← मुखपृष्ठम् अभिज्ञानशाकुन्तलम् (सटीका)
उपोद्घातः
कालिदासः
प्रथमोऽङ्कः →

विज्ञप्तिः ।

 इह खलु नानाविधसंसारक्लेशपरित्रस्तस्य चेतसो निर्दूतये सत्काव्या स्वादसदृशं नान्यदुपलभ्यते बस्तु । तत्र हि वाच्यमाने तिरोभवति त्रिषादो मनसः प्रादुर्भवत्यानन्दः. समधिगम्यते व्यावहारिकं प्राविण्यम्, प्रतिभाति च निकामं बुद्धिः। निरन्तरं तत्संसेवमानश्च मनुजो न चिरादेव तिरस्क रोति ब्रह्मनन्दम् ।

 तच्च काव्यं नाम रसात्मकं वाक्यं श्रव्यदृश्यभेदाद्विविधम् । तत्र च श्रवणमात्रेणानन्दजनकानि रघुवंशकुमारसंभत्रप्रभृतीनि श्रव्यकाव्यानि । सपदि चक्षुःश्रवणयोः प्रतिजनकानि नानारसभावभास्वराणि नटैरभिनेयार्थानि शाकुन्तळमाळविकाग्निमित्रप्रमुखान्यष्टाविंशतिप्रकाराणि रूपकोपरूपकापर- पर्यायाणि दृश्यकाव्यानि समधिकरमणीयानि श्रव्येभ्यः ।

 निसर्गत एव रमणीयं रूपकं नामतत्र च नाटकं, तत्र च सुकविग्र थितवस्तुकम्, तत्र च श्रीमता महाकविकुटालंकारेण श्रीकालिदासेन प्रथित- मिन्यहो रमणीयतायाः काष्टा ।

 नैकविधव्यवहारमूलकतया च रूपकाणां स्वत एव दुर्गमत्वेनावश्यं व्याख्यासापेक्षत्वम् : अभिज्ञानशाकुन्तले च समीचीनाया व्याख्याया अभाबाहुर्बोधतया रसपारभूततया च तदास्वादमभिलष्यन्तो रसिका आमूलं कटकच्छन केतकीप्रसूनमनुधावन्तो मधुकरा इव नितान्तं दुःखायन्त इति तस्य सरलव्याख्यासापेक्षत्वमवबुध्यास्माभिर्लब्धा महता प्रयत्नेनाष्टभाषाचक्र वर्तीनिवासाचार्यत्रिरचिता शाकुन्तलव्याख्या । इयं व्याख्या स्फुटत्वा द्विस्तुतत्वाच्छास्त्रप्रमाणितयुक्तिमत्वाच्छीकालिदासकवशिहृदयस्य सर्वतः प्रक- शनेऽलमितिविचार्येमां व्याख्यासान्भ्रलिपितोऽस्माभिर्देवनागराक्षरैर्विपरिवर्षे मुद्रिता । राघवभट्टविरचितार्थद्योतनिकाख्या व्याख्याप्यनया साकं मुद्रिता ।

 अत्र च यद्यपि बहुविधानि पाठान्तराणि तथापि तेषामतिमात्रशोभावह

कस्वाभावाद्द्वसंवादित्वाभावाच्च नात्र संग्रहणम् । कितु यानि पाठान्तराणि

( २ )

श्रीनिवासाचार्येणादृतानि व्याख्यातानि । तान्येव तत्र तत्र टिप्पणीरूपेण स्थापितानि ।

प्रथमं चाध्ययनायकादिपात्रनिरूपणं प्रत्यङ्गतकथांशसूचपत्रे पद्य नामकारादिक्रमेण सूचीपत्रं च संयोजितम् ।

अत्र च नाटकस्य दुवघतया दापाणां मनुजमात्रसाधारणत्वान्मम प्रयासस्याभिनयस्वाद्वा यद्यरस्खलितं ळक्षयेयुः सुधियस्तान्निवेदनेन मां कृता थीकुर्वन्वाित ।

गुणान्वेषिणां परिचारकस्य
श्रीकृष्णसात्मज-गंगाविष्णोः

अथ

महाकवेः श्रीकालिदासस्य चारितम् ।

तत्रादौ महाकवेः श्रीकालिदासस्य प्रादुर्भावावसरस्तावनिर्णीयते । संक्षिप्तश्चयं विस्तरशः अपाशास्रिणः प्रणीते महाकविः श्रीकालिदास इति श७ प्रबन्धे द्रष्टव्यः ।

( १ ) तत्र केचिदर्वाचीना वैज्ञानिकम्मन्या महाकविप्रकांडममुं सप्तमश ताब्द्यां प्रादुर्भूतं मन्यन्ते । ( २ ) अपरे तु ‘ धन्वन्तरिक्षपणकामरासंह- शंकुवेतालभट्टघटखर्परकालिदासाः । स्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव त्रिक्रमस्य ॥ » इति ज्योतिर्विदाभरणीयपद्यानुसारेण नवरस्नान्तर्गततया वराहमिहिरसमानकालिकत्वं श्रीमतः कालिदासस्य सुस्पष्टम् । ततश्च षष्टशतकतत्वमर्थादेव संसिद्धमित्याहुः । ३ ) अपरे बाहुः श्रीमान्मातृगुप्ताचार्यं एव कालिदासापरनामा । मात्रा कार्या गुप्तो दासत्वाद्रक्षित इति व्युत्पत्तेः। स च षष्ठशताब्द्यां ( वि० समुद्धृत इत्य यमेव कालिदासाबस्थितिसमय इति । ( ४ ) अन्येतु ‘‘ दिङ्गानां पथि पारहरन् स्थूळ्हस्तावलेपान् प्र इति मेघदूते कालिदासेन दिङ्नागाचार्यस्य वननादिङ्नागस्य च षष्टशताब्दीसमुद्भतत्वात्तस्य च कालिदासप्रतिभटतया प्रासैद्धत्वात्कालिदासस्यापि स्रिस्तीयषष्ठशताद्दीसमुद्रेतत्वमेवोति चदन्ति । ( १ ) तदितरे तु * तत्र हूणाविरोधानां भर्जुष्ट व्यक्तृविक्रमम् । कपोल- पाटछादेशि बभूव खुचेष्टितम् ॥ ( ४६६ ) ११ इति रघुवंशे कालिदासेन धुकर्तृकस्य हूणविजयस्याभिधानाङ्कणानां च पंचमशताब्द्युत्तरमेव भारतवर्षे प्रशाद्विक्रमातिशयशाब्यािच तानेव रघोः प्रतिभटपक्षे क्षिपतः काठेिदाः सस्यार्थादेव ततः परभात्रित्वामित्याचक्षते । ( ६ ) केचित्तु कुमारसंभवे तिथौ च जामित्रगुणान्वितायाम् ।। ७-१ ) ? इति पर्व कालिदासेन जामित्रपदमुपनिबद्धम् । तच्च प्रकिभाषावार्जुनो डायमेन् ( Daynettan ) शब्दस्यापभृशः । यदा श्रीकेभ्योऽधिगतं ज्योतिःशास्त्रं भारतवर्षीयैस्तदैव संस्कृतभाषायां प्रविष्टोऽयं शब्दः । यैश्च ग्रीकेभ्यो ज्यौतिषमधिगतं तेषु

भारतवर्षीयपंडितेषु श्रीमानार्यभट्ट एव प्रथमः । स च खिस्तयपंचमश

( २ )

ताब्द्यां प्रादुर्भात इति तदुत्तरशैव्येव श्रमान्कादास इति प्राहुः । ( ७ } अपरे तु रघुवंशे ‘‘ छाया हि भूमेः शशिनो मलबे नारोपिताः शुद्धिमतः प्रजाभिः ? इति ( १४४० ) पथे श्रमता कालिदासेन चंद्रहासस्य पारमार्थिकं स्वरूपमुपनिबद्धम् । तच्चार्यमठेनैव प्रकेभ्यः प्रथमतो विदितमिति तदुपनिबन्धनकर्तुः कालिदासस्यार्यभट्टतोऽवद्यार्चनत्वमर्थादेन षष्ठशताब्दी समुद्धृतस्वमायातामेति प्रवदन्ति । ( ८) अन्ये तु संस्कृतभाषाभ्युदयस्य समयद्वयं परिकल्पयन्ति । तत्रादिमः श्रुत्यादीनामुत्पत्तेरर्थादतीव प्राचीनः । द्वितीयस्तु खिस्तयद्वितीयशताब्द्युत्तरकालिकः । तत्रैव च कालिदासादनां प्रादुर्भात्र इत्याहुः } (९) केचित्तु श्रीमतः कालिदासस्य पत्रेषु अश्वत्र- षप्रणीतबुद्धचारितगतपद्यानां छायामाशंकमाना अश्वघोषसमानकाटिकः कालिदास इत्याहुः । ( १० ) केचित्तु “ काव्यत्रयं सुमतिछद्रघुवंशपूर्वं जातं यतो नतु कियच्छुतिकर्मवादः । ज्योतिर्विदाभरणकालविधानशास्त्रं अकालिदासकबितो हि ततो वभूव | " इति ज्योतिर्विदाभरणान्तिमाध्या यवचनतः कालिदासस्यैव ज्योतिर्विदाभरणप्रणेतृतां निश्चित्य तत्रस्येनैव << वर्षेः सिन्धुरदर्शनांबरगुणैर्याते कठौ संमिते मासे माधवसंज्ञकेऽत्र विहिते पृथक्रियापक्रमः । ॐ इति वचनेन कालिदासस्य कलियुगारं भितः ३०६८ तमे वर्षेऽर्थात्स्रिस्तीयशकारंभत: प्रथमशताब्द्यां वर्तमानत्वं प्राहुः। ११ ; अन्ये तु घुवंशादिप्रणेतुः कालिदासस्य विक्रमार्कसमानकालिफतामभिप्रेय विक्रमार्कस्य विस्तीयषष्टशताब्द्यामेवावस्थानं साधयितुं प्रयतन्ते । कंतु सर्व- मेतदसंगतं चात्यन्तमसमंजसं चेति प्रमाणशतैरन्यत्र अप्पाशास्त्रिणा प्रपंचि तम् । समयेऽत्र विक्रमादित्यसभायां कालिदासाख्यः कोऽपि कविरासीदेवेति निर्दिष्टपूर्वैः प्रमाणैरवबोध्यम् । धुवंशादिप्रणेता तु श्रमान्काळिदासस्ततो ऽपि सुतरां प्राचनः । तंत्रवार्तिकादिममांसाप्रबंधानां प्रथयिता हि भ्रमा- कुमारिलभट्टस्तन्त्रघार्तिके-‘‘ सतां हि संदेहपदेषु वस्तुषु प्रमाणमंत: करणप्रवृत्तयः । ” इति कालिदासस्यशाकुन्तळगतं पद्यार्घमुदाजहार । कुमारिलभट्टश्च श्रीशंकराचार्याणां समानकालिकः । श्रीशंकराचार्याश्च

युधिष्ठिरस्य सप्तविंशतिशताब्द्यामाविद्यन्तेत द्वारकामठीय्सुधन्वताम्रशासनतो

( ३ )

निश्वस्यते । संप्रति पुनर्युधिष्ठिरशकस्यैकपंचाशत्तमा शताब्दति सुस्पष्टमेवेतः पूर्वं चतुर्विंशशताब्यां श्रीशंकराचार्यप्रादुर्भाव इति । तत्समानकाटिकेन कुमारिलभट्टेने कालिदासीयपद्यस्योदाहरणात्ततोऽपि प्राचीनोऽर्थादितः पूर्वं चतुर्विंशतिशताब्दतः पौर्विकः श्रीमान्कालिदास इति स्पष्टम् । कालिदासश्च श्रीमत्याः काल्याः प्रसादादेव कात्रित्वमुपागत इति प्रबल दन्ति । अत्रेयं किंवदन्ती । आस्तीत्पुरा कऽपि भूषादः । तस्य चासी पाण्डिततमा कन्या । तस्याश्चानुरूपं वरमनुसन्दधानोऽसफलीभूतमनोरथे भूपः कदाचिदपरेद्यवि प्रभाते यो नयनगोचरतामागच्छेत्तस्मै कन्यकायाः प्रदानं प्रतिजज्ञे । ततश्चात्मनस्तनयाय न प्रयच्छति कन्यकां भूपाल इति रुष्टेन मन्त्रिणा कस्यचिवृक्षस्य शाखाग्रमारुह्य मूलमुच्छिन्दन्कोऽपि द्विजगो- पाछो राजद्वार उपस्थापितः ! राज्ञा च यथाप्रतिज्ञे तस्मा एत्र समर्पिता कन्या खया । तदनु निशि विळासमन्दिरं गतया राजकन्यकयाऽवबुद्धः पत्युरतिमात्रमसमञ्जसभावः । ततश्च तया सुपरुषं निर्भर्हसतस्तत्पतिररण्यं गत्वा कार्यमाराध्य सम्पाद्य चालौकिकं कवित्वं कदाचिन्निचि प्रतिनिवृत्तो विलोक्य पितिं गर्भागारद्वारं प्राह ‘‘कान्ते ! दीयतामपावृतकघटं द्वारम् " इति । सापि प्रत्यभिज्ञाय दयितं प्रति प्राह । ‘’ अस्ति कश्चि द्वाग्विशेषः ? इति । अयं तु तत्प्रतिवचनगतं पदत्रयमधिकृत्य काव्यत्र- यमेव रचयाञ्चकार । “ अस्त्युत्तरस्यां दिशि देवतात्मा ? ’ इत्यारभ्य कुमा रसम्भवाख्यं सप्तदशसर्गात्मकं महाकाव्यं ‘‘ कश्चित्कान्ताविरहगुरुणा १५ इत्यादि मेघसंदेशाख्यं संघातकाव्यं ‘‘ वागर्थाविव सम्पृक् ?’ इति रघुवं- शाख्यमूनविंशतिसर्गात्मकं महाकाव्यं चेति । ततश्च प्रसन्ना राजदारिकाः सप्रणयं वल्भं निषेवमाणा सुखमासीदिति । अत्र प्रतिपाद्यमानं तु गोपा लाय राज्ञः कन्यकप्रदानमसम्भवग्रस्तमिव प्रतिभाति । कविरयमुत्तरमारत एव प्रादुर्धेत इति तत्र तत्रोत्तरभारतीयानामेवाचा- राणामनेनोपवर्णनात्प्रतीयते । मेघसन्देशे मार्गनिर्देशप्रस्तावेन तत्तानि पुर- ग्रामसरिदादीन्युपवर्णयन्नयमुज्जयिनीमेव विशेषतः सूक्ष्मतया चोपश्लोकयत

यनुमीयत एतस्योञ्जनन्यानैकान्तिकः पारचयः । स च न हि सुदूरवर्तन

( ४ )

घटत इति नूनमुज्जयिगसन्निहिते प्रदेश उजयिन्यामेव वा निवासः कालि दासस्येति सम्भाव्यते ।

एतस्प्रणीताः प्रबन्धस्तु ।

 ऋतुसंहारम्-सर्गषट्कात्मकमृतुवर्णनमिदं प्रसन्नमधुरं खण्डकाव्यम् ।

 कुमारसम्भवम्-सप्तदशसर्गात्मकं मनोहरं महाकाव्यम् । एतच शिव पुराणीयां कथामुपजीव्य विरचितम् । अत्र च बहुषु स्थानेषु शिवपुराणी यपद्यानां छाया सन्दृश्यते । छायोपजीवित्वाचेदमेव प्राथमिकं महाकाव्यमेत स्येति समवगम्यते । एतच्च समग्रमापि कालिदासप्रणीतमेव । तत्र युक्त यस्त्वन्यत्र द्रष्टव्याः ।

 रघुवंशम्-ऊनावंशतिसर्गात्मकं महाकाव्यमिदमतिमात्रहृदयङ्गमम् । मेघदूतम्-खण्डकाव्यामिदम् । अनिर्वचनीयमन्यादृशमेवास्य सर्वाङ्गर भणीयत्वम् । एकमात्रमप्येतत्काव्यं कवेरस्य विमलतमेन यशसा दिगन्त राण्यछकतु प्रभवत् ।

 अभिज्ञानशाकुन्तलम्-सहृदयहृदयाहूदकं नाटकरत्नमिदम् । एत देवोद्दिश्य प्राचीनानामिदं पद्यम् ।

" काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला ।
तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ।
यास्यत्यंचेति तत्रापि श्लोकः सर्वमनोहरः ॥ " इति ।

 अत्रत्यस्यैव कस्यापि वत्सळरसपारंस्यन्दिनः पवस्थ रसमास्वाद्य कोऽपि शार्मण्यदेशयः प्रमोदभरत्रिकसितान्तःकरणस्तदेकतानतामापन्नोऽसङ्गीतकं ननर्तेति श्रूयते ।

 विक्रमोर्वशीयम्–पद्माकं त्रोटकमेतत् । अस्य च कमनीयतमत्वे प्रमाणं सुधियः ।

 मालविकाग्निमित्रम्-पञ्चकं नाटकम् । अस्य च नाटकवे सन्दिहते केचिदर्वाचीनाः । तदसङ्गतम् । “ नाटकं ख्यातवृत्तं स्यात्पश्चसन्धसम-

न्वितम् । ’ इत्यादिनाटकलक्षणाक्रान्ततयैतस्य नाटकताया दुर्वारत्वात ।

( ५ )

न च नैतत्रख्यातवृत्तमिति भ्रमितव्यं विष्णुपुराणे कथांशस्यास्य प्रार्थि

तस्यात् । न चैतत्कालिदासप्रणीतमिति तु अममात्रं प्रमाणाभावात् । न च वर्णनात्येवात्र प्रमाणमिति वाच्यम् । एतस्य कालिदासप्रणीतत्वेऽपि तस्या एत्र प्रमाणभूतधात् । दृश्यंते ह्यत्र तथा विधानि कियन्ति गद्यानि च यानि खुवनिच्छतोऽपि बशदिव प्रत्याययन्न्यासः कालिदासप्रणीतस्वम् । तानि चात्र मालविकाया यतदवसानात्रस्थानवर्णनादिप्रस्तावे स्वयमेव दृश्यन्तां रसिकैः । विस्तरभयात्तु नात्र तान्युदाहर्तुमिच्छामः शति । एतद्विरचितेषु स्वशेषेष्वपि प्रबन्धेषु सुनिपुणं समालोच्यमानेषु प्रती यते महाकवित्वमिव पण्डियमपि श्रीमतः कालिदासस्योत विभाव्यतां प्रीौरीति शिवम् ।

इति महाकविश्रीकालिदास चरितसङ्क्षेपः

शाकुन्तलनाटकांर्तगत पात्राणि ।

सूत्रधारः—नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भाया. . दुष्यन्तः--नायकः शकुन्तला-नायिका विदूषकः--राज्ञो वयस्यः अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः

नद-दवार्यः

शाकुंतलनाटकसारसंग्रह।

 प्रथमांके-नान्दीपठनम् । ततः प्रस्तावनायां सूत्रधारेण नाटकीयस्य वस्तुन उपक्षेपः । मृगयाविहारी पार्थिवो दुष्यन्तः केनाप्यतिरंहसा सारद्रेण दूरं हृतोऽनुमालिनीतिरं कुलपतेः कप्पस्याश्रमं निकषा प्राप । यावच्च कृष्णसारस्य वधार्थे धनुषि शरं संदधाते तावत्केचित्तपस्विन उपेत्योन्यै राजानमब्रुवन् ‘आश्रममृगोऽयं न हन्तव्यः' इति । तद्वचनानु रोधाप्रतिसंहृतसायकस्तैधाभिनन्द्य “ चक्रवर्तिनं पुत्रवभानु हि ’ इति कृताशीर्वचनस्तन्निदिष्टं कण्वाश्रमं प्रवेष्टुमैच्छद्राजा दुष्यन्तो विनीतवेषेण तपोवनं प्रविवेश । वृक्षसेचनव्यापृतमद्भुतरूपसंपत्कन्यकात्रयं ददर्श । तासां विश्रम्भालापेषु सख्योस्तन्नामग्रहणाच्छकुन्तलां ज्ञात्वा तस्या अव्याजमनोहरं रूपं दृष्ट्वा विस्मितो बभूव । पश्चात्ताभ्यां कथाप्रसंगेन शकुन्तलाया जन्मावृत्तान्तमुपलभ्य राजा तस्याः प्राप्तिं प्रति जाताशोऽ भवत् | शकुन्तलापि राजानं दृष्ट्वा तपोवनाविरोधिनो विकारस्य गमनीया संवृत्ता । अत्रान्तरे नृपस्यन्दनालोकभीतस्य वन्यगजस्य केनापि वनक सोच्चैरुद्धोषितं वनप्रवेशं श्रुत्वा सभ्रान्ताः कन्यका उत्तस्थुः । राजापि दर्शनेनैवै भवतीनां पुरस्कृतोऽस्मि तद्यथाश्रमवाधा न भवति तथा यतिष्य इत्युक्त्वा निष्क्रान्तः ।

 द्वितीयांके-पूर्वोकोक्तस्य बीजस्य कामं प्रिया न सुलभेत्यादिना बहु लीकरणानन्तरमेतां प्रवृत्ति विदूषकोऽन्तःपुरे निवेदयेति संशय्य राजा परिहासाविजल्पितं सखे इत्यादिं वाक्येन स्वाभिमतगोपनपूर्वकं स्वनगरं प्रति विदुषकप्रस्थापनम् ।

 तृतीयांके-नायकदर्शनसमुल्लासितमनोभवायाः शकुंतलाया विविधमद नावस्थानुभवः, राज्ञश्च स्वविषयानुरागनिश्चयेन तस्या उपळ्ळनपूर्वकमु भयमनोरथसंपादनं चाभ्यषार्णि ।

 चतुर्थोंके-नायकैकायतचित्तत्वेनाकृतातिथिसत्कारायाः शकुंतलायाः दुर्वासशापप्राप्तिः, तस्यांगुलीयकदर्शननिवत्येवरूपानुग्रहप्राप्तिः, ततः कण्वमहर्षिणा सौसुक्यवात्सल्यानुबंधं कुळपालिकाजनोचितधर्मानुशास-

नाशीर्वचनाद्यभिनंदनपूर्वकं शकुंतलाया भर्तृनगरप्रेषणं चाभ्यधायि ।

 पञ्चमांके-दुर्वासःशापविस्मृतशतलावृत्तांततया कण्वाश्रमागत शकुंतळादिदर्शनतद्वचश्रवणनिरानंदन मनसा तां प्रत्याख्यायापि सतः स्वस्य परितोषालाभात् प्रत्याययतीव मे हृदयमिते राज्ञः परिचितनम् ।
 षष्ठाके-शापानेवर्तकस्वांगुलीयकदर्शनेन शकुंतलासंबंधियावधृत्तांतसं ततः स्मृतैौ जागरूकतया पश्चात्तप्तहृदयस्य शकुंतलाप्रतिकृतिलेखनवी क्षणादिना स्वात्मानं विनोदयतः तत्प्रत्याख्यानमहापराधसंभावितस्वसं तानप्रत्यूहस्य स्वीयविभवेषु नैराश्यात्तत्सर्वमपि प्रजार्थं विनियुज्यतामिति मंत्रिणोऽनुशास्य शकुंतलैकायत्ताचित्तस्य राज्ञः कथंचिन्मातलिसंदर्शनेन स्वप्रभावं दुर्जयासुरविजयायेन्द्ररथारोहणं प्रतिपादितम् ।
 सप्तमाक-इन्द्रप्रार्थनया स्वर्गलोके कृतप्रत्यर्थिविजयस्य प्रत्यागमनसमये मारीचसेवार्थ तदाश्रमं प्रविष्टस्य निरतिशयवरोित्कर्षत्रियार्भकदर्शनन तत्प्रसक्त्या स्वविरहव्रताचरणकृशतनोः स्वप्राणप्रेयस्याः शकुंतलाया दुरो- नेन च समुल्लसितहृदयाह्रादस्य मारीचानुशासनविदितभवितव्यताबलसं . प्राप्तपरस्परविश्लेषज्ञाननिःसंकोचविकसितपरस्परानंदमुदांपत्यस्य राज्ञ इष्टदेवताभूतमारीचप्रसादात्सर्वाभष्टसिद्धिर्निर्वहणे निरूपिता । अभिज्ञानशाकुन्तलनाटकस्थश्लोकाना मकारादिक्रमणानुत्रमणका । पृष्ठ. । श्लोकः . अ. अस्मान्साधु विचिन्त्य .... २७१. अक्लिष्टबालतरु .... ... ३८० | अहन्यहन्यात्मन ३९१ अतः परीक्ष्य कर्तव्यं ... ३२e| अहिणवमङ्गलालंबो . .... २८४ अधरः किसलयरागः .. ७८ आ, अथापं नूनं हरकोप ..• १७८आखण्डलसमो भतों .... ४३९ अध्याक्रान्ता वसतिरमुना... १६३|आचार इत्यवहितेन २९ अनवरतधनुष्याँ ... .... ८आजन्मनः शाठ्य ... .... ३२९ अनाघ्रातं पुष्पम् ... • १९३आतम्म हरिअपण्ड ३४२ अनेरामपे मकर १७८|आपरितोषाद्विदुषां २९ अनुकारिणि पूर्वेषां .... १६७ आलस्यदन्तमुकुळा.. ४२० अनुमतगमना शकुन्तला .... २६० अनुयास्यन्मुनेतनयां . ] प्रत्यादेशादस्खज ... १०८ इतः ३६१ अनेन कस्यापि कुला ४२१ इदं किलाव्याजमनो ... ७१ अन्तगंतप्रर्थनम ४०१ | इंदुमनन्यपरायण । २११ अन्तर्हिते शशिने संघ इमशिशैिरेः १९७ अपरिक्षतकोमलस्य .... २१९ इदमुपनतमेवं ... अभिजनवतो भर्तुः ... २७७ इदमुपहितसूक्ष्म ७३ अभिमुखे मयि संहृत १९७ .... | अभ्यतामेव स्नातः ३०२ ईसीसिचुम्बिआई . ३६ अभ्युन्नता पुरस्तात् १८२ अमी वेदी परितः .... ... २५९८ अयं स ते तिष्ठात .... २०० उगलिअदब्भकव... २६३ २६८ अयमरविवरेभ्यः ........ ५०८) उत्पक्ष्मणोर्नयनयो अर्थो हि कन्या परकीय .... २८१ उत्सृज्य कुसुमशय. २१६ अर्धपीतस्तनं मातुः ... ४१६ उदेति पूर्वं कुसुमं ४४० २०१ असंशयं क्षत्रपरि ... २. ८२ | उन्नमतेकभ्रूलत . अस्मात्परं बत यथ .. ३८८|उपोढशब्दा न रथा .. ४११ 1b Af. S ३९३ •... | । .... ५ % " कः क = = A • • | • •००० b D a गान्धर्वेण विवाहेन २१८ एकैकमत्र दिवसे .... .... ३६८|गाहन्तां महिषा निपान ... १४२ एवमाश्रमविरुद्ध ••• ० ००० ४२१|ग्रीवाभंगाभिरामं .... .... ९० एष त्वामभिनव .... ३९३ एषा कुसुमानिषण्णा ३७९|चळापाङ्गां दृष्टि ८९ एसा वि पिएण २७०|चित्रे निवेश्य परि १९९१ चूतानां चिरनिर्गता... .... ३४७ औत्सुक्यमात्रमव ... ... २९९ जन्म यस्य पुरोर्वशे.... .... ९८ कथं तं बन्धुरको •• ३६९ | जाने तपसो वीर्य .... .... १७९ नु कः पौरवे वसुमतीं ८९ ज्वलते का कथा बाणसंघाने .... १७३ चलतेन्धनो .. ३९७ कामं प्रत्यादिष्टां ३३२ कामं प्रिया न सुलभा .... १२९ १९णा वेक्खिओ पुरूअ .... ३०९ कार्या सैन्नतीन .... ३७९ ९७ कास्विद्वगुण्ठनवती .... ३०४| तत्साधुकृतसंधानं .... २१४| तद्धा भवतः कान्त किं शीतलैः कुम ३२६ किं कृतकार्यवेषो ३११ | तपातं तनुगात्रे २०७ तव कुसुमशरत्वं कि तावदंतिनामुपो १७७ ४४९ कुतो धर्मक्रियाविनः • ३०६ | तव भवतु बिडौजाः कुमुदान्येव शशांकः ३२८| तव सुचरितमंगुलीयं ३६६ कुल्याम्भोभिः पवन .... ६३ ॥ तवासेम गीतरागेण .... ४४ क्षुतं न कणूपंत ... .... ३७७ | तस्याः पुष्पमयी .... .... २२९ कृताभिमषमनुम .. ... ३१५/ तत्राघातप्रतिहत .... ... ११६ कृताः शरव्यं हरिणा ... ३९९|तुज्झ न अणे हिअअं ... २०३ कृत्ययोर्भिन्नदेशत्वा.... १७० |तुम सि मए यूदंकु ३४९ कृष्णसारे दचक्षुः.. .... ४९ |तुरगखुरहतस्त ... ... ११६ ॐ वयं क्व परोक्ष .... .... १७११ वन्भतः केवळा .... .... ३९७ त्वमर्हतां प्राग्रसर ३०७ गच्छति पुरः शरीरं... .. १२० |त्रिस्रोतसं वहति यो .. ४०७ 4b •••• ० ० | | 3 % • C0 • • & © b २२३ पृष्ठं. } कः भवान्ति नास्तरवः ३०३ दर्भाकुरेण .... .... साभिलाषं .. चरणः १९९ |भव हृदय १०६ दर्शनसुखमनुभव ... ... ३८२ |भानुः सकृद्युक्ततुरङ्ग ... २९२ दुिष्टया .... .... .... .... शकुन्तछ ४३९|भूत्वा चिराय चतुर २७९ दुष्यन्तेनाहितं तेजो २४६ न. मनोरथाय नाशंसे ... ... ४१९ न खर्चे न खद्यु मथ्येव विस्मरण ३२२ न नमयितुमधिज्य-... .... १३६ महतस्तेजसो बीजं ..० ४१८ नियमयास कुमार्ग ... २९८महाभागः नरपति ३०१ |कामं नीवाराः शुक्रगर्मको "... ६१ |मानुषाधु कथं स्या वा नैतच्चित्रं यदयमुदधे .... १६९ |मुक्तेषु रश्मिषु ५३ सुनसुताप्रणयस्मृति ३९८ परिग्रहबहुत्वेऽपे .... २१२ मुहरेंगुलिसंवृता पतु •••• • न प्रथमं ... २९८ |मूढः स्यामहमेषा वा ३२९ पुत्रस्य ते रण ४३६ मेच्छेदकृशोदरं १४१ पृष्टा जनेन सम १९१ |मोहान्मया सुतनु ४३३ प्रजागराखिळींभूत ३८३ प्रजाः प्रजाः .... | यतः ... स्व इव २९३ यतो षट्चरणो ८४ प्रत्यादिष्टविशेष •d« •.. ३९६४ | यथा गजो नेति सम ... ५४१ प्रथमं सारङ्गाक्ष्या ३५९| यदालोके सूक्ष्मं व्रजति । ५४ प्रथमोपकृतं मरु ... .... ४०० यदे यथा वदति क्षितिपः ३२७ प्रलोभ्य वस्तुप्रणय ४१८ यदुत्तिष्टते वर्षेभ्यः .... १६१ प्रवर्ततां प्रकृतिहिताय •.. ६४६ | यद्यत्साधु न चित्रे स्या .... ३७१ प्राणानामानेिछैन .... .... ४१४ | ययातेरेव शर्मिष्ठा .. २९६ हुडशधा स्थितस्य ४३७ ॥ यस्य त्वया व्रणविरो २६७ यात्येकतोऽस्तशिखरं .... २३८ बारूपेण प्रतिषिद्धेऽपि . स्रष्टुराद्य ..., २ ९३१ \ था सृष्टिः यास्यत्यद्य शकुन्त २५४ भवनेषु रसायकेषु ४२३ येन येन वियुज्यन्ते ३६८ b AD (*४ ०h Da

(4b .... b D D b MB a = A AD r = २१६ 5 =

  • + •

|b p श्लोक पृष्ठे. श्लोकः पृष्ठं. यो हनिष्यति वध्यं त्वां ३९४ संरोपितेऽप्यात्मानि ३८७ रथैननुद्धतास्तान ७७४ सख्युस्ते स किल ३९६ रम्यं दृष्टे यथा पुरा ३५१ संकल्पितं प्रथममेव २६४ रम्याणि वीक्ष्य मधुरान् २८८ स्तमाप ज्ञातिकुलैक ३१ रम्यान्तरः कमलिनी |संद्डुसुमशयन २०८ २६१ रम्यास्तपोधनानां १९ सम्मीलन्त न तातद्वन्धन १८० |सरसेनमनुविद्ध ७३ साक्षात्प्रियामुपगता ३७४ वर्भकाग्रनिमग्न ४१२ स निन्दन्त स्वानि वसने परिधूसरे ४२८ सायन्तनं सखीनकर्मण २२६ वाचं न मिश्रयाते ३११|सिध्यन्ति कूर्मसु मह ४० 3 विचिन्तयन्ती यमनन्य २३२ सुखपरस्य हरेरु ४०२ विॐांतरोपैः सुरसु ४०४ सुतनु हृद्यात्प्रत्या. ४३१ वैखानसं किमनया. १० ३ सुभगसलिलावगाहाः ३४ वृथैव संकल्पशत्रे १७८|सुरयुवतसंभवं. १४९ व्यपदेशमाविलयि स्तनन्यस्तोशीरं १८९ ३१७ धृणामशेक्षितपटुत्व स्निग्धं वीक्षितमन्यतो १३१ २ाक्यमरार्विखर्भ १८१ स्मर एव तापहेतु १९३ शमप्रधानेषु तपो १४५|स्मृतिभिन्नमोहतम ४२९ शममेष्यति मम शोकः २८० स्रस्तांसावतिमत्रलो १०९ शहजे किलजे विणि ३३५ स्वनो नू माया नु ३६४ शान्तमिदमाश्रमपदं ६४ स्वसुखनिरभिलाषः २९७ शापादास प्रतिहता स्वायंभुवान्मरीचे ४११ ४४३ ३७३ दन्तदुर्मुभमिदं ६७ शुभ्रूषस्व गुरून्कुरु २७५ क्षामक्षामकपोल शैलानामवरोहतीव ४०९ क्षौमं केनचिदन्दु २९१५ इती श्लोकानुक्रमणिका समाप्त ।

  • +b

b 1box • @ b | 4 |स्विन्ना •• = =0D 4b AND