अधिकारणचिन्तामणिः/द्वितीयोऽध्यायः

← प्रथमोऽध्यायः अधिकारणचिन्तामणिः
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

श्रीः

द्वितीयाध्याये प्रथमपादः

।2.1.1.

 1. प्रथमाध्याये चतुर्षु पादेषु अस्पष्टजीवादिलिङ्गकानि वाक्यानि पूर्वपक्षिणा चतुर्धा पुरस्कृतानि। तत्प्रतिपक्षवाक्यानि सिद्धान्तिना। तत्र पूर्वपक्षयुक्तीनां पौलस्त्यपरकरन्यायेन प्रतिपादं क्षयः। प्रक्षीणानाञ्चापुनरुदयादुत्तरोत्तरपादोपात्तानामुपपत्तीनां वाक्यानां च निस्सहायत्वेन दौर्बल्यात् क्रमेण सङ्क्षयो जातः। सिद्धान्तयुक्तीनां पुनः सुग्रीवसैनिकवत् प्रतिपादं प्रतिहतप्रतिपक्षाणामक्षतत्वेनैवावस्थानात् उत्तरोत्तरप्रतिपाद्यानां श्रुतिस्मृतियुक्त्यादीनां ससहायत्वेनोत्तरोत्तरं प्राबल्यात् सिद्धान्तप्रक्रिया निष्कण्टकमेवाभिवर्तत इति सर्वतोमुखी विजयसिद्धिरिति पूर्वाध्यायेन साङ्ख्यादिपक्षे निरस्ते पुनः प्रतिवादिनो नष्टे द्यूते बल्बजं कुर्यादितिन्यायेन प्रक्रमोपमात्रपरतन्त्रा युक्तिभिर्विरोधं वक्तुमारभन्त इति द्वितीयाध्यायसंङगतिः। प्रथमाध्यायपरिसमाप्तौ साङ्ख्ययोगपक्षयोरनुक्रमेण निरतत्वात् साख्यवादी तावद्वेदान्तविरोधमाचष्टे , ततः पुनर्योगवादी, इत्यधिकरणसङ्गतिः एकपेटिकात्वञ्च। अत्र पूर्वोत्तराध्यायसंगतिं सदृष्टान्तमाह-- तत्तादृक् तत्तादृग्विधतर्कतन्त्रक्रमे निपुणानां महाबुद्धीनां सन्तोषसिद्धिः प्रथमाध्यायोक्तेन प्रकारेण यद्यपि लभ्या , तथापि मृदुधियां बालबुद्धीनां हैतुकै हेतुवादिभिरास्कन्दमाक्रमणमाशङ्कमानः कथितमेव ब्राहृणः कारणत्वं स्थूणानिखनन्यायेन स्थिरयति सूत्रकारः। कार्यत्वञ्च यस्याकाशादेर्यादृक् तच्च तादृशमेव स्थितयतीति पुनरन्वयः। अयमर्थः ब्राहणः कारणत्वमाकाशादेः कार्यत्वञ्च सप्रकारं बालिशबुद्धीनां प्रतिभटवादिभिरनाक्रमणाय स्थूणानिखनन्यायेन सूत्रकारः स्थिरयतीति प्रथमाध्यायोक्तार्थस्थापनमेव द्वितीयाध्यायकृत्यमित्युक्तं भवति। तथा च न पौनरुक्त्यशङ्कावकाश इति।।

 2.पूर्वं प्रथमद्वितीययोरध्याययोस्संगतिरुक्ता अधुना पुनर्द्वितीयाध्याये पूर्वपादद्वन्द्वस्योत्तरपादद्वयस्य च परस्परसङ्गतिरभिधीयते। तच्छेषभूतञ्चार्थतत्त्वमन्यदपि तत्रैव प्रकाश्यते पादद्वन्दमित्यादिना। शब्दार्थस्तु --द्वितीयाध्याये प्रथमपादद्वन्द्वं परस्मिन्कारणभूते ब्राहृणि वेदबाह्रोक्तां बाधप्रतिरोधात्मिकां पीडां क्रमेण परिहरति। पादान्तरयुगं पुनर्वियत्पादः प्राणपादश्च कार्यद्वारेण समुत्थितं व विरोधमान्तरप्रक्षोभशान्त्यै परिहरति। तेन बाधप्रतिरोधाभ्यां सह परमात्मविज्ञानस्यानुत्पत्तिलक्षणमप्रामाण्यमपि परिह्मतं भवति। आन्तरक्षोभो नाम वेदान्तवाक्यानामन्योन्यविरोधः। इत्थं पादद्वयस्य पूर्वस्योत्तरेण पाद्द्वयेन सङ्गतिरुक्ता। प्रकारान्तरेणाप्यर्थभेदं सङ्गतिञ्चाह--हेतुत्वेति। पूर्वेण पादद्वन्द्वेनेश्वरस्य कारणत्वायोगभङ्गः कृतः। द्वितीयेन तु पादद्वन्द्वेन तस्यैव हेतुत्वस्य सार्वत्रिकत्वायोगभङ्गः क्रियत इति। अयमर्थः--- न्यायवादिन एवं मन्यन्ते -- ईश्वरस्य हेतुत्मस्तु नाम, अथाप्याकाशादेर्नित्यत्वात् तत्प्रति तस्य हेतुत्वं नास्ति। अत ईश्वरस्य हेतुत्वं न सार्वत्रिकमिति। तदपि विधूयते वियदादिपादेनेति। फलतीति-- साक्षादर्थोऽयं न भवति फलितार्थ इत्यर्थः। आकाशादेः कार्यत्वोपपादने सति ईश्वरापेक्षा तस्य कार्यत्वं स्वयमेव फलितं भवतीति। ननु प्रकृतिपुरुषयोर्नित्यत्वं श्रूयते कथमीश्वरहेतुत्वस्य सार्वत्रिकत्वायोगक्षेप इत्याशङ्क्याह-- स चेति। यस्सर्वत्रिकत्वायोगक्षेपः स तु श्रुतिसिद्धनित्यं विहाय भवेत्। यत्र नित्यत्वश्रुतिस्तद्व्यतिरेकेणान्यत्र सर्वत्रेश्वरस्य कारणत्वमित्यर्थः। ईश्वरस्वातन्त्र्यं नित्यानित्यसाधारणं नियतपूर्वभावित्वलक्षणं कारणत्वमनित्यमात्रे व्यवितष्टत इति भावः।।

 3. पूर्वमध्यायसङ्गतिरुक्ता अधुना पुनः प्रथमलक्षणचतुर्थपादेन द्वितीयलक्षणप्रथमापादस्य सङ्रतिरभिधीयते -- तन्त्रेति। उपनिषदां तन्त्रच्छायानिदाने पूर्वस्मिन्पादे स्वयमन्यपरत्वे निषिद्धे

तन्त्रेभ्यस्तासामुपनिषदां दुर्बलत्वात् तदनुसरणं तन्त्रानुसरणमेव न्याय्यमिति पर उज्जिहीते। अयमर्थः-- सर्वव्याख्यानाधिकरणे 'व्याख्याताः' इत्युपनिषदां व्याख्यानमुक्तम्। व्याख्यानञ्चोपबृंहणमेव। तच्चोपबृंहणं श्रुतेः समृत्या कत्व्र्यम्। मन्वादिस्मृतिस्तु कर्मप्रतिपादनपरत्वात् कर्मभागोपबृंहणम्।

तथाचानादेशिकत्वादुपनिषचत्तपस्विनी न्यायोपबृंहणे सांख्यस्मृतिमेवाश्रयते। तेन समाश्रयणीयसांख्यास्मृत्यपेक्षया दुर्बलत्वात् तदनुरोधेनेयमुनिषन्नेयेत्यधिकरणोत्थानेन सङ्गतिरप्यत्र परिस्फुरति। इत्थं पूर्वपक्षिणा वैयाकुलीमापादितां समाधत्ते पादान्तरेण सूत्रकार इत्याह-- इत्थमिति। तत्तदित्यादि -- तत्तत्सांख्यादिस्मृतिन्यायाभ्यां कलितमतिकमं हिंसनं तत्ततप्रतिक्षेपार्हैः प्रत्यस्त्रैर्वारयित्वा चालितं पूर्वपादोक्तमर्थं दृढीकरोति।।

 4.द्वितायाध्यायपादारम्भस्य नैरर्थक्यं परिहरति-- निर्णीतमित्यादिना।कर्मकाण्डे हि विरोधाधिकरणादौ

स्मृतिन्यायविरोधे श्रुतीनां निश्चलत्वं निर्णीतम्। वेदान्तोऽपि श्रुतिरेव। तत्सिद्धये पूर्वसिद्धार्थसिद्धये, पुनरियं चर्चेति द्वितीयाध्यायाद्यपादो विफल एव स्यात् । नेत्याह-- मैवमिति। तदेव विवृणोति-- गम्भीरेति। उपनिषदां गम्भीरत्वोपपदानात् तत्परिच्छेद्यस्यार्थस्य दुर्बोधत्वशङ्कायां

कपिलाद्याप्ततमवाक्यैस्तदुपस्काररूपतर्कैश्च तत्त्वार्थपिरज्ञानानुसरणं प्राप्तमिति पश्यतः कस्यचिन्मन्दमतेरत्र भङ्गः क्रियत इति न पौनरुक्त्यशङ्कावकाश इति।।

 5. समृतिविरोधपिरहारः कुत्र न्यायविरोधपरिहारश्च कुत्रेत्याशङ्क्य द्वाभ्यामधिकरणाभ्यां स्मृति

विरोधपरिहारो भवति, अष्टभिः पुनरधिकरणैन्र्यायविरोधपरिहार इति विभज्य दर्शयति-- द्वाभ्यामित्यादिना। उभाभ्यामपि परिहाराभ्यां फलितमर्थमाह-- तेनेति। उपादानत्वं निमित्तत्वञ्च भगवतः सुदृढमेव स्थापितं भवतीत्यर्थः। तद्वद्वयं चेति-- क्क्वचिदुपादानत्वं क्वचिच्पुनरुपादानत्वं निमित्तत्वञ्चोभयमपि प्रकाशयतीत्यर्थः। तत्तद्वादिपरिकल्पितानां परस्परविरुद्धानामर्थतत्त्वानामेकप्रतिक्षेपे

तदन्येषामर्थानां तुलाग्रनमनोन्नमनन्यायेन सद्भावासद्भावशङ्कावर्गे प्रवृत्ते परीक्षायां साम्येन निहितमतिसूतकारः पक्षपातं रुणद्धि साम्यमेव स्थापयतीत्युत्तरार्धस्य योजना।।

 6. अत्र संगतिः पूर्वमेवोक्ता। तदर्थविचारस्तु -- उक्तं ब्राहृणो जगत्कारणत्वं चालयितुं शक्यते न वेति। किं वेदान्तवाक्यानि ब्राहृकारणत्वमापादयति नेति। किमनवकाशसाङ्ख्यस्मृत्यनुसारे विरोधो वेदान्तवाक्यानां प्रधानपरत्वमापादयति नेति। किं साङ्ख्यस्मृ#्तया वेदोपबृंहणमुत मन्वादिस्मृत्येति। किं साङ्ख्यस्मृतिभ्र्रान्तिमूला न वेति। अत्रावश्यमेव वेदान्तानां कपिलस्मृत्यनुसारे कारणमनुक्रमेणाह -- स्मर्तेति। 'ऋषिं प्रसूतं कपिलम्' इति श्वेताश्वतरश्रुत्यैवासौ कपिलऋषिर्विज्ञातार्थतत्त्वत्वेन श्रूयते। ऋषित्वं हि ज्ञानवृद्धत्वम्, अभेद्यऽयं हेतुरितु। अपरोऽरप्यस्ति रामायणादवयं कपिलो वासुदेवांश इति प्रख्यातः। नहि वासुदेवस्य भ्रान्तिस्सम्भवति। अपिचायं प्रणिधिनिपुणधीः योगाभ्यासातिशयनिपुणधीरिति श्रुतिपुराणादिषु सर्वत्रापि श्रूयते।अयमाशयः --मनुयाज्ञवल्क्यादयः केवलकर्मिणः, अयंतु ज्ञानैकनिष्ठः तेनैतद्वाक्येनैव वेदान्तोपबृंहणं क्रियत इति। एवमतिशययुक्तत्वादस्माकमप्रत्यक्षार्थे श्रुतिशिरसि तदुक्त्यैव निष्कर्षणं स्यादित्याह-- तस्मादिति। मैवमित्याह-- न स्यादिति।तत्र हेतुचतुष्टयमाह-- एकार्थेति। मन्वादिवाक्यानामेकार्थत्वेन परस्परविरोधाभावात् 'यद्वै किञ्चन मनुरवदत्तद्भेषजम्' इति सांसारिकसकलरोगभेषजत्वेन श्रुतत्वात् कपिलवदस्थानक्रोधादिदोषानुपहतपरमशान्तप्रणीतत्वात् बहुश्रुतत्वाच्च तद्वाक्यानुसरणमेव न्याय्यम्। तेन तद्वाक्यैरेव तत्त्वज्ञानसिद्धेः कपिलवाक्यानुसरणमन्याय्यमित्यर्थः।।

 ।2.1.2.

 7. अत्राधिकाशङ्कोक्त्या भाष्य एव सङ्गतिस्सुव्यक्ता 'योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानाद्वक्तुर्हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यमिति' इति। तदर्थविचारस्तु-- ब्राहृकारणत्ववादस्तथैवावतिष्ठते नेति। किं वेदान्तवाक्यानि ब्राहृकारणत्वपराणि उतान्यपराणीति। किमीश्वराधिष्ठितं प्रधानं तत्कारणमुत ब्राहृेति। किमनवकाशयोगस्मृत्या वेदोपबृंहणमुत पराशरादिस्मृत्येति। किं योगस्मृतिभ्र्रान्तिमूला नेति। किं तत्प्रणेतुर्हिरण्यगर्भस्यापि भ्रान्तिस्संभवति नेति।

अत्र सर्वत्रापि फलफलिभावस्स्वयमेवोन्नेयः।तदर्थविचारपरम्पराप्राप्तानामुत्तोत्तरेषामर्थानां विपर्यये पूर्वपूर्व

विपर्ययप्रदर्शनरूपत्वाद् द्वयोरपि पक्षयोः फलफलिभावस्य। तेन पूर्वपक्षे सिद्धान्ते चफलफलिभावस्स्वयमेवोन्नेय इति न विशेषतः प्रदर्शयामः। विषयसंशयोत्थानकारणपूर्वपक्षसिद्धान्तन्यायनिर्णयतत्तत्फलानां वक्तुंप्राप्तानामपि भाष्यदीपयोरेव सुव्यक्तत्वाद्विशेषतो न वक्तव्यमिति संगतितदर्थविचारावेव सर्वतो विस्तृणीमहि। अत्र पूर्वपक्षसिद्धन्तन्यायौ विभज्य दर्शयति-- वेदानिति। पूर्वस्मिन्काले भगवतो वेदानलभत विधातेति श्रूयते 'यो ब्राहृणां विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ' इति। नायमेको हेतुः -- सर्वेष्वपि विद्यास्थानेषु प्रवर्तकत्वेन नियुक्त इति द्वितीयः। एतस्य च सर्वेष्वपि लोकेषु वागीशत्वप्रसिद्धिः पुनस्तृतीयः ।तस्मात् -- हेतुत्रयात्। हिरण्यगर्भोक्तिव्याघाताद्वेदान्तस्य चलनमेव भवति। उक्तमिमं पूर्वपक्षं प्रतिक्षिपति -- मैवमिति। तत्र हेतुमाह-- तस्यापीति। हिरण्यगर्भस्यापि मधुकैटभनिमित्तवेदापहारप्रमुख विपद्दर्शनात् क्षेत्रिभावात् त्रिगुणात्मकप्रकृकिशरीरत्वाद् भ्रान्त्यादिस्संभविष्यतीत्यगतिकविषये तद्वचनस्य वेदव्रोध नास्तीति कथंचिदपि परिहर्तुमसक्यत्वात् कपिलवाक्यवदप्रमाणमेवेति निर्वहामः।वेदविरोधस्य निर्वोढुमसक्यत्वे तद्वाक्यमप्रमाणमित्येव

प्रतिपद्यामह

भावः।।

।2.1.3.

 8.अत्र संगतिर्भाष्यकारैरेवोक्त 'पुनरपि स्मृतिविरोधवादि तर्कमवलम्बमानः प्रत्यवतिष्ठेते' इत।

इममेवार्थं श्रीविष्णुचित्तार्याः प्राहुः 'कपिलहिरण्यगर्भाद्युपदेशं परित्यज्य तदुक्तैस्तर्कैर्वेदार्थमन्यथाकर्तुं प्रत्यवतिष्ठते' इति। तदर्थविचारस्तु--- उक्तं ब्राहृणो जगत्कारणत्वं संभवति नेति। किं चेतनाद्ब्राहृणोऽचेतनजगदुत्पत्तिसंभवति नेति। किं सजातीयात्कारणात् सजातीयं कार्यमुत्पद्यते उत विजातीयम्। किं कार्यकारणयोस्सालक्षण्यानुमानमनैकान्तिकं न वेति। तत्र कार्यकारणयोस्सालक्षण्ये नियामकत्वेनोक्तं साङ्क्यावचनविषयमर्थं उपक्षिपति --विश्वमिति। इत्थं किलाहुस्साङ्ख्याः -- सुखःदुखमोहात्मकत्वात् त्रैगुण्यात्मकं विश्वं त्रिगुणादेवोदेतुं भवितुमर्हति। नासमात् त्रैगुण्यरहितत्वेन असमात् परमात्मन उदेतुं भवितुं नार्हतीति। पूर्वपक्षमुपन्यस्य प्रतिक्षिपति -- इत्ययुक्तमिति। अत्र विकल्पयति ---सर्वाकारेण साम्यं कार्यकारणयोर्भवतोच्यते किं वा केनाप्याकारेण। तत्रापि किं

कार्यकारणयोर्भाववनियामकाकारेण किं वा येनकेनाप्याकारेणेति विकल्पविभागः। तत्र प्रथमविकल्पं दूषयति---सर्वेति। कार्यकारणयोस्सर्वाकारेण साम्यं न भवति तयोः कार्यत्वेन कारणत्वेन च विभक्ताकारेण द्दष्टत्वात्। येन केनाप्याकारेणेति तृतीयं पक्षं प्रागेव प्रतिक्षिपति---इष्टमिति। 'पर्वते परमाणौ च पदार्थत्वं व्यवस्थितम्' इति चाहुः। येनकेनाप्याकारेण साम्यं प्रसाधनीयमेव न भवति। तस्मात् कार्यकारणभावनियामकाकारेण साम्यमिति द्वितीयः पक्षोऽवशिष्यते। स च नेत्याह---भग्नेति। हेतुव्यवस्थोचितगुणसमता कार्यकारणभावव्यवस्थापकगोमयत्वादिगुणसाम्यं कार्यकारणभूतयोर्वृश्चिकगोमययोर्नास्त्येव। गोमये गोमयत्वसत्त्वाद्वृश्चिके तदभावाच्चेत्यर्थः।गुणसमता भग्नेत्यन्वयः। तेन सूक्ष्मचिदचिच्छरीरो भगवान् स्थूलचिदचिद्विशिष्टरूपेणावतिष्ठत इति सुगममेतत्। तस्मात् सर्वस्यापि चोद्यस्योपमर्द एव। सूक्ष्मस्य तस्यैव द्रव्यस्य स्थूलरूपेणावस्थानमात्रस्यैव कार्यकारणभावरूपत्वेनास्माभिरभिधानात्। नह्रस्माभिरीश्वर एव स्वरूपेण प्रकृतिपुरुषात्मना परिणमत इत्युच्यत इति।।

 9. अत्र पाश्वस्थः कश्चिन्मृदुप्रज्ञो मन्यते 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इति कार्ये वस्तुनि चैतन्योपलम्भाच्चैतन्यं कार्ये द्दश्यते कारणे पुनर्वस्तुनि 'तदैक्षत बहु स्याम्' इति चैतन्योपलम्भः सिद्ध एव तेन कार्यकारणयोः सालक्षण्यमिति। तदिदमाह---ईक्षेति। अयमर्थः---सति कारणे बहुस्यामिति परिपठिता ताद्दगीक्षा तेजसोऽपाञ्च 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इति द्दष्टा। तेन कार्यभूतस्य जगतः कारणभूतात्मा सह सालक्षण्यं चैतन्ययोगेन ,स्यादिति मृदुप्रज्ञपाश्र्वस्थस्य चोद्ये सति तत्र सम्यगुत्तरमिदं यक्तं तेजःप्रभृतिमूर्तेः परस्य पुरुषस्येक्षणमिदमितीमं भावमपलप्य पूर्वपक्षी भावान्तरेण

परिजहार । 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इत्यादिकमभिमानिव्यपदेश इति। अयं पुनव्र्यपदेशस्तेजःप्रभृतितत्तत्तत्त्वाभिमानिदेवताविशेषव्यवहारणमिति सामान्येन प्राह। नपुनः परमात्मव्यपदेशो वा तत्तद्देवतामात्रपरो वेति विभज्य प्राह। तेन पूर्वपक्षिव्यवहारत्वान्नास्माकं दोष

इति।।

।2.1.4.

10. एवमनुपपन्नकेवलतर्काभासमूलत्वात् अप्रतिष्ठित्वाद् वेदान्तविरुद्धत्वाच्चापरिहार्यदोषं

साङ्ख्यपक्षं प्रतिक्षिप्य तत्तुल्यन्यायेन कणभक्षाक्षापादादिपक्षाणामप्युक्तदोषेण त्याज्यत्वमितिदिशतीति

सङ्गतिः। पूर्वमपि 'अत एव प्राणः' 'एतेन सर्वेव्याख्याता व्याख्याताः' ' एतेन योग प्रत्युक्तः' इत्यातिदेशिकसङ्गतिरुक्ता अत्रापि सैवोच्यते। तदर्थविचारस्तु -- उक्तं ब्राहृणो जगत्कारणत्वं संभवति

नेति। किं वेदान्तवाक्यानि ब्राहृणो जगत्कारणत्वपराणीति। उतान्यपराणीति। किं कणभक्षाक्षापादादि

तर्कविरोधा वेदान्तवाक्यानां अन्यपरत्वमापादयन्ति नेति। किं बहुत्वादिसम्मतपरमाणुकारणवाद निरसनेऽपि तर्काप्रतिष्ठानहेतुः प्रभवति नेति। अत्र पूर्वपक्षोत्थानप्रकारमनूद्य तत्प्रतिक्षेपप्रक्रियामप्याचष्टे-- संवादादिति। प्रकृतिकारणवादस्साङ्ख्ये योगे च केवलमभिधीयते। परमाणुकारणवादः पुनः कणभक्षाक्षापादक्षपणकभिक्षुकादिबहुपक्षपरिगृहीतत्वात् सर्वाथाऽऽदरणीय

इति पूर्वपक्षिणोऽभिप्रायः। विश्वं तद्धेतुकं स्यादिति द्वयनुकादिक्रमेण परमाणुहेतुकमेव विश्वं स्यादिति

मृदुमतिभिरल्पबुद्धिभिश्चश्वावराहक्रमस्यानुवाद इति। श्वानो हि वराहेषु परस्परविरुद्धा अपि तदानीं

परस्परविरोधं परित्यज्य निपतन्ति। एवं परवादिनोऽपि परस्परविरोधं परित्यज्य वेदान्तबाधानाय प्रवर्तन्त

इति श्वावराहन्यायः। तत्प्रतिक्षेपप्रकारमाह-- अन्योन्येति। अन्योन्यव्याहतार्थबहुकुहनायुक्तिदोषा

-पनोनोदनाय प्रतिमततिभिरस्तोमकुक्षिम्भरिवेदान्तसूर्योऽस्माकं भातीत्यन्वयः इति। लोके हि सार्वत्रिकोऽप्यन्धकारस्सूर्योदयमात्रेण सद्यस्समुन्मूल्यते, एवं वेदान्तसिद्धान्तप्रसङ्गमात्रतः परसिद्धान्तास्स्वयमेव प्रक्षीयन्त इति।।

।2.1.5.

11. पूर्वपक्षाणां परस्परविरोधादिबाहुल्यादनुपपत्तिः प्रदर्शिता। एवं तर्हि सूक्ष्मचिदचिच्छरीरकपरमात्मनः स्थूलचिदचिच्छरीरकपरमात्मरूपविश्वसृष्टिरिति भवत्पक्षेऽपि बहुविरोधेन

वस्त्वनुपपत्तिरित्यादि पूर्वनिरस्तानामेव वादिनामाशङ्क्या पूर्वपक्षोत्थानमिति सङ्गतिः। तदर्थविचारस्तु जीवशरीरकस्य ब्राहृणस्स्वशरीरभूतजीवान्निरतिशयानन्दस्वभावतया यो विभाग उक्तस्स किं संभवति नेति। शरीरित्वे ब्राहृणस्स्वशरीरभूतजीवसुखदुःखभाक्त्वं प्रसज्ते न वेति। किं दुःखीदिभाक्त्वं शरीर-

प्रयुक्तमुतान्यप्रयपक्तमिति। किं 'न ह वै सशरिरस्य सतः प्रियाप्रियोरपहतिरस्ति' इति श्रुतिर्दुःखोपभोगस्य

शरीरप्रयुक्तामवगमयति नेति। किमत्र शरीशब्दशरीरमात्रवचन उत पुण्यापुण्यशरीरपर इति। अत्र पूर्व-

पक्षवादि मन्यते-यस्यैको दहोऽस्ति स तु विविधानन्तदुःखभाग्भवति, युष्माकं परमात्मनो विश्वं देहश्चेत् स परम पुरुषस्स्वशरीरभूतविश्वनिमित्तकं दुःखं कथमतिपतेदिति। तदिदमाह--एक इति। इत्थं जीवेशसीमां शरीरसम्ब्धमात्रेणापलपितुनाः पूर्वपक्षवादी क्रोशभाजां ब्राहृरुद्रादिप्रवाहपराणां श्रुतीनां सम्राड्भृत्यादिनीत्या राजभृत्यन्यायेन साम्यं वैषम्यं च दृष्ट्वा शमं लभतां प्रशमं भजतानित्यर्थः। राजानोऽपि स्वतन्त्रा एव भुञ्जते राजभृत्यास्तु तत्सेवया तादृग्विधं भोगमुपभुञ्जते। तद्वत्स्वाभाविकमेव सर्वशरीरत्वदिकं भगवतः, भगवत्प्रसादादेव सब्धाधिकाराश्चतुर्मुखादयस्स्वकर्मानुरूपं भोगमुपञ्जते। नैतावता भगवत्साम्यसिद्धिः, वैषम्यस्य स्पष्टमेव दृष्टत्वात्। अतः कर्मैव सांसारिकभोगनिमित्तं नपुनः शरीरित्वम्।।

।2.1.6.

 12. अत्र भगवता भाष्यकारेणैव साक्षीत्संगतिरुक्ता 'असदिति चेन्न प्रतिषेधमात्रत्वात्' इत्यादिषु कारणभूताद्ब्राहृणः कार्यभूतस्य जगतोऽनन्यत्वमुपपादितम्। इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते'

इति। अथवा पूर्वं नविलक्षणत्वाधिकरणे कार्यकारणयोस्सालक्षण्यं वदतस्साङ्ख्यस्य तयोर्वैलक्षण्योपपादनेन प्रतिक्षेपः कृतः। अधुना पुनस्तयोर्वैलक्ष्यवत् स्वरूपभोऽपि स्यादिति वदतो वैशेषिकादेः कार्यकारणयोरनन्यत्वोपपादनेन निराकरणं क्रियत इति संङगतिः। तेन द्रव्यावस्थयोद्र्वयोरपि

नित्यत्ववादिनस्साङ्ख्यस्य पूर्वं निरासः, अधुना पुनद्वयोरपि तयोरनित्यत्ववादिनो वैशेषिकस्य निरास इति विभागः। तदर्थविचारस्तु -- उक्तं ब्राहृणो जगत्कारणत्वं संभवति नेति। किं ब्राहृकार्यं जगद् ब्राहृानन्यदुतान्यदिति।किमवस्थान्तरापन्नं कारणमेव कार्यमुत कारणादन्यत्कार्यमिति। किंबुद्धिशब्दान्तरादयोऽवस्थान्तरनिबन्धना उत स्वरूपान्यत्वनिबन्धना इति। किं 'वाचारम्भणं विकारो नामधेयम्' इत्यादीनि वाक्यानि बुद्धिशब्दान्तरादीनामवस्थान्तरनिबन्धनतामवगमयन्ति नेति।

अत्रासत्कार्यवादिपक्षं तावदुपन्यस्यति-- कार्यमिति। कार्यं कारणतोऽन्यद् भवितुमर्हति विरुद्धधर्मा

ध्यस्तत्वात् यद् यदपेक्षया विरुद्धधर्माध्यस्तं तत् ततोऽन्यदेव यथा घटश्शकचादित्यसत्कार्यवादिनामु

पादानोपादेययोर्भेदसाधकमनुमानम्। अत्रानुग्राहकतर्कमाह-- व्यापार इति। इतरथा-- उपादानोपादेययोर्भेदाभावे। कारकाणां व्यापारो निरर्थकस्स्यात्। नहि स्वार्थमेव कारकव्यापार इति वक्तुं युज्यते व्याघातादिति। इमं पक्षमनूद्य प्रतिक्षेप्तुमुपक्रमते --इत्यर्धवैनाशिकोक्ताविति। वैनाशिका बौद्धा द्रव्यविनाशवादित्वात्। अर्धवैनाशिकास्तु वैशेषिकास्सावयवद्रव्येष्ववयविनो विनाशं वदन्ति न परमाणुपरममहतोः। तेनार्धवैनाशिका इत्युच्यन्ते।तत्प्रतिक्षेपप्रकारं दर्शयति-- द्रव्यैक्य इति। कारणकार्यरूपयोद्र्रव्ययोरैक्ये सत्यपि विरुद्धधर्माध्यासादिकं सकलमप्यवस्थाभेदेन तालीपलाशताटङ्कन्यायाद् युज्यते। ननु मया द्रव्यभेदः उक्तः, त्वया पुनरवस्थाभेदः, अत्र को विशेष इत्याशङ्क्योत्तरमाह--

तदभिमतदशाभेदत इति। अयमर्थः -- कारणद्रव्यभेदवादिना कारणगतावस्थाभेदोऽप्यङ्गीक्रियते तथा द्रव्यभेदोऽपि, तथाचोभयविधाङ्गीकारे गौरवम्। ततो वरमवस्थाभेदमात्राङ्गीकारेण लाघवपक्षानुसरणम्, तेनैवावस्थाभेदेन कृत्स्नस्यापि विरुद्धधर्मादेदोषस्य भेदकत्वेन भवतोपन्यस्तस्योपपन्नत्वादिति। अवस्थाभेदानङ्गीकारे द्रव्यभेदोऽपि भवतो न सिध्येदिति ह्मदयम्।असच्छØतिश्चेति--'असदेवेदमग्र आसीत्' इति कारणावस्थायां विश्वस्यासत्त्वमुक्तम्, कार्यावस्थायाः कारणावस्थायामसत्त्वात्। अथाप्यस्मत्पक्षं परित्यज्य त्वत्परिग्रहे किं नियामकमित्याशङ्क्य नियामकं हेतुत्रयमाह-- अध्यक्षादित्यादिना। प्रत्यक्षं तावदेकं नहि तन्तुव्यतिरेकेण पटो नाम किञ्चिदुपलभ्यते अपितु तन्तव एव पटत्वावस्थामापन्नाः पट इति नामान्तरेण व्यपदिश्यन्ते। हेत्वन्तरमाह-- लाघवादिति। पटद्रव्यस्य तन्त्ववस्थाभेदस्य चाङ्गीकारे गौरवम्, अवस्थामात्राङ्गीकारे लाघवम्। गौरवपक्षं परित्यज्य लाघवपक्षानुसरणमेव न्याय्यम्। श्रुतिकथितेति। तृतीयो हेतुरुच्यते। कार्यकारणभूतयोर्जगद्ब्राहृणोस्तादात्म्यं 'सदेव सोम्येदमग्र आसीत्' इत्युच्यते। नहि

श्रुतहानमश्रुतकल्पनं वा न्यायविदोऽनुमन्यन्ते।।

 13. अत्र कश्चिच्चोदयति -- सूक्ष्मचेतनाचेतनवैशिष्ट¬ेनावस्थान्तरं भजेदिति कार्यकारणयोरनन्यत्वं भवन्तो निर्वहन्ति एवञ्च सति कारणावस्थायामद्वितीयश्रुतिव्र्याहन्येत ब्राहृविशेषणयोश्चेतनाचेतनयोः कारणावस्थायामपि विद्यमानत्वादिति।एतदनूद्य प्रतिबन्द्या निर्वोढुमुपक्रमते- मायेति। अयमत्र भावः -- ये तावन्मायोपहितं ब्राहृजगदुपादानमिति वदन्ति येच उपाधिव्यतिकरितम्, ये च स्वशक्तिव्यतिकरितम् , तेषामपि पक्षे मायादीनां ब्राहृविशेषाणानां कारणावस्थानां विद्यमानत्वादद्वितीयश्रुतिव्यापकोपस्तुल्यमेव। मायादीनामप्राधान्यादद्वितीयश्रुतिव्याघातं यदि परहरन्ति तर्हि वयमपि चेतनाचेतनयोरप्राधान्यादद्वितीयश्रुतिव्याघातं परिहरामः। एवञ्च सति सूक्ष्मचिदचिद्विशिष्टं कारणं स्थूलचिदचिद्विशिष्टं कार्यमित्यस्मिन् पक्षे न कश्चिदपि दोषः। शब्दान्वयस्तु--येषां मायोपाधइस्वशक्तिव्यतिकरितपरब्राहृमूलः प्रपञ्चस्तेऽप्यत्राद्वितीयश्रुतिं तत्तद्विशिष्टे विशेषणाप्राधान्यादवितथयन्ति तथैवास्माकमप्यन्तरात्मप्रधाने वाक्ये प्रकृतिपुरुषयोस्स्थूलसूक्ष्माकारेण विशेषणतया ऽन्वय इति कारणभूतब्राहृापेक्षया कार्यभूतस्य

जगतोऽनन्यत्वोपपत्तिरिति।।

 14. एवं स्वसिद्धान्तेन सर्वश्रुत्यनुगुणं जगदुत्पत्तिप्रकारमुक्त्वा तत्तद्वादिपरिकल्पितान् पक्षाननूद्य तेषामाम्नायविरुद्धत्वादसत्पक्षत्वमाह-- विश्वारम्भ इति। विवर्तं रज्ज्वादौ सर्पभूदलनाम्बुधारादिवत् मिथ्यापरिकल्पतम्, शकलपरिणतिं चिदचिदीश्वराकारेण त्र्यंशे ब्राहृण्यचिदंशस्य शकलस्य परमार्थपरिणतम्, शक्तिशेषस्य सूतिं चिदचिदीश्वरशक्तित्रयात्मके परस्मिन्ब्राहृणि तत्तच्छक्तिभेदस्य सृष्टिम्, पूर्वं विद्यमानस्य कूर्मावयवस्याभिव्यक्तिवत् कारणे विद्यमानस्य कार्यस्याभिव्यक्तिम्, मुकुलावस्थआयामनुल्लसितस्य पुष्पस्य कालेनोल्लासवद्विश्वस्योल्लासम्, भस्त्रिकान्तर्गतद्रव्यविसर्जनवद्विसृष्टिम्, विकृतिं सन्मात्रस्यैव ब्राहृणः प्रपञ्चाकारेण परिणतिम्, अनियतां तत्त्वपङ्क्तौ च सृÏष्ट कदाचिदग्नेरापः, कदाचिद्द्भ्योऽग्निरिति नियममन्तरेण जगत्सृÏष्ट श्रुतौ तेषुतेषु वाक्यैकदेशेषु स्वरसोऽयमर्थ इति मुधा कल्पयन्तो बालप्रायाः सर्वश्रुत्यैकरस्यप्रणयिभिरधपीचक्रिरे निरस्ताः इत्यर्थः। सूक्ष्मचिदचिद्विशिष्टाद्ब्राहृणः स्थूलचिदचिद्विशिष्टं ब्राहृैवोत्पद्यत इतीदमेव तत्त्वम्। एतद्विरुद्धास्सर्वे सिद्धान्ता निरसनीया इत्यर्थः।।

। 2.1.6.

 15. अत्र सङ्गतिश्श्रीविष्णुचित्तार्यैव्र्यक्तमुक्ता 'असदिति चेदित्यत्र प्रस्तुतमप्यनन्यत्वं तस्याधिकरणान्तरत्वात्तत्र न साधितम्,आरम्भणाधइकरणस्य तत्प्रयोज्यत्वात् प्रतिपादनभेदाच्च। एवमनन्यत्वे समर्थितेऽनभिमतमापतितमित्याह-- इतरेति' इति। तदर्थविचारस्तु -- उक्तं ब्राहृणो जगत्कारणत्वं संभवति न वेति। किं ब्राहृणो जगत्सृष्टृत्वे हिताकरणादिदोषः प्रसज्यते न वेति। किं ब्राहृणस्तत्त्वमसीति सामानाधिकरण्यानवगततादात्म्यं स्वरूपैक्यलक्षणमुतात्मशरीरभावलक्षणमिति। किमात्मशरीरभावलक्षणतादात्म्य ए 'अस्मान्मायी ' 'पृथगात्मानम्' इत्यादिभेदश्रुतिसामञ्जस्यमुतैक्यलक्षणेऽपीति। अत्र पूर्वपक्षमुक्त्वा तत्प्रतिक्षेपमाह-- उक्त इति। पूर्वाधिकरणे कार्यकारणयोरनन्यत्वमुक्तम्। अस्मिन्पक्षए चेतनस्यापि कार्यत्वात् तस्यापीश्वरानन्यत्वं वाच्यम्। स तु चेतनस्संसारदुःखं संगतिरप्यत्राभिव्यज्यते। शब्दान्वयस्तु -- अनन्यत्वपक्षे भवद्भिरित्थमुक्ते सति चेतनोऽपि ब्राहृपरिणतिः स्यात् ततस्तस्माद्धएतोस्तत्त्वमस्याद्यवगतं तज्जीवैक्यमहतं स्यादेव। तथा ऐक्यमस्तु नाम। तथापि विरोधो दृश्यते। जीवो दुःखसिन्धुरेव। अस्तु दुःखसिन्धुर्जीवस्ततः किं नश्चिन्नमित्याशङ्क्याह-- अभ्रान्त इति। किमीश्वरो भ्रान्त उताभ्रान्त ? भ्रान्तश्चेश्वर एव न स्यात्। अभ्रान्तश्चेत्स

पुनर्जीवस्वात्मनोरैक्यं जानाति न वा? न जानाति चेत्सर्वज्ञो न स्यात्। जानाति चेत् स्वात्मनो जीवैक्यं कथमिव जीवे दुःखं जनयेत्। क्रीडया दुःखं जनयतीति चेत् तच्च न। न खलु क्रीडया स्वशिरच्छएदमनुन्मत्तः कुरुत इति पूर्वपक्षमाशङ्क्य प्रतिक्षिपति -- मैवमिति। तदेव विवृणोति -- तात्थ्येनेति। अयमर्थः -- नहि वयं जीवब्राहृणोस्स्वरूपैक्येनानन्यत्वं ब्राूमः, अपितु 'अवस्थितेरिति काशकृत्स्नः' इति जीवान्तर्यामित्वेन भगवतोऽवस्थानादेव। तच्चान्तर्यामित्वेनावस्थानमध्यात्मशास्त्रेषु शरीरात्मभावप्रतीत्युत्पादकश्रुतुसिद्धाच्छरीरात्मभावादेवेत्यर्थः।।

। 2.1.7.

 16. 'परस्य ब्राहृणस्रुवज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तुशरीरतया सर्वप्रकारेण सर्वात्मत्वं सकलेतरविलक्षणत्वञ्चाविरुद्धमिति स्थापितम्। इदानीं सत्यसङ्कल्पस्य परस्य ब्राहृणः सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते' इति भाष्यकारैरेव सङ्गतिरुक्ता। तदर्थविचारस्तु --- किं ब्राहृणो जगत्कारणत्वं संभवति नेति। किं कार्यजननसमर्थस्य कारणस्य जनकत्वं नियमेन सहकार्यन्तरापेक्षमुत निरपेक्षमेवेति। पूर्वत्र हिकाकरणादिदोषप्रसक्तिः परिह्मता, अत्र पुनः पूर्वपक्षिणाभिहितं तादृशं दोषान्तरमपि परिहरति--शक्तामिति। अयमर्थः -- कर्ता स भवतूपादानं वा द्वयोरपि स्वरूपशक्तौ विद्यमानायामप्यपेक्षितोकरण सन्निधान एव कार्यकरत्वं दृष्टं तस्मात् 'असदेवेदमग्र आसीत्' इत्युक्ते सर्वसंहारकाले निमित्तोपादानरूपकारणद्वयात्मा परमपुरुषः किमुपकरणयेत् किं वा

सहकारीकुर्यादिति। उक्तं पूर्वपक्षं प्रतिक्षिपति --असदिति। अत्र हेतुमाह-- शक्तिभेदादिति। कारणानि हि लोके नियतानि। तेषां शक्तयोऽपि नियताः। शक्तिश्च स्वरूपशक्तिः सहकारिशक्तिरिति द्विप्रकारा। तथा च घटोत्पत्तावन्याश्शक्तयः पटोत्पत्तावन्वयाश्शक्तय इति दृष्टमेतन्नापलनीयम्। तथाचेश्वरस्यापि स्वरूपप्रकृतिपुरुषकालात्मिकाः शक्तयः कारणावस्थायामपि सन्ति। अतो न दोष इत्यर्थः। अत्र तत्तदुचितसहकारिशक्त्युपादाने बहून्दृष्टान्तमाह-- क्षीरेत्यादिना। क्षीरमातञ्जनेन दधि करोति। आतञ्जनं तु शीघ्रं दधिभावार्थं रसविशेषार्थं च। अयस्कान्तः सन्निधिमात्रेणायोद्रव्यमाकर्षति। लूता लालासहिता तन्तुं तनोति। देवा ऋषयश्च स्वाभाविकप्रभावसहिता विचित्राणि तत्तत्कार्याणि कुर्वन्ति। एवमन्यान्यप्यदाहरणानि द्रष्टव्यानि। तान्दृष्टान्तान् वीक्ष्य भवता सन्तोष्टव्यम्। अयथायथोकिं्त परित्यज्य सुखेनावस्थातव्यमित्यर्थः। सर्वलोकप्रसिद्धं परवादिभिरप्यनतिलङ्घनीयं दृष्टान्तमाह-- सङ्कल्पादिति। जीवो हि कुलालादिस्सङ्कल्पमात्रेण

शरीरं नुदति स्वशरीराधिष्ठितदण्डादिना चक्रादिकम्, यत्र यदपेक्षितं तत्र तत्कार्यं कर्तुमित्यर्थः। एवमीश्वरोऽपीत्याह-- विश्वरूप इति। विश्वशरीरत्वादीश्वरोऽपि सङ्कल्पमात्रेण सर्वं प्रणयतीत्यर्थः।।

। 2.1. 8.

18. अस्तु वा कालरूपबाह्रसहकारिसहितं जगत्कारणं ब्राहृ तथापि स्वयमपि सर्वचिदचिच्छक्तियुक्तं निरवयवं परमात्मस्वरूपं कथमिव 'बहु स्याम्' इति सङ्कल्प्यानेककार्यतयावतिष्ठत इत्याशङ्क्या सङ्गतिः। तदर्थविचारस्तु -- प्रागुक्तमेव जगत्कारणत्वं सम्भवति नेति। किं ब्राहृणो जगत्कारणत्वे निरवयवत्वश्रुतिर्बाध्यते न वेति। पूर्वं सहकार्यभावेन कारणत्वसामान्यचोद्यं परिह्मत्येदानीमुपादानत्वरूपकारणत्वविशेषे चोद्यविशेषमाचक्षाणस्य परिहारः क्रियत इतीममर्थमाह-- कृत्स्नमिति। अयमत्र विकल्पः -- कारणभूतं ब्राहृ कृत्स्नमप्येककार्यात्मना परिणमत्युतैकदेशेन। यदि कृत्स्नं तर्हि ब्राहृण एककार्यात्मना परिणतस्यावशेषाभावात् कार्यान्तरात्मना परिणाम एव न स्यात्। यद्येकदेशेन परिणामः निष्कलत्वश्रुतीनां निरवययत्वश्रुतीनां नित्यमेव व्याकोपः स्याजिति।इदं तु दूषणं न केवलं ब्राहृस्वरूपकारणत्वे, अपितु चेतनाचेतनविशिष्टकारणत्वेऽपि तुल्यमित्याह--इदमिति। तस्मिन्--ब्राहृणीत्यर्थः।एवं दूषणमुक्त्वा पूर्वपक्षे तत्फलमाह-- ब्राहृेति। एवं ब्राहृण उपादानत्वं न घटत इत्यन्वयः। इत्थमाशङ्क्यां पिरहरिष्यन् पूर्वपक्षं निराकरोति -- नेति। मायाविशिष्टं ब्राहृ कारणमिति मायावादिनः, उपाधिविशिष्टमिति भास्करीयाः , शक्तिविशिष्टमिति यादवप्रकाशीयाः, तेन तेष्वपि पक्षेषु दूषणं समानमित्याह-- स्वपक्षेष्विति। एवं प्रतिबन्दीमुक्त्वा तेषामभिमतः प्रतिबन्धीपरिहारोऽपि तुल्य इत्याह -- तन्मानादिति। अयं किल तेषां प्रतिबन्दीपरिहारः -- मायोपाधइशक्तिविशिष्टब्राहृप्रतिपादकप्रमाणबलात्तादृशं ब्राहृास्माभिः स्वीक्रियत इति। एवं प्रमाणाभासबलात् त्वत्पक्षलस्वीकारे साक्षात्प्रमाणैः श्रुतिशतैः प्रतिपन्नमस्मात्पक्षपरिगृहीतं चेतनाचेतनविशिष्टं ब्राहृ सर्वलोकानुकूलं स्वीकुरुष्वेति पक्षानन्तराणि प्रत्यक्षप्रमाणविरुद्धत्वात् स्वीकर्तुमयोग्यानि, अस्मत्पक्षस्तु लोकवेदाविरुद्धत्वात् स्वीकर्तुं योग्य इति भावः।।

19. एवं न्यायवादिनोऽपि शरीरात्मभावप्रतिक्षेपकाः परिहर्तव्याः, आकाशावयविपरिमाणुसम्बन्धादीनां तेषामपि पक्षे सम्बन्धविषये कृत्स्नैकदेशविकल्पानुपपत्तेरपि भावात्।स्वपक्षोक्तं दूषणमेकदेशेन परिह्मत्य विस्तरेण परिहरिष्यन् माध्यामिकोक्तकृत्स्नैकदेशविकल्पप्रक्रियैं दावदनुवदति--संयोगेति।परमाणुद्वयादिसंयोगाद् द्व्यणुकादिसृष्टिरिति वैशिषिकादीनां प्रक्रिया।तत्र च जगत्कर्तेश्वरः स्वयं विभुरेव परमाणुभिस्संयुज्य तानधितिष्टतीति तानधितिष्टतीति च ते प्राहुः।तत्र माध्यमिकः प्रत्यमतिष्टते--परमाणुद्वयं कार्त्स्न्येन वान्योन्यं स्युज्यते, उतैकदेशेन।कात्स्न्र्येनत्--परमाण्वोरन्योन्यं स्वरूपे निमज्जनादधिकपरिमाणद्वयणुकादिकार्यं नारभ्येत।एकदेशेन चेत् सांशत्वप्रसङ्गः।एवमणुः परमाणुर्विभुश्चेश्वरः कात्स्न्र्येन संयुज्यते चेत्

तर्हि तयोस्तुल्यपरिमाणत्वप्रसङ्गः।तधाचाणुः परमाणुरीश्वद्विभुः स्यात्।विभरीश्वरः परमाणुवदणुरेव स्यात् एकदेशेन संयोगे द्वयोरपीश्वरपरमाण्वोस्सावयवत्वप्रसङ्गदेन निरवयवद्रव्यद्भाव एव लोलुप्येत।तथा च निरवयवभावात् सावयवकथनमपि साहसमेव स्यात्।निरवयवरूपपरमाण्वभावे तदवयवाश्रितत्वेन सतैं द्व्यणुकादीनामपि त्यक्तव्यत्वादिति। इत्थं माध्यमिकेन स्वपक्षदुषणायोक्तर्थं कणभक्षादिपक्षनिष्टो यदि वेदान्तिनं प्रति तदा स्वयमपि माध्यमिक निमज्जेत्।अयमत्र शब्जान्वयः--संयोगाख्यं कार्यं विभुतदिरयोः स्यात् ईश्वरपरमाण्वोर्वा स्यात्, अणूनां मिथो वा परमाणूनामन्योन्यं च स्यात् तत्रापि कात्स्न्र्येन वा स्यादंशेन वा स्यादिति विकल्प्रकाराः। तद्विहतमेवेत्यस्मान्वेदान्तवादिनः प्रति वदन् परपक्षवादी स्वयं माध्यमिकवच्छून्यवादे निमज्जेत्। अस्तु परमाणुकारणवादिनो वैशेषिकादेरिदं दूषणम्, तेन साङ्ख्यस्य किं दूषणमित्याशङ्क्याह-- साङ्ख्योऽपीति। इत्थं किल साङ्ख्यानां प्रक्रिया-- प्रकतिर्विश्वं सृजति। सा च विभ्वी। सा पुनस्सत्त्वरजस्तमसां सङ्घातात्मिकेति। तथा च कार्यं कुर्वती स्वात्मभूतैस्सत्त्वरजस्तमोभिः परस्परं संयुज्य करोति वा किमैकैकश्येन। यदि संयुज्य तदा कात्स्न्र्येन वा सत्तवरजस्तमासं संयोग उतैकदेशेन। यदि कात्स्न्र्येन तह्र्रेकमेव कार्यं प्रति सर्वेषां सत्त्वरजस्तमसां विनियुक्तत्वात् कार्यान्तरारम्भं प्रत्यवशेषो न स्यात्। यद्येकदेशेन सम्बन्धः-- तदा तेषां सत्त्वरजस्तमसां सांशत्वप्रसङ्गः। तथा च विभुत्वकल्पनाक्याघातः। यद्यैकैकश्येन कारणम्-- तदा कार्यस्य त्रिगुणात्मकत्वं न स्यात् किञ्चित्सत्त्वेन सृज्यत इतरद्रजसा तमसा चान्यदिति एवमादिदूषणकलोपोपहता साङ्ख्योक्तप्रक्रियेति। कथं न्यूनसृष्टिस्ततः स्यादिति-- अस्यायमर्थः। विभ्वीं प्रकृतिमङ्गीकुर्वतः साङ्ख्यस्य कथं न्यूनसृष्टिः स्यात्। उक्तप्रकारेण दुष्टत्वादिति। एवं साङ्ख्यादिपक्षप्रतिक्षेपप्रक्रियया मायोपाधिशक्त्युपहितब्राहृपक्षेष्वपि दूषणमूह्रम्। अस्तु तुल्यत्वमस्मत्पक्षाणां त्वत्पक्षस्य च, अथापि त्वत्पक्षस्य परिग्रहे को विशेष इत्याशङ्क्याह-- निगमनिगदितेति। अयमत्र विशेषः-- ' क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः ' इत्यस्मत्पक्षस्य श्रुतिशतनिगति तत्वात्तद्दूषणप्रलोपो धर्मिग्राहकप्रमाणबाधितः, अस्मत्पक्षस्तु श्रुत्यानुकूल्यादवतिष्ठत एवेति। तदिदमाह-- अक्षता पद्धतिर्नइति।।

। 2.1. 9.

 20. अत्र सङ्गतिविशेषप्रत्यायकं भाष्यं ' यद्यपूश्वरः प्राक्सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशक्तियुक्तः स्वयमेव विचित्रं जगत्रुाष्टुं शक्नोति तथापीश्वरकारणत्वं न संभवति प्रयोजनत्वाद्विचित्रसृष्टेः, ईश्वरस्य च प्रयोजनाभावात् 'इति। तदर्थविचारस्तु -- किमुक्तं जगत्कराणत्वं ब्राहृणः समभवति नेति। किमवाप्तसमस्तकामस्यापि लीलया जगत्कारणत्वं सम्भवति नेति। किमवाप्तसमस्तकामस्यापि लीला प्रयोजनं नेति। अत्र विकल्प्य दूषयति --- आत्मार्थंमित्यादिना। किमीश्वरस्य विश्वरुाष्टृता आत्मार्थमुत परार्थम्। आत्मार्थं तावन्न संभवति अवाप्तसमस्तकामत्वात्। तदिदमाह --सततावाप्तकामस्येति। परार्थत्वपक्षे कृपया विश्वसृष्टिरिति वक्तव्यम्, तदपि न वक्तं शक्यत इत्याह-- कारुण्यादिति।यदि कारुण्याद् विश्वं सृजति तर्हि सुखरूपमेव विश्वं सृजेन्न पुनर्दुखरूपम्। ननु दुःखरूपमपि सृजति तदपि कारुण्यादेव यथा दुःखरूपां चिकित्सां कुर्वन् चिकित्सको रक्षक इत्यभिधीयते एवं दुःखरूपां विश्वसृÏष्ट कुर्वन्नीश्वरोऽपि चिकित्सकद्रक्षक एव स्यादित्याशङ्क्य परिहरति -- न चेति।अयमत्र भावः---चिकित्सकस्त्वल्पशक्तिकत्वात् दुःखरूपां चिकित्सकनयाद्दुःखसृष्टिरिति। तत् तस्मात्कारणात् स्वात्मतृप्तः सर्वज्ञः ईश्वरो जगत्सृष्टिहेतुर्न भवतीत्यन्धानामेव चोद्यम्।तदेवोपपादयति---लीलेति। 'लोकवत्तु लालाकैवल्यम्' इति स्पष्टमेव सूत्रकारैरेव चोद्यपरिहार उक्तः। यथा सार्वभौमो राजा पूर्वमेव परिपूर्णोऽपि द्यूतक्रीडां करोति। अत्र 'पश्यन्तीषु श्रुतिषु' इतियादिकमाचार्यपद्यमेव पाठ¬म्। ननु पूर्वमविद्यमानस्य सन्चोषविशेषस्य प्रापाप्तमर्थं द्यूतक्रीडा तेन कथमीश्वरस्यावाप्तसमस्तकामत्वमित्याशङ्क्याह---अभिमतेति।यत् यदेष्टं, तदा तस्य

सिद्धिरवाप्तसमस्तकामता न पुनरागामिनां पुरुषार्थानां प्रागेव सिद्धत्वम्, तथा चेश्वरस्यापि बहुस्यामित्यादिसह्कल्पाद् यस्मिन्काले यदिष्यते जगत्सृष्ट¬ादिकं मोक्षप्रदानादिकं तस्मिन्काले तस्यसिद्धिरेवावाप्तसमस्तकामत्वम्, अतोऽवाप्तसमस्तकामत्वं लीलायोगश्च विरुद्धमिति भ्रान्तिप्रलपितमेतत्।।

 21.अत्र कश्चिच्चोदयति---विश्वं दुःखैकतानं विषममपि सृजत ईश्वरस्यासमञ्जसवृतिः स्यादिति। तदिदमाह-विश्वमिति। अत्र विषयतवमेकस्य सुखित्वमपरस्य दुःखित्वमित्यादिकम्। अयमत्र शब्दान्वयः--विश्वं दुःखैकतानं विषयपि सदा निर्मिमाणस्येश्वरस्य लीला असमञ्जक्रमतः सञ्जायेत असमञजो नाम कश्चिदयथाकर्मकारी सुप्रसिद्धः पुराणेषु, तस्य वृत्तान्तक्रमात् संजायेत। तत ईशवरस्य निर्दयत्वादिदोषो भवेते । इममर्थं प्रतिक्षिपति---मैवमिति। तमेव प्रतिक्षेपप्रकारं विवृणोति- बीजीङ्कुरेति । अयमर्थः---अनादिरयं कर्माविद्यादिचक्रप्रवाहः प्रतिपुरुषं प्रवर्तते। स च विचित्रः। तस्य च प्रवाहस्य तेषुतेषु कालेषु विपाको भवति। विपाकश्च फलप्रदानाभिमुख्यम्। तच्च बहुप्रकारम्। इमञ्चार्थं सर्वेपि सैद्धान्तिका न प्रतिक्षिपति हि। अन्यथा सर्वेषामपि वादिनां सिद्धान्तप्रक्रियया तत्तत्कर्मचारित्वनियमायोगप्रसङ्गात्। तेनेश्वरः प्राचीनकर्मानुरूपं सर्वं सृजतीति सामान्यमेतदीश्वरकर्तृत्वम्। अथापि तत्तत्कर्मानुरूपं वैषम्यमपि न हीयतइति। करुणासाम्ययोरप्रहाणादिति--अयमर्थः। ईशअवरेण विश्वकार्यकरणस्य च तत्र च प्राचीनकर्मानुरूपवैषम्यस्य चापरित्यागादिति। ईश्वरो ह्रनादिस्वसङ्कल्पसिद्धे पुण्यपापादिनियमं तत्तत्काले तद्विपाकं च नान्यथयति। अस्मिन्नर्थे किं प्रमाणमिति चेत् श्रुतिस्मृत्यादिरेव। अन्यथा पितृहन्तुः स्वर्गः स्यात् धर्मशीलस्तु नारकी स्यादिति। कथं तर्हि पापशीलानां चैद्यादीनामपवर्गप्राप्तिरिति दत्तोत्तरमेतत् प्राचीनकर्मक्रमादिति। अत्र लोकसिद्धन्यायानुसारेण

'क्रीडातःसृजतो विश्वं विहन्येत कृतार्थता।

सुखैकतानं चनयेज्जगत् करुणया सृजन्।।'

इत्यनुमानबलम्ब्येश्वरो न सृजतीति कौमारिलचोदेयमपि दत्तोत्तरम्।।

 22. अद्दष्टमर्थं कल्पयतां वैशेषिकाणां द्दष्टानुसारेण कल्पनस्य न्याय्यत्वात् माध्यमिकाद्युक्तद्दष्टानुसाराभावलक्षणदोषोद्धाटनरूपकृत्स्नैकदेशविकल्पाद्युपहतिः स्यात्, अस्माकं पुनरपूर्वार्थप्रतिपादकागमावलम्बेनार्थतत्त्वमुपपादयतां द्दष्टानुसारनैयत्याभावात् सर्वमेनार्थतत्त्वं समञ्जसमेवोपपादयितुं शक्यत इति सर्वसामान्यान्यायमाह---द्दष्टेति। अयमत्र शब्दार्थः---द्दष्टान्यायेन द्दष्टप्रकारेण विश्वप्रजनकः चित् ईश्वरः, स पुनरीश्वरोऽनुमानेन कल्प्यते।विश्वप्रजनकोऽचित्परमाणुः, स पुनस्त्र्यणुकपरमाण्वनुमानेन कल्प्यते। तथाचोभयत्राप्यनुमानादेव परिक्लृप्तिः। तस्यां यत्कार्य तदल्पज्ञकर्तृकमिति तथा तया वैयाकुली स्यात्।यद्यल्पज्ञकर्तृकत्वं कार्यत्वबलात्पक्षेऽ वर्तते तदानीमिश्वरासिद्धिः, यदि तु सर्वज्ञकर्तृत्वं तदा विशेषविरोध इति वैयाकुली भवेत्।एवं संयोगस्यापि सावयवत्वप्रसङ्ग इति च प्रसङ्गो भाव्यः।एवमानुमानिकजत्कारणवादिपक्षे दोषमुक्त्वा सिवपक्षे दोषामुक्त्वा स्वपक्षे दोषाभावमाह--अत्यन्तेति।अत्यन्तादृष्टं चिदचिच्छरीरकेश्वरकारणत्वमर्थं भणितुं प्रवृत्तात् शास्त्रात् सर्वकर्तुशरीश्वरस्य सिद्धौ बाध प्रतिरोधायोग्यतत्त्वज्ञानपरतन्त्रा सर्वधर्मोपपत्तिरस्त्येव सर्वेषामपि निमित्तत्वोपादानत्वसर्वज्ञत्वनिरवयवत्वादिधर्माणामुपपत्तिरस्त्येव।अत आगमिकेश्वरबाधनं नरशिरः पवित्रत्वाद्यनुमानवदनादरणीयमेवेति न बाध इति।

 23.उक्तानां दशानामधिकरणानां पूर्वपक्षोत्थाननप्रक्रियां विशेषतो विभज्य दर्शयन् सामान्यतस्तन्निराकरणमपि दर्शयति--संख्यास्मृत्येति।साङ्ख्यस्मृतिविरोधात् स्मृत्यधिकरणे, चतुर्मखस्मृतिविरोधद्योगाधिकरणे,कार्यकारणयो र्वैरुप्यान्नविलक्षणत्वाधिकरणे,शिष्टापरिग्रहाधिकरणे पुनरस्मिन् कारणे ब्राहृण्येकार्थानेकतन्त्रन्यायविहतत्वात्, भोक्त्रापत्यधिकरणे देहस्य भोगाविनाभावात्, आरम्भणाधिकरणे कार्योपादानयोर्भेदकथनात्,इतरव्यपदेशाधिकरणे स्वात्महितकरणविरोधात्,

उपसंहारदर्शनाधिकरणे सहकार्यभावात्, कृत्स्नप्रसक्त्यधिकरणे कृत्स्नैकदेशविकल्पबाधात्, नप्रयोजनवत्त्वाधिकरणे पुनरीश्वरव्यापारनैरर्थक्यादप्युत्थितं विप्रतिपद्यमानं पुर्वपक्षवादिनं प्रत्यविध्यत् निराकरोदित्यर्थः।।



श्रीः

51. एवं काण्डद्वयवाक्यविरोधमुत्सर्गापवादन्यायेन परिह्मत्य पूर्वपक्षिणोत्थापितं कल्पसूत्रादि वाक्यविरोधमिति तैनैव न्यायेन परिहरति--त्रेधेति। इदमत्र विरोधाभासोपपादनं 'कर्मचोदना ब्रााहृणानि' इत्युपक्रम्य ' ब्रााहृणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च' इति चतुर्णामप्यर्थवादानां ब्रााहृणशेषत्माह भगवानापस्तम्बः।एवमन्यदपि द्रष्टव्यम्। तथा च कथमर्थवादानां विधिशेषत्वमन्तरेण ब्राहृणि प्रामाण्यमुच्यते? अत्रोत्तरमाह-- दत्तोत्तरमिति। अयमर्थः -- अर्थवादानां विधिशेषत्ववचनं सामान्यम्। अत्र पुनब्र्राहृविषयार्थवादानां स्वातन्त्रेण प्रामाण्यकथनं तस्यैवापवादः। अतस्तेनैवोत्सर्गापवादन्यायेन विरोधप्रशमनात् स्मृतिविरोधकथनमनुपालभ्य एव। तमेवोत्सर्गापवादन्यायमजानानस्य शिष्यस्य विशेषतः प्रकटयति--सामान्येति। इममेवार्थं तद्वाक्यस्थेनैव दृष्टान्तेनोपपादयति तत इति। तस्मिन्नेव ह्रापस्तम्बवाक्ये मन्त्रविध्योः परस्परमन्यत्वं ह्रुपरि कथ्यते ' ततो ऽन्ये मन्त्राः' इति। 'ततः' विध्यर्थवादाभ्यां 'अन्ये मन्त्राः' इति। एतत्तु सामान्यमेव मन्त्राणामपि विधायकत्वस्वीकारात्।मन्त्रो हि विधत्त इति ह्राहुस्तान्त्रिकाः। तेन मन्त्राणां विध्यन्यत्ववचनम् उत्सर्गः, विधायकत्ववचनमपवाद इति भवद्भिः परिगृह्रते।तद्वदत्रापि ब्रााहृणशेषत्ववचनमुत्सर्गः स्वातन्त्र्येण

प्रतिपदकत्ववचनमपवाद इति परिगृह्र परितुष्यतु भवान्।।

52. बहुषु प्रामाण्यहेतुषु विद्यामानेषु दूषणमुपनिषद्वाक्यानां विरीश्वरमीमांसकानां साहसमेव तद्व्यहारनिबन्धनमिति प्रतिपादयन् सर्वनिगममार्गापलापप्रतिबन्दीमारचयति-- आम्नातैरिति।वेदे 'कारीर्या वृष्टिकामो यजेत ' इति दृष्टफवाक्यानुसारेण ' स्वर्गकामो यजेत' इत्यदृष्टफलवाक्यानां प्रामाण्यं परिकल्प्यते। अविगुणसफलैरिति कर्मकर्तृसाधनवैगुण्यादेव क्वचित्कारीर्यादिषु फलासिद्धिरित्यर्थः। शाकुनच्योतिषाद्यैरिति-- यथाहि अविगुणसफलैर्वेदोक्तैः कारीर्यादिभिः फलसिद्धिः तथैवाविगुणसफलैः कुनज्योतिषाद्यैर्वेदोक्तैरपि फलसिद्धिर्वण्र्यत एव। तेन वेदे प्रामाण्यं दृष्टफलेषु क्वचित्प्रतीयते। तथा शिष्टानामदृष्टार्थप्रवृत्त्या ऽपि वेदप्रामाण्यं सर्वत्र निश्चीयत इत्याह-- पारत्रिक्येति। अतिनिपुणेति-- महानुभावानां परलोकहेतुभूतया प्रवृत्त्यापि वेदप्रामाण्यं निश्चीयत इत्यर्थः। अनेन महाजनपरिग्रहोऽभिधीयते।

आगमाश्वाससिद्धौ-- एवं बहुभिर्हेतुभिर्वेदप्रामाण्ये निश्चिते सति। अप्रामाण्यकारणाभावमाह-- शब्द इति। शब्दे तस्माच्च बोधे सतीत्यनुत्पत्तिलक्षणाप्रामाणयनिरासः। परविषये--ईश्वरविषये। दोषबाधव्यपेत इति कारणदोषबाधकप्रत्ययौ निरस्येते। अनादिनिधनाविच्छिन्नसंप्रदायत्वात् कारणदोषाभावाच्च अलौकिकार्थविषयत्वाद् बाधकप्रत्ययाभावाच्च प्रामाण्ये सत असति चाप्रामाण्यकारणे पुनरसौ वेदः परस्मिन् ब्राहृणि मानमेव। एवं च कारणमन्तरेण वेदान्तवाक्यानामप्रामाण्यकथने तेनैव न्यायेन कर्मभागेऽप्यप्रामाण्यं कथनीयमिति वेदमार्गापलाप एव स्यादित्यर्थः।।

 53.एवं चतुर्णामधिकरणानामर्थान् विभागेनाभिधाय सामान्यार्थानुवादपूर्वकमत्रत्ययोर्जन्माद्यधिकरणसमन्वयाधिकरणयोरुत्तरत्तरवक्ष्यमाणाभ्यां कारणत्वाधिकरणोभयलिङ्धिकरणाभ्यां पौनरुक्त्यमाशङ्क्योत्तररत्र तत्तदधिकरणार्थप्रसाधनम्, अत्र पुनर्वक्ष्यमाणार्थोपजीवनेन तत्तदर्थाभिधानमिति न पौनरुक्त्यमित्याह-- शास्त्रेत्यादिना। विशेषद्वयमेवम्-- ब्राहृादिशब्दानां श्रीनिवासपर्यवसानं द्वितीयाधिकरणोक्तम्। वेदान्तवेद्यस्य ब्राहृणो निरतिशयानन्दरूपत्वं चतुर्थाधिकरणोक्तम्। तत्र पूर्वं वक्ष्यमाणं कारणत्वाधिकरणमुपजीवति। उत्तरमुभयलिङ्गाधिकरणमिति सुशोभनमेतत्।।

 54. अत्र शारीरकशास्त्रारम्भहेतुभूतचतुस्सूत्र्यात्मकप्रथमपेटिकार्थं सामान्यतो विशेषतश्च दर्शयित्वा तदनन्तरं शास्त्रारम्भरूपद्वितीयपेटिकार्थाभिधानेन तयोःस संगतिमप्याह-- आत्मन्येवमिति। अत्र खलु चतुरधुकरण्यामात्मा ज्ञातव्य इत्यर्थैक्यम्, अकृत इतिमत इत्यादिकर्मचतुष्टयमधिकरणार्थविभागः; ब्राहृविशेषप्रतिपादकत्वात् सर्वेषामधिकरणानाम्। अथ द्वितीयपेटिकापूर्वपक्षानुवादमुखेन संगतिरपि दर्शयन् पेटिकाप्रवृत्तिप्रकारमपि विशदं दर्शयति-- ईदृक्त्वमिति। पूर्वपोटिकाप्रोक्तमर्थजातं यथार्हं प्रकृतिपुरुषयोरेव स्यादिति परकथनं न तावनुमानाद्ययोग्यौ दुःखास्पृष्टौ चेत्युत्तराभ्यां द्वाभ्यामधिकरणाभ्यां क्रमेण

दोधवीतीत्यर्थः। अथवा ईदृक्त्वमित्यारभ्य इतिशब्दपर्यन्तं पूर्वपक्षवाक्यमेव। प्रकृतिपुरुषयोरेव जगत्कारणत्वादिकं प्रमाणासिद्धं तयोरनुमानाद्ययोग्यत्वं दुःखास्पृष्टत्वं च नास्तीति पूर्वाधिकरणाक्षेपे उत्तरं योग्याभिरुक्तिभिर्दोधवीतीति। अथ --समनन्तरपेटिकया पादशेषेण वा। पूर्वं हि शास्त्रयोन्यधिकरण समन्वयाधिकरणाभ्यां वेदान्तवेद्यस्यार्थस्यानुमानाद्ययोग्यत्वं दुःखासंस्पृष्टत्वं चोक्तम्, उभयमपि प्रकृतिपुरुषयोरन्यतरस्य वेदान्तवेद्यत्वाङ्गीकारे न संभवतीति

पूर्वोक्तावान्तरपेटिकासंगतिरप्यत्रोच्यते। अकृत इति-- प्रथमाधिकरणे 'नास्त्यकृतः कृतेन' इति विषयवाक्योक्तमकृतत्वं प्रधानार्थ इति दर्शयति। एवं द्वितीयाधिकरणादिष्वपि विश्वहेतुत्वादिकं प्रधानार्थं इत्यनुक्रमेण मन्तव्यम्। तत्र हि वेदान्तवाक्यानां ब्राहृण्ययोदव्यवच्छेदपरे प्रथमपादे प्रकृत्याद्यन्ययोगव्यवच्छेदकथनमयोगव्यवच्छेदशेषत्वेन नपुनः प्राधान्येनेति समाधानात् ईक्षत्यधिकरणादीनामसंगतिरनाशङ्कनीया। अयं किल पेटिकाविभागः -- प्रथमपादे शास्त्रारम्भार्था चतुरधिकरणी तावदेका। तत्र द्वयोरवान्तरपेटिकात्वम्। पुंनरीक्षत्याधिकरण आनन्दमयाधिकरणयो -रेकपेटिकात्वमुच्यते। अतः परं पञ्चानामप्यधिकरणानां प्रकृतिपुरुषविशेषत्वात्एकपेटिकात्वं प्रतिपद्यते। अथवा ईक्षत्यधिकरणादीनि त्रीण्येका पेटिका सदात्मपुरुषरूपसामान्यश्रुत्या समुत्थितस्य पूर्वपक्षिण ईक्षत्यादि विशेषलिङ्गेन प्रतिक्षेपस्य तुल्यत्वात्। श्रुतिलिङ्गयोर्हि सामान्यश्रुत्यपेक्षया विशेषलिङ्गं प्रबलमिति तान्त्रिकाः। ततः परमाकाशप्राणज्योतिरादिविशेषश्रुत्या समुत्थितस्य पूर्वपक्षिणो न्यायानुकूलयौगिकश्रुत्यर्थाङ्गीकारेणाकाशप्राणाधिकरणाभ्यां तावन्निराकरणं क्रियते। आकाशप्राणशब्दयोस्तु यौगिकार्थावेवाङ्गीक्रियेते। नतु रूढिर्योगमपहरति। क्लृप्तो योगः कल्प्यांरूढिं बाधत इतिन्यायेन बाध्यते। तेनाकाशप्राणाधिकरणयोः सिद्धमवान्तरपेटिकात्वम्। ज्योतिरधिकरणेन्द्रप्राणाधिकरणयोस्तु रूढिभङ्गं विहाय तत्तद्रूढार्थविशिष्टपरमात्मपरत्वमुच्यत इति तयोरपि पेटिकान्तरत्वं सिद्धम्। अत्र चतुःसूत्र्यां सम्यगर्थावबोधनाय प्रमेयसंग्रहपरिश्रमशालिभिर्भवितव्यम्। अवलोकनीया च नियतमाचार्यकृता शतदूषणी।।

55. पूर्वं परमात्मनो वेदान्तवेद्यत्वमुक्तम्। इदानीं प्रकृत्यादीनां तदेव वेदान्तवेद्यत्वं न संभवतीत्युच्यते।तत्रापि सांख्यादिशास्त्रोक्तप्रकृतिपुरुषयोः प्रकृतेर्विश्वाकारेण परिणतायाः सर्वलोकप्रसिद्धत्वात् तदपेक्षया पुरुषस्य सूक्ष्यत्वात् सैव प्रथमं निराक्रियत इति संगतिः। अथवा पूर्वाधिकरणे वेदान्तवेद्यस्य वस्तुनः पुरुषार्थरूपत्वमुक्तम्, तन्न घटते अपुरुषार्थरूपायाः प्रकृतेरेव कारणत्वादिति। एवं वा सर्वेषामपि वेदान्तवाक्यानां प्रकृतिपुरुषोत्तीर्णब्राहृपरत्वमुक्तं पूर्वाधिकरणे, सर्ववेदान्तसारभूता सद्विद्या तावत् प्रकृतिमेवाचष्टे।किमन्यैर्वाक्याभासैरिति।एवं संभावितं संगत्यन्तरमपि वाच्यम्। विषयस्तु परमेव ब्राहृ, पुर्वं शास्त्रारम्भ इति ततो विभागः। संशयः पुनः किं प्रकृतिविलक्षणं ब्राहृ सद्विद्यावेद्यम्, उत प्रकृतिरिति। संशयोत्थानकारणं तु सदितिसामान्यश्रुतिः। सर्वभाववाचकस्य सच्छब्दस्य प्रकृतिपुरुषेश्वरसाधारणत्वात्।

तदर्थविचारस्तु-- सच्छब्दः किं परमात्मपरः, उत प्रकृतिपरः। प्रकृतिपरत्वे 'तदैक्षत' इत्यक्तमीक्षणं न घटते,

उत घटत इति। तदर्थं पुनर्विचार्यते-इदञ्चेक्षणं मुख्यमुत गौणमिति। पुनश्च विचार्यते-अत्र गौणेक्षणसाहचर्यं नास्ति उतास्त्येवेति। तत्रापि विचार्यते- 'तत्तेज ऐक्षत' इत्यादिकं तेजः प्रभृतीक्षणं मुख्य्मुतामुख्य्मिति। अतोऽपि

विचार्यते--किं मुख्यत्वानुरूपा हेतवो ऽनुरोद्धव्याः, उतामुख्यत्वानुरूपा हेत्वोऽपीत्यादि। फलफलिभास्तु अमुख्यत्वानुरुपाणां बहूनामपि युक्तीनामत्र विद्यमानत्वात् 'तत्तेज ऐक्षत' इत्यत्रेक्षेणस्य गौणत्वात् गौणेक्षा -साहचार्यस्य चात्र विद्यमानत्वेन सदीक्षणस्यापि गौणत्वात् अत्रोक्तमीक्षणं प्रकृतिपरत्वेऽपि संघटत इति सांख्याद्युक्तं प्रधानमेवात्र सच्छब्दः प्रतिपादयतीति पूर्वपक्षे। सिद्धान्ते फलफलीभावस्तु वैपरीत्येन। उक्तमर्थमनुक्रमेणाचष्टे--गौणेक्षासाहचर्यादिति। बहुभवनप्रेक्षणं नैव मुख्यमिति--इत्थं किल पूर्वपक्षी मन्यते ईक्षणगुणयोगात् प्रकृतिकारणत्वं निराक्रियते ब्राहृवादिभिः, तच्चेक्षणं गौणम्, कूलं पिपतिषति, वृष्टिप्रीतक्षत्राः शालय इत्यादिवत् चेतनधर्मस्याचेतनेऽपि योजयितुं शक्यत्वात् , अत्र गौणत्वे निदानं 'तत्तेज ऐक्षत' इत्यादिगौणेक्षणमाह-- चर्यमेव। किं च मृत्तत्कार्यदृष्टान्तादेवेदानां परिणामादित्यादिसांख्योक्तं प्रधानानुमानमेव प्रतिभातीत्याह-- दृष्टान्ताद्यैरिति। नच श्रुतिप्रतिभावनामात्रमेव, युक्तियुक्तमपीदमित्याह--तादृशादिति। अचेतनरूपकार्यस्याचेतनादेव जन्मयुक्तम्। ननु सविकारे प्रधाने कथं सच्छब्दः स्यादित्याशङ्क्याह--सदिति।

महदादीनां विकाराणां क्वाचित्कत्वेन सच्छब्दवाच्यत्वं मा भूत्, अविकृतिरूपायाः- प्रकृतेर्नित्यसिद्धत्वेन सच्छब्दवाच्यत्वं भवेदिति पूर्वपक्षे राद्धान्तमाह-- अयुक्तमिति। श्रुत्या-चेतनासाधारणात्मशब्दादिश्रुत्या। प्रकृत्यादीनां निरोधात्। न केवलं श्रुत्या, अपितु त्वदभिमत प्रकृतिकारणत्व तिरस्कारकेक्षणादिलिङ्गवाक्यप्रकरणैरप्ययमेवार्थ इति निश्चीयत इत्याह-- त्वदभिमतेति।।

56.अत्र सांख्योक्तानुमानिकप्रक्रियाप्रत्यभिज्ञानमाशङ्क्य निराकरोति--ज्ञात इति।अत्रैवं किल पूर्वपक्षी मन्यते

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा तावत् दृश्यते 'येनाश्रुतं श्रुतम्' इत्यादिना।न केवलं प्रतिज्ञामात्रं, दृष्टानोऽप्यस्तीत्याह--मृत्तदिति।आदिशव्दात् श्रुत्युक्तो नखनिकृन्तनादिर्गृह्रते।एवमनुमानप्रधानभुतयोः प्रतिज्ञादृष्टान्तयोरुपपादनेनेदंवाक्यंसांख्योक्तानुमानामुवादकमेवस्यादित्याह-त्येनेति।निराकरोति--वृथेति।तत्र

हेतुमाह--हेत्वनुक्तेरिति।अनुमानावयवेष्वत्यन्तप्रधानभूतहेत्वनुक्तेः। सन्ति सारूप्यादयो हेतवः सांख्यानामिति चेत् तन्न; तेषामुत्तरत्र सांख्याधिकरणे निराकरणादित्याह-- सारूप्यादेरिति। ननु तत्रचात्र च निराकरणे पौनरुक्त्यमित्याशङ्क्याह-- अत्रेति।उत्तरत्र प्रधानकारणत्वनिश्चायकहेतवो निश्शेषमुन्मूलयिष्यते। अत्र प्रधानकारणत्वानुमानसंभावनामात्रं निराक्रियत इति न पौनरुक्त्यावकाशः।।

57. एवं प्रतिपक्षप्रक्रियां निरस्य स्वपक्षानुकूलान् विषयवाक्यार्थान् हेतून् संगृह्णाति-- आदेशेति। 'उत तमादेशमप्राक्ष्यः' इत्युपक्रमे तावदादेशशब्देन सच्छब्दवाच्यं ब्राहृ निर्दिश्यते। आदेशशब्दो ऽप्यादेष्टारमेवाह। आदेष्टृत्वं पुनर्नियन्तृत्वमेव। नच तत् प्रधानपक्षे संभवति तस्याचेतनत्वात्। आत्मशब्दोऽप्यत्र श्रूयते "स आत्मा'

सतु चेतनस्यैवासाधरणः। तत्र सुषुप्तिप्रसङ्गे 'स्वमपीतो भवति' इति सुषुप्तिस्थानं परमात्मा स्वशब्देन निर्दिश्यते। अन्तर्यामित्वात् परमात्मैव स्वशब्देन निर्देशार्हः। न पुनः प्रधानम्। तस्य सुषुप्तं प्रत्यनन्तर्यामित्वात्।

अनितरशरणैः--अनन्यथआसिद्धैरित्यर्थः। एते हि शब्दाः परमात्मविषयत्वे मुख्याः ,प्रधानविषयत्वे पुनर्जघन्यवृत्तय-- इत्यर्थः। हेत्वन्तरमप्याह--त्वमिति।तच्छब्दवाच्येन सह त्वंशब्दस्य जीवस्यैक्यमत्र व्यपदिश्यते। यदि तच्छब्दः प्रधानपरः, तदानीमतत्वोपदेश एवायं स्यात्; चेतनाचेतनयोरैक्योपदेशस्य देहात्मोपदेशवत् भ्रान्तिहेतुत्वात्। अत्र साधकान्तरमाह--जीवेनेति। स्वेन -- स्वात्मकेनेत्यर्थः। 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ' इत्युत्तमपुरुषसिद्धाहङ्कारपूर्वकमहमर्थव्यतिरिक्ताचिद्गणस्य प्रवेशात्,अत्र जीवशरीरकः परमात्मा जीवद्वारा जीवव्यतिरिक्तमचेतनजातं प्रविशतीत्यर्थः। तेन प्रवेष्टव्यस्याचिद्वस्तुनः साहङ्करणमहङ्कारसहितं प्रवेष्टृत्वं न योयुज्यत इत्युक्तं भवति। किं च 'येनाश्रुतं श्रुतं भवति' इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा दृश्यते। सा पुनरीश्वरकारणत्व एव घटते नपुनः प्रधानकारणत्वे,प्रधानस्य चेतनं प्रत्यकारणत्वादित्याह--एकेति।हेत्वन्तरमप्याह--सर्वेति।'ऐतदात्म्यमिदं सर्वम्'इति

हि श्रुयते,प्रधानस्य क्रणत्वे कथं तत्तादात्म्यं सर्वशब्दान्तर्गस्य जीवस्य वक्तुं शक्यत इत्यर्थः।न केवलं छान्दोग्यश्रपत्यैव ब्राहृकारणत्वं प्रतीयते,अपितु श्रुत्यन्तरेणापि।छान्दोग्येऽपि न केकलं सद्विद्यावाक्येन,किं तु दहरव्द्याभुमविद्यादेरेपि।अत्र आदिशब्देन उपबृंहणस्मृतिपुराणादिकं गृह्रते।अत्र विश्वविदिति नमित्तत्वोपयुक्तं सार्वज्ञ्यं गृह्रते।विश्वमुर्तिरित्युपादानत्वोपयुक्तं सर्वशरीरत्वं गृह्रत इति विभागः।अत्र पुपक्षसिद्धान्तोपन्यासप्रंकियाविभागः श्रीमतिभाष्ये न्यायसुदर्शनादौ च द्रष्टव्यः।अत्र चोपक्रमोपसंहारमहावाक्योपपत्तिः श्रुत्यन्तरविद्यान्तरादिप्राकाशनपरानां सुत्राणामनुक्रमोऽपि तत्रैवानुसन्धेयः।।

58. पूर्वोत्तराधिकरणयोस्संगतिद्वयोक्तिपूर्वकमुत्तराधिकरणार्थं संग्रहेणोपदर्शयति--मुख्येति। यदि सतो मुख्यमीक्षणमिष्टम्, तर्हि चेतनत्वात् मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादेका संगतिः।अन्या च सद्विद्यावाक्ये तत्त्वमसीति त्रिभिः पदैर्जीवब्राहृणोरैक्यमेव नवकृत्वः प्रदर्शितम्, तथा च जीव एव जगत्कारणं ब्राहास्त्विति पूर्वपक्षोत्थानमिति। इत्यूहादुज्जिहानं पूर्वपक्षिणं निराकर्तुं पूर्वप्रस्तुतो विश्वकर्ता जीवस्याप्यन्तरातमा निरुपधिकमहानन्दवान् अत्राधिकरणे स्थाप्यते। तदर्थविचारस्तु --'ब्राहृविदाप्नोति परम्'

इत्यस्मिन्वाक्ये यः पुनरानन्दमय उच्यते स किं जीव उत परमात्मा। पुनर्विचार्यते-- अत्र मयड् विकारार्थः प्राचुर्यार्थो वा। तदर्थं विचार्यते-- उपक्रमगतान्नमयशब्दस्थमयटो विकारार्थत्वानुसारेण अत्रापि मयटो विकारार्थत्वमेव युक्तम्, उत प्राचुर्यार्थत्वम्। पुनश्च विचार्यते-- उपक्रमावगतस्य मध्ये प्राणमयमनोमयादिभिर्विच्छेदो

ऽस्ति नवेत्यादि। फलफलिभावस्तु तत्राविच्छेदादुपक्रमावगतविकारार्थत्वस्यैवात्रापि ग्रहीतुं योग्यत्वेनानन्दमयशब्दस्थमयटो विकारार्थत्वादानन्दमयो जीव इति पूर्वपक्षे। व्यत्ययेन राद्धान्ते फलफलिभावः।।

59. अत्र कश्चिदाह 'आत्मन आकाशः संभूतः' इत्यादिना सृष्टेरेवाभिधानात् पूर्वं 'स वा एष पुरुषोऽन्नरसमयः' इत्यत्र विकारे मयड् दृश्यत इति चरमेऽपि 'अन्यो ऽन्तर आत्माऽऽनन्दमयः' इत्यत्रापि एवमस्तु मयटो विकारार्थत्वमेवास्तु पूर्वोक्तस्य मयटो विकारार्थप्रत्यभिज्ञानादिति, तदिदमाह--दृष्ट इति। तन्निराकरोति--अयुक्तमिति। तत्र हेतुमाह-- मध्य इति। प्राणमयादिषु विकारार्थत्वभङ्गदृष्टेरित्यर्थः। फलितमाह-- प्रचुरमिति। विकारार्थत्वे को दोष इत्याशङ्क्याह-- अन्यस्येति। आनन्दमयादतिरिक्तस्य वस्तुनो बाधेन विकारार्थत्वस्य बाधितत्वादित्यर्थः। नन्वत्रानन्द प्राचुर्याभिधाने दुःखाल्पत्वमेव स्यात् यथा ब्रााहृणप्रचुरो देश इत्युक्ते शूद्राल्पत्वं प्रतीयत इति, तत्प्रतिक्षिपति--आनन्देति। अत्रानन्दप्राचुरी मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्ततया प्रकृतपरसुखाल्पत्वलब्धावधित्वात् आनन्दमयनिष्ञदुःखाल्पत्वं नापेक्षते, अपि तु

चतुर्मुखादिनिष्ठानन्दप्राचुर्यनिवृत्तिमेव। यथा 'अन्नमयो यज्ञः' इत्यादि। नन्वानन्दप्राचुरी दुःखाल्पत्वेनापि निर्वक्तुं शक्यत इत्याशङ्क्य नेत्याह--परेति। परदुरितभित् संश्रितानां दुरितं भिनत्ति 'आनन्दमयः' इति हि श्रूयते। 'अथ सोऽभयं गतो भवति' 'एतं ह वाव न तपति' ' न कर्मणा लिप्यते पापकेन ' इत्यादिकं वाक्यजातं शतशोह्रधीमहि। तस्मादत्र दुःखाल्पत्वशङ्का न संघटत इति। किं च 'भीषास्माद्वातः पवते' 'तस्य हवा एतस्य प्रशासने गार्गि' 'प्रशासितारं सर्वेषाम्' इत्यादिभिः प्रशासितृत्वेन प्रतिपन्नस्यानन्दमयस्य पापाल्पत्वविरोध इत्याह-- शासितुरिति।।

 60.नन्वस्मत्पक्षे भवद्भिरानन्दमयत्वलक्षणं लिङ्गं विरुद्धमिति ह्रुक्तम्। अस्माकमेक एवायं विरोधः, भवतां बहवो विरोधाः। आनन्दमयेऽपि 'तस्यैष एव शारीर आत्मा यः पूर्वस्य 'इत्यात्मान्तर कथनं विरुध्यते। शारीरत्वकथनमपि शरीरस्य कर्मफलत्वान्न युज्यते। न च घटते शोध्यत्ववादः परस्मिन्ब्राहृणि अशुद्धिप्रसङ्गाभावात्। श्रूयते ह्रानन्दमयेऽपि 'अन्नमयप्राणमनोमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्'इति

शोध्यत्ववादः।किं च तस्मिन्नेवानन्दमये फलनिर्देशदशायामुपसंक्रमितव्यत्वमुच्यते--तदपि विरुद्धम्।परमात्मनि नित्यमेव वर्तमानस्य जीवस्य कथमपूर्वमुपसंक्रमणमिति।एवं चतुरोऽपि विरोधाननुद्य चतुर्भिरपि पादैरणुक्रमेण समाधत्ते--आत्मेति।इयं किल समाधानप्रक्रिया 'तसैव....आत्मा'इत्युक्तिरानन्दमये'स्वयं दासास्तस्विनः'इतिवदात्मान्तरनिवृत्यर्थेति को विरोधः?शारीरत्वकथनमपि भगवतः सर्वशरीरकत्वादानन्दमय एव

विशेषेणोपपद्यते।शोध्यत्वमपि'विशुद्धमेव राजह्मदयम्'इत्यादिवदानन्दमयस्य प्रसाद्यत्वमेव। न पुनः पूर्वशुमद्धस्य कश्चित् शुद्धिविशेषः।लोकेऽपि राजह्मदयं विशुद्धमित्यादौ निग्रहनिवृत्तिरेवोच्यते;अनुगुणस्यैवार्थस्य तत्रतत्र स्वीकार्यत्वात् ।आकाङक्क्षासन्निधानवद्योग्यत्वस्यापि वाक्यार्थनिर्णयाङ्गत्वात्।अत्रोपसंक्रमणमेव हि शिष्यते,तदप् संघटते;प्राप्तिरेव ह्रुपसंक्रमणमुच्यते।प्राप्तिश्च पूर्वमननुभूतस्य ब्राहृणः पश्चादनुभवसंभवः। एतदेवाभिधीयते ' सोऽश्नुते सर्वान् कामान् सह ' इति। अथवा देशविशेषप्राप्तिरेव ह्रस्माभिर्वक्तुं शक्यत इति। तदेव ह्रुच्यते 'वैकुण्ठे तु परे लोके ' इति। अतोऽस्मत्पक्षे न विरोधावकाशः। अत्र पदार्थत्वं स्वयमेव भाव्यम्।।

 61. अत्र पुच्छब्राहृवादी प्रत्यवतिष्ठते --निर्देह इति। आनन्दमयस्यैव ब्राहृत्वे तस्य निरंशत्वात् ' तस्य प्रियमेव शिरः' इत्यादिना शिरःपक्षादिभेदेन पञ्चप्रकारावयवक्लृप्तिर्न घटते। तस्मात् पुच्छं प्रतिष्ठा ' इत्युक्तं सर्वभूताधिष्ठानतया विश्वप्रतिष्ठारूपं पुच्छमेव परं ब्राहृ, आनन्दमयस्य ब्राहृत्वे शिरःपक्षादि क्लृप्ती-नामयोग्यत्वादिति। इमं पक्षं प्रितबन्द्या दूषयितुमुपक्रमते-- सोढेति।देशकालपरिच्छेदरहिततया भवद्भिरङ्गीकृतस्य सच्चिदानन्दरूपस्य ब्राहृणः पुच्छत्वकथनं कथं युज्यते। श्रुतिप्रामाण्यसिद्ध्यर्थमस्माभिः पुच्छत्वकल्पनं सोढव्यमिति चेत् हन्त तह्र्रस्माभिरपि आनन्दमये निरंशे प्रियमोदादितत्तद्विभागविवक्षया शिरः पक्षादिकल्पनं सोढव्यमिति संतोष्टव्यमायुष्मतेत्याह-- कथमिति। इतरत्--शिरःपक्षादिकमित्यर्थः। तह्र्रत्यन्तविरुद्धमेतत्, यदानन्दमयस्य ब्राहृण एव स्वप्रतिष्ठारूपत्वमिति। तच्च न विद्यते। स्वस्यैव स्वप्रतिष्ठानत्ववचनमनितराधारताख्यापनाय ' स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि ' इति श्रुत्यन्तरप्रकारेण सर्वप्रतिष्ठारूपस्य ब्राहृणः प्रतिष्ठान्तरनिवृत्तिरेव ह्रत्रोच्यत इति को विरोधः। अत्र

पुच्छब्राहृवादिनां बहून्यपि दूषणानि भाष्य एव व्यक्तमुक्तानीति श्लोकार्थमेव प्रदश्र्य विरमामः।।

 62. ईक्षत्यधिकरणविषयवाक्ये ' तस्य तावदेव चिरम् ' इति शरीरपातपर्यन्तो दुःखसंबन्ध उच्यते। तेन 'तस्यैष एव शारीर आत्मा 'इति शरीरसंबन्धी पुरुषो जीव एव स्यादित्याशङ्क्य परिह्मतमान्दमयाधिकरणे कर्माधीनकरणकलेबरपरिग्रहस्यैव संसारात्मकत्वम्, नपुनः स्वाभाविकस्यैव विश्वशरीरस्येति। अतः परमन्तरादित्याधिकरणं प्रवर्तते अस्मिन्नधिकरणे न केवलमन्तर्यामित्वावस्थानमात्रेण शरीरात्मभाव उच्यते, अपितु पाणिपादाक्षिकेशादिविभागवच्छरीरसंबन्धी पुरुषः, तादृशशरीरसंबन्धित्वं जीवस्यैव संभवतीति पूर्वपक्षोत्थानेन संगतिः। पूर्वं जीवसामान्यस्य निरासः, इदानीं जीवविशेषस्य निरास इति च संगतिः। तदिदमाह-- भूयिष्ठेति।

पूर्वोक्ताः खलु मनुष्यानारभ्य प्रजापतिपर्यन्ता भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धैश्वर्याः केचित्पुरुषाः, तेष्वेव कश्चिदीश्वरः प्रवाहरूपेण वर्तत इति कल्प्यमिति च पूर्वाधिकरणसंगत्यन्तरमुच्यते। अयमर्थः -- पापोत्तराः पुण्यपापयोस्तुल्यवृत्तयश्च मा भूवन् , अपि तु पुण्योत्तराः केचिदीश्वरत्वेन प्रकल्प्येरन्निति। अत्रोत्तरम् --तन्नेति। तत्र हेतून्प्रमाणानुसारेण संगृह्णाति -- अकर्मेति। अकर्माधीनदिव्यशरीरवान्। जनिः --जन्म। महिमा- माहात्म्यम् । सर्वपुंसां स्वाभाविकनियन्ता। नित्यश्रीः-- नित्यमेव लक्ष्मीसंबन्धवान्। एवंभूतः पुरुषः , ब्राध्नबिम्बे - सूर्यमण्डले, श्रुत इति, ' स य एषोऽन्तह्र्मदय आकाशः '

इत्यनुवाकश्रुतः परमपुरुषः एक एव --'एषोऽन्तरादित्ये ' इत्यन्तरादित्यविद्यायां श्रूयत इति न जीवविशेषशङ्कावकाशः। 'एष सर्वेभ्यः पाप्मभ्यः उदितः उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद ' इत्यत्रैव हि श्रूयते। ' समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ' इत्यादिकमत्र भाव्यम्। 'न सा कर्मनिमित्तजा ' इति हि तत्रोच्यते। ऐतिहासिकमपि 'व्यक्तमेष महायोगी ' इत्यादिकं सुप्रसिद्धमेव। अत्रोक्तं शासितृत्वं हि ' अन्तः प्रविष्टऋ शास्ता जनानां सर्वात्मा ' ' प्रशआसितारं सर्वेषाम्' इत्यादि-- बहुप्रमाणसिद्धत्वात् सर्वविषयमेवानुसन्धातव्यम्। अयमत्रसंग्रहः -- सूर्यमण्डलान्तर्वर्तिनो भगवद्विग्रहस्याकर्माधीनत्वादप्राकृतत्वादाश्रितानुग्रहार्थत्वाच्च विग्रहसंबन्धमात्रेण जीवविशेषत्वाशङ्कावचनं परमपुरुषविद्वेषिणां पापिष्ठानां प्रलापः। अत्र तदर्थविचारोऽपि किंदिदालिख्यते। आदितमण्डलान्तर्वर्ती पुरुषः किं जीवविशेषः उत परमात्मेति। तदर्थं विचार्यते -- किं पाणिपादादिविभागवच्छशरीरादिसंबन्धो जीवत्वं प्रसाधयति न वेति। तदर्थं पुनर्विचार्यते -- किमयं शरीरसंबन्धः कर्माधीनः, उताकर्माधीन इति। पुनरपि विचार्यते -- सर्वपाप्मोदितत्वादिवचनं किं कर्माधीनत्वं निवारयति उत नेति। तदर्थमपि पुनर्विचार्यते -- तत्र पाप्मशब्दः किं पापमात्रपरः, उत पुण्यपापात्मककर्ममात्रपर इति। फलफलिभावस्तु पाप्मशब्दस्य पापमात्रपरत्वेन सर्वपाप्मोदितत्वादिवचनस्य कर्माधीनत्वनिवारकत्वाभावात् शरीरसंबन्धस्य कर्माधीनतया नियमेन जीवकर्माधीनत्वादित्यमण्लान्तर्वर्ती पुरुषो जीव इति। राद्धान्ते फलफलिभावोऽन्तेवासिभिः स्वयमेवोह्रः।।

 63. अत्र चेदकः प्राह -- अन्तरादित्यविद्यायां ' सर्वेभ्यः पाप्मभ्यः उदितः ' इति भगवतः सर्वपापरहितत्वमुच्यते, विशेषनिषेधे शेषाभ्यनुज्ञानमिति तान्त्रिकाणां प्रक्रिया, तथा चादित्यमण्डलान्तर्वर्तिनि पुरुषे पापनिषेधात् पुण्याभ्यनुज्ञानमस्तीति। तदिदमाह-- सर्वेभ्य इत्यादिना। तन्निराकरोति --मैवमिति। अत्र हेतूनाह--

आम्नात इत्यादिना। 'न तस्येशे कश्चन ' इत्यादिभिर्बहुभिः प्रमाणैर्भगवतोऽनन्यशास्यत्वं प्रतीयते, अन्यशास्यो हि राजकिंकरः शासनातिसङ्घनात् प्रत्यवायमुपेयात्, तदनुपालनादनुकूलं फलम्। ईश्वरस्यानन्यशास्यत्वाद् दुरितवत् परशासनानुवर्तनरूपं सुकृतमपि न संभवतीत्ययमेको हेतुः। हेत्वन्तरमाह ---स्ववशेति। 'फलमत उपपत्तेः' इति न्यायेन परेषामिष्टमनिष्टं वा फलं भगवानेव ददातीत्युच्यते तस्य कथं सुकृतसंबन्धः संभवतीति। किं च ' स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ' इति ह्रर्थात् सुकृतसंबन्धः प्रतिक्षिप्यते, तच्च विरुद्धं तव। तर्हि पाप्मशब्दः पुण्ये कथं प्रयुज्यते? इत्यत्राह -- स्यादिति। पुण्येऽपि पापलक्षणयोगादिह पाप्मशब्दः प्रयुज्यते। अस्ति हि पुण्येऽपि पापलक्षणयोगः, अनिष्टफलसंबन्धित्वात् । लोके हि कस्यचिदिष्टं फलमन्यस्यानिष्टं भवति।तथा च स्वर्गादिकमिष्टं फलमध्यात्मविदामनिष्टमित्यधिकारिविशेषापेक्षया पापमेव काम्यं कर्म। अत्र श्रौतप्रयोगरूपं प्रबलव्यवस्थापकमाह-- न सुकृतमित्यादिनेति। अत्र हि सुकृतं दुष्कृतमुभयमपि निर्दिश्य द्वयोरपि पाप्मशब्देन निर्देशः स्पष्टमेव क्रियते। तस्मात् दुरितवत् सुकृतस्यापि पाप्मशब्दवाच्यत्वात् सर्वपाप्मो#ोदितवचनं सुकृमनिवृत्तिमप्याहेति सिद्धम्।।

64. अत्र पुनश्चोदयति परस्य ब्राहृणो विग्रहोऽस्तीति भवद्भिरुक्तम्, स विग्रहः किं पारकृतः, उताप्राकृतः, अप्राकृतत्वेपि किं भगवत्स्वरूपमेव उत तत्त्वान्तरम्। पूर्वत्रास्मदुक्तं संसारित्वमेवापद्यत इति घट्टकुटीन्यायः, द्वितीये पक्षे स्वरूपपरिणामप्रसङ्गः, तृतीयोऽपि पक्षो न घटते, प्रकृतिपुरुषेश्वरकालव्यतिरिक्ततत्त्वान्तराभावात्, अतः कथं तदिति। एतन्निराकरोति --प्रख्यातमिति। प्रख्यातम् -- 'पादोऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि '

' वैकुण्ठे तु परे लोके ' ' तमसः परमो धाता ' ' स्वसत्ताभासकं सत्त्वम् ' इत्यादिभिः । शुद्धसत्त्वम् -- रजस्तमोरहितसत्त्वाश्रयभूतम्। दिव्यं किमपि द्रव्यं तत्। अनघत्वं संसारप्रवर्तनोपकारणत्वाभावादुच्यते। तस्याव्यक्ततोऽन्यत्वं ' त्रिपाद्स्यामृतं दिवि' इति व्यक्तमेवाभिधीयते। अनेन भगवतो रूपं प्राकृतं स्वरूपं च न भवति अपितु अप्राकृतं द्रव्यान्तरमित्याह -- तद्रूपमिति। ' तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत्' इति भगवान् पराशरः प्राह। वैरुप्यं विरूपमित्यर्थः। तेन विप्रतिपन्नं रूपं प्राकृतं रूपत्वात् तदनित्यं सावयवत्वादित्यादयः परेषां हेतवो निरस्ताः। तादृग्विधरूपसिद्धौ धर्मिग्राहकप्रमाणविरोधः। अप्राकृतानित्यत्वादिविशेषणयोगेनैव प्रमाणसिद्धत्वात्। असिद्धौ चाश्रयासिद्धेरिति स्वकीयां प्रक्रियां स्वयमेव स्मरतु हैतुकः। नन्वस्तु भगवतस्तादृशं रूपम्, अनन्तगरुडादीनां का गतिरिति चेत् भगवानेव गतिः। ' तद्विष्णोः परमं पदम्' ' आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ' इत्यादिप्रमाणशतव्याहतत्वात् शङ्कापिशाचिकायाः। अस्तु वैकुण्ठवासिनस्तादृशं रूपम्, अथापि तस्य नित्यत्वादौ निश्चायकं किमित्याशङ्क्य श्रुतिपुराणादीत्यभिप्रायेणाह-- नित्यमिति। 'सदा पश्यन्ति' ' नित्यं नित्याकृतिधरम् ' ' नित्यसिद्धे तदाकारे तत्परत्वे च

पौष्कर ' ' श्रीवत्सवक्षा नित्यश्रीः ' इत्यादिप्रमाणसहरुामनुसन्धेयम्। अस्तु सर्वं गुणजातं वैकुण्ठवासिनो भगवतः, रामकृष्णादयस्तु प्राकृताः कर्मवशेन सुखदुःखादिभाजश्च, कथं तेषामाराधनेनास्माकमापवर्गिकी सिद्धिरित्याशङ्क्य पराशरपाराशर्यादिमतानुसारेण अप्राकृतत्वादिकं गुणजातमाह-- अजहदित्यादिना ग्रन्थशेषेण। ' समस्तशक्ति' इत्यादि पराशरवचनम्। 'न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः ' इति पाराशर्यवचनमप्यनुसन्धेयम्। ' व्यक्तमेष महायोगी परमात्मा सनातन ' इति वल्मीकसंभवोऽप्याह। तेनावतारेषु शोकमोहाद्यनुकरणं नटानां नाटकेष्विव परिहासरूपमेवेति मन्तव्यम्। परव्यूहादिविभागः पञ्चरात्रादिषु स्पष्टमेवानुसन्धेयः।।

 65. उक्तमेवार्थं पूर्वपक्षानुवादपूर्वकं प्रतिबन्द्या स्थिरीकुर्वन् दुःखित्वादि नटनफलमपि प्रदर्शयति -- देहत्वादिति । इहैवं प्रतिबन्दी -- यदि शास्त्रैकवेद्यार्थे बाधः क्वचिदिष्यते - तर्हि अग्नीषोमीयहिंसादावपि बाधः स्यादिति। अत्र श्रुतिसिद्धत्वान्न बाध इति प्रतिबन्दीमोचने बन्दीमोचनमपि तथैव स्यादिति। भगवद्विग्रहादेरपि श्रुतिसिद्धत्वात् दुःखमिश्रत्वादिवचनमासुरोपप्लवार्थमित्युक्तम्। आसुराः - कंसादयः। कृष्णादीनां बाल्यादिनटनं परमार्थ एवेति मत्वा पुनः पुनः प्रातिकूल्ये प्रवर्तेरन् तत्प्रवृत्त्यैव विध्वंसेरन्निति। 'विनाशाय च दुष्कृताम्' इत्युक्तदुष्कृद्विनाशफलं बाल्यादिनटनमित्यर्थः।।

 66. अत्रोक्तानामधिकरणानामर्थैक्यादेकपेटिकात्वमध्यायपरिसमाप्तिपर्यन्तमागामिनामधिकरणानामर्थविशेषा

-- भावान्नैरर्थक्यमाशङ्क्यमानस्य पूर्वपक्षवादिनः प्रकारभेदेन प्रयोजनवत्त्वमुपपादयन् सर्वाधिकरणसाधारणं भगवद्गुणविशेषानुसन्धानरूपं प्रधानं प्रयोजनं प्रकटमेवाचष्टे -- इत्थमिति। विद्यात्रयेण सद्विद्याद्यधिकरणत्रयोक्तेन स्थावरजङ्गमात्मकचेतनाचेतनात्मकस्य सर्वकारणस्य भगवतः प्रधानाज्जीववर्गाच्चादित्यादेरप्याधिक्यं यद्यपि स्यात् । तथापि ' अस्पष्टतरमस्पष्टं स्पष्टं छायानुसारी च ' इत्युक्तक्रमेणोत्थानद्वारभेदात् क्रमेणोत्थितान् मृदूपक्रमक्रूरनिष्ठान् प्रतिवादिनो ऽस्मिन्नध्याये निरुन्धन् सन् शिष्टैरधिकरणैर्भगवद्गुणानपि विशेषतः प्रकाशयतीतिशब्दार्थः। अयमत्रभावः -- यथा युद्धेषु पदात्यश्वगजरथानां पूर्वपूर्वदुर्बलानां दुर्बलभङ्गे प्रबलयोधनम्, एवमस्पष्टतरजीवलिङ्गानां पूर्वपूर्वभङ्गे पुनरुत्तरोत्तरपरिग्रहेण पूर्वपक्षः प्रवर्तते। तत्प्रवृत्तिकुण्ठनमन्तरेण जातमपि तत्त्वज्ञानं न प्रतितिष्ठतीति। तेनाध्यायशेषोऽप्यारम्भणीय एव। किं च सर्वेष्वप्यधिकरणेषु तत्तदधिकरणप्रतिनियता भगवद्गुणा विशेषतः प्रकाशन्ते, तेषां गुणानां कार्त्स्न्येनानुसन्धानमध्यायशेषप्रयोजनमित्यास्माको मार्गः। निर्विशेषावादिनां तु एकेनैवाधिकरणेन निर्विशेषं प्रतिपन्नमिति प्रतिपाद्यगुणविशेषाभावादुत्तरेषामधिकरणानां नैष्फल्यमेवेति ह्मदयम्।।

 67. एवं पूर्वपेटिकया सहाध्यायशेषस्य संगतिमुक्त्वा पादशेषस्य संगतिं वक्तुं पूर्वोत्तरपेटिकयोः स्वरूपमपि

विशेषतः प्रकाशयति--- शब्दैरिति। ' अथातो ब्राहृजिज्ञासा ' इति शारीरकशास्त्राद्यपेटिकायां ब्राहृ जिज्ञास्यमित्युक्तम्। तत् ब्राहृसदात्मापुरुषरूपसाधारणशब्दप्रतिपन्नं ब्राहृ किं प्रकृतिः किं वा जीवः अथवा उपचितपुण्यविशेषः कश्चिज्जीवविशेषः, पाप्मशब्दस्य साधारणत्वेन पुण्यापुण्यरूपपाप्मोदितत्वेऽपि किं पुण्डरीकाक्षः, अन्यो वा कश्चिच्चतुर्मुखविरूपाक्षादिरित्याशङ्क्य पुण्डरीकाक्ष एवेति निर्धारितं पूर्वपेटिकायाम्। तत्रेतरव्यावर्तकलिङ्गान्याह-- संकल्पेति। संकल्पात् प्रधानव्यावृत्तिः। आनन्दाभ्यासाज्जीवसामान्यं व्यावत्र्यते। अप्राकृतरूपविशेषादुपचितपुण्यविशेषो जीवोऽपि । तत्रापि पुण्डरीकाक्षत्वश्रवणात् चतुर्मुखादिरपीति हार्दो भावः।

अतदननुगुणैः -- अनन्यथासिद्धैरित्यर्थः। अत्र पूर्वपक्षी प्रत्यवतिष्ठते --पूर्वाधिकरणत्रये लिङ्गैरेव सामान्यश्रुतिबाधेन प्रधानादिव्यावृत्तिर्भवद्भिरभिहिता। लिङ्गाद् विशेषश्रुतिर्बलीयसी। सा हि रूढिशक्त्या वर्तते। तेनाकाशप्राणज्योतिरिन्द्रियादिविशेषश्रुत्या लिङ्गानि बाधित्वा प्रसिद्धाकाशादिकमेव जिज्ञास्यब्राहृत्वेन स्वीकार्यमिति। तेन पादशेषात्मकपेटिकासंगत्यमुक्तं भवति। तदेतदाह-- भूतेति। आकाशो द्विविधः -- ' यदेव आकाश आनन्दो न स्यात् ' इत्यध्यात्मवितसम्मतएकः, पामरपरीक्षकाविशेषेण सर्वलोकप्रसिद्धो भूताकाशोऽपरः। तेन प्रसिद्ध्यतिशयानुसारेण भूताकाशएवात्र ग्राह्रः। एवं प्राणादावपि द्रष्टव्यम्। एवमाकाशादीनां विशेषश्रुत्या पूर्वाधिकरणत्रयोक्तं लिङ्गं बाधित्वा पूर्वपक्ष्यभिप्रायेण निरस्य सिद्धान्ती पुनराकाशादिविशेषसमुदायासंभव प्रतिपादनेन तदेव ब्राहृप्रतिपादकं लिङ्गं प्रधानादिव्यावर्तकं भुनक्ति- रक्षतीत्यर्थः। ' भुजोऽनवने ' इति रक्षणव्यतिरिक्तार्थविवक्षायामात्मनेपदविधानात्। अयमाशयः -- रूढिर्योगमपहरतीति सिद्धमेव, अथापि प्रमाणपरिक्लृप्तो योगो रूढिमेव बाधत इति न्यायविदां निर्णयः। अत्र च ' सर्वाणि ह वा इमानि' इति प्रसिद्धवन्निर्देशो दृश्यते। हवा इति प्रसिद्धइप्रतिपादकाव्ययदर्शनात्। प्रसिद्धिश्च कारणवाक्येषु ।

तेषु च छागपशुन्यायादिना नारायणपरत्वं सिद्धमेव। अतो नारायणप्रत्यभिज्ञापकप्रसिद्धवन्निर्देशयुक्तानन्यथासिद्धवाक्यस्थ सर्वकारणत्वलिङ्गपरिक्लृप्तो योग आकाशशब्दस्य रूढिं बाधत इति युक्तमेव। शेषं भाष्ये।।

 68.अतः परमुत्तरेषां चतुर्णामधिकरणानां युगद्वयेन भेदमन्योन्यसंगतमप्याह -आकाशेति। आकाशप्राणशब्दावनितरगतिकौ प्रसिद्धाकाशप्राणप्रतिपादनानार्हौ परस्मिन्ब्राहृणि रूढिं हित्वा योगशक्त्यैव प्रतिपादनीयौ। तेन द्वयोरधिकरणयोरेकपेटिकात्वसिद्धिः। तथोत्तराधिकरणयोरूढिभङ्गमन्तरेण रूढार्थविशिष्टब्राहृपरत्वादेकपेटिकात्वं सिद्धम्। तत्र ज्योतिश्शब्दस्य तावद्रूढार्थविशिष्टपरत्वं दर्शयति -- ज्योतिरिति। 'न तत्र सूर्यो भाति ' 'नचोदेति नास्तमेति ' ' यदादित्यगतं तेजः ' इत्यादिकं हि प्रमाणजातमुपलभ्यते। एवमिन्द्रियादिशब्दोऽपि इन्द्रादिविशिष्टपरमात्मपरतया रूढ¬भङ्गेन विशेषणमात्रार्थवसानमाश्रित्य नेतव्यः। तथाचार्थभेदात् पेटिकाद्वयसिद्धिरिति निगमयति -इत्येवमिति। एकत्र यौगिकशक्तिरन्यत्र विशेषणमात्रापर्यवसिता रूढिशक्तिरिति शब्दप्रवृत्तिक्रमः।।

 69. पूर्वं ' य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ' इत्यादित्यान्तर्वर्तिनः कस्यचित् पुरुषस्य विशेषलिङ्गात् वेदान्तवेद्यत्वमुक्तम्। इदानीं तदभावादाकाशस्य विशेषश्रुत्या वेदान्तवेद्यत्वमाशङ्क्य परिह्यियत इति संगतिः।

प्रसिद्धाकाशब्राहृणोराकाशशब्दयोगसाधारण्यं संशयबीजमित्यादि स्वयमेव भाव्यम्। तदर्थविचारस्तु ' सर्वाणि हवा इमानि भूतानि ' इत्यादिच्छान्दोग्यवाक्यस्थाकाशशब्दः किं प्रसिद्धाकाशपर उत परमात्मपर इति; तदर्थं विचार्यते -- किमयमाकाशशब्दो रूढिशक्त्या वर्तते उत नेति, तदर्थमपि विचार्यते-- किं रूढिर्योगमपहरतीतिन्यायापवादकं

न्यायान्तरं न विद्यते, उत विद्यत इति। पुनश्च विचार्यते -- प्रसिद्धवन्निर्देयुक्तमत्रत्यकारणत्वादिकं चेतनमात्रविषयमुत चेतनाचेतनाविषयमित्यादि।। फलफलिभावस्तप ' इमानि भूतानि' इति प्रसिद्धार्थविषयकारणत्वानुवादस्याचेतनमात्रविषयत्वेन योगशक्तिकल्पकन्यायान्तराभावात् आकाशशब्दो रूढ¬ैव वर्तत इत्ययं शब्दः प्रसिद्धाकाशपरः। सिद्धान्तेऽपि स्वयमेव वाच्यः। अत्र पूर्वपक्षवादी मन्यते -- छान्दोग्ये ह्राकाशशब्दः सर्वोत्पत्तिविलयकारणवाचकतया दृश्यते , स चाकाशस्तैत्तिरीयेऽनन्योत्पाद्यतया कथ्यते ' आत्मन आकाशः संभूतः ' इति, तस्यानन्योत्पाद्यत्वं सर्वकारणत्वेन नित्यत्वादेव युज्यते इति। तदिदमाह -- अत्रेत्यादिना। तन्निराकरोति -- मैवमिति। तत्र हेतुमाह-- सिद्धेति।' हवै' इति प्रसिद्धवन्निर्देशयुक्तस्यास्य वाक्यस्य सिद्धानुवादविषयत्वात् पूर्वप्रसिद्धिरवश्यापेक्षणीया। प्रसिद्धिश्च कारणवाक्येषु, तानि च नारायणविषयाणीति

प्रागेवोक्तम्। तस्मादाकाशशब्दो न प्रसिद्धाकाशपर इत्यर्थः। किं च ' आकाशः परायणम्' इति आकाशस्य परमप्राप्यत्वमत्रैव श्रूयते। नह्रचेतनं किंचित् परमप्राप्यमित्यात्मविदो वदन्ति। तदिदमाह- अथेति। तस्मिन्नाकाशे परमप्राप्यत्वं न संभवतीत्यर्थः । दूषणान्तरमाह-- तदिति। ' तदैक्षत, तत्तेज ऐक्षत, ता आप ऐक्षन्त ' इत्यादिषु तत्तकर्ता विपश्चित्त्वेनैव हि श्रुतः। तथाचाकाशस्य विविधदर्शनं न संभवति। अथवा तत्कर्तेतिआकाशकर्तेति। ब्राहृवल्ल्यां विपश्चिता ब्राहृणेति जगत्कारणं वस्तु विपश्चित्त्वेनैव हि श्रूयते। विविधं पश्यच्चित्त्वं हि विपश्चित्त्वमिति व्याचख्युः। तेनात्मशब्दः परमात्मवाचकः। यत्तूक्तमात्मन आकाश इति स्वात्मन आकाशोत्पत्तिरभिधीयत इति, तत्र मुख्यार्थस्वीकारे बाधः, अमुख्यार्थस्वीकारे स एव दोषः। तस्मादात्मनः परमात्मन आकाशः संभूत इत्ययमेवार्थ इत्यभिप्रायेणाह-- विहतेति।।

70.अत्रैवं पूर्वपक्षवादी मन्यते-- प्रसिद्धाकाशे जगदुत्पत्तेरप्रत्यक्षत्वात् आकाशशब्दे रूढिभङ्गो न्याय्यः, इह तु प्राणे सर्वेषामपि पुरुषाणां प्राणायत्तप्रवृत्तिकत्वस्योपलम्भादस्माकमनुकूललिङ्गं यत् तदेव युष्माकं प्रातिकूललिङ्गम्, तेनानुकूललिङ्गसघ्रीची प्राणरूढिशक्तिरभञ्जनीयेति। तदिदमाह-- प्राणायत्तमिति। तन्निराकरोति - तन्नेति । तत्र हेतुमाह- प्राणस्येति। ' सर्वाणि हवै ' इति चेतनाचेतनविभागाभावेन कृत्स्नस्यापि प्रपञ्चस्य प्राणायत्तप्रवृत्तिकत्वमुच्यते। अचेतनेष्वेव केषुचिच्छिलाकाष्ठादिषु प्राणायतीति व्युत्पत्तिमाश्रित्य प्राणशब्दवाच्यतया स्वीकार्य इत्यर्थः। पूर्वाधिकरणोक्तं हेतुमत्रापि योजयति -- पूर्ववदिति। उभयत्रापि हवा इति शब्दस्य विद्यमानत्वादित्यर्थः। अत्र भगवति प्राणशब्दस्य श्रौतं प्रयोगं सदृष्टान्तमाह-- आकाशेति। यथा परमात्मविषयस्याकाशशब्दस्य श्रुतौ तत्रतत्रोपलभ्यमानत्वादाकाशशब्दः परमात्मविषयः, एवं निखिलप्राणिप्राणनोक्तेर्दृष्टत्वात् प्राणशब्दोऽपि परमात्मविषय इत्युक्तं भवति। तदर्थविचारफलफलिभावौ पूर्वाधिकरणवत् स्वयमेव कल्पनीयौ। संगतिः पुनातिदेशिकी।।

 71. पूर्वोक्ताधिकरणद्वयसाध्यप्रसाकयुक्तीनामुक्ताधिकरणद्वयविषयवाक्योरभावेनोज्जिहानस्य पूर्वपक्षिणो निराकरणं प्रकारान्तरेणात्र क्रियत इति पूर्वोत्तरपेटिकावैषम्यं प्रकाशयति शिष्यानुग्रहेण नोक्तिमिति। यत् सिद्धान्तानुकूलं लिङ्गं तत्

पूर्वपक्षविरुद्धं यत् पुनः पूर्वपक्षानुकूललिङ्गं तदेव सिद्धान्ताविरुद्धमिति विरोधाविरोधप्रक्रिया। अत्राकाशादिविशेषशब्देन पूर्वयोरधिकरणयोः ।स्वसाध्योपस्थापकसिद्धान्तानुरूपपूर्वपक्षयुक्तिदाढर्¬ात् सिद्धान्तनिर्णयः कृतः। अत्र तावत् पूर्वपक्षवादी मन्यते- यथा पूर्वयोरधिकरणयोः सर्वकारणत्वादिकं लिङ्गं विशेषोकिं्त व्याहरन्ति तथोत्तरयोरधिकरणयोः किमपि लिङ्गं विशेषोकिं्त न व्याहन्ति। अपि तु पूर्वपक्षोक्तप्रसिद्धज्योतिरिन्द्रियोरनुकूलं कौक्षेयज्योतिरैक्यादिकं लिङ्गमप्यस्तीति दर्शयति--- भवतीति। तदेव सिद्धान्तभूतपरब्राहृत्वप्रतिकूलम्। नकेवलं लिङ्गेनैव वदामः, किंतु प्रधानभूतया श्रुत्यापीति दर्शयति -- शब्द इति। अनन्यनिष्ठः --विशेषशब्द इत्यर्थः। एवं चतुर्भिर्हेतुभिः परमात्मा न ज्योतिराद्युक्तिवेद्य इति पूर्वपक्षिणो विशेषाभिप्रायसंग्रहः। एवं तर्हि ज्योतिरादिषु साक्षात्कारणत्वकथनाभावे कथं ज्योतिरादिकारणत्वशङ्कावकाश इत्याशङ्क्य साक्षात्कारणत्वकथनाभावेऽपि कारणत्वाक्षेपकयत्किञ्चिदाभासनिरतिशयगीप्त्यादिलिङ्गेन ज्योतिरादिकारणत्वं शङ्कितुमपि कथंचिच्छक्यमित्याह-- विश्वेति। एवमाक्षिपन्तमनन्तराधिकरणाभ्यां निराकरोति -- रुन्ध इति। तदुचितेति -- भगवत इदिद्युत्यनुरूपचेतनाचेतनवैशिष्ट¬प्रदर्शनेन निरुन्ध इति शब्दार्थः।।

 72. अत्राकाशादिषु त्रिष्वधिकरणेषु ' आकाशाद्वायुः ' इत्यादिश्रुत्युक्तक्रमेण पूर्वपक्षोत्थानं समाधानं चेति

संगतिः। प्रसिद्धज्योतिः परमात्मनोस्तत्रतत्र ज्योतिश्शब्दप्रयोगसाधारण्यं संशयकारणम्। तदर्थविचारस्तु --' अथ यदतः परोदिवः ' इत्यादिवाक्ये ज्योतिश्शब्दः प्रसिद्धज्योतिर्वाचकः, उत परमात्मवाचकः। तदर्थं विचार्यते -- स्ववाक्ये परमात्मासाधारणलिङ्गाभावेऽप्युपक्रमस्थं परमात्मासाधारणं लिङ्गं ज्योतिश्शब्दस्य परमात्मवाचकत्वं न प्रतिपादयति, उत प्रतिपादयतीति। तदर्थमपि विचार्यते -- उपक्रमेऽपि परमात्मासाधारणं लिङ्गं नास्ति उतास्तीति। ततश्च विचार्यते। -- ' गायत्रीवा इदं सर्वम् ' इत्युपक्रमस्थगायत्रीशब्दः परमात्मपरत्वं बाधते न वेति। पुनश्च विचार्यते - एतद्वाक्यस्थो भूतादिपादव्यपदेशो गायत्रीमात्रपरत्वं न व्यावर्तयति, उत व्यावर्तयतीति।

फलफलिभावः स्वयमेवोन्नेयः। अत्र पूर्वपक्षी मन्यते -- आकाशप्राणाधिकरणयोरिव ज्योतिरधिकरणविषयवाक्ये

ज्योतिश्शब्दस्य परमपुरुषवाचकत्वस्थापकं सर्वकारणत्वादिकं प्रसिद्धज्योतिर्विरुद्धलिङ्गं नोपलभ्यते। उपलभ्यते चानुकूललिङ्गं कौक्षेयज्योतिषैक्यम्। तदिदमाह-- कौक्षेयेति। तथा च तदेव जगत्कारणम्। न केवलमनया विद्यया प्रतीयते अपितु वैश्वानरविद्यायामपि तदेव जगत्कारणत्वेन प्रतीतमित्याह-- तरयेति।फलितमा-- अत इति। निराकरोति -- मैवमिति। हेतुमाह-- पुंसूक्तेति। उपक्रमे हि ' पादोऽस्य सर्वा भूतानि ' इति वाक्येन पुरुषसूक्तस्थं ' पादोस्य विश्वा भूतानि ' इत्यादिवाक्यं प्रत्यभिज्ञाप्यते। पुरुषसूक्ते हि नारायणपरत्वं सुप्रसिद्धमेव। तच्च कारणत्वं नारायणे ' ह्यीश्च ते लक्ष्मीश्च पत्न्यौ ' इति लक्ष्मीपतित्वलिङ्गसामथ्र्यात् , ' भगवानितिशब्दः' इति पराशरवाक्याच्च। तर्हि वाक्यशेषस्थकौक्षेयज्योतिरैक्यस्य का गतिरिति चेत् तस्य न्यायविरोधेन बाध एव गतिः। उपक्रमोपसंहारयोरुपक्रमो बलीयानिति हि न्यायविदः। अत्राश्वप्रतिग्रहेष्टिन्याय एवोदाहरणम्। ननु सर्वोक्रमे ' गायत्री वा इदं सर्वम् ' इति गायत्रीपरत्वप्रदर्शनादुपक्रमवाक्यं गायत्रीमेव प्रतिपादयति न पुनः परमपुरुषमित्याशङ्क्य तस्याप्यन्यथासिद्धिमाह-- गायत्रीति। गायत्र्युक्तिश्चतुष्पात्त्व साम्यादेव न पुनः गायत्रीस्वरूपत्वात्। इत्थमवगमे को हेतुरित्याशङ्क्य नियामकं हेतुमाह-- अपि चेति। अस्मिन्खलु वाक्ये गायत्रीशब्दवाच्यस्य परस्य ब्राहृणः सादृश्येन भूतपृथ्वीशरीरह्मदयानि निर्दिश्यन्ते। गायत्रीशब्दस्य परमात्मपरत्वे नियामकं परमात्मनो विश्वात्मकत्वं न केवलमक्षरसंघातरूपायां गायत्र्याम्, अत उपक्रमवाक्यानुसारेणैवोपसंहारस्य वर्णयितुं शक्यत्वात् ज्योतिश्शब्दवाच्यं परमेव ब्राहृेति निर्णयः। प्रयुज्यते च ' तं देवा ज्योतिषां ज्योतिः ' इत्यादिषु परस्मिन्नेव ब्राहृणि ज्योतिशब्दः स्थलान्तरेष्वपि।।

 73.श्रीमद्भाष्यग्रन्थे मन्दप्रतिबोधार्थं पूर्वोत्तरवाक्ययोः परस्परं व्याहतिमाशङ्क्य परिहरति-- उत्थानमित्यादिना इत्थमित्यन्तेन। एतदधिकरणारम्भे ज्योतिरादावधिकरणयुगे कारणव्याप्त- लिङ्गादुत्थानमिति भाष्यकारैरेवाभाष्य पुनरपि पूर्वपक्षोपन्याससमये प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मलिङ्गविशेषादर्शनादित्युक्तम्, अतः कथमविरोध इति। अत्र निराकरणहेतुमाह-- विश्वेति। अयं किल भाष्यकाराभिप्रायः -- एवं किल मन्यते पूर्वपक्षी विश्वतःपृष्टेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु ' इत्यादिकं कारणत्वाक्षेपकमवभासात्मकं लिङ्गमस्ति।

अथाप्युभयलिङ्त्वादिविशिष्टपरमपुरुषप्रतिष्ठापकं जगत्कारणत्वादिकं स्ववाक्ये लिङ्गं नास्तीति। अतो न विरोधइत्याह-- व्याहतिरिति। अयमर्थः - सिद्धान्तोपन्यासभाष्ये यद्यपि ' अथ यदतः परदिवो ज्योतिः' इत्येतस्मिन्वाक्ये परमपुरुषासाधारणं लिङ्गमस्तीति भाष्यकारह्मदयम्। अनुत्तमेषूत्तमेषु लोकेषु द्योतत इति विशेषणद्वयोपादानमप्राकृतदिव्यलोकवासिनो ज्योतिष एव संघटते। न पुनरण्डान्तर्वर्तिनो वा ज्योतिर्मात्रस्येति भावः।।

। 1.1.11

 74. अत्र संगतिर्भाष्यकारैरेवोक्ता ' निरतिशय ' इत्यादिना। आदित्यादिपरज्योतिश्शब्दे निरस्ते परो ज्योतिषामधिपतित्वेन परकल्पित इन्द्रोऽपि जगत्कारणत्वेनाशङ्क्य निरस्यत इति। अथवा उपक्रमप्राबल्यादुपसंहारोक्तार्थनिरासः पूर्वाधिकरण उक्तः, तर्हि तेनैव न्यायेन प्रतर्दनविद्यायामपि उपक्रमप्राबल्यादुपसंहारवाक्यप्रतिपन्नपरमपुरुषपिरकल्पनं बाध्यमिति पूर्वपक्षोत्थानेन संगतिः। तदर्थविचारस्तु प्रतर्दनविद्यायां किं प्रसिद्ध एवेन्द्रः प्रतिपाद्यते उतेन्द्रशरीरकः परमात्मा। एवं प्राणेऽपि वाच्यम्। तदर्थं विचार्यते - पूर्वाधिकरणोक्तोपक्रमाधिकरणन्यायेनात्राप्यर्थोपवर्णनं न्याय्यम्, अथवा नेति। उपक्रमाधिकरणन्यायेबाधकमुपक्रममहावाक्यविरोधे महावाक्यमेवानुसरणीयमिति न्यायनन्तरं न विद्यते, अथवा विद्यत इति। पुनर्विचार्यते अस्मिन्वाक्ये सर्वत्र परब्राहृत्वनिश्चायकं हेतुजातं नानुगम्यते, उतानुगम्यत इति। अत्र पूर्वपक्षी मन्यते-- पूर्वमुपक्रमानुसारेणैवोपसंहारवर्णनं न्याय्यमिति भवद्भिरुक्तम्, प्रतर्दनविद्यायामुपक्रमे पूर्वमिन्द्रशब्दः प्रयुज्यते, स तु विशेषश्रुतिः, तेनोपक्रमस्थश्रुत्यानुगुण्यमस्त्येव, किं च ' त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे' इति हिततमोपास्तिकर्मत्वं तथैवोच्यते, तच्च परब्राहृत्वलिङ्गम्, तेनोपक्रमस्थश्रुतिलिङ्गाभ्यामिन्द्र एव परमपुरुषः, किं च त्वदभिमतनारायणविरुद्धं प्रसिद्धेन्द्रसाधारणं त्वाष्ट्रवधादिकं चोपलभ्यते, तच्च परमपुरुषविरुद्धमेव। फलितमाह-- तदिति। तस्मात् । असौ - शक्रादिपद वाच्य इन्द्र एव, जगत्कर्ता। परहरति-- नेति। अयमाशयः -- उपक्रमस्थहिततमोपास्तिकर्मत्वं प्रसिद्धेन्द्रस्य न

घटते, एवं हिततमोपास्तितरपवर्गार्थोपासनम्, प्रसिद्धेन्द्रस्तु देवगणान्तर्गतः स्वर्गादिपरिमितदेशवासी कश्चित्कीटकल्पः, स कथं हिततमोपास्तिकर्म भवेत्, तेनार्थविरोधात् शब्दार्थासंकोचसिद्ध्यर्थं चेन्द्रशब्देन परमपुरुष एवाभिधीयते, ' इदि परमैश्वर्यं ' इति हि व्युत्पादयन्ति, निपुणनिरूपणे पितामहोऽप्युदुम्बरकीटः, किमुत मेघनादादिजितः प्रसिद्धेन्द्र इति त्वमेव भावय। तर्हि मामुपास्स्वेति स्वोपासनं विदधातीन्द्रः, त्वाष्ट्रवधादिकं चास्मिन्नेव प्रकरणे प्रख्याप्यते परमपुरुषविरुद्धं प्रसिद्धेन्द्रानुकूलं लिङ्गम्, तत्कथमिति चेदत्र समाधिमाह-- ब्राहृेत्यादिना। स्वात्मना चेत्यन्तेन। अयमभिप्रायः -- त्रेधा ह्रुपास्यं ब्राहृ अचिद्विशिष्टोपासनं चिद्विशिष्टोपासनं केवलं परमात्मोपासनमिति। तेन प्रसिद्धेन्द्रादिकमपि ब्राहृविशेषणत्वेनोपास्यतयाऽभिधीयते । तेन विशेषणभूतप्रसिद्धेन्द्रादिप्रतिपत्त्यर्थं त्वाष्ट्रवधादिकमपि लिङ्गं सार्थकमेव न पुनर्विरुद्धम्। अयमत्र निर्णयः-- हिततमोपास्तिकर्मत्वादिभिः परमपुरुषस्यैव प्रतर्दनविद्यायामिन्द्रशब्दप्रधानवाच्यत्वं सिद्धमेव। त्वाष्ट्रवधादिना लिङ्गेन तद्विशेषणत्वेन प्रसिद्धेन्द्रोऽपि परिगृह्रते । एवं प्राकरणिकेन लिङ्गेविशेषेण प्रसिद्धप्राणोऽपि स्वीक्रियतां, नतु स्वरूपेण। स्वरूपेण परमात्मनोपासनं सुप्रसिद्धमेव । तेनोपासात्रैविध्यसिद्ध्यर्थं प्रसिद्धेन्द्राद्यसाधारणलिभ्गं प्रतर्दनविद्यायामुक्तमिति न विरोधः। अत इन्द्रादिविशिष्टः परमात्मेव प्रतर्दनविद्यायामुपास्य इतीन्द्रादिरूढु#िशक्त्या विशेषणपरित्यागेन विशेष्यपर्यन्चाभिधानमिति सिद्धम्। कथं तर्हि उपक्रमविरोधे वाक्यार्थनिर्णय इत्याशङ्क्याह-- प्राणेन्द्राति । उभयमिह प्रकाष्यते उपक्रमोपसंहारयो उपक्रमोपसंहारयोपुरक्रमो बलीयान्, उपक्रममहावनक्ययोर्विरोधे महावाक्यमेव बलीय इति। इदं पुनर्विरोधे सत्यमेव। अत्र पुनर्विरोध एव नास्तीति भाष्यकारह्मदयम्। महावाक्यगतोपक्रमस्यापीन्द्रविशिष्ट परमात्मविषयत्वेनाध्यात्मविद्भिपनुसन्धानादिति।।

 75. अत्राधिकरणारम्भानुपपत्तिमाशङ्क्य समाधत्ते -- यदिति। अयमर्थः -- ज्योतिषीन्द्रे च यल्लिङ्गं कारणैकस्थितमिति कथितं भवता ज्योतिषि तावत् ' अथ यदतः' इत्याद्युक्तमुत्तमेषु लोकेषु निरतिशयदीप्तियुक्तत्वम्, यच्चेन्द्रे त्वमित्याद्यभिप्रेतं ' मामुपास्स्व ' इति साक्षान्मुक्त्यर्थं मुमुक्षूपास्यत्वम्, तदुभयमपि प्रख्यातान्यैकनिष्ठं कारणत्वेन प्रख्यातनारायणमैकनिष्ठं प्रथममितम् --आकाशाधिकरणत्ववयाप्तं लिङ्गद्वयम्, तत्कथमुच्यते। यथा सर्वजगत्कारणत्वं परमपुरुषविषयतया प्रथममितम्, तद्वत्, तेन समव्याप्तम् लिङ्गद्वयमपि तथैव प्रमितमेवेत्यर्थः। फलितमाह-- अत इति। निरतिशयदीप्तियुक्तत्वलिङ्गस्य मुमुक्षूपास्यत्वस्य च परमपुरुषनिष्ठतया पूर्वमेव प्रमितत्वात् कारणत्वव्याप्तलिङ्गेन

पूर्वपक्षोत्थानमिति न घटते। इत्थं लिङ्गद्वयस्य परमपुरुषस्थितत्वपरामर्शे दूषणमुक्तम् तदभावेऽपि दूषणमाह-- अप्राप्त इति। लिङ्गद्वयस्य सर्वकारणस्थितत्वपरामर्शाभावे लिङ्गद्वयान्वितं यÏत्कचिज्जोतिरस्तु यः कश्चिदिन्द्रोऽस्तु न चैतावता पूर्वोक्तमेकनिष्ठं कारणत्वं परमकारणत्वं भ्रश्यति किमर्थमधिकरणाम्भ इत्याशङ्क्यार्धाङ्गीकारेण परिहरति सत्यमिति। यद्यप्यधिकरणप्रयोजनं नास्ति, अथापि किंचित्प्रयोजनमस्ति, यद्यपि लिङ्गद्वयं परमपुरुषैकनिष्ठम्, अथापि स एव परमपुरुष उपेन्द्रत्वमास्थाय वर्तते, अतः सोऽप्युपास्य एव, तस्य श्रुतिः पुराणादिरिवोपेन्द्रोत्पतिं्त वावदीतीति कश्चित् बालबुद्धि भ्र्राम्यति, तच्छङ्कानिराकरणमारम्भ इत्यर्थः। उपेन्द्रस्य परमपुरुषत्वं श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम्, तेष्वेवेन्द्रस्य पुरुषोत्तमकिङ्गरत्वमपि तत्रैव प्रसिद्धमिति भावः।।

 76. एवमुक्तयोरधिकरणयोर्विरोधाभासं शमयित्वा पूर्वपक्षिणा परिगृहीतेऽर्थे संमतासंमतविभागं दर्शयन् विरोधिलिङ्गत्वेन कथितस्य कौक्षेयज्योतिषैक्यस्य मुख्यप्राणादिलिङ्गस्य चोपासनार्थत्वेन प्रयोजनमपि दर्शयति-- ज्योतिरिति। ज्योतिरादिशब्दानां विशेषणविशिष्ठपरमवस्तुवाचित्वं संमतम्। विशेषणमात्रवाचित्वसंमतम्। कौक्षोयज्योतिषैक्यमुपासनार्थम्। तथा मुख्यप्राणलिङ्गम्प्युपास्यविशेषणप्रकाशनार्थमिति श्लोकार्थसंक्षेपः। स्पष्टमेवावशिष्ठम्।।

 77. अत्र शिष्यामुग्रहार्थं आकाशज्योतिराद्यधिकरणोक्तार्थवैशद्यायेतरवाचिशब्दानां ब्राहृणि प्रयोगे विषयभेदेन नियमं दर्शयति -- कार्यमिति। यत् कार्यमिति दृढमितमधिगतमाकाशादिकं यदपि कर्मवश्यमिति

दृढमितं प्राजापत्यादिकं तयो र्निरूढैः प्रसिद्धैः शब्दैः ब्राहृणि निर्दिष्ठे सति क्वचित् आत्मावस्थितेष्वाकाशादिशब्देषु गत्यन्तराभावाद्रूढिर्बाध्या। अगतिहता -- रूढित्वेन निर्वाहासंभवस्त्विह-- अगतिः तया निवार्यते रूढिः। तेन योग एवाश्रीयत इत्यर्थः। क्वचिदन्यत्र प्रकारान्तरेण निर्वाहमाह-- तदिति। ज्योतिषि

लिङ्गं कौक्षेयज्योतिषैक्यम्, इन्द्रे त्वाष्ट्रवधादिकं तदुभयमनन्यथासिद्धं व्याप्तमित्यर्थः।। तत्तलिङ्गानन्यथासिद्धेज्र्ञानबलात् तद्विशेषणविशिष्ठविषयत्वं स्यात्। अत्रोदाहरणचतुष्टयमाह-- ज्योतिरिति। ज्योतिर्विशिष्टे ब्राहृणि ज्योतिशब्दः। इन्द्रविशिष्ठे पुनरिन्द्रशब्दः। एवमहं ब्राहृास्मीत्यत्राहंशब्दः स्वात्मविशिष्टं परमात्मानमाह। अत्र ऐन्द्रानयेनेत्येतदवशिष्यते, तदप्याचक्ष्महे ' ऐन्द्र¬ा गार्हपत्यम्' इत्यत्रेन्द्रशब्दस्य गार्हपत्ये रूढिशक्त्यभावात् गौणीवृत्तिव्र्युत्पत्तिर्वा समाश्रयणीया। उभयमप्याहुः ---

 ' इन्द्रत्वमग्नौ गौणं स्यात् यज्ञसम्बन्धकारितम्। इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः।। ' इति।

तेनाकाशप्राणशब्दयोरस्माभिः परस्मिन् ब्राहृणि व्युत्पत्तिरेवाश्रीयत इति सुसंगतमेतत्। अयमर्थः--

 व्युपत्त्या परमात्मानं तत्तदुक्तिः प्रकाशयेत्। तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी।। इति।।

 78. पूर्वं तद्गुणाद्गृणातीत्यागामिनामधिकरणानां प्रत्येकमेकैकभगवद्गुणप्रकाशने तात्पर्यमिति प्रतिपादितम्। अधुना पुनरतीतानां सप्तानामधिकरणानां सप्तसु भगवद्गुणेषु तात्पर्यमनुक्रमा इत्यादौजेतृवीतहव्यविजेवृतया बलपौरुषादिशययुक्त इत्यानुशासनिकादि दाचष्टे -- स्वेच्छात इत्यादिना। शुभेति शुभगुणविभवरूपानन्तनिस्सीमहर्ष इत्यर्थः। अनुपधिकेति-- देशकालवस्तुपिरच्छेदराहित्येनेत्यर्थः। सप्राणेति-- सप्राणानामप्राणानां प्राणहेतुरित्यर्थः। तत्र प्रभुरितिकथनं सर्वाधिकरणोक्त वैभवप्रकाशनार्थम्।।





  श्रीः

द्वितीयाध्यायस्य तृतीयपादः

2.3.1.

1. अत्र पूर्वोत्तरपादसङ्गतिर्भाष्य एव सुव्यक्तमुच्यते---- 'साङ्ख्यादिवेदबाह्रतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चसामञ्जस्यमुक्तम्। इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावाख्यापनाय ब्राहृकार्यतयाभिमतचिदचिदात्मकप्रपञ्चस्य कार्यप्रकारो विशोध्यते' इति। अत्र पूर्वपादद्वयस्योत्तरपादद्वयेन सङ्गतिरस्स्माभिः पूर्वमेवोक्ता--- कारणद्वारकबाह्रविरोधपरिहार परौ द्वौ पादौ, अपरौ पुनः कार्यद्वारकान्तरविरोधपरिहारपराविति। अतः परं कार्यविषयविरोधपरिहारपरयोः पादयोः परवाद्युक्तप्रक्रियां विभागेनानूद्य तत्प्रतिक्षेपरूपस्वपक्षमन्ते निगमयति-- सर्वमिति। अत्र चत्वारः पक्षाः प्रतिक्षेप्याः। द्रव्यञ्चाद्रव्यंच सर्वं नित्यमिति साङ्ख्याः प्रतिवदन्ति। सर्वं क्षणिकमिति वैभाषिकाः। सर्वं नित्यानित्यमिति जिनपरिपठितां सप्तभङ्गीं पठन्तः प्राहुः। द्रव्यमाना नित्यं पर्यायात्मनाऽनित्यमिति वदन्तोऽपि विपर्यस्य प्रवदन्ति। नित्यमेवानित्यमिति क्वचित् क्वचित्पुनरनित्यमपि नित्यमिति प्राहुः। वैशेषिकाः खलु नित्यमेव चैतन्यमनित्यमिति वदन्ति तथा नित्यमेवेश्वरविग्रहादिकं प्रमाणसिद्धं न सहन्ते एवमनित्यमपि नित्ययन्ति। यथाऽनित्ययओर्घटतद्धर्मयोस्सम्बन्धं समवायात्मकमनित्यमपि नित्यमेव ब्राुवते। एवं परपक्षाननूद्य श्रुत्य

वलम्बनेनोत्थितांस्तान् श्रुतिभिरेव निरुन्धन् वियत्प्राणपादौ युनक्तीत्यन्वयः।।

 2. अधिकरणसङ्गतिस्तु -- श्रीपाञ्चरात्राधिकरणे जीवोत्वादौ जीवाभिमानिसङ्कर्षणादिपरत्वादौपचारिक इत्युक्तम्, तर्हि तेनैव न्यायेन वियदुत्पत्तिवादोऽप्यौपचारिक एव स्यादिति शङ्क्योत्थानमिति। तदर्थविचारस्तु -- किं वियदुत्पद्यते नेति। किं 'आत्मन आकाशस्संभूतः' इत्याकाशस्योत्पतिं्त प्रतिपादयति नेति। किमत्र सम्भूतिशब्दो मुख्योत्पत्तिपर उत गौण इति। किमन्यत्र निरवयवस्यानुत्पत्तिदर्शनं निरवयवस्यास्य शब्दैकमधिगम्यस्योत्पत्तियोग्यतामवगमयति नेति। अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिप्रदर्शनपूर्वकं पूर्वपक्षवाद्यभिमतमनूद्य प्रतिक्षिपति -- पूर्वत्रेति। अयमत्र शब्दार्थः-- पूर्वस्मिन्नधिकरणे जीवोत्पत्तिवाक्यं पुरुषनित्यत्वप्रतिपादकवाक्येन बाधितमिति प्रसाधितम्। एवमाकाशोत्पत्तिविषयेऽपि वाक्ये नित्यत्वानित्यत्वप्रतिपादकवचसोर्विरोधे तथैव स्थितिरिति नित्यत्ववाक्येनानित्यत्वबाध इति कश्चिद्वदति। एवं पूर्वपक्षयुक्तौ सिद्धान्त्यभिमतमाह -- सिद्धान्तीति। अयमर्थः -- आकाशोत्पत्तिरनेकश्रुतिप्रतिपन्ना। न तास्यामन्यथासिद्धिरस्ति। अनन्यथासिद्धबहुश्रुतिप्रतिपन्नेऽर्थे जाग्रति एकोऽमुख्यो युक्त्याभासः परवादिकल्पितो जीवितुमेव नार्हतीति भवदुक्तं परित्यजामः। 'वायुश्चान्तरिक्षञ्चैतदमृतम्' इति श्रुत्यैवाकाशस्यामृतत्वमुक्तम्, तत्परित्यागे जीवामृतत्वोक्तेरपि परित्यागप्रसङ्ग इत्याशङ्क्य भाष्यकारोक्तवैषम्यं दर्शयति -- वाय्वित्यादिना। इदं किलात्र वैषम्यम् -- अनेकाः श्रुतयो ह्राकाशस्य जनिमुत्पतिं्त विदधति। एका श्रुतिस्मृतत्वमनुवदति। अतो हेतोर्हि भग्ना। सा च वायुसहपाठादत्यन्तमवसीदति। वायोह्र्रनित्यत्वं सर्वलोकसम्प्रतिपन्नम्। इह पुनर्जीवनित्यत्वमेव सर्ववेदसम्प्रतिपन्नम्।उत्पत्तिवादस्तु क्वचित्क एव। स चान्थासिद्धः। तेनान्यथासिद्धबहुश्रुत्यानुगुण्येनात्मनित्यत्वं युक्तम्। वैपरीत्यादयुक्तमाकाशनित्यमिति वैषम्यसिद्धिरिति।।

 3. अत्राकाशनित्यत्वप्रतिपादने पूर्वपक्षिपरिकल्पितानुक्तान्सुबहून् हेतूननूद्य शिष्यप्रतिबोधनार्थं व्यक्तमेव निराकरोति --- तेजःप्राथम्येत्यादिना। अयमत्र पूर्वपक्ष्यभिप्रेतो हेतुसमुदायः -- सद्विद्यायां हि 'तत्तेजोऽसृजत' इति प्रथममाकाशसृष्टिमनुक्त्वा तेजस्सृष्टिरेवोच्यते। तेनाकाशस्य सृष्ट¬वचनमाकाश नित्यत्वपरमित्येको हेतुः। 'वायुश्चान्तरिक्षञ्चैतदमृतम्' इत्यव्यवधानेनामृतत्ववचनादित्यमरः। अनंशकद्रव्यभावादिति तृतीयः। अतो व्योमन्युत्पत्तिवागुपहितविषयैव स्याद् घटाकाशादिविषयैव इत्यादिरात्मोत्पत्तिवादो देहपरिग्रहविषय इत्यन्यथाक्रियते तद्वदिहापीति प्रतिबन्दी। अनूदितमेतत्प्रतिक्षिपति -- नेति। यत्तु प्रथमं तेजस्सृष्ट¬भिधानदृष्टेरित्युक्तं तन्न। प्राथम्यस्याश्रुतत्वात्। नह्रत्र प्रथमं

तेजस्सृत इति प्रथमशब्दश्रूयते। माभूत्प्राथम्यश्रवणम्, अथापि प्रथमपठनमात्रेण तत् कल्प्यत इत्याशङ्क्य प्रतिक्षिपति-- प्रथमपठनत इति। अन्येन बाधात् -- बहुस्मृतीतिहासपुराणन्यायोपबृंहितेन 'आत्मन आकाशस्सम्भूतः' इत्यादिना वाक्येन बाधादित्यर्थः। कल्पनं हि लैङ्गिकम्। 'तस्माद्वा एतस्मादात्मनः' इति पञ्चमीनिर्देशात् साक्षादेवाकाशस्य कार्यत्वं श्रुत्यैव प्रतीयत इत्यर्थः। संभूतशब्दोऽपि जननवाची। अमृतपदमवशिष्यते -- तच्च

चिरकालवर्तित्वमात्रप्रतिपादकामत्र्यादिपदवन्न नित्यत्वमुपपादयति। अत्र विनिगमने कारणमाह-- अनेकवाक्यैककण्ठ¬ादिति। 'द्वैधे बहूनां वचनम्' इति हि न्यायविदो निर्णयन्ति।।

 4. वैशेषिकाः खलु 'आकाशो नोत्पद्यते निरवयवद्रव्यत्वात्' इत्यनुमानं प्रयुञ्जते तदसत् व्यर्थविशेषणत्वात् सर्वस्यापि हि द्रव्यस्य नित्यत्वेनैव प्रामाणिकत्वात् द्रव्यत्वमात्रं तु त्वत्पक्षेणानैकान्तिकम्।ननु घटाद्युत्पत्तिस्तर्हि कथमुच्यते? सत्कार्यवादादेवेति ब्राूमः। न पुनर्घटादिद्रव्यस्योत्पत्तिः सदेव हि मृत्पिण्डादिकं पृथुबुध्नोदराकारादिरूपं प्राप्य घटादिकमित्युच्यते। तच्च युक्तियुक्तमेव। असमवायिकारणावस्थापन्नद्रव्यविशेषमन्तरेण कार्यावस्थायामपि द्रव्यान्तरस्यानुपलम्भात्। अयं च पक्षः श्रुतिभिरप्यनुमतः। तेन निरवयवद्रव्यत्वादिति व्यर्थविशेषणमेव। तेन तेषुतेषु द्रव्येषु नामान्तरभजनार्हावस्थया सृष्टिवादव इति सुशोभनमेतत्। तदिदमाह-- युक्त इत्यादिना। युक्तः-- युक्तियुक्त इत्यर्थः। श्रुतिभिरनुमत इति --'सदेव सोम्येदमग्र आसीत्' इति ह्रुच्यते। 'यथा सोम्यैकेन' इति दृष्टान्तश्चास्मिन्नेव पक्षे ळ्र्ज्र्ण्द्यिर्âि। क़्ब्रर्ाि ‡ब्र™र्र्âििद्य�र्र्ििंद्वर्ब्रिर्र्न्न्˜ििर्�िर्ज़र््िींक़ॄद्य™र्र्ब्रििर्ळ्न्र्र्र्�िििद्यर्œिर्âिद्य�र्द्वि™र्र् ििक़र्™िर्ििद्यब्रर्˜िर्ुि�र्�िर्र्न्न्र्™िििंर्™िर्�िर्ंि ळ्र्र् िि�र्ुि�र्œिब्रर्ळ्न्र्र्र्�िििद्यर्œिर्âिद्य�र्र्ििंद्वर्र्ििं�र्œिब्रर्™िर्ब्रिर्‡िब्र™र्ब्रिर्ग्र्र्ेििऽर्�िंर् ि�र्œिब्रर्र्र्िििंन्न्�र्र्र्िििं�र् ि�र् ि�र्र्ििंœद्य™र्ठि™र्र्श्व्-िि- इरर् िइर्दिं्यर्।ि र्�िंर्म्म्र्–ििन्न्â रुर्क़िर्म्र्âिि म्र्–िन्न्र्ब्रिर्ळ्न्र्र्र्âिििद्य�र्†िद्यर्âि, क़्ब्रर्ाि डर्र्�ििर्र्र्िििंन्न्ग्र्र्ुिद्मर्र्ििंब्रर्Œिर्ुिœâऽर्�िंर् ि

जीवे तद्गुणयोगः, तथा तत्कार्ययोदादिविधुरेऽपीश्वरादौ संयोगादिः, नित्यानामेव परमाणूनां परस्परसंयोगः, पार्थिवपरमाणुषु पाकजगुणोत्पत्तिः, इत्यादि स्वयमेव भाव्यम्। अयमत्र विशेषः -- उपादानस्वरूपे नामान्तरभजनार्हावस्थान्तरापत्तौ कार्यत्वं वदन्ति। अन्यथा ऽवस्थान्तरप्राप्तिरूपमिति। एवमुपपादितमर्थं वैशद्याय निगमयति -- तस्मादिति। श्रुतिष्वाकाशाद्युत्पत्तिरुक्ता वायुवह्निजलपृथिव्युत्पत्तितुल्यत्वान्नबाध्येत्यर्थः। अयमर्थः -- निरवयवत्वादुत्पत्तिनिराकरणे सिद्धसाधनम्, नामान्तरभजनार्हावस्थोत्पत्तिनिराकरणे लोकवेदयुक्त्युपलम्भविरोध इति।।

2.3.2.

 5. अत्र सङ्गर्भाष्य एव सुव्यक्तमुक्ता -- 'ब्राहृव्यतिरिक्तस्य कृत्स्नस्य ब्राहृकार्यत्वमुक्तम्। इदानीं व्यवहितकार्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिराहोस्वित्तत्तद्रूपाद्ब्राहृण इति चिन्त्यते' इति। तदर्थविचारस्तु -- महदहङ्कारादीनां सर्वेषां तत्त्वानां किं केवलात्पूर्वतत्त्वमात्रादुत्पत्तिः उत तत्तद्रूपाद्ब्राहृण इति। किं 'आकाशाद्वायुः' इत्यादिश्रुतिष्वाकाशादिशब्दा आकाशादिमात्रपरा उत तत्तदवस्थब्राहृपरा इति। किं 'तेज ऐक्षत' इत्यादिष्वभिध्यानलिङ्गं तेजः प्रभृतिशब्दानां तत्तदवस्थब्राहृपरतामवगमयति नेति। किं तेजः प्रभृतिशब्दानां तत्तदवसथब्राहृपरत्वे लक्षणा स्यान्नेति। किं तेजः प्रभृतिशब्दानामपर्यवसानवृत्त्या ब्राहृाभिधाने व्युत्पत्तिविरोधादिदोषो भवति नेति। अत्र पूर्वपक्षमनूद्य निराकरोति -- कूटस्थादिति।'एतस्माज्जायते प्राणः' इत्यादगिश्रुतेद्र्वयी हि गतिस्सम्भाव्यते। एतस्माद्ब्राहृणः प्रकृत्यादिक्रमेण पृथिवीपर्यन्तं विश्वसृष्टिरित्येका, अपरा तु प्रकृत्यादिपूर्वपूर्वतत्त्वशरीराद् ब्राहृणएव पृथिवीपर्यन्तं कृत्स्नस्य विश्वस्य सृष्चिरिति। अत्र पूर्वपक्षवादी मन्यते -- पुत्रपौत्रादिनीत्या कूटस्थाद्ब्राहृण एव परम्परया विश्वसृष्टिः 'एतस्मात्प्राणः' इत्यस्मिन्वाक्ये कल्पयित्वा। अस्मिन्वाक्ये 'खं वायुज्र्योतिरापः पृथिवी विश्वस्य धारिणी' इति पाठक्रमात्क्रम ए प्रतिपाद्यत इति प्रतीयते। 'आकाशाद्वायुः' इति श्रौतक्रमस्यात्रापि दृष्टत्वेन श्रुत्यन्तरसंवादात् तत्सहपाठसामथ्र्यात् 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' इत्यत्रापि प्रतीमानः पाठक्रमो विवक्ष्यते अपि न ब्राहृणस्साक्षाद्विश्वसृष्टिरिति। ननु 'एतस्माज्जायते प्राणः' 'तस्मादेतद्ब्राहृ नामरूपमन्नञ्च जायते' 'तत्तेजोऽसृजत' इत्यादिकं त्वत्पक्षए

न घटत इत्याशङ्क्य पूर्वपक्षी परिहरति -- एतस्मादिति। अयमर्थः --- 'एतस्मात्' इत्यादिभिश्शब्दैर्हेतुत्वमात्रमुच्यते। तत्तु हेतुत्वं व्यवहिताव्यवहितपक्षयोस्साधारणमित्यस्मत्पक्षेऽपि सुगममेवेति। निराकरोति --इहेत्यादिरूहोऽत्र मोह --- इति। अयमर्थः - व्यवहिताव्यवहितयोरव्यवहिते सम्प्रत्यय इति हि न्यायविदां निर्णयः। तेन ब्राहृण एवाव्यवहितकारणत्वे सम्भवति व्यवहितकल्पना नलघीयसी। किंञ्च 'एतस्माज्जायते ' इत्यत्रैतस्मादिति पदस्यानुषङ्गेण वाक्यार्थयोजनायां संभावितायां 'एतस्माज्जायते प्राणः प्राणान्मनो मनस इन्द्रियाणीन्द्रियेभ्यः खम्' इत्यादिकयावचनव्यक्त्या पूर्वपूर्वानुषङ्गविपरिणामाभ्यामर्थोपवर्णनमन्याय्यमेव। अपिच एतस्माद्ब्राहृण इत्यत्र ब्राहृण एव कारणभूतात्मप्राणस्य साक्षादुत्पत्तिरुच्यते मनःप्रभृतीनां परम्परयोत्पत्तिरिति वैरूप्यम्। अवैरूप्ये सम्भवति वैरूप्येण निर्वाहोऽपि जघन्य एव। किञ्च 'पृथिव्यप्सु प्रलीयते' इत्यादिना सुबालोपनिषादादौ बहुस्मृतीतिहासपुराणादिषु प्राणान्मनस्सृष्टिर्मनस इन्द्रियसृष्टिरिन्द्रियेभ्य आकाशसृष्टिरित्यस्ति। अत्राप्यन्थासिद्धिमाशङ्क्य परिहरति -- प्राणेत्यादिना ऽतिप्रसङ्गादित्यन्तेन। अयमर्थः -- अयं खलु भवतोऽभिप्रायः 'खं वायुः' इत्यत्र श्रुत्यन्तरसिद्धक्रम एव प्रतीयते; तत्सहपाठलिङ्गात्

'मनस्सर्वेन्द्रियाणि' इत्यत्रापि पाठक्रम एवानुसर्तव्यः, तेन सुबालोपनिषदादिप्रसिद्धं क्रमान्तरमेव बाध्यत इति, तदिदमसारम्-- सम्प्रतिपन्नबहुवाक्यानुसारेणासम्प्रतिपन्नैकवाक्यार्थोपवर्णनं हि न्याय्यम्। न पुनर्वैपरीत्येन परिकल्पनम्। न्यायविरुद्धार्थपरिकल्पने सर्वशात्रव्यापकोपात्। तेनात्र क्रमो न विवक्ष्यते। अपितु पूर्वपूर्वतत्त्वाविशिष्टाद्ब्राहृण एव विश्वोत्पत्तिरिति। इममर्थं श्रुतिरेवोपबृंहयतीति हेत्वन्तरमप्याह -- ईक्षेति। ' तदैक्षत' ' तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इत्यादिषु कारणभूते ब्राहृणीक्षणमेवानुस्यूतं दृश्यते। तच्च तत्तत्तत्वविशिष्टाद्ब्राहृण एव विश्वोचत्पत्तौ युज्यत इतीक्षत्यधिकरणादौ सर्वत्रापि शास्त्रे समर्थितम्। उक्तमर्थं निगमयति -- प्रथममिति। यथा प्रकृतिशरीरं ब्राहृ महत्तत्त्वं सृजति, तथा महच्छरीरं ब्राहृाहङ्कारं सृजति, इत्यादिक्रमेण पृथिवीपर्यन्तं योजनीयमिति।।

2.3.3.

 5. अत्र सङ्गतिर्भाष्ये 'वियदादेः' इत्यादिनोक्ता। अयमाशयः -- वियदधिकरणे तावत्परवादिभिर्नित्यत्वेन परिगृहीतानां वियदादीनामुत्पत्तिः स्थापिता। समनन्तराधिकरणे पुनः



श्रीः

  द्वितीयाध्याये चतुर्थः पादः

2.4.1.

 1. अत्र प्रयोजनाधिक्याभावेन पादान्तरारम्भमाक्षिप्य समाधत्ते -- अक्षादीति। अयमिह

शब्दार्थः----- आत्मन उत्पत्त्यभावासमर्थनं ज्ञातृत्वसमर्थनमित्यादिकं फलविशेषवत्त्वात् कर्तव्यमेव। अचिद्विशेषरूपस्येन्द्रियादेरुत्पत्तिकथमत्यन्ताभासप्रयोजनमेव। यत्किञ्चिदधिकाशङ्कापरिहारार्थमधिकरण

--मारभ्यते चेत् तदपि स्पष्टमिह न दृश्यते। तदिदमाह -- मन्दमिति। नन्वस्याधिकफलमिन्द्रियसंख्यादि परिज्ञानमित्याशङ्क्याह-- तत्संख्यादेरिति। नहि काकदन्तसख्यापरिज्ञाने किञ्चित्प्रयोजनमस्ति। तद्वदिन्द्रियाण्यप्येकादश वा षड्वेत्यादिविशेषपरिज्ञाने न किमपि फलमुपलभामहे। आशङ्कितमर्थं प्रतिक्षिपति -- नेति। प्रतिक्षेपार्थं प्रकटयति-- एतेष्विति। प्रकृतेऽपि प्रपञ्चस्य ब्राहृकार्यत्वं हि प्रतिज्ञातम्। तत् केषांचिद्ब्राहृकार्यत्वसमर्थनाभावे श्रुतिविप्रतिपत्त्या कस्यचित् मन्दस्य विप्रतिपत्तिरप्रतिपत्तिर्वा स्यात्। शिष्यानुग्रहार्थैव हि सूत्रकारस्य प्रवृत्तिः। तस्मात् प्राणआदिकार्यपरिशोधनार्थं पादारम्भस्सार्थक एव। तत्र स्यात् प्राणकार्यत्वप्रतिपादकस्य प्रथमाधिकरणस्य 'संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्' इति चरमाधिकरणस्य च साक्षाजिह सङ्गतिः मध्यमानां प्रासङ्गिकी सङ्गतिरिति विभागः।।

 2. अत्र पादे पुनरधिकरणसङ्ख्यामधिकरणार्थभेदं तत्तदधिकरणप्रयोजनञ्च विभज्य दर्शयति -- अष्टाविति। अष्टावधिकरणान्यत्र पादे प्रोक्तानि। तत्र प्रथमाधिकरणे वियन्नीतिरिन्द्रियाणामुक्ता।

यथा वियत्पादे प्रथमं वियत उत्पत्तिरुक्ता, एवं प्राणपाद इन्द्रियाणामुत्पत्तिरुच्यते। यद्यपि चक्षुरादीनीमुत्पत्तिः काणादैराक्षपादैरप्युच्यते अथापि मनस उत्पत्तिर्नोच्यते तेन प्रतिक्षेप्यविशेषलाभादधिकरणारम्भस्सप्रयोजन एव। चरमाधिकरणप्रयोजनमाह-- तेजोऽबन्नेति।यथा तेजोऽबन्नादिशरीरकः परमात्मा समष्टिसृष्टावुत्तरोत्तरकार्यं करोतीति समर्थितम् एवं व्यष्टिसृष्टावपि चतुर्मुखादिशरीरकः परमात्मा तत्तत्कार्यं करोतीति समर्थनात् सप्रयोजनमेव चरमाधिकरणमितिभावः। तर्हि मध्ये संख्यापरिणामादिकं किमर्थं चिन्त्यते कार्यकारणभावप्रतिपादनानुपयोगगादित्याशङ्क्याह-- संख्येति। इन्द्रियसंख्यापरिमाणादिचिन्तनेऽपि तत्तद्विद्याविशेषेषु तत्तत्सङ्ख्यापरिमाणादियुक्तेन्द्रियदिविशिष्टपरमात्मोपासने नागृहीतविशेषणेतिन्यायेन सप्रयोजनत्वात् सर्वमपि पादे चिन्तनं सफलमेव। प्रकारान्तरेणापि साफल्यमाह-- प्राणादिभ्य इति। 'देहेन्द्रियमनः प्राणाधीभ्योऽन्योऽन्यसाधनः' इत्यादिना यामुनचार्यदिभिर्देहादिभ्यः परत्वेन जीवात्मा निर्दिश्यते। तत्र प्रयोजनवानेव परिमाणसङ्ख्यादिविशेषविचार इति सफल एष सर्वोऽपि पादः।।

 3. अत्र पादसङ्गतिर्भाष्ये 'ब्राहृव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता। त्तप्रसङ्गेन जीवस्स्वरूपं शोधितम्। सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते ' इति।तदर्थविचारस्तु-- किमिन्द्रियाणि

जीववन्नोत्पद्यन्ते, उत वियदादिवदुत्पद्यन्त इति । किं एतस्मात्जायते प्राणो मनस्सर्वेन्द्रियाणि च इति वाक्यं तेषामुत्पतिं्त प्रतिपादयति नेति। किं प्राणशब्द इन्द्रिय उत परमात्मपर इति।किं 'प्राणा वाव ऋषयः' इत्यत्र ऋषिशब्दः प्राणशब्दस्य परमात्मपरतामलगमयति नेति।अत्र पूर्वपक्षमनुद्य निराकरोति ---अग्र इत्यादिना।असद्वा इदमग्र आसीत्।तदाहुः किं तदासीदिति।ऋषयो वाव ते अग्रेऽसदासीत् तदाहुः के ते ऋषय इति प्राणावाव ऋषयः ' इति जगदुत्पत्ते वाच्यमिति वक्तुं शक्यते।ऋषय इति प्राणा इति च बहुवचनविरोधात् तेन नित्येन्द्रियसिद्धिरिति पूर्वपक्षानुवादः।नुराकरोति--मैवमिति। श्रुतिस्मृतीतिहासपुराणेषु शतशः प्रदेशेष्वि--इन्द्रियाणां सृष्टिवचनदाढ¬ात् प्रतिसंहारकाले तत्सद्भाववचनं न घटत एव।तर्हि बहुवचनविरोध इत्युक्तमवशिष्यते, तदपि न 'अदिति पाशान्' इतिवह्यहुत्वस्यौपचारिकत्वात्।पाशाधिकरणे हि पाशबहुत्वं पाशैकत्वस्य प्रमाणसिद्धत्वात् पाशावयवबहुत्वपरमिति निरणैषुन्र्यायबृद्धाः।तेन

चेतनाचेतनविशिष्टब्राहृांभुतविशेषणबहुत्वात् बहुवचनमपि युज्यत एव।तदिदमाह--बहुवचनमिति।ननु प्रमाणत्वमिन्द्रियेषु प्रसिद्धम्, ऋषित्वमपि ज्ञापकत्वात् कथञ्चिदुपपद्यते न परमात्मनीत्याषङ्क्याह---प्राणर्षित्वे इति।सर्वप्राणिप्राणनहेतुत्वात् प्राणत्वं तावदुपपद्यत एव।परमात्मनि तावदृषित्वमपि ज्ञानवृद्धत्वात्सुतरामुपपद्यते।तदिदमाह--तदिति। निरुक्तिश्चेत्तुल्या,

रूढिश्चेत्सापि च तथा।अस्माभिरपि ब्राहृण्येव रूढिरिति वक्तुं शक्यत्वादिति।यद्वा प्रयोगप्राचुर्यमादिशब्देन विवक्ष्यत इति।।

2.4.2

 4.एवमिन्द्रियाणां कार्यत्वमुक्तम्।तेषां संख्यापि चिन्त्यत इति सङ्गतिः।तदर्थविचारस्तु--- किमिन्द्रियाणि सप्त उतैकादशेति।किं 'सप्त इमे सोका येषु चरन्ति' इति सप्तानां गतिश्रवणमिन्द्रियाणां सप्तसङ्ख्याकत्वमवगमयति नेति।किं जीवेन सह गत्यभावे।डपि पुरुषोपकारकत्वात् प्राणाधीनदेहवृत्तित्वाच्च हस्तादीन्यपीन्द्रियाणि नेति।किं 'दशेमे पुरुषो प्राणा आत्मैकादेशः' इति प्राणशब्देन निर्दिष्टानामेकादसंख्याकत्वं वागादीनामिन्द्रियत्वमवगमयति नेति।अत्र पूर्वपक्षी प्राह--सप्तप्राणा इति।सप्त प्राणाश्चरन्तीति श्रुतो सप्तत्वमुदितं प्रणानाम्।ते च विशिष्याभिहिता योगे योगप्रतिपादके ' यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम्' इति वाक्य इत्यर्थः।परमां गतिमितिहि मोक्षार्थगमनरूपत्वाद्योग।तस्मादेवमुपपादनात् सप्तैवेन्द्रियाणि। एतत् प्रतिक्षिपति--असदिति।अत्र हेतुमाह--अधिकेति।वाक्यान्तरेष्विन्द्रियाणामधिकसङ्ख्याकत्ववचनात् सप्तत्व वचनमन्यपरमेव।तच्चोक्तं भाष्ये ' न्युनव्यपदेशास्तु तत्रतत्र विवक्षितगमनादिकार्यविशेषप्रयुक्ताः ' इति।नतु स्वरूपत इन्द्रियाणां सप्तत्वं, अपितु सप्तलोकसञ्चरणोपाधिना सप्तत्वमुच्यते।तच्च सञ्चरणमेकादशानामप्युलक्षणं प्रमाणबलात्।यदा 'पञ्च' इति न सङ्ख्यापरं परगतिप्रतिपादने, तर्हीन्द्रियलक्षणसम्पन्नत्वे हि एकादशेन्द्रियाणामिन्द्रियत्वं तत्कथं लक्षणमित्याशङ्क्याह--लक्ष्मेति। अयमर्थः--सात्विकाहङ्कारद्रव्यविकृतित्वं हिन्द्रियलक्षणम्।तदेकादशानामप्यविशिष्टमेव।तर्हि पञ्चेन्द्रियान्तराणि सामान्येनोक्ता मनसा सहेति मनसः पृथगभिधानं किमर्थमित्यत्र प्रयोजनविशेषमाह--भेदेनेति।किमेन्द्रियेभ्यो ज्ञानेन्द्रियेभ्यश्च प्रधाने मनसि भेदेनोक्तिस्तत्प्राधान्यप्रदर्शनेन फलवतीत्यर्थः।।

 5.अत्र पादे पक्षविशेषाणां वैविध्येनाङ्गीकारप्रकारविशेषानुक्त्वा तेषां निराकरणमप्यर्थाद् ङाष्य एव सिद्धमित्याह--देहेति।केचिदाहुः--एकमेवेन्द्रिय देहव्याप्ति तदेव देहाङ्गभूतकरचरणादिस्थानविशेषनिवासान्नानात्वेनाभिधीयते नानाकार्यश्च करोतीति।केचित्पुनः श्रुतिपतविमुखाः काणादाक्षपादादयः क्षुद्रतर्कैः कर्मेन्द्रियाणि तत्यजुः---ज्ञानेन्द्रियमेवास्ति न कररमेन्द्रियमिति।अपरे पुनः पुराणादिश्रवणमात्रेण बुद्ध्यहङ्कारचित्तैस्सह चतुर्दशेन्द्रियाणि क्षेत्रज्ञस्य पुरुष्स्याहुः।तादृशाश्चेन्ये केचन चित्तं मुक्त्वा त्रयोदश करणानिति निजगदुः।इति तानर्थतो भाष्यकारो निराचकार।एकादशेत्युपपादनात् न्युनधिकसंङ्ख्यानिरासोऽत्रार्थसिद्ध इत्यर्थः।।

 6.इन्द्रियाणां संङ्ख्योक्ता, इदानिं स्वरूपपरिमणं चिन्त्यत इति सङ्गतिः।तदर्थविचारस्तु-- किमिन्द्रियाणि सर्वगतानि, उतानुपरमाणानीति।किं 'त एते सर्व एव समास्सर्वेऽनन्ताः ' इत्यानन्त्यवचनं सर्वगतत्वमवगमयति नेति।किमानन्त्यश्रवणं ' अथ यो हैतानन्तानुपास्ते ' इत्युपासनफसव्यापारबाहुल्यपरमस्तु सर्वगतत्वपरमिति।तिं ' प्राणमनुत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति' इत्युत्क्रान्तिश्रवणं परिमितत्वे सति अप्रत्यक्षत्वमणुत्वमवगमयति नेति।अत्र पूर्वपक्षमुपन्यस्यति--सर्वेष्विति। सर्व एते समा अनन्ता इति सर्वेषामिन्द्रियाणामानन्त्यपाठात् परिमिकिंनियमानुक्तितश्च एस्येन्द्रियस्येदं परिमाणमिति विश्षपरिमितिनियमानुक्तितश्च इन्द्रियाणां व्याप्तिसिद्धेति चेदिति।एतत्प्रतिक्षिपति--नेति। तत्रहेतुत्रमया--प्रयदिति।प्रयतां सर्वेषां तनुभ्य उत्क्रान्तेस्तदा देशान्तरगमात् पुनरागमोच्चेत्यर्थः।नन्विन्द्रियाणामणुत्वे दुरकतार्थप्रतीतिः कथं स्यादित्याशङ्क्याह--वृत्त्येति। वृत्तिराप्यायनार्थैर्भूतैः इत्यन्यत्रोक्तम्।वृत्तिः प्रसरणम्, तद्धि आप्यायकैर्भूतैर्जायते।अयमर्थः--

यद्यपीन्द्रियाणामणुत्वम्, तेन स्वरूपविभूत्वाभावेऽप्याप्यायनार्थैर्भूतैब्र्राहृाण्डोदरवर्तिकृत्स्नवस्तुग्रहनारूपं विभूत्वं सङ्घटत इति।यथा चक्षुषो गालकान्तस्थितत्वेऽपि तत्प्रकाशात् सर्वतोदिक्कप्रसरादण्डोदरवर्तिवस्तुग्रहणं काणादानाम्।तर्हिन्द्रियोपासनविधिपरे वाक्ये इन्द्रियाणामनन्ततोक्तिः कथम्त्याशङ्क्याह--स्वकार्यैरिति।इन्द्रियकार्यैरित्यर्थः।परिमितान्यपि हिन्द्रियाणि प्रतिबन्धकाभावेऽसंख्यातान्विषयान् गृह्णन्तीति प्रदीपप्रकाशादिवद् दृष्टमेव।ननु सर्वेन्द्रियकन्दभूते ह्मदय एव तत्तत्तनुष्विन्द्रियाणामवस्थाने कथं पृथुत्वमित्याशङ्क्याह--कन्देति।विकारिद्रवय्त्वात् सर्वतोदिक्कप्रसरात्पृथुत्वं युज्यत इत्यर्थः।।

 7.पूर्वेणैव तुल्यन्यायतया सिद्धं श्रेष्ठस्यापि प्राणस्योत्पाद्यत्वमुपजीव्य तत्तत्स्वरूपविशेषचिन्ता क्रियते।तदर्थविचारस्तु--किं श्रेष्ठप्राणो वायुमात्रतत्वं तत्क्रिया वा, अथ कञ्चन विशेषमापन्नो वायुरिति। अत्र पूर्वोक्तनीत्या प्राणस्यापि श्रेष्टस्य परजनित्वत्वं स्थापितमेव।तस्य स्वरूपमेवाधुना विचार्यते।किं देहान्तर्वायुमात्रं किं वा

तत्क्रियामात्रामिति।एतदनुवदति--प्राम इति।उभयमपि नेत्याह--नेति।तत्र हेतुमाह--पृथगिति।'एतस्ममाज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' इति प्राणस्य 'खं वायुज्र्योतिः' इत्युक्तवायुना सह पृथकपत्पत्तिवादात् द्रव्यवर्गे पठनाच्च द्रव्यत्वमेव सनुचेतम्।इत्थं वायुत्वं वायुक्रियात्वञ्च निरस्तम्।तर्हि तत्त्वान्तरत्वं स्यादित्याशङ्क्य परिहरित--नेति।तत्त्वान्तरत्वाभावे हेतुमाह--तेजस्त्व इत्यादिना।यथा वायुत्वावस्थापरित्यागेन तेजस्त्वावस्थापरित्योगेन प्राणत्वावस्थाप्राप्तिरस्ति चेत् तत्त्वान्तरत्वं स्यात् न चैवमस्ति तस्माद्वायुविशेष एव प्राण इति।।

8. 'श्रेष्ठश्च' इत्यत्र श्रेष्ठप्राणस्यापि ब्राहृकार्यत्वं तुल्यन्यायसिद्धं प्रतिपादिकम्।तस्य च ' न वायुक्तिये प-थगुपदेशात् ' इत्यत्र स्वरूपविशेषो वर्णितः।अधुना पुनरणुत्वमुपवण्र्यते। तदर्थविचारस्तु--किं प्राणस्सर्वगतोऽथवाऽणुरिति।किं ' सम एभिस्त्रिभिर्लोकैः ' इत्यानन्त्यव्यपदेशा विभुत्वमवगमयति नेति।किं ' प्राणमनुत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति ' इति प्राणस्य गतिश्रवणमानन्त्यश्रवणस्य प्राणायत्तास्थितित्वेन स्तुत्यर्थत्वेन गौणत्ववगमयति नेति।अत्र ' सम एङिस्त्रिभिर्लोकैः ' इति त्रैलोक्यसाम्य वचनात् स जगद्व्यापको भवत्विति पूर्वपक्षमाह--उक्तइत्यादिना। तत्प्रितिपक्षपति--अयुक्तमिति।तत्र हेतुमाह--जीवेति।जीवस्य इन्द्रियाणाञ्च देहादुत्क्रान्तिश्श्रूयते तथा प्राणस्यापि तेन विभुत्वं न घटते; उत्क्रान्तिगत्यागतीनां बाधादित्यर्थः।' सम एभिस्त्रिभिर्लोकैः ' इच्यादिः सर्वसाम्यश्रुतिरिह कथम्त्याशङ्क्य स्तुत्यर्थत्वेन निर्वहरति--स्तुत्यर्थेति।स्तुतावपि हेतुमाह--करणेति। अयमर्थः--करणक्षेत्रधृत्यादिहेतौ प्राणे देहविषये बुहपकारकत्वमस्ति।सच वृत्तिभेदैर्दशधा विभक्तः प्राणः।दृश्यते हि प्राणापानव्यानोदानसमानरूपेन पञ्चविधो वायुः।तधा नागकूर्मकृकरदेवदत्तधनञ्जयभेदेनापि पञ्च वायवो ह्रायुर्वेदादिप्रलिद्धा योगतन्त्रे विस्तृताश्च तचोपकारकत्वभेदाद् भिन्नाः।तेन स्तुतिविषयत्वं युज्यत इति।

 9.अत्र सङ्गतिर्भाष्ये ' सश्रेष्ठानां प्राणानां ब्राहृण उत्पत्तिरियत्तापरिमाणञ्चोक्तम्।तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वञ्च पूर्वमेव ' अभिमानिव्यपपदेशसितु विशेषानुगतिभ्याम् ' इत्यनेन सूत्रेण प्रसङ्गादुपपादितम्।जीवस्य च स्वभोगसाधनानामेषामधिष्टातृत्वं लोकसिद्धम्। 'एवमेवैवॉष एतान्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ' इत्यादिश्रुतिसिद्धञ्च।तदिदं जीवस्याग्न्यादितेवतानाञ्च प्राणविष्यमधिष्ठानं किं स्वायत्तमुत परमात्मायत्तमिति विशये इति। तदर्थविचारस्तु--ज्योतिरादीनामग्न्यादीनां जीवस्यचेन्द्रियाधिष्ठानां किं परमात्मायत्तमुत स्वायत्तमिति।किं तेषां तत्रतत्र नैरपेक्ष्यप्रतीतिस्समीचीना, उत भ्रान्तिमूलेति।किं नैरपेक्ष्यप्रतीतौ बाधकं प्रमाणमस्ति नवेति।तत्र पूर्वपक्षमालपति--भोक्तॄणामिति।तत्तच्छरीरे भोकॄणां जीवाणां चक्षुराद्यधिष्ठातृणांमग्न्यादिदेवतानामपि देहेन्द्रियाद्यधिष्ठानं नेश्वराधीनम्। तत्स्वातन्त्रय प्रदानादिति। -- अयमर्थः---- ईश्वरः खलु सामान्येन सर्वेषामपि चेतनानां ज्ञानचिकीर्षाप्रयत्नादिप्रदानेन स्वतन्त्र्यमापादयति। तेनेश्वरेण दत्तस्वातन्त्र्या जीवः करणकलेबावराद्यधिष्टाने स्वयमेव प्रवर्तन्त इति

युक्तम्। तन्निराकरोति -- नेति। तदेव विवृणोति -- तनुभृत इति। अयमर्थः -- सर्वे तनुभृतो जीवा ईश्वरस्य शरीरमेव। शरीरञ्च नियताधिष्ठेयं नियतविधेयं नियतशेषञ्चेति निरणैषुः। तेन नियतपरतन्त्रा एव जीवाः। 'तत्सृष्ट्वा।तदेवानुप्राविशत् ' 'तेन विना तृणाग्रमपि न चसति' इत्यादिप्रमाणशतप्रतिपन्नत्वात्। तेन राजसामान्यनीतिः क्वचिदपीश्वरपरतन्त्रे न स्यादेव। सामान्ताः खलूच्छ्वासचिन्तितनिमिषितादिकार्येषु स्वतन्त्रता अपि राजाज्ञामपयनुवर्तन्ते। नचैवमीश्वरपरतन्त्रेषु स्वातन्त्र्यगन्धोऽप्यस्ति। तत्र दृष्टान्तमाह---प्राणान्यायदिति। नहि जागरावस्थायामेव प्राणिति, अपितु सुषुप्त्यवस्थायामपि। नहि सुषुप्त उच्छ्वासादौ स्वतन्त्रबुद्ध्या प्रवर्तते, अपित्वीश्वरप्रेरित एवेति हि भवतामपि सिद्धान्तः। तर्हि कार्यवर्गेषु कर्तुः प्रभुत्वमस्ति जीवस्य करणप्रेरणादिषु स्वातन्त्र्याभावे कथं तत्प्रभुत्वमित्याशङ्क्य परिहरति-- प्रभुत्वमिति जीवानां स्वशक्यविषये प्रभुत्वमपि परमात्मपरतन्त्रमेव प्रयोज्यकर्तृत्वात्। ईश्वरस्यैव प्रयोजककर्तृत्वात्। समुद्रलङ्घनादावशक्यकार्ये कर्तृत्वप्रसङ्गोऽपि नास्तीति वक्तुं स्वशक्यत इत्युक्तम्।।

 10. पूर्वं 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणानुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इति जीवोत्क्रमणे प्रधानप्राणसहितानां सर्वेषामपि प्राणानामुत्क्रममित्युक्तम्। तत्रेन्द्रियशब्दवाच्यत्वं किं

सर्वेषामपि प्राणानामुत प्रधानप्राणव्यतिरिक्तनामिति व्यवहारविशेषनियमार्थं पुनराराभ्यत इति संङगतिः।

तदर्थविचारस्तु-- किं सर्वे प्राणा इन्द्रियाणि, उत मुख्यप्राणव्यतिरिक्ता इति। किं श्रोत्रादिषु मुख्यप्राणे च प्राणशब्द एकनिमित्तेन वर्तत उत निमित्तभेदेनेति। अत्र पूर्वपक्षी मन्यते -- प्राणोऽपि ह्मषीकमिन्द्रियं

स्यादिति। भृशमिति।.जीवोपकारकत्वमेवहीन्द्रियाणां स्वभावः, तत्तु प्राणे उत्क्रान्त्यादिकं निर्वहति लोकदृष्टमेतत्। तेन प्राण एव प्रधानेन्द्रियमिति। उक्तं प्रतिषेधति -- नेति।तत्र हेतुमाह-- पृथगिति। 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' इति, 'प्राणामनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति'इति च प्राण इति पृथगभिधानेन तस्येन्द्रियेभ्यो भेदात्। तर्हि 'मनस्सर्वेन्द्रियाणि' इति मनसोऽपि पृथगभिधाननिन्द्रियत्वं स्यादित्याशङ्क्ये समाधत्ते-- कण्ठोक्तादिति। ' मनष्षष्ठानीन्द्रियाणि ' इति मनसः कण्ठोक्तादिन्द्रियत्वात् श्रुतहानिर्मा भूदितीन्द्रियत्वं घटत एव। तर्हीन्द्रियाणीति सामान्येनोक्तत्वात् मनस इन्द्रियत्ववचने पौनरुक्त्यमिति पुनराशङ्क्य परिहरति-- गोबलीवर्दनीतिरिति। वैषम्यान्तरमप्याह-- न प्राण इति। इन्द्रियलक्षणं हि सात्त्विकाहङ्कारविकृतित्वम्, तन्मनसि विद्यते तेन लक्षणाभावान्न प्राणस्येन्द्रियत्वम्। अथापि प्राणशब्दवाच्यत्वमात्रेणेन्द्रियत्वं स्यादितिमन्दाशङ्कामुत्थाप्य परिहरति-- शब्देति। न ह्रक्षशब्द वाच्यतामात्रेण विभीतकादीनामिन्द्रियत्वमस्ति नापीन्द्रियादीनां वृक्षविशेषत्वमित्यर्थः।।

 11. अत्र पेटिकासङ्गतिर्भाष्ये-- ' भूतेन्द्रियादीनां समष्टिसृष्टिर्जीवानां कर्तृत्वञ्च परस्माद्ब्राहृण इत्युक्तं पुरस्तात्। ( पुरस्तादिति तृतीयपाद इत्यर्थः) जीवानां स्वेन्द्रियाधिष्ठानञ्च परमात्मायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम्। (अनन्तरमस्मिन्पाद इत्यर्थः) या त्वियं नामरूपन्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टि साकिं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म्, उत तेजः प्रभृतिशरीरकस्य परस्याबादि सृष्टिवत् हिरण्यगर्भशरीरकस्य परस्य ब्राहृण इतीदानीं चिन्त्यते। ' इति।

अयमर्थः-- अत्र तृतीयपादादारभ्य इतः पूर्वमेका पेटिका।तत्र भूतेन्द्रियसमष्टिसृष्टिनिरूपणम्, अथ व्यष्टिसृष्टिनिरूपणमिति पेटिकासंङ्गतिः। व्यष्टिश्चोपकरणत्वात् तत्सृष्टिनिरूपणमिति पादसङ्गतिः। पूर्वाधिकरणे 'खं वायुर्जोयतिः' इत्यादौ परमात्मकर्तृत्वमुक्तम्,अधुनापुनव्र्यष्टिसृष्टिर्जीवात्मकर्तृकतया प्रतिभातीति शङ्कोत्थानेनावान्तरसंङगतिः। इदञ्चाभिप्रेतं जीवोपकरणानां प्राणानामुत्पत्त्यादिकं निरुपितम्। तैर्जीवस्य संयोगकरणं हि व्यष्टिसृष्टेः परमात्मकर्तृकत्वमुक्तम्, अधुनापुनव्र्यष्टिसृष्टिर्जीवात्मकर्तृकतया प्रतिभातीति शङ्कोत्थानेनावान्तरसङ्गतिः। इदञ्चाभिप्रेतं जीवोपकरणानां प्राणानामुत्पत्त्यादिकं निरुपितम्। तैर्जीवस्य संयोगकरणं हि व्यष्टिसृष्टिरिति च

सङ्गतिः। तदर्थविचारस्तु किं ब्राहृणस्साक्षात्सर्वकारणत्वं श्रुतमुपपद्यते उत नेति। तदर्थ व्यष्टिनामरूपव्याकरणं किं हिरण्यगर्भमात्रकर्तृकमुत तदवस्थब्राहृकर्तृकमिति। तदर्थ 'अनेन जीवेन' इति जीवसामान्यस्य कर्तृत्वश्रुतिः किं जीवसमष्ट¬ाश्रयकेवलहिरण्यगर्भकर्तृकत्वमवगमयति, उत जीवमात्रविशिष्टपरमात्मकर्तृकत्वमिति। तदर्थ किं केवलहिरण्यगर्भकर्तृकत्वे त्रिवृत्करणनामरूपव्याकरणयोः श्रूयमाणयोरेककर्तृत्वं घटितं नेति। तदर्थ किं त्रिवृत्करणे हिरण्यकर्भस्य कर्तृत्वं संभवति नेति। तदर्थ किं त्रिवृत्करणं हिरण्यगर्भोपत्तिस्थानभूताण्डसृष्टेरुत्तरकालिकं वा पूर्वकालिकं वेति। तदर्थ किं 'नामरूपे व्याकरोत्। तासां त्रिवृतं त्रिवृतमैकैकामकरोत्' इति पाठक्रमोऽण्डान्तर्वर्तित्रिवृत्करणप्रदर्शन-

मन्नादीनां त्रिवृत्करण श्रुतिश्च त्रिवृत्करणस्याण्डसृष्ट¬ुत्तरकालिकतावमगमयति नेति। किमेते त्रयो हेतवः प्रबला उत दुर्बला इति। तेषां प्राबल्ये त्रिवृत्करणस्याण्डसृष्ट¬ुत्तरकालिकतावगम-

कतया तस्य हरण्यकर्भकर्तृकत्वसम्भवेन त्रिवृत्करणनामरूपव्याकरणयोः कत्र्रैक्यश्रुत्युपपत्तेः 'अनेन जीवेन' इति निर्देशस्य हिरण्यगर्भमात्रकर्तृकत्वज्ञापकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भमात्रकर्तृकमिति परब्राहृणस्साक्षात्सर्वकारणत्वं न स्यात्। पाठक्रमादीनां दुर्बलत्वे त्रिवृत्करणस्याण्डसृष्ट¬ुत्तरकालिकत्वासिद्धेस्तत्र हिरण्यगर्भस्य कर्तृत्वासम्भवेन त्रिवृत्कारणनामरूपव्याकरणयोः कत्र्रैक्यायोगात्तदुपपत्त्यर्थः 'अनेन जीवेन' इति निर्दिशस्य जीवसमष्टिशरीरकपरमात्मकर्तृकत्वावगमकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भशरीरपरमात्मकर्तृकमिति परब्राहृणस्साक्षात्सर्वकारणत्वमुपपन्नमिति सिध्यति। अत्र पूर्वपक्षवादी मन्यते---मन्वाद्र्यैमहर्षिभिस्सरसिजवसतिरेव नामरूपव्याकरण कर्तृत्वेन कथ्यते स्मर्यते च 'नामरूपञ्च भूतानाम्' इति। न च स्मृतिमात्रम्, श्रुतिरपि 'अनेन जीवेन' इति। अतश्चारेणानुप्रविश्य परबलं सङ्कलयानीति प्रेष्यकृत्यक्रमोऽत्रेति शङ्कते-मन्वाद्यैरिति। उक्तमप्रतिपक्षिपति-तन्नेति। तदेव विवृणोति---एक इति। एक एव हि प्रवेष्टा 'अनेन जीवेनात्मनानुप्रविश्य' इति, त्रिवृतमकृत 'तासां त्रिवृतं त्रवृतमेकैकामकरोत्।' इति, 'नामरूपे व्याकरोत्' इति चाधीतः। तेन त्रयाणामेककर्तृकत्वं सिद्धम्। तर्हि कथं चतुर्मुखकर्तृके परमात्मनः कर्तृत्वमित्याशङ्क्याह---तत्तदिति। यथा 'तत्तेज ऐक्षत' 'तदपोऽसृजत' इत्यादौ तेजःप्रभृतिविशिष्टस्य परमात्मनः कर्तृत्वम्। एवं चतुर्मुखादिविशिष्टस्य परमात्मन एव समष्टिसृष्टावपि कारणत्वमित्यर्थः।।

 12. अत्र परपक्षोक्तप्रक्रियां स्वपक्षेण भङ्क्त्वा ' अनेन जीवेन ' इति वाक्यार्थं विशिष्य शिष्यशिक्षायै विशदयन्

निगमयति-- या जीवेने ति। ' अनेन जीवेनात्मना ' इति श्रुतिर्न जीवब्राहृणोरैक्यमाचष्टे। प्रागेव-- पूर्वमेव। एक एनान्तरात्मा, सर्वं तस्य वपुरिति श्रुतिस्मृतिसूत्रोपबृंहणादिभिर्नित्यसिद्धभेदोपपादनात्। एवं परोक्तमर्थं निरस्य परमात्मन एव नामरूपव्याकरणवदनुप्रवेशेऽपि कर्तृत्वं जीवविशिष्टवेषेणेति निगमयति-- तेनेति। एवमुपपादनात्तद्विशिष्टो जीवविशिष्ट एव नामरूपव्याकरणवदनुप्रवेशेऽपि कर्ता। स्वकरणकतया-- जीवशरीरकया। ' करणं साधकतमक्षेत्रगात्रेन्द्रियेष्वपि ' इति करणशब्दस्य गात्रवाचित्वात्। अथवा स्वस्यैव साधकतमतया। ईश्वरो हि विवक्षितः कारकाणि भवन्तीति

न्यायेन साधकतमतया करणतयापि व्यपदेष्टुं शक्यते। स्वतन्त्रया कर्तृत्वेन व्यवहारस्सुप्रसिद्ध एव। जीवस्यैव प्रवेशकर्तृत्वपक्षे प्रधानभूतं दोषमाह-- जीव इति। जीवस्य प्रवेशकर्तृत्व कत्वाश्रुतिर्नघटते, जीवस्य प्रवेशकर्तृत्वादीश्वरस्य नामरूपव्याकर्तृत्वादिति।।

 13. नन्वणडमद्यस्थितिमत्यग्न्यादौ रूपभेदैरिुावृत्वमुक्तम्, ' यदग्ने रोहितं रूपम्'

इत्यादिना। ' अन्नमशितं त्रेधा विधीयते ' इत्यादाविदमेव त्रिवृत्करणं विशदमुक्तमिति चतुर्मुखस्यैव त्रिवृत्करणकर्तृत्वमिति कश्चिन्मन्दः प्राह-- अग्न्यादावित्यादिना । तत्प्रतिक्षिपति--

मैवमिति। तदेव विवृणोति-- ब्राहृाण्डेति। ' नानावीर्याः ' इति श्लोके त्रिवृत्कृतानामेव भूतानां सृष्टिसामथ्र्यमित्युक्तम्, अण्डरुाष्टेः पूर्वं त्रिवृत्करणाभावे कथं ब्राहृाण्डसृष्टिर्भवतु। यत्तु ' अन्नमशितं त्रेधा विधीयते ' इति तेन त्रेधा परिणतिमात्रमुच्यते नपुनरिुावृत्करणम्। त्रिवृत्करणं हि नाम त्रयाणामेकीकरणं नपुनर्विभागः। इयं त्रिधोक्ता परिणतिः। इतरत् भूतेषु भूतान्तरसन्निकर्षस्य दृष्टिः प्रदर्शनमित्यर्थः।।

 14. अत्र पादेऽधिकरणाष्टकार्थान्विभज्य व्याचष्टे-- अक्षणामित्यादिना। इन्द्रियाणां जन्म तेषामेकादशत्वं संख्या परिमाणञ्चाणुत्वं मुख्यप्राणस्य स्वरूपं तस्यैव मुक्यप्राणस्याणुत्वं देवतानां जीवानाञ्च मुख्यामुक्यप्राणाधिष्ठाने पारतन्त्रयं तत्र मुख्यप्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्वयष्टिनाम रूपव्याकरणं स्वनाभिप्रभवचतुर्मुखशरीरकादाद्यात् समष्टिसृष्टो तेजोऽबन्नादिशरीरकत्वेन तत्तत्कार्यसृष्टिहेतोः पञ्चीकरणहेतुभूतात् परमपुरुषात् परब्राहृभूतादेव भवतीत्येतेऽर्था विशदमुचिरो प्राणपाद इति।।

 15. पूर्वपादाभ्यामेव परपक्षप्रतिक्षेपः कृतः उत्तरयोरनयोः पादयोः किमवशिष्टं प्रतिक्षेप्यमित्यनुयुञ्जानस्य कस्यचिदत्यन्तबालकस्यात्रापि प्रतिक्षेप्यपक्षान् क्रमेण प्राह- नित्यत्वमित्यादिना। वियदधिकरणे तावत् व्योम्नि नित्यत्वं वातादिपरमाणुषु नित्यत्वं पुरुषे ज्ञानरूपत्वाभावेन पाषाणवत् मुढत्वं श्रोत्रादावाकाशत्वादिकं मनसि विभुत्वं नित्यतत्वान्तरत्वं प्राकृतवस्तुन्यतिरेकेण नित्यतत्त्वानन्तररूपत्वं मुख्यामुख्यप्राणेष्वात्मादिभावं स्वर्गिबृन्दे देवतासमूहे स्वनियाम्यनियमने स्वातन्त्रयेण कर्तृत्वं तद्वज्जीवानामपि स्वकरणाधिष्ठानस्वातन्त्रयं निर्मुक्तयन्त्रक्रमेण निर्जराणामधिपेऽपि पितामहे स्वातन्त्र्येण नामरूपव्याकरणकर्तृत्वमपि वदतां वादिनामेतस्मिन्पादयुग्मे भङ्गः इत्यर्थः।।

 16. अविरोधाध्यायस्य मृषावादिपक्षाविरुद्धत्वमेवेत्याह-- तर्कैरित्यादिना। अयमत्र विकल्पः-- किं व्यावहारिकसत्यैस्तर्कैरविरोधः कथ्यते किं पारमार्थिकसत्यैरिति। नाद्यः-- अविरोधस्थापकानां तर्काणां व्यावहारिकसत्यत्वे परमार्थतो व्याहतिस्स्थापितैव स्यात्। नापरः-- वस्तुवृत्त्यासम्यग्भिस्तर्कैर्यद्यविरोधं वदसि-- तदा स्वाभिमानोपरोधः। चिन्मात्रव्यतिरिक्तार्थस्य पारमाथ्र्योपपादनेऽपसिद्धान्तः। तदिदमाह-- सम्यग्मिरिति। एवं दूषणमुक्त्वा फलितमाह-- तेनेति। अविरोधाध्योयोऽयं बोद्धबन्धोर्मृषावादिनो हि विरुद्ध एव। कथं तर्हि ' तर्काप्रतिष्ठानात् ' इति सूत्रकारेण निरस्तैस्तर्कैर्भवतां परपक्षप्रतिक्षेप इत्याशङ्क्याह-- सोत्रीति। द्वयं खलु तर्कजातं श्रुतिविरुद्धमविरुद्धञ्चेति. तेन तर्काप्रतिष्ठानवचनं ' आर्ष धर्मोपदेशञ्च ' इत्युक्तप्रकारेण वेदविरुद्धतर्कविषयतया योज्यम्। न पुनर्वेदेति कर्तव्यतारूपतर्कविषयमिति कृतमनेन कृपणजननिरासप्रयासेन।।