बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४६ (दशाध्यायः)
(अध्यायः ४६ (दशाध्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ४५ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४७ → |
अथ दशाध्याय ||४६|| सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल | दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ||१|| साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा | कथयामि तवाग्रेऽहं दशभेदाननेकशः ||२|| दशाबहुविधास्तासु मुख्या विंशोत्तरी मता | कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ||३|| द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा | दशा शतसमा तद्वत् चतुराशीतिवत्सरा ||४|| द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा | नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ||५|| अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः | कालचक्रदशा चाऽया मान्यासर्वदशासु या ||६|| दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज | केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ||७|| ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् | माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ||८|| योगार्धजदशा विप्र दृग्दशा च ततः परम् | त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ||९|| पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा | दशा पैण्डी तथांशी च नैसर्गिकदशा तथा ||१०|| अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका | अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः ||११|| कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः | आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात् ||१२|| वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता | शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् ||१३|| विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् | कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ||१४|| दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः | नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः ||१५|| दशामनां भयातघ्नं भभोगेन हृतं फलम् | दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् ||१६|| लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते | अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः ||१७|| चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः | एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् ||१८|| सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः | एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः ||१९|| रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः | गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः ||२०|| दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि | एकैकभे दशामानं विज्ञेयं द्विजसत्तम ||२१|| ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् | विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् ||२२|| कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि | तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः ||२३|| चन्द्रहोरागते कृष्णे सूर्यहोरागते सितेए | लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी ||२४|| पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता | रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ||२५|| इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः | रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् ||२६|| शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी | जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता ||२७|| सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः | विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः ||२८|| अर्कांश कर्कलग्ने पञ्चोत्तरी मता | मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता ||२९|| एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः | रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो वृहस्पतिः ||३०|| एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः | धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ||३१|| वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका | पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ||३२|| शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया | रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ||३३|| क्रमदेते दशाधीशा बाणा बाणा दिशो दश | नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ||३४|| कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा | पवनाज्जन्मभं यावद् या सण्ख्या सप्तभाजिता ||३५|| शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः | दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ||३६|| मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् | शेषाद्दशाधीपा ज्न्' एया अष्टौ रव्यादयः क्रमात् ||३७|| नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् | लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ||३८|| चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया | विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ||३९|| यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा | दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ||४०|| गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः | ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः ||४१|| श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता | शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ||४२|| क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा | लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ||४३|| सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि | पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ||४४|| सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् | दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ||४५|| निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः | सूर्योदये च या सन्ध्या खण्डाख्या द/सनाडिका ||४६|| अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका | पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ||४७|| तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् | लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ||४८|| एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् | राहुकेतुयुतानां च नवानां कालसंज्ञकम् ||४९|| रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् | सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ||५०|| दशा वर्षाणि राशीनामेकैकस्य दशामितिः | क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ||५१|| अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे | पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ||५२|| तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन | शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः ||५३|| द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् | गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ||५४|| द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् | एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ||५५|| अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् | रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम् ||५६|| एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् | अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ||५७|| वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः | एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत् ||५८|| देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च | विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ||५९|| देहजीवौ मेषचापौ दास्राद्यचरणस्य च | मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ||६०|| मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ | क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ||६१|| दास्रादिदशताराणां तृतीयचरणे द्विज | गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ||६२|| क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् | अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ||६३|| कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः | दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ||६४|| यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः | एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ||६५|| याम्यप्रथमपादस्य देहजीवावलिर्झषः | नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ||६६|| याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने | रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ||६७|| याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने | सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः ||६८|| कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज | वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ||६९|| सप्तमेवं विजानीयादसव्यं कथयाम्यहम् | द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ||७०|| द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखेएत् | रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ||७१|| उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम | एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ||७२|| रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ | नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ||७३|| धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ | अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ||७४|| तृतीयचरणे ब्राह्म देएहजीवौ घटाङ्गने | षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ||७५|| रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ | सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ||७६|| चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् | एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ||७७|| कर्को देहो झषो जीवो मृगाद्यचरणे द्विज | व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ||७८|| गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे | त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ||७९|| देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे | त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ||८०|| मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे | व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ||८१|| अपसव्यगणे त्वेवं देहजीवदशादिकम् | पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ||८२|| केषां च कति वर्षाणि दशेशानां महामुने | दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ||८३|| भूतैकविंशगिरयो नवदिक्षोडशाब्धयः | सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात् ||८४|| नरस्य जन्मकाले वा प्रश्नकाले यदंशकः | तदादिनवराशिनामब्दास्तस्यायुरुच्यते ||८५|| सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके | अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ||८६|| ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः | अनुपातेन वक्ष्यामि तदुपायमतः परम् ||८७|| गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् | वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ||८८|| मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः | कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ||८९|| जनो यत्रांशके जातो गतनाडीपलादिभिः | तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ||९०|| एवं महादशारम्भो भवेदंशाद्यथा क्रमात् | गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ||९१|| पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः | भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ||९२|| चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः | द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ||९३|| सव्याख्ये प्रथमांशो यः स देह इति कथ्यते | अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ||९४|| देहादिं गणयेत् सव्ये जीवादिमपसव्यके | एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ||९५|| कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः | मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ||९६|| सिंहावलोकनाख्या च तृतीया परिकीर्तिता | उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ||९७|| पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा | वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ||९८|| कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः | कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः ||९९|| मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः | इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् ||१००|| मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् | पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् ||१०१|| केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् | स्वमृतिं राजभितिं वा सन्निपातभयं भवेत् ||१०२|| मर्कटीगमने सव्ये धनधान्यपशुक्षयः | पितुर्मरणमालस्यं तत्समानां च व मृतिः ||१०३|| सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् | सुहृत्स्नेहादिनाशश्च समानजनपीडनम् ||१०४|| पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् | वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ||१०५|| मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् | ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् ||१०६|| मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् | पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ||१०७|| सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः | तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ||१०८|| मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः | कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ||१०९|| सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् | कर्कटाच्च हरौ याते वधो भवति देहिनाम् ||११०|| पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः | भयं पापखगैर्युक्ते शुभखेटयुते शुभम् ||१११|| शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् | राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात् ||११२|| तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् | यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ||११३|| कन्यातः कर्कटे याते पूर्वभागे महत्फलम् | उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति ||११४|| सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् | कार्यान्तेऽपि च नैऋत्यां सुखं यात्रा भविष्यति ||११५|| कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे | दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ||११६|| मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् | चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ||११७|| चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् | वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ||११८|| सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् | शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ||११९|| शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके | मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् ||१२०|| सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् | तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ||१२१|| चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् | कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ||१२२|| देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः | एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा ||१२३|| क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् | आधी रोगो भवेद् द्वाभ्या.मपमृत्युस्र्तिभिर्भवेत् ||१२४|| चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते | युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा ||१२५|| राजचोरादिभीतिश्च मृतिश्चापि न संशयः | वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् ||१२६|| कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् | गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ||१२७|| देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः | सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः ||१२८|| मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् | पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ | शुभक्षेत्रदशाकाले शुभं भवति निश्चितम् ||१२९|| शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता | क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ||१३०|| जनानां जन्मकाले तु यो राशिस्तनुभावगः | तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ||१३१|| शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः | स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ||१३२|| धनभावे च यो राशिस्तस्य चक्रदशा यदा | तदा सुभोजन.म् पुत्रस्त्रिसुखं च धनाप्तयः ||१३३|| विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् | शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ||१३४|| तृतीयभावराशेस्तु कालचक्रदशा यदा | तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ||१३५|| स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि | शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ||१३६|| सुखभावगतर्क्षस्य कालचक्रदशा यदा | तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः ||१३७|| आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् | शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ||१३८|| सुतभावगतर्क्षस्य कालचक्रदशा यदा | सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः ||१३९|| विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः | शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ||१४०|| रिपुभावगतर्क्षस्य कालचक्रदशा यदा | तदा चोरादिभूपाग्निविषशस्त्रभयं महत् ||१४१|| प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः | पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ||१४२|| जायाभावगतर्क्षस्य कालचक्रदशा यदा | तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् ||१४३|| कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः | शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ||१४४|| मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा | स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् ||१४५|| दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् | पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ||१४६|| धर्मभावगतर्क्षस्य कालचक्रदशा यदा | तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् ||१४७|| सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् | शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ||१४८|| कर्मभावगतर्क्षस्य कालचक्रदशा यदा | राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ||१४९|| सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् | शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ||१५०|| लाभभावस्थितर्क्षस्य कालचक्रदशा यदा | पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ||१५१|| धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते | शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ||१५२|| व्ययभावगतर्क्षस्य कालचक्रदशा तदा | उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् ||१५३|| दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् | पापराशौ फलं त्वेवं शुभराशौ च तद्दलम् ||१५४|| लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे | तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः ||१५५|| मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् | दशाब्दानयने कार्या गणना व्युत्क्रमात् समे ||१५६|| वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज | शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो ||१५७|| द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना | द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि ||१५८|| वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् | एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः ||१५९|| तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् | द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली ||१६०|| तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः | बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली ||१६१|| द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः | ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ||१६२|| ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः | राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् ||१६३|| एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः | गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ||१६४|| उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् | तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ||१६५|| एवं सर्वं समालोच्य जातकस्य फलं वदेत् ||१६६|| क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् | लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् ||१६७|| अथाऽहं संप्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज | चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः ||१६८|| स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते | ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ||१६९|| योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने | इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि ||१७०|| षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः | पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः ||१७१|| कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः | शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः ||१७२|| बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः | अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः ||१७३|| योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् | लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ||१७४|| लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् | ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् ||१७५|| कारकादपि राशीनां खेटानां चैवमेव हि | दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि ||१७६|| द्विराश्यधिपक्षेटस्य गण्येदुभयावधि | उभयोर्धिक संख्या कारकस्य दशा समाः ||१७७|| आत्मकारकमारभ्य कारकाख्यदशा क्रमात् | लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः ||१७८|| मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज | लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ||१७९|| ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् | त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ||१८०|| निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता | लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् ||१८१|| तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे | दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः ||१८२|| जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् | तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम् ||१८३|| क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे | त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः ||१८४|| लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः | दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः ||१८५|| एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः | प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता ||१८६|| चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् | विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे ||१८७|| ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता | भयातं रविभिर्निघ्नं भभोगविहृतं फलम् ||१८८|| राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् | तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ||१८९|| दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् | भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् ||१९०|| अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् | कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् ||१९१|| तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः | न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि ||१९२|| चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् | यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः ||१९३|| क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः | स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ||१९४|| पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज | इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ||१९५|| मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा | उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः ||१९६|| मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः | धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः ||१९७|| भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः | सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् ||१९८|| जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् | एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः ||१९९|| एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः | नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् ||२००|| येषां यदायुः संप्रोक्तं पैण्डमांशं निसर्गजम् | तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ||२०१|| बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा | तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः ||२०२|| अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् | अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः ||२०३|| परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता | तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता ||२०४|| सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् | संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् ||२०५|| त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् | एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् ||२०६|| विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता | आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः ||२०७|| अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः | मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् ||२०८|| ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा | यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता ||२०९|| इति ते कथिता विप्र दश भेदा अनेकधा | एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः ||२१०|| -