बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८३ (पूर्वजन्मशापद्योतनाध्यायः)
← अध्यायः ८२ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ८४ → |
अथ पूर्वजन्मशापद्योतनाध्यायः ॥ ८३॥
महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् ।
अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर ॥ १॥
अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने ।
अपुत्रः केन पापेन भवतीति वद प्रभो ॥ २॥
जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् ।
अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ॥ ३॥
साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया ।
यथोमया हि पृष्टेन शिवेन कथितं पुरा ॥ ४॥
केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् ।
तेषां च रक्षणोपायं कृपया नाथ मे वद ॥ ५॥
साधु पृष्टं त्वया देवि कथयामि तवाऽधुना ।
सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् ॥ ६॥
गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च ।
सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ ७॥
रव्यारराहुशनयः सबलाः पुत्रभावगाः ।
तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः ॥ ८॥
पुत्रस्थानगते राहौ कुजेन च निरीक्षिते ।
कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः ॥ ९॥
पुत्रशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने ।
चन्द्रेण संयुते दृष्टे सर्पशापात् सुतक्षयः ॥ १०॥
कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते ।
लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः ॥ ११॥
कारके भौमसंयुक्ते लग्ने च राहुसंयुते ।
पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्षयः ॥ १२॥
भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने ।
राहुमान्दियुते लग्ने सर्पशापात् सुतक्षयः ॥ १३॥
पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते ।
सौम्यदृष्टे युते वाऽपि सर्पशापात् सुतक्षयः ॥ १४॥
पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः ।
निर्बलौ पुत्रलग्नेशौ सर्पशापात् सुतक्षयः ॥ १५॥
लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते ।
कारके राहुयुक्ते वा सर्पशापात् सुतक्षयः ॥ १६॥
ग्रहयोगवशेनैवं नृणां ज्ञात्वाऽनपत्यता ।
तद्दोषपरिहारार्थं नागपूजां समारभेत् ॥ १७॥
स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः ।
नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् ॥ १८॥
गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः ।
एवं कृते तु नागेन्द्रप्रसादात् वर्धते कुलम् ॥ १९॥
पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते ।
पार्श्वयोः क्रूरसम्बन्धे पितृशापात् सुतक्षयः ॥ २०॥
पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते ।
क्रूरान्तरे पापदृष्टे पितृशापात् सुतक्षयः ॥ २१॥
भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते ।
पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २२॥
लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते ।
पुत्रे लग्ने पापयुते पितृशापात् सुतक्षयः ॥ २३॥
पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे ।
पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २४॥
पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः ।
लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशनम् ॥ २५॥
पितृस्थानाधिपे दुःस्थे कारके पापराशिगे ।
सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः ॥ २६॥
लग्नपञ्चमभावस्था भानुभौमशनैश्चराः ।
रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः ॥ २७॥
लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने ।
पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः ॥ २८॥
व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे ।
पितृस्थानाधिपे रन्ध्रे पितृशापात् सुतक्षयः ॥ २९॥
रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ ।
कारके राहुसंयुक्ते पितृशापात् सुतक्षयः ॥ ३०॥
तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् ।
ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ॥ ३१॥
अथवा कन्यकादानं गोदानं च समाचरेत् ।
एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः ॥ ३२॥
वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा ।
ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः ॥ ३३॥
पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे ।
हिबुके पञ्चमे पापे मातृशापात् सुतक्षयः ॥ ३४॥
लाभे मन्दसमायुक्ते मातृस्थाने शुभेतरे ।
नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः ॥ ३५॥
पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे ।
चन्द्रे च पापसंयुक्ते मातृशापात् सुतक्षयः ॥ ३६॥
पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते ।
लग्ने पुत्रे च पापाढ्ये मातृशापात् सुतक्षयः ॥ ३७॥
पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते ।
भाग्ये वा पुत्रभावे वा मातृशापात् सुतक्षयः ॥ ३८॥
मातृस्थानाधिपे भौमे शनिराहुसमन्विते ।
चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः ॥ ३९॥
लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः ।
पितृनाशाधिपौ लग्ने मातृशापात् सुतक्षयः ॥ ४०॥
षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते ।
चन्द्रजीवौ पापयुक्तौ मातृशापात् सुतक्षयः ॥ ४१॥
पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम ।
मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्षयः ॥ ४२॥
नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे ।
चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक्षयः ॥ ४३॥
चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते ।
चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सुतक्षयः ॥ ४४॥
लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः ।
मातृलग्नाधिपौ दुःस्थौ मातृशापात् सुतक्षयः ॥ ४५॥
नाशस्थानं गते जीवे कुजराहुसमन्विते ।
पुत्रस्थानौ मन्दचन्द्रौ मातृशापात् सुतक्षयः ॥ ४६॥
एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता ।
ततः सन्तानरक्षार्थं कर्त्तव्या शान्तिरुत्तमा ॥ ४७॥
सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका ।
रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रयत्नतः ॥ ४८॥
ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् ।
कर्तव्यं भक्तियुक्तेन चाष्टोत्तरसहस्रकम् ॥ ४९॥
एवं कृते महादेवि शापान्मोक्षो भविष्यति ।
सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायते ॥ ५०॥
अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् ।
यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कुर्याद् विचक्षणः ॥ ५१॥
भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते ।
पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् सुतक्षयः ॥ ५२॥
लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे ।
कारके नाशभावस्थे भ्रातृशापात् सुतक्षयः ॥ ५३॥
भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि ।
नाशस्थाने तु चन्द्रारौ भ्रातृशापात् सुतक्षयः ॥ ५४॥
तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि ।
रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्षयः ॥ ५५॥
पापमध्यगते लग्ने पापमध्ये सुतेऽपि च ।
लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षयः ॥ ५६॥
कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा शुभे ।
पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ५७॥
पुत्रस्थाने बुधक्षेत्रे शमिराहुसमन्विते ।
रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सुतक्षयः ॥ ५८॥
लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते ।
लग्नभ्रातृसुते पापे भ्रातृशापात् सुतक्षयः ॥ ५९॥
भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा ।
राहुमन्देयुते दृष्टे भ्रातृशापात् सुतक्षयः ॥ ६०॥
नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते ।
रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ६१॥
भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः ।
चान्द्रायण्सं चरेत् पश्चात् कावेर्य्या विष्णुसन्निधौ ॥ ६२॥
अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् ।
पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात् फलान्विताम् ॥ ६३॥
एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः ।
ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश्च जायते ॥ ६४॥
पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते ।
लग्ने मन्दे सुतभावो ज्ञेयो मातुलशापतः ॥ ६५॥
लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ ।
ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्षयः ॥ ६६॥
लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने ।
लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक्षयः ॥ ६७॥
ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते ।
शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक्षयः ॥ ६८॥
तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् ।
वापीकूपतडागादिखननं सुतबन्धुनम् ॥ ६९॥
पुत्रवृद्धिर्भवेत्तस्य संपद्वृद्धिः प्रजायते ।
इति योगवशादेवं शान्तिं कुर्याद् विचक्षणः ॥ ७०॥
बलगर्व्व यो मर्त्यो ब्राह्मणानवमन्यते ।
तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्ततिक्षयः ॥ ७१॥
गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः ।
धर्मस्थानाधिपे नाशे ब्रह्मशापात् सुतक्षयः ॥ ७२॥
धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे ।
जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक्षयः ॥ ७३॥
धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे ।
राहुयुतेक्षिते वापि ब्रह्मशापात् सुतक्षयः ॥ ७४॥
जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे ।
पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुतक्षयः ॥ ७५॥
पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते ।
पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् सुतक्षयः ॥ ७६॥
मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते ।
पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक्षयः ॥ ७७॥
लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते ।
व्यय वा गुरुसंयुक्ते ब्रह्मशापात् सुतक्षयः ॥ ७८॥
तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः ।
ब्रह्मकृच्छ्रत्र्यं कृत्वा धनुं दद्यात् सदक्षिणाम् ॥ ७९॥
पञ्चरत्नानि देयानि सुवर्णसहितानि च ।
ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत्तम ॥ ८०॥
एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः ।
मुक्तशापो विशुद्धात्मा स नरः सुखमेधते ॥ ८१॥
दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ ।
पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षयः ॥ ८२॥
नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८३॥
पुत्रस्थानगते शुक्रे कामपे रन्ध्रमाश्रिते ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८४॥
कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे ।
पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक्षयः ॥ ८५॥
भाग्यस्थानगते शुक्रे दारेशे नाशराशिगे ।
लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षयः ॥ ८६॥
भाग्यस्थानाधिपे शुक्रे पुत्रेशे शत्रुराशिगे ।
गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन्ततिक्षयः ॥ ८७॥
पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते ।
व्यये लग्ने धने पापे पत्नीशापात् सुतक्षयः ॥ ८८॥
सप्तमे मन्दशुक्रौ च रन्ध्रेशे पुत्रभे रवौ ।
लग्ने राहुसमायुक्ते पत्नीशापात् सुतक्षयः ॥ ८९॥
धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने ।
शनिराहुयुते दृष्टे पत्नीशापात् सुतक्षयः ॥ ९०॥
नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ९१॥
लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् ।
रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सुतक्षयः ॥ ९२॥
शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् ।
कन्याभावे च श्रीविष्णोर्मूर्ति लक्ष्मीसमन्विताम् ॥ ९३॥
दद्यात् स्वर्णमयीं विप्र दशदेनुसमन्विताम् ।
शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द्विजन्मनाम् ॥ ९४॥
ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते ।
कर्मलोपे पितृणां च प्रेतत्वं तस्य जायते ॥ ९५॥
तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते ।
अतोऽत्र तादृशान् योगात् जन्मलग्नात् प्रवच्म्यहम् ॥ ९६॥
पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे ।
लग्ने व्यये राहुजीवौ प्रेतशापात् सुतक्षयः ॥ ९७॥
पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे ।
कारके नाशभावे च प्रेतशापात् सुतक्षयः ॥ ९८॥
लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः ।
पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् सुतक्षयः ॥ ९९॥
लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने ।
गुरौ च नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १००॥
लग्ने राहौ सशुक्रेज्ये चन्द्रे मन्दयुते तथा ।
लग्नेशे मृत्युराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०१॥
पुत्रस्थानाधिपे नीचे कारके नीचराशिगे ।
नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः ॥ १०२॥
लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते ।
व्यये भौमेन संयुक्ते प्रेतशापात् सुतक्षयः ॥ १०३॥
कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते ।
मन्दमान्दियुते लग्ने प्रेतशापात् सुतक्षयः ॥ १०४॥
वधस्थानाधिपे पुत्रे शनिशुक्रसमन्विते ।
कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०५॥
अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् ।
कुर्यांद्रुद्राभिषेकञ्च ब्रह्ममूर्ति प्रदापयेत् ॥ १०६॥
धेनुं रजतपात्रं च तथा नीलमणिं द्विज ।
ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षिणां दिशेत् ॥ १०७॥
एवं कृते मनुष्यस्य शापमोक्षा प्रजायते ।
पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जायते ॥ १०८॥
तथा ज्ञशुक्रजे दोषे पुत्राप्तिः शम्भुपूजनात् ।
जीवचन्द्रकृते विप्र मन्त्रयन्त्रौषधादितः ॥ १०९॥
राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् ।
गोदानात् केतुजे दोषे रुद्रजापात् कुजाऽर्किजे ॥ ११०॥
सर्वदोषविनाशाय शुभसन्तानलब्धये ।
हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज ॥ १११॥