बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८० (स्त्रीजातकाध्यायः)
← अध्यायः ७९ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ८१ → |
अथ स्त्रीजातकाध्यायः ॥ ८०॥
बहुधा भवता प्रोक्तं यज्जातकफलं मुने ।
तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना ॥ १॥
साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् ।
स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता ॥ २॥
विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् ।
लग्ने देहफलं तस्याः पञ्चमे प्रसवस्तथा ॥ ३॥
सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज ।
स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वदेत् ॥ ४॥
लग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता ।
कन्योचितगुणोपेता सुशीला शुभलक्षणा ॥ ५॥
शुभेक्षितौ सुरूपा च सदा देहसुखान्विता ।
विषमे पुरुषाकारा दुःशीला पापवीक्षितौ ॥ ६॥
पापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत् ।
लग्नेन्द्वोर्यो बली तस्य फलं तस्य विशेषतः ॥ ७॥
लग्नेन्द्वोर्यो बली विप्र त्रिंशांशैस्तदधिष्ठितैः ।
ग्रहराशिवशाद् वाच्यं फलं स्त्रीणां विशेषतः ॥ ८॥
कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् ।
कुचरित्रा तथा शौक्रे समाया बोधने स्मृता ॥ ९॥
जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता ।
शौक्रे प्रकीर्णकामा सा बौधेंऽशे च गुणान्विता ॥ १०॥
क्लीबाऽर्क्यंशे सती जैवे कौजै दुष्टा सितर्क्षके ।
शौक्रे ख्यातगुणा बौधे कलासु निपुणा भवेत् ॥ ११॥
जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः ।
स्वतन्त्रा कुजात्रिंशांशे शौक्रे च कुलपांसना ॥ १२॥
बौधे शिल्पकलाऽभिज्ञा जैवे बहुगुणा शनौ ।
पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ १३॥
बौधे पुंश्चेष्टिता जैवे राज्ञी मान्दे कुलच्युता ।
कौजे बहुगुणाऽर्यर्क्षे शौक्रे चाप्यसती मता ॥ १४॥
बौधे विज्ञानसंयुता जैवेऽनेकगुणान्विता ।
मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथाऽर्किभे ॥ १५॥
सुप्रज्ञा च भवेच्छौक्रे बौधे दुःस्था तथा खला ।
जैवे पतिव्रता प्रोक्ता मान्दे नीचजनानुगा ॥ १६॥
मन्दे शून्ये शुभादृष्टे पतिः कापुरुषो भवेत् ।
चरभे च प्रवासी स्यात् क्लीवस्तत्र ज्ञमन्दयोः ॥ १७॥
सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे ।
शनावशुभसन्दृष्टे याति कन्यैव वृद्धताम् ॥ १८॥
विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती ।
मिश्रखेटैः पूनर्भूः सा ज्ञेया मिश्रफलान्विता ॥ १९॥
मिथोंऽशस्थौ सितारौ चेदन्यासक्ता तदाऽङ्गना ।
सप्तमे च स्थिते चन्द्रे तदा भर्तुरनुज्ञ्या ॥ २०॥
शुक्रभे शनिभे वापि सेन्दुशुक्रे च लग्नगे ।
मात्रा सह तदा नारी वन्धकी भवति ध्रुवम् ॥ २१॥
कुजर्क्षे वा तदंशेऽस्ते स्त्रीलोलः क्रोधनः पतिः ।
बौधर्क्षांशे तथा विद्वान् कलासु निपुणः सुधीः ॥ २२॥
जैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः ।
शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजनवल्लभः ॥ २३॥
सौरेर्क्ष वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे ।
अतीवामृदुरर्कांशे तदृक्षेवाऽतिकर्मकृत् ॥ २४॥
अस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः ।
मिश्रे मिश्रफलं वाच्यं भांशयोश्च बलक्रमात् ॥ २५॥
सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता ।
क्षताङ्गी खेदयुक्ता च भवेद्धर्मपराङ्मुखी ॥ २६॥
चन्द्रेऽष्टमगते नारी कुभगा कुस्तनो कुदृग् ।
वस्त्राभरणहीना च रोगिणी चातिगर्हिता ॥ २७॥
कुजेऽष्टमगते बाला कृशाङ्गी रोगसंयुता ।
विधवा कान्तिहीना च शोकसन्तापदुःखिता ॥ २८॥
बुधेष्टमगते जाता धर्महीना भयातुरा ।
अभिमानधनैर्हीना निर्गुणा कलहप्रिया ॥ २९॥
गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः ।
पृथुवादकरा पत्या त्यक्ता बह्वशना भवेत् ॥ ३०॥
शुक्रेऽष्टमगते जाता प्रमत्ता धनवर्जिता ।
निर्दया धर्महीना च मलिना कपटान्विता ॥ ३१॥
शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा ।
प्रवंचनपरा नारी भवेत् पतिसुखोज्ज्ञिता ॥ ३२॥
राहावष्टमभावस्थे कुरूपा पतिवर्जिता ।
कठोरहृदया रोगैर्युक्ता च व्यभिचारिणी ॥ ३३॥
शशिशुक्रौ यदा लग्ने मन्दराभ्यां युतौ तदा ।
बन्ध्या भवति सा नारी सुतभे पापदृग्युते ॥ ३४॥
कुजांशेस्तगते सौरिदृष्टे नारी सरुग्भगा ।
शुभांशे सप्तमे ज्ञेया सुभगा पतिवल्लभा ॥ ३५॥
बुधभे लग्नगे सूतौ चन्द्रशुक्रयुते द्विज ।
ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता ॥ ३६॥
लग्ने चन्द्रज्ञशुक्रेषु बहुसौख्यगुणान्विता ।
जीव तत्रातिसम्पन्ना पुत्रवित्तसुखान्विता ॥ ३७॥
लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ तदा ।
बन्ध्याऽथ काकबन्ध्या चेदेवं चन्द्रबुधौ यदा ॥ ३८॥
शनिमङ्गलभे लग्ने चन्द्रभार्गवसंयुते ।
पापदृष्टे च सा नारी बन्ध्या भवति निश्चयात् ॥ ३९॥
सराहौ सप्तमे सूर्ये पञ्चमे पापसंयुते ।
शुक्रेज्यराहवो मृत्यौ मृतापत्या च सा भवेत् ॥ ४०॥
शुक्रेज्यावष्टमे सारौ सप्तमे वा कुजो भवेत् ।
शनिना दृग्युतो नारी गलद्गर्भा प्रकीर्तिता ॥ ४१॥
पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका ।
समस्तं पितृवंशं च पतिवंशं हिहन्ति सा ॥ ४२॥
ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे ।
भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिका ॥ ४३॥
सपापश्च शुभौ लग्ने द्वौ पापौ शत्रुभस्थितौ ।
यस्या जनुषि सा कन्या विषाख्या परिकीर्तिता ॥ ४४॥
विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा ।
वस्त्राभरणहीना च शोकसन्तप्तमानसा ॥ ४५॥
सप्तमेशः शुभो वापि सप्तमे लग्नतोऽथवा ।
चन्द्रतो वा विषं योगं विनिहन्ति न संशयः ॥ ४६॥
लग्ने व्यये सुखे वापि सप्तमे चाऽष्टमे कुजे ।
शुभदृग्योगहीने च पतिं हन्ति न संशयः ॥ ४७॥
यस्मिन् योगे समुत्पन्ना पतिं हन्ति कुमारिका ।
तस्मिन् योगे समुत्पन्नो पत्नीं हन्ति नरोऽपि च ॥ ४८॥
स्त्रीहन्त्रा परिणीता चेत् पतिहन्त्री कुमारिका ।
तदा वैधव्ययोगस्य भङ्गो भवति निश्चयात् ॥ ४९॥
मिथोंऽशस्थौ मिथोदृष्टौ सितार्की वा सितर्क्षके ।
घटांशे लग्नगे नारी प्रदीप्तं मदनानलम् ॥ ५०॥
संशान्तिं नयति स्त्रीभिः सुखीभिर्मदनातुरा ।
पराभिः पुरुषाकारस्थितभिर्द्विजसत्तम ॥ ५१॥
कुजज्ञगुरुशुक्रैश्च बलिभिः समभे तनौ ।
कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मवादिनी ॥ ५२॥
क्रूरे सप्तमगे कश्चित् खेचरो नवमे यदि ।
सा प्रव्रज्यां तदाप्नोति पापखेचरसंभवाम् ॥ ५३॥
विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते ।
मृत्युः प्रागेव विज्ञेयस्तस्य मृत्युर्न संशयः ॥ ५४॥
अष्टमे शुभपापौ चेत् स्यातां तुल्यबलौ यदा ।
सह भर्त्रा तदा मृत्युं प्राप्त्वा स्वर्याति निश्चयात् ॥ ५५॥