप्रभावात् सर्वं सङ्घटत इत्याह -- कश्चिदिति। अयमत्र शब्दान्वयः--

-कश्चिध्योगी योगप्रभावात् स्वपरगृहयोस्स्वैरसञ्चारन्यायेन पूर्वदेहान्निष्क्रान्तो विशति परवपुर्देहान्तरं प्राप्नोति। तेनैव तत्र सञ्चारादिकमपि करोति।पूर्वं शरीरमपि भूयस्समागत्य प्राप्नोतीति। तथा स्वप्ने पूर्वशरीरं

परित्यज्य भगवता सृष्टं शरीरान्तरं स्वप्नद्रष्टा प्रप्नोति स्वप्नान्ते पूर्वशरीरं पूनः प्रप्नोतीति केचित्प्रतिपेदिरे।

तदिदमाह -- इत्थमिति। पक्षान्तरमप्याह-- श्वासवृत्त्येति। अयं खल्वन्येषामभिप्रायः -- यदि स्वप्ने शयितः पुरुषः पूर्वशरीरं परित्यज्य शरीरान्तरं परिगृह्णाति, तदा पूर्वस्मिन् शरीरे श्वासवृत्तिर्न स्यात्। अतस्तस्मिन्नेव

शरीरे जीवोऽवतिष्ठते। भगवता सृष्टेषु तु स्वाप्नेषु शरीरान्तरेषु ' प्रदीपवदावेशः ' इति वक्ष्यमाणान्यायेन

धर्मभूतज्ञानव्याप्त्या सौभरिन्यायस्य सिद्धत्वात् धर्मभूतज्ञानव्याप्त्यैव शरीरान्तरपरिग्रह इति निरणैषुरिति।।

8. अत्र सङ्गतिर्भाष्ये ' एवं कर्मानुरुपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम्। इदानीमस्य स्वप्नवस्था परीक्ष्यते ' इति। तदर्थविचारस्तु -- ' न तत्र रथा न रथयोगा न पन्थानो भवन्ति '

इत्यारभ्य स्वप्नसृष्टिराम्नायते, सा किं पारमार्थिकी, उत मायामात्रमिति। किं 'सृजते स हि कर्ता ' इति निर्देशः

पारमार्थिकतामवगमयति नेति। किमयं निर्देशस्सृष्टिकर्तुः कर्तृत्वपरः, उत स्वप्नज्ञानवत्कर्तृत्वपर इति। किं

प्रजापतिवाक्यावगतसत्यसङ्कल्पत्वस्य जीवस्य स्वप्ने सङ्कल्पमात्रात् सृष्टिस्सम्भवति नेति। य एषु सुप्तेषु

जागर्ति कामंकामं पुरुषो निर्मिमाणः ' इति जीवस्य स्वप्ने सङ्कल्पमात्रात् रुाष्टृत्वमवगमयति नेति। किमिदं

वाक्यं जीवपरमुत परमात्मपरमिति।अस्मिन् खल्वधिकरणे स्वप्नसृष्टिर्जीवकार्यमुत परमात्मकार्यमिति चिन्त्यते।

अत्र पूर्वपक्षवादी मन्यते --उक्तमिति।उक्तं हि दहरवाक्यशेषभूते प्रजापतिवाक्ये प्रजानां पत्या सत्यसङ्कल्पता

ध्यं दहरवद् दहराकाशवज्जीवस्यापि।भविनीति सप्तमी। जीवे इत्यर्थः। तेन स्वसङ्कल्पात् सृष्टिस्स्वप्ने

जीवस्यैव समुचिता। किञ्चात्रपुत्रादीनां सृज्यत्वमुच्यते।पुत्रादिसम्बन्धो जीवस्यैव सङ्घटते रथादीनां जीवानुकूल

-वस्तूपलक्षणत्वात्। तेन पुत्रादिकतृत्वेन प्रकृतो जीवस्स्वाभीष्टं स्वाप्नमर्थः सृजेदित्यर्थः। इममर्थं प्रतिक्षिपति

--मैवमिति।तत्र हेतुमाह-- मुक्ताविति। ताद्दग्गुणोक्तेः --जीवस्यापहतपाप्मत्वदिगुणाष्टकाविर्भावस्योक्तेः स्वप्नावस्थायामन्धप्रयो जीवः कथमपहतपाप्मत्वादिगुणाष्टकं प्राप्नुयादित्यर्थः। हेत्वन्तरमप्याह --अनभिमतेति।

यदि जीवस्स्वयमेव स्वार्थं स्वप्ने सृजति तदानीं नियतमेवानुकूलं सृजेत्। सुप्तः खलु कदाचित्प्रतिकूलानपि

स्वप्ने पश्यति। तन्न युज्यते सत्यसङ्कल्पत्वे जीवस्य स्वप्रतिकूलं स्वयमेव कथं सृजेदिति। तृतीयमपि हेत्वन्तरमाह -- स्वाप्नानां सूचकत्वादिति। शुक्लानि सर्वाणि शुभावहानीत्येवं स्वप्नेऽपीश्वरसङ्कल्पेन स्वयमागतानि शुभाशुभसूचकानीति प्रतिपत्तव्यमित्यर्थः। तस्मादीश्वररुाष्टृत्वमेव स्वप्नप्रपञ्चस्य। तदिदमाह -

निखिलजगदिति।।

9. अत्र ' कामङ्कामं पुरुषो निर्मिमाणः ' इति विषयवाक्ये किं णमुल्यप्रत्ययेनाभिधानम् ? किं वा कामंकाममिति कर्मभूतविषयविशेषाभिधानम्? इत्याशङ्क्य भगवतस्सत्यसङ्कल्पस्य रुाष्टृत्वाभिधानार्थं णमुलेव

समुचित इत्याह - कामंकाममिति। जीवस्यासत्यसङ्कल्पस्य कर्तृत्वायोगात्। तथा च सतीश्वर एवानुध्यते।

अयंच परमात्मा सुप्तेषु पुरुषेषु जागर्ति। तेन तस्याश्चर्यरुपकार्यकरणे कर्तृत्वं युज्यत इत्यर्थः। तस्य जागरणञ्च श्रतिसिद्धमित्याह --विशदमिति। ' प्राज्ञेनात्मना सम्परिष्वक्तः ' इति हि श्रूयते। ननु जागिवत् स्वप्नस्यापि परमार्थसृष्टिरूपत्वे कथं तत्तत्कालावसायित्वम्? कथंवा तत्तदेकैकपुरुषमात्रानुभाव्यत्वं? इत्याशङ्क्य

निरङ्कुशस्वतन्त्रेश्वरसङ्कल्पविशेषादित्यभिप्रायेण परिहरति--तत्तदिति। न केवलं स्वप्न एव तत्तत्कालावसान

-कार्यसृष्टिः, अपितु जागरेऽपि मेघोदयादीनां ताद्दक्त्वेनोपलम्भो द्दश्यते। ननु तथप्येकपुरुषानुभाव्यत्वं न द्दश्यत

इति चेत् तदपीश्वरसङ्कल्पादिति मन्तव्यम्। द्दश्यन्ते हि मन्त्रौषधसिद्धाञ्जनादिप्रभावत् तत्तत्पुरुषमात्रानुभाव्या

विषयविशेषाः। अपर्यवियाज्यः खल्वीश्वरसृज्यत्वे हेत्वन्तरमप्याह --तत्तत्कर्मानुरूपं फलवितरणमिति। स्वप्नदर्शनं हि सुखदुःखात्मकत्वात्कर्मफलं कर्म चेश्वरसङ्कल्पविशेष इतीश्वरायत्तत्वमेव स्वाप्नस्यार्थजातस्य।

पापी हि पापानुरूपं स्वप्नं पश्यति धर्मोत्तरस्तु तदनुरूपमिति महानयं मार्गस्सर्वैरप्यनतिलङ्घनीयएव। एतदप्युक्तमाप्तैरिति -- अयमभिप्रायः।कस्यचित्क्वापि काले शुभप्रप्तिरितस्य पुनरशुभप्राप्तिरिति निमित्तसामुद्रिकतत्तद्ग्रहसञ्चारादिना विद्वद्भिरभिधीयते, प्रतिबन्धादिना यदि तन्न स्यात् तत्स्वप्नेऽपि न प्राप्यत

इति तैरेवाभिधीयते, अतोऽपि कर्मफलत्वं सिद्धं स्वाप्नस्य सुखदुःखादेरिति।।

10. अत्र ' मायामात्रन्तु कात्स्न् र्येन ' इति सूत्रे मायाशब्दप्रयोगमात्रमवलम्ब्य श्रुतिमुखसुगता वेदवादच्छद्मबौद्धा मृषावादिनो विश्वमिथ्यात्वमाहुः। तन्मतं दूषयति -- मायेति। तत् प्रपञ्चमिथ्यात्वं तैश्शारुाारम्भे कथितमिति पुनरत्राभिधाने पौनरुक्त्यमसङ्गतत्वञ्च। तेनेश्वरविचित्रसृष्टिस्स्वप्नप्रपञ्च इत्येतदेवात्रोच्यते नपुनर्विश्वमिथ्यात्वम्। मायाशब्दमात्रवलम्बनेनैव हि मृषावादिनामिदमभिधानम्, तदपि तेषामनालम्बनमित्याह -- मायाशब्द इति। न हि लोके मायाशब्दो मिथ्यावचन इत्याभिधानिकाः पठन्ति।

' माया तु वयनं ज्ञानम् ' इति हि नैघण्टुका ज्ञानविशेष एव मायाशब्दं प्रयुञ्जते। 'इन्द्रो मायाभिः पुरुरूप ईयते'

इत्यादावीश्वरस्सङ्कल्पविशेषैर्नानारूपोऽनुभूयत इति ह्रुच्यते। आह च पराशरः--

' अनेकशक्तिरूपाणि तत्करोति जनेश्वर।

देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया।।

जगतामुपकाराय न सा कर्मनिमित्तजा।। इति।

लीलेति स्वसङ्कल्प एवोच्यते। स च सङ्कल्पो ज्ञानञ्च माया, अतो न मायाशब्दो मिथ्यावाची, अपित्वाश्चर्यसृष्टिवाची, यद्वा तत्सृष्टिहेतुभूतशक्तिविशेषवाची, अथवा तत्तत्सृष्टिनिदाननिमित्तभूतसङ्कल्पविशेषवा

--ची। द्दश्यन्ते हि प्रयोगाः ' देवमायेव निर्मिता ' इति। मिथ्यात्वे हि कल्पितेति व्यपदिश्येत। अन्यदपि।

' तेनमायासहरुां तत् शम्बरस्याशुगामिना।

बालस्य रक्षता देहमैकैकश्येन सूदितम्।। इति।

अत्र हि सूदितमिति नाश्यत्वमेवोच्यते। नाशो हि परमार्थसतः प्रध्वंसः। अन्यथा बाध्यत्वमेवोच्येत। बाधो हि

प्रतिपन्नोपाधौ निषेध्यत्वमिति भृषावादिनो वदन्ति। 'मायां तु प्रकृतिं विध्यात्' इति मायाशब्दस्य मिथ्यार्थत्वव्यावृत्त्यर्थं हि प्रकृतिं विध्यादित्युच्यते। अत एव ' मायामृगो ह्मतः ' इत्यत्र मारीचस्य प्रध्वंस एव वण्र्यते। मेघनादमायादिष्वपि मन्त्रविशेषसाध्यपरमार्थसर्पाणामेव मायेति व्यवहारः। कथमन्यथा गरुडप्रभावविशेषैर्निराकरणायत्वं युज्यते? किञ्च सर्वलोकप्रसिद्धोऽयं व्यवहारः। सामभेददानदण्डमायेन्द्रजालोपेक्षा इति साप्तोपाया नीतिशास्त्रेषु निर्दिश्यन्ते। तत्र मायेन्द्रजालयोर्वैषम्यमुच्यते।

मन्त्रादिशक्तिविशेषात् परमार्थसर्पादिसृष्टिर्माया। तस्मादेव मन्त्रादिशक्तिविशेषादपरमार्थगजतुरगरथपादातादि

प्रदर्शनेन परकटकभञ्जनमिन्द्रजालफलमिति। एवमन्यत्राप्युदाहरणानि द्रष्टव्यानि। अथापि पुराणेषु पामरप्रयोगेषु

च मिथ्याविषयेऽपि मायाशब्दः प्रयुज्यत इत्याशङ्क्योत्तरमाह-- उपचरत्विति। न ह्रौपचारिकः प्रयोगश्शब्दस्य

शक्तिविशेषं नियमयतीत्यर्थः। तदिदमाह -- किं तत इति। प्रयोगप्राचुर्यमितिहासपुराणादिष्वपि प्राचुर्येण

सत्यभूतएवासुरराक्षसास्त्रादावेव द्दष्यत इत्याह -- सत्य इति। ' मेघोदयस्सागरसंनिवृत्तिः ' इत्युपक्रम्य

' विष्णोर्विचित्राः प्रभवन्ति मायाः ' इति पुराणेष्वपि पठ¬ते। तर्हि कृत्स्नस्यपि कार्यस्य मायाशब्दवाच्यत्वे किं

नियामकमित्याशङ्क्याह--उचितनियमन इति। अयमर्थः-- आश्चर्यरूपकार्यविशेषो मायेत्युच्यते इन्द्रजाले

मायाशब्दभिधानमाश्चर्यरूपत्वाविसेषादौपचारिकमिति मायेन्द्रजालयोर्विभागः। ' देवी ह्रेषा गुणमयी मम माया

दुरत्यया ' इति वचनं त्रिगुणस्यैव विचित्रप्रप्चसृष्टिहेतोमार्याशब्वाच्यत्वं व्यक्तमेव स्थापयति।।

3.2.2.

1. अत्र सङ्गतिर्भाष्ये ' इदानीं सुषुप्तिस्थानं परीक्ष्यते ' इति। पूर्वं स्वप्नो निरूपितः, इदानीं सुषुप्तिस्थानमित्यर्थः। तदर्थविचारस्तु-- किं नाडीपुरीतह्ब्राहृाणि जीवस्य विकल्पेन सुषुप्तिस्थानानि? उत

समुच्चयेनेति। किमेषां प्रसादखट्वापर्यङ्कवत् कार्यभेदोऽस्ति नेति। ' सत आगच्छामहे' इति ब्राहृणः प्रबोधश्रवणं

ब्राहृणः पर्यङ्कस्थानीयतामवगमयत् किं कार्यभेदमवगमयति नेति। अत्र पूर्वपक्षीमन्यते--स्थानं जन्तोरित्यादि।

जन्तोस्सुषुप्तौ श्रुतिरनियमतो नाड¬ः पुरीतत् ब्राहृेति च स्थानं वक्ति वदति। तस्मात् त्रयाणामपि स्थानानां

मिथो नैरपक्ष्यात् नाड¬ो वा पुरीतद्वा ब्राहृवेति विकल्प इति पूर्वपक्षः। उक्तमर्थं प्रतिक्षिपति--तन्नेति। प्रतिक्षिपमेव युक्त्या विवृणोति--प्रासादेति। अयमर्थः-- समुच्चये कार्यभेदाभावे हि विकल्पो न्याय्यः। अत्र पुनः

कार्यभेदेन समुच्चयेन योजितानां प्रासादखट्वापर्यङ्कन्यायेन नाडीपुरीतद्ब्रााहृणं विकल्पो न न्याय्य एव।स च

विकल्पोऽष्टदोषदुष्ट एव। तदेवाह--पक्षेपक्ष इति। ' व्रीहिभिर्यजेत ' ' यवैर्यजेत ' इति विकल्पेनानष्ठीयमानयो

व्रीहियवयोः प्रथमं व्रीह्रनुष्ठाने यवशास्त्रविषयौ द्वौ दोषौ स्तो यवशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति।

समनन्तरं कदाचिद्यवशास्त्रानुष्ठाने व्रीहिशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति द्वौ दोषौ स्तः। तस्मिन्नेव

यवानुष्ठानसमये यवशास्त्रे त्यक्तप्रामाण्यस्वीकारस्स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ भवतः। पुनः परिवृत्य

व्रीहिशास्त्रानुष्ठानरूपे तृतीये प्रयोगे व्रीहिशास्त्रे त्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ

स्त इति प्रयोगत्रयादष्टदोषदुष्टत्वं द्वयोरपि शास्त्रयोश्चत्वारश्चत्वारो दोषा इति प्रथमानुष्ठानवेलायां द्वौ दोषौ,

द्वितीयानुष्टानवेलायं चत्वारस्तृतीयानुष्ठानवेलायां पुनद्र्वौ दोषाविति बुद्ध्या विभज्य धीमद्भिर्भावनीयम्।

प्रकारान्तरेणाप्यष्टदोषदुष्टत्वमाहुर्विकल्पविषयमाचार्यः-- व्रीह्रनुष्ठाने यवशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति

चत्वारो दोषाः। एवं यवानुष्ठाने व्रीहिशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषा इत्यष्टदोषदुष्टत्वम्।

तेनायमर्थः--गत्यभावे विकल्पस्स्वीकार्यः सम्भवन्त्यां गतौ समुच्चय इति। अत्र तु प्रासादखट्वापर्यङ्कन्यायेन समुच्चयस्य सम्भवाद् विकल्पो न स्वीकार्यः। क्रमघटितचतुर्दोषयुक्त इति -- प्रयोगत्रयसुद्धमष्टदोषदुष्टत्वमनु

--वदति। तेन प्रयोगद्वायादिति बालकानां प्रतिभासो दुष्प्रतिभास इत्यर्थः।।

3.2.3.

1. सङ्गतिर्भाषेये ' किं सुषुप्त एव प्रबोधसमय उत्तिष्ठत्युतान्य इति संशये ' इति। तदर्थविचारस्तु-- किं

सुषुप्तादन्यः प्रबोधसमये उत्तिष्ठति, उत स एवेति। किं सुषुप्तौ सकलोपाधिविनिर्मोकोऽस्त्युत नेति। किं कर्मानुस्मृतिशब्दविधयस्सकलोपाधिविनिर्मोकाभावं गमयन्ति नेति। ननु सुषुप्तिर्नाम मुक्तिप्रायैव मुक्तिः किल

जहदरसुखगणा दुःखसङ्घातविरहिता ब्राहृण्यपीतिरेव प्रलय एव श्रुत्यैवख्याप्यते तेन तदनु सुषुप्त्यनन्तर

मुद्बुध्यमानस्तनुभृदन्य एवेति पूर्वपक्षानुवादः क्रियते-- मुक्तिरिति।इमं पक्षं प्रतिक्षिपति--मैवमिति। मुक्तेस्स्वापस्य विशेषं दर्शयति--कर्मानुवृत्तेरित्यादिना।पूर्वकर्मानुवृत्तेः कर्मफलस्य सुखदुःखादेर्दर्शनात् कर्मानुवृत्ति

द्र्दश्यते। अन्यत्वे कथमिव स्मरणं सम्भवति? शब्दोऽपि ' त इह व्याघ्रो वा' इत्यादिभाष्योपात्तः। विधिरपि--

--सुषुप्तस्यैव मुक्तत्वे मोक्षार्थविधयः कथं सङ्घटेरन्? अयत्नलभ्यस्य किं यत्नेनेति। स्वपदनुवदनादिति--'नाहं

खल्वयमेवम् ' इत्यादिना ' नाहमात्र भोग्यं पश्यामि' 'विनाशमेवपितो भवति ' इति सुषुप्तस्यानुवदनाच्च। प्राचीन

एव विनष्टप्रायः पुरुषः प्रबुद्धो भवतीति मन्तव्यम्।।

2. अत्र सुषुप्तस्यैव प्रबोधसमये पुनरुत्थानमिति किमर्थं स्थाप्यते विशेषप्रयोजनाभावदित्याशङ्क्यात्यन्तोपयुक्तं

प्रयोजनविशेषमाह-- जीवानादित्वमित्यादिना पद्येन। जीवानामनादित्वसिद्ध्यर्थमिदं सूत्रं चेत् तत्रोक्तमेव

' न कर्माविभागादिति चेन्नानादित्वात्'।इत्यादिना। मोक्षे द्दषदनुकरणक्षेपणं मूढत्वक्षेपणमनेन सूत्रेण क्रियते चेत्

तदप्युत्तरत्र करिष्यते। स्थायित्वोपपादनेन जीवानां स्वर्गाध्यर्थप्रवृत्तिः क्रियते चेत् सापि श्रुतिनयविदिता

कृत्स्नस्यापि मीमांसाशास्त्रस्य स्थायित्वमन्तरेणानुपपत्तेस्स्वर्गाध्यर्थप्रवृत्तिरपि श्रुत्या तदनुग्राहकन्यायेन च पूर्वमेव

विदिता। आत्मस्थैर्योपपादनेन क्षणभङ्गभङ्गश्चेत् सोऽपि सौगताधिकरणादिषु सिद्धः। जीवस्य सुषुप्तावीश्ववरैक

त्वनिराकरणार्थमिदमधिकरणं चेत् तस्य कल्पान्तेऽप्येकत्वमपि नामरूपादिप्रहाणमात्रान्न पुनस्स्वरूपैक्यादिति

तत्रतत्रोक्तम्। तेन साप्युक्तिर्नियमितविषया। अतो भूयश्चिन्ता सुषुप्तेः न कर्तव्येति कस्यचिद् बालप्रायस्य

चोध्यमनूदितं परिहरति-- प्रलयसमदशासज्जिहासादिसिद्ध्या इति। नैयायिकदुर्दुरूढाः केचित् पाषाणप्रायेमेव

मोक्षं वदन्ति। तर्हि ' नाहमत्र भोग्यं पश्यामि ' 'विनाशमेवापीतो भवति ' इति निन्दिता सुषुप्तिरपि मुक्तिस्स्यात्,

नेयं मुक्तिरिति मनीषिभिः प्रथ्र्यते। एवं पाषाणवन्मुक्तिरिति वैराग्यपादे तन्मुक्तिनिन्दया तज्जिहासाविशेषोऽपि

सिध्यति तदर्थमयं प्रसङ्ग इति न नैरर्थक्यमित्यर्थः।।

3.2.4.

1. जाग्रत्स्वप्नसुषुप्तिरूपावस्थाविशेषान् परिशोध्यानन्तरं मूच्र्छारूपा सुषुप्तितुल्यावस्था विचार्यत इति सङ्गतिः।

जाग्रत्स्वप्नयोः प्रज्ञायुक्तत्वात् सुषुप्तिमूच्र्छयोः प्रज्ञाविलोपरूपत्वात् तयोर्मिथस्सङ्गतिः। तदर्थविचारस्तु-- किं

मूच्र्छा जाग्रत्स्वप्नसुषुप्त्यादीनामन्यतमावस्था, उतावस्थान्तरमिति। किं लक्षणतो भेदो व्यवस्थापयितुं शक्यते नेति। किं सूक्ष्मप्राणसम्बन्धो मूच्र्छेति लक्षणं भवति नेति। अत्र पूर्वपक्षी प्राह जाग्रत्स्वप्नसुषुप्तिमरणभेदेन चत्वारो

ह्रवस्थाविशेषा लोके प्रसिद्धाः। तत्र जाग्रत्स्वप्नौ बाह्रज्ञानविरहितौ न भवतः सुषुप्तिश्च श्वासपूर्णत्वान्न

मूच्र्छा मरणमेव प्रशमितकरणप्राणवर्गत्वादिति। तदिदमनुवदति--जाग्रदिति। तत्प्रतिक्षिपति--नेति। मूच्र्छामरणयोर्भेदे कारणभेदमेव तावत् प्रामाण्यति--मृत्यादेरिति। अभिघातादिमात्रान्मूच्र्छा शिरश्छेदादेर्मरणमिति

मूच्र्छामरणकारणयोर्भेदादित्येको हेतुः। हेत्वन्तरमाप्याह--स्थितीति। मूÐच्छते पर्यन्तस्थिताः स्थितो वा मृतो वेति

विशेरते। स च संशयो मूच्र्छामरणयोर्वैषम्यमावेदयति। तृतीयमपि हेतुमाह--उत्थितेरिति। मूÐच्छतेष्वेव कश्चिन्मन्त्रौषधादिविभावात् पुनरुत्तिष्ठते। मृतस्तु गच्छत्यमेव एवमुत्थानस्यानियतत्वादित्यर्थः। तर्हि मूच्र्छेति

कोऽयमवस्थाविशेष इत्याशङ्क्याह-- मर्तुमिति। मर्तुं प्रक्रम्य विधिना मध्ये विमतीति मरणस्यार्थसम्पत्तिरूपावस्थाविशेषो मूच्र्छेतिपरिकल्पनीयमिति। अर्धमरणं मूच्र्छेत्यर्थः।।

2. अत्राष्टानामप्यधिकरणानामन्योन्यार्थभेदोपपादनात् पेटिकाभेदमुत्तरपेटिकायामवान्तरपेटिकाभेदञ्चाह--

जन्तूनामिति। एवं चतुर्भिरधिकरणैर्जन्तूनां जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु यद्वैशसं तद्दर्शितम्। अतः परंतु

सर्वस्थानयोगेऽपि स्वयमनघशुभगुणं ब्राहृ संशोध्यत इति पेटिकाविभागः। उत्तरपेटिकायामपि पूर्वभागस्योत्तर

भागस्य चार्थभेदेन वैषम्यमाह-- संसर्गेत्यादिना। उभाभ्यामधिकरणाभ्यां दोषवत्ससर्गमूलांस्तत्तादाम्याभिधानमूलां

श्च दोषान् परिहरति। अथोत्तराधिकरणद्वयार्थमाह --हीनत्वेति। सर्वस्मात्परत्वाभावे निरतिशयौदार्याभावे

चोपास्यत्वासम्भवात् सर्वस्मात्परत्वहानिं निरतिशयौदार्यरहितत्वं चोत्तराभ्यामधिकरणाभ्यां निराकरोतीति मिथो

विभागः।।

3.2.5.

1. पूर्वाधिकरणे संसरन्तं मरणावस्थाधीनं जीवं वैराग्यातिशयसिद्धयर्थमुक्त्वा प्राप्यतृष्णाविशेषसिद्ध्यर्थं भगवत

उभयलिङ्गत्वमुच्यत इति सङ्गतिः। तदिदं व्यक्तमेव दर्शयति--नैर्गुण्यमिति। अत्र मृषावादिनां पक्षनूद्य

विशेषतस्तत्प्रतिक्षेपपार्थमेवेदमधिकरणं प्रवृत्तम्। ते खल्वेवमाहुः-' निर्गुणं निरञ्जनम् ' इति ब्राहृणो नैर्गुण्यमेव

प्रामाणिकम्। तर्हि ' सत्यकामसत्यसङ्कल्पः ' इत्यादि गुणवचनस्य का गतिरत्याशङ्क्याह-- गुणवचनमिति।

अविद्यापरिकल्पितधर्मार्थवादमात्रमेव गुणवचनं प्रलोभनार्थमित्यर्थः। तर्हि गुणाभावे किं ब्राहृणो दोषवत्तवमेव

स्वाभाविकमिति भवतोच्यत इत्याशङ्क्याह-- नैर्दोष्यमिति। अयमर्थः-- ब्राहृणि नैर्गुण्यं नैर्दोष्यं चोभयमपि

स्वाभाविकमिति। तदिदमाह-- वस्तुवत्त्येति। तर्हि श्रुतिपुराणादिसिद्धं ब्राहृगुणविग्रहादिकं संसारसम्बन्धश्च

सर्वलोकप्रसिद्धः किं भवेदित्याशङ्क्याह--तदितरदिति। उक्तमेतदेकदेशमात्रमस्माभिः। इत्थमेवं

जीवेश्वरैश्वर्यापहरणप्रवृत्तकुहनावादमोमुह्रमानान् निराकर्तुं ' न स्थानतोपि ' इत्यधिकरणमारभ्यते। अनेकश्रृङ्गम्--बहुप्रकारमित्यर्थः।।

2. ' दोषदर्शनात् ' इत्यादिना भाष्ये सङ्गतिव्र्यक्ता। प्रदर्शिता चास्माभिः पूर्वमेव। तदर्थ विचारस्तु-- सुषुप्त्युत्

क्रान्त्यादिस्थानेषु स्थितस्य जीवस्य ये भवन्त्यपुरुषार्थाः, ते तदन्तर्यामिणस्तच्छरीरस्यापि प्रसज्यन्ते नेति। किं

जीवस्यापुरुशार्थसम्बन्धश्शरीरसम्बन्धनिबन्धनः, उत कर्मसम्बन्धनिबन्धन इति। किं सशरीरस्यापि ब्राहृण

उभयलिङ्गत्वं श्रुतिप्रतिपन्नं कर्मसम्बन्धस्यैवापुरुषार्थत्वहेतुतामवगमयति नेति। किं श्रुतिप्रतिपन्नमुभयलिङ्गं

तात्त्विकम्? उतातात्त्विकम्? इति। किं ' अथात आदेशो नेतिनेति ' इति प्रकृतः सर्वविशेषनिषेधः ? उत

प्रकृतैतावत्त्वनिषेधः ? इति। किं सर्वविशेषनिषेधे वाक्योपक्रमोपसंहारसामञ्जस्यम् ? उत प्रकृतैतावत्त्वनिषेधे ?

इति। अत्र पूर्वपक्षाभिप्रायं विशेषतः प्रदश्र्य सिद्धान्ताभिप्रायेण निराकरणमपि दर्शयति--हेयमिति। इत्थं किल

पूर्वपक्षी मस्यते- पूयशोणिताद्मज्जनं हि यथा राजकिङ्करस्य हेयं तथा राज्ञोऽपि हेयमेव अन्यथा तस्य हेयत्वमेव न स्यात्। तथा चेश्वरस्यापि जीववत् देहावस्थानं दुःखकारणमेव स्यात्। ननु जीवः कर्मपरतन्त्रो देहे

वर्तते, ईश्वरः स्वेच्छयैव, अतो न दोष इत्याशङ्क्यपरिहरति -- स्वेच्छयेति। स्वेच्छयापि पूयशोणितादिमज्जनं

दुःखकारणमेव द्दश्यते। अपयर्नुयोज्यत्वाद् वस्तुस्वभावानामिति। उक्तमर्थं प्रतिक्षिपति-- नेति। तत्र हेतुमाह

निरुपधेरिति। अयमर्थः-- लोके हि त्याज्योपादेयभाव उपाधिभेदेनान्यथाक्रियते। यथा प्रातरनुकूलमौष्ण्यं मध्याह्ने प्रतिकूलमेव। शैत्यं च मध्याह्नेऽनुकूलं प्रातः प्रतिकूलमेव,एवं पुरुषभेदेनापि द्दश्यते। पशूनामनुकूलं

तृणादिकं मनुष्याणां प्रतिकूलम्। एवमवस्थाभेदेनापि क्षुधितस्यानुकूलमन्नं मृष्टमेव भुक्तवतः प्रतिकूलमेव। तदिदमुक्तं भगवता पराशरेण

' तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते।

तदेव कोपाय यतः प्रसादाय च जायते।।

तस्माद् दुःकात्मकं नास्ति नच किञ्चित् सुखात्मकम्।। ' इति।

प्रतिपत्तृभेदेनापि सुखदुःखविभागो द्दश्यते। एकस्मिन्नेव बालके तव पुत्रोऽयमित्युक्ते सुखम्, शत्रुपुत्र इत्युक्ते दुःखम्। एवं तत्तदुपाधिभेदात् सुखदुःखविपरिणामस्सर्वलोकसाक्षिकः सुप्रसिद्धः एवं पुण्यपापात्मकर्मोपाधिवशज्जीवानां सुखदुःखविभागो नापह्नोतुं शक्यते। यथा लोके वातपित्तश्लेष्मवतामनुकूल

प्रतिकूलात्मकवस्तुवैषम्यमायुर्वेदादिषु पठ¬ते तथैवोपलम्यते च। तस्मान्नेश्वरस्य शरीरेष्ववस्थानात् कर्मसम्बन्ध

कथनं तत्प्रयुक्तसुखदुःखसम्बन्धकथनं वा योयुज्यते। नन्वीश्वरस्यापि शरीरसम्बन्धादेव कर्मसम्बन्धोऽपि स्यादित्याशङ्क्य परिहरति --नित्येति। अत्रायं विकल्पः-- किमीश्वरशब्देन सर्वस्वामी विश्वजगन्नियन्तोच्यते किं

वा राजादिमात्रम्। उत्तरत्र चेत् सिद्धसाधनमेव राजादीनामपि सुखदुःखानुभवस्य विभाव्यमानत्वात्। पूर्वत्र

नेश्वरत्वमेव सिध्यति सुखदुःखादिकमनुभवति, ईश्वरश्चेति व्याघातात्। कर्मफलं हि सुखदुःखानुभवः। कर्म

चेश्वराज्ञापरिपालनदुल्लङ्घनजनितो गुणविशेष एव। अथवाऽध्यात्मशास्त्रमर्यादया शासितुरीश्वरस्य निग्रहानुग्रह

सङ्कल्पः। तेनेश्वरस्य कथं सुखदुःखानुभवप्रसङ्गः ? यदि वदसि मोहादीश्वरस्यापि कश्चन प्रशास्ता अस्तीति तथा ' न तत्समश्चाभ्यधिकश्च द्दश्यते ' इत्यादिश्रुतिरेव भवतः कपोलताडनं करोतु। ताडितोऽपि यदि

प्रलपसि बहिष्कुर्वन्तु भवन्तं ब्राहृवादिनः। तस्मादीश्वरस्याज्ञापकेश्वरान्तराभान्न शास्त्रवश्यत्वम्। शास्त्रवश्यत्वा--

-भावान्न कर्मानुबन्धः। कर्मसम्बन्धाभावाच्च न शरीरसम्बन्धप्रयुक्तसुखदुःखानुभवप्रसङ्ग इति मानामानविवेककोविदानां महानुभावानां मार्गः। अयमर्थः श्रुत्यैव व्यक्तमेव विभज्य दर्शित इत्याह-- श्रुत्यैवेति।

' द्वा सुपर्णा ' इति हि श्रुतिरेकस्मिन्देहे वर्तमानयोर्जीवपरमात्मनोरेकस्य कर्मफलोपभोगमितरस्य कर्मफलभोगा--

-भावेननिरतिशयदीप्तियोगञ्चाह। ' द्वा सुपर्णा ' इत्यत्र जीवपरमात्मानावेव विभज्योक्ताविति प्रागेव प्रसाधितम्।

पैङ्गिश्रुतिविरोधाभावोऽपि तत्रैव विशदं प्रकाशित इत्युपरम्यतेऽस्माभिः।।

3. अत्र कश्चिदुक्तमर्थतत्त्वमान्ध्यादतिगर्वाच्चाजानन् पुनश्चोदयति। ' तथहि कणभक्षादिपक्षे ईश्वरस्य धर्माधर्मयोः प्रेरकत्वेन शरीरान्तरवस्थाऽपि शरीरित्वाभावान्न ब्रााहृणादिशब्दवाच्यत्वम्। तेन ' ब्रााहृणो यजेत '

' क्षत्रियो यजेत ' इत्यादिवाक्येषु विधिगोचरत्वप्रसङ्ग एव नास्ति। युष्माकं सिद्धान्ते पुनब्र्राहृक्षत्रादिशब्दानां

प्राधान्येनेश्वरवाचकत्वादीश्वर एव विधिगोचरतामश्नुते। कुर्यान्नकुर्यादिति नियाम्यत्वादीश्वरत्वमेव भज्यते ' इति।

तदिदमनुवदति- ब्राहृक्षत्रादीति। अयमत्र शब्दार्थः-- ब्राहृक्षत्रादिदेहेष्वणु र्जीव इव विभुरीश्वरोऽप्यात्मभावेन

शरीरप्रेरकत्वेन तिष्ठन् तत्तच्छब्दाभिलप्यो भवदनुमत्या ब्रााहृणादिशब्दवाच्य एव भवति। तेन स ईश्वरो

ब्रााहृणत्वाद्युपाधिविशिष्टस्तत्तद्विधिवश्यः कथं न भवति ?--ईश्वरत्वान्न भवतीति चेत् नहि साक्षात् श्रुतिप्रतिपन्नेऽर्थे

नास्तिकत्वमङ्गीकर्तव्यम्। तस्माद् विधिनिषेधशास्त्रगोचरस्येश्वरस्य सर्वदोषाकरत्वमिति। तमिममन्धप्रलापं

निराकरोति--मैवमिति। तदेव विवृणोति-न ज्ञाप्यत इत्यादिना। अयमत्र विकल्पः- किमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं

वा विधिरिति भवतोच्यते ? न तावदज्ञातज्ञापनमीश्वरस्य सम्भवतीति तदाह--न ज्ञाप्यतेऽसाविति। तत्र हेतुमाह-

अविदितविरहादिति। सर्वज्ञत्वादित्यर्थः। न हि दिवाकस्य दीपेन कश्चिदुपकारः क्रियते। अप्रवृत्तप्रवर्तनमपि न

सम्भवति। उक्तार्थस्य द्रढिम्ने लोकद्दष्ट¬ा व्यतिरेकद्दष्टान्तमाह-- किञ्चिज्ज्ञ इति। लोके हि राज्ञा भृत्यादयः

किञ्चिज्ज्ञत्वात् कर्तव्येषु बोध्यन्ते परतन्त्रत्वात् प्रेर्यन्ते चेति सर्वलोकद्दष्टं नापह्नोतव्यम्। तस्मात् सर्वज्ञ ईश्वरो

बोध्यः प्रेर्यश्च स्यादिति वचनं न बुद्धिमतां वादः अपितु बुद्धिहीनानामित्युपहसन्ति सन्तः। यत् श्रुतिप्रतिपन्नत्वाद्

ब्रााहृणादिशब्दवाच्यस्येश्वरस्यापि प्रशास्यत्वमिति, तदपि हास्यम्--श्रुतिर्हि योग्यमेवार्थं वदति। न त्वत्यन्तायोग्यं

श्रुत्यन्तरविरूद्धञ्चेति स्वयमेव भावयतु भवानपीति।।

4. अस्मिन्नुभयलिङ्गाधिकरणे ह्रखिलहेयप्रत्यनीकत्वं कल्याणैकतानत्वञ्चोभयलिङ्गत्वेनोच्यते। एतच्च

त्रिभिन्र्यायैर्निरूपितैरुपपाद्यम्। ' न हिंस्यात् सर्वा भूतानि ' ' अग्नीषोमीयं पशुमालभेत ' इत्यत्रोत्सर्गापवादन्यायो

विहितव्यतिरिक्तविषयत्वान्निषेधशास्त्रस्येति। ' प्रजापतिर्वरुणायाश्वमनयत् ' इत्यादावुपक्रमाधिकरणन्यायः,

उपसंहारदुपक्रमो बलीयान् उपक्रमस्यासञ्जातविरोदित्वादुपसंहारस्य सञ्जातविरोधित्वादिति। 'यद्युद्गातापच्छद्येत ' इत्यादावनियतपौर्वापर्यविरोधे पुनरपच्छेदाधिकरणन्यायः। ' पूर्वाबाधेन नोत्पत्तिरत्तरस्य हि

सिद्धयति ' इति पूर्वं बाधितवैवोत्तरस्योत्पत्तेः। अत्र मृषावादिनः प्राहुः--सगुणवाक्यानि तावत् प्रवर्तन्ते तानि तु

पूर्वाण्येव विधिरूपार्थप्रतिपादकत्वात्। निर्गुणवाक्यानि तु पराणि निषेधरूपार्थप्रतिपादकत्वात्। लोके हि विधिपूर्वको निषेध इति सुप्रसिद्धमेतत्। तेन विधायकस्य प्रत्यक्षप्रमाणस्य च पूर्वभावित्वाद् बाध्यत्वम्। निषेधकानां

' निर्गुणं निरञ्जनम् ' 'नेह नानास्ति किञ्चन ' इत्यादीनां वाक्यानां परत्वादि बाधकत्वम्। एवमनुमानस्यापि।

तथा कर्मशास्त्राणामपि। यानि तु वाक्यानि वेदान्तेऽपि सगुणोपासनपराणि तान्यपि कर्मशास्त्रतुल्यत्वादित्थमेव

बाध्यानि। यानि पुनः सगुणब्राहृस्वरूपपराणीति कानिचिद्वाक्यानि सगुणवादिभिरभिधीयन्ते तान्यपि विधिविषयत्वात्

पूर्वभावित्वाद् बाध्यानि। निर्गुणवाक्यानि तु निषेधविषयत्वाच्चरमभावित्वेन बाधकत्वाच्च प्रमाणत्वेनावतिष्ठन्ते। यथा अपच्छेदाधिकरणे उद्गातृप्रतिहत्र्रपच्छेतयोरवक्रमेण जातयोर्निमित्तयोः परस्परविरुद्धप्रायश्चित्तद्वयप्रसङ्गे

पूर्वापच्छेदनिमित्तप्रायश्चित्तं बाधित्वोत्तरापच्छेतनिमित्तप्रायश्चित्तमेवानुष्ठीयति। तेनात्रापि विधिवाक्यविषयगुणं

बाधित्वा निर्गुणवाक्यविषयभूतनैर्गुण्यमेव प्रामाणिकैरङ्गीकर्तव्यमिति। तदिदमितरन्यायद्वयनिरूपणेन प्रतिक्षिपति--

-उत्सर्गेणेति। ' न हिंस्यात् सर्वा भूतानि ' इत्युत्सर्गः। ' अग्नीषोमीयं पशुमालभेत ' इत्यपवादः। तत्र अपवातेनोत्सर्ग एव क्षोम्यते न पुनरुत्सर्गेणापवाद इति तान्त्रिकप्रक्रिया। तेन ' निर्गुणं निरञ्जनम् ' इत्युत्सर्गः।

'सत्यकामस्सत्यसङ्कल्पः ' इत्यपवादः। एकस्य सामान्यविषयत्वादितरस्य च विशेषविषयत्वात्। तेन सगुणवाक्येनैव निर्गुणवाक्यं हेयगुणविषयतया सङ्कोचनीयमिवि नीतिविदां निर्णयः। तदिदमाह--तस्मादिति।

' निर्गुणं निरञ्जनम् ' इति ब्रााहृे गुणादौ निषेधः 'सत्यकामस्सत्यसङ्कल्पः ' इत्यादिविधिविषयमतिक्रम्य

तिष्ठेत्। एवमुत्सर्गापवादन्यायेन सगुणनिर्गुणवाक्ययोर्विषयभेदेन विरोधशान्तिमुक्त्वा विरोधे शान्ते ससि

अपच्छेदाधिकारणन्यायापेक्षैव नास्तीत्याह--नहि समविषयेति। तुल्यविषयत्वे सत्येव ह्रपच्छेदाधिकरणन्यायः

प्रवर्तते। अपच्छेदयोः अपच्छेदत्वेन तुल्यत्वात्। अत्र पुनन्र्यायान्तरसिद्धेन विषयभेदेन विरोध उपशान्तः। तेन

तदुपशमनहेतुरपच्छेदाधिकरणन्यायो नैरर्थक्यादनपेक्षणीय एव । विषदष्टस्य मणिमन्त्रादिष्वन्यतमेन विषदोषपरिहारे किमितरेण प्रतिविधानाभासेन? अत्रापच्छेचदाधिकरणन्यायप्रसङ्गस्याभासत्वमेव प्रदर्शयति--द्दष्ट

इति। अयमर्थः-- अनियतपौर्वापर्यविषये ह्रपच्छेदाधिकरणन्यायप्रसङ्गः, यथा कदाचिदुद्गता पूर्वमपच्छिद्यते

कदाचित् प्रतिहर्ता, तेन तत्रोत्तरप्राबल्यम्। इह तु नियतपौर्वापर्यमेव विधिः पूर्वो निषेधः पर इति। उपक्रमाधिकरणे हि दातृंप्रतिग्रहीत्रोः कस्याश्वप्रतिग्रहेष्टिरिति चिन्तायामुपक्रमवाक्यानुसारेण दातुरित्येव निर्णीतम्। तेनात्रापि पूर्वप्राबल्यात् सगुणवाक्यानामेव प्राबल्यम्, न पुनर्निर्गुणवाक्यानामिति निर्णेतव्यम्। अत्र वक्तव्यशेषमशेषमपि तत्त्वमुक्ताकलापव्याख्याने तत्त्वटीकादौ च द्रष्टव्यम्। भाष्ये च प्रथमसूत्र एव ' उत्तरप्राबल्यकथनं माध्यमिकविजयप्रलङ्गेनापहसितम् ' इति। तदेवात्र

विस्तरेणानुसन्धेयमवहितकरणैरन्तेवासिभिः। किञ्चपजीव्यविरोधमालपन्ति न्यायविदः। यथाहुः---

' पूर्वात्परबलीयत्वं तत्र नाम प्रतीयते।

अन्योऽन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्।। ' इति।

तेन स्वरूपे स्वप्रामाण्ये च भेदप्रतीतिसापेक्षाणां भेदनिषेधशास्त्राणां प्राबल्यकथनमश्रुतमीमांसानां श्रुतिविस्मृतमीमांसानां वा कथनम्। नहीदं पूर्वमिदं परमिति भेदप्रतीतिमन्तरेणापच्छेदाधिकरणेऽपि प्राबल्यदौर्बल्यनिर्णयः। न च तत्प्रतीतिमन्तरेण प्रामाण्यनिर्णय इत्युपरम्यते।।

5. ' तर्हि श्रुतिमेवाश्रयामः। साहि प्रपञ्चमिथ्यात्वमेव सर्वत्र वदति। तत् तत्त्वमेव। नखलु माता विषं ददाति।

तेन ' असदेवेदमग्न आसीत् ' इत्यादिश्रुतिसिद्धत्वात् प्रपञ्चमिथ्यात्मेव तत्त्वम् ' इति केचित् प्रलयन्ति। तदेतत्

श्रुतिपर्यालोचनयैव प्रतिक्षिपति--सत्त्वं कार्यस्येति। अयमर्थः- 'कथमसतस्सज्जायेत ' इति वाक्यं हि कार्यस्य सत्त्वमङ्गीकृत्य कारणासत्त्वमेव प्रतिक्षिपति। तेन कार्यमपि सत् कारणमपि सदित्युक्तं भवति। तेन 'तद्धैक आहुः ' इत्येकशब्दप्रयोगात् असत्त्वस्य परपक्षत्वमेव प्रतीयते। शब्दान्वयस्तु-- कथमसतस्सद्भवोदित्यधीतिः

कार्यकारणयोद्र्वयोरपि सत्त्वमवगमयतीति। ननु मा भूदिदं वाक्यं ' यथा सोम्य' इति वाक्यमस्माकमवलम्बनं

स्यादित्याशङ्क्य परिहरति-- द्रव्यान्यत्वमिति। तदपि वाक्यं कारयकारणयोद्र्रव्यान्यत्वमात्रमेव प्रतिक्षिपति। नपुनः प्रपञ्चमिथ्यात्वं प्रतिपादयतीत्यर्थः। तर्हि नेह नानास्ति किञ्चन ' इति वचचचनमस्माकमवलम्बनमिति च

भवद्भिर्न वक्तव्यमित्याह-- अन्तर्भावादिति। विशिष्टे भगवति विशेषणानां अन्तर्भावात् ' नेह नाना ' इति

वाक्यमप्यब्राहृात्मकनानात्वमेव प्रतिक्षिपति। तर्हि साक्षात् 'नेति नेति'इति प्रपञ्चनिषेधकं वाक्यमस्माकं कुलधनमिति चेत् तदपि स्वप्नलब्धसुवर्णमित्याह --निर्दिष्टेति। पूर्वं ब्राहृणः कानिचिद् विशेषणान्युक्त्वा

निर्दिष्टेयत्त्वमेव ब्राहृण इति मन्दस्य शङ्कां नेति नेतीतिवादो व्यपनयति। इति न, इति न, इति प्रागुक्तप्रकारविशेषमात्रं निषिध्यते, नपुनर्वक्ष्यमाणं गुणजातमपि। अत एव सूत्रकारः प्राह ' प्रकृतैतावत्त्वं हि प्रतिषेधति ततोब्रावीति च भूयः ' इति। एवं सर्वासामपि श्रुतीनां विषयभेदेन प्रामाण्यसिद्धस्सगुणब्रााहृवादिनामेव

वेदान्तार्थनिर्णयसाद्गुण्यमिति निर्गुणवादो निर्गुणानामेव स्वेच्छालापः।।

6. ' ननु सन्त्वेतानि समाधानानि, अथाप्यसाधेयमिदमेकं द्दश्यते। सर्वत्रावस्थितस्य भगवतो ' जलाधारेष्विवांशुमान् ' इति द्दष्टान्त उपादीयते। तन्मिथ्यात्वमेव प्रतिपादयति ' इति कश्चिनमनुते, तस्याप्युत्तरमाह--तत्तद्दूस्विति। तात्पर्ये हि शब्दः प्रमाणम्। नात्र जीवानां मिथ्यात्वं विवक्ष्यते प्रमाणविरुद्धत्वात्।

अपितु ब्राहृणस्सर्वत्रावस्थितस्यापि विशेषमभूततत्तद्वस्तुगत वृद्धिह्नासभाक्त्वमेव केवलं निषिध्यते। यथा तरङ्गेषु

प्रतीयमानस्य चन्द्रबिम्बस्य तरङ्गतवृद्धिह्नासादिभाक्त्वं न परमार्थतो विद्यते। एवं सर्वान्तर्यामित्वेनावस्थितस्य

परस्य ब्राहृणस्तत्तद्वस्तुप्रयुक्तभेदोषसम्बन्धो नास्तीति। अयमत्र विद्यमानस्यापि ब्राहृणः प्रभावविशेषादौपाधिकदोषप्रसङ्गाभाव इति द्दष्टान्तप्रदर्शनमात्रमेतदिति। अयमत्रान्वयः--तत्तद्वस्तुप्रदेशे

सकलगुणतया परिपूर्णं द्दश्यः परमात्मा वृद्धिहासादिभेदविधुर इति हि ' जलाधारेष्विवांशुमान् ' इत्युच्यते।

तात्पर्यानुगुणमेवार्थस्योपवर्णनीयत्वात् किमर्थमियं क्लिष्टकल्पना ? असंसर्गार्थमेवात्र निदर्शनमुच्यत इत्याशङ्कते-- अस्पर्शोदाह्मतिश्चेदिति। सर्वैरस्पृष्टमेवात्र ब्राहृोच्यत इत्यर्थः। तत्रोत्तरमाह- न हीति। न ह्रेक

एव द्दष्टान्तो महर्षिभिरुच्यते। क्वचिद् ' जलाधारेष्विवांशुमान् ' इति, इतरत्र ' आकाशमेकं हि यथा घटादिषु

पृथग्भवेत् ' इति क्वचिदविद्यमानं प्रतिबिम्बमुदाह्नियतेऽपरत्र विद्यमानमेवाकाशम्। तेनोभयद्दष्टान्तसामाञ्जस्यार्थ

मुचित एवार्थ उदाहर्तव्यः। न पुनस्तद्गतदोषैरस्पृष्टत्वमेव। अन्यथैकोपादाने इतरप्रच्यवनादुभयमपि न सिध्येत्।

एवं विस्तरेणार्थतत्त्वमुपपाद्योभयलिङ्गत्वं निगमयति--तस्मादिति। द्विलिङ्गम्--अखिलहेयप्रत्यनीककल्याणैकतानत्वादुभयगुणयुक्तम्। द्विविधविभवम्-उभयविभूतिविशिष्टम्। 'पुरुष

एवेदं सर्वम् ' इत्यादिप्रमाणप्रसिद्धविभूतिद्वयविशिष्टमित्यर्थः। विवृतं हि भगवता पराशरेण ' समस्तकल्याणगुणात्मकोऽसौ इत्यादिना। वेदान्तपक्ष इति कथनं मृषावादिपक्षस्य बौद्धपक्षनिक्षेपार्थम्।।

3.2.6.

1. सङ्गतिर्भाष्ये ' तस्याचिद्वस्तुनो ब्राहृरूपत्वप्रकार इदानीं चिन्त्यते ब्राहृणो निर्दोषत्वसिद्धयर्थम् ' इति।

अयमर्थः-- पूर्वाधिकरणे ब्राहृणो निर्दोषत्वं प्रतिज्ञातम्। तस्य निर्दोषत्वस्य प्रतिष्ठापनार्थमचिद्वस्तुनो

ब्राहृरूपत्वमहिकुण्डलन्यायेनोत प्रभाप्रभावन्न्यायेन, अथवा विशेषणविशेष्यभावेनेति चिन्त्यत इति पूर्वाधिकरणेन

सङ्गतिरिति। तदर्थविचारस्तु- किमचिद्वस्तुनो ब्राहृरूपत्वमहिकुणडलन्यायेन ? उत प्रभाप्रभावद्रूपेण ? उत

विशेषणविशेष्यबानेनांशांशित्वेन इति। किं ' स वा एष महानज आत्माजरो ऽमरः ' इत्याद्यचिद्धर्मप्रतिषेधो विशेषणविशेष्यभावेन ब्राहृरूपत्वं प्रपञ्चस्यावगमयति नेति। अत्र पूर्वपक्षमाह-विश्वरुाष्टुरिति। विश्वरुाष्टुः परमपुरुषस्य स्वांशतोऽचिद्वर्गप्रजनने स्वदुःखकारणत्वं नास्त्येव। अचितो दुःखाभावात्। अंशतश्चाचित्त्वक्लृप्तौ

मृत्तत्कार्यादिकञ्च बहूदाह्मतं द्दष्टान्तजातं सुप्रतिज्ञं स्वरसमेव भवति। अतो ब्राहृैवाव्याकृतादिसृÏष्ट विहारवशाद् विक्रियामपि करोति। ततो विकाररूपाप्यचित्सृष्टर्युज्यत एवेत्यर्थः। तदिदं प्रतिक्षिपति--नेति। तदेव

विवृणोति--स्वांश इति। अयमर्थः-- द्विविधो ह्रनर्थः। दुःखप्रजननमित्येकः। निरतिशयसुखानुभवयोग्ये वस्तुनि

मौढ¬ापादनमित्यपरः। अचिद्वस्तुनश्चिद्विलक्षणत्वेन दुःखजननाभावेऽपि निरतिशयज्ञानानन्दात्मनि वस्तुन्यंशे

अचिद्रूपतया मौढ¬ापादनमपि स्वानर्थापादनमेव। तस्मादचिद्रूपस्वांशसृष्टिर्न घटत एव।।

2. उक्तपक्षेण सह पक्षान्तराण्यप्यनूद्य निराकरोति--कश्चिदिति। पूर्वं ब्राहृ स्वयमेव स्वस्मिन्नचित्त्वमापादयतीत्याशङ्क्य दूषितम्। अधुना पूर्वोक्तदोषपरिहारार्थं केचिदनादिसिद्धो नित्य एव

कश्चिदाचिदंशो विविधविकृतिमान् वर्तत इत्याहुः। तत्रापि विरोधस्तदवस्थः-- सर्वज्ञस्य ब्राहृणो नित्यमेव

ताद्दशमौढ¬संवलितरूपकल्पनस्यात्यन्तदौस्स्थ्यात्। पक्षान्तरमनुवदति-- फेनादीति। सन्मात्रे ब्राहृणि सागरे

फेनतरङ्गबुह्बुदन्यायेन चिदचिदीश्वरात्मकं तत्त्वत्रयं विकृतिवशाज्जायत इत्यन्ये प्राहुः। तदपि ताद्दशमेव ;

निर्विकारे विकारकल्पनात् स्वानर्थकरणदोषस्य तादवस्थ्याच्च। कतिचित्पुनश्चन्द्रचन्द्रिकान्यायेन

जगह्ब्राहृणोरैकजात्यमेव ब्राुवते। तद् जगह्ब्राहृणोरैक्यप्रतिपादकवेदान्तवाक्यानामननुकूलत्वादनादरणीयमेव।

वस्तुत्वमात्रेण साजात्यञ्चेत् सर्वलोकप्रसिद्धत्वान्न वेदान्तवेद्यम्। आत्मतया साजात्यंचेत् अचिद्वस्तुनि नास्त्येव।

ईश्वरत्वेन साजात्यञ्चेत् तत्त्वत्रयपरिक्लृप्तिपराहतम्। " भोक्ता भोग्यं प्रेरितारम् " इति श्रुतिविरुद्धञ्च। अतो

विशेषणविशेष्यभावेनैकात्म्यमिति वेदान्ततत्त्ववेदिनां निर्णयः। तेन सर्वे वादिनः सर्ववेदान्तवाक्यस्वास्यविरोधादत्र

वित्रासनीया इति शब्दान्वयः।।

3.2.7.

1. भाष्य एव पूर्वाधिकरणनिगमनवाक्यान्वितेनोत्तराधिकरणोपक्रमवाक्येन सङ्गतिरुच्यते ' ब्राहृणो निर्दोषत्वेन

कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम्। इदानीमस्मात् परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्

परब्राहृणः परमपि तत्त्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते ' इति। तदर्थविचारस्तु-- यदिदमुभयलिङ्गं ब्राहृ किमस्मात्परमपि किञ्चित् तत्त्वमस्ति ? उत नेति। किमस्यैव परत्वे सेतून्मानसम्बन्धभेदव्यपदेशानामुपपत्तिरस्ति ? न वेति। अत्र सूत्रकारेणोपात्तान् पूर्वपक्षहेतूननुक्रमेणानूद्य

सौत्रक्रमेण परिहारमपि दर्शयति--सेतुमिति। ' एतं सेतुं तीत्र्वा 'इति तर्तव्यत्ववचनात् 'चतुष्पाद् ब्राहृ षोडशफलम् ' इति ब्राहृणः परिमितत्ववचनात् प्राप्यसम्बन्धितोक्तेः 'अमृतस्यैष सेतुः ' इति प्राप्यस्यान्यस्यामृतस्य प्रापकतया तत्सम्बन्धित्वेनाभिधानात्, अन्याधिक्यश्रुतेरपि ' परात्परं पुरुषमुपैति दिव्यम् '

'परात्परं यन्महतो महान्तम् ' इति सर्वस्मात् परस्यान्यस्य श्रुतेश्च। अतिवहननयात् अतिवाहिकन्यायेनायं परमपुरुषो विश्वकारणभूतः प्रापक एव स्यान्न पुनः प्राप्यः। प्राप्यञ्चान्यदेव किञ्चिद् भवेदिति व्योमातीतवादिनः। तदिदं प्रतिक्षिपति -- असदिति। यज्जगत्कारणं तदेवध्येयम् ' कारणं तु ध्येयः ' इति नियमात्। यच्च ध्येयं तदेव प्राप्यम् ' ब्राहृविदाप्नोति परम् ' 'ब्राहृवेद ब्राहृैव भवति ' इति प्राप्यप्रापकयोरेकत्वनिर्णयात्। अतो योऽमृतस्य सेतुस्तदेवामृतमिति त्रय्यन्तवादिनां निर्णयः। अस्मिन् ब्राहृणि

सेतुत्वाद्युक्तिः कथमिति चेदत्रोत्तरम्- सेतुत्वेति। बहुप्रमाणैरविरुद्धां वृत्तिमङ्गीकरोतु। ईश्वरस्यैव तावत्प्राप्यत्वं

प्रापकत्वञ्च सकलवेदान्तसिद्धत्वादङ्गीकरणीयमेव। तेन सेतुत्वाद्युक्तीनां योग्यार्थकल्पनयार्थोपवर्णनं कार्यमित्यर्थः। अन्यथा लोके मुख्यामुख्यप्रयोगविभागो न स्यात्। अमुख्यप्रयोगाणां परित्याज्यत्वञ्च स्यात्। उप क्रमोपसंहापादितात्पर्यलिङ्गपरिशोधनेन विदुषां तत्रतत्र वाक्यार्थोपवर्णनमपि न स्यादिति सर्वशास्त्रसङ्क्षोभः।।

2. अत्र पूर्वं सेतुत्वादिवचनं याग्यार्थकल्पनया योज्यमित्युक्तम्। तानेव योग्यानर्थाननुक्रमेण दर्शयति-सेतुत्वमिति। सेतुत्वं सेतुतुल्याद् विधरणनियामात्--धारकत्वनियमादित्यर्थः। भगवानेव हि सर्वधारकः। अर्थान्तरमप्याह--बन्धनादिति स एव भगवालसङ्करेण सर्वमपि तत्त्वजातं सम्बध्नाति।परिमितिवचनस्यापि गतिमाह--व्याप्तेऽपीति। व्याप्तेऽप्यस्मिन्परस्मिन् ब्राहृणि परिमितिवचनं सार्थकमिति दहराकाशादिप्रसङ्गेषु तत्रतत्र सूत्रितमेव। ' चतुष्पाद् ब्राहृ ' इति वचनं तु 'पादोऽस्य विश्वा भूतानि ' इतिवत् तत्तच्छØतिभिरनुगणमेव कल्पनीयमनन्तभूम्नोऽपि ब्राहृणः। ' अमृतस्यैष सेतुः ' इत्यमृतरूपस्य

ब्राहृण इति वा ब्राहृप्राप्तिरूपमोक्षस्यामृतस्येति वा योजनीयम्।।

3. अत्र नारायणस्य परत्वमङ्गीकृत्य तस्मादप्यन्यस्य परत्वमुच्यत इति पूर्वपक्षिणा वण्र्यते। तत्र द्दष्टान्तोऽप्युक्तः। यथा 'अक्षरात् परतः परः ' इत्यत्र परतोऽक्षरादन्यः पर इति पर उच्यत इति। एवमुक्ते

द्दष्टान्तदाष्र्टान्तिकयोवषैम्यमाह--अन्यस्येति। अयमर्थः द्दष्टान्ते हि प्रथमान्तपरशब्दनिर्दिष्टस्य परस्याधिक्यवादे

पञ्चम्यन्तपरशब्दनिर्दिष्टमवधितया द्दष्टम्। तस्य च परशब्दवाच्यत्वं तत्कार्यरूपमहदाद्यपेक्षयेति वचनान्निर्णीतम। तत्र स्वकार्यापेक्षया परस्मादक्षरात् परो जीवो वा परमात्मा वेति वक्तुं शक्यते। इह पुनः

' न ह्रेतस्मादिति नेत्यन्यत् परमस्ति ' इति परमात्मापेक्षया परः प्रतिक्षिप्यते। तस्मादन्यः परो न कल्पनीय एव।

ननु ' ततो यदुत्तरतरम् ' इत्यत्र तच्छब्देन प्रकृतं परमपुरुषं निर्दिश्य ततोऽप्युत्तरतरं तत्त्वान्तरं निर्दिश्यते। अतः

परमपुरुषादुत्तरं तत्त्वमस्तीति केचिदूचुः। तत् परिहरति- एवन्त्वादिति। तत्र तत इत्येवन्त्वादिति हेतुरनूद्यते।

पूर्वं बहुभिः प्रमाणैः परमपुरुष एव परतत्त्वमित्युपपादितत्त्वादित्यर्थः। तेन 'यदुत्तरतरम् ' इत्यादिकं परमपुरुषमेवाह नपुनस्तत्त्वान्तरम्। तत इति शब्दस्यार्थान्तरमप्याह--यदि वेति। ततः परमपुरुषव्याप्यत्वेन पूर्वोक्तात् प्रपञ्चात् उत्तरतरं यदरूपमनामयमित्यन्वयः। अत्रापि परमपुरुष एव परत्वेनोच्यते। यदि परमपुरुषादुत्तरतरं वस्त्वस्तीत्यभिधीयते तदा प्रकरणोपक्रमे पुरुषसूक्तप्रत्यभिज्ञानेन परमपुरुषादुत्तरस्य

प्रतिक्षेपादुपक्रमोपसंहारयोरुपक्रमबलीयस्त्वस्यन्याय्यत्वादुपक्रमानुगुण्येनोपसंहारवाक्यमस्मदुक्तप्रक्रिययैव योजनीयमिति भावः। इयमत्रशब्दयोजना--अन्यस्येश्वरस्य ' अक्षरात्परतः परः ' इत्याधिक्यवादे परं प्रकृत्यादिकं अवधितया यत्र द्दष्टं तत्र तस्मिन्नेवोदाहरणे तदवधिरव्याकृतादिस्तदपेक्षया अवधिरस्यात्। स्वयञ्च 'अक्षरात् परतः परः' इति स्वकार्यवर्गात् परत्वेनापि निर्दिश्यते। अत्र तु ' न ह्रेतस्मादिति नेत्यन्यत्परमस्ति ' इति 'इति न ' इत्युपदिष्टादन्यत्परं नास्तीति परान्तरराहित्येनोपदिष्टे विषये तत्परोक्तेस्तस्मात्परस्यान्यस्योक्तेरयुक्तेः। तेन परत्वकल्पनं परमपुरुष एव पर्यवस्यति। ' ततो यदुत्तरतरम् ' इत्यत्र तु पञ्चम्यन्तस्य तच्छब्दस्य हेतुपरत्वमित्येको निर्वाहः। अवधिपरत्वेऽपि पूर्वोक्तात् परमपुरुषव्याप्यात्

प्रकृतत्वेन तच्छब्देन निर्देष्टुं योग्यादित्यपरो निर्वाह इति।।

3.2.8.

1. अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिमाह- आराध्य इति। यत्र हि परत्वमौदार्यञ्च स एव हि सेव्य इति लोकप्रसिद्धम्। परत्वे सत्यपि कदर्यस्यासेव्यत्वात्। तथौदार्ये सत्यपि निर्धनस्यासेव्यत्वात्। तेनोत्तरपादप्रतिपाद्योपास्यत्वसिद्धयर्थं भगवतः

परत्वमुक्तं पूर्वाधिकरणे। इह पुनः फलप्रदत्वकथनात् औदार्यमुच्यत इति पूर्वोत्तराधिकरणसङ्गतिः। तदिदं परत्वं भगवतस्त्रिकाण्ड¬ां सर्वत्रोक्तमनूद्य तदन्वितमौदार्यमधुना प्रख्याप्यते। अन्वयार्थस्तु--'सर्वे वेदा यत्रैकं भवन्ति ' ' सर्वे होतारो यत्रैकं भवन्ति'।

'वर्णाश्रमाचारवता ' इत्यादिभिः प्रमाणैः प्रथमकाण्डे विष्णुरेव सर्वकर्मसमाराध्यता निर्णीतः। मध्यमकाण्डेपि

'अग्निरवमो देवतानां विष्णुः परमः' इति स एव सर्वदेवतान्तर्यामित्वेन तदध्यक्षतया प्रतिपादितः। अस्मिन्नपि

ब्राहृकाण्डे पुनरेतावता दशभिरपि पादैर्भाषितो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यमिति प्रागेवास्मिन्पादे

विशदतरमुपपादितम्। अथोभयलिङ्गपादान्ते विद्याप्रतिपादनारम्भे तत्तच्छास्त्रार्थयोग्यं नित्यनैमित्तिककाम्यरूपाणां

प्रवृत्तिनिष्ठधर्माणां कर्मयोगज्ञानयोगभक्तियोगादिरूपाणां निवृत्तिनिष्ठधर्माणाञ्चानुगुणं फलं दिशतीति विद्यारम्भ

सिद्ध्यर्थं विशदमुपपाद्यते। नहि प्रयोजनमन्तरेण प्राणिनां प्रवृत्तिस्सम्भवति। नच प्रयोजनं प्रदातारमन्तरेण। न च

प्रदातृत्वं परत्वौदार्याभ्यां विना। नापि चैतौ गुणौ पुरुषोत्तमादुभयविभूतिविशिष्टस्वात्मप्रदानमहावदान्याद् भगवतो

नारायणादन्यत्र सम्भवत इति भावः।।

2. सङ्गतिरुक्ता। तदर्थविचारस्तु- किं सापूर्वात्कर्मोपासनात् स्वर्गापवर्गफलोत्पत्तिः उत कर्मोपासनप्रीताद्र वाय्वाद्यवस्थात् केवलाच्च परस्माद् ब्राहृण इति। किं 'स एवैनं भूतिं गमयति ' 'यमेवैष वृणुते तेन लभ्यः '

इत्यदिवाक्यशेषो वाय्वाद्यवस्थस्य केवलस्य च फलप्रदातृत्वगमयति नेति। किमयं वाक्यशेषो यथप्रतीयमानार्थः,

उतान्यपर इति। अत्र पूर्वपक्षवादी मन्यते--कृष्यादेरिति। लोकेकृष्यादेर्मर्दनादेरपि फलमस्तीत्यविवादमेतत्।

अन्यथा प्रवृत्त्ययोगात्। तच्च फलं द्दष्टद्वारेणैव जायते न पुनरद्दष्टद्वारा कल्पनागौरवप्रसङ्गात्। अव्यवहितफलोत्पत्तौ द्दष्टमपि द्वारं नापेक्षते। धर्माणां पुनः साधनत्वं श्रुत्यवगतत्वादपरित्याज्यमेव। न च 'आदित्यो यूपः ' इत्यादिवत् श्रुतिरत्र बाधवती। तेन बाधदोषोज्ज्ञिताभिश्श्रुतिभिरवगतत्वादस्येव धर्माणां साधनत्वम्। इत्थं धर्माणां साक्षात् साधनत्वे श्रूयमाणेऽपीश्वर प्रसादात् फलमिति वचनमीश्वरप्रशंसार्थमेवेति

कल्पयितुं युक्तम्। आशङ्कितमर्थं प्रतिक्षिपति- नेति। तत्र हेतुमाह--श्रौतेति। अत्रायं विभागः--कर्मैव कालान्तरभाविफलं ददातीत्येक पक्षः। कर्मव्यतिरिक्तमपूर्वाभिधानमित्यपरः। कर्मरूपाराधनप्रीतो देवताविशेष इति

तृतीयः। प्रथमपक्षे कर्मणश्चितप्रध्वस्तत्वात् फलहेतुत्वमेव न सम्भवति। द्वितीये तु पक्षे श्रुतहानाश्रुतकल्पनाभ्यां

द्वौ दोषौ स्तः। श्रूयते हि ' स एनं प्रीतः प्रीणाति ' इत्यादिना देवतायाएव फलप्रदत्वम्। तेन तृतीयः पक्षः श्रौदत्वादर्थविरोधाभावाच्च स्वीकर्तव्य इति देवताया एव फलप्रदत्वं सिद्धम्। इदं तु सामान्यं ' अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च' इति सर्वकर्मसमाराध्यत्वं सर्वकर्मफलप्रदत्वं चोच्यते। अप्रदानशीलस्य हि प्रभुत्वं

गगनकुसुमकूर्मरोमनरविषणादिष्वन्यतमायते। तेन प्रभुत्वमिति फलप्रदत्वमेवोच्यत इति भाष्यकारा निरणैषुः। तस्यैव वाक्ये वक्तुं योग्यत्वाद्काङ्क्षितत्वाच्चेति।।

3. अत्र फलप्दत्वकथने तत्रतत्र पूर्वोक्तार्थविशेषेण पौनरुक्त्यमाशङ्क्य प्रतिक्षिपति-- यद्यपीति। पूर्वं हि देवताधिकरणे ' प्रीतिः फलप्रदानञ्च देवतानां न विद्यते ' इति वदतां प्रतिक्षेपात् फलप्रदत्वमुक्तमेव। समनन्तरं तु 'कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयथ्र्यादिभ्यः ' इत्यस्मिन्नपि सूत्रे पूर्वकर्मानुरूपं पुण्यपापयोरीश्वरः प्रवर्तयतीति कर्मफलमीश्वराधीनमित्युक्तम्। तत् किमर्थं फलप्रदत्वमत्राप्युच्यते ? तदेतदङ्गीकृत्यैव प्रतिक्षिपति--

तथापीति। ' साक्षी चेता ' 'अवाक्यनादरः ' इत्यादौ तत्रतत्रवेदान्तवाक्ये साक्षित्वानादरत्ववचनात् तच्छ्रवणमात्रेण बिभ्यतउपासकस्योपासनप्रवृत्तिरेवोत्सीदेत्।तेनेश्वरस्योपेक्षकत्वादिशङ्कातङ्कपङ्किलबुद्धेरुपास-

कस्य भयनिवारणार्थं परमोदारस्य भगवतश्श्रियः पत्युः शरणागतरक्षणैकतानचित्तस्यौदार्यमेव प्रधानगुणमस्मिन्नधिकरणे प्रतिष्ठापयति सूत्रकार इति साफल्यान्न पौनरुक्त्यगन्धावकाशः।।

4. ईश्वरस्य फलप्रदानप्रकारं राजतत्पुत्रन्यायेन लोकद्दष्टप्रक्रियया प्रतिष्ठापयति--सम्राज इति। लोके हि केषाञ्चित् पुत्राणां कश्चिदपि पिता सम्राडेव भवति स च सानुकम्पः कर्तव्याकर्तव्ययोरुचितमप्यर्थं जानाति सर्वेषु च पुत्रेषु साम्यमेव भजते वदान्यश्च भवति। सर्वष्वपि पुत्रेषु औदार्यमपि साधारणमेवेत्यर्थः। एवम्भूतात्

पितुः पुत्रा नियतरुचिभिदायन्त्रितास्स्वस्वेच्छानुरूप्येण स्वाभीष्टं तंतमर्थं विन्दन्ति लभन्ते। एवं परमपुरुषादप्येतद्गुणजातोपेतात् पुत्रकल्पास्सर्वे तत्सेवकाः पुरुषाः स्वाभीष्टमर्थं लभन्त इतिशेषः। तत्र

प्राप्यप्रापकतद्विरोधितदुपशमनादिकं सकलमपि पितापुत्रन्यायेनेश्वरेऽपि स्यादिति विशदं प्रकाशयति-- तत्रेति।

स्वतः प्राप्यं गृहक्षेत्रादिकं दायरूपं यत् यतः पित्राज्ञोल्लङ्घनादिहेतोस्तस्य विहतिर्भवति। तत्प्रशान्तिश्च यस्मात्--पुनरागत्य तत्पादप्रणामादेः। यच्च देयं धनाभरणपट्टवस्त्रच्छत्रचामरादिकम्। अविशेषादपराधक्षमापणाभावे दमनमपि शिक्षणमपि यथालोकं तत्सर्वमत्रापि स्यात्। राजभृत्यस्य तु राजाज्ञोल्लङ्घने पादच्छेदादिमनम्, तत्पुत्रस्य तु जीविकासङ्कोचादिकम्। एवमभागवतानां पापफलं शास्त्रोक्तं

नरकप्रायणादिकम्। भागवतानां तु बुद्धपूर्वकापराध प्रसङ्गे ' न खलु भागवता यमविषयं गच्छन्ति। इहैवैषां

केचिदुपप्लवा भवन्ति' इति काणत्वखञ्जत्वादिकमेव दमनम्। तेन ' लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत् '

इत्युक्तप्रकारेण प्रपन्नानामपराधाननुरूपदण्डनमत्यल्पमेव स्यादिति सकलफलप्रदे भगवति परमकारुणिके विश्वासेन ब्राहृविद्यानुष्ठानं सहसैव कर्तव्यमितीदमधिकरणमुपासनारम्भमेव सन्धुक्षयति।।

5. पादार्थेषु प्रधानार्थविशेषान् प्रकटयन् भगवत्पारम्यबुद्धिमुद्दीपयति--शुद्धानन्द इति। अयमत्र शब्दार्थः-- तत्

एवमुपपादनात् शुद्धानन्दस्वरूपे परस्मिन्ब्राहृणि शुभगुणजलधौ सत्यनित्यस्वदेहे परमार्थनित्यविग्रहवति

देवीभूषायुधपरिजनपरिच्छदादिभिरतिशयिनि। कनद्भोगलीलाविभूताविति विभूतिद्वयविशिष्टत्वमाह। कनदिति

देदीप्यमानत्वमुच्यते। 'अथ यदतः परो दिवो ज्योतिर्दीप्यते ' इति हि श्रुतिः। शेषित्वेति--आधेयत्वविधेयत्वशेषत्वैर्विश्वस्य शरीरत्वम्, आधारत्वादिभिरीश्वरस्य शरीरत्वमिति वेदान्तार्थतत्त्वनिर्णयसारः। सम्बन्धस्य स्तास्नुत्वं नित्यसिद्धत्वम्। स्वर्गापवर्गप्रसवितरीति 'फलमत उपपत्तेः '

इत्यधितकरणार्थं विशेषतः प्राह। एवम्भूते हरौ निर्निमेषा द्दष्टिरस्माकं श्रुतिरेवाबाधितप्रमाणमित्यर्थः। तेन

श्रुतिसिद्धेष्वेतेष्वर्थेषु विवादो न वैदिकैः कर्तव्य इत्यर्थः । तेन कक्षानुमानतुल्यैरनुमानाभासैरीश्वरगुणविग्रहविभूत्यादिकं निराकुर्वतां सर्वेषामेव पूर्ववादिनां श्रुतिरेव परिपन्थिनीति निरशिरःपवित्रत्वानुमानमपि ते नमस्कुर्वन्तु। पुरस्कुर्वन्तु च ' ब्रााहृणेन सुरा पेया ' इत्यादिकमपि वचनम्।

अथवा मनुष्यत्वादिभिस्स्वब्रााहृण्यमपि तिरस्कुर्वन्त्विति हास्यमेवावशिष्यते।।

6. उत्तरत्र विद्याभेदेषु गुणभेदकथनार्थमेतत्पादे प्रत्यधिकरणमुक्तानर्थभेदान् प्रत्येकमुपादाय प्रकटयति-- पाद

इति। स्वप्नसम्बन्ध्यर्थरुाष्टा सुषुप्त्याधृतिस्सुषुप्त्याधारस्सुप्तगोप्ता सुप्तस्य विनाशाभावेन संरक्षकः। मुग्धोह्ब्राोधातिकर्ता मूÐच्छतस्योह्बोधं कदाचित् करोति। कदाचिन्मरणमित्यादि शब्दार्थः। अनघशुभगुण

इत्युभयलिङ्गत्वमुच्यते। अचिद्भिरंशी स्वदेहैरित्यहिकुण्डलाधछिकरणार्थ उच्यते। अथ पराधिकरणार्थः--

पारम्यस्यैकसीमेति। एक एव परस्तस्मात् परो नास्तीत्यर्थः। सकलफलद इति फलाधिकरणार्थः। एवमुच्यते

भगवान् किमर्थमित्याशङ्क्याह- भक्तिभूम्न इति। वक्ष्यमाणब्राह्णविद्यारूपभक्त्यभिवृद्ध्यर्थमित्यर्थः। ननु व्यावहारिकं गुणजातमेताद्दशमस्त्विति वयमपि ब्राूम इति मृषावादिनः प्रवदान्त तत्रोत्तरमाह-- सत्ये हीति। एवमुक्ते गुणादौ सत्ये सत्येव ह्रनन्तरपादे परभजनादौ रूपभेदादिकं वक्तुं शक्यते। अयमर्थः- तत्त्वमेव

वेदान्तशास्त्रमुपपादयति। तत्प्रतिपाद्यमर्थजातमतत्त्वं चेत् किं तत्त्वम् ? न किमपीति चेत् माध्यमिकसङ्करप्रसङ्गः। विशेषणमातत्त्वं विशेष्यमात्रं तत्त्वमिति चेत् कः प्राह ? श्रुतिरितिचेद् वाच्यत्ववेद्यत्वादिभिः पुनरपि मिथ्याभूतं ब्राहृ स्यात्। स्वयम्प्रकाशं तदिति चेत् कि तत् स्वयम्प्रकाशत्वम् ?

अवद्यत्वे सति अपरोक्षव्यवहारानुगुणत्वमिति चेद् व्यवहारानुगुणत्वादेव पुनरपि मिथ्यात्वमुन्मज्जेत्।

स्वयम्प्रकाशत्वमृषात्वान्न दोषइति चेत् स्वयम्प्रकाशत्वस्य मिथ्यात्वे परप्रकाशत्वमेव तथ्यमिति पुनरपि द्दश्यत्वान्मिथ्यात्वं समर्थयसे ब्राहृण इत्यसम्बद्धवादिना भवता विवादमपि कर्तुमपत्रपामहे।।

इति तृतीयाध्याये द्वितीय पादः



। 3.3.1.

1. एवं पूर्वोक्तैर्दशभिः पादैर्मोक्षोपायोपयुक्तं तत्त्वज्ञानं प्रतिष्ठापितम्। उत्तरत्र षड्भिः पादै परब्राहृप्राप्तिरूपफलसंवलितं तद्धेतुभूतमुपासनं विशदमेव प्रकाश्यत इति पूर्वोत्तरयोरन्वयमाह--तत्त्वज्ञानेति।

मोक्ष्यमाणस्य पुरुषस्य तत्त्वज्ञानानुविद्धं हिततममुपासनमुत्तरत्र वक्तुं तत्त्वे विषये तर्कज्वरजनितमहासन्निपातप्रलापान् परवादान् निर्धूयाधुना तत्त्वबोधे निष्पन्ने सति तत्त्वज्ञानस्य सञ्जातत्वात्।

' दग्धाखिलाधिकारत्वात् ब्राहृज्ञानाग्निना मुनिः।

वर्तमानश्श्रुतेर्मूÐन्ध नैव स्याद्वेदकिङ्करः।। '

इति वेदकिङ्करत्वमपलपद्भयो मृषावादिभ्यः ' स खल्वेवं वर्तयन् यावदायुषं ब्राहृलोकमभिसम्पद्यते '

इति श्रुतिसिद्धं यावज्जीवानुवत्र्यं मुररिपुभजनं मुक्तिसिद्धये वक्तीत्यन्वयः। इत्थं किल मृषावादीमन्यते- य एव

ह्रहङ्कारादियुक्तः सएव वेदकिङ्करः ; कर्तृत्वभोक्तृत्वयोरनात्मधर्मत्वात्। काम्यकर्तृत्वं तावत् संसारहेतुत्वान्निरस्तमेव ज्ञानिनः। ब्राहृोपासनकर्तृत्वमपि तथैव निरस्तं तस्यापि सांसारिकधर्मान्तर्भावात्। ब्राहृ तु

न ज्ञेयं नोपास्यं न प्राप्यमपि। नच वेदैरयमर्थो ज्ञाप्यते। नित्यस्वयम्प्रकाशत्वात् स्वयम्प्रकाशत्वमपि न निरुच्यते।

तदनिर्वचने कथं ब्राहृसिद्धिरितिचेत् मा भूत् ब्राहृसिद्धिः। अत एव ह्रध्यात्मविदः प्रवदन्ति ' अवचनेनैव प्रोवाच '

इति। एवमसम्बद्धवादिनो मिथ्यावादिनस्सद्विद्यामपि स्वसमयसारभूततया परिगृहीतां परित्यजन्ति किमुत

दहरविद्यादिकान् विद्याभेदान् विविधगुणपरिष्कारयुक्तान्। अतस्तत्प्रतिक्षेपारभ्यत इति।।

2. अत्र तृतीयाध्याये चतुर्णामपि पादानामर्थभेदं द्विकदच्वयस्याप्यर्थभेदान्मिथोभेदं पौर्वापर्यनियमञ्च दर्शयति--

भीमाभ्य इति। अत्र पूर्वपादद्वयेऽधिकारसम्पत्तिहेतुरधिकारश्च संसारविरक्तिसंवलितो भगवति तृष्णायोगः

उभावेतावुभाभ्यां पादाभ्यामभिधीयते इति विशदं प्रकाश्यते। तत्र भीमाभ्य इत्यादिना वैराग्यपादार्थमाह तृष्णामित्यादिनोभयलिङ्गपादार्थम्। अयमत्र शब्दान्वयः-- यावताकृष्णामृताब्धौ तृष्णां परणयति तावदुक्तमिति

उत्तरपादद्वयार्थमाह -- इत्थमिति। अयमत्र शब्दान्वयः-- उभाभ्यां पादाभ्यां लब्धाधिकारो यत्र साङ्गे साधने

प्रवर्तते तत् साङ्गं साधनं परस्मिन् पादद्वन्द्वे बहुभिदाबर्बरं निब्र्रावीति--बहुभेदेन विषमितं विकल्पितं निब्र्रावीति

सूत्रकारः। अयमर्थः--ब्राहृविद्याविशेषाः खलु ' नानाशब्दादि ' इति सप्रमाणकं भिन्नतयोपदिष्टाः। 'विकल्पोऽविशिष्टफलत्वात् ' इत्येकफलसाधनत्वेन त एव विकल्पिताः। एवमुभयाकारयुक्तसाधनजातमुदिश्यत इति । अयमत्रानुक्रमः-- वैराग्यपूर्वं हि प्राप्यतृष्णा जायते प्राप्यविषयप्रेप्सायं जातायामुपायाधिकारः उपायेप्रवृत्तस्याधिकारिणः पुरस्तादुपाये निर्णीते उपरिष्टात् करणस्थानीयसर्वब्राहृविद्याङ्गकर्मोपादित्सा जायत इति विद्याङ्गपादस्य पश्चाद्भाव इति।।

3. ननु पादार्थाभिधाने भगवता भाष्यकारेण ' इदानीं ब्राहृोपासनानां गुणोपसंहारविकल्प निर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते ' इत्युक्तम्, अत्र कोऽयं पादार्थः ? किं भेदचिन्ता उताभेतचिन्ता अथवा क्वचिद्भेदचिन्ता क्वचिदभेदचिन्ता यद्वा भेदाभेतचिन्तेति। नाद्यः ; सार्वत्रिकत्वाभावात्। अत एव न द्वितीयः।

न च तृतीयः ; अनुवृत्तार्थासिद्धेः। न चतुर्थः ; भेदाभेदात्मकस्य चिन्तनीयस्य व्याहतत्वेन तद्विषयचिन्ताया अयोगात्। चिन्ताशब्देन संशयात्मकं विचारमभिधाय पक्षद्वयाभिधानेऽपि एतस्मिन्पादे गुणोपसंहारानुपसंहारचिन्ता

हीयेत। सैव हि चिन्ता पादेऽस्मिन् प्रधाना ; गुणोपसंहारपाद इति समाख्यायोगात्। तदिदं सर्वमभिप्रेत्याह- एकस्मिन्निति। अयमत्र शब्दार्थः- एकस्मिन् पादे एक एवार्थस्स्वीकार्यो निपुणनयकृता पुरुषेण। द्वयोस्तर्कणं

विचारो न स्यात्। भेदाभेद इत्येकोऽर्थो नास्त्येव, शब्दप्रयोगमात्रेण शशविषाणादिवदस्तित्वेऽपि तस्यैव चिन्तनमस्मिन् पादे स्यात् न पुनरन्यस्य गुणोपसेहारानुपसंहारादेश्चिन्तनम्। तदिदमाह- अन्यहानप्रसङ्गादिति। उक्तमर्थं सङ्कलय्य निगमयति--तस्मादिति। एवं विकल्पदुष्टत्वादस्मिन् पादे प्रकीर्णा नयविततिन्र्यायविस्तरः प्रशिथिल इति प्रेक्षितग्रन्थचोद्ये विद्याभेदाभेदचिन्ता क्रियत इति द्दष्टभाष्यग्रन्थस्य कस्यचित् पुरुषस्य चोद्ये सति वेद्यावच्छिन्नविद्यानियमकृदयं पाद इत्यैदमथ्र्यंतात्पर्यंसमथ्र्यम्।

अयमर्थः-- नात्र भेदो नाप्यभेदः प्रधानतया चिन्त्यते, भेदाभेदौ गुणोपसंहारानुपसंहारार्थावेव। तेन

गुणोपसंहारपादप्रसिद्धिरपि युज्यते। तह्र्रुपसंहारोऽनुपसंहारो वा पादार्थ इति पुनश्चोद्यमुन्मज्जतीति चेत्

यथायोग्यमुपसंहारानुपसंहारान्यतरनिर्णयः पादार्थ इत्यैकाथ्र्यसिद्धिः। वेद्यावच्छिन्नविद्यानियमकृदयमिति वेद्यं भिन्नं

चेत् विद्या च भिन्ना, अभिन्नं चेत् सा चाभिन्ना, तेन वेद्यानुरूपं विद्यानियमनमिति पादर्थैक्यसिद्धिः। अत्र वेद्यभेदस्तु गुणभेदात् नपुनब्र्राहृभेदात्। तेन गुणोपसंहारपादप्रसिद्धिस्सुतरां सङ्घटत इति।।

4. पूर्वस्मिन् श्लोके वेद्यावच्छिन्नविद्यानियमकृदयमिति पादस्यैकाथ्र्यं समर्थितम्। अत्र कश्चिदाह- अस्त्वैकाथ्र्यम्, अथापि विद्यैक्यप्रतिपादकेऽस्मिन्पादे अभेद एवैकः पादार्थः। न पुनर्विद्या भेदः, तर्हि ' विद्याभेदाभेदचिन्चा ' इति कथं भाष्यकारैरुच्यते ? इति चेत् अस्त्वपवादप्रदर्शनम्। विद्यैक्यमेव पादार्थः।

ऐक्यासम्भवे क्वचिद्भेदोऽपि स्यादित्यपवाद एव प्रदश्र्यते नपुनर्भेदः पादार्थभूत इति। इमामाशङ्कामनुवदति--

आख्यावन्तमिति। अयमत्र शब्दार्थः--गुणानामुपसंहारतो गुणोपसंहारपाद इत्याख्यावन्तमेतं पादं निजगदुः।

तत् तस्मात्कारणादाख्यासामथ्र्यात् विद्यैक्यप्रतिपादतकेऽस्मिन्पादे भेदचिन्ता त्वपवादत्वेनैव प्रसक्ता न पुनः

पादार्थतया। इममाशङ्का परिहर्तुमेव भाष्यकारैरुक्तं ' विद्याभेदाभेदचिन्ता ' इति। तदाह-- इत्थमिति। कः

पुनस्सर्वानुवृत्तः पादार्थ इति चेत्तत्राह- विषय इति।।

5. अत्र कश्चिच्चोदयति-गुणभेदात् विद्याभेद इति भवद्भिरिक्तम्। तर्हि फलभेदोऽपि स्यात्। 'यथाक्रतुरस्मिन्

लोके पुरुषो भवति तथेतः प्रेत्य भवति ' इति हि श्रूयते 'तं यथायथोपासते तथैव भवति ' इति च। तेन यद्गुणविशिष्टं भगवन्तमुपास्ते तद्गुणविशिष्टमेव प्राप्नोतीति श्रुत्यर्थः। विशेषविधौशेषनिषेधस्य न्याय्यत्वात् उपास्यगुणव्यतिरिक्तगुणविशिष्टभगवत्प्राप्तिरर्थान्निषिध्यत इति परिपूर्नब्राहृानुभवो मोक्ष इति वादमात्रमेव स्यात्।

तदिदमनुवदति--निस्सीमेति। निस्सीमानन्दपर्वोत्कर्षहेतुभूतनिरुपधिकानन्तसम्पद्गुणौधे परमात्मनि वेद्याकारभेदप्रयुक्तभेदवद्विद्याभेदैर्विभज्य प्रणिधिर्यदि स्यात्, तर्हि प्राप्तिरपि ब्राहृणि अंशत एकदेशेन स्यात्।

यावानुपासनविषय आकारस्तावानेव प्राप्याकारस्स्यात्। तथा च न परिपूर्णब्राहृानुभवः फलमित्यापतेत्। एतच्चोद्यमपाकरोति-मैवमिति। अपाकरणमेव विवृणोति-तैरेवेति। अयमर्थः-- 'यथाक्रतुरÏस्मल्लोके पुरुषो भवति '

इत्यत्रोपास्याकारस्यान्यूनभावेव प्राप्तिरुच्यते। 'तथैव भवति ' इति कृत्स्नस्याप्युपास्याकारस्य प्राप्त्यभिधानात्।

न्यूनत्वे पुनरुपास्याकारस्य कृत्स्नत्वमेव भज्येत। अधिकाकारसम्बन्धस्त्वत्र न विधीयते नापि निषिध्यते। विशेषविधौ शेषनिषेधन्यायात् निषिध्यत इति चेत् अयमपि भ्रान्तिमूल एवोपन्यासः। विधायकप्रमाणान्तराभावे हि

आर्थो निषेधः परिगृह्रेत। अत्र तु विधायकमस्ति ' निरञ्जनः परमं साम्यमुपैति ' इति श्रुत्यैव परमसाम्याभिधानात्। इदञ्च परमसाम्यं भोगमात्र एवेति सूत्रकारैरेव स्थापयिष्यते ' भोगमात्रसाम्यलिङ्गाच्च ' इति। तेन नहि वचनविरोधे न्यायः प्रभवतीति न्यायेनाधिकनिषेधो दुन्र्यायवेदिनामेव निर्णयः। तर्हीश्वरसाम्याङ्गीकारे जीवस्यापीश्वरत्वं प्रसज्य इति चेन्न ; सूत्रकारैरेव मात्रशब्दं प्रयुञ्जानैर्निरस्तत्वात्।

शब्दार्थस्तु--तैरेवधर्मैरुपास्यैरेव भगवद्गुणैस्तदितरसहितै रनुपास्यैर्गुणैरपि सहितैः पूर्णं ब्राहृैव पूर्णकामस्य

मुक्तस्य प्राप्यमिति नान्यदत्र फलमस्ति। स्वर्गादिसाधनेषु तूपास्यमन्यत् फलमन्यदिति प्रसिद्धमेतत्। तेनात्र

तत्क्रतुन्यायेनोपास्यानुपास्यकलगुणविशिष्टं तदेव ब्राहृ प्राप्यमिति तत्क्रतुन्यायस्सिध्यति। तेन न क्वचिदपि विद्यासु फलवैषम्यप्रसङ्गः।।

6. अत्र पादसङ्गतिर्भाष्ये ' उक्तं ब्राहृोपासिसिषोपजननाय वक्तव्यं ब्राहृणः फलदायितापर्यन्तम्। इदानिं ब्राहृोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते ' इति। अधिकरणावतारमप्याह 'प्रथमं तावत् ' इत्यादिना। 'फलमत उपपत्तेः ' इत्यत्र उपास्यस्य ब्राहृणस्सर्वफलप्रदाने प्राधान्यमुक्तम्, अधुना पुनर्मूर्धादिपादपर्यन्तपरिक्लृप्त्या सविग्रहब्राहृोपासनरूपाया वैश्वानरविद्यायाः परविद्यान्तरात् प्राधान्येन सैव प्रथमं

विचार्यते। अत एव भगवता पराशरेण ब्राहृविद्याप्रसङ्गेसविग्रहमेव ब्राहृ प्रथमं चिन्तनीयं शुभाश्रयत्वात्, ब्राहृस्वरूपं तु न योगयुजा चिन्त्यम्, आरूढयोगेनैव चिन्त्यमित्युक्तम्। अस्याञ्च विद्यायां पूर्वकाण्डशाखान्तराधिकरणोक्तसकलन्यायसमुच्चयस्य विद्यमान्तवात् एतद्विचारपूर्वकमेव विद्यान्तरविचारौचित्यादेषैव विद्या पूर्वं विचार्यत इतियभिप्रायः। एतदेव ' प्रथमं तावत् ' इति द्वाभ्यामपि पदाभ्यां

द्योत्यते। तदर्थविचारस्तु-- नानाशाखास्वधीताया वैश्वानरादिकाया विद्यायाः किं प्रतिशाखं भेदः, उतैक्यमिति। किं

शाखान्तरे प्रत्यभिज्ञास्ति नेति। किं ' तेषामेवैतां ब्राहृविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ' इति शिरोव्रतवतामाथर्वणिकानां विद्योपदेशनियमोभेदोपपादकतया प्रत्यभिज्ञानिरोधी नेति। किं शिरोव्रतं विद्याङ्गम्,

उताध्ययनाङ्गमिति। अत्र कर्मकाण्डशाखान्तराधिकरणोक्ताभेदचकन्यायैरभेदमुक्त्वा पुनर्भेदकन्यायैराक्षिप्य भेदकानां तेषामन्यार्थत्वप्रदर्शनेनाभेदमेव पुनः प्रतिष्ठापयामास सूत्रकार इत्याह--भेद इत्यादिना। अयमर्थः- कर्मकाण्डे हि संयोगरूपचोदनाख्याविशेषात् कर्मणामैक्यमुक्तम। संयोगो नाम फलसंयोगः। रूपञ्च द्रव्यदेवते।

द्रव्यदेवते हि कर्मणो रूपमिति तान्त्रिकाः। चोदना लिङ्लोट्तव्यप्रत्ययादिशिरस्कः क्रियावाचिशब्दः। आख्या ज्योतिष्टोमादिनामधेयम्। तेषामविशेषात् कर्मैक्यमिति ' संयोगरूपचोदनाख्याविशेषात् ' इति सूत्रार्थः। भेदकप्रमाणानि तु शब्दान्तरादीनि। अपर्यायशब्दश्शब्दान्तरं यजति जुहोति ददातीत्यादि। अभ्यासस्तु ' समिधो

यजति ' 'तनूनपातं यजति ' इत्यादिरूपः पुनः पुनः पाठः। सङ्ख्या 'तिरुा आहुतीर्जुहोति ' इत्यादिषु द्दष्टा त्रित्वादिः। गुणस्तु ' तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् ' इत्यादिषु श्रुतो वाजिनादिः। 'उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति ' इत्यादिषु प्रकरणान्तरमुपलभ्यते। नामधेयमपि भेदकं

द्दश्यति 'अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योदिः ' इत्यादौ। तेन पूर्वकाण्डोक्तन्याकलापैर्भेदकैरबेदकैश्चेदमधिकरणं व्यारचितम्। तत्र शब्दान्वयस्तु-कर्मकाण्डे द्वितीयाध्याये शब्दान्तराद्यैर्भैदो विधिषु नियमितः प्रतिपादितः। समुदयनियतात् समुच्चितात् संयोगाद्यैक्यतः संयोगरूपचोदनाख्याविशेषात् अन्यः कर्मणामभेदोऽपि स्थापितः। कर्मब्राहृकाण्डयोरैकशास्त्र्यात् न्याप्रवृत्तेरपि तुल्यत्वात् विद्यामपि कर्मनीतिरेव नीतिः। इत्थं सामान्येनार्थतत्त्वमभिधाय एतस्याधिकरणस्य

सिद्धान्तारम्भपूर्वकत्वात् प्रथमं सिद्धान्तमभिधाय पूर्वपक्षाभिप्रायेणाक्षिप्य पुनस्तमेव सिद्धान्तं स्थापयामपि सूत्रकार

इति दर्शयति-- आदाविति। शब्दान्वयस्तु- तेनैव कर्मकाण्डेनैव चोदनादरेभेदादादावुदितमुक्तं शाखान्तरनयं

श्रुत्यैवाक्षिप्य श्रुत्यन्तर्गतात् भेदकप्रमाणादाक्षिप्य तं पूर्वोक्तमेवार्थं प्रतिसमाधित स्थापयामास। तत्र हेतुमाह

भेदकान्यार्थतोक्तयेति। भेदकस्य प्रमाणस्य अर्थान्तरे तात्पर्यादित्यर्थः।।

7. अत्रोक्तार्थापवादरूपं विद्याभेदतुमनूद्य तत्परिहारमपि भाष्योक्तमेव विशदं प्रकाशयति- शखास्विति। अयमर्थः-- अविशेषपुनश्श्रवणात् प्रकरणान्तराच्च विद्याभेद एवात्र समुचितः। 'समिधो यजति ' 'तनूनपातं यजति' इत्यादौ यजति यजतीत्यविशेषपुनश्श्रवणात् 'उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति' इत्यत्र

प्रकरणान्तराच्च कर्मभेदो द्दष्टः। एवमत्रापि ताभ्यामेव हेतुभ्यां विद्याभेदो ऽङ्गीकार्य एव। अयमत्रान्वयः-

ब्राहृविद्यावादिनीषु शाखासु तत्रतत्र प्रक्रिया अन्या द्दष्टा अत्र च अविशेषमपि पुनश्श्रवणं द्दष्टं ततो विद्याभेदस्स्यादिति। तदेतत् प्रतिक्षिपति-नेति। तदुभयं अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च अध्येतृभेदाद्युक्तमेव। अयमर्थः-- इत्थं किल मीमांसकानां मर्यादा। अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च विधेयभेदावहमेव यद्यध्येतृभेदो न स्यात्। प्रतिपत्तृभेदे सति अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च न भेदकमेव।

तेनात्र प्रतिपत्तृभेदस्य विद्यामानत्वात् न विद्याभेदप्रसङ्गः। ननु ' तेषामेवैता ब्राहृविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ' इति शिरोव्रतवतामेव ब्राहृविद्योपदेशनियमात् विद्याभेदोऽस्त्विति मयोक्तं तत्र कोऽयं परिहार इति पूर्वपक्षिणोऽभिप्रायमाशङ्क्य तत्रापि परिहारमाह-- अयुक्तेति। कथमयुक्तत्वमित्यत्राह-- स्वाध्याय

इति। अत्र ब्राहृविद्यापदं स्वाध्यायवाचकमेव न पुनर्विद्यावाचकं ' नैतदचीर्णव्रतोऽधीयीत ' इति वेदव्रतेन

वेदाध्ययनस्यान्वयोक्तेरित्यर्थः।।

8. अत्र कश्चिच्चोदयति रूपैक्यात् विद्यैक्ये सिद्धे सति किमितरदुपसंहार्यम् ? तदेव रूपैक्यमिति चेन्न इतरेतराश्रयादिप्रसङ्गात् रूपैक्यात् विद्यैक्यं विद्यैक्याति रूपैक्यमिति। अथवा चक्रकमेव रूपैक्यात् विद्यैक्यं

विद्यैक्यात् वेद्याकाररूपगुणोपसंहारो गुणोपसंहारात् रूपैक्यमिति। तर्हि वैद्याकारादन्यो गुण उपसंहार्य इति चेत्

स चान्यो विरुद्धो वा कि वा अविरुद्धः। विरूद्धश्चेत् तर्हि विरुद्धधर्मयोरेकत्रोपसंहाराङ्गीकारे सति लोके सर्वत्र भेद एव न स्यात्। उष्णत्वशीतत्वयोरेकत्रोपसंहारसम्भवे कोऽन्यो भेदकः? तेन कर्मणां विद्यानां वा

तत्तदसाधारणभेदकधर्मोपसंहारे यागादानहोमादीनां सद्विद्यादहरविद्याभूमविद्यादीनां भेदएव न स्यात्। ननु विकल्पेनोपसंहारस्स्यात् कदाचित् स्वधर्मान्वयः अन्यदा तद्विरुद्धान्यधर्मान्वय इति, तदपि न ; विकल्पयोयाष्टदोषदुष्टत्वात्। किञ्च विकल्प एवात्र न सम्भवति स्वधर्मस्य श्रुत्यैवोपदिष्टत्वात् अन्यस्य विरुद्धधर्मस्य श्रुत्या अनुपदिष्टत्वात्। तुल्ययोर्हि विकल्पो न पुनरतुल्ययोः। तेनोपसंहार्यो धर्मः कोऽयमिति।

तस्मात् भेदाभेदचिन्ता गुणोपसंहारानुरसंहारार्थेति व्यर्थाभिधानमिति। तदेतदनुवदति-- रूपैक्यादिति। शब्दान्वयस्तु--

रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यम् ? अन्यो गुणश्चेत् विद्यान्तरादिव्यवस्थितो गुणश्चेत्

कर्मणां विद्यानां वा क्वचिदपि रूपभेदव्यवस्थितो भेदो न स्यात्। विकल्प्यं तदिह किमिति। अत्र किमिति प्रतिक्षेपे। विकल्प्यं तद्रूपमिह न भवत्येव विद्यान्तरासाधारणत्वात्। तेन एवमुपपादनेन भेदाभेदचिन्ता न गुणोपसंहारार्था भवतीति निष्फलेति। अत्रोत्तरम्-नेति। उपसंहार्यानुपसंहार्यविभागं व्यक्तमेव दर्शयति--वेद्याकारेति। वेद्याकारैक्यं विद्यैक्यं दिशति। तत्तु वेद्याकारैक्यमनुपसंहार्यमेव प्रागेव सिद्धत्वात्। तेन

न चक्रकम्, नाप्यन्योन्याश्रयः। तथा च विद्याया ऐक्ये सिद्धे तदधिकं विद्याया ऐक्यापादकाकारादधिकमन्यदेव

किञ्चिदङ्गमाकृष्यते तच्चापि तत्तच्छाखासु सर्वत्र श्रुतं चेत् अनुपसंहार्यमेव श्रुतत्वात्। क्वचिदेव श्रुतं चेत् तदानीं विद्यैक्यात् शाखान्तरेऽप्युपसंहर्तव्यमिति न्यायमार्गः। इयं किल मर्यादा किं भवतैव परक्लृप्तेत्याशङ्कय

कर्मकाण्डविदामपीयमेव मर्यादेति म्वोक्तमर्थं सर्वविद्वज्जनसम्मत्या द्रढयति-कर्मण्यपीति। अस्मदुक्तानङ्गीकारे सर्वशास्त्रव्याकोपस्स्यादित्यर्थः। अयमत्र शब्दान्वयः-- कर्मण्यपि कर्मकाण्डेऽपि एवमेव एवम्प्रकारेणैवोपसंहारविषयो गुणो भेदकगुणातिरिक्त एव स्वीकृतः। अत्र हि यागदानहोमादीनां भिन्नानां कर्मणां

तत्तदसाधारणधर्माद्भेदकादतिरिक्तः कश्चित् धर्मस्संयोगरूपचोदनाख्याविशेषात् कर्मैक्ये सिद्धे तस्मादेवैक्यात् सर्वत्रोपसंह्यियत इति। अयमर्थः-- कर्मसु परस्परविरुद्धो धर्मो नोपसंहार्यः, रूपाद्यैक्यादैक्ये सिद्धेऽपि ऐक्यापादकं रूपमपि नोपसंहार्यम्, तद्व्यतिरिक्तमपि रूपमेकत्रैव प्रतिपन्नं चेत् इतरत्रोपसंहार्यम्। तच्चोभयत्रापि

प्रतिपन्नंचेत् अनुपसंहार्यमेवेति तान्त्रिगोष्ठीनिष्ठानां निर्णयः।।

3.3.2.

1. अत्र सङ्गतिर्भाष्ये ' एवं चोदनाद्यविशेषात् विद्यैकत्वम्, एकत्वे च गुणोपसंहारः कर्तव्य इत्युक्तम्। अतः परं

काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति नेति निरूप्य निर्णीयते ' इति। तदर्थविचारस्तु-

अस्त्युद्गीथविद्या वाजिनां छनेदोगानाञ्च, किमुभयत्र विद्यैकत्वमुत विद्याभेद इति। तदर्थं विचार्यते-- किमुभयत्र

विद्याप्रत्यभिज्ञानमस्ति नेति। किमुभयत्रोद्गीथस्यैवोपासनकर्मत्वमुत च्छन्दोगानामुद्गीथावयवप्रणवस्येति। किमुभयत्रोद्गीथशब्दः उद्गीथपरः उत च्छन्दोगानामुद्गीथावयवभूतप्रणवपरा इति। किं ' ओमित्येतदक्षरमुद्गीथमुपासीत ' इति प्रणवपरोद्गीथशब्दस्योपक्रमस्थत्वं ' उद्गीथमुपासाञ्चक्रिरे ' इत्युद्गीथशब्दस्य प्रणवपरतामवगमयति नेति। पूर्वं वैश्वानरविद्यां संयोगरूपचोदनाख्याविशेषात् विद्यैक्यमुक्तम्, एवं तर्हि विद्यान्तरेष्वपि तेनैवाविशेषेण विद्यैक्यं ग्राह्रम्। तत्रोदाहरणत्वेन तावदुद्गीथविद्योच्यते। तदिदमाह-- प्राग्वदिति। वैश्वानरविद्यावत् शाखाभेदेऽप्युपशमितभिद् स्यादेकैवोद्गीथविद्या। इत्थमाशङ्क्य तद्तन्निराकरोति- तदसदिति। तत्र हेतुमाह- उभयथेति। रूपभेदो हि सर्वेष्वपि भेदकेषु प्रधानः, सच रूपभेदोऽत्र नैकविध्येनोपलभ्यते, अपितूभयथा। तेन भेदकप्रमाणभूयस्त्वात् भेद एवाङ्गीकार्यः। उक्तमेव भेदकप्रमाणद्वैविध्यं दर्शयति-- गातेति। क्वचिदुद्गीथविद्यायामुद्गाता ध्येयतयोच्यते, अपरत्रतु गेयम्, अयमेको

रूपभेदः। रूपबेदान्तरमप्याह- गेय इति। क्वचित् सकलगेयानुध्यानम्, अन्यत्रासकलगेयानुध्यानमिति विभागः।

एवं रूपवैषम्यसिद्धौ संयोगरूपचोदनाख्यासु रूपव्यतिरिक्तानां संयोगादीनामभेदोऽपि विद्याया अभेदं न गमयत्येव। तदेव विवृणोति-- भिदेति। इयं खलु मीमांसकानां मर्यादा संयोगरूपचोदनाख्यानामेकभेदेऽपि कर्मभेदस्सिध्येदेव। तद्वदत्रापि प्रधानभूतस्यैकस्यापि रूपस्य भेदे सिद्धे विद्याभेदोऽङ्गीकर्तव्य एव। अत्र पुनः प्रधानस्य रूपस्य भेद उभयथा दृष्यते। तेन सुतरामपि विद्याभेदस्सिद्ध इति भावः।।

2. पूर्वमुद्गीथविद्ययोर्भेदसिद्ध्यर्थं वेद्याकारभिदा प्रतिज्ञाता तामेव वेद्याकारभिदां विशदमुपपादयति- छन्दोगेति। छान्दोग्यवाक्ये दावदुद्गीथशब्दस्तदवयवभूतप्रणवपर एव। तत्र हेतुमाह-- प्रक्रमादिप्रसिद्धेरिति।

छान्दोग्यवाक्योपक्रमे उद्गीथशब्दस्य प्रणवपरत्वेनाभिधानात्, वाजसनेयके तु नियामकप्रकरणाद्यभावात् उद्गीथशब्दः कृत्स्नोद्गीथाभिधायी। तेन क्वचिदुद्गीथाभिधायी अन्यत्रोद्गीथावयवभूतप्रणवाभिधायीति रूपभेदस्सिध्यति। उद्गीथो नाम सामावयवो भक्तिविशेषः, तदवयवः प्रणव इति तयोर्भेदः प्रसिद्धः। एवं तर्हि

वाजिनामुद्गीताशब्द उपक्रमस्थ औपचारिकस्स्यात् उद्गातर्युद्गीथशब्दप्रयोगात् तेनोपचार एव दोष इति चेत्

नात्रोपचारदोष इत्याह-- तदिति। अयमर्थः- उद्काता नाम उद्गीथस्य कर्ता, तत्कत्र्रा साधनीये कार्ये तस्याप्युद्गीथस्य नागृहीतविशेषणेतिन्यायेन साधनत्वमस्त्येव, तेन 'उद्गीथेनात्ययाम ' इत्युद्गीथस्यैव साधनत्वोपदेशे सति नोपचारप्रसङ्ग

इति शब्दार्थः। द्विषदुपशमने-- शत्रुपराजये। तत्फलत्वोक्त्यबाधात्- उद्गीथफलत्वोक्तेरबाधादिति।।

3. गुणोपसंहारपादे ब्राहृविद्यैव सञ्चिन्तनीया, अध्यात्मशास्त्रत्वात् तथा सैव सर्वत्र सञ्चिन्त्यते च, अथापि किमत्र स्वयमब्राहृविद्या शत्रुपराजयादिक्षुद्रफलान्तरार्था चोद्गीथविद्या सञ्चिन्त्य इत्याशङ्क्य द्वेधा समाधानमाह-

यद्यपीति। तत्रैकदेशिभिरुक्तः परिहारस्तावदुच्यते-- यद्यपि इयमब्राहृविद्यैव क्षुद्रफलार्था च तेनात्र न ग्राह्रा च

मोक्षशास्त्रे, तथापि संयोगरूपचोदनाख्याविशेषादितिन्यायेन सञ्चिन्तनीयत्वाविशेषादत्र सञ्चिन्त्यत इत्येकदेशिनामयं पक्षः। अपरेषां तु इयं विद्या काम्यपि ब्राहृविद्यानुष्ठानोपयुक्तस्य तद्विरोधिनिराकरणस्य साधनत्वेनोपदिष्टत्वात् उपयोगविशेषस्य विद्यमानत्वेन ब्राहृविद्यान्तर्गतत्वात् तत्र विशेषतस्सञ्चिन्तनीयेति। शत्रवो हि विद्यानुष्ठानप्रतिपक्षा वादादयः तत्प्रवर्तकाश्च पुरुषा इति। तेषां परिभवश्च विद्यासाद्गुण्यमेवापादयतीत्युद्गीथादिविद्याचिन्तनमत्रैव विशेषेण सङ्गच्छत इति।।

4. अत्रैवोद्गीथविद्यायाश्चिन्तनीयत्वे प्रकारान्तरेणापि हेतुद्वयमाह--अज्ञातेति। इदं किल हेतुद्वं उद्गीथाद्युपासनानि ब्राहृद्दष्टिरूपाणि तानि च द्रष्टन्यब्राहृपरिज्ञानाभावे कर्तुमेव न शक्यन्ते। तेनोद्गीथाद्युपासनचिन्तनस्यात्रैव सङ्गतिः। अत एव पूर्वं द्रष्टव्यब्राहृविषयवैश्वानरविद्यादिकमस्मिन् पादे प्रथममेव चिन्तितम्। इदानीं ब्राहृद्दष्टिरूपोद्गीथादिविद्या चिन्त्यत इति। अयमत्र शब्दान्वयः-- अज्ञातब्राहृस्वरीपयाथात्म्यः कथमिव कुत्रचिदुद्गीथादिषु ब्राहृद्दÏष्ट विमृशेत्। तस्मात् ब्राहृज्ञानमन्तरेण उद्गीथादिद्दष्टिविधीनामशक्यचिन्तनत्वात् आगत्य अत्रैव ब्राहृकाण्ड एव चिन्तनीयता स्यात् पुनः कर्मकाण्डे

ईद्दशसङ्गत्यभावात्। अयमेको हेतुरुद्गीथाद्युपासनचिन्तनानामत्रैव कर्तव्यत्व उक्तः। हेत्वन्तरमप्युपयोगविशेषरूपं दर्शयति-- आदध्युरिति। ' यदेव विद्यया करोति, तदेव वीर्वत्तरम् ' इति विद्याङ्गकर्मणां वीर्यवत्तरत्वापादकत्वेनोद्गीथविद्या विशेषणात्रैव कर्तव्या, वीर्यवत्तरत्वं नाम विद्याङ्गकर्मणामप्रतिबद्धफलत्वम्। प्रतिबन्धकाभावे हि विद्याङ्गकर्माणि ब्राहृविद्यां सहसैव साधयितुं शक्नुवन्ति।

तेन ब्राहृविद्योत्पत्तिप्रतिबन्धकनिराकरणार्थत्वात् स्वयं ब्राहृद्दष्टिरूपत्वाच्च उभयताप्युद्गीथादिविद्यानामत्रैव चिन्तनं

समुचितमित्यर्थः। अयमत्र निर्णयः-- विद्याङ्गकर्मणां स्वफलवितरणे वीर्यवत्त्वातिरेकमुद्गीथादि विद्याः खल्वादध्युः। तस्मात् ब्राहृध्यानार्थकर्मणामतिशयजननेनोद्गीथाद्युपासनचिन्तनं प्रस्तुतापेक्षितमेवेति।।

3.3.3.

1. पूर्वस्मिन्नधिकरणे रूपभेदाद्विद्याभेद इत्युक्तम्, ततः पूर्वं वैश्वानराधिकरणे रूपैक्याद्विद्यैक्यमिति, अधुना पूर्वाधिकरणवत् रूपभेदाद्विद्याभेदमाशङ्क्य तत्प्रतिक्षेपेण वैश्वानराधिकरणवत् रूपैक्यात् विद्यैक्यमेव पुनः प्रतिष्ठाप्यत इति सङ्गतिः। तदर्थविचारस्तु-- छन्दोगानां कौषीतकीनाञ्च प्रणविद्या आम्नाता, किमुभयत्र विद्यैक्यमुत भेद इति। किमुभयत्र वसिष्ठत्वादिगुणकमुपासनमुत कौषीतकीनां तद्विधुरमिति। किं कौषीतकीनां

प्रणविद्यामपि वसिष्ठत्वादिप्राप्तिरस्ति नेति। किं कौषीतकीनां 'यदहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि' इत्यनुवादाभावेऽप्युपक्रमे प्राणायत्तस्थितिकार्यकरत्वाभिधानात् वागादीनां तथारूपवसिष्ठत्वादिप्राप्तिः प्राणविद्यायां

गम्यते नेति। तत्र पूर्वपक्षमाह-- छान्दोगमयवाजसनेयककौषीतकि ब्रााहृणेषु ज्यैष्ठ¬श्रैष्ठ¬ादीन्यधीतानि प्राणे,

कौषीतकिविद्यायामस्य सर्वस्यापि गुणजातस्य साम्येऽपि केवलं वागादिवसिष्ठत्वादिकम्, मद्वसिष्ठत्वादिकं त्वद्वसिष्ठत्वाधीनमिति वागादिभिः प्राणमुद्दिश्य नानूदितम्। तत्रेत्थंरूपभेदाद्बह्वीषु शाखासु प्रतिपन्ना प्राणविद्या

भिद्यतामिति। इमं पूर्वपक्षमनुवदति--ज्यैष्ठ¬ेति। तत्प्रतिक्षिपति--मैवमिति। वागादीनां तत्तज्ज्यैष्ठ¬श्रैष्ठ¬वासिष्ठ¬ादिगुणानां प्राणपरवशतावर्णनस्याविशेषात् वागाद्यैः प्राणे स्वस्वधर्मोपचरणमात्रं

न कृतम्, तावता न रूपभेदः। वागादीनां वसिष्ठत्वादेः प्राणाधीनत्वोपपादनादेव वागादिवसिष्ठत्वं प्राणवसिष्ठत्वमित्यर्थादुक्तं भवतीति न पृथग्वक्तव्यमवशिष्यते। तेन न रूपभेदाद्विद्याभेदावकाश इति। तद्तत्सर्वं

भाष्य एव सुव्युक्तं विवृतमिति नाचार्यैर्विवरणीयमवशिष्टं किञ्चिदस्तीत्युपरम्यते।।

3.3.4.

1. पूर्वं त्रिभिरधिकरणैर्विद्यानां भेदाभेदचिन्ता कृता, तत्र च वैश्वानरविद्यायां ' वायुः प्राणः ' इति वायुः परमपुरुषप्राणत्वेन ध्येयतया परिकल्पितः। उद्गीथविद्यायां पुनरुद्गीथादिषु प्राणद्दष्टिरूपत्वेन प्राणप्रसङ्गः कृतः। इतः पूर्वस्मिन्नधिकरणे साक्षात् प्राण एव निरूपितः। अतोऽपि च पूर्वेषामधिकरणानां परस्परसाङ्गत्यम्।

ज्यैष्ठ¬ादिगुणोपपादनान्तर्भावेन वसिष्ठत्वादीनामप्यनुसन्धेयत्वमुक्तम्। तत्प्रसङ्गात् ब्राहृणस्सर्वविद्यावेद्यत्वात्

तत्स्वरूपनिरूपकधर्माणामानन्दादीनां तत्स्वरूपनिरूपणान्तर्भावेनानुसन्धेयत्वमुच्यतेइति सङ्गतिः। भाष्येच सङ्गतिस्स्पष्टा द्दश्यते ' अत्र ब्राहृस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति नेति विचार्यते ' इति। तदर्थविचारस्तु- किमानन्दादयो गुणास्सर्वासु विद्यासूपसंहार्याः, उत यत्र श्रूयन्ते तत्रैवेति। किमानन्दादीनामैश्वर्यादिवत् गुण्यपृथक्त्वमात्रमेव, उत ब्राहृस्वरूपवत् स्वरूपप्रतीत्यनुबन्धित्वमस्तीति। पूर्वपक्षाभिप्रायेण सङ्गतिं प्रदर्शयन् पूर्वपक्षं तावदाह--नानाशब्देति। अयमर्थः-- पूर्वं गुणभेदाद्विद्याभेद इति भवतैवोक्तम्, तेन तत्र तत्र श्रुतानामन्येषां गुणानां व्यवस्थितिस्सिद्धा, तद्वदेव सत्यत्वादीनामपि धर्माणां ब्राहृस्वरूपव्यतिरिक्तानां विद्याभेदेन व्यवस्थितिरिति पूर्वपक्षिणोऽभिप्रायः। उत्तरत्र सूत्रकारो ' नाना शब्दादिभेदात् ' इति गुणभेदाद् भिदुरां ब्राहृविद्यां वक्ष्यति। तेन स्वप्रकरणपठितात् रूपादन्यत् विद्यान्तरस्य रूपम् अन्यत्र विद्यान्तरे न योज्यम्। उभयत्रापि पठितं चेत् उभयत्रापि योज्यमस्तु नाम। इयमेव

हि नीतिविदां मर्यादा। तस्मात् एवं न्यायमर्यादानिर्णीतत्वात् सत्यत्वपूर्वा गुणाअपि सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वान्यपि तदितरगुणवत् व्यवस्थापनीयस्स्युरिति पूर्वः पक्षः। तदिदमपाकरोति- मैवमिति। अपाकरणप्रकारमेव विवृणोति-- ब्राहृेति। अयमर्थः- लोके हि वस्तूनां गुणा द्विविधाः, तत्र स्वरूपनिरूपकाः केचित्, निरूपितस्वरूपविशेषकाश्चापरे, यत् स्वरूपनिरूपकं तत् वस्तुस्वरूपप्रसङ्गे सर्वत्रान्वेति

यथा घटप्रसङ्गे घटत्वम्। निरूपितस्वरूपविशेषकं तु रक्तत्वकृष्णत्वादिकं तत्रतत्र व्यवतिष्ठते। एवं स्वरूपनिरूपकत्वादानन्दादीनि सर्वत्रानुवर्तन्ते। परे पुनः प्रियशिरस्त्वादयस्तत्रतत्र व्यवतिष्ठन्त इति सर्वविद्यासाधारण्यमेवानन्दादीनाम्। ब्राहृस्वरूपेति -- ब्राहृस्वरूपावर्गतिर्यस्माद्भवति तत् स्वरूपवत् सर्वासु विद्यास्वपेक्षणीयमिति। अयमन्वारोहः। स्वरूपनिरूपकधर्मत्वात् स्वरूपप्रतिपत्त्यर्थमेवेति तत्त्वम्।।

2. प्रसक्तं सत्यत्वादिकं स्वरूपेण विभज्य दर्शयति-- सत्यत्वमिति। सत्यत्वं विश्वहेतौ परस्मिन्ब्राहृणि बहुविधचिदचिद्विक्रियाजालहानेर्भवति ज्ञानत्वं ज्ञातृभावात् भवति। ज्ञानब्दः कर्तर्यपि प्रयुज्यते 'कृत्यल्युटो बहुलम् ' इति कर्तर्यपि ल्युट्प्रयोगसम्भवात्। 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ' इति कर्तर्येव ल्युप्रयोगमाश्रित्य निर्वोढुं शक्यत्वात्। 'तद्गुणसारत्वात्तु तद्व्यपदेशः ' इति ज्ञानगुणसारे ज्ञानशब्दस्य प्रयोक्तुमपि शक्यत्वात्।

स्वरूपस्य स्वप्रकाशत्वेन स्वप्रकाशस्वरूपवाचिनो ज्ञानशब्दस्य तत्रैव समन्वयाच्च। नन्वत्र कर्तृत्वेन भावत्वेन प्रत्यभेदेनापि बहुधानिर्वाहे सति अर्थभेदात् स्वरभेदस्यादित्याशङ्क्य तत्राप्युत्तरमाह - स्वरबहुलतयेति। स्वरस्य वैकल्पिकत्वादित्यर्थः। यत्र स्वरानुपपत्तिर्न विद्यते तत्र तथैव स्वीकार्यम्। यत्र पुनस्स्वरभेदोऽङ्गीकार्यः, तत्र ' बहुलं छन्दसि ' इति स्वरादीनां बहुलत्वेन न सङ्कटं किञ्चित्। अन्यथा कथं ' उणादयो बहुलम् ' इत्यादिव्यपदेशो भगवतः पाणिनेरपि। त्रिविधपरिच्छेदाभावरूपं ब्राहृणोऽनन्तत्वं वक्तुं परिच्छेदप्रकारमाह- त्रिद्वियकाभिरिति। त्रिपरिच्छिन्ना घटादयः देशतः कालतो वस्तुतश्च परिच्छिन्नत्वात्। द्विपरिच्छिन्नः परमाणुः अणुत्वादनन्तर्यामित्वाच्च। एकपरिच्छिन्नः पुनः कालः विभुत्वे नित्यत्वे च सति केवलमनन्तर्यामित्वेन वस्तुपरिच्छिन्नत्वात्। ब्राहृण आनन्त्यमप्याह- तस्येति। तिसृभिः परिच्छित्तिभिरयोगात् परब्राहृण आनन्त्यमिति।

सदा निर्मलानन्दधाम्न इति वचनमानन्दस्य ब्राहृगुणेषु प्राधान्यप्रक्यापनार्थम्।।

3. ननु जन्मादिसूत्र एव ब्राहृणो लक्षणमुक्तम्। तच्च लक्षणं लक्षणत्वादेव समानासमानजातीयव्यावर्तकम्, अतस्तेनैव लक्षणेनालम्, किमर्थमिदं स्वरूपलक्षणमिति सत्यत्वादिकमुच्यत इत्याशङ्क्य प्रयोजनविशेषाभिधानेन परिहरति-- उक्तमिति। नन्विचि चोद्यं द्योतयति। तेनैव स्वरूपावगातिः स्यात्। सत्यत्वादिकमत्र निरर्थकमेव।

सत्यादिशब्देन तदेव ब्राहृोच्यते चेत् पौनरुक्त्यम्। अन्यच्चेत् तर्हि ब्राहृ न स्यात्। नहि ब्राहृद्वितयमस्ति। लक्षणान्तरं चेत् कृतकरत्वादेव नैरर्थक्यम्। प्रयोजनविशेषोऽस्ति चेत् तत्त किमिति विशदं प्रकाशयेति पराभिप्रायः। परिहरति- नेति। तदेव विवृणोति- हेतोरिति। ईश्वरस्य जगत्कारणत्वे प्रतिपन्ने कारणत्वाशङ्कितदोषपरिहारार्थं सत्यत्वादिकमभिधीयत इति भाष्यकारैरेव प्रागेवोक्तम्। अचित्संसृष्टजीवमुक्तनित्यानामनुक्रमेण व्यवच्छेदात्। तेन सर्वविलक्षणत्वेन प्रतिपन्नब्राहृस्वरूपपरिशोधनार्थं सत्यादिवाक्यमपीति न नैरर्थक्यप्रसङ्गः। किञ्चास्मत्पक्षे ब्राहृणि नानागुणोपादानमुपासनार्थम्, अथवा फलदशायामनुसन्दानार्थमिति सर्वसाफल्यसिद्धिः।।

4. ननु ब्राहृध्यानार्थं सत्यत्वाद्यनुसन्धेयमित्युक्तं भवता, तर्हि ब्राहृानुध्यानं प्रियशिरस्त्वाद्यनुसन्धानेनापि सिध्यतीत्याशङ्क्य वैषम्यं दर्शयति- नन्विति। अयमत्र शब्दार्थः-- ब्राहृानुध्यानं 'तस्य प्रियमेव शिरः ' इत्यादिभिरपि सिध्यतीति।

प्रियशिरस्त्वादीनामपि ब्राहृणि नियमेनानुसन्धानं स्यादित्याशङ्क्य तत्रार्धाङ्गीकारमाह- बाढमिति। अयमर्थः-- त्वदुक्ते किञ्चिदङ्गीक्रियते किञ्चिच्च न, प्रियादीनां परमानन्दरूपब्राहृान्तर्भावादङ्गीकारः पक्षादीनां परकल्पनामात्रत्वादनङ्गीकारश्च। तेन प्रियादीनामपि ब्राहृस्वरूपावगतिहेतुत्वात् ते प्रियदयो गुणाः सर्वानुवृत्ताः। प्रियाद्यैस्तदवगतिः-- प्रियमोदप्रमोदादिभिब्र्राहृस्वरूपावगतिरित्यर्थः। तर्हि पुच्छत्वादिकमपि ' ब्राहृपुच्छं प्रतिष्ठा ' इत्यादिभिरधीतमनुसन्धेयं स्यादित्याशङ्क्यासम्भवान्नेत्याह-- पुच्छाद्यंश इति। असम्भवमेवाह-- निरंशे ब्राहृणि पुच्छाद्यंशे न भवतीत्यन्वयः। तर्हि ब्राहृणि पुच्छत्वद्दष्टिस्स्यात्, द्दष्टिविधौ ह्रविद्यमानस्य दर्शनं भूषणमेव स्यादित्याशङ्क्य परिहरति- न चेति। अपकृष्टे ह्रुत्कृष्टद्दष्टिविधानं द्दष्टिविधिः। यथा 'मनो ब्राहृेत्युपासीत ' इत्यादौ। इह पुनब्र्राहृणि पुच्छत्वादिद्दष्टिश्चेत् विपरीतमेव स्यात्। उत्कृष्टब्राहृणि अपकृष्टपुच्छत्वादिद्दष्टिविदेरयोगात्। तर्हि ' तस्य प्रियमेव शिरः' इत्यादेः कथमिह परिकल्पनमित्याशङ्कायां तत्परिकल्पने निर्वाहमाह-- तस्मादिति। एवं प्रियशिरस्त्वादीनां बुद्ध्योहार्तत्वोपपादनात् उत्तरत्राभिधीयमानचित्याग्निरूपक्रमवदिह परस्मिन् ब्राहृणि शिरःप्रभृतिपरिकल्पनं समुचितमेव।।

5. अत्रानन्दादिशब्दानामर्थभेदं पक्षभेदेनोक्त्वा भाष्यकाराभिमतप्रकारेण स्वीयमर्थं निगमयति- आनन्दत्वेति।

केचिदत्र सौत्रमानन्दशब्दं स्वरूपस्य आनन्दरूपत्वप्रधाने वर्णयन्ति। अपरे पुनः धर्मानन्दाभिदानमाहुः। तद्गुणसारत्वादिति न्यायेनानन्दित्वमेवानन्दशब्दः प्राहेति। तथा तृतीयं पक्षमाह- तदुभयवचनमिति। आनन्दित्वमानन्दत्वञ्चोभयमपि आनन्दशब्दः कथयतीति। अत्र पक्षद्वमपि विकल्पेनैककोटित्वेनोपात्तम्। अयमर्थः- आनन्दत्वमेवोच्यत इत्येके। अपरे आनन्दित्वमेव यद्वोभयमपीत्याहुः। यद्वा केचिच्छब्दावृत्त्या पक्षत्रयमपि त्रयाइणां पक्षइति पृथक्पृथक् पक्षत्वेन वाच्यम्। अत्रानन्दशब्दोक्तमर्यादां ज्ञानशब्देऽप्यतिदिशति- ज्ञानोक्ताविति।

ज्ञानत्वं ज्ञानित्वं तदुभयं वा ज्ञानशब्देनोच्यत इति। एवं पक्षभेदानुक्त्वा भाष्यकाराभिप्रेतं पक्षं वैशद्याय दर्शयति--तदितरसमतेति। अयमर्थः -- ब्राहृस्वरूपप्रतिपत्तिवेलायां ब्राहृव्यतिरिक्तार्थसाम्यशङ्का यावता विशेषणेन न स्यात् तावद्धर्मानुवृत्तिस्तावद्विशेषणानि बहुभजनपदे सर्वब्राहृविद्यावेद्ये परस्मिन् ब्राहृणि अनुसन्धेयानीत्यत्र स्थाप्यते। तानि च सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वान्यनुक्रमेणोपयुक्ततया भाष्य एव स्थापितानीति तत्रैव विस्तरेण द्रष्टव्यम्।।

3.3.5.

1. पूर्वप्रस्तुतावशिष्टतया सङ्गतिर्भाष्ये। तदर्थविचारस्तु-- छान्दोग्यवाजसनेयकवाक्ययोः प्राणवासोद्दष्टिपरत्वमाचमनीयास्वप्सु प्रतीयते नेति। अत्र पूर्वपक्षमाह- आचामेदिति। भाष्ये वाक्यार्थस्य विस्तृतत्वात् शब्दान्वयमात्रप्रदर्शनमत्र क्रियते। अत्राचामेदिति विधिश्रवणात् विधेश्च ' अप्राप्ते शास्त्रमर्थवत् ' इति न्यायेनापूर्वार्थे तात्पर्यात् स्मृत्याचारप्राप्ताचमनव्यतिरिक्तमाचमनान्तरं विधीयत इति। तमिमं पक्षं प्रतिक्षिपति--मैवमिति। प्रतिक्षेपप्रकारमाह -- स्मृत्यादीति। भोजनाङ्गस्याचमनस्य समृत्यादिसिद्धत्वात् प्राणवासस्त्वानुसन्धानपूर्वमेवात्र विधीयते। तेनापूर्वार्थविशेषविधानादस्मिन्पक्षे न विधिभङ्गः। तह्र्रपूर्वाचमनविधानाभावे पूर्वस्य तस्याचमनस्य सिद्धत्वात् आचामेदिति कथं विधिश्रवणमित्याशङ्क्याह-- भुज्जीतेति। यथा 'स्नात्वा भुज्जीत ' इत्यत्र प्राप्ते भोजने विधिश्श्रूयते, अथापि विधिरप्राप्तस्नानविधानपर एव, एवमत्राप्याचामेदिति पूर्वप्राप्ताचमने विधिश्श्रूयतां नाम, अथाप्यप्राप्तप्राणवासस्त्वानुसन्धान एव विधिर्भवेत्। अतो न शब्दान्वयविरोधः। अन्यत्र स्थितस्य विधिश्रवणस्य उपक्रमोपसंहारादितात्पर्यलिङ्गपरामर्शेनान्यत्रान्वयेन निर्वाहस्तान्त्रिकाणां सम्मत एवेति तथैवात्र स्यात्। प्राप्तधात्वर्थनिष्ठ इति पूर्वप्राप्ताचमनमुच्यते। श्रवणं तत्रास्तु तथापि तात्पर्यमन्यत्रेत्यर्थः। अत्राप्युपक्रमोपसंहारादिपरमर्शेन वाक्यस्य प्राणवासस्त्वानुसन्धानविधानपरत्वं भाष्य एव विवृतमिति विस्तरभयादुपरम्यते। ननु प्राणविद्या पूर्वमप्युक्ता किमर्थमिदानीमप्युच्यत इति बालिशचोद्ये परिहारमाह-- प्रागिति। पूर्वं प्राणविद्यायां भेदाभेदादिचिन्ता कृता, इदानीं प्राणविद्यायामाचमनीयानामपां प्राणवासस्त्वानुसन्धानरूपमङ्गं चिन्त्यत इत्यधिकरणभेदोपपत्तिः।।

2. एवमुक्तेऽप्यधिकरणार्थे शिष्याणां वैशद्याय उक्ताननुक्तांश्च हेतुविशेषान् संगृह्र कथयति- आदाविति। उपक्रमोपसंहारयोर्वासःपरिधानमित्येको हेतुः। अपरमपि हेतुमाह-- मन्यतिरिति। 'मन्यन्ते ' इति मन्यतिशब्दप्रयोगे द्दष्टिविध्यर्थ एव। ननु प्राणवासस्त्वमस्तु, अनेन किं प्रयोजनमित्याशङ्क्य प्रयोजनमाह-- आराध्यप्रियार्थेति। अयमर्थः-- विहितायाः क्रियाया योग्यमेव प्रयोजनं कल्प्यम्, यथा विहिताया आचमनक्रियायाः प्रयोजनमाराध्यप्रीतिः, एवं प्राणवासस्त्वानुसन्धानस्यापि प्रयोजनमाराध्यप्रीतिरेव। सा च मन्यतिराराध्यप्रियार्थेत्यन्वयः। ननु

प्राणवासस्त्वानुसन्धानवचनं स्तोत्रमेव किं न स्यादित्याशङ्क्य प्रतिक्षिपति-- स्तुतिरिति। गत्यभावे हि स्तुतिरभिनन्द्या, अत्रापूर्वार्थविधानेन गतिसम्भवे सति स्तुतिर्न कल्प्येत्यर्थः। अत्र च

'अद्भिः परितधति ' इति परिधानरूपापूर्वार्थस्य विशेषतः प्रतिपादनात् प्राणवासस्त्वानुसन्धानविधिर्युक्त एव। किञ्च प्राणोऽत्राराधनीयत्वेन प्रतिपाद्यते आराधनीयस्य च देवताविशेषस्याद्भिः परिधानवचनमाराधनाङ्गत्वात् युज्यत एव। यथा लोके वरुाप्रदानं देवताराधनाङ्गं तद्वदिहापीति भाव्यम्।।

3.3.6.

1. अत्र पूर्वाधिकरणं प्राणविद्याशेषत्वेन प्रसङ्गसङ्गत्योक्तम्, तत्पूर्वाधिकरणे पुनस्स्वरूपेनिरूपकधर्मणां स्वरूपप्रतीत्यन्तर्भावेनोपसंहार्यत्वमुक्तम्। अधुना पुनस्सत्यसङ्कल्पत्वान्तर्भूतानां वशित्वादिगुणानामुपसंहार उच्यत इति सङ्गतिः। तदर्थविचारस्तु-- वाजसनेयकेऽग्निरहस्ये बृहदारण्यके च शाण्डिल्यविद्या आम्नाता, किमत्र विद्या

भिद्यते नेति। किमुभयत्र रूपभेदोऽस्ति नेति। किमग्निरहस्ये वशित्वादिप्राप्तिरस्ति नेति। किं मनोमयत्वसत्यसङ्कल्पत्वाम्नानमेव गुणिप्रत्यभिज्ञाया वशित्वादिप्राÏप्त गमयति नेति। अत्र पूर्वपक्षी मन्यते- 'समिधो यजति ' इत्यादिवत् अविशेषपुनश्श्रवणात् विद्याभेदोऽवर्जनीयः। नचाध्येतृभेदादविशेषपुनश्श्रवणमिति न तेन भेद इति वाच्यम् ; शाखैक्ये सति अध्येतृभेदासम्भवात्। एकस्यां शाखायामध्येतृभेदो न सम्भवतीति साधारणोऽयं न्यायः। अतोऽत्र विद्याभेदस्स्यादिति। नचात्र गुणविधिः कश्चित् द्दश्यते येन विद्यैक्यमाश्रीयेत। यदि गुणाभिधानमत्र स्यात्, तदा खलु पूर्वस्यामेव विद्यायां गुणविधानार्थं पुनश्श्रवणमिति वक्तुं शक्यते। तस्मात् विद्याबेदः स्वीकर्तव्य इति। तदिदमाह--शाखैक्य इति। अयमत्र शब्दार्थः--शाखैक्ये सिद्धे सति अध्येतृभेदोऽस्तीति वक्तुं न शक्यते। अत्र कश्चिदपि गुणो न विधेयः, तेन गुणविधानार्थं पुनरभिधानमिति न वाच्यम्। तस्मादुक्ताविशेषश्रवणमिह विद्यां कथं न भिन्द्यादिति। उक्तं पक्षं प्रतिक्षिपति--मैवमिति। प्रतिक्षेपप्रकारमाह-यद्यपीति। अत्र गुणविधिर्नास्तीति भवतोक्तं तत्तथैव, विधेयस्य गुणान्तरस्यात्रादर्शनात्। तथापि पूर्वोक्तस्यैवात्रानूक्तिव्र्यक्त्यै विविच्याभिधानेनोक्तार्थाभिव्यक्त्यै सौकर्यतश्च शिष्याणां सौकर्यार्थश्च। तत्र द्दष्टान्तमाह -- व्यसनेति। लोके हि समासेनोक्तमर्थं विग्रहवाक्येन व्यासेनापि वदन्ति तद्वदत्रापि सत्यसङ्कल्पत्वशब्देनोक्तमेव तदन्तर्गतं वशित्वादिकं वशित्वादिशब्देनापि विव्रियते तेन विवरणार्थमेव पुनरनुवाद इति न कश्चिद्दोष इति।।

2. अत्र कश्चिच्चोदयति-- ननु वाजसनेयकवाक्ये स्थलद्वयपठिता शाण्डिल्यविद्या भाष्यकारैरुपात्ता न पुनश्छान्दोग्यवाजसनेयकयोः पठिता शाण्डिल्यविद्या भिन्ना अभिन्ना वेति विचारिता, तत् किमर्थमित्याशङ्क्य एकत्र निर्णीतस्य न्यायस्येतरत्रापि स्वयमेव योज्यत्वात् स्वयमेव शिष्या विदाङ्कुर्वन्त्विति भाष्यकाराभिप्राय इति परिहरति-- छन्दोगैरिति। अयमत्र शब्दार्थः-- छन्दोगेस्तथा वाजिभिश्च स्फुटमेवानुपठिता शाण्डिल्यविद्या भाति इहोदाहरणे भेदाभेदावमर्शो भाष्यकारैः किमिति न सन्दर्शित इति। इममाशङ्कां परिहरति- तद्ब्राूम इति। तदेव विवृणोति-- यत्र यत्रेति। वाजसनेयके वा छान्दोग्ये वा यत्रयत्र वशित्वाद्यधिकपठनं द्दश्यते तत्रतत्राधिकानां गुणानां सत्यसङ्कल्पत्वादिगुणान्तर्भावादियुक्तौ सत्यामधिकमनधिकं वेति साधारणोक्तेर्युक्तत्वादित्यर्थः। एकत्र निर्णीतन्यायसिद्धार्थस्य पुनरभिधानापेक्षाभावादित्यर्थः।।

3. पुनरुक्तस्यार्थस्यात्यन्तवैशद्यार्थं वाजसनेयकोक्तस्थानद्वन्द्वशाण्डिल्यविद्यायाः प्रकारभेदं दर्शयन् अत्र विद्यैक्यसिद्ध्यथ रूपभेदाभावमप्याह-- स्थानद्वन्द्व इति। वाजसनेयके ह्रग्निरहस्ये वशित्वादिविरहिता सत्यसह्कल्पत्वाद्युक्तिमती शाण्डिल्यविद्या सम्माम्नाता। बृहदारण्यके वशित्वाद्यविरहिता सैवाम्नात्। तेनात्र वेद्यभेदेन रूपभेदात् शाण्डिल्यविद्याया भिदुरता कल्पनीयेति चेत्। तदिदं प्रतिक्षिपति- नेति। तदेव विवृणोति--

आरण्येति। बृहदारण्यकोक्तं वशित्वादिकमग्निरहस्योक्तसत्यसङ्कल्पताया भिन्नं चेत् तदा रूपभेदात् विद्याभेद

इति वक्तुं शक्यते, नचैतद्भिन्नं सत्यसङ्कल्पत्वविवरणरूपत्वात् वशित्वादेः, तेन रूपभेदाभावात् न विद्याभेदः।

तदेवोपपादयति--सेति। सा सत्यसङ्कल्पता अग्नेः रहस्ये अधीता। सत्यसङ्कल्पताया विवरणरूपत्वात् वशित्वादिकमपि तत्रैवाधीतमेव भवति। तेन रूपभेदाभावात् न विद्याभेद इत्याह- अधिकविरहत इति।।

3.3.7.

1. पूर्वं शाण्डिल्यविद्यायां रूपभेदाभावात् विद्यैक्यमुक्तम्, तर्हि बृहदारण्यकोक्तादित्यमण्डलाक्ष्यन्तर्वर्तिपुरुषविषयविद्यायामपि

रूपभेदाभावात् विद्यैक्यमित्याशङ्क्य स्थानभेदाद्रूपभेदोऽस्तीत्यभिधीयत इतीह सङ्गतिः। तदर्थविचारस्तु- आदित्याक्ष्यन्तर्वर्तिनोराम्नाते किमेते नामनी यथाश्रुतमेकैकव्यवस्थिते, उतोभयत्राप्यव्यवस्थयोपसंहार्ये इति। किमत्र विद्यैक्यमुत नेति। किं व्याह्मतिशरीरस्योपास्यत्वमुभयत्र विद्यैक्यं गमयति नेति। किमुपास्यगुणैक्यमात्रमभेदहेतुः, उत स्थानैक्यमपीति।

स्थानं किमुपास्यान्तर्गतमुत नेति। अत्राक्ष्यादित्यान्तर्वर्तिनोः पुरुषयोरुपासने रूपैक्याद्विद्यैक्यमाशङ्क्य उभयत्रापि स्थानभेदेन रूपभेदात् विद्याभेत इति दर्शियति-- अक्षीति। शब्दार्थस्तु-- अक्ष्यादित्योपलक्ष्ये भगवति भजनं संयोगरूपचोदनाद्यैक्यादेकमेव स्यात्। तेन द्वयोरपि नाम्नोरूभयस्थानस्थे परस्मिन् ब्राहृणि अनियतिरेव स्यादिति। तमिमं पक्षं प्रतिक्षिपति-नेति। तत्र हेतुमाह- स्थानत इति। स्थानभेदेन रूपभेदस्य विद्यामानत्वात्। तमेव रूपभेदमुपपादयति-- स्थानमिति। स्थानं हि भगवतस्तत्स्थानावस्थितत्वप्रतिपत्त्यै ह्रुपदिश्यते। अत्र

प्रतिबन्दीमाह-- न चेदिति। यदि स्थानं नैरर्थक्येनोपदिश्यते तर्हि तत् रूपमपि ताद्दग्विधमेव स्यादित्यर्थः। उक्तमर्थं सहेतुक्तं निगमयति- तस्मादिति। अनयोर्नाम्नोव्र्यवस्थयैवोपसंहार इत्यर्थः।।

3.3.8.

1. पूर्वाधिकरणे नाम्नोस्स्थानभेदात् व्यवस्था कृता इह पुनरनारभ्याधीतस्य सम्भृत्यादिकस्यापि तेनैव स्थानभेदेन व्यवस्थोच्यत इति सङ्गतिः। तदर्थविचारस्तु-- राणायनीयानां खिलेषु 'ब्राहृज्येष्ठा वीर्या सम्भृतानि ' इत्यादिवाक्यानि श्रूयन्ते तत्र सम्भृतिद्युव्याप्त्यादिकं कथ्यते।तÏत्क सर्वविद्यासूपसंहार्यमुत कासुचिदेवति। तदर्थं विचार्यते-- किमनारभ्याधीतानां सर्वासु विनियोगः, उत कासुचिदेवेति। किं सामथ्र्यं सर्वासु विद्यासु विनियुङ्क्ते उत कासुचिदेव विनियुङ्क्त इति। अत्र पूर्वपक्षमाह-- सम्भृत्यादिरिति। ' ब्राहृ ज्येष्ठा ' इत्यादिवाक्योक्तः सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावात् सर्वास्वपि विद्यास्वन्वीयेतेति। सिद्धान्तमाह-- नेति। तत्र हेतुमाह-- क्वचिदिति। अयमर्थः-- न सर्वत्रान्वेति, अपितु क्वचिदेव, अगतिकात् लिङ्गात् क्वचिदेवेति स्थापितत्वात्। लिङ्गस्यागतिकत्वमनन्यथासिद्धत्वम्। तदेव हि प्राबल्यहेतुः। अन्यथासिद्धानां हेतूनां दुर्बलत्वात्। अनन्यथासिद्धत्वमेव विशदं प्रकाशयति-- अल्पेति। अयमर्थः-- ' ब्राहृ ज्येष्ठा ' मन्त्रे ' ब्राहृाग्रे ज्येष्ठं दिवमाततान ' इति ब्राहृणो विश्वव्यापित्वमुक्तम्। तच्च विश्वव्यापित्वमल्पस्थानासु विद्यासु न घटते, अपितु व्याप्त्या ब्राहृोपासनेष्वेव घटते। तेनैतन्मन्त्रस्थविश्वव्याप्त्यादेः स्वोचितस्थानवृत्तेरवश्यम्भावादेकस्मिन् मन्त्रे द्युव्याप्त्या सह पठिता इतरे सम्भृत्यादिधर्मास्तत्समस्थानिनः द्युव्याप्तिर्यत्र वर्तते तत्रैव सह वर्तन्त इति तत्समस्थानिन इति।।

3.3.9

1. द्युव्याप्तिसन्निधिसमाम्नातस्य सम्भृत्यादेस्तत्समानस्थानानुप्रवेशात् एकविद्यान्वय उक्तः, इदानीं ब्राहृविद्यासन्निधिसमाम्नातपुरुषविद्याया ब्राहृविद्याशेषत्वमुच्यत इतिसङ्गतिः। तदर्थविचारस्तु-- तैत्तिरीयके 'तस्यैवं

विदुषो यज्ञस्य ' इत्यादिना पुरुषविद्या आम्नाता, तथा छान्दोग्येऽपि 'पुरुषो वाव यज्ञः ' इत्यादिनापुरुषविद्या आम्नाता, किमुभयत्र विद्यैक्यमुत विद्याभेद इति। तदर्थं विचार्यते-- किमुभयत्र रूपफलसंयोगभेदोऽस्ति न वेति। किं ' प्र ह षोडशं वर्षशतं जीवति ' इति च्छान्दोग्योक्तायुःप्राप्तिरेवोभयत्र फलमुत तैत्तिरीयपुरुषविद्यायां ब्राहृप्राप्तिः फलमिति। किं तैत्तिरीयपुरुषविद्या ' ब्राहृणे त्वा महस ओमित्यात्मानं युञ्जीत ' इति प्रकृतब्राहृविद्याङ्गमुत नेति। किं ' तस्यैवं विदुषः ' इति निर्देशो ब्राहृविद्याङ्गत्वमवगमयति नेति। अत्र पूर्वपक्षमुपन्यस्य प्रतिक्षिपति-- आख्याद्यैक्यादिति। संयोगरूपचोदनाख्यानामैक्यात् पुरुषविषययोर्विद्ययोरभेद इति। तमिमं प्रतिक्षिपति-- अयुक्तमिति। संयोगरूपचोदनाखायविशेषात् पुरुषविद्ययोरैक्यमित्ययुक्तम्। अयुक्तत्वमेव दर्शयति--यज्ञाद्याकारक्सृप्तेरिति। तैत्तिरीयके यथा यज्ञाद्याकारक्लृप्तिः, न तथा छान्दोग्ये। उभयत्रापि वैषम्यस्य दर्शनात्।तेन रूपभेदात् विद्याभेदः। किञ्च तैत्तिरीयके पुरुषविद्या ब्राहृविद्याशेषत्वात् पूर्वोक्तब्राहृविद्याफलमेव अत्र फलतया निर्दिश्यते। छान्दोग्ये तु आयुःप्राप्तिः फलत्वेनोच्यते। तेनोभयत्रापि फलभेदोऽस्तीति न सेयोगाद्यविशेष इति विद्यैक्यम्।।

2. अत्र कश्चित् पुरुषविद्याप्रसङ्ग एव न कर्तव्यः प्रस्फुटपूर्वपक्षहेत्वभावादित्याशङ्कते तामाशङ्कां प्रतिक्षेप्तुमनुवदति--स्फुट इति। द्वयोरपि पुरुषविद्ययोः रूपादिभेदे स्पष्टे सति नामसाम्यादिमात्रात् हठेनैव समुपनतः पुरुषविद्यापूर्वपक्षः अत्यन्तमृदुत्वादवाच्य इति एतदधिकरणं विफलमेवेति। इममाशङ्कां निराकरोति-- नेति। निराकरणे

कारणमाह--अन्येति। अत्र खलु द्वे विद्ये ' ब्राहृणे त्वा महस ओमित्यात्मानं युञ्जीत ' इति पूर्वं विहिता न्यासविद्या अन्या। इयं तु ' तस्यैवं विदुषः ' इत्याम्नाता पुरुषविद्या तच्छेषभूता अन्या तेन न्यासविद्याप्राधान्यकथनार्थं तच्छेषभूता पुरुषविद्या पुनरत्र विशोध्यते। छान्दोग्यस्था पुरुषविद्या पुनरायुःप्राप्त्यर्थत्वेन विघानात् न ब्राहृविद्याङ्गभूता त्वनया पुरुषविद्यया तादात्म्यं भजत इति न पुरुषविद्ययोरैक्यप्रसङ्ग इति वक्तव्यमशेषं न्यासविंशत्यादिषु प्रबन्धान्तरेषु व्यक्तमुक्तमिति नेह प्रतन्यते।।

3. अत्र पुरुषविद्याविषयपक्षद्वयं तत्तदेकदेशिप्रोक्तमनूद्य उभयथापि भाष्यकारपरिकल्पिताधिकरणचिन्ता सङ्घटत इति सन्दर्शयति-- यद्यैवमिति। अयमत्र केषाञ्चित् पक्षः-- इद्द यज्ञद्दष्टिर्न कल्प्यते अपितु पूर्वोक्तन्यासविद्यानिष्ठस्य माहात्म्यप्रदर्शनार्थं सकलमपि कर्मजातं तस्य शरीर एव वर्तत इति यज्ञक्लृप्त्या

प्रशंसामात्रमुच्यते यज्ञानङ्गभूतचातुर्मास्यादेर्मध्ये परिकल्पनात्। अपरे पुनरेवं मन्यन्ते-- अपर्यनुयोज्यस्वभावा खलु श्रुतिः। अतस्तत्प्रामाण्यवशात् ताद्दग्विधं यज्ञान्तरमस्तीति तत्कल्पनरूपा पुरुषविद्यापि काचित् विद्यत इति

पुरुषविद्यायोर्भेदोऽपि प्रतिपाद्यत इत्यैक्यासिद्धिः। तेन क्वचित्पक्षे पुरुषविद्ययोरभावादैक्यासिद्धिः पक्षान्तरे तु तयोरूपदिभेदादैक्यासिद्धिरित्यैक्यनिराकरणार्थमिदमधिकरणं सङ्गच्छते। तदिदं सर्वमभिप्रेत्याह-- तिष्ठत्विति। द्वयोरपि पक्षयोर्भाष्यकारकल्पिताधिकरणप्रकारस्य सुघटतैव वर्तते। तर्हि कोऽयं परमार्थ इत्याशङ्क्य यथासम्प्रदायमभिधीयताम्, असाम्प्रदायिकपक्षो न संग्राह्र इति सामान्यतः प्राह-- सम्प्रदाय इति। युक्तियुक्तत्वात् प्राक्तन एव परिग्राह्र इत्यर्थः।।

3.3.10

1. ब्राहृविद्यासन्निधिसमाम्नानात् ब्राहृविद्याङ्गत्वं पुरुषविद्याया उक्तम्, इदानीं पुनब्र्राहृविद्यासन्निधिसमाम्नातानां ' शन्नो मित्रः ' इत्यादिमन्त्राणां ब्राहृविद्याङ्गत्वं स्यादिति शङ्कया सङ्गतिः। तदर्थविचारस्तु-- किमुपनिषदारम्भेष्वधीताः 'शुक्रं प्रविध्य ' ' शन्नो मित्रः ' इत्यादयो मन्त्राः प्रवग्र्यादीनि च कर्माणि विद्याङ्गमुत नेति। किमेषां श्रुतिलिङ्गवाक्यैः कर्मस्वेव विनियोगः, उत ब्राहृविद्यायां प्रकरणाद्विनियोगः। किमेषां प्रकरणपाठोऽङ्गत्वाय उत दिवाकीत्र्यारण्यानुवाक्यतायै। अत्र पूर्वपक्षमाह-- युज्येरन्निति। 'शन्नः ' इत्यादिमन्त्रा ब्राहृविद्यापरिसरपठितत्वात् तेषां विद्याशेषत्वाविशेषाच्च सर्वविद्यास्वपि शेषत्वेन युज्येरन्निति। तदेतत्प्रतिक्षिपति-- नेति। तत्र हेतुमाह-- तदुदितेति। अयमर्थः-- लिङ्गात् तत्तत्कर्मशेषत्वं प्रतीयते, सन्निधेब्र्राहृविद्याशेषत्वम्, तत्र लिङ्गसन्निध्योर्लिङ्गस्यात्यन्तबलीयस्त्वं सर्वेषामपि सम्मतम्। तत्र ' शन्नो मित्रः ' इत्यादिमन्त्रस्य ' नमो ब्राहृणे ' इत्यादिना लिङ्गेनाध्ययनशेषत्वस्य स्पष्टद्दष्टत्वादत्यन्तकनीयसा सन्निधिना कल्पनीयं ब्राहृविद्याशेषत्वे 'शुक्रं प्रवीध्य ' इत्यादिमन्त्रस्यापि ब्राहृविद्यासन्निधिसमाम्नातस्य ब्राहृविद्याशेषत्वं स्यात्। तत्त विरुद्धमेव ' शुक्रं प्रविध्य ह्मदयं प्रविध्य ' इति परपीडाप्रार्तनात्मकस्य कर्मणो ब्राहृविद्याविरोधित्वेन तदङ्गत्वकल्पनायोगात्, लिङ्गतो दुर्बलत्वाच्च सन्निधिसमाम्नानस्य। तेन न ब्राहृविद्याशेषत्वमिति कथं सर्वविद्याङ्गत्वकल्पनं योयुज्येत।।

3.3.11

1. अत्र ब्राहृविद्यासन्निधिसमाम्नातानां 'शुक्रं प्रवीध्य ' इत्यादीनां ब्राहृविद्यानङ्गत्वमुक्तम्। तथा सन्निधिसमाम्नातहानोपायनचिन्ता अनन्तरं प्राप्तेति सङ्गतिः। अथवा 'शुक्रं प्रवीध्य ' इत्यादिमन्त्राणां लिङ्गात् तत्तत्कर्मशेषत्वमुक्तम्, इह पुनरूपायनस्य प्रहाणविषयत्वरूपार्थसामथ्र्यलिङ्गात् उभयोरन्योन्यान्वयनियमेवोभयोरुभयत्रानुसन्धेयत्वमुच्यत इति सङ्गतिः। तदर्थविचारस्तु-- ' अश्व इव रोमाणि विधूय पापं चन्द्र इव रोहोर्मुखात् ' 'तथा विद्वान्पुण्यपापे विधूय ' इति क्वचित् सुकृतदुष्कृतयोर्हानिचिन्तनमाम्नातम्, 'सुह्मदस्साधुकृत्यां द्विषन्तः पापकृत्याम् ' इत्युपायनचिन्तनं क्वचिदाम्नातम्, क्वचिदुभचिन्तनम् ' तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम् ' इति, तत्र किं

हानिचिन्तनोपायनचिन्तनोभयचिन्तनानि समुच्चीयेरन् उत विकल्पेरन्निति। किमुपायनं हानिशेषतया विद्याङ्गमुत स्वतन्त्रतयेति। कुमुपायनवाक्यं शाखान्तराधीतमपि हानिवाक्यशेषभूतं उत स्वतन्त्रम्। किं कौषीतकीनामुभयाम्नानमुपायनवाक्यस्य हानिवाक्यशेषताविरोधि नेति। अत्र विषयं विशोध्य उद्ग्रन्थमेव पूर्वपक्षं निराकुर्वन् सैद्धान्तिकमर्थं सम्यगेव प्रमाणन्यायाभ्यामुपपादयति-- शाखे द्वे इति। अयमत्र शब्दान्वयः-- द्वे शाखे मुक्तिभाजः पुरुषस्य पुण्यपापप्रहाणं क्वचित् कथयतः। अन्या पुनः शाखा प्रियतदितरयोर्दारसंक्रान्तिकाले पुण्यपापप्रवेशं ब्राूते। प्रियप्रिययोः पुण्यपापसङ्क्रान्तिमाचष्टइत्यर्थः। क्वचित् शाखायां हानञ्चोपायनञ्च समुच्चित्य कथितमिति अन्यत्र

पृथगाम्नातयोस्तयोस्सम्पर्क एव न्यायानुगृहीतप्रमाणविषयत्वेन सिध्यति। असन्निहितानां शाखान्तरश्थानां वाक्यानामन्योन्यान्वयसिद्धिः कथं स्यादित्याशङ्क्य सर्वशाखाप्रत्ययन्यायमेव प्रागुक्तमिह प्रत्यभिज्ञापयति-- वाक्यमिति।।

2. पूर्वं हानोपानयोर्वैकल्पिकत्वं पूर्वपक्षिणोक्तं प्रमाणतर्काभ्यां परिह्मतम्, तर्हि मा भूत् तयोर्वैल्पिकत्वम्, तथापि तच्चिन्तने वैकल्पिकत्वं स्यादित्याशङ्क्य तदपि नेत्याह-- इत्थमिति। अयमत्र शब्दार्थः-- इत्थं ब्राहृज्ञानं कर्मत्यजनं कर्मप्रहाणं प्रियाप्रिययोस्सङ्क्रानातिसम्पृक्तमस्तु नाम। चिन्तायां पुनव्र्यवस्था विकल्प एव भवतु। कुत

इत्यत्राह-- पृथगनुपठनादिति। तत्प्रतिक्षिपति-- असदिति। सर्वत्रैकरूप्येण कल्पने सम्भाव्यभाने सत्यपि वैरूप्येण कल्पनाया अन्याय्यत्वादित्यर्थः। तदिदमाह--क्लृप्तिदौस्स्थ्यादिति। वैरूप्यकल्पनाया अन्याय्यत्वमेव विशदं प्रकाशयति-- सर्वेषामिति। सर्वेषामपि मुक्तिभाजां द्वितयमपि हानमुपायनमुभयमपि यथोपासनं साध्यं समानमेव। एवं हानमुपायनञ्च पुण्यपापयोरस्तीत्युक्तम्। तद्वत् हानोपायनचिन्ताच ब्राहृविन्माहात्म्यविद उपासकस्याधिकारिणः कर्तव्येत्युभयत्र हानोपायनयोरपि चिन्ता स्वीकार्या। यथोपासनं फलप्राप्तिरिति नियमेन हानोपायनचिन्ताऽभावे हानोपायनरूपफलप्राप्तेरयोगात्। लोके खलु इष्टानिष्टचिन्तयोरिष्टानिष्टफलप्राप्तिस्स्वफलमेवेति हि सर्वे मन्यन्ते। अतो हानोपायनयोब्र्राहृविद्याफलत्वात् उपासनदशायां फलचिन्तनं कर्तव्यमेवेति निर्णयः। श्रूयते हि उपासनदशायां फलचिन्तनम्, 'ब्राहृलोकमभिसम्भवानि ' एतमितः प्रेत्याभिसम्भवितास्मि ' इत्यादि। ' विष्णुर्जयतु नासुरः ' इति ब्राहृविदां विष्णुभक्तिविरोधिनिराकरणं प्रार्थनीयतया फलमेवेति सुप्रसिद्धमेव।।

3. नन्वत्र प्रियाप्रिययोस्सुकृतदुष्कृतसङ्क्रान्तिरुपदिष्टा सेयं विरुद्धैव, नह्रन्येन कृतं कर्मान्यत्र सङ्क्रामति, नह्रन्यकर्मफलमन्यत्रोत्पद्यते, अकृताभ्यागमकृतविप्रणाशप्रसङ्गात्, तेन विरूद्धमेतद्भवदुक्तमित्याशङ्कते-- कत्र्रेति। अयमत्र शब्दान्वयः-- यः करोति कर्म तेनैव कत्र्रा तत्फलं भोग्यमिति कर्मकाण्डे स्थापितम्। द्दश्यते हि 'शास्त्रफलं प्रयोक्तरि ' इति। तस्मात् ब्राहृज्ञकर्म शात्रौ मित्रे वा सङ्क्रामतीति न घटते। तदिदं प्रतिक्षिपति-- अयुक्तमिति। विद्यामाहात्म्य इति-- अयमर्थः-- न ह्रस्माभिब्र्राहृविन्निष्ठपुण्यपापयोः प्रियाप्रिययोस्सङ्क्रान्तिरुच्यते, नापि प्रियाप्रियफलयोस्सुह्मदि दुह्मदि वा जननम्, अपि तु स्वकर्मफलमेव सुह्मदां दुह्मदामप्युच्यते। यो हि ब्राहृविद्विषये प्रीणाति यश्च तस्मै द्रुह्रति तयोरूभयोरपि स्वाचरितस्य सुकृतस्य दुष्कृतस्य च निष्फलत्वोयागात् स्वकीयकर्मफलमेवोच्यते। तर्हि स्वकर्मफलभोगे कर्मफलसंक्रान्तिवचनं कथं स्यात् ? तदिदमवहितमनाश्श्रृणु, अन्यकर्मणोऽन्यत्र संक्रान्तेरयोगात् अन्यककर्मफलस्यान्यत्र जननायोगाच्च न कर्मसंक्रान्त्यतिदेशो नापि फलजननातिदेशः, अपि तु तत्तत्कर्मफलपरिमाणमोवोच्यते। परमकारुणिकेन भगवता यावत्पुण्यफलमध्यात्मवित्सु न दत्तं तावत्पुण्यफलमध्यात्मविदनिकूलषु स्वकृतानुकूल्यफलतया दीयते. यावत्पापफलमध्यात्मवित्सु न दत्तं तावत्पापफलमध्यात्मवित्प्रतिकूलेषु स्वकृतप्रातिकूल्यफलतया दीयत इति। तेनाध्यात्मविदनुकूलप्रतिकूलयोर्दीयमानफलपरिमाणप्रदर्शनमात्रमत्रोच्यते न पुनरन्यकर्मणामन्यत्र संक्रान्तिरिति सर्वं समाहितम्।।

3.3.12

1. सङ्गतिर्भाष्ये ' सुकृतदुष्कृतयोर्हानमुपायनञ्च सर्वसु विद्यासु चिन्तनीयमित्युक्तम्। तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये ' इति। तदर्थविचारस्तु-- किं सुकृतदुष्कृतहानं देहवियोगकाले ऽध्वनि च, उत देहवियोगकाल एवेति। किमुभयत्र हानिश्रवणं उत देहवियोगकाल एवेति। किं ' स एतं देवयानं पन्थानमापद्यग्निलोकं गच्छति' इत्युपक्रम्य ' स आगच्छति विरजां नदीं तां मनसात्येति तत्सुकृतदुष्कृते धीनुते ' इतिचरमश्रुतस्य ' तत्सुकृतदुष्कृत धूनुते ' इति वाक्यावयवस्य ' स एते देवयानम् ' इत्येतस्मात् प्रागन्वयः, उत यथापाठमन्वय इति। किं ' अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इत्यशरीरस्य सुखदुःखाननुभवश्रवणानुरोधेन प्रागन्वयवर्णनं न्याय्यम्, उत देवयानगमनश्रवणानुरोधेन सूक्ष्मशरीरस्थित्यर्थं यथापाठमन्वयवर्णनं न्याय्यमिति। अत्रवर्णनं न्याय्यमिति। अत्र पूर्वपक्षी मन्यते-- ताण्डिनो हि

देहवियोगकाले सुकृतदुष्कृतविधूननमधीयते ' अश्व इव रोमाणि विधूय ' इत्यादिना। कौषीतकिनस्तु ' स आगच्छति विरजां नदीं तां मनसात्येति तत् सुकृतदुष्कृते धूनुते' इति विरजातरणानन्तरं सुकृतदुष्कृतविधूननं तच्चिन्तनमपि ब्राहृविदा कर्तव्यं तथैवांशेनास्त्विति। तदिदमाह--कर्मोद्धूतिरिति। शब्दान्वयस्तु-- क्वचिदुपनिषदि कर्मविधूननं मुमुक्षो

देहवियोगकाले श्रूयते अन्यस्यामुपनिषदि मार्गे, तेन द्वयमपि प्रमाणम्। शकलशो द्विधैवमस्तु केषाञ्चित् कर्मणां देहवियोगकालेऽपरेषां मार्ग इति चिन्तनमपि शकलशोऽस्त्विति। तदिदं प्रतिक्षिपति माभूदिति। तदेव विवृणोति-- न हीति। यदि मार्गे किमपि फलमुक्तं स्यात् तदा तत्फलार्थं कर्मावशेषोऽस्तीति वक्तुं शक्येत मार्गानुभाव्यफलाभावात् सफलं कर्म सर्वमपि साम्पराये नश्यतीत्यर्थः। ननु यदि सर्वं कर्म देहावसाने नश्येत्, तर्हि अर्चिरादिमार्गेण गमनमेव न स्यात् तथाच निरर्थक एवाध्यात्मविदां प्रयास

इत्याशङ्क्य परिहरति-- अथेति। मुक्त्यै गत्यर्थदेहानुवृतिं्त ब्राहृविद्यैव कुर्यात्। तर्हि द्वयोः प्रमाणयोस्तुल्यबलत्वात् कथं देहावसान एवेति नियम इत्याशङ्क्य पाठक्रमादर्थक्रमस्य बलीयस्त्वेन देहावसाने कर्मक्षयस्यार्थक्रमप्राप्तत्वात् पाठक्रमप्राप्तं मार्गे कर्मक्षयं बाधित्वा अर्थो वण्र्यत इति न कश्चिद्विरोधः।।

2. स्यादेतत् निश्शेषं कर्म विदुषो यदीहैव नश्येत् तदा 'तस्य तावदेव चिरम् ' इति वाक्यं स्थूलदेहान्तमात्रे विश्राम्येत्। तथा च तदानीमेवासौ मुक्तस्स्यात्। एवञ्च सति अर्चिरादिगमनस्य प्रयोजनवत्त्वं न स्यात्। नचार्चिरादिगमनं नास्तीति वक्तुं शक्यम् ; ' परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते 'इत्यर्चिरादिमार्गण गत्वा परमपुरुषप्राप्त्यनन्तरमेव मोक्षस्याम्नातत्वात्। तत् कथं स्थूलदेहावसाने निश्शेषकर्मविलोप इति कस्यचित् शङ्का। तदिदमनुवदति-- निश्शेषमिति। उक्तशङ्कां निराकरोति-- अयुक्तमिति। अयुक्तत्वमेवोपपादयति-- स्यादिति। अयमर्थः-- सुखदुःखादिफलप्राप्तिहेतुः कर्मकलोपो देहावसाने यद्यपि विश्रान्तः, तथापि परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पत्तिपर्यन्तं ज्ञानसङ्कोचमात्रहेतुसूक्ष्मकर्मशेषोऽनुवर्तते। कथमेतदिति चेत् ' परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ' इति श्रुतिसामथ्र्यात्। नहि स्वाभाविकज्ञानवतः पुरुषस्याकारणक एव तावन्तं कालं ज्ञानसङ्कोच इति वक्तुं शक्यते। न च तस्य भगवन्निग्रहशेषमन्तरेण कारणान्तरमस्तीति। तेन भगवन्तं प्राप्तस्यैवासङ्कुचितब्राहृानुभवरूपमोङसिद्धेस्साक्षादेव श्रुतत्वादनुक्रमेणैव भगवन्निग्रहनिवृत्तिरिति सिद्धम्।।

3.3.13

1. पूर्वाधिकरणे स्थूलदेहावसान एवार्चिरादिमार्गोपक्रमे स्थूलसर्वकर्मक्षयः, सूक्ष्मसंस्कारशेषेण परं ज्योतिरुपसम्पन्नस्यैव स्वेन रूपेणाभिनिष्पत्तिरित्युपक्षिप्तम्। तत्र प्रस्तुतोऽयमर्चिरादिमार्गो यस्यां विद्यायामधीतस्तद्विद्यानिष्ठस्यैव स्यात् किं वा सर्वविद्यानिष्ठस्येति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु-- किमर्चिरादिगतिः पञ्चाग्निविद्यानिष्ठानामेव उत सर्वविद्यानिष्ठानामिति। तदर्थं विचार्यते-- किं पञ्चाग्निविद्यायां 'य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति ' 'तद्य इत्थं विदुर्येचेमे ऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति ' इतीतरानपि चोद्दिश्यार्चिरादिगतिविधिश्श्रूयते उत पञ्चाग्निविद्यानिष्ठानेवोद्दिश्येति। किं श्रद्धासत्यतपश्शब्दैरुपास्यब्राहृोपस्थापनमुखेनात्रोपासनान्तरप्रतिपत्तिरस्ति नेति। किमुपकोसलविद्यायां ' आचार्यस्तु ते गतिं वक्ता ' इति गत्यनुवाद उपासनान्तरप्रतिपत्तिमुपोह्बलयति नेति। तत्र शङ्कापूर्वकं पूर्वपक्षमुपन्यस्य सिद्धान्तमपि प्रकटयति-- पन्था इति। भाष्योक्तं संशयस्वरूपं प्रथमं दर्शयति। इदं हि भाष्यवाक्यं ' उपकोसलादिषु येषूपासनेष्वर्चिरादिगतिश्श्रूयते किं तन्निष्ठानामेव तया ब्राहृप्राप्तिः

उत सर्वेषां ब्राहृोपासननिष्ठानाम् ' इति। अत्र प्रारभ्येत्यादिना पूर्वपक्षं दर्शयति। अयमर्थः-- उपकोसलादिविद्याविशेषं प्रारभ्य यत्रयत्रार्चिराधाम्नानं तत्रतत्रैव स्यादर्चिरादिगतिः तदनुसारात् तच्चिन्तनमपि तथा नान्यत्रेति। तदिदं प्रतिक्षिपति-- नेति। तदेव विवृणोति--सर्वासामिति। अयमर्थः-- पञ्चाग्निविद्यायां ' तद्य इत्थं विदुः ' इति पञ्चाग्निविद्यानिष्ठाननूद्य ' ये चेमे ऽरण्ये ' इति विद्यान्तरनिष्ठांश्चानूद्यार्चिरादिमार्गो विधीयते,तेन सर्वासामपि विद्यानामर्चिरादिमार्गः फलतया साधारण एव तेन ब्राहृविद्यानिष्ठानां फलचिन्तनस्यावश्यम्भावित्वात् अर्चिरादिमार्गचिन्तनमपि तद्वदेव मार्गवदेव साधारणं स्यादिति। नहि फलानुसन्धानमन्तरेणोपायनिष्ठानामुपासनं सम्भवति। अत एव ' ब्राहृलोकमभिसम्भवानि ' इति चिन्तनमवश्यकर्तव्यत्वेन प्रतिपादितमिति पूर्वमपप्युक्तमस्माभिः।।

2. गतिचिन्तनादेरवश्यकर्तव्यत्वं भगवद्वाक्यपरामर्शेनाप्युपपादयति-- हेयोपादेयेति। अयमर्थः-- हेयमार्गो धूमादिमार्गः। उपादेयमार्गः पुनरर्चिरादिमार्गः। उभयमपि मार्गमुपदिशन् मुक्तिदाता भगवान् ' नैते सृति पार्थ जानन् योगी मुह्रति कश्चन ' इति गतिचिन्तनस्यावश्यकर्तव्यत्वमगायत्। तस्मादस्माद्दशाध्ययनाविशदार्थविशदीकर्तुर्भगवतो वाक्यावमर्शात् ब्राहृप्राप्त्युपयुक्तकृत्स्नार्थप्रणिहितविहितम्। प्रणिहितं प्रणिधानं भावे निष्ठा। अयमत्र निर्णयः-- न केवलमत्र

मार्गचिन्ताविधानमुच्यते अपि तु ब्राहृप्राप्त्युपयुक्तं यद्यदत्र प्रामाणिकमुपलभ्यते तत्सर्वमपि चिन्तनीयं देहावसानसर्वकर्मक्षयाप्रियाप्रियसंक्रान्त्यर्चिरादिमार्गविरजातरणादिकं सर्वमपि फलत्वादुपायदशायां

चिन्तनीयमिति।।

3. अत्र सूत्रकारैर्हानोपायनाभिधानस्य पादासङ्गतिमाशङ्क्य परिहरति-- हानादेरिति। अयमत्र पूर्वपक्षिणो भावः-- हानोपायनादिचिन्तनं विद्याङ्गमेव, अङ्गं च निरूपणीयमुत्तरत्र विद्याङ्गपादे, अयञ्च पादो विद्यास्वरूपोपतेशपरः, तस्मादत्र कथं सङ्गतिरिति। हानादेरर्चिरादेरपि सूत्रकारैश्चिन्तनं किमर्थमिहाभिहितम्? विद्याङ्गत्वसिद्ध्यै चेत् तदा अनन्तरे विद्याङ्गपादे भवतु नात्रेति। इमामाशङ्कां प्रतिक्षिपति-- मैवमिति। अत्रैव गतिचिन्तनादिसूत्रस्य स्थानपातित्वमस्त्येव। कुतइत्यत्राह-- विद्याङ्गतायामिति। गतिचिन्तनादेर्विद्याङ्गत्वे सत्यपि भजनमिव साधनभूतमुपासनमिव उपासनाङ्गभूतमिदञ्च गतिचिन्तनादिकमपि कर्मादिभ्यो विभक्तं इति कथयितुमिह तत्सूत्रणं स्थानपातीत्यन्वयः। अयमत्र भावः-- विद्याङ्गानि कानिचित् ज्ञानरूपाणि, कानिचित् क्रियारूपाणि, ज्ञानरूपाणां गतिचिन्तनादीनां प्रधानभूतविद्यातुल्यत्वप्रदर्शनार्थमिह तच्चिन्तनम्, इतरेषां कर्मरूपाणां प्राचुर्येण विद्याङ्गपादे चिन्तनमिति विभागः। तेन गतिचिन्तनादेस्स्थान एवाभिधानमिति नास्थानपातित्वशङ्कावकाशः।।

3.3.14

1. पूर्वमरिचिरादिगतेस्सर्वविद्यासाधारण्येन श्रुतत्वात् तच्चिन्तनस्यापि न्यायप्राप्तं सर्वविद्यासाधारण्यं प्रतिपादितम्, अधुना पुनरक्षरधियां सर्वविद्यासाधारण्यं न वेति चिन्त्यत इति सङ्गतिः। पूर्वाधिकरणे प्रकरणं पूर्वपक्षहेतुः, अत्रापि तथेति वा सङ्गतिः। तदर्थविचारस्तु-- बृहदारण्यके गार्गिब्रााहृणे ' एतद्वै तदक्षरं गार्गि ब्रााहृणा अभिवदन्त्यस्थूलमनण्वह्यस्वम् ' इत्याद्यस्थूलत्वादिकं तत्रैवोपसंहार्यमुत सर्वासु विद्यास्विति। तदर्थं विचार्यते-- किं निषेधरूपाणामस्थूलत्वादीनामेव ब्राहृासाधारणाकारतया ब्राहृस्वरूपनिरूपकत्वमुत केवलज्ञानानन्दादीनामित। किमस्थूलत्वादिकं विना शङ्कितकृत्स्नदोषव्यावृत्तिप्रतीतिरस्ति नेति। अत् पूर्वपक्षी मन्यते -- ननु गार्गिब्रााहृणादिषु क्वचिदेवाक्षरत्वादिकमाम्नातम्, यस्यां तु विद्यायां यावद्गुणजातमाम्नातं तावदेव तत्रोपसंहार्यं तत्प्रकरणपठतत्वात् ; अन्यथा सर्वं सर्वत्रोपसंहार्यमिति सद्विद्यादीनां गुणसङ्करस्स्यात्, ब्राहृस्वरूपप्रतिपत्तिस्त्वानन्दादिभिरेवेति प्रागेवोक्तम्, तेन किमनेनाजागलस्तनायमानेन ब्राहृस्वरूपप्रतिपत्तावक्षरत्वादिना गुणेनेति। तदिदमनुवदति-- यस्यामिति। अन्यत्रानुपसंहार्यत्वमाह- नान्यस्यामिति। तत्र हेतुमाह-- मानहानेरिति। सर्वस्यापि गुणस्य सर्वत्रोपसंहापस्स्यादित्यर्थः। एवं पूर्वपक्षमनूद्य दूषयति-- नेति। पूर्वपक्षप्रतिक्षेपप्रकारं विशदमेव दर्शयति-- हेतुत्वेति। अयमत्राभिप्रायः-- न केवलं ब्राहृगुणमात्रमत्रोच्यते, अपि तु कारणत्वाशङ्कितदोषपरिहारेण स्वरूपप्रतिपत्तिहेतुर्गुणविशेषः। स पुनरमलत्वम्, तेन सहितास्सत्यत्वादयोऽपि। तथाहि सत्यत्वं सविकारमचिद्वस्तु व्यावर्तयति। ज्ञानत्वं विलुप्तबुद्धिकं तत्संसृष्टं जीवम्। अनन्तत्वं पूर्वावधिमन्तं मुक्तम्। आनन्दत्वमपि परवादिपरिकल्पितं निरानन्दमीश्वरम्। तेनामलत्वेन नित्यो व्यावत्र्यते। यद्यप्यनन्तपदेनैवाणुस्वरूपो नित्योऽपि व्यावत्र्यते तथापि धर्मभूतज्ञानतो देकालाभ्यामानन्त्यस्य तस्मिन् विद्यामानत्वात् कथञ्चिदानन्त्यं वक्तुं शक्यते। अमलत्वं तु सर्वेषां व्यावर्तकमेव। नित्योऽपि परतन्त्रचेतनत्वात् संसारे स्वरूपयोग्यतावान् केवलं भगवदपचाररूपसहकारियोग्यताभावात् नित्यमेवासंसारी वर्तते। ईश्वरस्तु स्वतन्त्रचेतनत्वात् संसारे स्वरूपयोग्यतारहितः। तेनेदमेवामलत्वमीश्वरस्यासाधारणमेव। किञ्चेतरसंसरणनिवर्तकत्वमीश्वरस्यासाधारणम्, तच्चामलत्वमेव। तेव स्वयं मलरहितत्वात् इतरमलप्रतिभटत्वाच्च ईश्वर एवामल इत्युच्यते। तह्र्रमलत्वमेवास्तु किं सत्यत्वादिभिरिति चोद्यमवशिष्यते तच्चात्र नास्तीत्याह--हेतुत्वेति। द्वेधा हि लक्षणमभिधीयते एकेनैव विशेषणेन कृत्स्नालक्ष्यव्यावृत्तिर्तयेकः पक्षः, अपरस्तु नानाविशेषणैर्बुद्ध्यवतरणक्रमेणालक्ष्यव्यावृत्त्या लक्ष्यस्वरूपनिरूपणं क्रियते तदिदमिति भाष्यकाराभिप्रायः। अयमत्र शब्दार्थः-- कारणत्वेन वस्त्वन्तरनिष्ठदोषा आशङ्क्यन्ते। तेषां व्यपनयनं सत्यज्ञानानन्तानन्दामलपदैः क्रियते। तेन क्रमाद्दोषव्यपायप्रतिपत्तिः। प्रतिपत्तिसौकर्यार्थमनुक्रमादर्थविशेषप्रतिपत्तौ द्दष्टान्तमाह--आनन्देति। आनन्दमयाधिकरणेऽन्नमयप्राणमयमोनोमयविज्ञानमयानन्दमया उत्तरोत्तरं क्रमादेवाधिकत्वेन प्रतिपद्यन्ते। एवमत्राप्यनुक्रमेण सर्वाधिकत्वेन भगवान् प्रतिपाद्यते। तेन प्रथमत एवमलत्वेन भगवतस्सर्वाधिकत्व प्रतिपत्तौ किमेभिस्सत्यत्वादिभिर्विशेषणैरिति चोद्यं परिह्मतमेवेति। अस्य सार्वत्रिकत्वात्--- एतस्यानुक्रमबोधनन्यायस्य

सर्वलोकप्रसिद्धत्वादित्यर्थः।।

2. अत्र कश्चिच्चोदयति-- सत्यत्वाद्यैर्गुणैस्स्वरूपावगतिरभिहिता सर्वाविद्यानुवृत्ततया। तेन भूयोऽपि तत्तुल्यधर्मेष्वक्षरत्वादिष्विदमधिकरणं वृथैव स्यादिति। तदिदमनुवदति--सत्यत्वाद्यैरिति। अनुदितमर्थं निराकरोति-- नेति। निकातकणप्रकारमेव विवृणोति-- कैश्चिदिति। ' लब्धरूपे क्वचित् किञ्चित् ताद्दगन्यन्निषिध्यते ' इति न्यायेन वस्तुस्वरूपप्रतिपत्तौ विशेषणान्तरैस्सिद्धायां पश्चादेव व्यावृत्तिप्रतिपत्तः, तथा च वस्तुम्बरूपप्रतिपत्तोर्नोपकरोतीत्यनध्यक्षितन्यायः कश्चिन्मन्यते तत्प्रक्षणस्यात्रोपरोधार्थमिदमधिकरणं सफलमेवेत्यर्थः। अयमत्र भावः -- लोके कर्मव्यतिरिक्तत्वे सति जातिमात्राश्रयो गुण इत्यादौ व्यावृत्तिप्रतिपत्तिरपि गुणादिस्वरूपविशेषप्रतिपत्तावुपयुज्यते। तद्वदत्रापि ब्राहृस्वरूपप्रतिपत्तौ व्यावृत्तेः प्रतिपत्तिरुपयज्यते। तर्हि ' लब्धरूपे क्वचित्किञ्चित्ताद्दगन्यन्निषिध्यते ' इत्यस्य कोऽर्थः? केनापि प्रकारेण सिद्धे वस्तुनि इतरव्यवृत्तिरूपं प्रकारान्तरमपि प्रतीयत इति न कश्चिद्दोषः। अयमर्थः-- विधिनिषेधयोः पूर्वं विधिरूपेण केनापि प्रकारेण प्रतिपन्ने वस्तुनि पश्चात् निषेधप्रवृत्तिः न पुनरत्यन्ताप्रतिपन्ने इति।।

3. अत्र कश्चिदाह-- व्यावत्र्यानामनन्तत्वात् व्यावृत्तिरप्यनन्ता। तस्याः पुनरानन्त्ये तद्व्यावर्तकमप्यनन्तमेव वाच्यम्। तथा च कर्तुमेव न शक्यते । न ह्रशक्यं सागरतरणं कैश्चिदुपदिश्यते। अशक्यविधाने वाक्यस्याननुष्ठानलक्षणाप्रामाण्यप्रसङ्गादिति। तदिदमनुवदति-- व्यावत्र्येति। अयमत्र शब्दान्वयः-- व्यवत्र्यानन्त्यात् व्यावर्तनमप्यनन्तं स्यात् तेन तच्चिन्ता व्यावृत्तिचिन्ता किञ्चिज्ज्ञसाध्यपतया नोपदिश्येत।

तत्राशक्योपदेशे द्दष्टान्तमाह-- जलधितरणवदिति। तदिदं प्रतिक्षिपति--मैवमिति। प्रतिक्षेपप्रकारमेव दर्शयति-- तत्तदिति। द्रव्यत्वगुणत्वकर्मत्वादिसामान्यधर्मोपादाने नानन्तानामपि व्यक्तीनां यथा लोके निरासः एवमत्रापि प्रतिक्षेप्याणां धर्माणां सामान्यधर्मोपादानेन निरासस्स्यात्। अथवा एकेनैव विशेषणेन सर्वधर्मव्यावृत्तिस्सेत्स्यतीत्याह-अनवममिति। ' अनवमं ब्राहृ ' इत्येकेन विशेषणेनापरेषां प्रतिक्षेप्याणामवमानां संगृहीतिर्गृह्रतां संग्रहेणोपादानं स्वीक्रियतामित्यर्थः।।

3.3.15

1. हेयप्रत्यनीकत्वं ब्राहृणोऽसाधारणं चेत् अशनायाद्यतीतत्वविशिष्टं ब्राहृ स्यात्, प्राणितृत्वादिविशिष्टस्तु जीवस्स्यादिति शङ्क्या सङ्गतिः। तदर्थविचारस्तु-- ' यत् साक्षादपरोक्षाद्ब्राहृ य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व ' ' यदेव साक्षादपरोक्षाद्ब्राहृ य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व ' इति प्रश्नः उषस्तकहोलयोः। प्रतिवचनमपि ' यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ' इत्येकत्र ' योऽशनायापिपासे शोकं मोहम् ' इत्याद्यनयत्र। किमुभयत्र विद्यैक्यमुत विद्याभेद इति। किं पूर्वत्र जीव उपास्यः परत्र परः, उतोभयत्र पर एवेति। किं तत्र ' यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ' इत्यादिप्रतिपेक्षया च औपाधिके, उत निरूपाधिके इति। किं ' न द्दष्टेद्र्रष्टारं पश्यः, न मतेर्मन्तारं मन्वीथाः' इति पुनः-- प्रश्नप्रतिवचनपर्यालोचनया ' यः आत्मनोऽन्तरः'

' को ह्रेवान्यात् ' इति प्रतिपन्ने ब्राहृणो निरूपाधिकसर्वान्तरत्वप्राणनकर्तृत्वे प्रतीयेते नेति। किं 'न द्दष्टेद्र्रष्टारम् '

इति द्दष्टेज्र्ञानहेतुना द्रष्टारं ब्राहृ न मन्वीथा इति वाक्यार्थः, अहोस्वित् द्दष्टेरनुभूतेद्र्रष्टारं न मन्वीथा इति वा।

अत्र भाष्ये द्वौ पक्षावभिहितौ। एकत्र पक्षे क्वचिज्जीवपरत्वमाशङ्क्य सर्वत्र परमात्मपरत्वनिर्णयः। अन्यत्र उभयत्र परमात्मपरत्वे सत्यपि पूर्वत्र गुणभेदाङ्गीकारेण रूपान्तरविशिष्टब्राहृपरत्वम्, उतरत्र परमात्मासाधारणाशनायाद्यतीतत्वादिगुणानुबन्धाद्रूपान्तरविशिष्टपरमात्मपरत्वमित्याशङ्क्योभयत्रापि रूपाभेदादेकरूपपरमात्मपरत्वमिति निर्णीयत इति। अत्र द्वयोरपि पक्षपरकल्पनयोः कारणं वैषम्यञ्च दर्शयति-- सूत्रेति। पूर्वस्यां कल्पनायां सूत्रस्वारस्यलाभः कारणं ' भूतग्रामवत् ' इति जीवस्य दर्शनात्। उत्तरस्यां तु श्रुतिस्वारस्यलाभो हेतुः द्वयोरपि प्रश्नयोः ' साक्षादपरोक्षाद्ब्राहृ ' इति ब्राहृस्वरूपप्रश्नदर्शनात् । अयमत्र शब्दान्वयः-- सूत्रस्वारस्यलाभात् प्रथममसुभृतः जीवस्य पूर्वपक्षे निवेशः। सिद्धान्ते तु ब्राहृणो निवेशः। अयं तोकशङ्कापनुत्त्यै-- बालिशशङ्कापनोदनायेत्यर्थः। अथ तोकशङ्कापनुत्त्यै उत्तरामपि कल्पनाममनुवदति--साक्षादिति। ' यत्साक्षादपरोक्षाद्ब्राहृ ' इति ब्राहृशब्दानुविद्धं प्रश्नद्वयवाक्यं परामृशतां विदुषां अन्यशङ्कैव न स्यादिति विचार्य पूर्वत्रापरितोषात् अथानन्तरं भाष्ये परमात्मविषयतया पूर्वपक्षोऽपि

परिकल्पित इति।।

2. अत्र स्वाभिमतामुत्तरपक्षकल्पनां शिष्याणां सुखप्रतिपत्त्यर्थं पूर्वपक्षसिद्धान्तविभागेन विशदं प्रकाशयति-- यत्साक्षादिति।

अयमत्र शब्दान्वयः-- ' यत्साक्षात् ' इत्यमुष्मिन् वाक्ये ' यदेव साक्षात् ' इत्येतÏस्मश्च वाक्ये परं ब्राहृैव वेद्यमस्तु अथापि प्रतिवचनभेदो रूपं भिनत्त्यमेव रूपभेदात् विद्याभेदश्च सिध्यति। न केवलं रूपभेदात्, प्रष्टृभेदादपि विद्याभेदस्सिध्यतीत्याह-- विद्याभिदिति। प्रष्टृभेदोऽपि विद्यां भिनत्तीत्यर्थः। क्वचिदुषस्तः प्रष्टा, अपरत्र कहोलः। यदीति पूर्वपक्षानुवादं द्योतयति। तदिदं प्रतिक्षिपति-- नेति। तत्र हेतुमाह-अनूद्येति। ' यदेव साक्षादपरोक्षाद्ब्राहृ इति सावधारणमनूद्योषस्तेव श्रुतस्य पूर्वस्यैव ब्राहृणः पुनरनुयोगादित्यर्थः। तर्हि पश्चादुक्तमशनायद्यतीतत्वं विद्यां भिनत्तीत्याशङ्क्य तदपि न भनत्तीत्याह-- पश्चादुक्त इति। अयमर्थः-- पश्चादुक्तं ह्रशनाया द्यतीतत्वं पूर्वाधिकरणोक्तामलत्वान्तर्गतमेव। तच्चामलत्वं सर्वविद्यासाधारणत्वात् न विद्यां भिनत्तीति। अथवा द्वयोरपि प्रष्ट्रोस्साधारणत्वात् सब्राहृचर्येण सन्निहितयोस्साधारणत्वादित्यर्थः। एवं विद्यैक्ये सिद्धे विशदप्रतिपत्त्यर्थः प्रष्टृभेदो न विद्यां भिनत्तीति भावः।।

3. ननु भाष्ये सद्विद्याद्दष्टान्तेन साधारण्यमुपपादितम्, तत्र प्रष्ट्रैक्यमङ्कीकुर्महे तेन सर्वेषामप्युत्तराणां साधारण्यमस्तु नाम इह तु प्रष्टृभेदात् कथमुत्तरसाधछारण्यमित्यजानानस्य कस्यचिच्चोदकस्योक्तमेवार्थं विशदं प्रकाशयति-- सद्विद्यायामिति। अयमत्र भावः-- अस्तु नाम सद्विद्यायां प्रष्ट्रैक्यम्, अस्तु चात्र प्रष्टृभेदः,अथाप्युत्तरसाधारण्यमङ्गोकर्तव्यमेव, लोके ह्रेकमेवाचार्यमुद्दिश्य द्वयोः शिष्ययोरागतयोरेकार्थं पृष्टवतोरुपदेशवेलायामेकैकाभिमुख्येनोक्तमर्थद्वयं द्वयोरपि प्रतिपन्नमुपादेयमनुसन्धेयञ्च भवति। एवमत्राप्युभयत्राप्युक्तमुत्तरमुभयोरपि साधारणमेव। किं कारणमत्रेति चेत् तयोस्सब्राहृचर्यमेव। उभौ खलु सहैवागत्य पृष्टवन्तौ उभयमप्युत्तरं लब्धवन्ताविति लोकद्दष्टानुकूलमेतत्। अयमत्र शब्दान्वयः-- उपक्रमोपसंहारादि परामर्शेन विधिकत्वे प्रतिपन्ने सति सद्विद्यायां यथा प्रतिवचनभेदः प्रश्नभेदानुसारात् परामेव देवतां विशेष्यं प्रकटयति, तेनैव न्यायेन उषस्तः कहोलश्रुतमपि कहोलश्चोषस्तश्रुतमपि सङ्कलय्य प्रतिपदय् ध्यायेतां सर्वान्तरमेव ब्राहृ। ननूक्तस्सद्विद्यायामेकः प्रष्टेति विशेषः तेन तत्र विद्यैक्यमस्तु एवं तह्र्रत्रापि विशेषोऽस्ति यत् पुनस्सब्राहृचर्यमित्याह-- फलवदिति। यथा लोके श्रृण्वतां बहूनां सब्राहृचारिणां शास्त्रश्रवणवेलायां प्रत्येकचोद्यप्रशमनार्थः पृथगुपदेशस्सर्वसाधारणः,तथोषस्तः कहोलश्रुतं सङ्कलय्य स च कहोल उषस्तश्रुतं सङ्कलय्य द्वावपि सर्वान्तरं ब्राहृ ध्यायेतामित्युक्तं भवति।।

3.3.16

1. प्राणितृत्वादीनामशनायाद्यतीत्वानाञ्चैकधर्मिनिष्ठत्वात् विद्यैक्यं प्रतिपादितम्, अत्रत्वपतपाप्मत्वादिगुणाष्टकस्य च वशित्वादेश्च धर्मिभेदाशङ्कया पूर्वपक्षोत्थानमिति सङ्गतिः। तदर्थविचारस्तु-- ' अथ यदिदमस्मिन् ' इति दहरविद्यायां छान्दोग्ये अपहतपाप्मत्वादिविशिष्टमुपास्यं ब्राहृ, वाजसनेयके वशित्वादिविशिष्टमुतोभयत्रापहतपाप्मत्वादिविशिष्टमिति। तदर्थं विचार्यते-- किं वाजसनेयके ह्मदयायतनत्वसत्यसङ्कल्पत्वावान्तरविशेषवशित्वादिमुखेन सत्यसङ्कल्पत्वसहचारापहतपाप्मत्वादीनां प्रतिपत्तिरस्ति नेति। अत्र च्छान्दोग्यवाजसनेयकवाक्ययोर्विद्याभेदाभेदचिन्ता भाष्ये व्यक्तमुक्ता, न पुनस्ताण्डिनां वाक्यमुपात्तम्, अथापि तद्वावाक्यस्यापि न्यायसिद्धं ब्राहृविषयत्वमनूद्य भाष्योक्तामपि प्रक्रियां छान्दोग्यवाजसनेयकोयोरेकविद्यात्वप्रकटनीं निश्शेषशङ्कानिराकरणेन प्रकटयति-- आकाशमिति। अयमत्र वाक्यार्थः-- आकाशं ताण्डिनो ध्येयमधीयते वाजिनस्त्वाकाशशयितं पुरुषम्। तेन ताण्डिवाक्ये वाजसनेयकवाक्ये च विद्या भिद्येतेति कस्यचिच्चोद्यम्। तत् प्रतिक्षिपति-- नेति। तत्र हेतुमाह-- द्विविध इति। द्विविधोऽपि निर्देशो ब्राहृनिर्देश इति निर्णीतो यतः, अतस्ताण्डिवाजसनेयवाक्ययोर्नविद्याभेद इति सिद्धम्। अतः परं तु भाष्यानुक्रमेण च्छान्दोग्यवाजसनेयकवाक्ययोर्भेदचिन्ता सन्तन्यते-- सर्वाधारत्वपूर्वैर्भगवदसाधारणैर्गुणैस्सामगाकाशशब्दः 'दहरोऽस्मिन्नन्तर आकाशः ' इति च्छान्दोग्यस्थाकाशशब्दः परमात्मविषयः। वाजसनेयके तु ' य एषोऽन्तह्र्मदय आकाशस्तÏस्मञ्छेते सर्वस्य वशी सर्वस्येशानः ' इति वशित्वादिगुणोपेतस्य भगवत आकाशे शयानत्ववचनात् आकाशशब्दः परमात्माधारभूतसुषिरवाचकः। अत्र द्वयोरपि विद्ययो रूपभेदमाशङ्क्य परिहरति-- रूपं तु

नान्यदिति। छान्दोग्ये वाजसनेयके चोभयत्राप्यपहतापाप्मत्वादिगुणविशिष्टः परमपुरुष एवानुसन्धेयतयोच्यत इति रूपभेदो नास्तीति न विद्याभेद इति भाष्ये एव विस्तृतम्।।

2. अत्र च्छान्दोग्यवाजसनेकवाक्ययोरविरोधोपपादनप्रकारमुक्त्वा तेनैव प्रकारेण ताण्डिवाजसनेयकवाक्योयोरविरोधं सिद्धं कृत्वा तैत्तिरीयकोक्तदहरवाक्यमप्यनेनैव प्रकारेणोपपाद्यमित्याचष्टे---

छन्दोगानामिति।अयमर्थः--छान्दोगानामुपास्यं ब्राहृ अपहतपाप्मेद्युक्तगुणाष्टकजुष्टं प्रथितमेव।तच्च ब्राहृ अन्येषां वाजसनेयिनां वाक्ये वशित्वादिगुण घचतमिति रूपभेदोऽस्तु।अतो विद्याभेदोऽस्त्विति पूर्वः पक्षः।इमं निराकरोति--मैवमिति।निराकरोकरणप्रकारमाह--यत्तदिति।यत्तद्विशित्वादि गुणजातं तत् सत्यसङ्कल्पताया भेद एव।वशित्वं हि स्ववशे वर्तमानत्वं अथवा इतरान् स्ववशे वर्तयतीति निरुच्यते।तत् सत्ययङ्कल्पत्वमेव प्रकारान्तरेणोच्यते।तदिदमाह--तदिह भिदेति।इत्यैकाथ्र्यनिरूढम्-- छान्दोग्यवाजसनेयकवाक्यकवाक्ययोरैकाथ्र्यं निरूढमित्यर्थः। एवं ताण्डिवाजसनेयकवाक्यद्वयं निर्णीतम्। एवं तैत्तिरीयकस्थमपि दहरवाक्यं तद्वदेव छान्दोग्यवाजसनेयकवाक्यवत् विचारणीयमित्यर्थः।।

3. ननु दहराधिगहणे प्रागेव दहरवाक्यं निरूपितम्, तत् किमत्र प्रस्तूयत इत्याशङ्क्य प्रयोजनविशेषात् न पौनरूक्त्यमिति परिहरति-- नन्विति। दहराकाशः परमात्मासाधदारणगुमाद्यैः परमपुरुषएवेति दहराधिकरणे प्रागेवोक्तम्, अतः परमात्मव्यतिरिक्तार्थशङ्का नास्ति, तस्मादिदमाधिकरणं नोज्जिहीत इति कश्चिदाचष्टे। तत्प्रतिक्षिपति-- नेति। पौनरुक्त्याभावमुपपादयति-- व्योमातीतमिति। अयमर्थः-- व्योमातीतवादिनिराकरणार्थं पूर्वं दहराधिकरणं प्रवृत्तम्, दहराकाशः परमपुरुषः उपादानं तत उपरि किञ्चित् निमित्तं वस्त्वस्तीति वदन्तो व्योमातीतवादिनः पूर्वं प्रतिक्षिप्ताः, तेन तत्प्रतिक्षेपप्रधाने दहराधिकरणं , इदं पुनरधिकरणं विद्याभेदाभेदचिन्ताप्रधानम्, अतः प्रयोजनभेदान्नपौनरुक्त्यम्। पूर्वं प्रतिक्षिप्ता अपि व्योमातीतवादिनोऽत्र प्रसङ्गात् छिन्नमूलत्वं गमिता इति।।

3.3.17

1. पूर्वत्र सत्यकामत्वसत्यसङ्कल्पत्वादीनां गुणानामुपसंहार्यत्वमुक्तम्, एवमुद्गीथाद्युपासनानामपि नियमेनोपसंहार्यत्वं स्यादिति शङ्कोत्थानेन सङ्गतिः। तदर्थविचारस्तु-- ' ओमित्येतदक्षरमुद्गीथमुपासीत ' इत्यादिकर्माङ्गाश्रितोद्गीथाद्युपासनादीनि किं क्रतुषु नियमेनोपादेयानि उतानियमेन इति। तदर्थं विचार्यते-- किमेतानि क्रत्वङ्गोद्गीथादिमुखेन क्रत्वङ्गानि? उत गोदोहनादिवत् पुरुषार्थभूतानि ? इति । किं ' तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ' इत्यनियमदर्शनं गोदोहनादिवत् पुरुषार्थतामवगमयति नेति। ' यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ' इति अपापश्लोकश्रवणादिवत् किं फलार्थवादः, उत फलविधिरिति। अत्र ' यस्य पर्णमयी जुहूर्भवति ' इति पर्णमय्यधिकरणोक्तन्यायेन उद्गीथादौ क्रियाङ्गे भजनं कर्माङ्गं भवेत्। पर्णमय्यधिकरणेऽप्यव्यभिचरितक्रतुसम्बन्धिजुह्वादिमुखेन पर्णतादिकं क्रत्वङ्मित्येव हि निरणायि। तत्र यथा अपापश्लोकश्रवणादिकं फलं स्तुतिरेव, एवं ' यदेव विद्यया करोति ' इत्यारभ्य ' तदेव विर्यवत्तरम् ' इति फलोक्तिरर्थवाद एव स्यात्। उभयत्रापि ' यस्य पर्णमयी जुहूर्भवति ' ' यदेव विद्यया करोति '

इति वर्तमाननिर्देशस्याविशिष्टत्वात्। तदिदमाह--उद्गीथादाविति। उक्तमिमं पूर्वपक्षं प्रतिक्षिपति-- गोदोहनेति। ननु गोदोहनादौ प्रधानफलात् फलान्तरस्य पशोर्दर्शनादधिकृताधिकारत्वमङ्गीकृतम्, इदमेवाश्रित्यविधानमित्युच्यते इह तु खतमित्याशङ्क्यात्रापि फलान्तरदर्शनमस्तीति परिहार उच्यते-- स्वर्गादीनामिति। अयमत्र शब्दान्वयः-- क्रतुषु स्वर्गादीनामेव फलत्वम्, क्रत्वङ्गाश्रयोद्गीथाद्युपासनेष्वत्र वीर्यातिरेकः पूर्वोक्तफलादधिकमेव फलम् । तत्र वीर्यवत्तरत्वं नाम कर्मान्तरैरप्रतिबद्धफलकत्वम्। लोके हि कर्मफलं प्रबलकर्मान्तरफलैः प्रतिबध्यते। उद्गीथाद्युपासनं तु प्राचीनकर्मान्तरप्रतिबन्धवारमसामथ्र्यं करोतीत्युद्गीथाद्युपासनस्य वीर्यवत्तरत्वं फलमित्यर्थः। द्दश्यते हि लोके स्वभावतः कारणं स्वकार्यकरणमातनुते, प्रतिबन्धकमागत्य तच्छकिं्त निरुन्धे, उत्तम्भकं पुनर्मणिमन्त्रादिकं तामेव करणशक्तिमुत्तम्भयति। तेनायमर्थः-- उद्गीथाद्युपासनसहितं चेत् कर्म सहसैव स्वकार्यं कुर्यात्, नचेत् सहसैव न कुर्यादिति। तेनोद्गीथादिकं कर्माङ्गं प्रधानफलेनैव फलवत्त्वात्। उपासनं तु न कर्माङ्गम् ; प्रधानफलातिरिक्तविर्यवत्तरत्वरूपफलान्तरवत्त्वात्। पर्णतादिकं तु पृथक्फलशून्यत्वात्

अव्यभिचरितक्रतुसमबन्धिजुह्वादिमुखेन क्रत्वङ्गमेव। ननु ' यस्य पर्णमयी ' ' यदेव विद्यया ' इति वाक्ययोस्तुल्यतया फलश्रवणे कथमिह वैषम्यमभिधीयते ? इत्थम् । इदमवधानेनाकर्णयेथाः। विषमरूपत्वाद्वाक्यश्रवणस्य, क्वचिद्विद्ययेति तृतीया श्रुतिराकण्र्यते। सा च तृतीया फलसाधनत्वमेव साक्षादुपदिशति। पर्णतावाक्ये तु न तृतीयानिर्देशः। तेन तत्र न फलसम्बन्धः। तस्मादर्थवादमात्रमेव। तदिदं विशदमेव दर्शयति-- पर्णत्वादाविति। यदि करणत्वं न वदति किं तर्हि तत्राहेत्यत आह- कर्म चाहानुपास्ताविति। अनुपास्तौ उपासनव्यतिरिक्ते कर्मप्रयोगे अङ्गभूतजुह्वादेः परिग्रहरूपं कर्मैव

वाक्यं वदतीत्यर्थः। चोऽवधारणे कर्मैव वदतीति।।

2. अत्र कश्चिच्चोदयति-- उद्गीथे प्राणद्दष्टौ क्रतुफलादन्यदेव फलं वीर्यवत्तरत्वादिकं परामृशस्यैव पूर्वं ' अन्यथात्वं शब्दात् ' इत्यस्मिन्नधिकरणे विद्याभेदाभेदचिन्ता कृता। तेन पुनः फलान्तरार्थतया पूर्वपक्षोत्थानं विहतमेवेति। तदेतदनुवदति-- उद्गीथ इति। तदेतत् प्रतिक्षिपति-- मैवमिति। तदेव विवृणोति-- अत्रत्य इति। अयमर्थः-- उद्गीथविषये द्वावर्थावुपपद्यौ। अत्र पुनः फलान्तरार्थतया कर्मानङ्गत्वनिर्णयः। तत्र त्वनागतावेक्षणन्यायेन एतदधिकरणनिर्णीतमर्थमुपजीव्य विद्याभेदाभेदचिन्ता। ततो न पौनरुक्त्यम्। अयमत्र शब्दान्वयः-- अत्रत्येऽनङ्गभावे स्थिरनिहितधियः श्रोतुरधिकारिणस्तत्र विद्यैक्यशङ्का सा च परिह्मतेत्योकोऽयं समाधिः। समाधानान्तरमप्याह-- त्यक्त्वेति। अस्याङ्गानङ्गभावौ परित्यज्य विद्याद्वयं पृथगपृथगिति पूर्वत्र चिन्ता, तत्र विद्याद्वयस्य पृथक्त्वे निर्णीते विद्यायाः पृथक्फलत्वेनाश्रयिकर्मत्वमत्र केवलं समथ्र्यते।।

3.3.18

1. पूर्वधिकरणं प्रसङ्गादायतम्, अधुना तत्पूर्वदहरविद्याविषयनिरूपणमत्र क्रियत इति सङ्गतिः। तदर्थविचारस्तु--- ' तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् ' इति अपहतपाप्मत्वादीनामपि भेदेनोपासनं विहितम्, तत्र गुणचिन्तने गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयं नेति। तदर्थं विचार्यते- किं दहरमात्रचिन्तने गुणवद्दहरचिन्तनमपि कृतं नेति। अत्र कश्चिदाह-- ' य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् ' इति पृथगनुद्यानवचनबलात् धम्र्युपासनात् विभक्ता धर्मोपास्तिः। तदर्थं गुणिपरिगणनं धर्मोपासनार्थं धम्र्युपादानं तन्त्रतोऽस्तु एकवारमेवास्तु। अयमर्थः-- धम्र्युपासनार्थं धम्र्युपादाने कृते तदुपजीवनादेव धर्मोपासनार्थं पुनर्धम्र्युपादानं न कर्तव्यम्, पूर्वोपात्तधम्र्युपादानेनैवोत्तरोपासनेऽपि धर्मिसिद्धेरिति। तदेतत् सर्वमनुवदति-- कामानिति। तदिदं निराकरोति-- अयुक्तमिति। अयुक्तत्वमोवोपपादयति-- तत्तदिति। अपहतपाप्मत्वादिगुणगणविशिष्टोपासने तत्तद्गुणवैशिष्ट¬भेदात् प्रतिविधि तत्तद्गुणविशिष्टब्राहृोपासनविधाने सर्वत्रापि गुणिनोब्राहृणश्चिन्तनावृत्तिरथ्र्या अर्थादनपेता। तेन पूर्वं 'अनुविद्य ' इति विहितगुण्यनुसन्धाने एतांश्च सत्यान्कामाननुविद्य व्रजन्तीति तत्तद्गुणविशिष्टब्राहृानुसन्धाने गुण्यनुसन्धानं प्रत्येकमेव कर्तव्यमित्यर्थः। अस्मिन्नर्थे पूर्वकाण्डोक्तन्यायं द्दष्टान्ततया सूत्रकारोक्तं दर्शयति-- राजत्वाद्यैरिति। अयमर्थः-- ' इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत् ' इत्यादौ तत्तद्विशेषणविशिष्टेन्द्रे प्रदानाख्यं कर्मावृत्तम् । एवमपहतपाप्मत्वादिनानाविशेषणविश्ष्टे परस्मिन् ब्राहृणि स्थिते तस्यैव परस्य ब्राहृणः पौनः पुन्येनावृत्तिरर्थवतीति।।

2. अत्र कश्चिदाह-अत्र खलु द्विविधमुपासनमुक्तम्, निर्गुणस्वरूपोपासनमेकम्, गुणविशिष्टब्राहृोपासनमपरम्, इह च यथोपासनं फलमिति न्यायेन निर्गुणस्वरूपोपासनात् निर्गुणब्राहृप्राप्तिः, तदिदमुच्यते ' परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभनिष्पद्यते ' इति, सगुणोपासनात् पुनस्सगुणब्राहृप्राप्तिः, तदप्यत्रोच्यते ' जक्षत् क्रीडन् रममाणः ' इत्यादिना, तेन क्रममुक्तिमत्रोपकल्पयामः, ततस्सगुणोपबासनात् सगुणं प्राप्य निर्गुणोपासनात् निर्गुमपि प्राप्नोतीति। तदिदं सर्वमनुवदति-- तत्तद्भोगेति। तत् प्रतिक्षिपति-- असदिति। अयमर्थः-- अत्रोभयविधोपासनं भवता किं प्रमाणमनुसृत्य कल्प्यते उत न। नाद्यः- उपासनस्य सर्वस्यापि सगुणविषयत्वात्। न द्वितीयः-- अतिप्रसङ्गात्। असत्या एव गुणा इति चेन्न ' त इमे सत्याः कामाः ' इति तत्सत्यत्वस्यैवात्यादरेण प्रतिपादनात्। ' परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ' इत्येतस्मादनन्तरमेव ' जक्षत्क्रीडन् रममाणः ' इति सगुणफलत्य प्रतिपादनाच्च। पूर्वमेव निर्गुणवाक्यस्य हेयगुणनिषेधविषयत्वेन व्यवस्थापनादिति। तेन निर्गुणमेव नास्ति

कुतस्तस्योपासनं कुतस्तरां निर्गुणब्राहृप्राप्तिः कुतस्तमाञ्चोपासनफसवैविध्येन वाक्यार्थभेदपरिक्लृप्तिरिति। उक्तमेवार्थं वैशद्याय पुनरूपपादयति-- शास्त्रोऽस्मिन्निति। अस्मिन् शास्त्रे खलु ' अथातो ब्राहृजिज्ञासा ' इत्यारभ्य ' अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ' इति सूत्रपर्यन्तं निर्गुणब्राहृोपासनप्रसङ्ग एव नास्ति। इष्टमेवैतद्भवतां उपास्यत्वेन मिथ्यात्वप्रसङ्गात्। फलञ्च निर्गुणोपासने परिकल्पयितुं न शक्यते।

तत्फलं ब्राहृस्वरूपं चेदनादिसिद्धत्नादफलमेव। तस्मात् सगुणादेवोपासनात् फलसिद्धिः। तच्च फलं सगुणात्मकमेवेति सिद्धम्। मा भूत् शास्त्रे निर्गुणब्राहृोपासनम्, मा भूदपि तत्फलम्, अथाप्यस्मत्संप्रदायपारम्पर्यात् परिकल्पितमितिचेत् तत्रोत्तरमाह-- नोच्छास्त्रमिति। तिष्ठन्त्वेतानि दूषणानि, इदमेकं ब्राहृास्त्रम्। अयं खलु पादो गुणोपसंहारपाद इत नामतः प्रसिद्धः। अस्मिन्पादे गुणविषेधवचनं भवतामुमिमत्तप्रलपितमेवेत्याह--गुणनियमनत इति।।

3. एतस्मिन्नधिकरणे पूर्वपक्षोत्थानमाक्षिप्य समाधातुमुपक्रमते-- प्रत्येकमित्यादिना। ' अपहतापाप्मा' इत्यादिना प्रत्येकानुसन्धानम्। ' व्रजन्त्येतांश्च सत्यान् कामान् ' इत्यादिना मेलनानुसन्धानम्। यद्वा तद्वा भवतु। उभयथानुसन्धानेऽपि गुणिनमन्तरेण गुणानुसन्धानाभावात् ब्राहृानुसन्धानं स्वयमेव सिध्यति। अत्र गुण्यननुसन्धानं कथमिवाशङ्क्यते आशङ्काभावे कथमिवसमाधीयतइति चोदकाभिप्रायः। तदिदं प्रतिक्षिपति-नेति। प्रतिक्षेपप्रकारमाह-- गुणानामिति। गुणानां बुद्ध्यारोहे यदवधि चचगुणिनो रूपं सत्यत्वज्ञानत्वानन्तत्वादिरूपं अथ्र्यं अर्थादनपेतं तदवियुक्तमित्यर्थः। तत्क स्वयमेव सिध्यत्येव। ततोऽन्यत् यत् तत् विद्यैकान्तं स्थानादिरूपम्। तदावृत्तीति-- तस्य स्थानादेरावृत्तिसहितस्य ब्राह्ण आवृत्तिचिन्ताप्रवृत्तेरिति शब्दार्थः। अयमर्थः-- सर्वविद्यासाधारणसामान्यगुणातिरिक्ततत्तद्विद्याविशेषवियतस्थानादिविशेषणसहितस्यैव ब्राहृण आवृत्तिरिति।।

3.3.19

1. अत्र भाष्ये सङ्गतिरुक्ता ' किं पूर्वप्रकृतविद्यया एकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते ' इति पूर्वपक्षोत्थानक्रमाभिधानात्। तदर्थविचारस्तु-- किं सर्वासु परविद्यासु नारायण एवोपास्यः, उत दहरविद्यायामेव नीरा#ायण उपास्य इति। तदर्थ विचार्यते-- किं नारायणानुवाके सर्वविद्योपास्यविशेषनिर्धारणं क्रियते उत दहरविद्योपास्यविशेषनिर्धारणमिति। किमत्र ' पद्मकोप्रतीकाशं ह्मदयञ्चाप्यधोमुखकम् ' इत्यादिना प्रतीयमानदहरविद्योपास्यदहरोद्देशेन नारायणत्वं विधीयते, उत सर्वविद्यासु अक्षरशिवशम्भुपरब्राहृपरज्योतिःपरततत्त्वमादिशभ्दनिर्दिष्टमुपास्यं वस्त्विह तैरेव शब्दैरनूद्य नारायणत्वं विधीयत इति। किं ' पद्मकोप्रतीकाशम् ' इत्यादिह्मदयायतनत्वश्रवणानुरोधेन दहरोद्दे#ेन विधानं न्याय्यम्, उत विधेयनारायणत्वानुरोधेन लिङ्गभूयस्त्वेन सर्वोपास्योद्देशेन नारायणत्वविधानं न्याय्यमिति। अत्र सङ्गतिगर्भं पूर्वपक्षोपन्यासमाह-- प्रक्रान्तेति। ' अणोरणीयान् ' इत्यस्मिन्ननुवाके दह्यविद्या प्रक्रान्ता। ' सहरुाशीर्षम् ' इत्यनुवाकः पूर्वप्रकृतदहरविद्यावेद्यनिर्धारणार्थं इति पूर्वपक्षोत्थानम्। तद्दूषयति-- मैवमिति। पूर्वपक्षप्रतिक्षेपप्रकारं प्रकटयति-- तत्तदिति। श्रुतिलिङ्गवाक्यादिषु प्रमाणेषु उत्तरोत्तरदौर्बल्यस्य न्यायसिद्धत्वात् प्रकरणाद्वाक्यं बलीयः। ' नारायण परं ब्राहृ ' इति पदान्तरसमभिव्याहारो वाक्यम्। तच्च वाक्यं ' तत्त्वं नारायणः परः, नारायण परो ज्योतिः ' इत्यादिरूपं सर्वविद्यावेद्योपस्थापनं करोति। भवता पुनः प्रकरणादेव दहरविद्यामात्रशेषत्वमभिधीयते। तेन दुर्बलप्रमाणसिद्धं दहरविद्यामात्रशेषत्वं परित्यज्य प्रबलप्रमाणसिद्धं सर्वविद्याशेषत्मेव संग्राह्रमिति। तद्दमाह-- अधिकबलं प्रक्रियातो हि वाक्यमिति।।

2. ननु न केवलं प्रकरणमात्रमस्माभिरवसम्ब्यते, अपि तु दहरविद्याशेषत्वोपपादकलिङ्गमप्यस्मिन्वाक्ये द्दश्यते तेन तद्विरोधे सि वाक्याल्लिङ्गस्य प्राबल्यात् दहरविद्याशेषत्वमेवाङ्गीकार्यमित्याशङ्क्य परिहरति-- वाक्यैरिति। अयमर्थः-- यद्येकमेव वाक्यं तदा लिङ्गल्य प्राबल्यं वक्तुं शक्येतापि। अत्रतु बहूनि वाक्यानि विद्यन्ते, अतस्तेषामेव प्राबल्यम्। नच तानि लिङ्गेन विरुध्यन्ते। सर्वविद्याशेषत्वमेव हि वाक्यैरुपपाद्यते। अत्रोपलक्षणन्यायेन कतिपयोपादानमिति सर्वविद्याशेषत्वसिद्धो दहरविद्यापि सर्वविद्यान्तर्गतेति तद्विद्याशेषत्वमपि वाक्यानामभिमतमेव। तेनोपशान्तविरोधं स्ववाक्ये दहरविद्याशेषत्वलिङ्गमविरोधेनावतिष्ठते। प्रकरणमपि दहरविद्याशेषत्वोपपादकं तच्छेषत्वलाभेन कृतार्थत्वात् सर्वविद्याशेषत्वप्रतिपादकवाक्यैः प्रबलैर्न विरुध्यते। किञ्च ' सहरुाीर्षं देवम् ' '

सहरुाशीर्षा पुरुषाः ' इति पुरुषनारायणप्रत्यभिज्ञारूपलिङ्गमुपक्रमस्थत्वादत्यन्तप्रबलमेव दृश्यते। तेन लिह्गादुपसेहारस्थात् न दहरविद्यामात्रशेषत्वसिद्धिः। अयमत्र शब्दान्वयः-- वाक्यैस्सर्वार्थतायामुपपादितायां दहरभजनमप्यत्रभागीति अस्मिन्नर्थे भागवदिति सार्थः कृतार्थतावान् अस्मिन्वाक्ये दहरविद्याशेषत्वोपपादकलिङ्गान्वितोभागः, तस्मादेव कृतार्थत्वात् लिङ्गस्य विरोध एव नास्ति। स्वाभिमतार्तलाभेन विरोधाभावात् लिङ्गमुदासीनमेवावतिष्ठते। एवं कृतार्थत्नेनोदसीनं लिङ्गं बहुभिस्तत्परैर्वाक्यैर्योद्धुं नालमेव। एवञ्च सति प्रकरणमपि स्वयमलसं स्वभावतो दुर्बलत्वात् दहर विद्याशेषत्वस्यापि लाभेन कृतार्थत्वाच्च। तेन नैकस्यास्य लिङ्गस्योपकरोति। नहि बहुषु विरुद्धेषु बलवत्सु विद्यामानेषु स्वयं कृतार्थत्वादलसस्य लिङ्गस्य स्वयमपि स्वभछावतो दुर्बलं कृतार्थत्वादलचसं च प्रकरणमुपकरोति। किञ्चोपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गपरामर्शेन वाक्यार्थे निर्णीते प्रतिपन्नमर्थान्तरं त्याज्यमेवेतिहि न्यायमार्गः। अत्र पुनस्सर्वविद्योपजीव्यत्वात् नारायणस्यैव परमप्राप्यत्वप्रतिपादनमिति स्फुटप्रतिपन्नमसंकुचितमर्थं परित्यज्य दहरविद्यामात्रशेषत्वं नोपपादनीयमिति सर्वविद्याशेषत्वमेव वाक्यस्येति सिद्धम्। अयमर्थः-- इदं तु वाक्यं न

केवलशेषत्वोपपादकम्। समन्वयाधिकरणे विधिशेषत्वमन्तरेणापि वाक्यप्रामाण्यस्योपपादनात्। अथापि सर्वविद्योपकारकमेव, परतत्त्वपरिज्ञानमन्तरेण तद्ध्यानस्य कर्तुमशक्यत्वात्। तेन प्रमाणबलात् सर्वोपजीव्यत्वसिद्धिरिति तत्परित्यागक्लृप्तिर्वितथैव।।

3. उक्तं नारायणस्यैव पारम्यं नानाविधपरपक्षप्रतिक्षेपपूर्वकं सम्प्रतिपन्नप्रमाणविशेषप्रतिपादनादुपपादयति-- आत्मैक्यमिति। सर्वेऽप्यात्मान एकमेवेति भास्करयादवप्रकाशशङ्करमतानुसारिणो वदन्ति। सर्वासां देवतानामैक्यामिति प्रशिथिलपरिपठितकतिपयनिगमाः पामरप्रायाः। त्रिमूत्र्युत्तीर्णं किमपि तत्त्वमस्तीति व्योमातीतवादिनः। केवलपुराणपठनमात्रसंतुष्टा विषेशज्ञानविधुरा ब्राहृविष्णुरुद्राणां तुल्यत्वमिति प्रतिपेदिरे। तादृशा एवान्ये पुनस्त्रयाणामैक्यमिति। अपरे पुनरयथायथमेव यथाभिमानं कल्पयन्तो भास्करादिष्वन्यतममेव सर्वस्मात्परं वर्णयन्ति। अनिपुणा एवैते। वेदविरोधात् स्मृतिविरोधात् सत्त्वोत्तरपुराणविरोधाच्च एतेषां फणितीस्तत्त्वविदो नाद्रियन्ते। तर्हि किं प्रमाणं भवतामित्याशङ्क्य प्रमाणोपादानपूर्वकं परतत्त्वनिर्णयमुपपादयति- त्रय्यन्तैरिति। एककण्ठैरिति सर्वश्रुत्यविरोधमाह। तदनुगुणेति सोपबृंहणत्वमाह। श्रीमानिति ' ह्यीश्च ते लक्ष्मीश्च पत्न्यौ ' इत्युत्तरनारायणोक्तनियमकलिङ्गं दर्शयति। नारायण इति अस्यैव नारायणानुवाकोपादानम्। पतिरिति ' पतिं विश्वस्य ' इत्यादिनानाविधश्रुतिप्रतिपन्नशेषशेषिभावव्यक्तीकरणम्। स एव हि प्रणवार्थः। प्रणव एव हि सकलवेदसारः ' सर्वे वेदा यत्पदमामनन्ति ' इत्यारभ्य ' तत्ते पदं संग्रहेण ब्रावीभ्योमित्येतत् ' इति निगमनात्। नः पतिरिति बहुवचनोपादानात् ' नित्यो नित्यानाम् ' इति श्रुतुसिद्धजीवनानात्वमुपपाद्यते। अखिलतनुरिति अन्तर्यामिब्रााहृणादिसिद्धमध्यात्मशास्त्रसारभूतं सर्वशरीरत्वमुच्यते। मुक्तिदो मुक्तभोग्य इति तृतीयचतुर्थाध्यायप्रतिपाद्यार्थतत्त्वमभिधीयते। मोक्षप्रदत्वं तृतीये मुक्तप्राप्यत्वं चतुर्थे इति तयोरर्थविभागः।।

3.3.20

1. प्रकरणाद्बलीयसा वाक्येन नारायणानुवाकस्य सर्वविद्यासाधारण्यमुक्तम्। इहतु प्रकरणस्य बाधकाभावात् मनश्चितादयः क्रियामयक्रत्वनुप्रवेशिन इति शङ्क्या सङ्गतिः। तदर्थविचारस्तु-- वाजसनेयके ' मनश्चितो वाक्चितः प्राणचितश्चक्षुश्चितश्श्रोत्रचितः कर्मचितोऽग्निचितः ' इति मनश्चितादयोऽग्नय आम्नायन्ते , ते किं क्रियमयक्रत्वन्वयेन क्रियारूपाः. उत विद्यामयक्रत्वन्येन विद्यारूपा इति। तदर्थं विचार्यते -- किमिष्टकचिताग्निसन्निधानात् तद् द्वारा सन्निहिते क्रतौ क्रियामये विनियोगोऽस्ति तेषामुत नेति। किं ' विद्यया हैवैत एवंविदश्चिता भवन्ति' दान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचन्वन्ति इति श्रुतिलिङ्गवाक्यैर्विद्यारूपक्रतौ विनियोगोऽवगम्यते नेति। किं ' मनसेषु ग्रहा अगृह्रन्त मनसास्तुवन्त

मनसाशंसन्' इति स्तोत्रशस्त्राद्यनुबन्धान्वयात् 'तेषामेकैक एव तावान्यावानसौ पूर्वः ' इत्यतिदेशात् फलसम्बन्धसम्भवात् विद्याविधिः कल्प्यः, उत विधिप्रत्ययाश्रवणात् वेदनाश्रवणाच्च न कल्प्य इति। अस्मिन्नधिकरणे सूत्रकारोक्तस्यार्थजातस्य भाष्यकारैरेव सुव्यक्तं विवृतत्वात् पूर्वपक्षत्सिद्धान्तस्वरूपोपपादनमात्रेण स्वयमपि किञ्चिदाष्टे। तेन भाष्य एवान्तेवासिभिरापादचूडमत्यन्तादरेणाधिकरणार्थश्चिन्तनीयः। अत्र हि मनश्चिताद्यग्नयः

पूर्वमिष्टकचिताग्न्यन्वयेन पूर्वप्रसक्तक्रियामयक्रत्वनुप्रवेशेन क्रियारूपाः, किं वा परिकल्पितविद्यामयक्रत्वनुप्रवेशेन विद्यारूपा इति चिन्ता। अत्र पूर्वपक्षाभिप्रायमनुवदति-- अङ्गमिति। पूर्वप्रसक्तेष्टकचितसमुपस्थपितस्य क्रतोरेव मनश्चितादिरप्यङ्गं स्यात्। अयमर्थः-- पूर्वमपि क्रियामयक्रतुर्नश्रुतः अथाप्यव्यभिचरितक्रतुसम्बन्धीष्टकचिताग्निश्रवणाबलात् परिकल्प्यत एव। तस्यैवात्र प्रकरणात् सन्निहितस्यैव क्रतोर्मनश्चितादिरपि विकल्पादङ्गमस्तु। तदिदमाह-- बुद्वीति। मनश्चित्प्रभृतिः स्वयं बुद्धयात्मापि अङ्गिसाकाङ्क्षत्वात् पूर्वप्रसक्तस्य प्रकरणोपस्थापितस्य क्रियामयक्रतोरेवाङ्गं स्यादित्यर्थः। ननु स्वयं ज्ञानात्मकं क्रियामयक्रतोः कथमङ्गमं स्यादित्याशङ्क्य तत्र दृष्टान्तमाह-- यथेति यथा द्वादशाहे मानसग्रहस्य क्रियामयक्रत्वङ्गत्वं तथात्रापि स्वरूपतो विद्यारूपाणामपि मनश्चितादीनां क्रियामयक्रत्वङ्गत्वं स्यादित्यर्थः। तत्र हेत्वन्तरमप्यस्तीत्याह-- तद्वीर्यस्येति। इष्टकचितादीनां वीर्यं मनश्चितादिष्वतिश्यते। तेनेष्टकचितादीनां यथा क्रियामयक्रतूपकारसामथ्र्यम्, एवं मनश्चितादीनामपि तत्सामाथ्र्यान्वयस्य विद्यामानत्वात् क्रियामयक्रत्वनुप्रवेशेन इत्यर्थः। तदिदं निराकरोति-- न सदिति। तदेतदुपपादयति-- उदित इति। अयमर्थः-- स्ववाक्ये विद्यामयक्रत्वभावे हि पूर्ववाक्यपरिकल्पितक्रियामयक्रत्वनुप्रवेशे मनश्चितादीनां सापेक्षत्वं

स्यात्। स्ववाक्य एव श्रूयमाणानुबन्धादिपरिकल्पितो विद्यामयक्रतुरस्ति। तेन स्ववाक्यस्थं विद्यामयक्रतु हित्वा पूर्ववाक्यपरिकल्पितेन क्रियामयक्रतुना मनश्चितादयस्सम्बध्यन्त इति न कल्पनीयमिति। श्रुत्याद्यैरिति-- स्ववाक्ये विद्यामयक्रतुरस्तीति श्रुतिरोवोपपादयतीत्यर्थः। तर्हि क्रियामयक्रत्वनुप्रविष्टानामिष्टकचितानां सामथ्र्यातिदेशादत्रापि मनश्चितादीनां क्रियामयक्रत्वनुप्रवेशो ह्रवश्यमङ्गीकर्तव्य इति मयैवोक्तं तत्र कुमुत्तरं दत्तमित्याशह्क्याह-- उपकृतीति। अयमर्थः-- अतिदेशो हि साम्याद्भवति, तेनेष्टकचितादीनां स्वाङ्गिभूतक्रियामयक्रत्वनुप्रवेशेन यत्सामथ्र्यमस्ति, तत्सामथ्र्यं मनश्चितादीनां स्वाङ्गिभूतविद्यामयक्रत्वनुप्रवेशेनैवास्तीति नातिदेशविरोधः।।

2. नन्वत्र भवता कल्प्यविद्यामयक्रत्वनुप्रवेशो मनश्चितादीनामुच्यते ततो वरं पूर्वसिद्धक्रियामयक्रत्वनुप्रवेश इति चोदकस्य कस्यचिन्मन्दस्योत्तरमाह-- कल्प्य इति। अत्र विद्यामयक्रतुरेव न कल्प्यते पूर्वं क्रियामयक्रतुरपि कल्प्य एव तेन पूर्वकल्पितक्रियामयक्रतुमाकृष्य तेन मनश्चितादीनामनवयाद्वारमत्रैव परिकल्पितविद्यामयक्रत्वन्वय इत्यर्थः। अयमत्र शब्दान्वयः-- क्रियात्मा क्रतुरपि कल्प्य एव तच्च कल्पनं प्रागुपात्ततदङ्गशक्त्यैव क्रियते। अत्र कल्प्यस्य विद्यामयक्रतोर्वैषम्यमाह--वाक्यस्थैरिति। वाक्यस्थैरेवानुबन्धैरिह समपनतो विद्यामयक्रतुर्भाति प्रकाशते। तेन परवाक्यस्थानुबन्धपरिकल्पितक्रियामयक्रतोश्श्रेयानेवासौ स्ववाक्यस्थानुबन्धपरिकल्पितो विद्यामयक्रतुरिति तदन्वय एव मनश्चितादीनामित्यर्थः। अस्मिन्नर्थे न्यायनुग्रहं विशदं दर्शयति-- दूरस्थेति। दूरस्थैराकृष्टस्य च योगात् स्ववचनपठितैराकृष्टस्य च योगो सघीयानेव। लघुपक्षाश्रयणं हि न्यायप्राप्तम्। तर्हि विद्यामयक्रतोरत्र विधिप्रत्ययो नास्ति साक्षाद्वेदनशब्दश्च नास्तीत्याशङ्क्य विधिश्रवणाभावेऽपि विधिकल्पनं कर्मकाण्ड एव सम्मतमित्याह-- अप्राप्तेऽर्थ इति। विद्यारूपक्रत्वनुप्रवेशे प्रमाणतःप्रतिपन्ने वेदनशब्दाभावोऽपि न दोषायेतिशेषः। शेषमशेषमपि भाष्य एव विशदं द्रष्टव्यम्।।

3.3.21

1. अत्र पूर्वाधिकरणं प्रसङ्गादायातम्, तत्पूर्वाधिकरणेन सङ्गतिर्भाष्यकारैरोवाक्ता सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपचासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तम्, ' त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ' इति। वक्ष्यति चास्य प्रत्यगात्मनः परमात्मात्मकत्वेनानुसन्धानं ' आत्मेति तूपगच्छन्ति ग्राहयन्ति च ' इति। किमयं प्रत्यागात्मा ज्ञाता कर्ता भोक्तेहामुत्र सञ्चार7मोऽनुसन्धेयः, उत प्रजापतिवाक्योदितापबतपाप्मत्वादिस्वरूपः इति । अयमत्र भावः-- लिङ्गभूयस्त्वाधिकरणे सर्वविद्योपास्यस्य नारायणस्यनिरूपणं कृतम्, अधुना सर्वास्वपि विद्यासूपासकस्यच उपास्यविशेषणभूततया स्वयमप्यनुसन्धेयस्य जीवस्य स्वरूपं निरूप्यत इति। तदर्थविचारस्तु-- ' अहं ब्राहृास्मि ' इति परमात्मशरीरतया प्रत्यगात्मानुसन्धेयः, स किं ज्ञातृत्वकर्तृत्वभोक्तृत्वाद्याकारोऽनुसन्धेयः, उत प्रजापतिवाक्योक्तापहतपाप्तत्वाद्याकारेणानुसन्धेय इति । तदर्थं विचार्यते-- किं ' यथाक्रतुरÏस्मल्लोके ' इति यथोपासनं प्राप्तिरितिवचनं परमात्ममात्रविषयम्, उत प्रत्यगात्मविषयमपीति। किं ' तं यथायथोपासते तथैव भवति ' इति तच्छब्दनिर्देशो यथोपासनं प्राप्तिरितिवचनस्य परमात्मपरतामवगमयति नेति। किमत्र तच्छब्दो

जीवशरीरपरमात्मपरः, उत परमात्ममात्रपर इति। अत्र पूर्वपक्षमारचयति-- तत्कालाकारिण इति। ' त्वं वा अहमस्मि भगवो देवते ' इत्यादिभिरहंग्रहेण भगवदुपासनमुक्तम्, अहमिति बुद्धिस्तु तत्कालाकारयुक्त एवात्मनि वर्तते। तेनाहमिति परमात्मभजने कञ्चुकभूतस्य जीवस्य धीस्तत्कालाकारेण युक्तस्य जीवस्य स्यात्। तेन कर्तृत्वभोक्तृत्वादियुक्तयुक्तजीवात्मस्वरूपमेवोपासनदशायामनिसन्धेयमिति। तदिदमाह-- आसत्तेरिति। सन्निहितत्वादुपासनदशायामित्यर्थः। तत्र दृष्टान्तमाह-- मामुपास्स्वेत्युदितवदिति। यथा प्रतर्दनविद्यायामिन्द्रेण मामुपास्वेत्युक्ते तादात्विकसहरुााक्षत्वादियुक्त एवोपास्यः, न पुनरागामिमुक्ताकारयुक्तः, तद्वदत्रापीति। तदिदं निराकरोति-- नेति। तत्र हेतुमाह-- अन्यथेति। प्रकारान्तरेण सन्निकर्षस्य विद्यमान्तवादित्यर्थः। तदेव प्रकारान्तरमुपपादयति-- शुद्ध इति। द्वे हि रूपे जीवस्य शुद्धमशुद्धञ्च। यत् शुद्धं तदेवोपादेयम्। यदेवोपादेयं तदेवोपासनदशायामनिसन्धेयम् ; यथोपासनं फलस्यैव श्रुतिभिरामानातत्वात्। तेन शुद्धमेव रूपं बुद्धिसन्निहितमित्युपपादयितुं शुद्धस्यैव रूपस्य फलत्वं तावदाह-- शुद्धोह्रात्मात्रच साध्य इति। अस्तु शुद्धस्य फलत्वम्, अथापि कथं तस्य बुद्धिसन्निहितत्वमित्यत्राब-- फलमितिरिति। ' ज्योतिष्टोमेन स्वर्गकामो यजेत ' इत्यादौ स्वर्गफलानुसन्धानेन हि स्वर्गार्थप्रवृत्तिः एवमत्रापि फलभूतशुद्धस्वरूपानिसन्धानसाहित्येनैवोपासनप्रवृत्तिरिति बुद्धिसन्निहितत्वसिद्धिश्शुद्धस्यैव रूपस्य। अत्र तत्क्रतुन्यायोऽप्यमुमेवार्थं विशदमुपपादयतीत्याह-- बुद्धयासन्न इति। बुद्धयासन्नेऽन्तरङ्गे सति शुद्धस्वरूपे

तत्क्रतुन्यायसिद्धिः प्रमाणेन नियमिता भवति। अतश्शुद्धमेव स्वरूपमनिसन्धेयमित्यर्थः।।

2. ननु कर्तुर्यथावस्थितात्मस्वरूपमनुसन्ध्यमित्युक्ते कर्मकाण्डे कर्मकर्तुरपि तादृशमेव रूपमनिसन्धेयं स्यात्, एवञ्च तत्रैव जीवस्वरूपयातात्म्ये निरूपिते निरर्थक एव वेदान्तशास्त्रे जीवस्वरूपनिरूपणविस्तरस्स्यादित्याशङ्कापरिहारार्थं लौकिकवैदिकाद्यनुष्ठानकर्तृभूतजीवस्वरूपानुसन्धानविभागं विशदमेव दर्शयति-- कर्तुरिति। त्रिविधो हि कर्ता, लौकिकं शयनासनभोजनकृष्यादिकं कर्म कश्चित् करोति, परस्तु यागदानहोमादिकं वैदिकं कर्म। तृतीयः पुनः परब्राहृोपासने परमपुरुषार्थप्राप्तिहेतुभूतम्। त्रिष्वप्यधिकारिषु कर्तृत्वानुसन्धानमस्त्येव। तत्र प्रथममाह-- दृष्टेति। दृष्टभोगार्थयत्ने भोक्ता कश्चिदस्तीत्येतावन्मात्रमेव गणयितुमुचितम्। स पुनर्देहो वा देहातिरिक्तो वेति विशेषनिश्चयो नास्तु अनुपयोगात्। दृश्यन्ते हि चदेहातिरिक्तात्मस्थार्यपरिज्ञानविधुराणामपि पामराणां स्वाभिमतप्राप्तिहेतवः प्रवृत्तयश्शतशस्सहरुाशोऽपि। अथ द्वितीयं प्रकटयति-- स्वर्गादीति। अयमत्र शब्दार्थः-स्वर्गाद्यर्थे कर्मणि स्वाधिकरानुविद्धा ब्रााहृणत्वादिस्वाधिकारानुविद्धा कालान्तरसम्बन्धिफलसम्बन्धानुवि देहान्तरानुगतिरात्मनो गणयितुमुचिता। नैतावता वेदान्तवैद्यार्थसिद्धिः। तृतीयमपि पक्षमाह-- मुक्त्यथ इति। मुक्त्यर्थे पुनरुपासने प्राप्त्यवस्था प्रणिधिकथनतः उपासनदशायां चिन्तनीयत्वकथनेव तत्क्रतुन्यायवाचा यत् चिन्त्यं तदेव प्राप्यमित्यर्थो गमित इति ज्ञापित इति अतिप्रसङ्गादिशङ्का नास्त्येव। अयमत्र भावः-- वेदान्त एव हि तत्क्रतुन्यायो विशेषतः ख्यापितः, न पुनः कर्मकाण्डे, तेनोपासनदशायां प्राप्त्यवस्थानुसन्धानं नियमेन कर्तव्यम्। कर्मकाण्डे तु कालान्तरबाविस्वर्गादिफलभोक्तृत्वानुरूपस्थैर्यानुसन्धानमात्रं कर्मारम्भे कर्तव्यमिति।।

3. अत्र कश्चिच्चोदयति-- विद्याभेदेषु वेद्याकाराणां विषमत्वात् यावदुक्तमेव चिन्त्यम्, अन्यथा परस्परसङ्करप्रसङ्गात्। प्रापच्यं पुनरुभयविभूतिविशिष्टम्, तेन बद्धरूपस्यापि सर्वान्तर्गततत्वेन ब्राहृविशेषत्वात् प्राप्यत्वमस्त्येव। तत् कथं तस्य रूपस्याप्राप्यत्वात् चिन्तनीयत्वं नास्तीति निषेधः क्रियते। तस्मात् सन्निहितस्य बद्धरूपस्य चिन्तास्त्विति। तदिदमाह-- विद्येति। शब्दार्थस्तु-- सद्विद्यादहरविद्यादिविद्याविशेषु वेद्याकाराणां भिन्नत्वात् यावदुक्तमेव चिन्त्यम्। तत्र ब्राहृविशेषणतया 'अहं मनुरभवं सूर्यश्च ' इत्यहङ्ग्रहोपासनात् जीवस्यापि चिन्तनीयत्वमस्ति, प्राप्यं तु ब्राहृ सर्वविशेषणविशिष्टम्, सर्वशब्दार्थे बद्धस्यापि जीवस्यान्तर्गतत्वात् बद्धरूपमपि ब्राहृविशेषणत्वादनुसन्धेयमस्तु सन्निहितपरित्यागायोगात् इति। तदेतद्दूषयति-- नेति। प्रतिक्षेपमेव विवृणोति--कलुषित इति। अयमर्थः- अहंशब्दार्थो हि मुख्य एवाहङ्ग्रहोपासने ब्राहृविशेषणतयानुसन्धेयः। तत्तु विशुद्धमेव रूपम्। तेनाहंशब्दश्रुतिविरोधात् कलुषितं रूपं नानुसन्धेयममुख्यत्वात्। किञ्च

प्रजापतिवाक्ये हि ब्राहृविद्याशेषतयानुसन्धेयं जीवात्मस्वरूपमभिधीयते। तत्तु विशुद्धमेव गुणाष्टकविशिष्टमभिहितम्। तस्मात् विशउद्धानुसन्धानमेव जीवस्याचपि वेदान्ते षूपासनदशायां विहितमिति नाशुद्धरूपचिन्तनप्रसङ्गः। अत एव भगवता पराशरेण योगिध्येयार्थनिर्णये ' हिरण्यगर्भो भगवान् ' इत्युपक्रम्य ' अशुद्धछास्ते समस्तास्तु देवाद्याः कर्मयोनयः ' इत्यशुद्धानामचिन्तनीयत्वमुक्तमिति। तदिदमाह-- प्राजापत्यादिति।।

3.3.22

1. पूर्वस्मिन्नधिकरणे यत्र यत्र ब्राहृण उपास्यत्वं तत्रतत्र सर्वत्रापि शुद्धस्य जीवस्योपात्यत्वमुक्तम्, अधुना पुनर्यत्रयत्र शाखासूद्गीथानुप्रवेशल्तत्रतत्र सर्वत्राप्युद्गीथाद्युपासनानुप्रवेशोऽस्ति नेति शङ्कया सङ्गतिः। तदर्थविचारस्तु-- ' ओमित्येतदक्षरमुद्गीथमुपासीत ' इति क्रत्वङ्गाश्रयोद्गीताद्युपासनानि प्रतिशाकं व्यवतिष्टेरन्निति। तदर्थं विचार्यते-- किं ' उद्गीथमुपासीत ' इत्युद्गीतशब्द उद्गीथमात्रे वर्तते, उतस्वरभेदभिन्नोद्गीथे इति। किं शाखाविशेषस्य स्वपभेदयोगात् स्वरभेदभिन्नोद्गीथव्यक्तेरेव सन्निधिः, उत शेषिभूतक्रतोस्सर्वशाखास्वेकत्वमुखेन सर्वोद्गीथव्यक्तीनां सन्निधिरिति। पूर्वमुद्गीथोपासनयोर्भेदचिन्ता कृता, समनन्तरं तस्यैवोद्गीथोपासनस्याश्रयिकर्मत्वेन कर्मफलात् पृथक्फलत्वेन पूरुशार्थत्वं प्रसङ्गाच्चिन्तितम्, अधुना पुनरेकत्राम्नातस्योद्गीथोपासनस्य सर्वत्राम्नातोद्गीथमात्रशेषत्वं प्रतिपाद्यत इत्यर्थविभागात् न पौनरुक्त्यम्। अत्र पूर्वपक्षमाह-- उद्गीथादेरिति। असौ भजनविधिस्स्वसान्निध्यगीते उद्गीथविशेष एव स्यादिति। तमिमं पूर्वपक्षं प्रतिक्षिपति-- मैवमिति। प्रतिक्षेप प्रकारं दर्शयति-- सर्वाङ्गीति। सन्निधिवशादेव हि तत्रैवोपासनस्यान्वय इति भवतोच्यते सन्निधिस्सर्वेषामप्युद्गीथानां समान एव सर्वशाखाप्रत्ययन्यायेन सर्वाङ्गिभूतक्रतोस्सन्निधाने सिद्धे सर्वेषामप्युद्गीथानामत्रैव सान्निध्यसिद्धेरिति। ननु सामान्यं व्यक्तिविशेषमन्तरेणानुष्ठानयोग्यं न भवति। तेनोद्गीथमिति सामान्येनोक्तं तत्रत्योद्गीथविशेषरूपव्यक्तिमपेक्षते, ततश्च तस्मिन्नेवोद्गीथविशेषे उपासनान्वय) स्यात् ; न स्यात् , यथा 'व्रीहीर्भियजेत ' इत्युक्ते व्रीहिमात्रेण यागोऽनुष्ठीयते, एवमत्राप्युद्गीथमात्रान्वयेनोपासनमनुष्ठीयतां नाम। शब्दार्थस्तु--

सामान्यं व्यक्त्यपेक्षानुष्ठानमपि नियामकप्रमाणाभावे 'व्रीहीर्भियजेत ' इत्यत्र व्रीहितावत् यं कञ्चन व्यक्तिविशेषमुपादायावतिष्ठते। तर्हि ' पशुना यजेत ' इत्यत्रच्छाग एव पर्यवसानं कथं स्यात् ? इत्थं स्यात्। तत्र हि विशेषपर्यवसानसाकाङ्क्षत्य पशुशब्दस्य विशेषोपस्थापच्छाग शब्दो मन्त्रवर्णे श्रूयते। इह तु तादृशशब्दविशेषो नास्ति। तस्मादुद्गीथमात्रविषयमुपासनं न पुनस्सन्निहितोद्गीथविषयमिति सिद्धमित्याह-- शब्दश्चेति। उद्गीथसामान्यं वदति नतु भिदां नपुनरूद्गीथविशेषमिति।।

3.3.23

1. पूर्वाधिकरणे उद्गीथादिकं प्रस्तुतम्,तत्र सामावयवोद्गीथादेस्समस्तस्य व्यस्तस्य चोपासनं श्रुतिसिद्धमिति पूर्वमेवोक्तम्, एवं वैश्वानरविद्यायां किं समस्तस्योपासनं कार्यंम् उत व्यस्तस्य उतोभयस्येति शङ्कया सङ्गतिः। तदर्थविचारस्तु-- किं वैश्वानरविद्यायां पृथिव्याद्यवयवस्य वैश्वानरस्य व्यस्तस्यैवोपास्यत्व्, उत व्यस्तस्य समस्तस्य च, अथवा समस्तस्यैवेति। किं ' उद्दालको हवै भगवन्तः ' इत्यादिवाक्ये उपासनविधिव्र्यस्तस्यैव उत व्यस्तस्य समस्तस्य च, अथवा समस्तस्यैवेति। किं प्रत्यवयवं वैश्वानरव्यपदेशात् फलसम्बन्धश्रवणाच्चवयवेषूपासनविधिनानात्वे ' यस्त्वेतमेवं प्रादेशमात्रमभिविमानम् ' इति समुदायानुवादाः, उत 'अत्त्यन्नं पश्यति प्रियं भवति' इति व्यस्तोपासने फलश्रवणात् ' यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुस्ते सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेश्वात्मस्त्वन्नमत्ति ' इति समस्ते फलश्रवणाच्च उभयत्र विधिन्र्याय्यः, उत एकवाक्यतानुरोधेन 'यस्त्वेतम् ' इत्यत्र समस्तस्यैवोपासनविधिः, अवयवोपासनं तु अवयुत्यानुवाद इति। अत्र कश्चिदाह-- वैश्वानरविद्यायां व्यस्तोपासने फलनिर्देशात् व्यस्त एव चिन्तनीयः। समस्तोपासने फलनिर्देशस्तु अर्थवाद एव। अथवा व्यस्तोपासनवत् समस्तोपासनेऽपि फलनिर्देशात् व्यस्तश्चिन्तनीयः,समस्तश्चापि तथा चिन्तनीय एवेत्।तमिमं पक्षमनुवदति--व्यस्त इति।तदेतत् प्रतिक्षिपति--मैवमिति।तत्रोपपत्तिमाह--व्यस्तेष्विति। अत्र हि व्यस्तोपासनेषु दोषोऽभिधीयते, तेन व्यस्तोपासनेषु फलवचनमर्थवादमात्रमिति कल्पनीयम्। उक्तमेवार्थं

वैश्वानरेष्टिवाक्य दृष्टान्तेन द्रढयति-- दृष्टमिति। यथा ' वैश्वानरं द्वादशकपालं निर्वापेत् ' इत्यस्मिन् वाक्ये द्वादशकपाल निर्वापस्यैव विधेयत्वम्,' पूत एव ' इत्यादिना तस्यैव फलनिर्देष उच्यते। अष्टाकपालादीनां न विधिः तत्र फलनिर्देशश्चावयुत्यानुवादमात्रमिति तान्त्रिकगोष्ठानां निर्णयः। तद्वदत्रापि समस्तस्यैवोपासनं विधीयते न पुनव्र्यस्तस्य। तत्र फलनिर्देशेऽप्यवयुत्यानुवादेन स्तुतिमात्रमेवेति।।

2. अत्र समस्तोपसनमिव व्यस्तोपासनमपि विहितमेव प्रतीयते फलनिर्देशश्चोभयत्रास्ति, इत्थं भूमविद्यायामपि पूर्वमल्पोपासनमुक्त्वा पश्चादुत्तरोत्तरमधिकोपासनमुच्यते तत्र पूर्वेषामुपासनानामल्पाल्पफलमङ्गीकृतम्, अवयुत्यानुवादत्वमपि न कल्पितम्, कथमिदं वैषम्यमुच्यत इति केनाप्यनुयुक्ते वैषम्यद्वयं दर्शयन् समाधातुमुपक्रमते-- सामस्त्यस्येति। इत्थमत्र शब्दान्वयः-- महावाक्यतात्पर्यवृत्तया समस्तानुसन्धानस्यास्मिन् वाक्ये योगे समन्वये द्रढिमवति सति व्यस्तेषूपासनेषु वैश्वानरोष्ट¬ादिवत् अंशानुवादेन स्तुतिनियतन्यायात् फलनिर्देशास्यान्यपर्यं स्तुतिपरत्वमेव भवति। भूमविद्यायां तु पूर्वस्मादुत्तरस्याधिकफलसाधनत्वेन वक्तुं युज्यते अनन्वितत्वात्। अपि तु अल्पफलादधिकफल्याधिक्येन भूमत्वं वाच्यम्। तेनाविधित्वेन पूर्वेषामपि फलसम्बन्धो वाच्य इति वैषम्यसिद्धिः। अत्र हेत्वन्तरमप्याह-- नाप्येवमिति। वैश्वानरविद्यायां व्यस्तोपासने प्रत्यवायश्श्रुतः। भूमविद्यायां तु पूर्वपूर्वोपासने प्रत्यवायो न श्रुतः। तेनेदमपि किञ्चिद्वैषम्यम्। तस्मात् विषमस्य दृष्टान्तस्योदाहरणं नार्थसिद्धयै उभयत्रैकरूपत्व रूपार्थसिद्धयै न भवत्येव।।

3.3.24

1. पूर्वस्मिन्नधिकरणे विद्याविसेषविषयचिन्ता कृता, इदानीं सर्वविद्याविषयचिन्ता क्रियत इति सङ्गतिः। अथवा वैश्वानरविद्यायां समस्तोपासनस्यैवोपपन्नत्वेन व्यस्तोपासनानामभावात् विद्यानानात्वं निराकृतम्, अधुना सद्विद्यादहरविद्योपकोसलनिद्यादिषु नानात्वं भेदकप्रमाणानुरोधादुपपाद्यत इति सङ्गतिः। तदर्थविचारस्तु-- वेदान्तविधेयानां सर्वासां विद्यानां किमैक्यमेव उत भेद इति। तदर्थं विचार्यते-- किं प्रत्यायावृत्तिरूपविदिधात्वर्थोपासनस्य सर्वत्र ब्राहृकर्मतया रूपाभेदात् अपुनरावृत्तिरूपफलाभेदाच्चैक्यसामाश्रयणं न्याय्यम्, उतोपासयब्राहृण एकत्वेऽपि अपहतपाप्मत्वादिगुणाविशिष्टस्योपास्यतयोपासनस्यापि भेदसम्भवात् तादृशोपासनप्रतिपादने निरपेक्षत्वात् वाक्यानां भेदसमाश्रयणं न्याय्यमिति। अत्र पूर्वपक्षी विद्यैक्यं सयुक्तिकमुपपादयति-- सर्वास्विति। अत्र प्रथमाधिकरणे संयोगरूपचोदनाख्यविशेषात् विद्यैक्यमुक्तम्, तदत्रापि समानम्। सर्वास्वपि विद्यासु ब्राहृैव वेद्यमिति रूपमविशिष्टम्।

संयोगोऽप्यविशिष्ट इत्याह-- फलमपीति। तथा आख्याप्यविशिष्टा ब्राहृविद्येति। अस्तु त्रितयमिदमविशिष्टम् तथापि चोदना भिद्यते क्वचित् ' विद्यात् ' इति, क्वचिच्च 'उपासीत 'इति, क्वचिच्च ' निदिध्यासितव्यः ' इति, क्वचिच्च ' निचाय्य तं मृत्युमुखात्प्रमुच्यते ' इति दर्शनपर्यायेण धातुना मृत्युतरणोपाय उच्यते। भगवद्गीतादिषु भक्तिशब्देनैव क्रियासमभिहारेणापवर्गसाधनं विधीयते। अतः कथं चोदनाबेद सति विद्यैक्यशङ्का? मैवम्। भाष्य एव भगवता भाष्यकारेणैव सर्वेषामेवैषां विधीनां छागपशुन्यायेनैकाथ्र्यमुपपादितम्। तेनैकाथ्र्यं सिद्धम्। अपर्यायप्रायाणामेव हि शब्दानां प्रयोगे चोदनाभेदमाहुस्तान्त्रिकाः। यथा यजति ददाति जुहोतीति। अत्र पुनरेकत्रैव विश्रान्तेर्न चोदनाभेदः। तदिदं दर्शयति-- ध्यानादीति। विधिरप्यविशिष्ट एवेत्यर्थः। तस्मात् विद्यैक्यमेवेति। तदेतन्निराकरोति-- तन्नेति। अत्राख्यादिभेदरूपं हेतुचतुष्टयामाह--आख्येत्यादिना। आख्याभेदस्तावत् सद्विद्यादहरविद्याभूमविद्येत्यादिः। नच सामान्यनाममात्रैक्यं विशेषनामप्रयुक्तं विद्याभेदं निवारयति यथा ' अथैष ज्योतिरथैष विश्वज्योतिरथैष सव्ज्र्योतिः ' इति विशेषनामप्रयुक्तं भेदं सर्वसादारणयागादिशब्दमात्रं न निवारयति। तद्वदत्रापि ब्राहृविद्येति समान्यनाममात्रं विद्याभेदं न निवारयितुं शक्नोति। रूपभेदश्च सर्वास्वपि विद्यासु स्फुटमोवोपलभ्यते। ब्राहृेति रूपसामान्यं तु तत्तद्विद्यासु प्रतिनियतगुणविशेषप्रयुक्तरूपभेदस्य न परिपन्थितामश्नुते विशेषणभेदाद्विशिष्टभेदस्यापरिहार्यत्वात्। इत्थं हि कर्मकाण्डेऽप्यनुष्ठाननियमः। इत्थं रूपभेदमाख्याभेदञ्चोपपाद्य चोदनाभेदमप्युपपादयति-- तदुपहितेति। तत्तद्विद्यासाधारणगुणविशेषितवेदनविद्यौ ' अर्थेनैव विशेषो हि निराकारतया धियाम् ' इति न्यायेन तेनतेनार्थेनैव तत्तद्विद्याभेदसिद्धेस्चोदनानामपर्यायत्वमेवेति भाष्यकारैरेव सुव्यक्तमुपपादितम्। अत्र संयोगभेदोऽप्यस्तीत्याह-- मिश्रमिति। मधुनिद्यायां वसुपदप्राप्तिपू#ोर्वकपरमात्मप्राप्तेः फलत्वात् क्वचित् मिश्रं फलम्, विद्यान्तरेषु

केवलपरमात्मप्राप्तेः फलत्वादमिश्रमेवफलमिति संयोगभेदोऽप्यस्ति। इत्थं ब्राहृविद्यासूक्तन्यायेन वेदान्तभागोक्तासु काम्यविद्यास्वपि भेदो निरूप्य इत्याह-- काम्येति।।

2. अत्र खलु ' नाना शब्दादिभेदात् ' इति विद्याभेदं वदन् सूत्रकारश्शब्दभेदमेव पुरस्करोति, शब्दभेदो नाम चोदनाभेदः, चोदनाभेदोऽपि यजतिददातिजुहोतीत्यपर्यायेण शब्देन भावार्थविधिः। अत्र पुनर्भाष्यकारैरेव वेदनोपासनादिशब्दानां पर्यायत्वमुपपादितम्। तेन शब्दसाम्ये सति कथं ' नाना शब्दादिभेदात् ' इति सूत्रकारोणोच्यत इति कश्चिदाक्षिपति-- नानाशब्देति। विद्यात्, उपासीत, ध्यायीत, इति धातुभछेदादिति पराभिप्रायमाशङ्कयोत्तरमाह-- नहीति। धातेवो हि स्वरूपभेदमात्रेण शब्दभेदत्वमश्नुवते, अस्तिविद्यतेभवतीत्यादीनामपि शब्दभेदत्वप्रसङ्गात्। तेनापर्यायशब्दप्रयोग एव शब्दभेदो वाच्यः। विद्यादित्यादीनां पर्यायत्वं प्रागेव समर्थितमिति। सत्यमित्यर्धाङ्गीकारेण परिहरति। यद्यपि शब्दान्तराधिकरणोक्तमुख्यशब्दभेदो नास्ति, अथापि रूपभेदप्रयुक्तश्शब्दभेदउपचर्यते। तत् किमर्थमित्यत्राह-- रूपभेदद्रढिम्न इति। अयमर्थः-- रूपभेद एवात्र साक्षाद्भेदकः। स तु रूपभेदो धात्वर्थविशेषकत्वेन धात्वर्थमपि भनत्तीति भिन्नार्थवाचकत्वेन शब्दभेदोऽपि सिध्यतीत्यौपचीरिकी शब्दभेदोक्तिः। अत्रोपचारोक्तौ प्रयोजनमाह--ज्ञानमिति। मृषावादिनः खल्वविधेयमेव ज्ञानं मोक्षसाधनमित्याहुः तन्निरासेन ज्ञानस्य विधेयत्वसिद्ध्यर्थं विद्याविषयचोदनाभेदोऽस्तीत्युच्यते। अयमभिसन्धिः-- यदि वेदनध्यानोपासनादिशब्दानां तत्तत्प्रकरणस्थानां पर्यायत्वम्, यदि वा छागपशुन्यायेन विशेषपर्यवसानम्, यदि वा भाष्यकारोक्तक्रमेण भिन्नेषु प्रकरणेषु वेद्यभेदनिबन्धनवेदनभेदप्रतिपादकत्वेनापर्यायत्वम्, सर्वथापि विधेयमेव ज्ञानम्। विधेयादेव ज्ञानादपवर्गसिद्धिरितीममर्थं प्रतिपादयितुं चोदनाभेदकथनमिति।।

3. एवं भाष्यकारोक्तप्रकारेण शब्दभेदमुक्त्वा भाष्काराभिप्रायस्तं मुख्यमेव शब्दभेदं उपपादयति-- यद्वेति। अयमर्थः-- नानाशब्दादिभेदादिति सूत्रकारश्शब्दभेदमेव तावत् प्राह। स च शब्दभेदोऽपर्यायशब्दकथनम्। तच्च ब्राहृविद्यायास्साक्षादेवास्ति। भक्तिप्रपत्त्योर्मोक्षोपायतया विहितयोर्विधिभेददर्शनात्। ' अनित्यमसुकं लोकमिमं प्राप्य भजस्व माम् ' इति भक्तिविधिर्दृश्यते ' मामेकं शरणं व्रज ' इति प्रपत्तिविधिः। प्रपत्तिरेव हि शरणागतिः।

' अनन्यसाध्ये ' इत्यस्मिन् प्रपत्तिलक्षणवाक्ये ' प्रपत्तिश्शरणागतिः ' इति पर्यायत्वेनोपदेशात्। तेन साक्षादेव भक्तिप्रपत्त्योर्विधिभेद उपलभ्यत इति मुख्यएवायं शब्दभेदो भाष्यकारभावस्थः। यजतिददातिजुहोतीत्यादिशब्दभेदवदस्यापि शब्दभेदस्य साक्षादेव शब्दभेदलक्षणोपेतत्वात्। अयमत्र शब्दान्वयः-- यद्वेति पक्षान्तरोपन्यासमाह। शब्दादिभेदादिति वदता सूत्रकारेण सम्यगेव न्यासोपासे विभक्ते। तत्र दृष्टान्तमाह-- यजनहवनवदिति। तत्र विभागहेतुं दर्शयति-- शब्दभेदादिति। अभाक्तादिति मुक्यत्वाह। तेन पूर्वोक्तप्रकारात् प्रकारान्तरसिद्धिः। एवं चोदनाभेदमुक्त्वा तद्वेदवाख्याबेदो

रूपभेदस्संयोगबेदोऽप्यस्तीत्याह-- आख्येति। भक्तौ हि चसद्विद्यादहरविद्येत्यादिराख्या, प्रपत्तौ पुनर्निक्षेपोन्यासश्शरणागतिरित्यादिः। भक्तिरू#ोपे चचचचदहचरविद्यादे अपहतपाप्मत्वादिकं रूपम्। इह पुनरूपायान्तरस्थानापत्तिर्भगवतो रूपम्, तदेव निरपेक्षोपायत्वमित्यध्यात्मविद्भिरभिधीयते। भक्तियोगनिष्ठानां हि सद्विद्यादहरविद्यादिसापेक्षः परमपुरुषः फलं ददाति। इह पुनरुपायान्तरस्थाने स्वयमेवावस्थितस्तदेव मुक्तिरूपं फलं ददाति। इतमेवोच्यते ' सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ' इति। अस्यार्थस्य विस्तरो न्यासविंशत्यादिष्वाचार्यप्रबन्धेष्वनुसन्धेयः। इतरसम इति-- यथा सद्विद्यादीनामाख्याभेदाद्रूपभेदात् संयोगभेदाद्भेद उपपद्यते तथैव प्रपत्तेरपि भेद इत्यर्थः। यद्यपि सर्वासां ब्राहृविद्यानां प्रधानफलं मोक्षः तथाप्यनुसन्धानवेलायां तत्तद्रूपविशिष्टभगवदनुभवरूपफलवैषम्यमस्तीति भावः। अधिकारभेदादपि रूपभेदमाह-- किञ्च भिन्नोऽधिकारश्शीघ्रप्राप्त्यादिभिरिति। भक्तियोगनिष्ठस्य प्रापब्धकर्मावसाने हि मोक्षः। प्रपत्तिनिष्ठस्य तु प्रारब्धमपि कर्म प्रपत्तिरेव क्षपयितुं शक्नोति ' उपायभक्तिः प्रारब्धन्यतिरिक्ताधनाशिनी। साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी।। ' इति वचनादेव प्रपत्तेश्शीघ्रफलप्रदत्वश्रवणात्। शब्दार्थस्तु -- उपायरूपा भक्तिः प्रारब्धं चन हन्यात् अपि तु तद्व्यतिरिक्तमेव हन्यात् । साध्यभक्तिः प्रपत्ति) प्रारब्धमपि हन्यात्। अत एव भक्तेः प्रपत्तिर्भूयसी फलाधिक्यात्। अत्र आदिशब्देन 'भक्त्यादौ शक्त्यभावः ' #ित्याचार्यग्रन्थोक्ताः पञ्चदशाप्यधिकारविशेषा उच्यन्ते। शक्तिज्र्ञानं जन्म विलम्बक्षमत्वमित्येतानि समस्तानि भक्त्यधिकारः। तत्रैकैकवरहे द्विकद्विकविरहे त्रिकत्रिकविरहे सर्वविरहे च

सम्पद्यन्ते प्रपदनाधिकारा इति पञ्चदशत्वसिद्धिः। ननु ब्राहृविद्यानां ब्राहृप्राप्तिरेव फलम्, तच्चैकमेवेत्याशङ्कमानस्य बालबुद्धेरन्यत्र फलभेदं दृष्टान्ततया दर्शयति-- जगुरिति। मधुविद्यायां हि वसुपदप्राप्तिरूप्वपरमात्मप्राप्तिः फलम्। दहरविद्यादौ तु परमात्मप्राप्तिमेव फलतया निर्दिशति। अतस्संयोगभेदादपि न्यसोपासनयोस्सिद्धएव भेदः।।

3.3.25

1. अत्र भाष्य एव सङ्गतिव्र्यक्तमुच्यते ' ब्राहृप्राप्तिफलनां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम्। इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि सम्भवति उत प्रयोजनाभावात् विकल्प एवेति विशये ' इति। तदर्थविचारस्तु-- किमेकस्मन् पुरुषे प्रयोजनसमभवात् सर्वासां समुच्चयः उक विकल्पः। तदर्थं विचार्यते-- किं सर्वासु विद्यासु फलरूपा ब्राहृप्राप्तिरेकरूपा उत स्वर्गादिप्राप्तिवत् विलक्षणेति। अत्र पूर्वपक्षी मन्यते-- लोके हि ज्योतिष्टोमाग्निहोत्रप्रभृतयस्स्वर्गाद्यर्थं विहिता एकेनैवाधिकारिणा फलाधिक्यार्थं समुच्चयेनैवानुष्ठीयन्ते, तत्तदनुष्ठानाधिक्येन फलञ्चाधिकमुपलभ्यते, एवमत्रापि ब्राहृविद्याः परब्राहृप्राप्रत्यर्थं समुच्चयेनानुष्ठीयन्ताम्, फलमपि देशकालाधिक्येन तारतम्येन लभ्यतामिति। तदिदमाह-- ज्योतिष्टोमेति। नचैकस्यैवाधिकारिण एकमुपासनमिति नियमोऽस्तीत्याह-- न चेति। ' न चैकं प्रति शिष्यते ' इति न्यायेन सर्वोऽपि भजनविधिस्सर्वान्प्रत्येव विधीयते। तेन समुच्चयस्सम्भवत्येवेति। नन्वेकस्योपासनस्य चिरकालानुष्ठेयत्वात् उपासनान्तरस्य कालो नास्तीत्याशङ्क्य परिहरति--कर्तुमिति। ज्योतिष्टोमाग्निहोत्रादिवत् अत्राप्यनुक्रमेणानुष्ठातुं शक्यत इत्यनुष्ठानकालाभावात् न समुच्चय इति न भ्रमितव्यमित्यर्थः। तमिमं पक्षं प्रतिक्षिपति-- नेति। तत्र हेतुमाह--मिथ इति। अयमर्थः-- ' स खल्वेवं वर्तयन् यावदायुषम् ' इति ब्राहृविद्याया आशरीरपातमनुष्ठेयत्वं श्रूयते। तच्च सर्वासामपि ब्राहृविद्यानां समानमेव। तेनैकयैव ब्राहृविद्यया कृत्स्नस्यापि कालस्यावरूद्धत्वात् ब्राहृविद्यान्तरानुष्ठानकालाभावात् समुच्चयो न भवत्येव। इत्थमुपपादितमर्थं निगमयति-- सम्पूर्णेति। अत्रैकमेव फलं दृश्यते या सम्पूर्णब्राहृलब्धिः, तत्सिद्धयै पृथगेवानुष्ठेयान्युपासनानि, तानि च पृथगेव विधीयन्ते। तत्र हेतुमाह-- प्रायणान्ते समाधाविति। अयमर्थः-- एकैकस्सद्विद्यादहरविद्यादिस्समाधिः प्रायणान्तो विधीयते। तेन विधेयानां सामस्त्येनानुष्ठानविरोधात् प्रत्येकानुष्ठानलाभाय पृथगेव साधनत्वमिति विकल्प एव स्वीकार्यः।।

2. ननु भवता ब्राहृविद्यानां फलैक्यात् विकल्प एवेति प्रतिज्ञानम्, नहि प्रतिज्ञामात्रेणार्थसिद्धिः, फलैक्यमेव हि नाङ्गीकुर्महे कारणभेदे कार्यभेदस्यावस्यसम्भवात्, कारणानि तु ब्राहृोपसनानि भिन्नान्येव रूपादिभेदात्, तेन फलभेदोऽप्यवश्याश्रयणीयः, तस्मात् भिन्नफलत्वे कथं विकल्प इतीमं पूर्वपक्षमनुवदति-- रूपादीनामिति। शब्दान्वयस्तु-- रूपादीनां विशेषैः परभजनं नैकरूपं विभक्तम्। नैकरूपमिति नगनैकादिशब्दवन्नसमासः। कारणभेदमुपपाद्य फलभेदमाप्याह-- सामग्रीभेदत इति। सम्मतं न्यायत इति -- कारणभेदात्कार्यभेदो लोकसम्मत एवेति। तदितं प्रतिक्षिपति-- न स्यादिति। तत्र हेतुमाह-- सर्वास्विति। ' भोगमात्रसाम्यलिङ्गाच्च ' इति ' निरञ्जनः परमं साम्यमुपैति ' इतिश्रुतिप्रतिपन्नं भोगसाम्यमेव फलतोयच्यते

तेन फलैक्यसिद्धिः। ननु सालोक्यादीनां चतुर्णामपि फलत्वेनाभिधानात् कथं फलैक्यमित्याशङ्क्याह-- प्राप्यैक्यमिति। ' सायुज्यमन्ये स तु मोक्ष उक्तः ' इत्यनेन ब्राहृणस्सायुज्यमेव मोक्ष इति निर्णीतम्। सोलोक्यादीनि तु तदन्तर्गततया फलत्वेनानूद्यन्त इति भावः। अनेन भिन्नानामुपायानां भिन्नमेव फलमिति शङ्कापि निरस्ता। लोकतो वेदश्चोपायभेदेऽपि फलैक्यदर्शनात्। लोके हि बहुभिर्मार्गैरेकमेव ग्रामं प्राप्नुवन्ति वेदेऽपि यागदानहोमादिभिर्बहुभिरपि कर्मभिस्तत्र तत्र विहितैरेकमेव फलं प्राप्नुवन्ति कर्मठाः। तथा अध्यात्मविदोऽपि स्तुतिनमस्कारकीर्तनादिभिः परमपुरुशषमाराध्य स्वाभिमतं फलं प्राप्नुवन्तीति भारतादिप्रसिद्धम्। एवं नानाविद्यानिष्ठाः स्वाधिकारानुरूपतत्तद्विद्यानुष्ठानेन परमपुरुषं प्राप्नुवन्तीति श्रुतुसिद्धत्वात् सुसङ्गतमेतत्।।

3.3.26

1. पूर्वाधिकरणे तासुतासु ब्राहृविद्यासु फलतारतम्यमाशङ्क्य तन्निवार्य फलप्रसङ्गात् पूर्वाक्तोद्गीथविद्यायाएव फलमत्र बहुभिर्हेतुभिराक्षिप्य समाधीयत इति सङ्गतिः। अथवा भाष्य एव ' यथा कामम् ' इति पदेन सङ्गतिरुक्ता। यथाकामं विकल्पसमुच्चयो वेति हि पूर्वत्रोक्तम्। तथोद्गीथादिविद्यायथाकाममुपादेया नवेति

शङ्कया सङ्गतिः। तदर्थविचारस्तु-- क्रत्वङ्गाश्रयाण्युद्गीताद्युपासनानि क्रतुषु नियमेनोपादेयानि उत गोदोहनादिवदनियमेनेति। किं क्रत्वङ्गोद्गीथदिमुखेन पर्णतादिवत् क्रत्वर्थानि उत गोदोहनादिवत् क्रत्वङ्गाश्रिततया ' यदेव विद्यया करोति ' इति फलश्रवणात् पुरुषार्थभूतानि। तदर्थं विचार्यते-- किं गोदोहनादीनां पुरुशार्थत्वं स्ववाक्ये फलसम्बन्धश्रवणात् उत क्रतुफलात् पृथक्फलसंबन्धश्रवणादिति। अत्र सङ्गत्यभिधानपूर्वकं पूर्वपक्षमुक्त्वा पूर्वपक्ष्यभिप्रायस्थान् हेतुनुक्रमेण समाधातुमुक्रमते-- तत्तदिति। पूर्वाधिकरणे तासुतासु ब्राहृविद्यासु फलतारतम्यं वारयित्वा समानफलसाधनत्वमुक्तम्। फलसाधलप्रसङ्गादनेनाधिकरणेन

' तन्निर्धारणानियमः ' इत्यत्र प्रागेवोक्तमुद्गीथविद्याफलं बहुभिर्हेतुभिः पुनराक्षिप्य तत्तद्धेतुनिरासेन दृढीकरोति। अनेनोद्गीथविषययोरनयोः पौनरुक्त्यं परिह्मतम् ; पूर्पवोक्तक्षेपसमाधानतया एतस्याधिकरणस्योधिकप्रयोजनलाभादिति। एवं किल पूर्वपक्षी मन्यते-- पूर्वं हि गोदोहनन्यायेनोद्गीथविद्यायाः पुरुषार्थत्वमुक्तम्, तन्नोपपद्यते गोदोहनवाक्ये स्ववाक्य एव फलनिर्देषो दृश्यते ' गोदोहनेन पशुकामस्य प्रणयेत् ' इति। उद्गीथविद्यावाक्ये तु न फलनिर्देशः, केवलं ' उद्गीथमुपासीत ' इत्युपासनस्योद्गीथविषयत्वमेव प्रतीयते। ' यदेव विद्यया करोति ' इति वाक्यान्तर एव फलनिर्देशो दृश्यते। इदं तावदेकं वैषम्यम्। वैषम्यान्तरमपि-- गोदोहनवाक्य एव ' पशु कामस्य प्रणयेत्' इति विधिश्रुतुरस्ति, ' यदेव विद्यया करोति ' इति वाक्ये करोतीति वर्तमाननिर्देश एव, नतु विधिश्रुतिः। तेन ' यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति ' इति वर्तमाननिर्देशोपेतपर्णमयत्ववाक्यवत् न पुरुषार्थसाधकत्वसिद्धिः। वीर्यवत्तरत्वरूपफलनिर्देशोऽप्यपापश्लोकश्रवणरूपफलनिर्देशवदर्थवाद एव। तेनाव्यभिचरितक्रतुसम्बन्धिजुहूमुखेन पर्णमयत्वं यथा क्रत्वङ्गम्, एवमुद्गीथोपासनमप्यव्यभिचरितक्रतुसम्बन्ध्युद्गीथमुखेन क्रत्वमङ्गमिति। इदमपि वैषम्यं गोदोहनवाक्यादस्य वाक्यस्य। तृतीयमपि वैषम्य सौत्रमेव दृश्यते। 'उद्गीथमुपासीत ' इति द्वितीयाश्रुत्या साक्षादेवोद्गीथाङ्गभूतमुपासनं विधीयते। उद्गीथश्च कर्माङ्गम्। तेन तद्द्वारेणोपासनमपि कर्माङ्गम् ; 'गोदोहनस्य पशुकामस्य प्रणयेत् ' इतिवत् विधिवाक्येऽधिकारान्तरश्रवणात् उद्गूथाङ्गभाव एव हि विधेय इति गम्यत इति। समाहारादिति हेतवन्तरमपि दृश्यते ' होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति ' इत्युपासनस्य नियमेव समाहारोऽभिधीयते। तथा हि -- वदनहीनमुद्गीथं दुरुद्गीथम्। तस्य होतृषदनादनुसमाहाभिधाने सति उद्गीथोपोसनस्य नियमे कर्तव्यत्वमुक्तं भवति। अवश्यकर्तव्यस्य ह्रपचारे समाधानं वक्तव्यम्। तेनोपासनस्यावश्यकर्तव्यत्वात् कर्माङ्गत्वमेव। अत्र गुणसाधारण्यश्रुतिरपि कर्माङ्गत्वं हेतुरस्ति। तदप्युक्तं भाष्य एव उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासन्सय 'तेनेयं त्रयीविद्यावर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति ' इति साधारण्यश्रुतेश्चोपासनसमाहारो गम्यते " इति। एवमाक्षेपहेतूननुक्रमात् निरोकरोति-- मा भूदिति। स्ववाक्ये फलमुक्तं मा भूदेव। अथापिह पर्णमयत्वादिनीतिर्न स्यात् पूरुषार्थत्वप्रतिपादकस्य स्फुटतरस्य हेतोरत्र विद्यमानत्वात्। अस्ति पर्णमयीवाक्ये वर्तमाननिर्देशः अस्ति च 'यदेव विद्यया करोति ' इति वाक्ये वर्तमाननिर्देशः। तावता साम्येन उद्गीथोपासनस्य न पर्णतादिवदपुरुशार्थत्वसिद्धिः। ' यदेव विद्यया करोति, तदेव वीर्यवत्तरम् ' इति तृतीयानिर्देशेन फलसाधनत्वस्य

स्फुटतराभिधानात् उद्गीथोपासनस्य पुरुषार्थत्वमेव। पर्णतायास्तु फलसाधनत्वप्रतिपादकविभक्तिविशेषाभावात् क्रत्वङ्गत्वमेवेति विभागः। तदिदमाह-- स्पष्टेति। अत्र 'यदेव विद्यया करोति ' इति वाक्ये विद्या फलकरणतया स्पष्टैव दृश्यते। अतः पर्णमयीवाक्याद्वैषम्यमिति।।

2. पूर्वं ' उद्गीथमुपासीत ' इति द्वितीयाश्रुत्योद्गीथाङ्गत्वमुपासनस्येत्युक्तम्, तत् परिहरति-- तादथ्र्यमिति। अत्र कर्मश्रुतिः तादथ्र्यमङ्गत्वं नावगमयति। तत्र हेतुमाह-- आश्रयालम्बमात्रादिति अत्र कर्मश्रुतिः पुरुषार्थस्यैवोपासनस्याश्रयमेवोद्गीथमवलम्बते न ततोऽङ्गत्वं वदतीत्यर्थः। विद्याहानौ दुरुद्गीथत्वात् प्रतिविधानमुक्तमिति कर्माङ्गत्वे हेतुर्भवतोक्तः, सोऽपि हेतुरन्यथासिद्ध इत्याह-- विद्याहानाविति। विद्याहानौ दुरुद्गीथत्वमुक्त्वा यत् प्रतिविधिवचनं तदपि तत्फलार्थिप्रसङ्गे युक्तमेव। अयमर्थः-- यस्त्वधिकारि कर्माङ्गभूतोद्गीथे वीर्यवत्तर्तवादिकं विद्याफलं कामयित्वा विद्यामारभ्य विद्यं यथावत् न करोति तस्याधिकारिण एव होतृषदनादनुसमाहरोऽभिधीयते, न पुनः कर्माङ्गभूतोद्गीथकर्तुस्सर्वस्याप्यधिकारिणः, अतो न

कर्माङ्गत्वसिद्धिरुद्गीथोपासनस्य। अयमत्र शब्दान्वयः-- उपासनफलभूतवीर्यवत्तरत्वाद्यर्थिप्रसङ्गे विद्याहानौ होतृषदनात् समाहारवचनं युक्तमेव। ' तेनेयं त्रयी विद्यावर्तत इति तच्छब्देनोपासनसहितं प्रणवं निर्दिश्य त्रय्यामनुगमनवचनादुपासनस्य प्रणवाङ्गत्वमिति यदुक्तं तदपि नास्तीत्याह-- तार इति। सोपासने तारे स्तवनमस्तु नाम अनुगमात् त्रिष्वपि वेदेष्वनुवृत्तत्वात्। तथाप्युपासनस्य नाङ्गत्वम्। उपासनस्य वीर्यवत्तरत्वादिफलसाधनत्वेन पुरुषार्थत्वेऽपि तस्य स्तोत्रत्वेन योजयितुं शक्यत्वादित्यर्थः। ननु पूर्वमेवोद्गीथविद्याप्रसङ्गे सर्वमिदमधुनोक्तमर्थजातं वक्तव्यमेव, किमर्थमिह स्थानं हित्वोच्यत इत्याशङ्क्याह-- प्राग्वक्तन्यस्येति। अयमत्र भावः-- ब्राहृविद्याङ्गप्रतिपादनमुत्तरपादे करिष्यते तत्प्रसङ्गार्थं पादान्तेऽङ्गाङ्गित्वचिन्तनमधुना कृतमिति नास्थानपातित्वदोषः।।

3. उक्तानामधिकरणानां प्रधानार्थभेदान् विभज्योद्गृणाति-- विद्यैक्येति। प्रथमाधिकरणे विद्यैक्यम्। अतः परम् उद्गीथविद्याद्वितयविभजनम्। इत्थमनुक्रमात् प्राणविद्यैकभावः। सर्वासु विद्यास्वानन्दतादेस्स्वरूपनिरूपकधर्मस्य स्वरूपवदनुगतत्वम्। प्राणवासस्तत्वदर्शनम्। शाण्डिल्यविद्यैक्यम्। अहश्शब्दस्य अहंशब्दस्य च विभज्यावस्थानम्। सम्भृत्यादिगुणस्य स्थाननियमः। पुरुषविद्याभेदः। ' शन्नः ' इत्यादिमन्त्राणामध्ययनशेषत्वम्।।

4. हानोपायनयोररन्योन्ययोगः तयोर्हानोपायनयोः प्राप्तकालः, तथा अर्चिरादेस्सर्वविद्यासाधारणत्वम्, सर्वत्र विद्यासु अस्थूलतादिगुणसंगतिः, अनेकशिष्यश्रुतानामन्योन्यव्यतिहरणम्। दहरविद्यानामैक्यम्। उद्गीथमाश्रित्य दृष्टौ उपासने गुणफलविधिः। अपहतपाप्मत्वादिगुणोपासनेषु सर्वत्र गुणिन आवृत्तिः। सर्वपरविद्यावेद्यो नारायण इति निर्णयः।।

5. मनश्चित्प्रभृतयो विद्यारूपा विद्यामयक्रत्वनुप्रवेशिनः। क्षेत्री तु शुद्ध एवानुचिन्तनीयः। क्रियाङ्गबूतसर्वोद्गीथादिषु उपासनविधिः। वैश्वानरविद्यायां सामस्त्येनैव भजनम्। अथ विद्यानानात्वम्। मोक्षार्थानां विद्यानां विकल्पः। उद्गूथोपासनस्य पूर्नमुक्तस्यापि सदृढमेव युक्तिभिरनियतिरूचे।।

 

 इति तृतीयाध्यायतृतीयपादः सम्पूर्णम्।।



श्रीः

3.4.1.

1. गुणोपसंहारपादे मोक्षसाधनभूतब्राहृविद्यानिरूपणं कृतम्, अथ ब्राहृविद्याङ्गभूतकर्मनिरूपणं क्रियत इति सङ्गतिः। ननु पूर्वस्मिन्काण्डे कर्माणि निरूपितानि स्वर्गस्वाराज्यदिसांसारिकफलसाधनानीति तेषां कथं ब्राहृविद्याङ्गत्वम् कथं वा तत्प्रतिपादनेन विद्याङ्गपादस्य वेदान्ते समन्वय इत्याशङ्क्य परिहरति-- कर्मेति। अयमत्र शब्दान्वयः-- कर्म प्रागेव चिन्तयित्वा कर्मजिज्ञासानन्तरमेव ब्राहृणो जिज्ञास्यत्वमुक्तम् ' अथातो ब्राहृजिज्ञासा ' इति। अस्मिन्पादे कर्मणां विद्याङ्गतोक्तिर्वितथा पौनरुक्त्यात्। किञ्च कर्मणां विरोधिफलसाधनत्वेन विरुद्धत्वाच्च। तदिदमाह-- अनेकधात्याज्यतोक्तेरिति। ' न कर्मणा न प्रजया ' ' प्लवा ह्रेते अदृढा यज्ञरूपाः ' इति त्याज्यत्वमेव कर्मणामुच्यते। इत्थमाशङ्कितमर्थं प्रतिक्षिपति-- मैवमिति। प्रतिक्षेपप्रकारं द्वेधा विभज्य दर्शयति- कर्मैवेति। कर्माणि खलु फलान्तरे यानि विनियुक्तानि तान्येव विनियोगभेदेन विद्याङ्गत्वेन विनियुज्यन्ते। अतस्तेषामङ्गत्वसिद्धिः। तथा स्वर्गादिष्वविनियुक्तान्यपि परमपुरुषचरणयुगलध्यानार्चनप्रणामादीनि बहूनि कर्माणि श्रुतिस्मृतिहासपुराणसत्त्वोत्तरागमसदाचारप्रमाणकानि विद्यन्ते तेषां विद्याङ्गत्वप्रकारपरिशोधनं क्रियत इति पादारम्भस्य सार्थकत्वसिद्धिः। अत्राप्ययमन्वयः-- कर्मैव यज्ञादिकं कर्मैव फलसङ्गकर्तृत्वत्यागादि गुणसमन्वितं भगवद्गीतादिप्रमाणकविनियोगपृथक्त्वेन भिन्नं काम्यकर्मणो विभक्तं विद्यानिष्पत्तिहेतुर्भवतीति तन्निवृत्तिधर्म इति नामान्तरेण कथ्यमानं सुकृतमेव स्यात्। तथा विद्यानिष्पत्तिहेतुतयेतिहासपुराणादिप्रसिद्धं नमस्कारादिकमपि निवृत्तिधर्म इति तदुभयप्रकारविशेषोपपादनेन विद्याङ्गपादन्यायकलापः प्रतायत इति सुसंगतमेतत्।।

2. अत्र केषां परित्यागः कार्यः केषां वा परिग्रह इत्यजानानस्य शिष्यस्य त्याज्योपादेयप्रकारविशेषोपपादनेन विभागमाह-- त्याग इति। काम्यक्रियाणां परित्यागः कर्तव्य एव ब्राहृविद्यानिष्ठस्य। क्वाप्यनर्हक्रियाणां पापरूपाणामित्यर्थः। निषिद्धकाम्ययोस्स्वरूपेण परित्यागमुक्त्वा नित्यनैमित्तिकयोरपि फलसङ्गकर्तृत्वत्यागमाह- स्वैकाधीनत्वबुद्धेरिति। अयं कर्तृत्वत्यागः ईश्वरनिरपेक्षकर्तृत्वबुद्धेस्स्वात्मनि परित्यागात्। कलत्यागमप्याह-- अनुपाधिकेति। परमात्मशेषभूतस्वार्थबुद्धिर्न विरुद्धा, स्वतन्त्रस्वार्थबुद्धिर्विरुद्धेत्यनुपधिकशब्देन विशेषयति। राजभृत्यादिपरिपोषणं राजार्थम्, न स्वार्थम्, एवमध्यात्मविदां तत्त्वज्ञानादिसम्पादनमपु न स्वार्थम्,अपितु स्वशेषिभूतपरमात्मातिशयार्थमेवेति भावः। पतिव्रतालङ्कारो हि पत्यर्थो नतु स्वार्थ इति हि तत्त्वविदामालापः। तेन ' पतिं विश्वस्यात्मेश्वरम् ' इत्युक्तपरमात्मशेषत्वेनैव स्वातिशयमपि कुर्वते तत्त्वविदः। अत्र गीतइति भगवद्गीताप्रतिपाद्यत्वमुच्यते। एवं त्याज्यत्वमुक्त्वा विदुषामुपादेयमपि विभज्य दर्शयति-- अत्रेति। अहिंसासत्यास्तेयादीनां नियमरूपाणं पापक्षयहेतूनां सर्वजातिसाधारणानां तथा वर्णाश्रमादिप्रतिनियतिमतामुपास्त्यङ्गभावमत्रास्मिन्पादे ब्राूते।।

3. अत्र पादसङ्गतिर्भाष्ये ' गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता। इदानीं विद्यातः पुरुषार्थ उत विद्याङ्गकात्कर्मण इति चिन्त्यते ' इति। अनेन पूर्वपादे विद्याचिन्ता, अस्मिन्पादे विद्याङ्गचिन्तेति विभागः प्रदर्शितः। अत्र प्रथमाधिकरणे कर्मणामङ्गत्वसिद्धयर्थं विद्याया अङ्गित्वं प्रसाध्यत इति प्रथमाधिकरणस्यास्मिन्पादे प्राथम्यसिद्धिः। किञ्च गुणोपसंहारान्तिमाधिकरणे उद्गीथविद्यायाः पृथक्फलत्वेन पुरुषार्थसाधकत्वमुक्तम्, अधुना ब्राहृविद्यायाः फलवत्त्वेन पुरुषार्थसाधकत्वं साध्यत इति च सङ्गतिरधिकरणस्य। तदर्थविचारस्तु-- किं विद्यातः पुरुषार्थ उत विद्याङ्गकात् कर्मण इति। तदर्थं विचार्यते-- किं विद्या क्रतुकर्तुभूतात्मसंस्कारमुखेन क्रत्वर्थभूता आहोस्विदपुनरावृत्तिसाधनतया पुरुषार्थेति। किं ' ब्राहृविदाप्नोति परम् ' ' तमेवं विदित्वातिमृत्युमेति ' इत्यादिवेदान्ताः फलविधय उत फलार्थवादाः। किं परविद्यासु कर्मतया प्रतीयमान आत्मा जीवात्मा, उत तदतिरिक्तः परमात्मेति। किं ' यक्ष्यमाणो हवै भगवन्तोऽहमस्मि ' #ित्याचारदर्शनादिलिङ्गानुगृहीतं

तत्त्वमस्यादिसामानाधिकरण्यमुपास्यस्य जीवात्मत्वमवगमयति नेति। किमिदं लिङ्गमनैकान्तिकं नेति। अत्र पूर्वपक्षमनुवदति-- कर्तेति। यः कर्मणां कर्ता जीवः, तस्मादधिकं ब्राहृ नास्त्येव। तस्मान्मकादौ यज्ञादौ उपनिषदस्तद्बुद्धयैवोपयुक्ताः जीवस्वरूपपरिज्ञानेनैवोपकुर्वन्ति। इत्यज्ञमीमांसकोक्ताविति पूर्वपक्षमनूद्य सिद्धान्तमाह-- जीवान्येति। जीवव्यत्तिरिक्तब्राहृचिन्तात्मकभजनविधौ कर्मणामङ्गभावं प्राह। ननु जीवपरत्वे सप्रमाणे कथं ब्राहृपरत्वमुपनिषदामित्यत्राह-- क्षिप्तान्यलिङ्ग इति। प्रतिक्षिप्तजीवलिङ्ग इत्यर्थः। यानि जीवलिङ्गानि प्रतिभान्ति तानि

प्रतिभासमात्रसिद्धत्वान्न तत्त्वानीत्यर्थः। कीदृशानां कर्मणां ब्राहृविद्यामङ्गभाव इत्याशङ्क्याह-- सत्त्वसंवर्धकानामिति। केन प्रकारेणेत्यत्राह-- कलुषशमनत इति। अयमत्रान्वयः-- सत्त्वसंवर्धकानां फलसङ्गकर्तुत्वादिविधिराणां कलुषशमनतोऽन्तःकरणनैर्मल्यापादनद्वारेण सत्त्वसंवर्धनेन ब्राहृविद्यायामङ्गत्वं भवति विमलकर्मानुष्टानेन निर्मलीकृतमनसां ब्राहृविद्ययैवापवर्गप्राप्तिरिति विद्यायाः पुरुषार्थत्वमेवेति।।

4. अचत्र कश्चिच्चोदयति-- एवमेकादशभिः पादैः परं ब्राहृैव परतत्त्वमिति प्रसाधितं कथमस्मिन्नधिकरणे जीवस्यैवोपनिषत्प्रतिपाद्यत्वशङ्केति। तदिदमाह-- पादैरिति। अयमत्रान्वयः-- अत्रैकादशभिः पादैः परं ब्राहृैव वेद्यतया निरूढं प्रसिद्धम्। भूयः कथं गगनलिपिसमैः आकाशाक्षरसन्निभैः क्षुद्रलिङ्गैराभासहेतुब्र्राहृविद्या क्षोभ्यत इति। तत्रार्धाङ्गीकारेणोत्तरमाह-- सत्यमिति। उक्तार्थस्य सत्यत्वेनाङ्गीकाराः, अथापि बालबुद्धीनां विकटविद्वद्क्षोभितानां सङ्क्षोभणप्रशमनेन संरक्षणार्थं वक्तव्यशेषोऽस्तीत्यर्धाशेनानङ्गीकारः। अयमर्थः-- धृर्तोक्तीनां तावन्निश्शेषनिराकरणं कर्तव्यमेव, किञ्च वादरायणशिष्यतल्लजस्य जैमिनेब्र्राहृनिराकरणमत्यन्तानिष्टमित्युक्तं भवति।।

5. अत्र विद्यायाः कर्माङ्गत्वे पूर्वपक्ष्यभिप्रेतानि लिङ्गान्यनुक्रमेणानूद्य निराकरोति-- कुर्वन्नेवेत्यादिना। अयमर्थः-- ' कुर्वन्नेवेह कर्माणि जिजीविष्च्छतं समाः ' इति कर्मणः प्राधान्यं वदति तेन ब्राहृविद्या कर्माङ्गमिति तावदेकं चोद्यमन्यथासिद्धम्। तद्वाक्यं ब्राहृविदः कर्म कर्तव्यमेवेत्याह नपुनर्विद्यायाः कर्माङ्गत्वं तत्साधकविशेषलिङ्गाभावात् तेनेदं वाक्यं ब्राहृविदि नियताचारतोक्तिरेव। हेत्वन्तरमप्यनूद्य निराकरोति-- अन्वारम्भ इति। ' तं विद्याकर्मणि समन्वारभेते ' इति विद्याकर्मणो ब्र्राहृविदि नियतान्वयवचनात् ब्राहृविद्या कर्माङ्गमिति। तदपि न- तत्र विद्याकर्मणोस्साहित्यमेवोच्यते, नपुनर्विद्याया अङ्गत्वम्, नापि च कर्मणोऽङ्त्वम्, साहित्ये सति यथाप्रमाणं विद्या वा कर्म वा अङ्गित्वमश्नुवीत, अत्र पुनः ' यज्ञ दानेन' 'कर्मणैव हि संसिद्धिम् ' ' इयाज सोऽपि सुबहून् ' इति प्रमाणकोटिसहरुाानुसारेण कर्मैव विद्याङ्गम्, न पुनर्विद्या कर्माङ्गमिति। धीक्रियाब्यां सहैवान्वारम्भो ज्ञानकर्मणोरङ्गतां वा अङ्गितां वा न नियमयेदिति शब्दान्वयः। परवाद्यबिमतं तृतीयमपि हेतुं निराकरोति-- विद्यापूर्वमिति। ' यो वा एतदक्षरं गाग्र्यविदित्वा ' इति विद्यारहितं कर्म निराकृत्य ' यो विदित्वा ' इति विद्यापूर्व कर्मानूद्य ' स ब्रााहृणः ' इति ब्रााहृणत्वप्राप्तिरूपफलोपदेशात् विद्या कर्माङ्गमिति। एतच्च वाक्यं ब्राहृविद्याङ्गकर्म ब्राहृज्ञानपूर्वकमेव कर्तव्यमिति वदति, न पुनब्र्राहृविद्यायाः कर्माङ्गत्वं वदतीती तत्रतत्रोक्तम्। तदेव विवृणोति-- न ह्रेतदिति।' यदेव एतदक्षरं गार्गि विदित्वा ' इत्यत्रानुष्ठानोपयुक्तं वेदान्तजन्यं ज्ञानमेवोच्यते तेनैतद्वाक्यं न ब्राहृोपासनरूपां विद्यामनुवदतीत्यर्थः। अतो न ब्राहृविद्यायाः कर्माङ्गत्वम्। अथवा ' आचार्यकुलाद्वेदमधीत्य ' इति विद्यायाः कर्माङ्गत्वमाशङ्क्य तस्यापि वेदाद्ययनमात्रपरत्वं न पुनब्र्राहृविद्यापरत्वमुच्यते-- नह्रेतदिति। मा भूदेतैर्हेतुभिब्र्राहृविद्यायाः कर्माङ्गत्वम्, अथाप्युद्गीथविद्यायाः कर्माङ्गत्वविधानादस्तु विद्याकर्माङ्गमित्याशङ्क्य तदपि प्रागेव प्रतिक्षिप्तमित्याह--नचेति। एवं पराभिप्रेतहेतुसमुदायनिरासात् कर्मैव विद्याङ्गमित्यर्थः।।

6. विद्या कर्माङ्गमिति वदतः पूर्वपक्षिणो भावं विकल्प्य दूषयति-- स्वाध्यायेति। किं वेदाध्ययनमेव विद्येति भवताभिधीयते किं वा अद्ययनजनितमक्षरराशिग्रहणम् अथवा तज्जन्यं शारीरकमीमांसाश्रवणम् अथवा तदुपबृंहितवेदान्तवाक्यार्थपरिज्ञानं उत मननसन्तानमुखेन तज्जन्यं ब्राहृोपासनम् इति विकल्पः।

तत्र प्रथमपक्षस्य दूषणं दर्शयति-- स्वाध्यायेति। ' स्वाद्यायोऽध्येतव्यः '

इत्यध्ययनमक्षरराशिग्रहणप्रात्यर्थमेव विधीयते। नोत्तराङ्गम्-- उत्तरकर्मानुष्ठानार्थं न विधीयते। अत्र कर्मकाण्डानुमतं दृष्टान्तमाह-- आधानवदिति। आधानां ह्रग्निसिद्धये विधीयते, नपुनरुत्तरकर्मानुष्ठानार्थम्। अक्षरराशिग्रहणमिति द्वितीयपक्षेऽपि तस्य श्रवणशेषत्वेन सुप्रसिद्धत्वात् तत्रापि वक्तव्यम् नावशिष्यते। वेदान्तवाक्यपरिज्ञानमिति चतुर्थः पक्षः परिशिष्यते, तत्रोत्तरमाह-- विद्याङ्गमिति। वेदान्तवाक्यार्थपरिज्ञानं ब्राहृोपासनाङ्गमेव भवतु, एकविषयत्वात् सापेक्षत्वाच्च। न पुनः कर्माङ्गम् परस्परापेक्षाभावात्। ननु वाक्यजन्यं ज्ञानमेव ब्राहृविद्या, ब्राहृज्ञानाद् ब्राहृविद्याप्राप्तिरित्यसङ्गतमात्माश्रयादित्याशङ्क्य परिहरति-- यदधिकेति। वाक्यजन्यज्ञानादुपासनात्मकं ज्ञानमधिकमेव। वाक्यजन्यज्ञानं हि परोक्षं सकृच्च मननहेतुर्भवति। उपासनात्मकं त्वहरहरभ्यासाधेयातिशयमाप्रायणादनुवर्तमानमपरोक्षज्ञानशिरस्कं साक्षाद् ब्राहृप्राप्त्यर्थञ्च कथं कर्मानुष्ठानं सेत्स्यति तेन ब्राहृज्ञानं कर्मणोऽप्यङ्गं स्यात् ; नेत्याह-- नित्यात्मज्ञानमात्रमिति। प्रवृत्तिधर्मनिष्णातैः क्रियमाणेषु कर्मसु।

देहातिरिक्तनित्यात्मज्ञानमेव ह्रपेक्ष्यते।। तच्च कर्मकाण्ड एव सिद्धम्। ब्राहृकाण्डसाध्यं तु ब्राहृज्ञानं प्रवृत्तिधर्मनिष्ठानां विरुद्धमेव तत्परित्यागहेतुत्वात्। तेन पञ्चमः पक्षः परिशिष्यते सोऽपि न-- वीतरागमात्रनुष्ठेयस्य परब्राहृोपासनस्य स्वर्गादि प्रापककर्माङ्गत्वप्रसङ्गाभावात्। तेन न विद्यायाः कर्माङ्गत्वसिद्धिः। अथापि परब्राहृविद्या काम्य कर्माङ्गमिति मोहाद् यदि वदसि तदुन्मत्तप्रलपितमेव। यदि ब्राहृविद्या काम्यकर्माङ्गम्, कथं तर्हि ब्राहृविद्यानिष्ठस्य काम्यकर्मपरित्यागस्सर्वत्राप्यध्यात्मवित्सु श्रूयते? विद्यां प्रति अङ्गित्वेनानुष्ठेयस्य कर्मणस्त्यागे प्रधानलोपः ; अत्यागे पुनस्त्याज्यताप्रतिपादकप्रमाणविरोध इति। अयमत्र शब्दान्वयः-- सा परब्राहृविद्यापि यद्येषां पूर्वकाण्डप्रतिपाद्यकाम्यकर्मणामङ्गं तदा सविद्ये ब्राहृविद्यानिष्णातेऽधिकारिणि काम्यकर्मत्यागः कथं स्यादिति।।

7. विद्यायाः कर्माङ्गत्वे दूषणमाह-- नाङ्गमिति। अयमर्थः-- किं विद्यायाः कर्माङ्गत्वं श्रुतिलिङ्गादिष्वन्यतमेन प्रमाणेन? यदि वा मानमन्तरेण ? उत्तरत्र सर्वं सर्वाङ्गं स्यात्। पूर्वत्रापि श्रुत्यानैतदस्ति । विद्यायाः कर्माङ्गत्वप्रतिपादकश्रुतेरदर्शनात्। न च लिङ्गेन, तस्याप्यदर्शनात्। नापि वाक्यस्थानसमाख्याभिः, तासाम्प्यनुपलम्भात्। प्रकरणमेकवशिष्यते तदपि नास्तीत्याह-- न हीति। कर्माधिकृतधिकारिणमधिकृत्य यदि ब्राहृविद्या वि#ीधीयते तदा तस्याः कर्मशेषत्वमङ्गीकार्यम्, न च तद् विद्यते ततः कर्माङ्गत्वं कथमिव विद्यायाः। ननु ब्राहृविद्यानिष्ठानामेव तपस्तीर्थतनादिविधानाद् विद्यायास्तत्तद्धर्मशेषत्वमित्याशङ्क्य सा च विपरोतकल्पनेत्याह-- स्यादिति । तत्तत्कर्मणां विद्या अङ्गं स्यादिति न वक्तव्यम् कल्पनाया विपरीतत्वात्। तपस्तीर्थादिनिष्ठानां व्यासपराशरादीनां विद्यैव प्रधानं कर्म गुण इति सर्वेऽपि निर्वहन्ति। तथा च श्रूयते ' यज्ञेन दानेन तपसा नाशकेन ब्रााहृणा विविदिषन्ति'

'क्रियावानेष ब्राहृविदां वरिष्ठः ' ' कर्मणैव हि संसिद्धिमास्थिता जनकादयः ' 'कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ' इति सहरुाशोऽपि वचनजातम्, तस्मात्कर्मैव विद्याङ्गमिति विदुषां निर्णयः। यदि च विद्या यज्ञादिकर्माङ्गम्, तदोध्र्वरेतसांयज्ञादिकर्माभावात् विद्या विश्येदेव। अङ्ग्यभावे सति किमनेनाह्गेन निष्फलेन सफलत्वे वा कथमङ्गत्वं परिकल्प्यते। तर्हि ऊध्र्वरेतसामाश्रममेव परित्यजामः, तदाश्रमनिष्ठानां विद्यामप्यविद्या#ुपरिकल्पितामामनाम इत्याशङ्क्योत्तरमाह-- जाबालैरिति। जाबावरूप्ध्वरेतोविधिः पठ¬ते। तथान्यैरपि श्रुतीतिहासपुराणपाठकैरूध्र्वरेतसामाश्रमस्तत्रतत्रानूद्यते। अतस्सोऽप्याश्रमस्स्वीकर्तव्यः। तेषां ब्राहृविद्या च यथाप्रमाणमङ्गीकर्तव्या। यज्ञादिकर्माभावाद् विद्यायाः कर्मशेषत्वमपि परिहर्तव्यमिति। ननु सर्वमप्येतदनुवादमात्रम्, न पुनर्विधिः। तेनोध्र्वरेतसामाश्रमस्य प्रमाणमूलत्वं नास्तीत्याशह्क्य परिहरति-- तस्मात्प्राप्तिरिति। अयमर्थः-- परिदृश्यमानस्य प्रमाणजातस्यानुपवादत्वे पुरोवादमन्तरेणानुपपत्तेः पुरोवादश्श्रुतार्थापत्या परिकल्प्यत इति तस्याप्याश्रमस्य प्राणामिकत्वसिद्धिः। अन्यथापि एषामनुवादत्वाभावेऽपि अप्राप्तविषत्वादेतदेव प्रमाणम्। अयमत्र शब्दार्थः- एतेषामनुवादत्वे प्राप्तिः पुरोवादोक्तिः परिग्राह्रा एतेषामप्राप्तविषयत्वे स्वयमेवैतानि वाक्यानि प्रमाणानीति।

ननु बाधकप्रामाणाभावे हि प्राप्तिः परिकल्प्या, विद्यते हि बाधकप्रमाणम् 'विरहा वा एष देवानां योग्निमुद्वासयते ' इति, तेनोध्र्वरेतसामाश्रमो नास्तीत्याशङ्क्य परिहारमाह-- तन्निषेध इति। सरागस्यैवाग्निपरित्यागनिषेधः। वीतरागस्य तु ब्राहृचर्याद्याश्रमपरित्यागेन चरमाश्रमपरिग्रहस्य सर्वेष्वपि स्मृतीतिहासपुराणेषु सुप्रसिद्धत्वात्। श्रुतिषु च जाबालादिपठितासु निर्बाधमेव दृष्टत्वादिति।।

3.4.2.

1. पूर्वं हि ब्राहृसंस्थस्य स्तुत्यर्थमनूदितत्वं पूर्वपक्षीकृत्याश्रमद्वयस्य विधिरेव प्रत्यपादि। एव मधुना पुनस्स्तुतुप्रसङ्गात् रसतमत्वप्रतिपादवाक्यानि स्तुतिपराणि अथवा नेति शङ्क्या पूर्वपक्षोत्थानमिति अस्याधिकरणस्य प्रासङ्गिकी सङ्गतिः। ननु पूर्वमेवायमुद्गीथप्रसङ्गः कृतः किमर्थं पुनरुच्यते इत्याशङ्क्य भाष्यकारैरेवोद्गीथविषयाधिकरणयोः प्रयोजनभेदेन वैषम्यमुक्तम् ' अत्र प्रतिपादितमुपासनपरत्वमङागीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्तः ' इति। अयमर्थः-- अत्रोपासनपत्वे तात्पर्यं पूर्वत्र क्रतुषूपादानानियमे तात्पर्यमिति। तदर्थविचारस्तु स एष रसानां रसतमः परमः पराध्र्योऽष्टमो य उद्गीथः इत्येवञ्जातीयकानि वाक्यानि किं सामावयवभूतोद्गीथादिस्तुतिमात्रपराणि उतोद्गीथादिषु रसतमत्वदृष्टिविधिपराणीति। तदर्थं विचार्यते-- किं पदानामेषामर्थवादत्वसमाश्रयणं न्याय्यम् उत विधिपरत्वम्। अत्रापूर्वत्वं किं विधित्वमवगमयति नेति। अत्र पूर्वपक्षमाह-- जुह्वादीति। इयमेव जुहुस्स्वर्गो लोके आह्वनीयः इति जुह्वादिस्तोत्रवद् रसतमाद्युक्तिरपि यज्ञाङ्गभूतोद्गीथादिस्तुतित्वमेव भजतु । पूर्वपक्षं निराकरोति-- मैवमिति। निराकरणमेव विवृणोति--

तत्तदिति। यद्युद्गीथादिविधानप्रकरण एवेदं वाक्यं स्यात् तदानीं विहितार्थप्रशंसारूपार्थवादत्वं भजेत। तेन तत्प्रकारणरहितत्वेनार्थवादत्वं न भजेत। किञ्चैतद्वाक्यसमीप एव तत्तद्दृष्टोर्विधानञ्च दृश्यते, नैवं जुह्वादिवाक्ये अनारभ्याधीतत्वात्। तस्मादनन्यार्थशिष्टेऽन्यस्याङ्गतया विधानरहिते ' यदेव विद्या करोति, तदेव वीर्यवत्तरम् ' इति फलवत्युद्गीथोपासने कल्प्यमानो विधिरेव युज्यते न पुनरर्थवादत्वम्। पर्णमयत्वादिकं त्वन्यार्थशिष्टं फलसाधनत्वप्रतिपादकविभक्त्यभावाच्च फलशून्यं तस्मातत्र न विधिरिति प्रागेवोक्तमिति भावः।।

2. उक्तमेव विधिपरत्वं विशदप्रतिपत्त्यर्थं युक्तिभिः प्रतिष्ठापयति-- किञ्चेति। अयमर्थः-- विधिपरत्वं नास्तीति वदता किमत्रानुवादत्वमेवोच्यते उत विधेयस्तुतिपरत्वं उभयमपि नास्ति-- प्राप्तेरभावात्। पूर्वमेव रसतमत्वादिविशिष्टविधाने सत्येव ह्रत्रानुवादत्वं कल्पयितुं शक्येत। तथैव स्तुतिमात्रत्वमपि कल्पयितुं शक्येत अत्र तु प्राप्तेरभावादुभयमपि कल्पयितुं न शक्यते। नाधीरोप्यस्तुतिर्वा अन्यत्राधिरोप्यस्य रसतमत्वादेस्स्तुतिश्च न भवतीति। ननु तत्र तत्रोभयपरिकल्पनमपि दृश्यते तत्किमत्र नाश्रीयत इत्याशङ्क्याह-- युक्तेति। ' विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः ' इति न्यायानुसारेण विध्येकवाक्यत्वे प्रतिपन्ने सत्येवागत्या गतिरियं युक्ता। सा गतिरत्र रसतमत्वादि दृष्टिविधायकवाक्ये नास्ति आसक्तिहानेः विध्यासक्तिहानेः विध्येकवाक्यत्वप्रसङ्गाभावादित्यर्थः। नन्वत्र विध्यासक्त्यभावेऽपि यत्र विधिरस्त्यन्यत्र तत्रेदं वाक्यमुत्कृष्य स्तुतिपरत्वेन नेयमिति चेत् तदपि नेत्याह-- अगतिकविषये तत्प्रसह्र प्रसह्रमिति। उत्कर्षकल्पनं हि गतिशून्यविषय एव बलादङ्गीकरणीयम् अत्र पुनरस्ति गतिः अपूर्वार्थविषयस्य रसतमत्वादिदृष्टिविधानस्योपपादनादित्यर्थः। किञ्च बहूनां विधीनां मध्य एव रसतमत्वादिदृष्टिप्रतिपादनपरमिदं वाक्यं पठ¬ते तेन समभिव्याहारसामथ्र्यादस्य वाक्यस्य विधिपरत्वमेव न्याय्यमित्याह-- मध्य इति।।

3. अत्र पूर्वपक्ष्यभिप्रेतामाभासयुक्तिमनूद्य प्रतिक्षिपति-- विद्यार्थत्व इति। ' स एष रसानां रसतमः ' इत्यादिवाक्यस्य विद्यार्थत्वमेव नपुनस्स्तुतित्वमिति हि भवतोक्तम्। तन्न युज्यते विद्यर्थत्वेऽपि स्तुतिपरत्वं युक्तमेव अविद्यामानस्यैव रसतमत्वादेर्दृष्टयर्थमत्राभिधानात्। अतस्स्तुतिपरमेवेदं वाक्यमविद्यमानर्थकथनादिति पूर्वपक्षिणोऽभिप्रायःर। तदिदमयुक्तमित्याह-- अयुक्तमिति। तत्र हेतुमाह-- दृष्ट¬ुद्देशेऽतिचारादिति। दृष्टिविधिषु व्यभिचारादत्यर्थः। गरुडमात्मानं जानीयादित्यादिषु

दृष्टिविधिष्वसतः कीर्तनमस्त्येव अथापि विधिपरत्वमङ्गीक्रियते तेन यदसतः कीर्तनं तद्विधिपरं न भवतीतिनियमाभावाद् व्यभिचरितमेवेदमिति। नन्वसतः कीर्तनादिति युक्तेव्र्यभिचारेऽपि सन्देह एव स्यात् व्यभिचारे हि विवक्षितार्थासाधकत्वेन सन्देहामेवावहति तेन रसतमत्वादिवाक्यं विधिर्वा स्तुतिरिवा ईवत्विति सन्देह एव स्यादिति पूर्वपक्षिवाक्यं बालभाषितमेवेत्याह अथ चति। बालभाषितत्वं प्रकटयति-- नित्य इति। अत्रायं विकल्पः-- किं नित्यमेव संशयस्स्यादिति भवतोच्यते किं वा यावन्नियामकविशेषादर्शनमिति। पूर्वत्र वेदाप्रामाण्यमेव स्यादित्याह-- नित्य इति। नियामकदर्शनेऽपि नित्यस्य संशयस्य सुलभत्वात्। अस्तु संशयः, स च संशयः। विशेषदर्षनादित्युक्तिवार्य इति द्वितीयपक्षेऽपि दोषमाह-- युक्तीति। इत्थम्भावे बुभुत्स्ये-- प्रमाणवाक्यस्येत्थम्भावो न्यायपर्यालोचनमेव ' इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ' इतिवचनात्, अत्र वाक्यानुग्राहकन्याये निरूपयितुमभिलषिते सति वच इह फलवत् ' ' यदेव विद्यया ' इति फलवत्त्वेन प्रतिपन्नं रसतमत्वादिवचो रसतमत्वादिदृष्टिविध्यर्थमेव भवति न पुनस्स्तुतिमात्रम्। अयमर्थः-- न्यायानुगृहीतवाक्यपर्यालोचनाक्षमाणां नोत्तरमेव देयम्। तत्पर्यालोचनक्षमाणां तु रसतमत्वादिवाक्यं रसतमत्वादिदृष्टिविधानार्थमेवेति सिद्धं भवति। अयमत्र शब्दान्वयः-- विद्यर्थत्वेऽपि अविद्यमानार्थकीर्तनात् स्तुतिरेव युक्तेत्ययुक्तम्। असतः कीर्तनादिति होतोर्गरुडमात्मानं जानीयादित्यादिदृष्टिविधो स्तुतिमात्रत्वव्यभिचारात्। तर्हि स्तुतिर्वा विधिर्वेति संशयस्स्यादिति बालभाषितं वैदिकार्थे नित्यसंशयाङ्गीकारे वेदाप्रामाण्यमेव स्यात्। विशेषदर्शनात् संशयनिवृत्त्यङ्गीकारे त्वत्रापि विशेषदर्शनमस्ति। विधित्वनियामकयुक्तीनां वह्वीनां वाक्यार्थनिर्णयेतिकर्तव्यातरूपाणामत्र विद्यामानत्वादिति। तेन विधित्वमेव न पुनस्स्तुतिमात्रत्वमित्यर्थः।।

3.4.3.

 1. अत्रापि प्रासङ्गिको सङ्गतिः। पूर्वस्मिन्नधिकरणे हि रसतमत्वादिवाक्यानां स्तुत्यर्थत्वं पूर्वपक्षीकृत्योपासनपरत्वं स्थापितम्। एवं प्रतर्दनाद्याख्यानानि किं स्तुत्यर्थत्वेन नेयानि उत पारिप्लवार्थत्वे नेति शङ्कयोत्थानात्। तदर्थविचारस्तु ' प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम ' ' श्वेतकेतु र्हारुणेय आस '

इत्याद्याख्यानानि वेदान्तवाक्यस्थानि किं पारिप्लवप्रोयगार्तानि उत विद्याविधानार्थानीति। तदर्थं विचार्यते-- किं पारिप्लवे सर्वाख्यानानां विनियोग उत मन्वाद्याख्यानानामेवेति। किं ' आख्यानानि शंसन्ति ' इति पारिप्रवाख्यानशब्दः सर्वाख्यानपरः उत मन्वाद्याख्यानपर इति। किं ' मनुर्वैवस्वतो राजा ' इति तत्रैवाकायानविशेषस्याम्नानमाख्यानशब्दस्य विशेषपरतामवगमयति नेति। अत्र सर्वेषामप्याख्यानानां ' आख्यानानि शंसन्ति ' इति विधिबलात् पारिप्लवार्थत्वमिति पूर्वपक्षमाशङ्कते-- विद्यास्विति। सर्वास्वपि विद्यास्वाख्यानभेदाः ' प्रतर्दनो हवै ' इत्यादय आख्यानविशेषाः-- ' आख्यानानि शंसन्ति ' इति विधिमहिम्ना परिगृहीताः पारिप्लवार्थास्सन्त्वेवेति। तदिदं प्रतिक्षिपति-- न स्युरिति। तत्र हेतुमाह-- विद्याविधानैरिति। तत्तदाख्यानप्रकरणपठितैस्तत्तद्विद्याविधानैस्तेषां सर्वेषामाक्यानानामेकवाक्यत्वदृष्टेः पारिप्लवार्थत्वं नास्तीत्यर्थः। नह्रत्र ' उद्गीथमुपासीत ' इत्युद्गीथसामान्यस्योपासनसम्बन्धप्रतिपादकदिं्वतीयश्रुतिवत् सर्वाखायानानां पारिप्लवसम्बन्धप्रतिपादिका काचित् श्रुतिरस्ति। केवलं प्रकरणमेव विद्यते। तत्पुनः प्रकरणं प्रकृततमाख्यानं पारिप्लवार्थत्वेन नियमयति। तर्हि पारिप्लवार्थमाख्यानशंसनविधानस्य को विषय इत्याशह्क्याह-- मन्वादीति। तत्र कथितं मन्वाद्याख्यानमात्रमेव पारिप्लवार्थं भवत्विति न नैरर्थक्येन विधिभङ्गप्रसङ्गः। ननु प्रकरणान्मन्वाद्याख्यानमस्त्वङ्गम्, अथाप्याख्यानान्तराण्यपि पारिप्लवाङ्गं भवत्वित्याशङ्क्य परिहरति-- तेनेति। अयमर्थः-- पारिप्लवस्य स्वप्रकरणपठितेन मन्वाद्याख्यानेन नैराकाङ्क्षात् प्रतर्दनाद्याख्यानानाञ्च स्ववाक्यपठिततत्तद्ब्राहृविद्यासमन्वयेन नैराकाङ्क्षयाच्च सर्वेषामाक्यानानां पारिप्लवे समन्वयक्लृप्तिर्निष्प्रमाणिकेति। शब्दार्थस्तु-- उक्तेनानेन हेतुना आकाङ्क्षानिवृत्तौ मन्वाद्याख्यानाधिकप्रतर्दनाद्याख्यानानां पारिप्लवार्थत्वक्लृप्तिर्न स्यादिति।।

3.4.5.

 1. अत्र व्याख्यातयोरधिकरणयोः प्रासङ्गिकत्वे भाष्य एव व्यक्तमुक्तं ' स्तुतिप्रसङ्गादवान्तर सङ्गतिविशेषेणार्थद्वयं चिन्तितम् ' इति। एतस्य पुनरधिकरणस्य प्रथमाधिकरणेन सङ्गतिरपि भाष्योपात्ता " विद्यावन्त ऊध्र्वरेतस आश्रमिणस्सन्तीत्युक्तम् ' ऊध्र्वरेतस्सु च शब्दे हि ' इत्यादिभिस्सूत्रैः। इदानीमूध्र्वरेतसो यज्ञाद्यभावात् तदङ्गिका विद्या न सम्भवतीत्यासङ्क्याह " इति। तदर्थविचरस्तु-- किं परिव्राजकानां ब्राहृविद्यायामधिकारोऽस्ति नेति। किं ' विविदिषन्ति ' इत्यादिना यज्ञाद्यङ्गिकैव विद्या उताश्रमप्रयुक्तधर्माङ्गिकोति। तदर्थं विचार्यते-- किं ' ब्राहृसंस्थो.मृतत्वमेति ' 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते' ' एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ' इत्योवमादीनि वाक्यान्यूध्र्वरेतसो विद्यासम्बन्धं प्रतिपादयन्त्याश्रमप्रयुक्तधर्माङ्गिका विद्येत्यवगमयन्ति नेति। किं कर्मणो विद्योत्पादकत्वं सम्भवति नेति। अत्र पूर्वपक्षशङ्कामनुवदति-- यज्ञादेरिति। ' यज्ञेन दानेन तपसा नाशकेन इति यज्ञादेब्र्राहृविद्याङ्गत्वेनोपदेशाद् यज्ञाद्यनधिकृतेषु ऊध्र्वरेतस्सु अङ्गिनः उपासनस्याधिकारो नस्यात्। अङ्गवैकल्योऽङ्गिनस्साद्गुण्याभावेन फलसाधनत्वभङ्गादिति। इमं पक्षं प्रतिक्षिपति-- नेति। करतत्र हेतुमाह--बहुविधेति। अयमर्थः-- बहुविधानां सत्यवचनादीनां सामान्धर्माणां स्वाश्रममात्रवियतानां विशेषधर्माणाञ्चाङ्गत्वोक्तेः। किञ्च चतुर्णामाश्रमाणां विद्यायोगस्तत्प्रतिपादको विधिश्च श्रूयते श्रुत्यैव प्रतिपाद्यत इत्यर्थः।न केवलं श्रुतिः, स्मृतिरप्यस्तीत्याह-- स्मर्यते चेति। चतुर्णामाश्रमाणां धर्मविधानं हि प्रायेण स्मृतीनां प्रवृत्तिप्रयोजनम्। तेन चतुर्णामप्याश्रमाणां स्वोचितकर्मानुष्ठानेन ब्राहृविद्यायामधिकारोऽस्ति। ननु तर्हि मोक्षाश्रम इति सन्न्यासाश्रमस्य विशेषतः प्रसिद्धिः कथमुपपद्यत इत्याशङ्क्य परिहरति-- प्रायेणेति। अयमर्थः-- पुत्रपौत्रादिबहूपप्लवोपप्लुतानां गृहस्थानां तावद् ब्राहृविद्यायामैकाग्र्यं भज्यते। केषांचित्तु भागधेयवशात् सिध्यत्यैकाग्रयम्। एवं ब्राहृचा रिवानप्रस्थानामपि चसन्न्यासिवदत्यन्तैकाग्रयाभावात् भज्येत वा नवा ब्राहृविद्याधिकारः। सन्न्यासिनस्तु परित्यक्तपरिग्रहत्वेन प्रायेण ब्राहृविद्याधिकारः परिपूर्णस्सम्पत्स्यत इति तस्मिन्नैव मोक्षाश्रमत्वप्रसिद्धिर्योज्यते।।

3.4.6.

 1. पूर्वमूध्र्वरेतस्स्वग्नीन्धनाद्यनपेक्षोक्ता, अधुना पुनः गृहस्थेषु यज्ञादिकर्मापेक्षोच्यत इति सङ्गतेस्स्फुटत्वात् भाष्ये तदनुक्तिः। तदर्थविचारस्तु-- किं गृहस्थस्य यज्ञादिकर्मवतो ब्राहृविद्यायामधिकार उत तद्रहितस्येति। तदर्थं विचार्यते-- किं यज्ञादिकर्म विद्याङ्गं नेति। किं ' यज्ञेन ' इति श्रुतिर्विद्याङ्गतया यज्ञादिकर्म विनियुङ्क्ते नेति। किं कर्मणो विद्योत्पादकत्वं सम्भवति नेति। अत्र पूर्वपक्षमारचयति-- त्यक्त इति। ऊध्र्वरेतस्सु यज्ञादिधर्मे परित्यक्तेऽपि परभजनविधेर्दृष्टत्वाद् गृहस्थेऽपि विद्या यज्ञादिकर्मानपेक्षा भवेदिति। तदिदमपाकरोति-- अनालोचितोक्तिरिति। अपाकरणप्रकारं दर्शयति- यज्ञेनेति। अस्य गृहस्थस्य। यज्ञेनेत्यादिकाभिश्श्रुतिभिः सा विद्या तत्प्रसाध्या यज्ञादिप्रसाध्यैव अवगता। ननु यज्ञेनेत्यादिभिः

' विविदिषन्ति ' इति विविदिषासाधनत्वमेवोच्यते यज्ञादीनाम्, नपुनर्विद्यासाधनत्वम्, तत्कथमुच्यते कर्मणां वेदनसाधनत्वमित्यत्रोत्तरमाह-- जिज्ञासेति। यथा अश्वेन जिगमिषतीत्यत्र जिगमिषां प्रति प्रधानभूतगमनसाधनत्वमेवाश्वस्य तथा जिज्ञासां प्रति प्रधानभूतज्ञानसाधनत्वमेव यज्ञादीनामिति न्यायसिद्धोऽयमर्थः। तेन जिज्ञासार्थत्ववादे निवत्र्य एवेत्यर्थः। अयमत्र भावः ' धातोः कर्मणस्समानकर्तृकादिच्छायां वा ' इति सूत्रे धात्वर्थप्राधान्येनैवोच्छायां सन् विधीयते, तेन सन्प्रत्यय एव धात्वर्थप्राधान्यं स्वयमेव वदतीति यज्ञादिभिर्वेदनस्यैव साध्यत्वाङ्गीकारे न सन्प्रयोगविरोध इति। एवमसिना जिघांसतीति दृष्टान्तान्तरमुदाहर्तव्यम्। श्लोके तावत् पदा जिगमिषतीति पाददृष्टान्त उक्तः।।

 2. ननु पादेन जिगमिषतीत्यादे गत्यभावात् सन्प्रयोगस्य धात्वर्थमात्रपरत्वम्, गत्यभावश्चोपलम्भविरोधात् नहि पादे जिगमिषासाधनम् अपि तु गमनसाधनमेव अतोऽर्थविरोधात् दृष्टान्ते प्रयोगवैपरीत्यं भवतु नाम यज्ञादिभिर्विविदिषन्तीत्यादौ तादृशो न कश्चिदर्थविरोधोऽस्तीति

पूर्वपक्ष्यभिप्रायमाशङ्क्य निराकरोति-- नन्वित्यादिना असदित्यन्तेन। पूर्वपक्षिणोक्तस्य दृष्टान्ते गत्यभावस्य पक्षेऽपि साम्यं प्रदर्शयति-- गत्यभाव इति. साम्यमेव प्रकटयति-- इच्छेति। तथा हि ब्राहृजिज्ञासां प्राप्तुमिच्छोः कर्मानुष्ठानं भवतोच्यते। तन्न विषयवैलक्षण्यज्ञानमन्तरेण कर्मभिरिच्छाया असाध्यत्वात्। विषयवैलक्षण्यज्ञानार्थं कर्मेति चेत् तर्हि ज्ञानार्थमेव कर्मेत्युक्तं स्यात्। तथाचापसिद्धान्तः, स्ववचनविरोधश्च। कर्मणो जिज्ञासाहेतुत्वस्य स्वोक्तस्यैवोपघातात्। अथवा कर्मानुष्ठानादिच्छा, इच्छया कर्मानुष्ठानमिति वैघट¬म्। वैघट¬मेव विवृणोति-- जिज्ञासामिति। जिज्ञासां प्राप्तुमिच्छोः कर्मानुष्ठातुः पुरुषस्य पूर्वमेव ज्ञानमिष्टं न न भवति-- इष्टमेव भवतीत्यर्थः। अतो ज्ञानेच्छैव जिज्ञासा सा पूर्वमेव सिद्धा। तां प्राप्तुकामः कर्मानुष्ठाय तां पुनः प्राप्नोतीत्यसङ्गतमेतत्। अयमत्र शब्दान्वयः-- जिज्ञासां प्राप्तुमिच्छोः पुरुषस्य ज्ञानं पुरैवेष्टं न न भवति, ज्ञानार्थमेव हि जिज्ञासा प्राथ्र्यते, ज्ञानार्थमित्युक्ते ज्ञानस्याभिलषितत्वं प्रागेव सिद्धम्। ज्ञानाभिलाष एव हि जिज्ञासा । सा पूर्वमेव सिद्धा।।

 3. ननु पूर्वमेव जिज्ञासायां सत्यां कर्मानुष्ठानम्, कर्मानुष्टाने सति जिज्ञासेत्यन्योन्याश्रयणादिकमुक्तम्, तन्न सम्भवति विषयविशेषेण ज्ञानभेदात् तथाहि पूर्वं सामान्यतो ज्ञानम्, तेनेच्छा, इच्छातः कर्मानुष्ठानम्, कर्मानुष्ठानात् पुनरिच्छाविशेषः, तस्मादुत्तरोत्तरमिच्छाज्ञानानुवृत्तिरिति न कश्चिद्दोष इति पूर्वपक्ष्यभिप्रायमनूद्य परिहरति-- नन्विति। अयमत्र शब्दार्थः-- इच्छानुवृतिं्त प्रति कर्म विहितं योज्यम्। न पुनः पूर्वेच्छां प्रति। ततः किमित्याह सिद्धान्ती। अयमभिप्रायः-- यावज्जीवमिच्छानुवृतिं्त प्रति कर्मानुष्ठानं प्रयोज्यं चेत् तर्हि विविदिषार्थस्य कर्मणो नित्यानुवृत्तत्वादिनुष्ठेयस्य स्वरूपप्रतिपत्त्यर्थं कर्मविचारस्यैव पूर्ववृत्तित्वं सिद्धं भवतीति स्वसिद्धान्तविरोधः। किंचोत्तरोत्तरमिच्छासिद्धयर्थं पूर्वमेव धीविशेषप्रजननमुदितं तावता न वारितं स्यादित्याह-- नेच्छार्थमिति। अयमर्थः-- इच्छातः पूर्वमेव ब्राहृज्ञानविशेषसद्भावोऽङ्गीकार्य इति तस्य ज्ञानस्य सद्भावः कर्मणेति कर्मविचारस्य पूर्ववृत्तत्वसिद्धिः। अस्तु वा अयं विधिर्विविदिषार्थः, वेदनार्थमपि कर्मविधिरस्तीत्याह-- ज्ञानार्थमिति। अस्तु विविदिषार्थमपि कर्मानुष्टानम्, अथापि ' क्रियावानेष ब्राहृविदां विरिष्ठः ' ' कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ' ' कर्मणैव हि संसिद्धिमास्थिता जनकादयः ' ' इयाज सो.पि सुबहून् ' इत्यादिभिज्र्ञानार्थमपि कर्म नापलपितुं शक्यते। ततोऽपि कर्मविचारपूर्ववृत्तत्वं सिद्धं शास्त्रस्य। तर्हि ' विविदिषन्ति' इत्यस्य सन्प्रयोगस्य का गतिरित्यासङ्क्य ' निदिद्यासितव्यः ' इति न्यायमतिदिशति-- निद्यानन्यायत इति। अयमर्थः-- यथा ' निदिद्यासितव्यः ' इति ध्याने सन्प्रयोगो विधेयस्य ध्यानस्येष्टतामाह, न पुनरिच्छाया विधेयत्वम् तद्वदत्रापि ' विविदिषन्ति ' इतीच्छाया न विधेयत्वम् इच्छाविषयत्वेन ज्ञानस्य प्राप्यत्वमुच्यत इति सुसङ्गतमेतत्।।

3.4.7.

 1. अत्र सङ्गतिर्भाष्ये एव सुव्यक्तमुच्यते 'गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि

उत नेति चिन्तायाम्'इति। तदर्थविचारस्तु-किं विद्यानिष्ठस्य गृहस्थस्य शमदमादीन्युपादेयानि उत नेति।किं यज्ञादीनां समदमादीनाञ्च विरोधोऽस्त्युत नेति। किमत्र विधीयमाना करणव्यापारोपरमरूपा

शान्तिर्यज्ञादिव्यतिरिक्तव्यापारशान्तिरुत सर्वव्यपारशान्तिः।अत्र पूत्वपक्षमुपन्यस्य निराकरोति--यज्ञादीति।

अयं किल पीर्वपक्षसिद्धान्तसंग्रहः। यज्ञादिकर्मणां करणणव्यपाररूपतिवात् शमादिनां तदुपरमत्वाच्च गृहस्थे शमदमादीनामभाव इति पर्वः पक्षः। तर्हि प्रव्रज्यादिनिष्ठेष्वपि तत्तदाश्रमनियततत्तद्व्यापारभूयस्त्वात् तत्रापि शमदमादिर्न स्यात् तत्रविहितव्यतिरिक्तविषयत्वे शमदमादिरूपस्योपरमस्योक्ते गृहस्थेऽपिशमदमादिर्विहितव्यतिरिक्तविषयव्यपारोपरम

इति समस्समाधिरिति सिद्धान्तः। शब्दावनयस्तु----यज्ञादिव्यापृतत्वात् सर्वकालमनिभृतकरणे गृहस्थे शान्त्यादयो गुणा इत्युक्तम्। सन्न्यासाश्रमस्थितानामपि तत्तदाश्रमोचितानेकधर्मप्रवृत्तेः।

विधिबलात् तत्सर्वं करणव्यापाररूपमपि सह्रते चेत् सह तदपि गृहस्थाश्रमादिप्रयुक्तं कर्मापि तुल्यन्यायेन सहस्व। तैः प्रव्रज्यादिनिष्ठैः फलसङ्गकर्तृत्वत्यागेनैव कर्मानुष्ठीयत इति चेत् तद् गृहस्थेऽपि

समानमिति न वैषम्यसिद्धिः।।

 2. पूर्व भगवदपराधादिप्रसक्तानामधिकारिणां तदनुरूपप्रायश्चित्तरूपकर्मानुष्ठानेन भगवन्तं प्रसाद्य फलप्राप्तौ लोकदृष्टप्रक्रियया शिष्याणां विश्वसमातनोति-- प्रज्ञातेति। लोके हि प्रज्ञातस्वापराधास्सेवकाः पश्चादनुतापे सति लोकसिद्धैरेव उपायैस्स्वाधिकारानुरूपैरर्चयन्तः क्रमेण शमितरुषस्तस्य सेवाफलं लभन्ते। इत्थमस्माकमपि इदं कर्तव्यमिदमकर्तव्यमिति स्वाधिकारैः विभक्तैः कर्मभिर्निरुपधिसुह्मदश्श्रीधरस्य निष्प्रत्यूहः प्रसादस्तत्परैरध्यात्मविद्भिरधिगम्य इत्यन्वयः।।

3.4.8.

 1. ब्राहृविदां शमनतमादयोऽनुष्ठेया इत्युक्तम्। तत्र भोजननियतिरुपशमविशेषोऽस्ति नेतिचिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु-- किं प्राणविदस्सर्वान्ननुमतिस्सर्वदा उत प्राणसंशयापत्तौ। किं ब्राहृविद उषस्तेः प्राणसंशये सति उदिच्छिष्टान्नभक्षणदर्शनं प्राणविदस्सर्वान्ननुमतेरापद्विषयत्वमवगमयति नेति। अत्राह पूर्वपक्षी-- वचनात् प्रवृत्तिर्वचनान्निवृत्तिरिति हि लोकसिद्धोऽयं न्यायस्सर्वैरप्यनतिलङ्घनीय एव। प्राणविद्यानिष्ठे हि सर्वान्नयोग्यत्वमुच्यते। तेन निषिद्धभक्षणनिषेधः प्राणविद्या निष्ठव्यतिरिक्तविषय एव, यथा न हिंस्यादित्यादौ समान्यनिषेध आलभेतेति विहितव्यतिरिक्तविषयइति निर्णायते तद्वदत्रेति। इमं पूर्वपक्षमाह-- आहारस्येत्यादिना। अनूद्य प्रतिक्षिपति-- अयुक्तमिति। अयुक्तत्वमेवोपपादयति-- अङ्गत्वेनेति। प्राणविद्यायां सर्वान्नभक्षणवचनं विद्याङ्गत्वेन विधानाभावात् प्राणात्ययप्रसङ्गेष्वनुमतिवचनमात्रमेव। तदिदं सूत्रकार एव साक्षात्प्राह-- ' सर्वान्नानुमतिश्च ' इति। एतस्य प्राणविद्यानिष्ठस्य सर्वान्नानुमतिवचनं प्राणात्ययविषय इत्युपपादयितुं प्राणनिष्ठादधिकमहिमनि ब्राहृनिष्ठेऽप्युषस्तौ प्राणात्ययविषयत्वेनैव दर्शनात् कैमुत्यन्यायेनोपपादयति-- पश्येति। शब्दान्वयस्तु-- प्राणविद्याधिकर्तुर्वचनादाहारस्य व्यवस्था न भवति। सामान्यमात्रेण प्रवृत्तः पुनरभोज्यभोजन निषेधो बलवद्विधिदर्शनेन संकुचेदेवेत्ययुक्तम्-- प्राणविद्याङ्गत्वेन विधानाभावात्। प्राणविदोऽधिकमाहात्म्यवत्युषस्तावपि ' नवाजीविष्यम् ' इति प्राणभङ्गप्रसङ्गे प्राणात्ययप्रसङ्गे निषिद्धभक्षणदर्शनात् प्राणविद्यायां केवलसर्वान्नभक्षणानुमतिवचनमापद्विषयमिति कैमुत्यन्यायसिद्धम्।।

3.4.9.

 1. अत्र सङ्गतिर्भाष्ये ' यज्ञादिकर्माङ्गिका ब्राहृविद्येत्युक्तम्। तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवलाश्रमिणाप्यनुष्ठेयानि उत नेति चिन्तायाम् ' इति। तदर्थविचारस्तु-- किं विद्याङ्गभूतान्याश्रमकर्माणि केवलाश्रमिणाप्यनुष्ठेयानि उत नेति। किमेषां विद्याङ्गत्वे केवलाश्रमाङ्गत्वं सम्भवति नेति। किं केवलाश्रमाङ्गत्वे नित्यानित्यसंयोगविरोधः प्रसज्यते नेति। अत्र पूर्वपक्षमनुवदति- वर्णादेरिति। 'यज्ञेन ' इत्यादिवाक्येन वर्णादेः कर्मणो ब्राहृविद्याङ्गभावोऽभिदधे। तस्मात् अब्राहृनिष्ठे ब्राहृविद्याऽभावेन ब्राहृविद्याङ्गकर्माननुसरणात्स्वैरित्वमेवास्तु। अत्रोत्तरम्-- मैवमिति। तत्र हेतुमाह-- नित्यत्वस्येति। इत्थं किल तान्त्रिकमर्यादा -- यानि कर्माण्येकत्र विनियुज्यन्ते तान्यन्यत्रापि विधिना विनियुक्तानि चेद् विनियोगपृथक्त्वादेवोभयत्रान्वयसिद्धिरिति। विनियुक्त्यन्यभावानुसारात्

विनियुक्त्यन्तरादित्यर्थः। अत्र चानुष्ठानं तन्त्रमेव भवति। यत्र हि देशकालाद्यैक्येन पृथगनुष्ठानं कर्तुं न शक्यते तत्र तन्त्रेणानुष्ठानमिति तान्त्रिकप्रक्रिया। उक्तार्थे सम्प्रतिपन्नदृष्टान्तमाह-- काम्येति। काम्याग्निहोत्रमनुष्ठीयमानं नित्यसिद्धिमपि करोतीति हि मर्यादा। एतच्च परविदां नित्यवर्गेऽपि योज्यमित्याह-- इहेति। अद्यात्मविदां नित्यानुष्ठानं हि ब्राहृविद्याङ्गभावेन तत्सिद्धिमपि तन्त्रेण करोतीत्यर्थः।।

3.4.10.

 1. अत्र भाष्ये सङ्गतिरुक्ता, ' चतुर्णामाश्रमिणां ब्राहृविद्यायामधिकारोऽस्ति, विद्यासहकारिण आश्रमधर्मा इति चोक्तम्। ये पुनराश्रमानन्तरा वर्तन्ते विधिरादयस्तेषां ब्राहृविद्यायामधिकारोऽस्तिनवेति विशये ' इति। तदर्थविचारस्तु-- किं विधिरादीनां ब्राहृविद्यायामधिकारोऽस्ति नेति। किं तेषां साङ्गब्राहृविद्योपसंहारसामथ्र्यमस्ति नेति। किमाश्रमसाधारणधर्माङ्गिकापि विद्या सम्भवति नेति। 'तपसा

ब्राहृचर्येण ' इत्यादिविनियोगोपबृंहितं रैक्वादीनां विद्यानिष्ठत्वदर्शनं विद्यायास्साधारणधर्माङ्गकत्वमवगमयति नेति। अत्र पूर्वपक्षमाह-- दारालाभ इति। दारालाभभावे परिव्राजकाश्रमप्राप्त्यनुरूपविरक्त्यभावे च मध्ये तिष्ठन्नन्तरेणाश्रमान् यो भवति- आश्रमशून्यो भवति य इत्यर्थः। तस्मिन्नधिकाराभावान्निश्शेषकर्मानुष्ठानशून्ये कथं भवति ब्राहृविद्याधिकार इत्याशङ्का। तां निराकरोति-- नेति। माभूदाश्रमधर्मः, सामान्यैरेव वर्णधर्मैः फलसङ्गकर्तृत्वादिपरत्यागात्मकगुणनियतियुतैः सा ब्राहृविद्या तस्मिन्नधिकारिणि साङ्गा भवत्येव। न केवलमस्माभि परिकल्प्यते, किंतु गाङ्गेयादिषु दृष्टमेतदित्याह-- भीष्मादाविति। तर्हि शूद्रेऽप्यधिकारः किं न स्यादित्याशङ्क्यापशूद्राधिकरणे शूद्राधिकारनिषेधस्य दृष्टत्वात्तस्य ब्राहृविद्यायामनधिकार एव। विधुरादीनां वेदाद्ययनादिविद्यानुष्ठानौपयिकबहुधर्मदर्शनाच्चाधिकारोऽस्तीति न शूद्रस्य तादृशं कर्म बहुप्रमाणनिषेधादिति भावः।।

3.4.11

 1. अत्र भाष्य एव पूर्वपक्षोत्थानक्रमेण सङ्गतिर्दर्शिता 'नैष्ठिकखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्राहृविद्यायामधिकारोऽस्ति नेति चिन्तायां विधुरादिवदाश्रमैकान्तैर्दानादिभिर्विद्यानुग्रहसम्भवादस्त्यधिकार इति प्राप्य उच्यते इति। तदर्थविचारस्तु-- किं नैष्ठिकाद्याश्रमभ्रष्टानां ब्राहृविद्याधिकारोऽस्ति नेति। किमेषां साङ्गविद्योपसंहारसामथ्र्यमस्ति नेति। किमेषां प्रायश्चित्तात् शुद्धिमत्त्वं सम्भवति नेति। किं ' यो ब्राहृचारी रिुायमुपेयात् ' इति विहितं प्रायश्चित्तं सर्वब्राहृचारिविषयमुत नैष्ठिकभिन्नब्राहृचारि विषयमिति। किं ' प्रायश्चित्तं न पश्यामि ' इति वचनं प्रायश्चित्तवचनस्य नैष्ठिकन्यतिरिक्तब्राहृचारिविषयतामवगमयति नेति। अत्र पूर्वपक्षमाह-- आरूढ इति। नैष्ठिकादित्रयमारूढः समनन्तरं तत्परावर्तनात्पतितो यस्तस्मिन्नपि ब्राहृविद्या भवत्येव। तद्दशार्हैस्स्वधर्मैस्सहकृता सहकृतत्वादित्यर्थः। पूर्वपक्षं निराकरोति-- मैवमिति। निराकरणहेतुमुपपादयति-- यद्यपीत्यादिना। यद्यपि नैष्ठिकस्य भ्रष्टत्व मुपपातकान्तर्गतम्, न पुनर्महापातकम्। लोके च महापातकपर्यन्तसकलपापक्षयहेतुभूतं हरिकीर्तनस्तुतिनमस्कारादिकमितिहासपुराणादिप्रसिद्धम्। अथापि नैष्ठिकादिभ्रष्टो ब्राहृविद्यायां नाधिकारोति ' प्रायश्चित्तं न पश्यामि' इति साक्षादेव प्रायश्चित्तनिषेधवचनस्य स्फुटतरमुपलभ्यमानत्वात्। नहि वचनविरोधे न्यायः प्रभवति। तेनेदमुपपातकं वा महापातकं वा यत्किञ्चिदेव भवतु। अथापि न ब्राहृविद्यायामधिकारः। तदिदमाह-- तदपीति। तत्र हेतुमाह-- तादृङ्निषेधादिति। अनधिकारित्वप्रतिपादकनिषेधवचनसामथ्र्यादित्यर्थः। यद्यपि हरिकीर्तनादिकं शोधकमस्ति तदपि तस्य समाभाषणाद्यर्हतामेवापादयति नपुनब्र्राहृविद्याधिकारमिति भावः।।

 2. ननु ' आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम्। पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम्।। ' इति भगवदवलोकनानुवृत्तिरेव महापातकोपपातकयोर्विनाशिकेत्युच्यते एवं योग एव योगभ्रष्टस्य पापनिरासकत्वेन तत्रतत्र शास्त्रेषूपदिश्यते तस्मात्कथं प्रायश्चित्ताभाव इत्याशङ्क्याह-- प्रायश्चित्तमिति। अयमत्र शब्दान्वयः-- उपपातकमहापातकयोब्र्राहृानुसन्धानमेव प्रायश्चित्तं वदन्ति। किञ्च योगिनां प्रमादात् प्राप्ते पाते योगमेव पुनः प्रायश्चित्तं वदन्ति मुनयः। तस्मादारूढपाते सत्यपि प्रायश्चित्तात् ब्राहृविद्यायामधिकारोऽस्तीति न वक्तव्यम्। तत्र हेतुः-- अचोदनीयं हि शास्त्रमिति। अपर्यनुयोज्या खलु शास्त्रगतिः। यत् यथा शास्त्रोक्तं तत्तथैवाङ्गीकर्तव्यम्। ननु भगवदनुसन्धानस्य सर्वपापहरत्वकथनमपि शास्त्रमेव, न ह्रेकस्य शास्त्रस्य शास्त्रान्तरं परतन्त्रम्। दृष्टा ह्रजामिलादेर्बहुपापवृत्तस्यापि मुक्तिप्राप्तिः। तत्कथमुच्यते प्रायश्चित्तं नास्तीत्याशङ्क्याह-- यावज्जीवमिति। अजामिलादिवत् यावज्जीवं

भगवदनुसन्धानमेव तादृशस्यापि पापस्य निष्कृतिरिति सूत्रकाराद्यभिप्रायः। उच्यते हि---

 ' शुचिर्भवति संस्मृत्या स्नातो भवति कीर्तनात्।

  प्राणिपातेन पूतात्मा कृष्णस्यैते महागुणाः।। ' इति।

अतो भगवदनुसन्दानमामरणान्तिकं प्रायश्चित्तं तादृशानां पापानामित्यर्थः।।

 3. उक्तमेवार्थं दृष्टान्तान्तरेणाप्युपपादयति-- यो बालमित्यादिना। यो बालं हन्ति यस्तु रिुायं हन्ति यश्च वा शरणागतं हन्ति यश्च कृतध्नः प्रायश्चित्तैर्विशुद्धानपि तानेतान् साधुसंसृष्ट¬नर्हाञ्जगदुः। स्मर्यते हि--

  'शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि।

 शरणागतहन्तुस्तु न दृष्टा निष्कृतिः क्वचित्।। ' इति।

तथा 'कृतघ्ने नास्ति निष्कृतिः ' इति। एवं बालस्त्रीनिधननिन्दावचनानि पाठ¬ानि। इत्थं वचनबलाल्लोकेच तादृशामुत्पथवृत्तीनामध्यात्मविद्भिरपरिग्रहाच्च सूत्रकारैर्दर्शितम्। किमर्थमिदं शास्त्रमेतादृशं निष्कृत्यभावप्रतिपादकं निष्ठुरवचनं वक्तीत्याशङ्क्याह-- शास्त्रमिति। यदि शास्त्रं शासनीयं भवति तर्हि पापप्रवणेषु शास्त्रस्य पारतन्त्र्यं तथाच सम्प्लुतो धर्मसेतुरिति। कृत्याकृत्यनियमाभावस्स्यादिति कृतं विस्तरेण।।

 4. पूर्वमेव शास्त्रमर्यादानुल्लङ्घनेन वज्र्यावज्र्यविभागः प्रतिपादितः किमर्थमिदं पुनः सूत्रकारेण प्रतिपाद्यत इत्याशङ्क्य प्रयोजनविशेषप्रतिपादनेन परिहरति-- ब्राहृांशत्व इति। अयमत्र शब्दान्वयः- ' भोक्ता भोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्राहृमेतत् ' इति श्रुत्यनुसारेण चेतनाचेतनयोब्र्राहृांशत्वे समानेऽपि गुणविषमतया शुद्ध्यशुद्धिस्वभावै ब्र्रााहृणचण्डालादिदेहैर्योगात् प्रेक्षणस्पर्शनादेरनुज्ञा परिहरणञ्च भवतीतिप्रागेव सूत्रकारैरुक्तम्। तथापि पुनरिह विविधालेपकक्षोभशान्त्यै अलेपका मृषावादिपक्षमेवाश्रित्यानाश्रमित्वेन वर्तमानाः कृत्याकृत्यनियमाभावेन वर्तमाना ब्राहृविन्नाममात्रधारिणो ऽकृत्यकरणकृत्याकरणकारिणः। अत्र विविधेतिवचनं प्रच्छन्नतादृग्विधवृत्तीनां परिग्रहार्थम्। अपरे पुनर्विष्णुभक्तिनाटकमाश्रित्यालेपकवृत्त्यैव वर्तन्ते। एवं विविधालेपकक्षोभशान्त्यै सम्यग्ज्ञातात्मनोऽपि प्रेक्षणस्पर्शनादेरनुज्ञापपरिहरणं प्रत्यबोधि। अयमर्थः-- भगवच्छेषत्वेन सम्यज्ञातात्मना तदाज्ञानुवर्तनमेव कर्तव्यम्। भगवदाज्ञा च श्रुतिस्मृती ' श्रुतिस्स्मृतिर्ममैवाज्ञा ' इति भगवतैवोक्तत्वात्। तेन तत्त्वविदामेव विशेषतः स्वाधिकारानुरूपं कर्मानुष्ठानं कर्तव्यमिति।।

3.4.12

 1. इदमधिकरणं प्रासङिगकम्। उपासनानुष्ठात्रननुष्ठातृविभागप्रसङ्गेनोद्गीथोपासनादेरनुष्ठात्रननुष्ठातृविभागचिन्ता क्रियत इति सङ्गतिः। तदर्थविचारस्तु-- क्रत्वङ्गाश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्तृकाणि उत ऋत्विक्कर्तृकाणीति। किं दहराद्युपासनानामिव फलिकर्तृकत्वं न्याय्यमुत गोदोहनादेरिवÐत्वक्कर्तृकत्वमिति। अत्र पूर्वपक्षी मन्यते-- ' शास्त्रफलं प्रयोक्तरि ' इति न्यायेन यः फली स एव कर्तेत्यङ्गीकरणीयम्। तथा चोद्गीथोपासनेऽपि फलिन एव यजमानस्य कर्तृत्वमङ्गीकार्यम् यथा दहराद्युपासनेषु फलिन एवोपासनकर्तृत्वमिति। तदिदमाह-- उद्गीथादाविति। उद्गीथोपास्तिः फलिना यज्वनैव भवति। ननु गोदोहनादौ फलित्वे सत्यपि यजमानेन न क्रियते तत् कथमित्याशङ्क्याह-- शक्येति। गोदोहनादौ ऋत्विक्कर्तृके प्रणयने यजमानेन गोदोहनं प्रयोक्तुमेव न शक्यते। तेन तत्र ऋत्विक्कर्तृकत्वसिद्धिः।अत्र पुनरुद्गीथोपासने बुद्धिरूप्तवादुपासनस्यÐत्वक्कर्तृकेऽप्युद्गीथे ह्रुपासनं कर्तुं शक्यत इति विषमो दृष्टान्तः। एवं फलिककर्तृत्वौचित्याद् दृष्टान्तवैषम्याच्च यजमानकर्तृत्वमेवेत्याह--तस्मादिति। उक्तमर्थ निराकरोति-- नेति। तत्र हेतुमाह-- परिक्रीतकर्माश्रयत्वादिति। दक्षिणाप्रदानेन परिक्रीत एवÐत्वक् तत्कर्म चोद्गीथप्रयोगः तदाश्रयञ्चोपासनम्। अयमर्थः-- साङ्गस्य यज्ञस्य निर्विघातानुष्ठानेन फलहेतुत्वसिद्धयर्थं परिक्रीत एवÐत्वक् तत्र प्रतिबन्धनिवृत्तिर्येनोपासनेन भवति तदनुष्ठानमन्तरेण निर्विघ्नमेव कर्मफलं न सेत्स्यति। अतस्तत्र विघ्नोपशमनार्थमनुष्ठीयमानोपासनेऽपि ऋत्विक्कर्तृकत्वमेव स्यादिति। प्रतिज्ञातार्थे दृष्टान्तमाह-- यथान्यइति। यथा ' गोदोहनेन पशुकामस्य प्रणयेत् ' इत्यनुष्ठानेन

तादात्विकसकलकर्मानुष्ठातृत्वमृत्विज एव। चास्माभिरुपपत्तिमात्रैणैतत्कल्प्यते अपि तु श्रुतिमवलम्ब्य ब्राूमहे। एवमेव ह्रेषा विद्यानूद्यते ' यदेव विद्यया करोति ' इति। उद्गीथे कर्तृत्वमृत्विज एव। तत्र विद्ययेति सहपठितविद्याकर्तृत्वमपि तस्यैव प्रतीयते। नहि चक्षुषा पश्यति देवदत्त इत्युक्ते चक्षुः प्रेरणं देवदत्तादन्यस्य भवति। एवं विद्याकर्तृत्वमृत्विज एव। ननु

गोदोहनप्रयोगे ऋत्विजा कर्तुं शक्ये यजमानस्य कर्तुं शक्त्यभावादकर्तृत्वम्। अत्र पुनर्यजमानस्योपासने शक्तिरस्तीति चेन्नेत्याह-- शक्यत्वमिति। नहि यस्य यत्र कर्तुं शक्तिरस्ति तेन तत्प्रयोक्तव्यमिति नियमोऽस्ति। सर्वेषामपि ऋत्विजां सर्वानुष्ठाने शक्तिरस्तीत्यनुष्ठानसङ्गरप्रसङ्गात्। अपि तु श्रुतिरेव कर्तारं नियमयति। यस्य हि श्रुतिर्यत्र कर्तृत्वमाह स एव तत्कर्तुमर्हतीति न्यायमार्गः।अत्र पुनः ' यदेव विद्यया करोति' इत्युद्गीथप्रयोगे तदुपासने च कर्तृत्वमृत्विज एव श्रुतिर्दर्शयति। ऋत्विक्कर्तृत्वेनैव फलिकर्तृत्वमपि सेत्स्यति। यजमानेनैव स्वकार्यकरणार्थं दक्षिणाप्रदानेन ऋत्विजां क्रीतत्वात्। अत्र लोकसिद्धमपि दृष्टान्तमाह-- स्वामिभृत्यक्रमेणेति। राजभृत्याः खलु राज्ञा पोषिता राजकार्यं राज्ञो नियमनेन कुर्वन्ति। तत्रान्तरङ्गतया बहिरङ्गतया वा यानि कर्माणि कर्तव्यानि तानि कर्माणि त एव कुर्वन्तीति घण्टापथोऽयं मार्गः। तेनोद्गीथाद्युपासनानामृत्विक्कर्तृकत्वमेवेति सिद्धम्।।

3.4.13

 1. पूर्वं यज्ञादीनां शमादीनाञ्च विद्यासहकारित्वमुक्तम्। अधुना पुनस्सहकार्यन्तरं चिन्त्यत इति

सङ्गतिः। अत्रोद्गीथादिप्रसङ्गस्तु सङ्गतिविशेषप्राप्त इति न विरोधः। इह तु मननस्य ध्यानालम्बनशुभाश्रयगोचरत्वेनातद्गोचरेभ्यो यज्ञादिब्यश्शमादिभ्यश्च विलक्षणत्वादतद्गोचरत्वसाधम्र्येण यज्ञादीश्च शमादीश्च पश्चान्मननं निरूप्यते। तदर्थविचारस्तु-- किमस्मिन्वाक्ये मौनं विधीयते उतानूद्यत इति। किं पाणिडिच्मेव मौनमुतार्थान्तरं मननरूपमिति। किं मननं विधातुं योग्यमुतनेति। किं मननस्य यज्ञादिश्रुतिविरोधोऽस्ति उत नेति। किं मननं कर्मानुष्ठानप्रतिक्षेपकमुत नेति। स्वप्रकरणे प्रकरणान्तरे च कतिपयाश्रमधर्मानुक्तिर्मननस्य कर्मानुष्ठानप्रतिक्षेपकत्वमुपोद्बलयत्युत नेति। किं कतिपयोक्तिरनुक्तानादरमूलैव स्यादुतानुक्तप्रदर्शनार्था च स्यादिति। अत्र पूर्वपक्षमनुवदति-- मन्तव्यत्व इति। इयं किल तत्वविदामनुष्ठानप्रक्रिया-- यज्ञादिकर्मानुष्ठानं ' यज्ञेन' इत्यादिना विद्याङ्गत्वेन विधीयते।'शान्तो दान्तः' इत्यादिना तु शमदमादिकञ्च तथैव विधायते।तेन तदुभयं विद्याङ्गमेव।यद्यपि 'श्रोतव्यो मन्तव्यः' इति वाक्येन श्रवणं मननञ्च रागतःप्राप्तत्वादनुद्यते, तथापि श्रवणमननाभ्यां विना विद्यानिष्पत्त्ययोगात् तदुभयमपि तदङ्गमेव। 'एवं तस्माद् ब्रााहृणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद् बाल्यश्च पाण्डित्यञ्च निर्विद्याथ मुनिः' इति पाणडिल्यादित्रितयमपि ब्राहृविद्याङ्गमेव विधीयते।तेन मौनपर्यनेतैरेतैरङ्गैब्र्राहृविद्या प्राप्यत इति।'स ब्रााहृणः' इति ब्राहृविद्यानिष्ठो भवेदिति श्रुत्याभिधीयत इति। अत्र कश्चिदाह-- अथ मुनिरित्यत्रापूर्वं मननं न विधीयते पूर्वमेव मननस्य प्राप्तत्वात्। श्रवणप्रतिष्ठार्थं मननं तावदेकम्। अनन्तरं पाण्डित्यरूपमन्यत्। ऊहापोहक्षमा धीः खलु पण्डा तादृग्विधां धियं प्राप्तः पण्डित इति सर्वलोकप्रसिद्धिः। तेन मननस्य प्राप्तत्वादथ मुनिरित्यत्र विधिश्रवणाभावाच्च मौनं न विधीयत इति। अयमत्र शब्दार्थः-- पूर्वमेव मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वचनं पूर्वसिद्धस्य मननस्यानुवादोऽस्तु। तस्यानुवादः-- अत्यन्तप्रसिद्धस्यानुवाद इत्यर्थः। तस्यानुवादत्वे हेतुमाह-- कश्चिदिति। न ह्रत्र मुनुस्स्यादिति कश्चिद्विधिर्दृष्ट इत्यर्थः। विधिशब्दाभावे कथं विधित्वमङ्गीक्रियत इत्यर्थः। एवं पूर्वपक्षमनूद्य निराकरोति-- नेति। प्रतिक्षेपे हेतुमाह-- पुर इति। मुनित्वकथनात् पूर्वं पण्डितत्वस्य लाभात्। अयमर्थः-- मननं नाम श्रवणप्रतिष्ठापनार्थं युक्तिभिश्चिन्तनामात्रमेव। तच्च पण्डितत्वात् प्रागेव निष्पन्नम्। तद्व्यतिरेकेणात्यन्तातिशयितोहापोहक्षमप्रतिभावत्त्वं पण्डितत्वम्। तच्च मौनात्पूर्वमिहोच्यते। तत उपरि कथ्यमानमिदं मौनमनेकसहकारिविशेषलभ्यमन्यदेनान्तरङ्गं विद्याङ्गं विधीयत इत्यङ्गीकर्तव्यमिति। पण्डितत्वस्य श्रवणमननाभ्यामन्यत्वं विशदमेव प्रकाशयति-- ऊहेति। मौनस्यान्यत्वे हेत्वन्तरमप्याह-- मौनख्यातिरिति। अध्यात्मशास्त्रे मौनप्रसिद्धिः श्रवणप्रतिष्ठार्थे मनने

नास्ति। अपितु पाण्डित्यानन्तरभाविनि प्रकृष्टे मनने निरन्तरचिन्तन इत्यर्थः। तर्हि किमिदं मौनमित्याशङ्क्य मौनस्वरूपं प्रकटमेव प्रदर्शयति-- विभौ धारणेति। अयमर्थः-- अष्टाङ्गयोगे समाधिरेव साक्षात् ब्राहृविद्या। तत्पूर्वाभाविधारणादिकं मौनमित्युच्यत इति।।

3.4.14

 1. ' तस्माद् ब्रााहृणः पाण्डित्यं निर्विद्य तिष्ठासेत् ' इत्यत्र विदुषा बाल्यमुपादेयतया श्रुतम्। बालस्य भावः कर्म कामचारादिकं सर्वं विदुषोपादेयम्, उत डम्भादिरहितत्वमेवेति विशये ' इति सङ्गतिर्भाष्ये व्यक्ता। तदर्थविचारस्तु-- बाल्योपादाने किं काचारादिकमप्युपादेयम् उत माहात्म्यानाविष्करणमेव किं बाल्यशब्दास्सर्वबालकर्मपरः इत माहात्यम्यानाविष्करणरूपबालस्वभावविशेषपरः। ' नाविरतः' इत्यादिश्रुतिः किं बाल्याशब्दस्यानाविष्कारपरतामवगमयति

नेति। अत्र पूर्वपक्षी मन्यते-- ' बाल्येन तिष्ठासेत् ' इति विदुषः श्रुतौ शिष्टं बाल्यं बालकृत्यं कामचारवादभक्षत्वमेवास्तु न पुनर्बालस्याभावः। न ह्रन्यस्य भावोऽन्येन भर्तुं सुशकः व्यवस्थितत्वात् बाल्यादीनां धर्माणाम्। तेन स्वैरितैव बाल्यमित्यस्तु। तदिदमनुवदति-- शिष्टमिति। अनूदितमर्थं प्रतिक्षिपति-- नेति। प्रतिक्षेपप्रकारं प्रकटयति-- दुश्चारित्रादिति। 'नाविरतो दुश्चरितात् ' इति वचस्त्वदुक्तममुमर्थं सन्निरुन्धे। अथवा स्वैरिणममुमधिकारिणं सन्निरुन्धे। तर्हि बाल्यस्य को निर्णय इत्याशङ्क्यं बाल्यशब्दार्थं निर्णयेन कथयति-- अत इति। अध्यात्मविदां स्वमाहात्म्यगोपनं हि मुनिभिर्विधीयते तेन विहिते स्वमाहात्म्यगोपने बाल्यशब्दस्य तात्पर्यं स्यात्। अत एव सदाचारनिष्ठस्यापि भरतस्य ' सतां मार्गमदूषयन् ' इति सन्मार्गदूषणेन प्रक्यातस्योद्भ्रान्तवन्नटनमुच्यते। एवमत्रापि बालवत् स्वमाहात्म्यगोपनमेवोच्यते। इदञ्च स्वमाहात्म्यगोपनं लोकसंमानादिव्यावृत्त्यर्थम्। संमानादिकञ्च त्याज्यमेवाध्यात्मविदाम्--

 ' असंमानात्तपोवृद्धिसंमानात्तु तपःक्षयः।

  अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ।।'

इति लोकसंमानस्य परित्याज्यत्वस्मरणात्।।

3.4.15

 1. इत्थमङ्गचिन्ता कृता, इदानिमङ्गिनिष्पत्तिसमयचिन्ता क्रियत इति सङ्गतिः। तदर्थविचारस्तु-- किमैहिकफलसाधनमुपासनं स्वसाधनपुण्यकर्मानन्तरमेवोत्पद्यते उतानन्तरं कालान्तरे वेत्यनियमः। किं तदुत्पत्तेः प्रतिबन्धस्सम्भवति नेति। इत्थमिह पूर्वपक्षी मन्यते-- भोगार्थोपासनानामैहिकफलानामुपासनानां स्वजनकसुकृतैस्स्वोत्पादकसुकृतैस्तत्क्षणादेवोद्भवस्स्यायात्। ननु स्वर्गादिवद् विद्यान्तरोत्पत्तिः कर्मफलत्वात् कालान्तरे स्यादित्याशङ्क्य स्वर्गादीनां देहान्तरानुभाव्यत्वेनास्मिन्देहे नोत्पत्तिः स्यात्, सम्भवत्येवास्मिन्देहे ह्मदयशुद्धयादिमुखेन विद्याया उत्पत्तिः। तेनात्र स्नानप्रायत्यनीतिरेव स्यात्। यथा स्नातस्य पुरुषस्य प्रायत्यं प्रयतत्वं तदानीमेव भवति नपुनर्देहान्तरे तथा स्वकर्मभिर्विद्याप्राप्तिस्तदानीमेव नियमेन स्यादिति। तदिदमनुवदति-- भोगार्थेति। अनुदितमर्थं प्रतिक्षिपति-- नेति। उत्पत्तिः कदाचित् तदानीमेव स्यात् कदाचित् कानान्तर इत्यनियम एव। ननु सगुणविरचिते कथं कालान्तरे फलसिद्धिस्स्यात् तत्राप्याह-- तदर्हैरिति। सगुणविरचितेऽपि कर्मण्यत्यन्तप्रबलैः कर्मभिस्तत्प्रतिबन्धाहैः कदाचित् विघ्नस्स्यादेव।।

3.4.16

 1. पूर्वमैहिकफलानां विद्यानां निष्पत्तिकालानियम उक्तः, एवं ब्राहृप्राप्तिहेतूनामपि विद्यानामनियम एवातिदिश्यत इत्यादिदेशिकी सङ्गतिः। तदर्थविचारस्तु-- किं मुक्तिफलमुपासनं स्वसाधनकर्मानन्तरमुत्पद्यते उतानन्तरं कालान्तरे वेत्यनियमः। किं परविद्यासाधनात् कर्मणः प्रबलंकर्मान्तरं सम्भवति नेति। अत्र पूर्वपक्षी विशेषाभिधानेन प्रत्यवतिष्ठते-- अस्त्विति। अब्राहृविदां

विद्यानिष्पत्तिकर्मसु प्रयवायोऽस्तु नाम ; अब्राहृवित्कर्मणां दुर्बलत्वात्। फलसङ्गकर्तृत्वत्यागयुक्तं निवृत्याह्वयं कर्म प्रबलतममिति प्रोक्तम्। तत इदं कर्म सर्वतःप्रबलत्वात् स्वविरोधिवर्गं सर्वमपि निराकृत्य सपद्येव ब्राहृविद्यां विदध्यात् कुर्यात्। तदिदं प्रतिक्षिपति-- मैवमिति। अयमत्र भावः---

 ' अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः।

  तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति सागरे।।'

इति न्यायेन संसारसागरे वर्तमानानां मात्स्यन्यायेनत्तरोत्तरं कर्मणामाधिक्यमुपलभ्यते। तथा च ब्राहृवित्कर्मणामपि ततोऽप्यधिकं कर्मान्तरमस्ति योऽयं ब्राहृविदपचारः, तैब्र्राहृविदपचारादिभिर्महत्तरैः। पापैब्र्राहृविद्योत्पादकस्यापि निवृत्त्याख्यधर्मस्य निराकरणसम्भवात् तादृग्विधमहत्तरदुरिताभावे निवृत्तिधर्मो ब्राहृविद्यां सद्य एव जनयति। तत्सद्भावे कालान्तरे जनयतीति ब्राहृविद्यानामप्यनियतैव निष्पत्तिरिति सिद्धम्। अयमत्र शब्दान्वयः-- तस्मान्निवृत्तिधर्मादपि बलीयान् परब्राहृभक्तापराधो यदि भवति तदा तच्छान्तौ तत्प्रसूतिस्तादृग्विधापराधशान्तौ ब्राहृविद्याप्रसूतिः स यदि न तादृग्विधापराधाभावे झटिति ब्राहृविद्यालाभस्स्यादिति।।

 2. अत्र विद्याङ्गपादसमाप्तिगतयोद्र्वयोरधिकरणयोरनियमविषययोः विशेषप्रयोजनं विशदमेव दर्शयति- विद्यार्थत्वमिति। एतस्मिन्नधिकरणद्वये क्रियाणां विद्यार्थत्वं व्यभिचरणवशान्नेति वदतश्शङ्काऽपनुत्तिः क्रियते। तथा प्रयूहानाञ्चतुर्णां प्रशमनमुचितं सर्वदेति प्रसिद्धिश्च क्रियते। निष्प्रत्यूहस्य निवृत्त्याख्यस्य धर्मस्य सद्यः फलमिति च सतां

सन्तोष आदीयते। तेनामुष्मिन् पादान्ते अनियमविषयावधिकारौ अधिकरणे शास्त्रकत्र्रा न्यासिषातां अकारिषातामित्यर्थः।।649

 3. अत्र कश्चिच्चोदयति-- प्रत्यूहस्येऽति। अत्र परवित्कर्मणामध्यात्मवित्कर्मणां प्रत्यूहस्य प्रसङ्गस्तद्विधूत्यै प्रत्यूहस्य विधूननाय क्षमः योग्य एव भोगार्थोपास्तिहेतुषु कर्मसु प्रत्यूहस्य प्रसङ्गः किं मुधानुकथित इति। तदिदं प्रतिक्षिपति-- नेति। प्रतिक्षेपप्रकारं दर्शयति-- काम्य इति। काम्ये खलु कर्मणि कस्यचिन्मन्दबुद्धेर्निर्विघ्नत्वबुद्धिर्भवति। तया बुद्ध्या तत्रैव मतिः पतति। तेन तत्र काम्ये कर्मणि बैराग्यभूम्ने वैराग्यातिशयसिद्धये तत्प्रत्यूहप्रसक्तिः फलवती भवत्येव। अयमर्थः-- काम्यं निष्प्रत्यूहमिति बुद्धिरप्राणाणिकी, अपितु काम्यमपि सप्रत्यूहमेव, तेन तत् त्याज्यकोटिनि विष्टमेवतीममर्थमुपपादयितुं काम्येऽपि प्रत्यूहप्रसङ्ग इति। अथवा विद्यार्थकाम्य विवक्षितं स्यात्-- अयमर्थः-- काम्यमपि कर्म विद्यार्तत्वेन विनियोगपृथक्त्वेन विनियुज्यते। तदत्र चिन्त्यत इति तच्चिन्तनं योग्यमेवेति।।

 4. अस्मिन्पादे प्रतिपादितानां पञ्चदशानामधिकरणानां प्रधानार्थान्परिगणयति-- विद्येत्यादिना श्लोकद्वयेन। प्रथमाधिकरणे विद्या कर्माङ्गिकेति प्रतीतिराधीयते। द्वितीये तु रसतमत्वदिधीरप्राप्तत्वाच्चोदितैव। तृतीये पुनर्विद्याप्रकरणपठितानामाख्यानानां विद्याविशेषत्वमेव। एवमुत्तरत्राप्यधिकरणेषु तत्तदाश्रमनियतादेव धर्मादूध्र्वरेतस्स्वपि साङ्गा विद्या। गृहस्थे पुनस्सा विद्या यज्ञदानाद्यपेक्षा। गृहस्थोऽपि शान्त्याद्यर्ह एव स्यात्। अनापदि विदुषोऽप्यन्नशुद्धयैव योगसिद्धिस्स्यात्।।

 5. एकमेव कर्म विद्यार्थमाश्रमार्थञ्च। विधुरमवियुतं विद्यया संयुतमाहुरित्यर्थः। अथवा विधुरमपि युतमितिपाठः। विधुरमपि विद्यया सम्बद्धमित्यर्थः। च्युतं न नैष्ठिक्याद्याश्रमभ्रष्टं विद्यया युतं नाहुरित्यन्वयः। क्रत्वङ्गे रसतमत्वादिदर्शनमृत्विक्कार्यम्। अथ मुनिता-- मौनम्। चोदिताध्यानसिद्धयै -- विहितब्राहृोपासनसिद्ध्यर्थमित्यर्थः। ध्यानसिद्धयै चोदितेति वा पदच्छेदः। बाल्यं स्वसामथ्र्यादिगोपनम्। बलवदभिहतैर्बलवत्प्रतिबन्धकप्रतिबद्धैः कर्मभिर्नान्यविद्या-- अब्राहृविद्या न भवतीत्यर्थः। तद्वन्मुक्तयर्थविद्या ब्राहृविद्यापि ब्राहृविदपचारादिप्रबलप्रतिबन्धकप्रतिबद्धैस्स्वोत्पादककर्मभिर्नोत्यपद्यत इत्यस्मिन्पादे सूत्रकारः प्राहेत्यन्वयः।।

 6.एतस्मिन्पादे चतुर्णो परपक्षाणां निरासः प्राधान्येनाभिमत इत्याह--वाक्यार्थेति।अत्र मृषावादिनो

वाक्यार्थज्ञानमात्रं मुक्त्युपायं प्रवदन्ति।यादवप्रकाशमतस्था ज्ञानं कर्मेति च युग्मं मुक्तेः करणमिति समुच्चित्यापवर्गहेतुत्वं मन्यते।अन्यं पुनर्निरीश्वरमीमांसका ज्ञानं कर्माङ्गं कर्मैव पुरुषार्थसाधनहेतुरिति निजगदुः।अपरे सांख्यादयो जीवस्य नित्यमुक्तत्वादसाध्यामेव मुक्तिमिच्छन्ति वदन्तीत्यर्थः।सर्वेऽपि ते वादिनः अत्र एतस्मिन्पादे कर्माङ्गकमोक्षसाधनभजनविधिस्थापनोक्त्या निरस्ताः।।

 7.अत्र कश्चिचुदुदत् 'सांसारिकसकलदुःखनिवृत्तिर्हि मोक्ष इत्यध्यात्मविद्भरविधीयते स च मोक्षः कर्माङ्गिकया विधया सिध्यतीति च, तदेतदयुक्तमेव किं विद्यमानसकलदुःखनिवृत्तिरुतातीतसकलदुःखनिवृत्तिरथवा भीविदुःखनिवृत्तिमोक्ष इत्युच्यते? त्रितयमपि न सम्भवति।वर्तमानस्य क्षणिकत्वादेव स्वत एव निवृत्तिरिति न कारणापेक्षा।तथा द्वितीयोषपि पक्षोऽसम्बद्ध एवातीतानां दुःखानां प्रागेव निरस्तत्वेन तन्निरसहेतुभूतोपासनप्रवृत्यपेक्षाभावात्।भाविदुःखभावात् तन्निरासोपायभूतोपासनोर्पाजनमनर्थक' इति।तदिदमनुद्य निराचष्टे--युद्दुःखमिति।अयमत्र शब्दान्वयः-- यद्दुःखमिह वर्तते तत् क्षणिकत्वान्न स्वयत्नोपरोध्यम्।अतीतदुखनिवृत्तिश्चेत् सापि प्रगेव निष्पन्नेति तदर्थमपि यत्नो न कर्तव्यः।तेन भाविदुःखमवशिष्यते तच्च न सुपरिहरम्।तच्च न परिहर्तुंशक्यते।कुत इत्यत्राह-हेतौ समग्र इति।अनादिकालसिद्धेषु बहुषु पापेषु विद्यमान कथं भावि तद्दुःखं सुपरिहरं भविष्यतीति।किंञ्च भावीतिपदं दुःखस्योत्तरकालसम्बन्धमेवाह।तस्य निरासः कर्तुमेव न शक्यते।तथात्वे सर्वं सर्वत्र सर्वदा मिथ्यैव स्यात्।तेन सर्वदुःखात्यन्तोपरोधर्बहृोपासनविधिरिति व्यर्थमेवेदं वचनमिति। तदेतत्प्रतिक्षिपति--अर्धरम्यमिति।अयमर्थः--वर्तमानदुःखोपरोध इत्यास्माभिर्नोच्यते, नचातीतदुःखोपरोध इत्युच्यते,नापि भाविदुःखस्य प्रध्वंसोत्पादनमिति कथ्यते।अपितु कारणसद्भावे भावित्वेन प्रसक्तस्य दुःखस्य सामग्रीनिराधः क्रियते, भाविदुःखे कारणत्वेनावस्थितानां कर्मणां विनाशः क्रियत इति।शक्यते हि विद्यमानानि दुःखकारणानि विनाशयितुं दुरितापनोदनप्रायश्चित्तरूपेण ब्राहृोपासनेन।न सर्वलोकविदितमिदं कुदृष्टिपरिकल्पितेन दुर्विवादेन निवारयितुं शक्यते।लोके हि वातपित्तश्लेष्मादिकारणप्रकोपेन प्रस्तुतं मरणादिदुःखं वैद्योपदेशसिद्धौषधप्रयोगेण कारणप्रतिबन्धरूपेन निवार्यते।तद्वत्रापि पूर्वकृतानां दुरितानां ब्राहृज्ञानेन विध्वंसात् तेनैव ब्राहृज्ञानेनोत्तरेषां दुरितानामनारम्भात् सामग्र्युपरोधेन संसारानुवृत्तिर्निरुध्यत

इति सर्वं समाहितम्।तदिदं दर्शयति--प्रायश्चित्त्येति।कृतानां प्रायाश्चित्त्यापर परमपि दुरितानामकरणाद् दुःखसामग्रीनिराधेन दुःखोत्पत्तिर्न भविष्यति कारणाभावात्कार्याभाव इत्याहालगोपालं लिखितपठितोऽयमर्थः।।

 8.भाव्यनर्थपरिहाराय प्रवृत्तिर्लोके बहुधोलभ्यत इत्यत्राप्याशङ्कितभाव्यनर्थकारणनिराकरणाय ब्राहृोपासने प्रवृत्तिर्योज्युत इति दर्शयति--राजद्विष्टादीति।राजशासनातिलङ्घनं सर्पाद्यनिष्टहेतुं परिहरसि स च परिहारो भाविदुःखोपरोधायैव।छत्रपूर्वं बिभर्षि भाविवर्षाप्लावनादिनिराकरणायैव हि च्छत्रादिकं बिभर्षि।तद्वदत्रापि कृत्स्नपापप्रायश्चित्तरूपभगवदुपासनाभावे सांसारिकं सकलमपि दुःखं भविष्यति।तत्करणे पुनस्सामग्रीविच्छेदादुत्तरकाले प्रसक्तं न भविष्यतीति ब्राहृनोपासेन प्रवृतिं्त भजस्व।किञ्च किमनेनान्यक्लिकेन दृष्टान्तेन।अधुना भवान् बाव्यनर्थपरिहारायैव प्रयतेत।तथाहि यद्यहं तूष्णीमेव स्यांतदा मम पराजय एव भविष्यतीत्युत्प्रेक्षारूढभाव्यापजयशमनाय स्वोक्तेस्साफल्यमिच्छंस्त्वं बालतिर्यक्पर्यन्तं भयचकितगतिं पश्यंश्च जोषमित्थं जुषस्व जोषमास्वेत्यर्थः। बालास्तिर्यञ्चोऽपि भयचकिता एव गच्छन्ति। भयञ्च भाव्यनर्थाशङ्क्या। तस्यैवानर्थस्य परिहरणाय पलायन्ते च। तेनाबालगोपालं प्रसिद्धार्थे न विवदितव्यमिति।।

 9. इत्थं कर्माङ्गकब्राहृविद्यया कृत्स्नदुःखनिवृत्तिपूर्वकब्राहृप्राप्तिरित्युक्तम्। अत्र कश्चिच्चोदयति-- 'कार्यकारणभावस्यैव दुर्निरूपत्वान्न साधनत्वं विद्यायाः, नापि विद्योपकारकत्वं कर्मणः, नापि च कर्मानुगृरीतब्राहृोपासनसाध्यत्वमपवर्गस्य, सर्वस्यापि विकल्पासहत्वात्। किं कारणाद् भिन्नमभिन्नं वा कार्यम् ? भिन्नञ्चेत् तस्य तत्कार्यत्वं न स्यात्। नहि घटस्य पटः कार्यम्। अभिन्नञ्चेत्तथापि न कार्यम्-- नहि घटस्य घट एव कार्यम्। भिन्नाभिन्नत्वमवाच्यमेव व्याघातात्। तथा कुर्वत् कारणमुताकुर्वत्?

उभयथापि कारणं न भवत्येव। यदाहुः--

 " कुर्वत्कार्यमकुर्वद्वा यत्किञ्चित्कारणं भवेत्।

  कुर्वच्चेदनवस्थानमकुर्वत्त्वव्यवस्थितिः।। "

इति। एवं किं प्राप्य कार्यं करोति कारणम्, उताप्राप्य उभयथाऽपि कारणत्वं न सम्भवति। प्राप्त्यप्राप्तिसमोत्थानेन दूषणमपि वाच्यम्। किञ्च कारणशब्दार्थ एव निरूपयितुं न शक्यते। नियपूर्वभाविकारणमिति निरूच्यते चेत्, किं सर्वापेक्षया नियतपूर्वभावि-- तन्न ; अतिप्रसङ्गात्। कार्यापेक्षया चेत् तच्च न कार्यशब्दार्थस्यैव दुर्निरूपत्वात्। नियपश्चाद्भाविकार्यमिति चेत् तच्च सर्वापेक्षया चेदतिप्रसङ्गः, स्वकारणापेक्षया चेत् परस्पराश्रयदोषः कार्यकारणयोरन्योन्यनिरूपकत्वात्। एवमनेकविधदोषदूषित्वात् कार्यकारणभाव एव न सङ्गच्छते। कुतस्तेन ब्राहृोपासनस्यापवर्गं प्रति कारणत्वेन विधिः कारणविशेषत्वात् करणस्य इति इत्थं दुर्निरूपत्वात् कार्यकारणभावे कण्ठगतजीवे करणत्वाभिधायिनामुपासनविधीनां मरणमेव शरणम् इति। एवं वदन्तं परपक्षवादिनं प्रतिक्षिपति-- साध्यं वेति। कार्यं वा कारणं वा स्वव्याघातोपहतदुर्मार्गैर्दुर्निरूपमिति वदन्तो भवन्तस्तस्मिन्वादे किम्प्रवृत्ताः ? अयमर्थः-- आधिनिकी भवदीयवादप्रवृत्तिर्निरर्थिका सार्थिका वा निरर्थिका चेत् प्रवृत्तिरेव न घटते। नहि प्रयोजनमुनुद्दिष्य मन्दोऽपि प्रवर्तते। सार्थिका चेम् स प्रव कार्यकारणभावः। एतस्या एव वादप्रवृत्तेः कारणत्वात् परवादिपराजयस्य तत्फलस्य कार्यत्वात्। तर्हि परवादिपराजयः सिद्ध इति विजयामह इति चेदिदं स्वप्नलब्धसुवर्णेन कटकनिर्माणमित्याह-- स्वविहितविपथैरिति। साध्यं वा साधनं वा दुर्निरूपमिति भवान्प्रलपत्येव। नैतावता परवादिपराजयसिद्धिस्स्वव्याघातोपहतत्वादेतस्य वाक्यस्य। तेन कार्यकारणभावाङ्गीकारे न परवादिपराजयः। तदनङ्गीकारे परवादिपराजयहेत्वभावान्न परवादिपराजयः। तेन प्रलाप एवायं भवत्परिकल्पितो दुर्मार्ग इत्यर्थः। तद्वादे किं प्रवृत्ता इत्यनेनास्माभिरुदितं स्व्याघातजातमिदमुक्तं भवति। एवं वादप्रवृत्तिमेवोपरुध्य लोकप्रवृत्तिमप्युपरुणद्धि किमिति चेति। वादप्रवृत्त्यभावे परिभूयेत भवान्, लोकप्रवृत्त्यभावे भवतस्स्वजीवनभोजनाद्यभावेन