बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७१ (अथाऽष्टवर्गायुर्दायाध्यायः)

← अध्यायः ७० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७२ →


अथाऽष्टवर्गायुर्दायाध्यायः ॥ ७१॥


अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् ।
दिनद्वयं विरेखायां रेखायां सार्धवासरम् ॥ १॥

दिनमेकं द्विरेखायां त्रिरखायां दिनार्धकम् ।
वेदतुल्यासु रेखासु सार्धसप्तदिनं स्मृतम् ॥ २॥

द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा ।
षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः ॥ ३॥

एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् ।
तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम् ॥ ४॥