बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४२ (दारिद्रय्योगाध्यायः)

← अध्यायः ४१ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४३ →


 
अथ दारिद्रय्योगाध्यायः ||४२||

बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने |
दरिद्रजन्मदान् योगान् कृपया कथय प्रभो ||१||

लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते |
मारकेशयुते दृष्टे निर्धनो जायते नरः ||२||

लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते |
मारकेशेन युग्दृष्टे धनहीनः प्रजायते ||३||

लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते |
मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ||४||

षष्ठाष्टमव्ययगते लग्नपे पापसंयुते |
धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ||५||

त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे |
शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ||६||

मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ |
दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ||७||

पापग्रहे लग्नगते राज्यधर्माधिपौ विना |
मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ||८||

त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः |
पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः ||९||

चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि |
मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः ||१०||

लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि |
मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ||११||

शुभस्थानगताः पापाः पापस्थानगताः शुभाः |
निर्धनो जायते बालो भोजनेन प्रपीडितः ||१२||

कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः |
ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः ||१३||

कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम |
कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते ||१४||

कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् |
वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् ||१५||

अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् |
धनसंस्थौ तु भौमार्की कथितौ धननाशकौ ||१६||

बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः |
निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ||१७||

महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ |
शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति ||१८||

-