बृहत्पाराशरहोराशास्त्रम्/अध्यायः ९ (अरिष्टाध्यायः)
(अध्यायः ९ (अरिष्टाध्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ८ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः १० → |
अथारिष्टाध्यायः॥९॥
आदौ जन्माङ्गतो विप्र रिष्टाऽरिष्टं विचारयेत्। ततस्तन्वादिभावानां जातकस्य फलं वदेत्॥ १॥ चतुर्विंशतिवर्षाणि यावद् गच्छन्ति जन्मतः। जन्मारिष्टं तु तावत् स्यादायुर्दायुं न चिन्तयेत्॥ २॥ षष्ठाष्टरिष्फगश्चन्द्रः क्रूरौः खेटैश्च वीक्षितः। जातस्य मृत्युदः सद्यस्त्वष्टर्षैः शुभक्षितः॥ ३॥ शशिवन्मृत्युदाः सौम्याश्चेद्वक्राः क्रूरवीक्षिताः। शिशोर्जातस्य मासेन लग्ने सौम्यविवर्जिते॥ ४॥ यस्य जन्मनि धीस्थाः स्युः सूर्यार्कीन्दुकुजाभधाः। तस्य त्वाशु जनित्री च भ्राता च निधनं व्रजेत्॥ ५॥ पापेक्षितो युतो भौमो लग्नगो न शुभेक्षितः। मृत्युदस्त्वष्टमस्थोऽपि सौरेणार्केण वा युतः॥ ६॥ चन्द्रसूर्यग्रहे राहुश्चन्द्रसूर्ययुतो यदि। सौरिभौमेक्षितं लग्नं पक्षमेकं स जीवति॥ ७॥ कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः। क्षितिजः सप्तमस्थाने सह मात्रा विपद्यते॥ ८॥ लग्ने भास्करपुत्रश्च निधने चन्द्रमा यदि। तृतीयस्थो यदा जीवः स याति यममन्दिरम्॥ ९॥ होरायां नवमे सूर्यः सप्तमस्थः शनैश्चरः। एकादशे गुरुः सुक्रो मासमेकं स जीवति॥ १०॥ व्यये सर्वे ग्रहा नेष्टाः सूर्येशुक्रेन्दुराहवः। विशेषान्नाशकर्तारो दृष्ट्या वा भङ्गकारिणः॥ ११॥ पापान्वितः शशी धर्मे द्यूनलग्नगतो यदि। शुभैरवेक्षितयुतस्तदा मृत्युप्रदः शिशोः॥ १२॥ सन्ध्यायां चन्द्रहोरायां गण्डान्ते निधनाय वै। प्रत्येकं चन्द्रपापैश्च केन्द्रगैः स्याद्विनाशनम्॥ १३॥ रवेस्तु मण्डलार्द्धास्तात् सायं संध्या त्रिनाडिका। तथैवार्द्धोदयात् पूर्वं प्रातः संध्या त्रिनाडिका॥ १४॥ चक्रपूर्वापरार्द्धेषु क्रूरसौम्येषु कीटभे। लग्नगे निधनं याति नाऽत्र कार्या विचारणा॥ १५॥ व्ययशत्रुगतैः क्रूरैर्मृत्युद्रव्यगतैरपि। पापमध्यगते लग्ने सत्यमेव मृतिं वदेत्॥ १६॥ लग्नसप्तमगौ पापौ चन्द्रोऽपि क्रूरसंयुतः। यदा नावेक्षितः सौम्यैः शीघ्रान्मृत्युर्भवेत्तदा॥ १७॥ क्षीणे शशिनि लग्नस्थे पापैः केन्द्राष्टसंस्थितैः। यो जातो मृत्युमाप्नोति स विप्रेश न संशयः॥ १८॥ पापयोर्मध्यगश्चन्द्रो लग्नाष्टान्तिमसप्तमः। अचिरान्मृत्युमाप्नोति यो जातः स शिशुस्तदा॥ १९॥ पापद्वयमध्यगते चन्द्रे लग्नसमाश्रिते। सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः॥ २०॥ शनैश्चरार्कभौमेषु रिष्फधर्माष्टमेषु च। शभैरवीक्ष्यमाणेषु यो जातो निधनंगतः॥ २१॥ यद्द्रेष्काणे च यामित्रे यस्य स्याद्दारुणो ग्रहः। क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवतम्॥ २२॥ आपोक्लिमस्थिताः सर्वे ग्रहा बलविवर्जिताः। षण्मासं व द्विमासं व तस्यायुः समुदाहृतम्॥ २३॥ त्रिभिः पापग्रहैः सूतौ चन्द्रमा यदि दृश्यते। मातृनाशो भवेत्तस्य शुभर्दृष्टे शुभं वदेत्॥ २४॥ धने राहुर्बुधः शुक्रः सौरिः सूर्यो यदा स्थितः। तस्य मातुर्भवेन्मृत्युर्मृते पितरि जायते॥ २५॥ पापात्सप्तमरन्ध्रस्थे चन्द्रे पापसमन्विते। बलिभिः पापकैर्दृष्टे जातो भवति मातृहा॥ २६॥ उच्चस्थो वाऽथ नीचस्थः सप्तमस्थो यदारविः। पानहीनो भवेद्बाल अजाक्षीरेण जीवति॥ २७॥ चन्द्राच्चतुर्थगः पापो रिपुक्षेत्रे यदा भवेत्। तदा मातृवधं कुर्यात् केन्द्रे यदि शुभो न चेत्॥ २८॥ द्वादशे रिपुभावे च यदा पापग्रहो भवेत्। तदा मातुर्भयं विद्याच्चतुर्थे दशमे पितुः॥ २९॥ लग्ने क्रूरो व्यये क्रूरो धने सौम्यस्तथैव च। सप्तमे भवने क्रूरः परिवारक्षयंकरः॥ ३०॥ लग्नस्थे च गुरौ सौरौ धने राहौ तृतीयगे। इति चेञ्जन्मकाले स्यान्माता तस्य न जीवति॥ ३१॥ क्षीणचन्द्रात्त्रिकोणस्थैः पापैः सौम्यविवर्जितैः। माता परित्यजेद्बलं षण्मासाच्च न संशयः॥ ३२॥ एकांशकस्थौ मन्दारौ यत्र कुत्रस्थितौ यदा। शशिकेन्द्रगतौ तौ वा द्विमातृभ्यां न जीवति॥ ३३॥ लग्ने सन्दो मदे भौमः षष्ठस्थाने च चन्द्रमाः। इति चेज्जन्मकाले स्यात् पिता तस्य न जीवति॥ ३४॥ लग्ने जीवो धने मन्दरविभौमबुधास्तथा। विवाहसमये तस्य बालस्य म्रियते पिता॥ ३५॥ सूर्यः पापेन संयुक्तो ह्यथवा पापमध्यगः। सूर्यात् सप्तमगः पापस्तदा पितृवधो भवेत्॥ ३६॥ सप्तमे भवने सूर्यः कर्मस्थो भूमनन्दनः। राहुर्व्यये च युस्यैव पिता कष्टेन जीवति॥ ३७॥ दशमस्थो यदा भौमः शत्रुक्षेत्रसमास्रितः। म्रियते तस्य जातस्य पिता शीघ्रं न संशयः॥ ३८॥ रिपुस्थाने यदा चन्द्रो लग्नस्थाने शनैश्चरः। कुजश्च सप्तमे स्थाने पिता तस्य न जीवति॥ ३९॥ भौमांशकस्थिते भानौ शनिना च निरीक्षिते। प्राग्जन्मनो निवृत्तिः स्यान्मृत्युर्वाऽपि शिशोः पितुः॥ ४०॥ चतुर्थे दशमे पापौ द्वादशे च यदा स्थितौ। पितरं मातरं हत्वा देशाद्देशान्तरं व्रजेत्॥ ४१॥ राहुजीवौ रिपुक्षेत्रे लग्ने वाऽथ चतुर्थके। त्रयोविंशतिमे वर्षे पुत्रस्तातं न पश्यति॥ ४२॥ भानुः पिता च जन्तूनां चन्द्रो माता तथैव च। पापदृष्टियुतो भानुः पापमध्यगतोऽपि वा॥ ४३॥ पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चितम्। भानोः षष्ठष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः। सुखभावगतैर्वाऽपि पित्ररिष्टं विनिर्दिशेत्॥ ४४॥ एवं चन्द्रात् स्थितैः पापैर्मातु कष्टं विचारयेत्। बलाऽबलविवेकेन कष्टं वा मृत्युमादिशेत्॥ ४५॥