बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५८ (बुधान्तर्दशाफलाध्यायः)

← अध्यायः ५७ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५९ →


 
 अथ बुधान्तर्दशाफलाध्यायः ||५८||

मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् |
विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ||१||

विभवं दारपुत्रादि पितृमातृसुखावहम् |
स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ||२||

पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः |
आत्मबन्धुविरोधश्च शूलरोओगादिसम्भवः ||३||

राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् |
द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ||४||

आत्मसम्बन्धिमरणं वातशूलादिसम्भवः |
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||५||

बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे |
शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ||६||

योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे |
देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ||७||

चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः |
विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ||८||

भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् |
दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ||९||

वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः |
चौरादिराजभीतिश्च पापकर्मरतः सदा ||१०||

वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः |
शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ||११||

द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति |
तद्दोषपरिहाराय छागदानं तु कारयेत् ||१२||

सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे |
सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ||१३||

मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् |
दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ||१४||

तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः |
वापीकूपतडागदिदानधर्मादिसंग्रहः ||१५||

व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् |
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ||१६||

हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् |
आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ||१७||

आत्मकष्टं मनस्तापदायकं द्विजसत्तम |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||१८||

तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् |
जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ||१९||

सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे |
त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ||२०||

राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् |
भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ||२१||

लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् |
ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ||२२||

लग्नाष्टमव्यये वापि शन्यारफणिसंयुते |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||२३||

चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति |
शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ||२४||

द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति |
तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ||२५||

सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ||२६||

योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् |
स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ||२७||

नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् |
गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ||२८||

दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति |
द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ||२९||

मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् |
नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ||३०||

दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा |
तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ||३१||

मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् |
दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ||३२||

चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् |
दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ||३३||

द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ||३४||

वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् |
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||३५||

सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ||३६||

राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् |
लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ||३७||

पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् |
गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ||३८||

राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् |
नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ||३९||

पापदृष्टियुते वापि देहपीडा मनोव्यथा |
उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ||४०||

ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् |
दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ||४१||

शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् |
पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ||४२||

दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते |
तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ||४३||

नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् |
स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ||४४||

अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा |
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ||४५||

गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् |
शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ||४६||

बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे |
कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ||४७||

राजसम्मानकीर्तिं च धनं च प्रभविष्यति |
पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ||४८||

इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् |
भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ||४९||

लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् |
भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ||५०||

लग्नादुपचये राहौ शुभग्रहसमन्विते |
राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ||५१||

दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते |
निष्ठुरं राजकार्याणि अथानभ्रंशो महद्भयम् ||५२||

बन्धनं रोगपीडा च निजबन्धुमनोव्यथा |
हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ||५३||

द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ||५४||

श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् |
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||५५||

बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ||५६||

देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च |
विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ||५७||

गोमहिष्यादिलाभश्च पुराणस्र्/अवणादिकम् |
देवतागुरुभक्तिश्च दानधर्ममखादिकम् ||५८||

यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा |
नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ||५९||

शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः |
चौरादिदेहपीडा च पितृमातृविनाश्नम् ||६०||

मानहानि राजदण्डो धनहानिर्भविष्यति |
विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ||६१||

दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते |
बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ||६२||

पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् |
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ||६३||

अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति |
कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ||६४||

अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् |
द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ||६५||

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ||६६||

सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे |
त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ||६७||

राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ||६८||

शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् |
अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ||६९||

अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् |
बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ||७०||

विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||७१||

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ||७२||

-