अभिज्ञानशाकुन्तलम् (सटीका)/तृतीयोऽङ्कः

← द्वितीयोऽङ्कः अभिज्ञानशाकुन्तलम् (सटीका)
तृतीयोऽङ्कः
कालिदासः
चतुर्थोऽङ्कः →

तृतीयोऽङ्कः

अथ विष्कम्भकः

( ततः प्रविशति कुशानादाय यजमानशिष्यः )

 शिष्यः- अहो महानुभाव: पार्थिवो दुष्यन्तः। प्रविष्टमात्र एवाश्रमं तत्रभवति राजनि निरुपद्रवानि नः कर्माणि प्रवृत्त्तानि भवंति ।

का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ १ ॥

 यावदिमान्वेदिसंस्तरणार्थ दर्भानृत्विग्भ्य उपनयामि । (परिक्रम्यावलोक्य च आकाशे) प्रियंवदे, कस्येदमुशीरानुलेपनं मृणालवन्ति


महाननुभावः प्रभावो यस्य सः ।‘अनुभावः प्रभावेऽपि' इत्यमरः । प्रविष्टेति । तत्रभवति पूज्ये । अत्र राक्षसनिराकरणे कारणे वक्तव्ये कार्यरूपकर्मनिरुपद्रवतोक्तेः पर्यायोक्तालंकारः । का कथेति । बाणसंधाने का कथा । शरसंधानं नापेक्षत इत्यर्थः । स धनुषो ज्याशब्देनैव विघ्नान्दूरतोऽपोहति निराकरोति केनेव । हुंकारेणेवेति । एकदेशविवर्तिन्युपमा । तेन राज्ञो गणपत्युपमानत्वं गम्यते । अथवा स ज्याशब्देनैव दूरतो विघ्नानपोहति । कथंभूतेनेव । धनुषो हुंकारेणैवेति । समासोक्तिगर्भोत्प्रेक्षा धनुश्वेतनत्वारोपात् । अनयानायासेन रिपुनिबर्हणं ध्वनितम् । अस्मिन्पक्षे धनुर्ज्याशब्दयोरर्थपौनरुक्त्यं परिहृतं भवति । आकाश इति ।


कविरिदानीं कथान्तरमारभमाणो वस्तुसंघटनाय विष्कंभं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रविशतीत्यादि। यजमानशिष्यः यजमानः कण्वस्तस्य शिष्यः । खलु यतो हेतोः तत्रभवति पूज्ये राजनि । आश्रमं धर्मारण्यम् । नः अस्माकम् कर्माणि उद्देश्यक्रियाः । निरुपप्लवानि निर्विघ्नानि ततो हेतेर्महानुभावः माहात्म्यवान्। अमानुषप्रभाव इति यावत् । अहो आश्चर्ये । महानुभावत्वं निर्विघ्नत्वं चाह - का कथेत्यादिना । हि यतः धनुषः ज्याशब्देन मौर्वीध्वनिना ज्याशब्दमुत्प्रेक्षते हुंकारेणेवेति । अनेन यज्ञकर्मसमाप्तिपर्यंतं राज्ञो जागरूकत्वं व्यज्यते । विघ्नान् कर्मोपप्लावकान् अपोहत्यपसारयति। बाणसन्धाने सति का कथा का वार्ता विघ्नानामिति शेषः । कर्मोपप्लावकवार्तैव न स्यादित्यर्थः। शिष्यः स्वाग


च नलिनीपत्राणि नीयन्ते । ('आकण्यै) किं ब्रवीषि । आतपलङ्गनाद्बलवदस्वस्थां शकुन्तला । तस्याः शरीरनिर्वापणायेति । तर्हि त्वरितं गम्यताम् । सखि, सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि । (इति निष्क्रान्तः)

(इति विष्कम्भकः


तल्लक्षणं तु दशरूपके - 'किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् !श्रुत्वेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम् |' इति । नाट्यधर्मोऽयम् । आकर्ण्यकर्णनमभिनीय । तच्च पार्श्वनतेन शिरसा स्तब्धेन नेत्रेण । तल्लक्षणं तु- 'पार्श्वस्थानिमुखं यत्तु तत्पार्श्वाननमुच्यते ।' 'प्रयु(यो)ज्यमाकर्णनादौ पार्श्वस्थ्स्यावलोकने । यत्तु स्यान्निश्चलपुटं स्तब्धनेत्रं प्रचक्षते ॥' इति । विष्कम्भकः । तल्लक्षणं तु सुधाकरे - 'तत्र विष्कम्भको भूतभाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः सक्षेपैकप्रयोजनः ॥ द्विवा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः । शुद्धःकेवलमध्योऽयमेकानेककृतो द्विवा ॥' इति । तदयमेककृतः शुद्धः । अत्र , दुषन्तस्याश्रमाभ्यन्तरागमनं कृततपस्विकार्यत्वेन निराकुलत्वं सु (स) भूतसूचनं शकुन्तलाया आतपलंघनव्याजेन विरहावस्थाकथनं


सनप्रयोजनमाह - यावदिन्शदि। यावदुपहरामि समर्पयिष्यामि । आकाश इति । नाट्ये रंगमञ्चे नेपथ्यव्यतिरिक्तस्थानमाकाश इत्युच्यते ! नीयन्ते प्राप्यन्ते आतपलंघनादातरातिक्रमात् बलवद्दृढम् । अन्यस्या पीडिता | निर्वापवाद शमनार्थम् । किं प्रश्ने । अत्रप्रविष्टा प्रियंवदा तदापादाकाशभाषितमित्यवगन्तव्यम् । तदुक्तम् - "किं प्रविष्येवमित्यादि विना ब्रवीति पात्रं यः | श्रुत्वेवानुक्तमप्येकस्तत्स्याकाशभाषितम्॥" इति । नाठ्य प्रत्युक्त्यवमरप्रदानार्थमाकाशभापितं कर्तव्यम् | तदुक्तम् " प्रश्नो दूतश्च लोपश्च नेपष्योक्तिस्तथैव च | आकाशोक्तिश्च पंचैते प्रत्युक्त्यवसरप्रद्मः ||" इति| तर्हीत्यादि तर्हि तथा चेत् बलवदस्वस्था चेदित्यर्थः । शीघं यत्नेनोपक्रम्यताम् चिकित्स्यताम् । उच्छ्वसितां जीवितं जीवितकारणमिति यावत् । वैतानिकं वितानो यागः तत्संबंधि वैतानिकम् । गौतमी कण्वभगिनी । शुद्धविष्कंभः विष्कंभलक्षणं चतुर्थेऽङ्के निरूप्यते ।

(ततः प्रविशाते कामयमानावस्थो राजा)

 राजा- (निःश्वस्य)

जाने तपसो वीर्ये सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ २ ॥


भविष्यत्सूचनामिति ज्ञेयम् | कामयमानो विरही तस्येवावस्था यस्य स तथा । क्वचित् ‘कामयानः’ इति पाठः । सोऽप्यनित्यमा (त्यं मुमा)पमानुशासनमिति मुक्यकृते साधुः । तथा च वामनाचार्यसूत्रम् -'कामयानशब्दः सिद्धोऽनादिश्व' इतेि । तत्र राजानकमम्मटेन व्याख्यातम् - अनित्यमा (त्यं सुमा) गमानुशासनम्’ इति । यद्वा कामस्य यान उद्गमन आरोहणे वा या अवस्था अभिलाषाद्यास्ता यस्य सः । जान इति । अहं तपसो वीर्ये जाने । प्रसह्य धर्षणीया न भवतीति भावः । प्रसह्य घर्षणीयत्वाभावे कार्ये प्रस्तुते यदप्रस्तुतं तपसो वीर्ये जान इति कार्यमुक्तं साप्रस्तुतप्रशंसा । तर्हि सैवागमिष्यतीत्यत आह-सेति। सा बालाप्रगल्भा परवती पराधीनेत्युभयं विधेयम् । अयं व्याजो भविष्यतीत्याह - इति मे विदितम् । म इति मयेत्यर्थं निपातः । तदुक्तं वामनाचर्यैः -' तेमेशब्दे निपातौ त्वयाममेयर्थे’ इति । नपुंसके भावे क्तस्य शेपविवक्षायां चेति वा संबन्धे षष्ठी । एवं यद्यपि तथापि शकुन्तलायाः सकाशादिदं मया सह संबद्धं मां च परित्यज्य क्षणमात्रपरिचत आसक्तमिति निह्नीकं हृदयं निवर्तयितुं नालं न समर्थोऽस्मि | स्वयं न निवर्तते, मयाप्यशक्यं निवर्तनमित्यर्थः। वेदनक्रियाया हृदयनिवर्तनक्रियायाश्च विरोधः । तदा-


ततःप्रविशतीत्यादि । ततः शिष्यनिष्क्रमणानन्तरं कामयमानावस्यः प्रार्थयमानावस्थः । जन इत्यादि । तपसः वीर्ये प्रभावम् । "वीर्यें शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि” इति वैजयंती । जाने युध्ये अहमिति शेषः । अनेन यदि शकुन्तलां बलादपहरामि तदा सर्वसंहारकरी काश्यपमुनिशापो भवेदिति ध्वन्यते । सा अनुभूता तदुक्तम् । ‘प्रक्रान्तप्रसिद्धानिभूतार्थस्तच्छब्दो यच्छब्दं नापेक्षते' इति । बाला अप्रगल्भा । परवती पराधीनेति विदितम् । प्रथमेऽङ्के प्रियंवदानसूयाभ्यां शकुन्तलायाः काश्यपसुतात्वपरिग्रहत्वकथनेन ज्ञातम् । यद्यपि मुनेस्तपस्सामर्थ्यं तथापि तदधीनत्वाभावे प्रागल्भ्यवत्त्वे च तद्धटना संभवतीत्यभिप्रायः । तर्हि सा अप्रगल्भा पराधीना च मुनिशापश्च दुर्निवारो यदि तद्विषयचिन्तैव त्यज्यतामित्यत आह तथापीति ।  (मदनबाधां निरूप्य) भगवन्कुसुमायुध, त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः।


भासस्तु रतिस्वाभाव्यात् । श्रुतिवृत्त्यनुप्रासौ । मदनवाधां निरूप्येति । लोलितेन शिरसा दोलेन हस्तकेन शून्यया दृष्ट्येत्यादि ज्ञेयम् । तल्लक्षणानि तु -'शिरः स्याल्लोलितं सर्वादिक्कैः शिथिललोचनैः' इति । 'लम्बमानौ पताकौ तु श्लथांसौ शिथिलांगुली । दोलो भवेदसौ' इति । "समतारापुटा दृश्यदृष्टिः शून्यविलोकिनी' इति । अथवा दोलस्थाने कर्कटं कुर्यात् । तल्लक्षणं तु - 'अन्योन्यस्यान्तारैर्यत्राङ्गुल्यो निःसृत्य हस्तयोः । अन्तर्बहिर्वा दृश्यन्ते कर्कटः सोऽभिधीयते ॥ अन्तःस्थितांगुलिः पृष्टे त्वङ्गुलीना हनुं दधत् । चिन्तायामथ खेदे च' इति । अत एवोक्तम् - 'सूचयन्त्यान्तरं भावं ये कराः कर्कटादयः । विषण्णादिष्वपि प्रायः प्रयोज्यास्ते सतां मताः ॥' इति | विस्वसनीयाभ्यामित्यत्रोपात्तविशेष्यार्थो हेतुत्वेनोपात्तोऽवगन्तव्यः । कामिजनसार्थो विरहिसमूहोऽतिसं-


तथापि सर्वं ज्ञात्वा ततः शकुन्तलाया हृदयं सर्वकरणप्रधानभूतं मनः निवर्तयितुं नालमस्मि न समर्थोऽस्मि । तदनुगापि मम चित्तं मया निवर्त्यमानमपि तत्सौन्दर्यबलान्न निवर्तत इति भावः । अनेन राज्ञः शंकारूपव्यभिचारिभाव उक्तः उक्तं च - "अनर्थो प्रेक्षणं शंका परकीर्यात्स्वदुर्नयात्" इति । अत्र राज्ञा पित्रादिभिरदत्तशकुन्तलापरिग्रहणरूपस्वदुर्नयान्मुनिक्रोधाय शापरूपानर्थोत्प्रेक्षणं कृतम् । मदनबाधामित्यादि । निरूपयन् नितरां रूपयन् अभिनयन्निति यावत् । निमीलननिश्वसाद्यतिशयमवयवपारवश्यादिना दर्शयन्नित्यर्थः । अत्र राज्ञः शकुन्तलाहृतत्वेन पारवश्याद्यस्तेन मदनबाधाभिनयो न कर्तव्यः किन्तु सात्त्विकभावैरेवाभिनेतव्यः अत एवोक्तम् निरूपयन्निति । तदुक्तम् भरतेन "विषण्णे मूर्च्छिते हीते जुगुप्साशोकपीडिते । ग्लाने सुप्ते विहस्ते च निश्चेष्टे तंद्रिते जडे ॥ व्याधिग्रस्ते ज्वरार्ते च भयार्थे शीतविप्लुते । मत्ते प्रमत्ते चोन्मत्ते चितायां तपसि स्थिते ॥ न हस्ताभिनयो योज्यः कार्यः सत्वस्य संग्रहः ॥" इति विषण्णादिशब्दास्तत्तत्संचारिवाचकाः विषणादिषु पारवश्याद्विवेकाभावेन यथोचितहस्ताभिनयाभावात्केवलं स्तम्भस्वेददीनदृंष्ट्यश्रुपातगद्गदत्वादिभिरेवाभिनयो योज्यः । केवलहस्ताभिनये तादृशचमत्काराभावादित्यर्थः । भगवन्नित्यादि । भगवन्निति साक्षेपवचनं । यद्वा । दैन्योक्तिः कुसुमायुध पुष्पायुधेत्याक्षिप्यमाणार्थेन संभोधनम् । अनेनेतरधन्विवलैक्षण्यमुक्तम् । चन्द्रमसेति | "चदि आल्हादने" इत्याह्लादकार्थश्चंद्रशब्दः । विश्वसनीयाभ्यामुक्तनाम्नः सार्थकत्वभ्रमेण विश्वासयोग्याभ्याम् अतिसन्धीयते बाह्याकारेण वंचयित्वान्तर्निगूढं

तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ।। ३ ।।


धीयते वञ्च्यते। ‘अतसमौ वञ्चने ’ इति गणपाठात् । तदेवाह - तवेति । कुसुमशब्देनात्यन्तपेलवत्वं ध्वनितम् । कुसुमशरस्य भावः कुसुमशरत्वम् । अत्र चूर्णिकायां चन्द्रमसा चेत्युक्तेस्तवेतिवत्सर्वनामपरामर्शो न्याय्यो नेन्दुपदोपादानम् । तेन “त्वमस्य द्वयम्’ इति पठनीयम् । अयथार्थम् । तेन विपरीतार्थमित्यर्थः । “तदन्यतद्विरुद्धतदभावेषु नञ्चर्तते' इति विरुद्धार्थोऽत्र नञ् । मद्विधेषु विरहिष्वित्यर्थः । अत्रापि मयीति विशेषे प्रस्तुते सामान्योक्तेरप्रस्तुतप्रंशसा । अयथार्थत्व उत्तरवाक्यार्थं हेतुत्वेनाह - विसृजतीति । यत इन्दुः, हिमं गर्भे येषां तैः । अनेन कालत्रयेऽप्युषणत्वशङ्कामात्रमपि नास्तीति व्यज्यते । मयूखैः किरणरग्निं विसृजति किरति । अवज्रसारान्वज्रसारान्करोषि वज्रसारीकरोति । यद्वा वज्रवत्सारीकरोषि दृढीकरोषि । काव्यलिङ्गं रूपकमुपमा । क्रमेण हिमगर्भैः-


बाध्यते । सार्थः समूहः न त्वहमेक एवेत्यभिप्रायः। उक्तमर्थमुपपादयति-तव कुसुमेत्यादिना । तवेत्येकवचनेन मदनस्य नैर्घृण्यादनभिजातत्वं सूच्यते । कुसुमशरत्वमित्यनेन लोकानां विश्वसनीयतायां पराकाष्ठा सूचिता । "इंदि क्लेदेन" इत्यस्य धातोः स्वरव्यत्यासेनामृतवद्रूपार्थ इंदुशब्दः । शीतरश्मित्वमित्यनेन शीतलत्वे सर्वलोकसंवादः सूच्यते । द्वयदिदम् अनुभूतं द्वयमपि अयथार्थम् । यथाशब्दाः सादृश्ये श्रूयमाणार्थो यथा तादृगर्थरहितम् । मद्विधेषु केवलं माये न मत्सदृशेषु सर्वेष्वित्यर्थः। दृश्यते स्फुटं विभाव्यते नतु लोकवार्तामात्रमिति यावत् । अतिसन्धानप्रकारमाह -हिमगर्भैर्मयूखैरग्निं विसृजतीति । गर्भशब्दस्त्वावरणवाचकः । एषामंतःस्थिताग्नेर्हिममावरणं तैः किरणैरिति यावत् । अग्निं हिमेन प्रच्छाद्य मुंचतीत्यर्थः । कुसुमान्येव बाणाः शोषणमोहनादिलक्षणारविंदाशोकादिबाणाः तान् वञ्जसारीकरोषि अवज्रसारान्कोमलान्वज्रसमानदार्ढ्यान् करोषि यथा वज्रं पर्वतं भिनत्ति तथा मम हृदयं पर्वतादप्यधिकतरधैर्यमुद्भिद्य भिनत्तीत्यर्थः । क्रियापदे वर्तमानार्थप्रत्ययेन जीवितसंशयं गते मय्यद्यापि बाणान्मुंञ्चसीति व्यज्यते तेन च तस्य नृशंसत्वं सूचितम् । हिमगर्भैर्मयूखैरग्निं विसृजतीत्यनेनात्युद्दीपकतया । निश्यपि निद्राच्छेदरूपा चतुर्थी स्मरदशा सूचिता । अनेन निश्यपि निद्राभावात्स्वप्नेऽपि तस्याः संगमो नास्तीति सूच्यते । विसृजतीति वर्तमानव्यपदेशेन दिवा चंद्रकिरणाभावात्पूर्वरात्रानुभूतचंद्रकिरणानां गाढव्यथाकारित्वं सूच्यते अतिदुःखानुभवादद्याप्यनुभूयमाना इव चंद्र  (विचिन्त्य) भगवन्मनोभव ! कुतस्ते कुसुमायुधस्य शरतक्ष्ण्येमतत् ? (स्मृत्वा) आं ज्ञातम् ।

अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वत्यौर्व इवाम्बुराशौ ।
त्वमन्यथा मन्मथ ! मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥४॥

अथवा ।

अनिशमपि मकरकेतुर्मनसो रुजमावहन्नपि मतो मे ।
मयि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ ५ ॥

भगवन् कामैवमुपालभ्यते न मां प्रत्यनुक्रोशः ।

वृथैव सङ्कल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् ।
आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥६॥


रग्निमिति गुणद्रव्ययोर्विरोधः । विप्रलम्भस्वाभाव्यादाभासत्वं चूर्णिकया श्लोकपूर्वार्धे यथालंकारः कुसुमेषु यद्बाणत्वमारोपितं तद्विरहदुःखदत्वेन प्रकृतोपयोगीतेि परिणामश्च । आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणात् । त्वं त्वेति मिन्दोमिंदमिति छेकवृत्त्यनुप्रासौ । मालिनीवृत्तम् । उत्तरार्धे क्रमप्रक्रमभङ्गो विरहणो राज्ञो वचनमिति परिहर्तव्यः । 'त्वमिह कुसुमबाणान्वज्रसारान्विधत्से विसृजति स च वह्निं शीतगर्भर्मयूखैः' इति वा पाठः । अत्र च पाठे शीतपादोपादानादुद्देश्यप्रतिनिर्देश्ययोरेकपदोपादानलक्षणो गुणाः । इन्दुशब्दानुपादानात्कथितपददोषाभावश्च


मयूखा दृश्यन्त इति भावः । यद्वा वर्तमानसामीप्ये लट्प्रत्ययः तेन चेतःपरं पुनरपि रात्रौ चंद्रकिरणजनित दुःखमागतप्रायमिति द्योत्यते रात्र्यागमनात्प्रागेव प्रतीकारः कर्तव्य इति भावः । कुसुमबाणानिति बहुवचनेन मदनजनितयहुदुःखानुभवेन स्वस्य मरणसध्रीची दशा सूच्यते । यद्वा बहुवचनेनैकैकस्य वाणस्य मदनस्तु नैष्फल्यं मत्वातिक्रोधेनामोधास्त्रमपि मुक्तवानिति द्योत्यते । अत एवोक्तं वप्रसारीकरोषीति । तेन च स्वस्य जीवितस्य कालाक्षमत्वं व्यज्यते । अत्र श्लोके गर्हणं नामालंकारः तदुक्तम् –“यत्र संकीर्तयेद्दोषं गुणमर्थेन दर्शयेत् । गुणातिपाताद्दोषाद्वा गर्हणं नाम तद्भवेत् ॥” इति वस्तुनि दोषकथनाद्वा गुणाभावकथनाद्वा गर्हणं भवति । अत्र इंदुमदनयोर्गर्हणं कृतं न


( सखेदं परिक्रम्य )

 क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि । (निःश्वस्य) किं नु खलु मे प्रियादर्शनादृते शूरणमन्यत् । यावदेनामान्विष्यामि । (सूर्यमवलोक्य) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । तत्रैव तावद्गच्छामि ।


स्वीकृतो भवति । श्लोके च यथासंख्यालंकारः । संस्थितेऽघासिते । सदसि साधवः सदस्यास्तैरुपद्रष्टृभिः । ‘सदस्या विधिदर्शनः' इत्यमरः । क्व नु खलु विनोदयामीत्यन्वयः । विनोदेन कौतुकेन क्लेशमपहरामीति भावः । अन्यत्र क्वचिदपि विनोदनाभावान्निःश्वस्येत्युक्तिः । तत्र दीर्घत्वमुष्णत्वं विरहितत्वादवसेयम् । अन्यथैतदुक्तेरेव वैयर्थ्यात्तस्य स्वभावत । अन्यत्किं खलु शरणं रक्षकम् | न किंचिदित्यर्थः |'ततः प्रविशति' इत्यादिनैतदन्तेनोद्वेगो नाम पञ्चम्यवस्था सूचिता । तल्लक्षणं तु - ‘मनसः कम्प उद्वेगः कथितस्तत्र विक्रियाः । चित्तसंतापनिःश्वासौ द्वेषः शय्यासनादिषु ॥ स्तम्भचिन्ताश्रुवैवर्ण्यदीनत्वादय ईरिताः ||' इति । मालिनीति नदीसमाख्या ।‘यावदेनाम्’ इत्यादिना 'गच्छामि'


गुण उक्तः । क्व नु खल्वित्यादि । खलु जिज्ञासायाम् । सवनकर्मणि यज्ञकर्मणि संस्थिते परिसमाप्ते सदस्यैः ऋत्विग्भिः । क्लांतं विरहपरंपराजनितदुःखपीडितम् आत्मानं चित्तम् । निश्वस्येत्यादि । खलु यतो हेतोः । मे एतादृशावस्थापन्नस्य मम प्रियदर्शनादृते अविच्छिनाकांक्षालंबनीभूतनायिकादर्शनमन्तरेण शरणं रक्षितृ किमित्याक्षेपे अन्यत्किमपि नास्त्येवेत्यर्थः । यावदन्विच्छामि अन्वेषयामि । अनेन विलासो नाम प्रतिमुखसन्ध्यंगमुक्तम् । तदुक्तम् -“दर्शनालिंगनादीच्छा विलासः परिगीयते” इति । अत्र दुष्यन्तस्य शकुन्तलादर्शनादीच्छया विलासः । इमामित्यादि । मालिनीतीरेष्विति बहुवचनेन शकुन्तलाया अपि स्वविरहजनितदुःखानुभवोऽस्तीति राज्ञा सूच्यते । विरह्पीडितजनस्यैकत्रावस्थितेरसंभवात् । तथा मेघसंदेशेऽपि प्रयुक्तं "रामगिर्याश्रमेषु" इति । अनेनोभयानुरागः सूचितः न चेद्रसाभासप्रसंगः स्यात् । तदुकम् काव्यप्रकाशे । "एकत्रैवानुरागश्चेत्तिर्यड्म्लेच्छगतोऽपि वा । योषितो बहुसक्तिश्चेद्रसाभासः प्रकीर्तितः ||’ इति । तथा भावप्रकाशिकायामप्युक्तम् "श्रृंगारो हास्यभूयिष्ठः श्रृंगाराभास ईरितः” इति । श्रृंगारस्यारागस्त्वनैकरागस्तिर्यग्गतो म्लेच्छगतश्चेति चतुश्च हास्यभूयत्वम् । तत्रारागस्वेकत्र रागाभावः । नन्वेकत्र रागाभावाद्रसस्याभासत्वं न युज्यते


( परिक्रम्याव्लोक्य च ) अनया वालपादपवीथ्या सुतनुरचिरं गतेति तर्कयामि । कुतः

सम्मीलन्ति न तावद्बन्धनकोशास्तयावचितपुष्पाः।
क्षीरस्निग्धाश्चामी दृश्यन्ते किसलयच्छेदाः ॥ ७ ॥

(स्पर्शं रूपयित्वा )। अहो ! प्रवातसुभगोऽयं वनोद्देशः ।


इत्यन्तेन परिसर्पो नामाङ्गमुपाक्षिप्तम् । तल्लक्षणं तु-‘दृष्टनष्टानुसरणं परिसर्प इतीरितः’ इति | अहो इति । अकस्माद्वातस्पर्शसंजातसुखेनाश्चर्यम् । प्रकृष्टो वातस्तेन सुभगो मनोहरः । अत्र सौभाग्यं चेतनधर्मः संदेशे न संभवतीति मुख्यार्थबाधेन यो मनोहरः स सुभगो भवतीति कार्यकारणसंबन्धेन मनोज्ञत्वं लक्षयन्विरहितमनोविनोदनत्वादिकं ध्वनति ॥


यतः रत्नावल्या प्रथमजानानुरागे वत्सराजे जातानुरागायः रत्नावल्याः "दुल्लभजणाणुराओ" इत्यादौ पूर्वानुरागस्याभासत्वप्रसंगोऽस्तीति चेदुच्यते । अभावो हि त्रिविधः प्रागभावोऽत्यन्ताभावः प्रध्वंसाभावश्चेति । तत्र प्रागभावे दर्शनादिकारणेषु रागोत्पत्ति संभावनयाभासत्वं इतरयोस्तु कारणसद्भावेऽपि रागानुत्पत्तेराभासत्वमेव । केचित्तु त्रिधेन रागाभावे रसस्याभासत्वं प्रतिजानते । अन्ये तु तिर्यङ्म्लेच्छगतयोराभासत्वं न युज्यते तयोर्विभावादिसंभवे नास्वादयोग्यता प्रतीतेरिति वदंति तथा विद्याधरेणैकावल्यां समर्पितम् । अपरे रमाभावं तिर्यक्षु प्रचक्षते तन्न परीक्षाक्षमं तेष्वपि विभावादिसंभवात् । विभावादिज्ञानज्ञानशून्यास्तिर्यञ्चो न भाजनं रसस्य भवितुमर्हन्तीति चेन्न मनुष्येष्वपि केषुचित्तथाभूतेषु रसविषयाभावप्रसंगात् । विभावादिज्ञानं नामौचित्यविवेकः तेन शून्यास्तिर्यञ्चो न विभावनामर्हन्ति तर्हि विभावादिज्ञानरहितेषु मनुष्येषु रसाभावप्रसंग इति चेन्नैष दोषः विभावादिसम्भवो बहीरसं प्रति प्रयोजको विशिष्टप्रयोजकः । विशिष्टप्रयोजकत्वांगीकारे विवेकादिविशेषानुप्रवेशोऽङ्गीकृतः । ननु सीतादिविभावैर्वस्तुमात्रैरेव योषिन्मात्रप्रतीतौ सामाजिकानां रसोदयः न पुनर्विशिष्टैः तत्कथमिति चेदुच्यते । तत्र जनकतनयात्वरामपरिगृहीतृत्वाद्यतिविरुद्धधर्मपरिहारेण ललितोज्ज्वलशुचिदर्शनीयत्वादिविशिष्ट एव सीतादिभावो योषित्सामान्यं तादृशमेव ज्ञापयति न पुनः स्त्रीजातिमात्रमिति सर्वं निरवद्यम् । तत्रैवेत्यादि। तावद्गच्छामि गमिष्यामि । तत्रैवेत्यनेन स्वस्थेनरकार्यवैमुख्यं सूच्यते । अनेन परिसर्पो नाम प्रतिसुखसन्ध्यंगमुक्तम् । तदुक्तम् "दृष्टस्यादर्शने पश्चात्परिसर्पो गवेषणम्" इति । अत्र प्रथमदृष्टायाः शकुन्तलायाः पश्चाद्दर्शनार्थं मालिनीतीरगतं दुष्यन्तेन विचारितमिति परिसर्पः । अहो इत्यादि । उद्देशः प्रदेशः प्रवाल-


  शक्यमरविन्दसुरभिः कणवाही मालिनीतरंगाणाम् ।
  अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ८ ॥


शक्यमिति । एतादृशः पवनोऽनङ्गतप्तैरङ्गैरविरलं गाढं यथा स्यादेवमालिङ्गितुं शक्यम् । मालिनीतरंगाणामित्यनेन तरंगोत्पादनोक्तेर्मन्दत्वं ज्ञेयम् । अत्र पवनोऽङ्गान्यालिङ्गतीति कर्तृकर्मवद्भावे वाच्ये यद्वैपरीत्यं कृतं तेषामतितानवमतिशयससंतापत्वं तस्य च तद्दूरीकरणेन दुःखदायित्वं व्यज्यते । अत्र प्रियादर्शनेनात्मविनोदनकार्यमारभमाणस्य पवनोऽपि तत्कार्यत्वे सहायेनोपात्त इति समाहितालंकारः । ' कार्यारम्भे सहाप्राप्तिः । इति तल्लक्षणात् । अत्र मालिमालीति ङ्गचतुष्टयस्योपादानाच्छेकानुप्रासः । श्रुत्यनुप्रासस्य त्वनेन सहैकवाचकानुप्रवेशलक्षणः संकरः । वृत्त्यनुप्रासश्च । अरविन्दवन्मनोज्ञः शीतलः पवनः पवित्रः सखालिङ्गनेन सुखमुत्पादयतीति समासोक्तिरपि! 'सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभिः स्मृतः’ इति विश्वः । ननु पवनस्य सर्वर्तावप्युद्दीपकत्वात्तस्य विरहित्वात्पवन आलिङ्गितुं शक्य इति तस्य मनोविनोदहेतुत्वं कथमिति चेत्। इमामुग्रातपां वेलां मालिनीतीरेषु शकुन्तला गमयति' इति पूर्वमुक्तेरत्र च मालिनीतरंगणां कणवाहीत्युक्तेर्नायिकासंस्पृष्टत्वं व्यज्यते । तेन विनोदकारित्वमुक्तमेव । अनेनैवान्यत्राप्युक्तम् "आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः । पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥" ननु 'शकि सहोश्च’ इति कर्मणि यकि कृते सह्यं शक्यमिति रूपम् । तेन सहपवनस्य भिन्नलिङ्गस्य सामान्याधिकरण्यं कुत इति चेन्न । महाभाष्यवचनात्सिद्धम् । 'शक्यं च श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्' इति । तथा


सुभगः प्रकृष्टो वातो यत्र स तथोक्तः तेन सुभगः मनोहरः विविधक्रीडोचितप्रदेश इत्यर्थः । अनेन यदि शकुन्तला मिलति तदा तया सममत्र विविधक्रीडां कर्तुं शक्यत इति द्योत्यते । प्रवातपदेन क्रीडापरिश्रमजनितस्वेदापनयने इतरजनतालवृंतादिनैरपेक्ष्यं व्यज्यते । विविक्तप्रदेश इति भावः । वातस्य प्रकृष्टत्वं शैत्यमान्द्यसौरभ्यवत्त्वम् । तदेवाह-शक्यमित्यादिना । अरविन्दसुरभिरित्यनेनारविन्दस्पर्शान्मान्द्यं सौरभ्यं चोक्तम् । कणवाहीत्यनेन शैत्यमुक्तम् । अनंगदग्धैः चंद्रकिरणकोकिलालापादिस्मरोद्दपिनविभावक्लिष्टैः अंगैः सर्वावयवैः अविरलं, गाढमालिंगितुं शक्यम् । भवितव्यं भवत्विति विरहिजनाग्निज्वालायमानः मनः File - II-Tनाति न्यायेनालिंगितुं योग्यम् । शक्यमित्यव्ययं न चेच्छक्य इति प्रयोगादिना मार्गयमाणेऽपि "शक्यमञ्जलिभिः पातुं (परिक्रम्यावलोक्य च) अ[]स्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया तया[] भवितव्यम् । तथा[]हि । (अधो विलोक्य)

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपंक्तिर्दृश्यतेऽभिनवा ॥ ९ ॥


च वामनसूत्रम् - “शक्यमिति रूपं त्रिलिंगवचनस्यापि कर्माभिधायां सामान्योपक्रमात् ? इति । अभ्युन्नतेति । पुरस्तात्पादाग्रभागेऽभ्युन्नता । उन्नतत्वं च सापेक्षमति पश्चाद्भागापेक्षयोन्नतमं ज्ञेयम् । पश्चात्पार्ष्णिदेशे जघनगौरवान्नितम्बगौरवात् । “जघनं कटौ । स्त्रियः श्रोणिपुरोभागे" इति हैमः। अवगाढा निम्नेति स्वभावोक्तेिः प्रतिबिम्बितपदपंक्तिः । 'पदं शब्दे च वाक्ये च पादतच्चिह्नयोरपि’ इति विश्वः । ‘पादन्यासे पादमुद्रा सुप्तिङन्ते पदं भवेत्’ इति क्षीरस्वामी । अस्य वेतसलतामण्डपस्य । पाण्डुः सिकता यत्र तस्मिन् । एतेन तत्प्रतिबिम्बयोग्यत्वं ध्वनितम् | पाण्डुशब्देनोद्दीपकत्वम् । ‘यावद्रम्यमुज्ज्वलं च' इत्युक्तेः । द्वारे दृश्यते । तत्प्रवेशसूचनार्थं द्वारग्रहणम् । अनेन पथा लतामण्डपं प्रवि-


वाताः कैतकगान्धिनः ।" इति । अंगैरिति बहुवचनेन सर्वावयवानां तत्तदुचितसार्वकालिकतदीयचुम्बनसंभाषणालिंगनरहस्यश्रवणाद्यौत्सुक्याधिक्यं ध्वन्यते । अनंगदग्धैरित्यनेन सर्वावयवानां पारवश्यकथनेन स्वस्योचितकार्येष्वपि वैमुख्यं सूच्यते । तेनालस्यग्लानिश्रमचित्ताद्या व्यभिचारिण उक्ताः । अविरलशलिंगितुं शक्यमित्यनेनातिदुःखानुभवाज्जीवितनैराश्येन कांताविरहेऽपि स्वशरीरे जीवतीति तत्र जुगुप्सा व्यज्यते । पवन इत्यनेन मलयानिलं प्रत्यौग्र्यं व्यज्यते । ननु "आलस्यौग्र्यजुगुप्साभिर्भावैस्तु परिवर्जिताः । उद्भावयंति श्रृंगारं सर्वे भावाश्च संश्रयाः ॥" इति भरतेनोक्तत्वाच्छृंगारे आलस्यौग्र्यजुगुप्सानामयुक्तत्वाद्वर्जिता एव भावा अंगतां भजन्त इति चेन्न । विप्रलंभे आलस्यौग्र्यजुगुप्सानामपि सम्भवात् । तथाहि सर्वकार्येष्वलसता चन्द्रमलयानिलादिष्वय्ग्र्यम् । इष्टजनविरहेऽपि स्वशरीरे चलति तत्र जुगुप्सेति साहित्याम्नायरहस्यम् । अरविन्दसुरभीत्यनेन तापेपशमनार्थं मृगलनलिनीपत्राण्यत्र सन्ति शकुन्तलापि तापोपशमनार्थं मृणालादिकं गृहीत्वात्रैव क्वचित्तिष्ठतीति राज्ञोऽभिप्रायः । तथैवाह सत्यमस्मिन्नित्यादि - लतामंडपे लतागृहे सन्निहितया भवितव्यमिति संभावनया लता मंडपाद्वहिः कोऽपि जन दृश्यते यदि तिष्ठति तदा कतिपयजनसहितैव तिष्ठेदित्यभिप्रायः । लतामंडप इत्यनेन लतानां विवरात्स्वस्य । गौप्यदर्शनानुकूल्यमुक्तं तेन प्रदेशस्य विविक्तत्वं व्यज्यते । अभीति । अभ्युन्नता अभित उन्नता अभ्युप-


 यावद्विटपान्तरेणावलोकयामि। (परिक्रम्य तथा कृत्वा ! सहर्षम् ) अये, लब्धं नेत्रानिर्वाणस्। एषा में मनोरथप्रियतमा सकुसुमा- स्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां विस्रम्भकथितानेि । ( इति विलोकयन्स्थितः )


ष्टेति कारणे बक्तव्ये यत्तत्कार्यरूपपदपंक्तिवर्णनं तत्पर्यायोक्तम् । हेतुश्च । अत्र राजा लतामण्डपट्टरिं न गतोऽस्ति । तत्पृष्टभाग एवास्ति । तत एव पदपंक्तौ ढाष्टिः पतिता । पपंक्तिश्च प्रवेशसूचिका । अत एव पूर्वे पुरोभा गस्य पश्चात्पश्चाद्भागस्य वर्णनामिति वण्र्यक्रमभङ्गो नाशङ्कनीयः । भोजेन तु ‘ प्रत्यक्षमक्षजं ज्ञानम् ’ इतेि प्रत्यक्षानुकारोऽङ्गीकृतः । उदाहृतं च वीक्ष्यते स्म शनकैर्नववध्वा ’ इति । तेन पपंक्ति—श्यत इति प्रत्यक्षालं. कारः । ‘सदृशात्सदृशज्ञानमुपमानं द्वियेह तत् । स्यादेकमनुभूतेऽर्थेऽन- नुभूते द्वितीयकम् ॥" इति । तेनैवोपमानालंकार उक्तः । तेनात्राप्यभ्युन्नते- त्यादिविशिष्टपदपंक्तौ तस्या इयमिति ज्ञानं सोऽयमनुभूतार्थविषय उपमा नालंकारः । अथ च विशिष्टपदपंक्या तसहे तत्सद्भावानुमानाचें कारोऽपि । यदाहुः- आपि चास्त्यनुमानेऽपि सादृश्यं लिङ्गलिङ्गिनोः । पदेन यत्र कुठजेन कुञ्जपादोऽनुमीयते ॥ ९ इति । श्रुत्यनुप्रासश्च । विटपान्तरेण शाखावकाशेन । ‘अंतरमवकाशावधि' इत्यमरः । नेत्रनिर्माणं नयनानन्दमित्यतिशयोक्तिः । नायिकालक्षणस्य विषयस्य निगीर्णत्वात् । मनोरथप्रियतमेति रतेरनिर्वाहा । विस्रम्भकथितानि विश्वसभणितानि।


सर्गेण चित्तपारवश्याद्वमने पादयोवैषम्यं द्योत्यते । बुद्धिपूर्वकगमनं न भवतीति यावत् । जघनगौरवादित्यनेन पूर्वानुभूततदीययौवनपरिपोषदशा स्मरणमुक्तम् । पदपंक्ति- रभिनवेत्थनेनेदानीमेव लतामंडपे प्रविश्च विलंभालापादिकभितःपरं श्रोतुं शक्यते । चिराद्रमने सति बिलँभालापादिश्रवणसिद्धिरिति व्यज्यते । अयेत्यादि । अत्रे इति ह । नेत्रनिर्वाणं नेत्रयोनिंबणं श्रेयः लब्धं चिरानेत्रसद्भावस्य साफल्यं जातमिति यावत् । स्वाभिलाषविषयभूतदर्शनीयवस्तुदर्शनजनितपरमानन्दानुभवो जात इत्यभिप्रायः । नेत्र निर्वाणं लब्धमित्यनेनैतः परमन्येन्द्रियाणामपि संभाषणलिंगनादिभिस्तृप्या भाव्यमिति व्यज्यते । मनोरथप्रियतमा मनोरथस्य संकल्पस्य प्रियतमा उचिता । संगमे सति ये ये मदननिकारास्ततदंगेषु कर्तव्या इति मनोरथस्तस्योचितांगीति यावत् । भवतु यथा


( ततः प्रविशति यथोक्तव्यपारा सह सखीभ्यां शकुन्तला )

 सख्यौ--( उपवीज्य । सस्नेहम् ) हला सउन्दले, अब सृदि दे णलिणीपतवाद । [ हला शकुन्तलेआपि सुखयाति ते नलिनीपत्रवातः ।
 शकुन्तला-( सखेदम् ) किं वीरुअन्ति में सहीओ । [ किं वीजयतो मां सख्यौ ]
फलकम्:C( सख्यं विषादं नाययित्वा परस्परमवलोकयतः )


समो विस्रम्भविश्वसौ ’ इत्यमरः । यथोक्तव्यापारा । मदनबाधया शीतलशयनतलनिपतना ( ननलिनीपत्रवाता ) द्र्यािपारः । अपीति प्रश्ने । सुखयति ते नलिनीपत्रवातः । किं वीजयतो मां सख्यौ । अनेन तापाधिक्यं तैनान्यविषयासंवेद्यत्व च ध्वनितम् । विषयनिवृत्तिश्चव स्थोक्ता अनेन विधूतं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके –– वंद्वात् रयारतिः ’ इति । विपादं नाटयित्वेति । घृतेन शिरसा विषण्णया दृष्टया चेति ज्ञेयम् । तल्लक्षणं तु--पर्यायेण शनैस्तर्यग्गतमुक्तं घृतं शिरः । “ विपादे नेप्सिते ज्ञेयम् ? इति । ‘ या दृष्टिः पतितापाङ्गा विस्तारितपुटद्वया । निमेषिण्पस्ततारा च विषण्ण सा विपादिनी इति । परस्परमवलोकयत इति शङ्कासूचकम् ।


वथा या सखीजनसहिता तितु । ताबक्रमेण । यथेतव्यापरा राजनिर्दिष्टावस्था । हळेत्यादि । अपीति प्रश्ने । अत्र सतीतिपदेन सखस्यान्मनि किमपि गोपनयं हृदि स्थतं शकुन्तलाया नास्तीति व्यज्यते । अत्र सखपदमेवालं शकुन्तलशब्दप्रयोगस्तु भिप्रश्रः । अदाह्र भागुरिः ॐ धातुजं धातुजज्ञातं समर्थार्थअमेव च । वाथरों व्यतिकरौ च निर्वाच्यं पंचधा पदम् ॥ । ’’ इति । तदयमत्राभिप्रायः । नापवशान्मा नवती ध्यानवती च श्यते तर्दियमधिगतशच्दार्थशासना इदानीं स्वनामग्रहणे मदभि प्रायं ज्ञात्वा सेनं ध्यानं च परित्यज्य संतापविषयं कारणं विविच्य वदिष्यतीति शकुन्न लाशब्दप्रयोगस्याशश्रः । मुखायेत्यत्र तादर्थे ऽस्वतिविकल्पेन चतुर्थी । किमिति प्रश्नेन तापनिशयाशचिंतया व्यजनयतो नानुभूयत इति ज्ञायते । विंपदमित्यनेन प्रारब्ध


 राजा–( आत्मगतम् ) बलवदस्वस्थशरीरा शकुन्तला दृश्यते । ( सवितर्कम् !) तात्किमयमातपदोषः स्यात्, उतै यथा मे मनसि वर्तते ।( साभिलाषं निर्वर्थं ) अथवा कृतं संदेहेने ।

स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं
प्रियायाः साबाधं कॅिमाप कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो
नतु ग्रीष्मस्यैवं सुभगमपराद्धे युवातिषु ॥ १० ॥


बलदधिकम् । कृतमरुमित्यर्थः । ‘कृतमिति निवारणनिषेधयोः ’ इति भोजकृतसरस्वतीकण्ठाभरणवृत्तौ। स्तनेति । स्तनयोर्युस्तशरं नळदा नुलेपो यत्र तत् । अत्र तरुणस्तनौ हिमकाळ उष्णे ग्रीष्मकाले शीतला विते कामशास्त्रमर्यादा । तत्काले तु तयोस्तादृशोरपि स्तनयोस्तापाधिक्यं द्योतयितुं स्तनन्यस्तेत्युक्तिः । न हृदि न्यस्तेति । शिथिलितं शिथिटें संजातं मृणालस्यैकं मुख्यं वलयं यत्र । संतापान्छुष्कत्वेन शैथिल्यम् । एकमि. त्यनेन वलयान्तरासहत्वं ध्वन्यते । “ एके मुख्यान्यकेवळः ' इत्यमरः । वयस्यकरनियमिलस्थितेः प्राप्तत्वात्तदग्रहणम् । आसमन्ताद्वधया पीडया सह वर्तमानम् ।° पीडा बाधा व्यथा ' इत्यमरः । आङग पीडायाः सर्वाङ्गतत्वं व्यज्यते । पीडायुक्तं न , अपि तु पीडया सह वर्तमानम् ।। एतेन कतिपयकालकलाजनितापि पीडा शरीरोत्पत्तिकालादारभ्यैव


पचारक्रियायाः वैफल्यद्विपाद इत्यवगंतव्यम् । बलवदित्यादि । वलवदृष्टम् । अस्वथा पीडिता । तत्रभवती सर्वाकारनिरवद्य । किमिति चिंतकै आतपदेष इत्थमेन वर्तमान समयस्येतरत्वंपेक्षयातिसंतषकरत्वं व्यज्यते तेन व शकुन्तलाशरीरस्यातपस्पर्शसहलक्षण- सौकुमार्यं न ज्ञायते । नायिकशरीरगतसौकुमार्यमद्युद्दीपकहेतुर्भवति । तदुक्तम् “ उड़ी घनाश्चतुर्धाः स्युरातृवनसमाश्रयाः । गुणचेष्टालंकृतयतस्थावेति भेदतः ॥ " तत्र गुणाः। ८ यौवनं रूपलावण्ये सौंदर्यमभिपता । मार्दवं चैौकुमार्यं चेत्यालंवनगता गुणाः । ॐ इति । चेति विकल्पे । मदनदोष इत्यनेन नायकविषयझगाढानुरागस्तेन च विप्रलंभजनि- तज्वराख्यमदनदशावस्थान्तरं सूच्यते । स्थादिति संभावनायां लिङ्। उभयथा उभयप्रका- रेण । आतपस्पर्शजनिततापो वा मदनयरो वैत्युभयथेति यावत् एवं संदिह्यथवेत्यादि पक्षान्तरेण सावाधत्वेऽपि रमणीयत्वदिभिः करणैर्मदनतप एवेति निश्चिनोति । स्तन न्यस्तशीरिभित्यादिना । स्तनयन्यैस्तमर्पितमुशरं नरूदसंबंधिलेपनं यस्य तत्तथा ।


वर्तत इति ध्वन्यते । कीदृशम् । प्रियाया इति साभिप्रायम् । वपुः किंमागे लोकोत्तरचमत्कार । कमनीयमिते विधेयम् । एतादृशसंता पेऽपि सत्यातिशयशोभायुक्तामिति भावः । काममित्यनुमतो । ६ निका मानुमतौ कामम् ' इत्यमरः । मनसिजनेिदाघप्रसरयोः कामग्रीष्मवे गयोस्तापः समस्तुल्यौ यद्यपि, तथापि ग्रीष्मस्य निदाघस्य युवातष्वपराङ तापरूपम् । एवं लावण्यशेषतया परिदृश्यमानं सुभगं न तु नेवेति व्यतिरेकः। “ तु स्याद्वेदेऽवधारेण ' इत्यमरः । तेन कामकृतः परिताप इति भावः । युवातेिष्विति सामान्यनिर्देशादप्रस्तुतप्रशंसा । ग्रीष्मस्येतेि संवन्धमात्रे यी । स्तस्त इति किमकमेति छेकवृत्तिश्रुत्यनुप्रासाः । अत्र यद्यपि कथितपदपभिय ग्रीष्मपराद्वपदे उपात्ते । तथापि तन्नोचितम् । अत्रेद्देश्यविधेयभावविषयतया तदेव दातव्यं भवेत् । उदात सविता ताम्रस्ताम्र एवास्तमेतेि च ’ इतिवत् 1 एतद्यतिरिक्त विषयत्वात् । काश्चतपणापवादविषयं परित्यज्येवोत्सर्गस्य प्रवृत्तेः । तेन ‘ निदाघस्यैतादृयुवतिषु न तापस्तु सुभगः ? इति पठनीयम् ।


एतद्घ्राणेनांस्तपशमनं भयस्विति स्तनयोरुशीरलेपनमिति व्यज्यते । अनेन स्तनयोः शन्नं च व्यय स्तनन्यस्तमिति स्ननमत्रपरिच्छेदकथनेनात्युच्चस्तनोशीरलेपने सति निःश्वसगतागतसमये तधल्वंतरींगति भवः । न तु सर्वावयत्रन्यस्तशरमति प्रयुक्तम् । अनेन दीर्घभि:धसत्यं बुद्धिपूर्वकंरगन्धास्राणाभावात्सर्याचयत्रपारवश्यं च द्योत्यते । किंतुखीभ्यामैत्र स्तनग्रोश्शूरं न्यस्तमियभिप्राय: । प्रशिथिलमृणालंक वलयं प्रकर्षेण शिथिलं गलन्गृणालवलयं विसकंकणं यस्य तत्तथोक्तम् । एकशब्दः केवळघाचकः प्रोपसर्गेण विप्रलंभवयुक्तशरीरसंपकद्विसवलशानि शुष्कतां प्राप्य शिथिर लीभवन्तीति व्यज्यते । |नेन दनश्वरस्य प्राबल्यमुकम् । यद्वा प्रतिक्षणं शरीरकार्य यशान्पृलानि गीताति व्यज्यते तेन च कार्यं नाम सदनावस्थान्तरमुकम् । यद्वा शरीरस्यभिरौकुमार्यान्मृणालम्भश्चैशहगतया शिथिलं यथा भवति तथा सर्वाभ्यां मृण। लवलयभषग्रवेष्वपिंतभिति प्रशिथिभियनेन व्यग्रते । प्रियायाः स्वाभिलापविषयभूत- नायिकायाः शावभं सयथम् । तदपि सव्यथमपि कमनीयं प्रविषयकविप्रलंभज्नर जनितव्यथया दर्शनयम् । इदमिति प्रत्यक्षनिर्देशेन यद्वपुः पूर्वमानैश्यत्वेन दृष्टं तदिति सर्वावयवप्रत्याक्षता व्यज्यते । नर्सिजनिदाघग्रसरयोः मन्मथफीष्मप्रचारयोः तापहः कर्म यद्यपि समस्तुल्यः तु तथापि विशेषोऽस्ति युवतिg युवतिविषये न त्वेकत्र किंतु सर्वासु युवातिच्चिति यावत् । अपराह्नस्य नपुंसकत्वं भावै त इति प्रत्ययः । एवं ने परिदृश्य मानप्रकारेण मुभगं न दर्शनीयं भवति । ग्रीष्मतापोऽतिविलक्षण इति यावत् । सुभगत्वा न्मदनताप एवेत्यभिप्रायः । अनेनानुमानं नामसन्ध्यंगमुक्तम् । यदाह-‘‘ अग्नह्यो नु मानं स्यात् इति । अत्र तापातिशयेन शरीरस्याप्यन्तवाधेऽप्यनपीयमानमवण्या  प्रियंवदा–( जनान्तिकम् ) अणएतस्स राएसेिण षढ मदंसणादो आरहिअ पज्जुस्सुओ विअ सउन्दळ । किं तु क्डू से ताण्णिमित्तो अयं आतङ्कवे भवे । [ अनसूये, तस्य राजर्षेः प्रथम शंनादारभ्य पर्युत्सुकेव शकुन्तला। किं नु खलु तस्यास्तान्निमि तोऽयमातङ्को भवेत् ॥

 अनसूया--सहि, ममवि इंदिसी आसॐ हिअअस्स । होदु । पुच्छिस्सं दाब णं । ( प्रकाशम् ) सहि । पुच्छिदव्वासि किंषि | बलवं क्खु दे संदावो । [ सखि, ममापीदृश्याशङ्का हृदयस्य ! भवतु । प्रक्ष्यामि तावदेनाम् । सखि । प्रष्टव्यासि किमपि, बलवा न्खङ ते संतपः ।

 शकुन्तळा–( पूर्वाधनं शयनादुत्थाय ) हला, किं वनुकामानि { हला, किं वक्तुकामास ]


अस्मिन्पाठे षष्ठदोषोऽपि परितः अनसूये , तस्य राजर्षेः प्रथमदर्श नादारभ्य पर्युत्सुकेव शकुन्तला । तस्यां मिथ्यारोपभियेत्रशब्दोपादानम् किं नु खलु तस्यास्तन्निमित्तोऽथमातङ्को भवेत् । साख, ममापीदृश्याशङ्क ह्यस्य । ममापि हृदययेति संबन्धः । हृद्ग्रहणेन तास्मन्फुरणमात्र मुक्तं न तु तत्त्वतः । अत एवशङ्कापदम् । भवतु । प्रक्ष्यामि तावदेनाम् । सखि, प्रष्टव्यासि किमपि । बलवान्खऊ ते संतापः । पूवर्धनत । शरी रस्येति शेषः “ पूर्वेण ? इति पाठे शरीरार्धेनेत्यार्थम् । किं वक्तुकामासि


दिन मदनतापो निश्चयत इत्यनुमानम् । अणस्सूए इत्यादि । तस्य राजर्षेरित्यनेन लोके रूपलावण्याद्यतिशयवत्पुरुषविशेषेषु सत्स्वपि स एव स्ट्टुपाधितया मनोविश्रतिहेतु रिति दुष्यन्ते उरकर्मसंभावना व्यज्यते तेन च महाकुलीनत्वेन रूपpदिभत्तया च तस्मिन्नभिलाषवत्यै शकुन्तलाया हेतुरुक्तः । प्रथमदर्शनादारभ्येत्यनेन पुररषि यज्ञकर्मादौ वहुवारदर्शनं सूच्यते । असकृद्दर्शनेनैव हि तत्कृतसाकूतावलोकनचेश्चाविशेषाणां स्खचि ययनुरागजन्यत्वं सम्यक् ज्ञायते । तथा मालतीमाधवेऽपि ‘‘ भूयो भूयः सविधनगी यया इत्यादौ । तेन च प्रथमदर्शनानंतरं शकुन्तलायाः दुष्यन्तदर्शनार्थं कुतनाना व्याजादिकं सूच्यते । पर्युत्सुकेत्यनेन गाढानुरागात्तद्दर्शनप्रभृथुचितकार्यवैमुख्यं इष्यते । आपनेल्यमेन वस्तुसौंदर्यंबल्लाळूढमूलानुरागतया विरहपरंपराजनितस्थुतिर्गुणगणोद्वेगाद्यवस्थाः द्योत्यन्ते । आतंकः दुःखपरंपरा । भवेदिति विधौ लिट् । अनभ्यन्तरा।ह अविषयः ।

क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
  मध्यः क्लान्ततरः प्रकामविनतावंस छविः पाण्डुरम् ।
शोच्या व प्रियदर्शना च मदनक्टेियमालक्ष्यते
  पत्राणामिव शोषणेन मरुता स्पृष्टा लतात माधवी ॥११॥


क्षामेति । क्षामक्षामौ कुतरौ पूर्वं कुशावधुना कृशतरौ कपोलै यत्र तदाननं मुखम् । उरः काठिन्येन मुक्तौ स्तनौ यत्र तत् । इदुभयं काश्यदेव । पूर्वं क्लान्तः कुशः, अधुना कान्ततरो मध्यः ! अंस पूर्वमेव विनतौ, अधुना प्रकाममत्यर्थं विनतो ! छबिः पाण्डुरेतेि विरहकार्यादेव । शोच्या शोचनीया च प्रियदर्शना च हृद्यदर्शना चोते विरोधः । शोच्यानुकम्पार्हति तदाभासः । मदनेन द्विष्टेतेि शोच्यते हेतुत्वोपादानान्काव्यलिङ्गम् । कैव । माधयो वासन्ती लतेव । कीदृशं । शोष्यतेऽनेनेति शेषणः ।” करणाधिकरणयोश्च ” इति ल्युट् । तेन पत्राणां शोषणेन मरुता पश्चिमवायुना स्पृष्टा । स तु तस्या आप शोपक इति हृिष्टत्वम् । । माधवीशब्देन प्रियदर्शनत्वमुक्तं लतामात्रस्यैव कार्थसंभवात् । उपाभानुप्रास । शार्दूलविक्रीडितं वृत्तम् । “ वक्त्रं क्षाम कपोलयुग्भृशमुरः ' इति ‘छान्ततरोऽसयुग्ममधिकं नग्न छविः ’ इति पाठ उद्देश्यप्रति निर्देशप्रक्रमभङ्गः प्रकामविशब्दयोरर्थोपोनरुक्त्यं च परिहृतं भवाति } ¢ संस्पृष्टा दृशोषणेन मरुता सा माधवीव प्रिया ’ इति पाठ


क्षामेत्यादि । कपोलयोः स्वाभाविकी क्षमता इदानीं विरहपरंपराजनितदुःखेनातिशयेन जातेत्यर्थः । काठिन्यमुकस्तनमिति । प्राथविशेषेण सर्वोचथयदर्थेऽधि कुचयोः परि शाहे न चिंहतः केवलमीपस्काठिन्थपरित्याग एवेस ध्वन्यते । अन्यथा प्रियदर्शनस्वानु पपत्तेः । मध्यः कान्ततर इति । कृशोदरीत्वेन स्तनजघनभाराभ्यां च मध्यः पूर्वमेव कान्तः संप्रत्यतिशयेन प्लान्त इत्यर्थः । अनेन कार्यं नमावस्थान्तरमुकम् । प्रकामविनतो अंसै स्तनभाराभ्यां पूर्वमेव नती इदानीं प्रकर्षेण विंनतावित्यर्थः । छविः पांडुरेति पूर्व मविद्यमानैव पांढ़तता । अनेन पांडत्वं नामावस्थान्तमुक्तम् । शच्या एतादृक्पथे- पुथययवानामैवं क्षमतादिजननेन शोचनीया । प्रियदर्शनाः । अत्रषत्रमतादिमत्स्येऽपि लावण्यस्यातिशयितवैन स्वविषयानुरागजनितक्षामतादिमस्थेन च प्रियदर्शनः । दर्शनं दृष्टिः तस्याः परमसुखदर्शनत्वेन प्रियस्चम् । रम्याणां विकृतिरपि शोभावहेत्यर्थः । तदुओं भोजेन ‘‘ किंचिदाश्रयसौंदर्याइते शोभामसावपि । कान्ताविलोचनं न्यस्तं मलमस मिवांजनम् ॥ ॐ इति । पत्राणामत्रत्वादि दृष्टान्तः । अत्र शेषणेन पांडुवा कथिता ।  शकुन्तल--सहि, कस्स वा अण्णस्स कहइस्सं । आआसइ त्तिआ दाणिं वो भविस्सं । [ सखि, कस्य वान्यस्य कथयिष्यामि । आयसयित्रीदानीं वां भविष्यामि |

 उभे-अदो एव्वं क्खु णिब्बन्धो । सिणिद्धजणसंविभत्वं हि दुक्खं सज्झवेदणे होदि। [ अत एव खङ निर्बन्धः । निग्धजनसं विभक्तं हि दुःखं सह्यवेदनं भवति ]  राजा--

 पृष्टा जनेन समदुःखसुखेन बाला
  नंयं न वक्ष्यति मनोगतमाधिहेतुम् ।
 दृष्टे विवृत्य बहुशोऽप्यनया सतृष्ण-
  मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ १२ ॥


इवप्रयोगप्रक्रमभङ्ग लताशब्दस्यावकरत्वं च परिहृतं भवति । सखि कस्य वान्यस्य कथायेष्यामि । आयासयिनी युवयोरिनीं भविष्यामे । अतो न कथयामीत्यर्थः । अत एव खञ्च निर्बन्धः । यदेवाकथने कारणत्वेन निबद्धं तदेव कथने हेतुत्वोनोपात्तमिति व्याघातालंकारः । सौकर्येण कार्यं विरुद्ध क्रिया च । इति लक्षणात् । स्निग्धजनसंविभिन्न हेि दुःखं सह्यवेदनं भवतीत्यर्थान्तरन्यासः। पृष्ठेति। जनेनाधिहेतुं मनः ।


मरुता स्मृति माधवीलतायां मलयमारुतस्पर्शनांकुरादिजननाद्दर्शनीयतों । अत्र कान्तिर्नाम त्रीणां स्वाभाविकाळ्कार उकः । तदुकम् “ रूपयौवनाद्यतिशयः शोभा तस्यैव मन्मथविकारोपधंहितत्वे कन्तिः ” इति । अत्र मन्मथजनितकार्येsपि मनोहर त्वात्कांतिरुता । सहीत्याहि । अन्यस्य कथयिष्यामीति भविष्यत् व्यपदेशेनेतः पूर्वं कस्यापि न कथितमिति द्योत्यते । युवयोरकथनादेवैवं दुःखमनुभूयत इति भावः । इदानीं मय्यैतदवस्थान्तरं गतायां सत्यांमित्यर्थः । आयासयितृका प्रयासकारिणी । भविष्यामीत्यनेन स्वस्येप्सितमतिं विना दुःखं न गच्छतीति ज्ञाप्यते । तेन च सख्योः सार्वकालिक्रस्वाभिलषितवस्तुसंपादनैकपरत्वं सूच्यते । अत एव अकथनदेव निर्बधः प्रयासः संविभकं खङ सम्यग्विविच्य प्रकटितं चेत् सद्यवेदनं तप्रतीकारोपायचिन्तया सोढं शक्यमित्यर्थः । पृष्ठंत्यादि । इयं परिदृश्यमाना एतदवस्थानंतरं गतैयमिति


 शकुन्तला--सहि, जदो पहुदि मम दंसणपहं आअदो स तवोव- णरक्खिदा राएसी, तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थह्मि संवुत्ता। [ सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवन- रक्षिता राजर्षिः, तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ]


पीडाकारणं पृष्टा । ‘पुंस्याधिर्मानसी व्यथा ' इत्यमरः । इयं बाला मनो- गतं सत्यं न वक्ष्यतीति न । अपि तु वक्ष्यत्येव । एतदर्थमेव नञ्द्वयम् । बालेतेि कैतवानभिज्ञत्वं ध्वन्यते । सत्यवचने हेतुगर्भ विशेषणमाह-सम- दुःखसुखेनेति । तेन काव्यलिङ्गम् । हि निश्चितमनया तरलायतलोचनता सतृष्णं साभिलाषं यथा स्यादेवं विवृत्य परावृत्य बहुशो दृष्टोऽप्यहमत्रा- न्तरेऽवसरेऽस्मिन्नवसरे तद्वचःश्रणे कातरतां भीतिं प्राप्तोऽस्मि । किं वक्ष्यतीति भयमित्यर्थः । नवा नवेति मतमतेति ( गतगतेति ) छेकवृत्ति- श्रुत्यनुप्रासाः । वसन्ततिलकावृत्तम् । सखि, यतः प्रभृति मम दर्शन-


यावत् । अनेन मरभसध्रीचीनदशावत्तया वक्तव्यं सावशेषं न वदिष्यतीति द्योत्यते किंतु वक्तव्यं सर्वं वदिष्यतीत्यर्थः । तर्हि प्रौढा चेल्लज्जया न वक्ष्यतीत्यत आह-बाला अप्रगल्भा । अनेन ब्रीडया प्रौढेव प्रच्छाद्य वक्तुं न जानातीति द्योत्यते । किंतु दुःखसहने धाष्टर्याभावात्फुटमेव वदिष्यतीति यावत् । तर्हि यद्यपि बाला तथाप्यन्यत्र कथनशंकया न वदेदित्यत आह-समदुःखसुखजनेन पृष्टेति सखीजनेन पृष्टेति यावत् तेनान्यत्र कथनशंका निरस्यते । आधिहेतुं चित्तदुःखकारणम्। ‘‘आधिस्तु व्यसने चित्त- दुःखेऽधिष्ठानबन्धयोः ।" इति वैजयन्ती । मनोगतं चित्तसंबंधिनं वक्ष्यतीति न उक्त- हेतुभिर्न बदिष्यतीति न किंतु वदिष्यत्येवेत्यर्थः । समदुःखसुखेन पृष्टेत्यनेन तद्वचनस्या- नुल्लंघनीयत्वं शकुन्तलाहृदयमर्मज्ञत्वं च व्यज्यते । मनोगतमाधिहेतुमित्यनेन शरीरकार्श्या- दीनां सुभगत्वान्मदनताप एवेति प्रागेव स्तन्न्यस्तोशीरमित्यादिना निर्णीतः । न त्वातपदो- पकथनशंका किंतु परयुद्धेरप्रत्यक्षत्वात्तद्विषयकं किं वक्ष्यतीति द्योत्यते । अत एवोक्तं मनोगतमिति । आत्मनो दुःखस्य स्वनिमित्तत्वमाह-दृष्ट इत्यादिना । अनया परिदृश्य- मानया दृष्टः नतु सख्योरभिप्रायमात्रेण तदीयतापस्य स्वविषयकवनिर्णय इत्यर्थः । तर्हि कादाचित्कदर्शनेन कथमनुरागनिर्णय इत्यत आह-बहुश इति । बहुशः वारंवारभित्यर्थः ।। उत्तमनायिकाया ललितविलोकनं स्वाभविकमिति तदुपपत्तिमाह-सतृष्णमिति । सतृष्णं सस्पृहम् । अनेन संदिग्धवीक्षणमुच्यते । विवृत्तेत्यनेन स्वकीयदर्शनार्थं तथा कृतदर्भांकुर- चरणक्षतादीनि व्याजानि सूच्यन्ते । अत्रान्तरे प्रश्नोत्तरक्षणे। श्रवणकातरतामाकर्णनभी- रुताम् । सहीत्यादि । मम दर्शनपथं गत इत्यनेन दर्शनीयतया वस्तुसौंदर्युप्राबल्यमुक्तं तेन च सौंदर्यादयो बाह्यगुणाः कथिताः । तपेवनरक्षितेत्यनेन शौर्यदाक्षिण्यादय


१ ( सजलम् ) इल. क्व. पु. । २ गदो ( गतः ) इ. पा. । राजा-( सहर्षम् ) श्रुतं श्रोतव्यम् ।

 स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः।
 दिवस इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ १३ ॥


पथमागतः स तपोवनरक्षिता राजर्षिस्तत आरभ्य तद्गतेनाभिलाषेणैतद- वस्थास्मि संवृत्ता । स्मर इति । यस्तापहेतुः स एव निर्वापयितेति विरोधाभासः । वस्तुतस्तु तद्गतः स्मरस्तापहेतुर्नायिकागतो निर्वापयि- तेत्यर्थः । अत एव मे प्रतिकूलं दैवं स्मरेण मां तापयतीयं तेनैव मां निर्वापयतीति प्रतीतेर्व्यङ्ग्यो व्याघातालंकारः । ‘यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः ’ इतेि तल्लक्षणात् । तत्रोपमामाह— दिवस एवेते। तपात्यये निदाघात्यये । प्रावृडारम्भ इत्यर्थः।‘उष्ण उष्णा- गमस्तपः ’ इत्यमरः । अर्धश्यामोऽर्धे मेधाक्रान्तत्वाच्छ्यामः सच्छायः पूर्वाह्णे सातपोऽपरत्र सच्छायो वा दिवसो जीवलोकस्य प्राणिव- र्गस्य तापयिता निर्वापयिता च यथा भवति । वृत्त्यनुप्रासः ।


अंतरगुणाः उक्ताः । यत्राकृतिस्तत्र गुणा वसंतीति श्रवणात् । राजर्षिरित्यनेन महाकु- लीनत्वं महदैश्वर्यं च सूचितं तेन च स्वस्य तस्मिन्ननुरागवत्त्वे हेतुरुक्तः । तपोवनरक्षिते- त्यनेन विलापो नाम षष्ठी स्मरदशा सूचिता । तदुक्तम् –“इह स्थित इहासीन इह चोपगतो मया । इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत् ॥ उद्विग्नात्यर्थमौत्सुक्यादरत्या च विलापिनी । इतस्ततश्च भ्रमति विलापस्थानमाश्रिता ॥” इति । उद्वेगातिशयात्परिदेवन विलाप इत्यर्थः । विलापसान्निध्यमेवोन्मादायतनं शंकाबीजम् । तदुक्तम् “ विलापा- तिशयादेव प्रकृतिविपर्ययादुन्मादः सप्तम्यवस्था ॥ " इति । अत्रैव पूर्वाचार्येयोविप्रति- पात्तिः । यतः किल मल्लनागाचार्यः सप्तममुन्मादमाह वात्स्यायनस्त्वष्टसमिति । श्रुत- मित्यादि । शकुन्तलया स्वशरीरसंतापस्य दुष्यन्तनिमित्ततया कथितत्वाच्छ्रोतव्यं श्रुत- मित्युक्तम्। स्मर इति । स्मर एव मदन एव तापहेतुः स्वस्य शकुन्तलायामनुरागमुत्पाद्य विरहपरंपराजनितदुःखेन संतापकरो जात इत्यर्थः । निर्वापयिता संतापशमयिता जातः स्वस्य यथा शकुन्तलायामनुरागं संपादितवान् तथा तस्या अपि स्वस्मि- न्ननुरागं संपाद्य तच्छरीरकार्श्यादीनां स्वनिमित्तश्रवणादनुरागस्योभयोरनुरागत्वान्मूर्ध- न्यतया फलोन्मुखं कृतवानित्यर्थः । मदनस्तु पक्षपातरहितो जात इति भावः । तत्र दृष्टान्तमाह-दिवस इवेत्यादि । तपात्यये ग्रीष्मान्ते अभ्रैर्मेैघैः श्यामः नीलः वर्षोन्मुख इति यावत् । वर्षाकाले एक एव दिवसः कंचित्कालं ग्रीष्मापेक्षयात्यर्थं तपति । स एवानन्तरक्षणे अभिवर्ष्य शैत्यजनको भवति । तथा रत्नावल्यामपि ‘‘ तपति


 शकुन्तला-तं जइ व अणुमदं तां तह वट्टह जह तस्य राए- सिणो अणुकम्पणिज्जा होमि । अण्णहा अवंस्सं सिञ्चध मे तिलो- दअं । [ तद्यदि वामनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चतं मे तिलोदकम्। ]

 राजा-–संशयच्छेदि वचनम् ।

 प्रियंवदा -( जनान्तिकम् ) अणमूए, दूरगअबम्महा अक्खमा इअं कालहरणस्स । जस्सिं वद्धभावा एसा सो ललामभूदो पोरवाणं । ता जुत्तं से अहिलासो अहिणन्दिदुं ! [ अनसूये, दूर- गतमन्मथाक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तदुक्तमस्या अभिलाषोऽभिनन्दितुम् ]


तद्यदि युवयोरनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि अन्यथावश्यं सिंचतं मे तिलोदकम् | अनेन शमो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु- तस्योपशमनं यत्तु शमनं तदुदाहृतम्’ इति । दूरगतमन्मथाक्षमा कालहरणस्य । अत्राद्यावस्थात्रयं प्रथममेवोक्तम् । तनुतानन्तरमेवोक्ता ।


प्रावृषि नितरामभ्यर्णजलागमो दिवसः इति "। तम् इत्यादि । यत्स्वशरीरसंतापस्य दुष्यन्तविषयत्वं मया कथितं तदित्यर्थः । युवयोरनुमतं यदि स्वानुरागस्य रूपलावण्य महाकुलीनत्वाद्याभिजात्यगुणविशिष्टपुरुषविशेषविषयतया युवयोर्मनसि पतितं चेदित्यर्थः । तथा वर्तेथामित्यनेन तत्प्राप्त्युपाये दृढप्रयत्ने भूत्वा मम जीवितं धारयेथामित्यर्थः । यथानुकंपनीया भवामीत्यनेन स्वस्य दुष्यन्तविषयगढानुरागो विद्यते तस्यापि स्वस्मिन्ननुरागोऽस्ति वा नवेति न जान इति व्यज्यते । यद्यनुरागः स्यात्कथमेतादृशा वस्थापन्नां मामुपेक्षत इति भावः । राजर्षेरित्यनेन राज्ञस्तु लोकोत्तरबहुवल्लभासु सतीषु कथमरण्यवासिन्यां मयि तस्यानुरागो भवेदिति व्यज्यते । यथान्तःपुरस्त्रीभ्यः स्वस्मिन्न- धिकगुणाः सन्ति तर्हि मयि राज्ञोऽप्यनुरागः स्यादिति भावः । येन केनापि प्रकारेण तत्प्राप्त्युपाये यतनीयमित्यभिप्रायः । वैपरीत्ये दोषमाह- अन्यथेति अन्यथा तत्प्राप्त्यभावे । उदकं सिंचतं निवापजलं प्रयच्छतम् ! अनेन स्वस्य मरणमेव शरणमित्याशयः । तेनात्मन आसन्नमरणसमानदशा सूच्यते । सिंचतमिति विध्यर्थेन स्वस्यापि जीवित- विषये नैराश्यं व्यज्यते । विमर्शच्छेदीत्यादि । विमर्शच्छेदि संशयापनोदि । प्रियंवदा शकुन्तलावचनव्यंग्यं मरणरूपमित्येवेति निधाय ब्रूते । अणसूये इति । अत्र मन्मथ


 अनसूया-तंह यह भणसि। [ तथा यथा भणसि। ]

 प्रियंवदा -( प्रकाशम् ) साहि, दिट्ठिआ अणुरूबो दे आहेणिवेसो। साअरं उज्झिअ कहिं वा महाणई ओदरइ । को दाणिं सहआरं अन्तरेण अदिमुत्तलदं पल्लविदं सहेदि। [ सखि, दिष्ट्यानुरूपस्तेऽभिनिवेशः । सगरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणतिमुक्तलतां पल्लवितां सहते ]


किं वीजयतो मां सख्यौ’ इति विषयनिवृत्तिः । एतयोरग्रेऽभिलाषकथनादेव त्रपानाश उक्तः । परिहार्यावस्थात्रयमेवावशिष्टमितेि दूर्गतमन्मयत्वम् । तथा च कद्वये- नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽर्थसंकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥ ' इति । ननु पूर्वमभिलाषचिन्तनेत्यादिदशावस्था उक्ताः । अधुना तु नयनप्रीत्यादय उक्ता इति पूर्वापरानाकलनादिति चेन्न । आचार्यमतभेदमात्रत्वात् । अत एवोक्तम्- 'अभिलाषाद्यवस्थानां चक्षुःप्रीत्यादिकास्वपि। संभवादितरत्रापि तासां स्यादैक्यमेव तत् ॥ चिरंतनप्रसिद्ध्या तु विविच्य कथिता इमाः ॥’ इति । यरिमन्वद्धभावा सानुरागैषा स ललामभूतः प्रधानं पैरवाणाम् ! ता तस्माद्युक्तमस्या अभिलाषोऽभिनन्दितुम् । युक्तमिति प्रकृतत्वाल्लिङ्गविपर्ययः प्रथमायां वा द्वितीया । यथा भणसि तत्तथैवेत्यर्थः। दिष्टया दैवेनानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लविनीं सहते । स्वीयत्वेन परिगृह्णातीत्यर्थः । मालादृष्टान्तः । पूर्वत्र


शब्देन मदनावस्थाः कथ्यन्ते । दूरगतमन्मथा अन्वर्थमन्मथावस्था । मदनावस्थासु बह्वचोsवस्था अतिक्रान्ता इत्यर्थः । अत एव कालहरणस्याक्षमा विलंवे सति चरमा मरणावस्थैव भविष्यतीति यावत् । अवस्थाः कथ्यन्ते । शृंगारस्यांकुरितत्वपल्लवितत्वकुसुमितत्वफलितत्वहेतवो द्वादशावस्था भवन्ति ।‘‘ चक्षुःप्रीतिर्मन:संगः संकल्पोऽथ प्रलापनम् । जागरः कार्श्यमरतिर्लज्जात्यागोऽथ संज्वरः । उन्मादो मूर्छना चैव मरणं चरमं विदुः । ” इति । सहीत्यादि । यथा भणसि तत्तथैवेत्यर्थः। अभिनिवेशः अनुरागप्रकर्षः अनुरूपः अनुरागस्य महाकुलीनराजर्षिविषयकतया योग्य इत्यर्थः । दिष्ट्या अनायासेन ते तव आश्रमवासि-


 राजा---किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।

 अनसूया---को उण उवाओ भवे जेण अविलम्विअं णिहुअं अ सहीए मणोरहं संपादेह्म । [ कः पुनरुपायो भवेद्यनाविलाम्बितं निभृतं च सख्या मनोरथं संपादयावः ]

 प्रियंवदा -णिहुअं त्ति चिन्तणिज्जं भवे । सिग्धं त्ति सुअरं । [ निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।]

 अनसूया---कहं विअ । [ कथमिव ]

 प्रियंवदा-णं सो राएसी इमस्सिं सिणिद्धदिट्ठीए सुइदाहिलासो इमाई दिअहाइं पजाअरकिसो लक्खीअदि । [ ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते ॥ ]

 राजा--सत्यमित्थंभूत एवास्मि । तथा हि ।


नायिकायाः कर्तृत्वमुक्तम् । उत्तरत्र नायकस्येति विशेषः । द्विदेवत्वाद्विशाखयोर्द्वित्वम् । युक्तमेवैतयोरेतस्या अनुमोदनमिति भावः । एतदभिप्रायमेव विशाखयोर्द्वित्वम् । शशिलेखात्वेन स्त्रीलिङ्गनिर्देशश्च । विशाखे शशाङ्कलेखा चाप्रस्तुता । तासां वचनादप्रस्तुतप्रशंसा । तया च सख्योः शकुन्तलायाश्च प्रकृतानां योग्यसमागमत्वेन समालंकारो व्यज्यते । कः पुनरुपायो भवेद्येनाविलम्बितं शीघ्रं निभृतं गुप्तं च सख्या मनोरथं संपादयावः । निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् । कथमिव | ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते । उक्तस्य पुरुषत्वाद्विशेषतो राजत्वात्तत्रापि स्वयं दुष्यन्त इति विषयनिवृत्तित्रपानाशलक्षणे अवस्थे एनं प्रति न वर्णिते । अधीरत्वे-


न्यास्तवेति यावत् । अतिमुक्तलता माधवीलता। निहुअमिति । निभृतं गूढम् अप्रकाशमिति


१ चिंदा ( चिंता ) इति क्व० पु० पाठः । २ एसो ( एषः ) इति क्व० पु० पा० । ३ इमाइ दिअहाइ ( इमानि दिवसानेि ) इति क्व० पु० पा० । ४ अस्याम् इति क्व० पु० ।।

 इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
  निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः।
 अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धना-
  त्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १४ !


नानौचित्यप्रसङ्गात् । इदमिति । निशि निशि प्रतिरात्रम् । अनेन दर्शनात्प्रभृत्यद्य यावदेतदवस्था द्योतिता । भुज उपधानीकृते न्यस्तो योऽयमपाङ्गो नेत्रान्तस्तत्र प्रसर्तुं शीलं येषां तैः । अत्र प्रजागराच्छय्ययां परिवृत्तिविवर्तनैः सत्यप्युपधाने तस्य निष्फलत्वाद्भुजोपधानत्वमुक्तम् । अन्त- स्तापादशिशिरैरुप्णैरश्रुभिर्विवर्णा मणयो यत्र तत् । अविवर्णमणि विवर्णमणि संपादितं विवर्णमणीकृतम् । अनेनापि दीर्घकालमियमवस्था व्यज्यते । स्वभावत एव वलयस्य शिथिलत्वे कामावस्थाकृततनुताप्रतीतिर्न भवतीति तस्य स्वभावस्थितिसूचकं विशेषणमाह । अनभिलुलितोऽस्पृष्टो ज्याघाताङ्को येन तत् । तदुपरिभागे गाढत्वेन स्थितत्वात् । एतादृशं कनकवलयम् । कनकेति शैत्यद्योतनाय । वलयमित्येकवचनेन विरहित्वात्सर्वाभरणपरित्यागो द्योत्यते । स्रस्तं स्रस्तं वारंवारं पाणिमूलमागतं कार्श्यात् । मणेर्बन्धनमत्र मणिबन्धनं भुजस्य पाणेश्च संधिः । तस्मान्मया राज्ञा दुष्यन्तेनापि सता मुहुर्वारंवारं न तु सकृत्प्रतिसार्यत ऊर्ध्वं नीयते । स्वभावोक्तिः । अथ च प्रजागरत्वे कृशत्वे च कारणे वक्तव्ये यत्तयोरश्रु-


यावत् । शीघ्रं स्फुटं प्रकाशमित्यर्थः । सत्यमित्यादि । सत्यं तत्त्वतः । इदमिति । इदं कनकवलयं मया प्रतिसार्यत इति योजना । कीदृगित्याह । अंतस्तापादिति । वाष्पस्या- ग्निसंबंधाभावेनोष्णत्वमसंभाव्यमिति । तदुपपत्तिमाह अंतस्तापादिति । विप्रलंभजनितज्वरेण सर्वांगसंतापवत्त्वात्ततोऽग्निच्छलतः बाष्पस्योष्णत्वोपपत्तेः । निशि निशि वीप्सायाम् । अनेन सार्वकालिकतदेकतानगाढानुरागजनितचिंता व्यज्यते । भुजन्यतापांगप्रसर्पिभिरिति । अरत्या शय्योपधानाद्यभावेनान्यकान्तालिंगनादिसंभावनाभावाच्च स्वभुजमेवोपधानीकृत्य शयने क्रियमाणे अपांगस्य तत्संयोगित्वेन ततः सर्वदा प्रसरणशीलैरित्यर्थः । श्रुतिभिरिति वहुवचनेन सार्वकालिकनियंत्रणप्रसरणमुच्यते । विवर्णमणीकृतमिति । स्वाभाविककान्तिमन्तोऽपि मणयः उष्णजलादिसंवंधेन दर्पणादिवद्विवर्णा भवन्तीति च्विप्रत्यय उक्तः । अनतिलुलितज्याघातांकमिति । ज्याघातेन प्रकोष्ठस्य किणितत्वेन वलयं तत्र क्षणं प्रतिवद्धं भवतीत्यर्थः । अनेन स्वस्य शूरतया युद्धवीरत्वं सूच्यते । स्रस्तं स्रस्तमिति


 प्रियंवदा-( विचिन्त्य ) हला, मअणलेह से करोअदु । इमं देवप्पसादस्सावदेसेण सुमणोगोविदं करिअ से हत्थअं पावइस्सं । [ हला, मदनलेखोऽस्य क्रियताम् । इमं देवप्रसादस्यापदेशेन सुमनोगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि ]


भिर्विवर्णो बन्धनान्निःसार्यत इत्युक्तिः ( स ) लेशः । हरिणीवृत्तम् । मदनलेखस्तस्मै क्रियताम् । इमं मदनलेखं देवप्पसादस्सावदेसेण देवप्रसादस्यापदेशेन व्याजेन सुमनोगाोपितं पुष्पगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि । सुमनगोपितं कृत्वा देवप्रसादव्याजेन हस्तं प्रापयिष्यामीत्यन्वयः । विरहिण्याः स्वावस्थासूचको निवद्धो लेखो मदनलेख इत्युच्यते ।


वीप्सायाम् । यदा मुहृुन्तरय दोलाहन्तता तदा स्रस्तं भवतीर्थः ! भवेति स्वानुभवविषयतोक्तः। प्रतिसार्यत इति प्रतिकूलं प्रकोष्ठदुःखं नीयते । वर्तमानव्यपदेशेन सार्वकालिकप्रतिसरणमुक्तम् । अश्रुभिर्विवर्णिमणीकृत इत्यनेनाश्रुनामसात्त्विकभाव उक्तः । तदुक्तम्- ***जृंभाभयक्रोधसुखैरनिमिषेक्षणैः । वियोगरोगशोकादेर्जायतेऽजनधूमता !' इति अत्र वियोगजनिताश्रुपातः सात्त्विकभावाः निरूप्यन्ते। सत्त्वं चित्तं तत्र स्थितान्। स्थायिनो रत्यादीन्सञ्चारिणो निर्वेदादींद्याभिव्यंजयंतः सात्त्विका उच्यन्ते । यदाहुः " रजस्तमोभ्यामस्पृष्टं मनस्सत्त्वमिहोच्यते । निपुंतास्तेन तद्योगात्प्रभंतीहि सात्त्विकाः ॥" इति । सतश्चित्तस्य भावः परिणामः सत्त्वं सत्त्वशब्देन रत्यादिः शृंगारादिनिर्वेदादिश्चोऽच्यते। सर्वेषां चित्तपरिणामस्वरूपात् तेन निष्पन्नाः सात्त्विकाः ते च कृत्रिमाकृत्रिमभेदेन विविधाः । साक्षान्नायकादिगता अकृत्रिमाः नटादिगता कृत्रिमाः । नाट्यशास्त्रे सत्त्वशब्देनान्तःकरणपरिणाम उच्यते । यद्यपि तत्परिणामरूपस्य रत्यादिभावरससमुदायस्य स्तम्भन्विद्धादय कटाक्षादयश्च व्यंजकाः तथापि विक्षिप्तचित्तैरपि कटाक्षादयः कर्तुं शक्यन्ते । स्वेदायस्तु समाहितचित्तानामेव भवन्तीति नटादिभिरिपि समाहितचित्तैरेव तद्भावापत्त्या स्वेदादयोऽभिनेया इतेि । स्वेदादीनामेव सात्त्विकत्त्वम् । आंगिकवाचिकाहार्याणां विक्षिप्तचितैरप्यभिनेतुं शक्यत्वेन तेषामभिनयत्वमेव न सात्त्विकत्त्वमिति भावः । शुद्धान्तस्तु एकैव संबित् स्थापितां प्रतिपद्य सैव तदनुगुणव्यापारविशिष्टसंचारितां प्रतिपद्यते सैव वाह्यलिंगै: स्फुटाभूताः सात्त्विकतां प्रतिपद्यते । केचित्तु चित्तवृत्तीनां विलंबितत्वतब्रित्वादिभेदेन भेद इति वदन्ति। ते च ‘‘ स्तम्भप्रलयरोमांचाः स्वेदो वैवर्ण्यवेपथु.। अश्रु वैस्वर्यमिष्टौ सात्त्विकाः परिकीर्तिताः । ’ हलेत्यादि । सुकुमारः ग्नयासरहितः गूढप्रयोगः । मदनलेख इत्यादि


१ तं सुमणोगोविंदं कारिअ देवदापसदह्यपरेण तस्स रण्णो हत्थं पावइस्सम् ( तं सुमनोगोपितं कृत्वा देवताप्रसादव्यपदेशेन तस्य राज्ञो हस्तं प्रापयिष्यामि ) इति क्व० पु० पा० ।

अनसूया--रोअइ मे सुउमारो पओओ । किं वा सउन्दला भणादि । [ रोचते मे सुकुमारः प्रयोगः । किंवा शकुन्तला भणति । ]
शकुन्तला–को णिओओ विकप्पीआदि । [ को नियोगो विकल्प्यते । ]
प्रियंवदा–तेण हि अत्तणो उवण्णासपुव्वं चिन्तेहि दॉवललिअपदबन्धणं। [ तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावल्ललितपदबन्धनम् । ]
शकुन्तला-हला, चिन्तेमि अहं । अवहीरणभीरुअं पुणोवेवइ मे हिअअं। [ हला, चिन्तयाम्यहम् । अवधीरणभीरु पुनर्वेपते मे हृदयम् ।

रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति । को नियोग आज्ञा विकल्प्यते विचार्यते । दातुमिति शेषः । तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावल्ललितपदबन्धनम् । ललितं च तत्पदवन्धनं चेतीदमेव विशेष्यम् । केषुचित्पुस्तकेषु “ललियपदवन्धणं छलियम्" इति पाठः । छलितकमित्यर्थः । तदुक्तं सरस्वतीकण्ठाभरणे- 'यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः | नर्तकैरभिनीयेत प्रक्ष्वेडो वल्लिकादि तत् || तल्लास्यं ताण्डवं चैव छलितम्’ इत्यादिना । 'लास्यच्छलितसंपादि प्रेक्ष्यार्थम् ’ इति काव्यादर्शेऽपि । छलितक्षणं यथा - 'रतिक्रोधोत्साहभावप्रधानं छलितं मतम्' इति । चिन्तयाम्यहम् | अवधीरणा तिरस्कारस्तेन भीरु पुनर्मे वेपते हृदयम् । मे हृदयं पुनर्वेपत इते संवन्धः । क्रियायां


नैतदन्तेन प्रज्ञानाम सन्ध्यंगमुक्तम् । यदाह- "प्रज्ञासु निश्चिता बुद्धिः" इति । अत्र दुष्यन्तप्राप्ति प्रत्यसह्यकालविलंवनायाः शकुन्तलाया नायकप्राप्यर्थं मदनलेखः क्रियतामिति सुनिश्चितत्वात्प्रज्ञा भवति । किमित्यादि । अवधीरणाभीरुकमित्यनेन सार्वभौमस्य मम बहुवल्लभतया अरण्यवासिन्यां युवत्यां कथमनुरागो भूयादिति राजा वदिष्यतीति न्यक्कारजनितभयग्रस्तमित्यर्थः । तेन आत्मनः कन्याभावसुलभमप्रागल्भ्यं ज्ञाप्यते ।


१ अम्र अअं (अयं ) इत्यधिकं क्व० पु० । २ फणति इति क्व० पु० पा० । ३ वा ( वां ) इत्यधिकं क्व० पु० । ४ किंवि ( किमपि ) इति क्व० पु० पा० । ५ अवहीरणाभीरुअं ( अवधीरणाभीरुकं ) इति क्व० पु० पा० ।।

 राजा--( सहर्षम् )

 अयं स ते तिष्ठति संगमोत्सुक
  विशङ्कसे भीरु यतोऽवधीरणाम् ।
 लभेत वा प्रार्थयिता न वा श्रियं
  श्रिया दुरापः कथमीप्सितो भवेत् ॥ १५ ॥


विशेषणं हेतुत्वेन योज्यम् । अयमिति । हे भीरु, अनेन तिरस्कारशङ्कासंभावना व्यज्यते । यतो यस्मान्मल्लक्षणाज्जनादवधीरणां तिरस्कारं [ वि ] शङ्कसे । स्यादवधीरणाशङ्का यदि केवलं मत्प्रार्थनैव त्वदीयप्राप्तिहेतुः स्यादिति भावः । सोऽयमिति प्रत्यक्षेण निर्दिशति । सुन्दरीभि यं प्रतेि विधेर्हेतुत्त्वे योज्यम् । ते तव संगमोत्सुकस्तष्ठतीति विशिष्टस्य विधेयत्वम् । त्वत्प्रार्थितः कथं दुर्लभो भविष्यामीत्याशयः । पूर्वापरचरणयोर्व्यत्ययपाठेनोद्देश्यप्रतानिर्देश्यप्रक्रमभङ्गः परिहरणीयः । प्रार्थयिता पुरुषः श्रियं लभेत वा न लभेत वा । श्रिया पुनरीप्सितः प्रार्थितः कथं दुरापो दुर्लभो भवेत् । अयमर्थान्तरन्यासः । व्यत्ययपठितस्य पूर्ववाक्यस्य पूर्व वाक्यं समर्थकम् । तादृगुत्तरस्योत्तरं समर्थकमति विवेकः । नन्वत्र सामान्यस्य समर्थकत्वं वक्तव्यम् । श्रीशब्दस्य विशेषवाचित्वादत्र कथं तन्निर्वाह इति चेदुच्यते- “लक्ष्मीसरस्वतीधीत्रिवर्गसंपद्विभूतिशोभासु । उपकरणवेषरचनागुणेषु सरलद्रवे च कथिता श्रीः॥" इति व्याडिकोशादत्रातिशयोक्त्या शोभाभारतीलक्ष्मीधीवेपविरचनाविभूतित्रिवर्गसंपत्तीनामेकत्वेनाध्यवसानात्सामान्यवाचकत्वम् । अतिशयोक्तेः सर्वालङ्कारमूलत्वमाकरेषु प्रसिद्धम् । श्रुत्तिवृत्तिच्छेकानुप्रासाः 'कथं न लभ्येत नरः श्रियार्थितः' इतेि पठित्वा पर्यायप्रक्रमभङ्गः परिहरणीयः । वंशस्थं वृत्तम् ।


अयं स त इत्यादि। भीरु भयशीले । अत्र भीरुपदं साभिप्रायकं वस्तुतस्तु धार्ष्ट्यमेव । सख्योरभिप्रायज्ञानार्थं भीरुत्वप्रकटनमिति यावत् । यतः यस्मादवधीरणां न्यक्कारं विशंकसे परयुद्धेप्रत्यक्षत्वात् । तस्याप्यरण्यवासिन्यामनागरिकायां मय्यनुरागोऽस्ति वा न वेति संदेहे सति स्वयमेवाभिसरणे क्रियमाणे औदासीन्यं भवेदिति न्यक्कारं विशेषेण तर्कयसि । सोऽयं ते संगमोत्सुकः सन् तिष्ठति । तव रूपलावण्याद्यतिशयादतःपुरयुवतिषु वैमनस्यं प्राप्य त्वद्रूपाहरणे ऋषिशापरूपानर्थं मत्वा संगमः कदा भविष्यतीति निकट एव वर्तत इत्यर्थः । तत्र दृष्टान्तमाह- लभेत वा प्रार्थयिता न वा श्रियमित्यादि । श्रियं संपदं प्रार्थयिता


१ आत्मगतम् इति क्व० पु० पा० । 

 सख्यौ–अत्तगुणावमाणिणि, को दाणिं सरीरणिव्वावइत्तिअं सारदिअं जोसिणिं पडन्तेण वारेदि । [ आत्मगुणावमानिनि, क इदानीं शरीरनर्वापयित्रीं शारदीं जोत्स्नां पटान्तेन वारयति ]

 शकुन्तला–( सस्मितम् ) णिओइआ दाणिं ह्मि। ( इत्युपविष्टा चिन्तयति )[ नियोजितेदानीमस्मि ]

 राजा-स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः ।

  उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
  कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १६ ॥


आत्मगुणावमानिनीति त्वद्गुणैरेव स क्रीतोऽवधीरणाशङ्कापि क्वेति भावः । क इदानीं शरीरनिर्वापयित्रीं शरीरसुखदायिनीं शारदीं शरत्कालसंवन्धिनीम् । इत्यतिशयेनाह्लादकारित्वम् ध्वनितम् । ज्योत्स्नां पटान्तेन वारयति । शकुन्तलावाक्यं प्रति दृष्टान्तः। नियोजितेदानीमस्मि । कामलेख इत्यार्थम् । विस्मृतो निमेषो येन तेन । निर्निमेषेणेत्यर्थः एतदर्थमेव चक्षुषो विशेष्यस्योपादानम् । प्रियां न स्त्रीमात्रम् । दृष्टचरीमप्यनेकश इति ज्ञेयम् । यदवलोकयामि तत्स्थाने युक्तं खलु । अथवा स्थाने प्रदेशविशेषे । उन्नमितेति । एतादृशस्य पूर्वमदर्शनादनिमेषदर्शनं युक्ततरमिति भावः । पदानि सुप्तिङन्तानि रचयन्त्या अस्या उन्नमितोत्क्षिप्तैका भ्रूलता यत्र । इदं पदं देयमिदं वेति वितर्के तस्याः प्रयोगात्तदाननं कण्टकितेन


याचमानः पुरुषः ।‘‘ लक्ष्मीवाणीधात्रीत्रिवर्गसंपद्विभूतिशोभासु । उपकरणवेषरचनाविशेषेषु च श्रीरिति प्रथिता ।।" इति नाममाला । लभेत वा न वेति वितर्के । श्रिया संपदा ईप्सिता वांछिता कथं दुरापः दुर्लभः । कथमित्याक्षेपे । दुरापो न भवेदिति यावत् । अईत्यादि । अयीति अतिदुःखितजनं प्रति सुकुमारसंबोधने । यद्वा अयीत्यनेन मय्यपि स्वाभिप्रायगुप्तिं करोषीति सासूयवचनम् । उन्नमितेत्यादि । कंटकितेन संजातपुलकोद्गमेन


१ प्रियंवदा-अइ इति क्व० पु० पा० । २ ‘वा ’ इत्यधिकं क्व० पुo । ३ निर्वापयितृकां इति क्व० पु० पा० । ४ णिवारयिस्सदि ( निवारयिष्यति ) इति क्व ० पु० पा०

 शकुन्तला--ठूला, चिन्तिदो मए गीदवत्थु । ण क्खु सण्णिहि . दाणि उप लेहणसाहणानि । [ हला, चिन्तितं मया गीतवस्तु । न खङ संनिहिताने पुनलेखनसाधनानि ?


रोमाञ्चितेन ।“ रोमहर्षेऽपि कण्टकः ’ इत्यमरः । कपोलेंन येनें चूळ . तोन्नमता तद्दिक्स्थकपोलस्येव रोमाञ्चितत्वमित्येकवचनम् । मयते स्व स्याधिकरणत्वेन धन्यतां सुभगंमन्यत च ध्वनति । अनुगमं प्रतिविशेष प्रथयाति शंसति । अयमन्यस्मिन्नन्यधर्मधानलक्षणः समाधिर्नाम गुणः । तत्नं न तिरस्कृतवाच्यस्य ध्वनेर्घपयः ! यथा- दवृति बेसनीपत्रशय नम् ? इति । उक्तं च ध्वनिकृत् -निट विषयेऽन्यत्र शब्दः स्ववि- पयदपि ! लाधण्याद्याः प्रयुक्तास्ते न वान्त पदं ध्वनेः | इति । र्तरेव षष्ठयवस्थानुरागः । उक्तं च सुधाकरे - अंकुरपल्लवकालिकाप्रसूनफलभोग भगियं क्रमशः प्रेभा मानः प्रणयः स्नेहो रागेऽनुराग इत्युक्तेः ||’ इते ! अनुरागरूक्षणं तंत्रु-इंग एव स्वसंवेद्यदशाप्राप्था प्रकाशितः ? यवद! श्रयवृत्तिश्चेदनुराग इतीरितः ॥ ' इते । भेगस्योत्तरदक्षिणभावित्वापि सजात इति भत्येतादृयुक्तः । जातिलंकारोऽनुप्रसश्च रोमाञ्चितक्रये लान्यथानुपपत्यानुरागप्रथनार्थापत्यकारः। केचिदनुमानाद्कारमाहुः । साधकबाधकप्रमाणाभावादन्ये संदेहसंकरमाहुः । मूलतमित्युपमा च । उन्नतस्य साधकत्वात् । “यक्षणं यथा-‘ उश्वि ( क्रिस ) यासंगतान्य थोक्रमेण सह वान्यथा । स्त्रीणां कोषे वितर्के च दर्शने श्रवणे निजे । धूलीलहेयोघेच कार्योंक्षिप्त विचक्षणैः ।।' इति संगीतरत्नाकरे ! चि चः


अनुर , / ifअं रागनिशेषं प्रथयति निःसंशयं प्रश्रः ) अन्यथा भयाभयान् । नुरागस्य रक्षणमुक्तं पुत्रंशथैः ‘‘ इश्रमं&ित प्रेम् मनश्चक्रयिता भवेत् । सफरक प्रणयतः लेह्कुसुगिता भवेत् + रागारपीयिता चेयमनुरागेण भुज्यते ॥ १ इति । एतेषां लक्षणमुच्यते ‘‘ परस्पराश्रग्रथनं निरूढे भावबन्धनम् । यदेकायतनपाधि तयै मेति निगद्यते । ११ अथ मनः “ येन प्रेमाबन्धेन स्वातंत्रयं हृदयंगमम् । बभ्रानि भावकौटिल्यं स मन इति गीयते ॥ '५ अथ प्रणयः ‘‘ उपचरमिंथो यूनोर्युद्यम्य- न्तराभिधेः । प्रेम नीतं प्रक्रयें चेरस एव प्रणयः स्मृतः ॥ ५ अथ स्नेहः + विज्ञेभे परमां


१ चंदिदा मए गर्दि ( चिंतिता मया गतिः ) इति क० पु० पी० । २ पुनः इति कo पु० नास्ति” ।

 प्रियंवदा--इमस्सिं सुओदरसुउमारे णलिणीपत्ते णहेहिं णिक्खित्तवण्णं करेहि । [एतस्मिञ्छुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्त[]वर्णं कुरु]

 शकुन्तला--([]यथोक्तं रूपयित्वा) हला, सुणुह दाणिं संपदत्थं ण वेत्ति । [हला, शृणुतमिदानीं संगता[]र्थं न वेति]

 उभे--अवहिद ह्म । [अवहिते स्वः]

 शकुन्तला--(वाचयति ।)

 तुज्झ ण आणे हिअअं मम उण का[]मो दिवावि रत्तिम्मि ।
 णिग्घिण तवइ बलीअं तुइ वुत्तमणोरहाइं अङ्गाइं ॥ १७ ॥

 [तव न जाने हृदयं मन पुनः कामो दिवापि रात्रावपि ।
 निर्घृण[] तपति ब[]लीयस्त्वयि वृ[१०]त्तमनोरथान्यङ्गानि ॥ ]


न्तितं मया गीतवस्तु न खलु संनिहतानि पुनर्लेखनसाधनानि । एतस्मिञ्छुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु | शृणुतमिदानीं संगतार्थं न वेति । अवहिते स्वः । [तुज्झेति ।] तव न जाने हृदयं मम पुनः कामो दिवापि रात्रावपि । निर्वृण निष्कृप तापयत्याधिकम् । त्वयि


काष्ठामारूढे दर्शनादिभिः । यत्र द्रवत्वन्तरंगं स स्नेह इति कथ्यते ॥ "स्नेहस्त्रिविधा प्रौढमध्यमंदभेदतः । "प्रवासादिभिरज्ञातचित्तवृत्तौ प्रयोजने । इतरक्लेशकारी यः स प्रौढः स्नेह उच्यते ॥ इतरानुभवापेक्षां सहते यः स मध्यमः । द्वयोरेकस्य मानादौ तदन्यस्य करोति यः ॥ नैवापेक्षां स स्नेहो मन्द उच्यते । "रागस्य लक्षणं द्वितीयेऽङ्के उक्तम् । अथानुरागः "राग एव स्वसंवेद्यदशाप्राप्त्या प्रकाशितः । यावदाश्रयवृत्तिश्चेदनुराग इतीरितः ॥" हलेत्यादि । निक्षिप्तवर्णां कुरु गीतिकामिति शेषः । अनेन लेखो नाम सन्ध्यंगमुक्तम् । यदाह "यूनोः परस्परं लेखो मन्मथार्थविलेखनम् ।" इति । अत्र शकुन्तलायाः दुष्यन्तं प्रति तुज्झेति । हे निर्घृण निष्करुणेति दैन्योक्त्या संबोधनम् । स्वविषयकगाढानुरागजनितविप्रलम्भज्वरसंपादितानि मम शरीरकार्श्यादीनि दृष्ट्वापि तव दया नोत्पद्यत इति यावत् । तस्मान्निर्घृणेति संबोधनम् । स्वनिमित्तव्यसनाभिभूतं जनं वृत्तमनोरथानीति हेतुत्वेन योज्यम् । अङ्गानीति बहुवचनेन मार्दवातिशयो ध्वन्यते । तव हृदयमीति विशेषोपादानात्स्वस्योत्कण्ठातिशयस्तस्य तदभावो ध्वन्यते । सथ च रक्तं तापयति च तदा न जाने किमयं यद्यप्येतादृशतापेऽपि न द्रवतेि । एतदनुसंधायैव निप्कृपेति संबुद्धिः । सा चेत्स्याद्द्रुतमेव स्यात्तत्स्वभावत्वात्तस्याः । इति दुःखात्परुषोक्तिः । अर्थापत्त्यलंकारः । अथ च 'हृदयं मानसोरसोः' इति विश्वः । तेन तव हृदयं गोपुरकपाटायमानं रिपुदनुजनिवहशरशतैरप्यभेद्यम् । एवंभूतमहं न जाने । अपि तु जान आप्तजनवचनात् । अतएव मेऽङ्गानि सर्वाणि दिवापि रात्रावपि तापयतेि कामः । तव तु वक्षोमात्रमपि न तापयितुं शक्तः । यदि तापयेत्तदा निर्घृण नेिर्जुगुप्स निदत्वसमयशीतलतरमत्कुचपरिरम्भगायागच्छेः । 'घृणा जुगुप्साकृषयोः' इति विश्वः । तादृशं तव वक्ष आलिङ्गितुमिच्छामीत्यभिलापोक्तिः । अनुमानालंकारः । अयं मल्लक्षणो जनस्तव हृद्द्यरूपः । रूपकम् । कामः पुनर्ममाङ्गानि यत्तापयति तत्र ज्ञान इति प्रश्नकाकुः । वृथैव तापयतीत्यर्थः । ते स्प्रष्टुभप्यक्येति भावः । समासोक्तिः । त्वं त्वेतादृशो निष्कृपो यद्धृदयरूपामपि मां न परित्रायसे । अथ चायं जनस्तव हृत्कानः पुनर्भमाङ्गानेि यत्तापयाति तदहं न जाने, अपि तु जाने । त्वकान्तेिजित इत्यर्थः । तेन तव हृदयं कठोरत्वात्ताप-


पश्यतः पुरुषस्य तस्मिन् दयोत्पतेः संभवादिति भावः । अनेन गर्वशरीरकार्श्यादिनिवेदनं कृतम् । तव हृदयं न जान इत्यनेन मम हृदयं स्थिरनुरागं तव चितमपि स्थिरानुरागं या । नवेति परबुद्धेरग्रत्वक्षत्वाशिरसहवासाभावन्न जान इति द्योत्यते । यदि तव हृदयमपि गाढानुरागकं तर्ह्येनादृशायस्थापन्नां भां कथमुपेक्षस इति भावः । तेन स्वस्यानुरागस्य कालासत्वं ज्ञायते । तेन स्वस्याः कन्याभावमुलभमग्रागल्भ्यं सूच्यते । किंचानेन लज्जात्यागो नाम सदनदशाबरधान्तरं च चन्यते । तयेत्यनेन कठिनचिंतस्य तवोत्वर्थः । स्यस्य एतादृशावस्थान्तरोपेक्षकतया नामधेयग्रहणायोग्यस्य तवेति व्यज्यते । अत एच दुष्यन्तेतिपदं न प्रयुक्तम् । मम पुनः मभ तु पुनः शब्दो विशेषवाची वद्यपि तव हृदयमपि स्थिरागुरागं तथापि मदनस्तु मां यथा बाधते तथा । त्वां न बाधत इत्यर्थः। मदनस्त्वयि युक्तमनोरथान्यंगानि नपनीत्वनेन त्वय्यनुरक्तां मां कामो रूपलावण्यादिना त्वसदृशस्तव द्विषत् त्वत्संबंधितया मां बाधते तादृशी दुर्बलां मां त्वमुपेक्षस इत्यर्थः । अत एव त्वयि युक्तमनोरथानीयुक्तम् । समेत्यनेनानुभूयमानमरणसघ्रीचीनात्मदशानिवेदनं क्रियते । तपतीति वर्तमानव्यपदेशेनाद्यापि जीवितसंशयगतायामपि मयि सत्यामपि तस्य कोपस्योपशमो नास्तीति व्यज्यते । मदन इत्यनेन यूर्वमेव रूपलावण्यादिविषये मदनस्य तव च गाढशात्रवमिदानीं विप्रलंभरूपरन्ध्रे प्राप्ते यितुं शक्तो न । अतस्तदूपाया ममाङ्गानि तापयतीतेि भाव इति चाटूक्तिः । प्रत्यनीकालंकारः । 'प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम्' इति तल्लक्षणात् । स्वं त्वेतादृशो निर्घृणो यस्त्वर्थे पीड्यमानामपि मां न रक्षसीति । अथ च त्वयि विषये वृत्ता जाता मनोरथा येषां तानि । आलिङ्गनं भुजयोर्मनोरथः त्वत्कान्तिझरप्रवाहपानं तु चक्षुषोः, त्वद्वचनामृतसरसीनिमज्जनं च श्रवणयोः, त्वन्मुखसरोजश्वासाघ्राणं नसोः, शशाङ्ककोमलत्वदङ्कारोहणं नितस्वस्य, त्वत्करतलमेलनं कुचयोरित्यादि । एवंभूतमनोरथानि ममाङ्गानेि कामोऽधिकं तापयाति । त्वं त्वेवं निष्कृपो यत्स्वभक्तान्येवं परेण ताप्यमानान्यापि सहसे तत्व हृदयमहं न जाने क्षत्रहृदयमेत न जाने । परैः पीड्यमानं क्षत्रियः परित्रायते, स्वभक्तं तु सुतरामित्युपालम्भः । कामो ममाङ्गान्यत्यर्थमधिकं तापयति, तव पुनर्हृदयमत्यर्थ न तापयतीत्यहं जाने । यतस्त्वं दिवसे निष्कृपो लोकादिभयात्, एवं रात्रावपि निष्कृपोऽसि यदभिसरणं नाकार्बीरिति चोपालम्भः। अथ च त्वं तु केनाभिप्रायेण व्यवहरसति तव हृदयं लक्षणया हृदयमभिप्रेयं न जाने । कामः पुनर्मम मत्संबन्धी सुहृदिति भावः । यत्त्वयि वृत्तमनोरथान्यङ्गानि तापयति । किमिते तस्मिन्नीदृशे शठेऽनुरक्तासीति तापं दुःखं दत्वा शिक्षयतीति बौपालम्भः। एवमकृतार्थरतिं प्रत्येतादृशो-


कथं त्वत्संबंधिनं मां न प्रहरेदिति भावः । दिवारात्रमपीत्यनेन मन्दमारुतकोकिलालापचंद्रकिरणादीनामसह्मदर्शनतया परमोद्दीपनविभाव उक्तः । तेन मदनस्य चूवादिसामप्रीसंपत्त्या वलेत्कर्ष उक्तः । ममांगनीत्यनेन मदनस्तु त्वद्रूपलावण्यादीनि । दृष्ट्वा तव पुरस्तात्स्थातुं व्रीडितः सन् त्वय्यनुरक्ता मामेव बाधते । यदि मामिव मदनस्त्वामपि बाधेत तदा मदीयं दुःखं ज्ञास्यसीति भावः । अनेन मदनस्य पक्षपातित्वं सूच्यते । अङ्गानीति बहुवचनेन मदनस्य सर्वलक्ष्येषु सावधानता ध्वन्यते । अनेन कर्णहस्ताद्यवयवानां रहस्यश्रवणगाढालिंगनाधौत्सुक्यं ज्ञाप्यते । अत्र श्लोके त्रयस्त्रिंशद्व्यभिचारिभावाः । अष्टौ सात्विकाः अष्टौ स्थायिनः आहत्यैकोनपंचाशत्भावाश्च यथासंभवं प्रतीयन्ते । तथाहि-तवेति स्मरणम् । हृदयं न जान इत्यभिप्रायपरिज्ञानाभावाद्भयम् । हृदयपारिज्ञानाभावेऽपि लेखः कृथं प्रेष्यत इति शंका । तव हृदयं न जान इति तव मनः स्थिरानुरागं वा नवेति वितर्कः । भम हृदयं स्थिरानुरागमिति व्यंगेन लज्जाभावाच्छांतिः । मियप्रार्थनया चपलता । तव हृदथं न जान इति त्वच्चित्तपरिज्ञानार्थं चतुराः सख्यो न संतति सखीष्वसृया । तत्रेति दुष्यन्तादिनामग्रहणाभावादवहिंत्थम् । हृदयपरेिज्ञानाभावेऽपि लेखप्रेषणाद्धासः । तव हृदयं न जान इति विषादः । तव हृदयं न जान अटम्भदानदुन्मादावस्थयुक्तं । अथ च निश्चयेन कृपा यस्य तस्य संरोधनम् । हे कृपालो, यस्त्वमंगुलीयकं दत्त्वा सख्याः सकाशान्मां चिखानसे तस्य त ह्यहं न जाने । अपि तु जानेऽत्यन्तं व्या सुखमितेि । ‘ निर्निश्चयनिषेधयोः ' इत्यमरः । मम पुनर्भद्यं हृदयं न ने । तत्र स्त्र ये वर्तते । तदभाद्वाह्वयन्याहं वर्त इति भावः । केलं तदेव यूयं गतमेति न । अपि त्वङ्गान्यपि त्वयि जातमनोरथाने । केनेलमङ्गान्येवाते न | आपे तु कामोऽभिलाषोऽपि त्वयि विषये दिने रात्रमधिकं तपति वर्धते रक्षणया । “ कामः स्मरेऽभिरूपे च ’ इति द इत्यमुनयोक्तिः ! तेन मदीयं बाह्यमभ्यन्तरं न किंचिदपि मदसं वहरतेि त्रगच्छेति भावः । श्लेषानुप्रास । क्वचित् ‘ रति पि " । इति पक्षः i तद् रात्रिमपीत्यर्थः । ‘कालध्वनोरत्यन्तसंयोगे ' इति द्वतीया । * णिअत्र ? इत्यनेन यत्राङ्गमुपक्षिप्तम्- विरूक्षवचनं यज्ञ वत्रमित्यभिधीयते । ? इत भरतीतेः । लेखनामकं संध्यङ्गमुपाक्षसम् ।


की दत्तपरज्ञानाभःखाभिः कथं भविष्यतीति जिता । तदेतदेतादृशीभवस्थानु न,स्य मणयोग्यत्र नयेत भनिः गर्यो मदो हा १ मन इति चासः। तदनुगतो यं १५क्षुध। निर्गुणोति यम् । तेन गेइदत्वं च तेलुगताश्रुपदः दम्न्नर्थे । च त्रय युक्तमनेनीर्घमुद्यम् । स्त्रश्रति रतिः अभिलापश्च । बलवत्तपतनि त्रिनगरदेये निर्निवैः शकg । उंगनीति प्रियविरहेऽपि स्यशरीरे जत्रिर्नाति तत्र जुगुप्सा । दि मरात्रमपीति इन्दुमलयानिलादिवौच्यम् । तेनाहारनिद्राश्चभायाश्चाधिः । तेन सर्वकालेश्वर लता जडना च । तपतीति चर्तमानप्रयोगेणापि जीवितसंशयगतायामपि मयि यधत इति धिम्मयः । तव हृदयं न जान इति मम हृदयं स्थिरानुशाभिनि. साक्षान्नोक्तमिति नड। निपदस्थ विशेष्यं नकमिनि नामोच्चारणे ग्लानिः । चितविभ्रमादुन्मादो वा । सन्भुखदर्शनभावेऽपि तथेति रात्रिर्दशन्मोहः । निर्जुहोति दैन्येषु चैत्रण्त्रम्, : सभ पुनशनि सम विशेषऽस:िश्रीन दुयन्नस्त्रषि मदनशश्वारोभावनय हर्पः। अन्ये श िभाषा बुद्धिमत ऊह्या:। कुत्तमप्रह्नेर्निर्वेदादिभाववर्णन घ्यंग्यतम कार्य। मयम- यात्रस्य मध्ययुया। नचपात्रस्यतिशयितः ग्रयोग: कार्यः। तथोत्तमधान्नाथि देव राज तं मुनयः स्त्रीषु ज्ञात्रियः। मध्यमप्रतयो यक्षगन्धर्वोदयः पुरोहृिमंत्रिसेनापतयश्च त्रg तद्वनिताः सख्यादश्वः परिस्रजकाश्च । अन्ये विदूझकप्रभृतयो नचप्रकृतयः । तत्रापि देश काळवस्थाभेदं ज्ञात्वा वर्णनीयः देशः उद्यानसारिन्धुलिनादिर्गुर्वादिरान्निधिवं काल यसंतादी रात्रिंच । अवस्था मुग्धाभक्ष्यप्रगल्भभेदः । अत्र तुज्झ ण जाण श्रादौ वाचिकश्रृंगार क्तः । तदुक्तम् ‘‘भावगर्भत्रचः संविन्मरं नर्मपेशकम् । रहस्यश्रवणानन्दः भृगरो वाचिकः स्मृतः ॥ ” इति । अत्र तय हृदयं न जान इत्यनेन संविदो माधुर्यं  राजा-(सहसोपसृत्य)

तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयाति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१८॥


तल्लक्षणं तु-'विवक्षितार्थकलिता पत्रिका लेख उच्यते' इति । तपतीति । तमूनि कृशानेि गात्राणि यस्यास्तस्याः संबोधनम् । मदनस्त्वां तपति तत्रार्थो हेतुः संबोधनपदार्थः । कुशगात्रत्वं स्त्रीत्वं चेति काव्यलिङ्गम् । तनुगात्रीति पुनरुक्तवदाभासश्च । मां पुनः पुरुपं कठिनशरीरमानिशं सर्वदा, अथ च निशाव्यतिरिक्तसमयेऽपि दहत्येव । किमपि नावशेष्यार्थः क्रमेण हेतुत्वेन योज्यः । दृष्टान्तोऽनुप्रासश्च । मदयतीति मदनो हर्षदः ।


सूच्यते । तेन नर्मालापोऽपि दर्शितः त्वयीत्वुक्तमनोरथान्यंगानीति बहुवचनेन कर्णाद्यवयवानां रहस्यश्रवणेनौत्सुक्यकथनेन श्रवणानन्दोऽपि प्रकाशित इति वचिकः श्रृंगारः । शृंगारस्वरूपमुच्यते "देशकालवयोद्रव्यगुणप्रकृतिकर्मणाम् । ज्येष्ठं शृंगं तदस्यास्ति तेन श्रृंगार उच्यते ॥ "सोऽयं त्रिविधः वाचिकनैपथ्यक्रियाभेदतः । वाचिकस्य लक्षणमुक्तम् । "वासोङ्गरागभूषादियोगो नैपथ्यमुच्यते । क्रिया बहुविधा भावक्रीडादिजलकेलयः ॥ वीणानर्तनगानादिसंभोगः स्यात् क्रियात्मकः । संभोगो विप्रलंभश्च श्रृंगारो द्विविधः मृतः । समागमस्तु संभोगः कान्तचोर्दर्शनादिकः ।" आदिशब्दात् परस्परालिगनसंभाषणमाल्यानुलेपनसौभाग्योपवनवासक्रीडादूतासंलापपुष्पापचयजलक्रीडागीतादिश्रवणलीलादिकरणादिरूपो बहुविध उच्यते । विश्रलंभश्रृंगारस्तु "संसृष्टयोर्विप्रलंभो विप्रयोगोऽनुरक्तयोः" स चाभिललापेर्ष्याविरहप्रवासशापज इति पंचविधः । सहसेत्यादि । सहसा हठात् । मदनस्तु मामेव दृढतरं बाधते न तु त्वामिति शकुन्तलाया यदुक्तं तद्वचनासहिष्णुतया हठादुपसर्पणमिति ज्ञातव्यम् । तपतीति । तनुगात्रि हे तत्वंगीत्यनेन गात्रं तु पूर्वमेव कृशं कोमलं च खल्पमपि न व्यथासहनशीलम् । तादृशागात्रस्य स्वनिमित्तकमदनवाधाजनितकार्श्यादिदुःखाद्यनुभवात् । तस्यां स्वस्य दयोत्पत्तिस्तनुगात्रीत्यनेन दयाविषकत्वं सूच्यते । काकुशब्दधर्मः तस्य लक्षणं पूर्वमेवोकम् । अनेन निर्ग्घृणेति पूर्वं शकुन्तलोक्तस्य उत्तरमुक्तमित्यवगन्तव्यम् । मदनः रूपलावण्यादिसाम्येन मम शत्रुरिति यावत् । त्वां तपति मत्संबधरूपतया विशेषरूपरन्ध्रे सति सार्वकालिकचिंतितविविधमनोरथविषयनायकालिंगनचुम्बनाद्यसंभवात्सर्वावयवानां कोकिलालापचंद्रातपमलयमारुतादिश्रवणस्पर्शाद्वेदनां करोति । तपतीत्यनेन मदनस्य तादृशः कोपावेशस्त्वयि नास्ति मत्संबंधमात्रहेतुनान्तस्तापं । जनयन् तवाकृतिं न नाशयति किंतु तापमात्रकर इति भावः । मां पुनः मां प्रत्यन्यथा दहति केवलतापकरणे पुनर्जीविष्यतीति भस्मसात्करोति । मरनसव्रीचीनदारुणदुःखानु  [११]संख्यौ--(सहर्षम्) साअदं अविलम्बिणो मणोरहस्स । [स्वागतमविलम्विनो मनोरथस्य]

(शकुन्तलाभ्युत्यातुमिच्छति)

 राजा---अलमलमायसेन ।

संदष्टकुसुमशयनान्याशुक्लान्तविसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १९ ॥


स कथं तपतेि दहतीत विरोधाभासश्च । स्वागतमविलम्बिनो मनोरयस्येति नृपत्वलक्षणविषयनिगरणादतिशयोक्तिः । अलमलमति द्विरुक्तिरादरातिशयं ध्वनति । संदष्टेति । यतो गुरुर्महान्परितः सर्वतस्तापः संतापो येषु तानि । अतो विशेषणद्वयविशिष्टानि । ते तव गात्राण्यवयवा उपचारं तत्तद्योग्यव्यवहारकरणं नार्हन्ति । 'गात्रमङ्गे कलेवरे' इतेि विश्वः । दुष्टं लग्नम् । केवलं लग्नं न, अपि तु सम्यग्दष्टम् । केवलं कुसुमं न, अपि तु कुसुमशयनीयं येषु तानि गात्राणामुत्थापने कर्तव्ये कुमुमशय्याप्यङ्गलग्नोत्तिष्ठतीति भावः । आशु शीघ्रं क्लान्तो विसभङ्गस्तद्वत्तेन वा सुरभीणि चारूणि । शीघ्रत्वं च भङ्गापेक्षया । तेन तात्कालिकक्लान्तत्वमुक्तम् । काव्यलिङ्गपरिकरानुप्रासाः । पक्ष उपमा च । भङ्गः क्रिया तस्याः कथं क्लान्तत्वमित नाशङ्कनीयम् । क्रियया तद्वान्पदार्थे लक्ष्यते ।


भवादिति भावः । जीविते नैराश्यं जनयन्नाकारसद्भावे संदिग्धं मां करोनीति यावत् ।अनेग स्वस्यापि शरीरकार्श्यवैवर्ण्यादिप्रदर्शनं कृतम् । अनिशमित्यनेन स्वस्य खक्चंद नादिविषयवैमुख्यं सूच्यते । तेन च सार्वकालिकवदेकतानचित्तत्वेन चंद्रातपमलयमारुतलोकिलछपादीनामसह्यव्यधाकारित्वान्निद्राहारद्यभाव उक्तः । एवकारेण स्वप्रयोजनार्थं न तु मिप्याभाषणं किंतु स्वशरीरकार्श्यवैवर्ण्यादिकमेव प्रमाणमिति ज्ञायते । मामित्यनेन लोकोत्तरबहुस्त्रीरत्नवन्तं सार्वभौमं मामिति व्यज्यते । तेन स्वान्तःपुरस्त्रीभ्यः शकुन्तलाया रुपलावण्याद्यतिशयवत्तया तासु वैमुख्यं सूच्यते । तेन न स्वशरीरकार्श्यादीनामन्तःपुरस्त्रीचिरहो निमित्तं न भवति किंतु त्वद्विरह एव निमित्तमिति ज्ञायते । बलपयतात्यादिदृष्टान्तः । दिवसः सर्वपदार्थप्रकाशकः। दिवा शशांकं खमिव तमोनिरोधकं चंद्रे यथा येन प्रकारेण ग्लपयति म्लापयति विच्छायं कृत्वा स्वरूपदर्शने सदसदबुद्धिं करोति । तथा तदुदयास्तमयाभ्यां विकाससंकोचवतीं कुमुद्वतीं न ग्लपयति किंतु संकोचमात्रं जनयतीति यावत् । साअदमित्यादि । अत्रमनोरथशब्देन तद्विषयो राजा कथ्यते । सन्दष्टेति । सन्दष्टकुसुमशयनानि सन्दष्टानि संसक्तानि कुसुमशयनानि पुष्पास्तरणानि  अनसूया--इदो सिलातलेक्कदेसं [१२]अलंकरेदु वअस्सो । [इतः शिलातलैकदेशमलंकरोतु वयस्यः]

(राजोप[१३]विशते । शकुन्तला सलज्जा[१४] तिष्ठ ते)

 प्रियंवदा--दु[१५]वेणं णु[१६] वो[१७] अण्णोण्णाणुराओ पच्च[१८]क्खो । सहीसिणेहो मं पुणरुत्तवादिणिं करेदि । [द्वयोर्ननु युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति]

 राजा--भद्रे, नैतत्पारिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।

 प्रियंवदा--आवण्णस्स विसअणिवासिणो जणस्स अत्तिहरेण रण्णा होदव्वं त्ति [१९]एसो वो धम्मो । [आपन्नस्य विषयानिवासिनो जनस्यार्तिहरेण राज्ञा भावितव्यमित्येष युष्माकं धर्मः]


शैत्ये श्वैत्याधिक्यप्रयोजनमुन्नेयम् । इतः शिलातलैकदेशमलंकरोतु वयस्यः। द्वयोर्ननु युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति । आपन्नस्यापत्प्राप्तस्य विषयनिवासिनो देशनिवासिनो जनस्यार्तिहरेण पीडाहरेण राज्ञा भवितव्यमित्येष युष्माकं धर्मः । 'आपन्न आपरप्राप्तः स्यात्' 'देशविषयौ तूपवर्तनम्' 'आर्तिः पीडाधनुःकोट्योः'


यैस्तानि तथोक्तानि । अनेन श्लोकेन संभोगं प्रति विलंबं कर्तुं न शक्यं किमर्थं प्रत्युस्थानं क्रियत इति भावः । इदो इत्यादि । इतः शिलातलैकदेशमुपविदचानुगृह्णात्वार्यः। उपविश्यानुगृह्णात्वित्यनेन मदनकातरादिकं त्वया किमपि हठान्न कर्तव्यं किन्नु वक्तव्यांशोऽस्तीति भावः । अन्योन्यानुरागः कालाक्षमलक्षणोऽभिलाषविशेषः प्रत्यक्षः शरीरकारर्यवैवर्ण्यादीभिः साक्षादृष्टः। तथापि सखीस्नेहः शकुन्तलाविषयकहेतुपक्षपातः पुनरुक्तवादिनीं करोति । अनेन तव शरीरक्रारर्यादीन् प्रति निमित्तान्तरमप्यस्तीति भावः । तदेवाहआपन्नस्येत्यादिना । आर्तिहारेण भवितव्यमित्यनेन राज्ञो बहुवल्लभत्वस्य युक्तत्वाद्यः या राजनं कामयते सा सा राज्ञा परिगृह्यत इत्यर्थः । वः युष्माकं तत्रैकस्यैव न भवतीति यावत् । एषः बहुवल्लभत्वम् । धर्मः कुलाचारः त्वच्छरीरकारर्यादीनामन्तः-  राजा--नास्मात्परम् ।

 प्रियंवदा--तेण हि इअं णो पिअसही तु[२०]मं उद्दिसिअ इमं अवत्थन्तरं भअवता मअ[२१]णेण आरोविदा । ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्विदुं । [तेन हीयमा[२२]वयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितं तस्या अवलम्बितुम्]

 राजा--भद्रे, साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।

 शकुन्तला–(प्रियंवदामवलोक्य) हला, किं[२३] अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण । [हला, किमन्तःपुरविरह पर्युत्सुकस्य राजर्षेरुपरोधेन]


इति चामरः । तेन हैि [इयं] नोऽस्माकं प्रियसखी त्वामुद्दिश्येममवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्यानुग्रहेण जीवितं तस्या अत्रलम्बितुम् । 'अथाभ्युपपात्तिरनुग्रहः' इतेि शश्वतः । साधारण आवयोः समानः प्रणयो याच्चा यथा भवतीभिरेतदर्थमहमभ्यर्थ्य एवं मयाप्येतदनुग्रहार्थे भवत्यौ प्रार्थनीये इत्यर्थः । 'प्रणयः प्रेम्णि विस्त्रम्भे याच्ञाप्रत्यययोरापेि' इति विश्वः । अन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुप-


पुरस्त्रीविरहनिमित्तकपुनापि संभव्यत इति भावः । त्वामेवोद्दिश्य मदनेनारोपितेखनेन शकुन्तलाशरीरसन्तापादेस्यमेव निमित्तम् । न तु पुरुषविशेषनिमित्तान्तरकल्पनावकाशं इति भावः । अभ्युपपत्या अनुग्रहेण जीवितमवलंबितुमर्हसीत्वनेन रूपलावण्याभिज्ञात्यगुणादिमत्तया शकुन्तला त्वया परिग्राह्येति वक्तुं न शक्यते । किन्तु निर्हेतुकशोच्यजनप्रार्थनया परिगृहीतुं योग्येति भावः । भद्र इत्यादि । प्रणयः प्रार्थना । साधारणं ममापि जीवितं भवत्सख्यावलंबनीयमित्यर्थः । सर्वथा सर्पप्रकारेण अनुगृहीतोऽस्मि । अभ्युपपत्तिरनुग्रहः अनेन पुष्पं नाम प्रतिमुखसन्ध्यंगमुतम्। तदुक्तं "प्रत्यक्षेनानुरागस्य पुष्पं प्रकटनं विदुः" इति । अत्र शकुन्तलानुरागः सखीमुखादुक्तः राज्ञोऽनुरागस्तु खवचनेन साधारणोऽयं प्रणय इत्यादिना प्रकाशितः । हलेत्यादि । अत्रान्तःपुरविरहपर्युत्सुकस्येत्यनेन दुष्यन्तशरीरकाइर्यादीनामन्यनायिका निमित्तत्वकथनेन स्वस्यां तस्यानुरागाभावः सूच्यते । अन्यथा यद्यनुरागः स्यादेताद्दशावस्थापन्नां मां कथम-  राजा---सुन्दरि !

   
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हदयं मम ।
यादि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः॥२०॥


रोधेन किम् । अनेन मनोऽतिशयितं सौभाग्यं ध्वनितम् । इदमिति । इदं जन्मप्रभृति येन सह स्थितं तमपि परित्यज्य दर्शनात्प्रभृति त्वय्य- नुरक्तमनन्यमिष्टम् । केवलं त्वन्निष्ठमित्यर्थः । अत्र त्वन्निष्ठमिति वक्तव्ये यन्निपेदमुखेनोक्तिः सान्यत्र निषेधं बोधयन्ती शब्दशक्त्यात्र व्यञ्जनया विधित्वेन पर्यवस्यति । तेन ममपि परित्यज्य त्वयि स्थितमिति ध्वन्यते । मम त्वद्ध्यानैकचित्तस्य हृदयं है हृदयसंनिहिते मया सर्वदा ध्याते, इति साभिप्रायम् । यो यत्संनिहितः स तस्य तत्त्वं जानाति, त्वं च तस्य संनि- हिता, सा चेत्त्वमन्यथान्यनिष्टं यदि समर्थयसे कल्पयसि तदा मदिराद्द- टिस्तस्या ईक्षणमिवेक्षणमवलोकनं यस्यास्तत्संवृद्धिः ‘सप्तम्युपमानपूर्वो- तरपदस्य ’ इति समासः । मदिरादृष्टिलक्षणमादिभरते-' आघूर्णमान- मध्या या क्षामा चञ्चिततारका । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥' इति । मदनस्य कामस्य बाणैर्हतो विद्धोऽपि पुनरत्यन्तं हतोऽस्मि विरुद्भमनःप्रवृत्तिर्जातोऽस्मीत्यर्थः । मन्मानसं त्वन्निष्ठं तदपि चेत्त्वम- न्यथा शङ्कसे तर्हि तस्य विषयान्तराभावात्प्रवृत्तिनिरोधो जात एवेति भवः ॥ ' मनोहतः प्रतिहतः प्रतिवद्धों हतश्व सः ’ इत्यमरः । उपमा । हृदयहृदयेते हतो हत इति लाटानुप्रासाः । द्रुतविलम्बितं वृत्तम् । अनेन सामेति संध्यन्तराङ्गमुपक्षिप्तम् । तल्लक्षणं तु-' तत्र साम


सबुयेक्षत इत्यभिप्रायः । तेन नायकविषयस्यापराधवं प्रकाश्यते । अतस्तदेवाह- इदमिदत्यादि । हृदयसंनिहिते हृदये सम्यङ् निहिने अनेन गाढानुरागविषयतोक्ता । अत एवानन्यपरायणम् अनन्याधीनं त्वदेकनियतमित्यर्थः । एवंविधं हृदयं चद्यन्यथा समर्थयसे अन्यकान्तानुरागेण दूयमानं संभावयसि त्वं हृदयसन्निहितापि तस्य हृदयस्य तदेकतानतां यदि न जनसि । मदिरेक्षणे मदिरावदीक्षणं विलोकनं यस्याः सा तथोक्ता मदिरा यथा मोहजननी तथा त्वांगावलोकनमपि मोहजनकमिति यावत् । मदनवाणेत्यादि । त्वय्यनुरागबद्धे सति त्वदप्राप्त्यामन्मथवाणैः प्रथमं वाध्यमानोऽपि संगमाशया जीवितमवलंब्य तिष्ठामि इदानीं त्वद्दर्शने जातेऽपि यदि त्वमन्यथा


१ सुन्दरि इति क० पु० नाति ।

 अनसूया-वअस्मं. वहुवल्लहा। राआणो मुणीअन्ति । जह णो पिअसही बन्धुअणसोअणिज्जा ण होइ तह णिव्वेत्तेहि । [ वयम्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रेियसखी बन्धुजनशोचनीया न भवति तथा निर्वर्तय ]

 राजा--भद्रे, किं बहुना ।

परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्रवसना चोर्वी सखी च युवयोरियम् ॥ २६ ॥

प्रियं वाक्यं सानुवृत्तिप्रकाशकम् ’ इति । वयस्य , बहुवल्लभ राजानः श्रूयन्ते । यथा नोऽस्माक प्रियसखी वन्धुजनशोचनीया न भवति तथा निर्वर्तय । किं बहुना । उक्तेनेति शेषः । परीति । परिग्रह बहुत्वे स्त्रीबहुत्वेऽपेि । ' परिग्रहः परिजने पत्न्यां स्वीकारमूल्योः ’ इति विश्वः । मे मम कुलस्य प्रतिष्ठे प्रतिष्ठाहेतू । द्वे इति सारोपालक्षणः शुद्धः कार्यकारणभावसंबन्धात् । उक्तं च-' सारोपान्य तु यत्रोक्तौ । विषयी विषयस्तथा ’ इति । अन्यवैलक्षण्येन प्रतिष्ठाकारित्वं व्यङ्ग्यम् । परिग्रहवहुत्वेऽपीति व्यङ्ग्यं चकरादानीय तत्रोर्वीप्रतिष्ठाहेतुगौरवहेतुश्चतुरुदधिमेखलायास्तस्या आचन्द्रार्कं तद्वंशेन पलनीयत्वात । सखीप्रतिष्ठहेतुः स्थितिहेतरस्यां महाचक्रवर्तिवंशोत्पादकपुत्रोत्पादादाति द्वे अपि प्रतिष्ठे अतिशयोक्त्यैकत्वेनाध्यवसितं इत्यवधेयम् । ' प्रतिष्ठा गोरवे स्थितौ' इति हैमः । के द्वे इत्यत आह-समुद्र एव वसनमाच्छादनमधित्वेन


गंनाव्योपेक्षते तर्हि वाच्याशा कुतः जानितुमेव शक्नोमीति भावः । अनेन पर्युपासन नाम प्रतिनुसगन्ध्यंगमुक्तमित्यवगंतव्यम् । उक्तं च " अनुनयः पर्युपासनं " इति । अत्र दुर्जुनेन स्वानुरागप्रकटनपूर्वकदन्योक्त्यात्र नायिकानुनयः कृतः । वञ्चत्येतादि बह्ववल्लभाराजान इत्यनेन स्ध्रप्रयोजनार्थमिदानीमनुराग प्रकाशयसि स्वप्रयोजनं निरसं सति नगरगमनानंतरमन्तःपुरयुवतिषु बद्धचित्तः रान् शकुन्तलां विस्मांराध्यमाग्रसश्चः वन्धुजनशोचनीया न भवतीत्यनेन स्वनगरगमनानन्तरमयं वृत्तंतरतया विस्मृतचेतः। भ्यामहं वंचितेति शकुंतला उतरकाले यथा दुःखिता न भवनि तथा कर्तव्यं शपथपुरः सरं वक्तव्यमिति भावः । भद्रे किमित्यादि । बहुनोक्तेनेति शेषः । परिग्रहेत्वा: । परिगृह्यत इति परिगृह्यः कलत्राणि तेषां बहुभावे सत्वपि बहुवल्लभत्वेऽपीति यावत् कुलस्य


१ णिवहेहि ( निर्वहस्व ) इति क्र० पु० पा० ॥ २ रशना इति क्र० पु० पा० । »

 उभे--णिव्वुद ह्य । [ निर्र्वृत्ते स्वः ]

 प्रियंवदा -( सदृष्टिक्षेपम् ) अणसुए, जह एसो इदोदिण्ण दिट्टौ उस्सुओ मिअपोदञो मादरं अण्णेसदि ! एहि । संजोएम णं ( इत्युभे प्रस्थिते ) [ अनसूये, यथैष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् ]

 शकुन्तला - हला, असरणए ह्यि । अण्णदरा वो आअच्छदु । { हला, अशरणास्मि । अन्यतरा युवयोरागच्छतु ]

 उभे-पुहवीए जो सरणं सो तुइ समीवे वट्ट ई । (इति निष्क्रान्ते ) [पृथिव्या यः शरणं स तव समीपे वर्तते ।


यस्याः सोर्वी मही । मुदं प्रीतिं राति ददातीति मुद्रम् । मुद्रं च तद्वसनं च मुद्रवसनम् । तेन सह वर्तमानेति सखीविशेषणम् । ‘ वसनं छादनेऽ शुके ' इति विश्वः । इयं लोकातिक्रान्तसौन्दर्यागणितगुणगणाभिरामा त्रिजगल्ललामभूता । तुल्ययोगितोभयोः प्रकृतत्वात् अनया च पृथिव्या अनयाद्युत्सारणेन स्वास्थ्यमिवास्या बन्धुवियोगदुःखापाकरणेनानन्दयुक्त या सैभाग्यातिशयो व्यज्यते । अथ च पृथिव्यास्तदूष्येण सापत्न्याना- वादस्या अपि तदभावः । सति सापत्न्ये पृथिवीभवत्सस्योरेव परस्परं तदिति च व्यज्यते । रूपक्रानुप्रासौ । निर्वृत्ते सुखिते स्वः। ' सख्यौ- सहर्षं स्वागतम् ’ इत्यादिनैतदन्तेन प्रगयणं नामाङ्गसुपक्षिप्तम् । तल्लक्षणं तु-' उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः ’ इति । यथैष इतोदत्तदृष्टिरुत्सुक्रों मृगपोतको मातरमन्विष्यति गीयते । एहि। संयोजयाव एनम् । निर्गमनव्याजवचनामिदम् । अशरणास्मि । एकाकिन्यस्मीत्यर्थः । अन्यनरा वां युवयोरागच्छतु । पृथिव्या यः शरणं रक्षकः स तव समीपे


वंशत्य प्रतिष्टाकारणें । आखुघृतमित्यादिवदौपचारिकोऽयं प्रयोग: । भे ममेत्यनेन स्वव्यतिरिक्त अन्ये राजानः स्वप्रयोजनार्थं यत्किञ्चित्कृत्वा पश्चादन्यथा आचरंति चेत्स्वय न तथेति भावः । कुलस्यैत्यनेन भोगार्थमेषा न परिगृह्यते किंतु शकुन्तलामेव पट्टमहिषीं कृत्वा तज्जनितपुत्रस्यैव साम्राज्यमपीति भावः । समुद्ररशना चोर्वीत्यनेन स्वस्य निष्कंटकं साम्राज्यं सूच्यते । तेन राज्यविषये कृतकृत्यता सूच्यते । इतःपरं शकुन्तलया सह खस्य भौगसमय इति भावः । युययोः सखी चेयनेन धर्मप्रजार्थमेव


१ पञ्चमुओं ( पर्युत्सुके ) इति क्र० पु० पा० ।

 शकुन्तला-कहं गदाओ एव । [ कथं गते एव }

 राज--अलमावेगेन । नन्वयंमाराधयिता जनस्तव समीपे वर्तते ।

किं शीतलैः क्लमविनोदिभिरार्दवाता-
न्संचारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥ २२ ॥


वर्तते । कथं गते एव । आवेगन संभ्रमेण । आकुरअलत्वेनेत्यर्थ । किं शीतलैरिति । नलिनं पद्मं विद्यते यस्याः सा नलिनी तस्या दुलानिकलिनीपलशानि तान्येन तालवृन्तनेि व्यजनानि तैः । नलिनीपदेन सौरन्ध्यं सूचितम् । अतएव न विसिनीत्यादि । बहुवचनेन प्रतिक्षणं भिन्नस्ग्रोपादीयमानतया दत्तविशेषणद्वयेन योग्यता सूचिता ! एकस्य बहुकालं स्थितस्य तद्योग्यत्वाभावात् । ' व्यजनं तालवृन्तकम् ' इत्यमरः | आदिवाताञ्शीतलतरवातान् । आर्द्रत्वेन शैत्यं लक्ष्यते । तदतिशयः फलम् । सम्यङ्मन्दं मन्दं रचयामि करोमि, न तूच्चैः। किंमिति प्रश्ने । कीदृशैः । शीतलैः शीतलस्पर्शैः । यानि स्वयं शीतलानि तज्जन्यो वायुः सुतरां शीतल इत्यार्द्रपदार्थस्य हेतुत्वेन योज्यम् । पुनः कीदृशैः ? कुमं विशेषेण


परिणीयत इत्यर्थः । अलमित्यादि । आवेगेन कानर्तेण संभमौ मास्त्वित्यर्थः । तयोगेमन संभोगर्प्प्पकार्थे प्रत्यनुकूलमिति भावः । ताभ्यां कर्तव्यनहमेवत्र करोमति मता तदेवाह्व-नन्विति संवोधने आराधिता उपचारकर्ता । अनेन स्वस्य कामसूत्रज्ञानप्रकटितम् ! तदुक्तं कामसूत्रकारैः "श्रध्दया वामुष्कान्ता कन्याभावनश्चित्ता । परचिन्तां सनुद्वेगं सद्यो श्रेष्ठं च गच्छति ।।" इति । आराधिता तव इत्येन्नाहं त्वमपि द्वायेवात्र कोऽप्यन्यो नास्मीति वितिकप्रदेशता सृव्यते । तेन च विविधक्रीडया निःशंकनिरर्गलप्रवृत्तिः कर्तुं योग्येति सूच्यते । आराधनप्रकामद् - किं शीतलैरित्यादि । शीतलैः अलसंपर्काच्छैत्यजनकैः अनेन निकट एव वापां विध । तत्र गत्वा नूतनलिनीपत्राण्यानीयोपचारं करिष्यामीति द्योत्यते । अत एवोक्तं शीतलैरिति। जलसन्निध्यमपि संभोगान्ते गण्डूप्रक्षःउनकर्मण्यनुकूलमिति भावः ।क्लमयितेदिभिः परिश्रमविनोदिभिः । अनेन पूर्वं तपशमनार्थं रात्री-यां स्तनादौ च्न्धुन्णन्ृगालंशंरादिकं समर्पितं तत्सर्वं शुष्कं जातमिदानीं तत्परिलाज्यमिति ध्योत्यते । अत उक्तं क्लमवि।


१ अलमलम् इति क्र० पु० पा०} २ अयं इति नास्ति क्र० पु !

नुदन्ति तैः क्लान्तिहरैः । यानि दृष्टानेि स्पृष्टान्याघ्रातानिं स्वयं क्लमच्छिन्दि तज्जन्यो वटुः सुतरां क्लुमच्छिादिति भावः । उतेति विकल्पे । ‘ मणिबन्धादाकनिष्ठं करस्य करमो बहिः ' । तद्वदूरू यस्यास्तत्संवोधनम् । अत्रानुवृत्तत्वकोमलत्वादयः सामान्यधर्माः । ते पद्मताम्रौ कुशेशयालोहितौ । पदि मातीति पद्मम्ञ्ज । तेन सह साम्यं नास्तीति ताम्रत्वमात्रेण साम्यम् । अतएव नारविन्दादिपदोपादानम् । करभोरुपद्मताम्राविति पदाभ्यां चरणयोः संवाहनयोग्यत्वं ध्वनितम् । चरणावङ्के निधायेत्यनेन तस्याः सौभाग्यसर्वंकपत्वं स्वस्य धन्यतरत्वं च सूचितम् । यथासुखमित्यनेन च स्वस्य संवाहनकलाकौशलं ध्वनितम् । संवाहयामि संवाहनेन खेदमपनयामीत्यर्थः। नालिनीदलस्य तालवृन्तत्वारोपे आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम इतेि परिणामालंकारः पूर्वोत्तरार्धयोर्विकल्पादलंकारः । ' तुल्यवलरूविरोधे विकल्पः ’ इतेि तल्लक्षणात् । काव्यलिङ्गपरिकरोपमावृत्यनुप्रासाश्च । वसन्ततिलका वृत्तम् । अनेनोपन्यासो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके-' प्रसादनमुपन्यासः ’ इतेि । अनेन माला नाम भूषणमप्युपक्षिप्तम् । तल्लक्षणं तु-' माला स्याद्यदभीष्टार्थप्रका


नोदिभिरिति । नलिनीदलतालवृन्तैः आर्द्रवातजलसंपर्कात्सशीकरानित्यर्थः। संचारयानि यथासुखं सर्वावयवेषु सम्यक् चालयामि क्रिमिति प्रश्ने। वर्तमानव्यपदेशेन तत्तत्कर्मकरणप्रवृत्तिः सूच्यते । न तु वाइमात्रव्यवहार इति भावः। उत पक्षान्तरे। फरभोर्विति संबोधने । करभाविव करवहिर्भागाविव ऊरू यस्याः सा तथोक्ता । तदुक्तम् " मणिबन्धादाकनिष्ठं करस्य करभो वहिः ” इति । करभोर्वित्यनेन पादसंवाहने ऊरुयुगलस्यात्यन्तमनुकूल्यं प्रदर्शर्यते । तेन च खहस्तसद्भावस्य त्वदूरुयुगलस्पर्शेन साफल्यमिति भावः । अंके निधायेत्यनेन नववन्धमोचनेच्छा सूच्यते । यथामुखं मुखमनतिक्रम्य । अनेन मयैव बलात्संभोगादौ प्रवृत्तिर्न क्रियते किंतु यावता कालेन सुरतप्रस्ताभङ्गीकारः क्रियते तावत्संचाहयामीति द्योत्यते । अथ उक्तं यथासुखमिति तेन च खस्य कामशात्रवैदुश्यप्रकटनेन कन्याविस्रंभणोपायः प्रदर्शितः । तदुक्तं द्वितीयाध्याये तद्यथा “ संगतयोखिरात्रमधःशय्या ब्रह्मचर्यमक्षारलवणाहारस्तथा सप्ताहं सतूर्यमंगलं स्नानं प्रसादनं सहभोजनं च तथा प्रेक्षासंवन्धिनां पूजनं च तस्मिन्नेव चाहनि मृदुभिरुपायैनचिकस्तामुपक्रमेत् । ” इति । अन्ये वात्स्यायनव्यतिरिक्ता आचार्यास्तु कन्यया सह त्रिरात्रं वचनमपि न वक्तव्यमिति मन्वते । बाभ्रव्यास्त्वाहुः त्रिरात्रमेवावचने हि स्तंभमिव नायकं पश्यन्ती कन्या निर्विद्यते परिभवेच्च तृतीयामिव प्रकृतिमिति । वात्स्यायनस्तु उपक्रमेत विश्रंभयेच्च न तु ब्रह्मचर्यमितिवत्तत उपक्रममाणश्च न प्रसह्य किंचिदाचरे -  शकुन्तला –ण माणणीएसु अत्ताणं अवराहइस्सं । ( इत्युत्थाय गन्तुमिच्छति ) { न माननीयेष्यात्मानमपराधेयिष्ये ॥

 राजा --सुन्दरि, अनिर्वाणो दिवसः। इयं च ते शरीरावस्था ।

  उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
  कथमातपे गमिष्यसि परिबाधापेलवैरडैः ॥ २३ ॥

( इति बलादेनां निवर्तयति)


शनम् ’ इति । न माननीयेष्वात्मानमपराधायेिप्ये। सुन्दरीति । एतादृग्वस्यामपि सौन्दर्यस्य परित्यागो नास्तीति भावः ।अनिर्वाणोऽपरिणतः । उत्सृज्येति । परितो वाधा पीडा यस्याः सा । ‘ पीदा बाधा व्यथा ' इत्यमरः । पेलवैः कोमलैरङ्गैरुपलक्षित । इदं परिबाधेत्यत्रार्थहेतुत्वेन योज्यम् । अथवा शब्दहेतुत्वेनैत्र योज्यम् । पेलवैरङ्गैर्हेतुभिरिति । कुसुमशयनमुत्सृज्य नलिनीदलकल्पितं स्तनावरणमुमृज्येत्यनेन तापातिशयों द्योत्यते । अत आतपे धर्मं कथं गमिष्यसि । स्वस्थोऽपि वस्त्रावरणादि हित्वातपे गन्सुमसमर्थस्त्वं तु स्वभावतः सुकुमाराङ्गा तत्रापि पीडायुक्ता


दित्यादिना प्रबंधेनोक्तो वेद्धव्यः । चरणावित्यनेन पादसंवाहने शनै: शनैर्जघनस्पर्शकरणेच्छा द्योत्यते । पद्मताम्रमित्यनेन मदनकलाप्रयोगसमये मिथ्यावाह्यकोपाद्यदि चरणाभ्यां प्रहृरेत्म तदपि स्वस्य सुकरमिति ज्ञाप्यते । संवाहयामीति वर्तमानव्यपदेशेन पादसंवाहनार्थं तत्प्रतिबंधकवस्त्रमोक्षणारंभः सूच्यते । अनेन स्लोकेन नायिकानुरागर्थे नायकक्रियमाणोपचारः सूचितः । तदुक्तं भावप्रकाशे " उपचारो यथा सत्त्वं स्त्रीणानत्योऽपि हर्षदः । नहानप्यन्वया युक्तो नैव तुष्टिकरो भवेत् ।। वासोंऽगरागाभरणमाप्यशय्यारानादिषु । यत्र यत्र स्पृहा तद्वद्देशकालानुकूलतः ।। अत्यादरेण संस्कार उपचार इतीरितः॥" इति । ण माणणीएत्वित्यादि । माननीयेषु गुरुजनेषु आत्मानं स्वं नापराधयिष्यामीत्यनेनकादयपारांमत्या स्वातंव्यं न करिष्यामीत्यर्थः । अपरनिर्वाण: निर्वाणरहितः अप्रशांतताप इत्यर्थः । दिवस इत्यनेन वैिविधक्रीदायाः आसायंकालमवकाशः सूच्यते । समवस्था अवस्थायां समवस्थेति प्रयुज्यते । उत्सृज्येति । अंगैरित्युपलक्षणे तृतीया । कथं गमिप्यरीत्वाक्षेपे कुसुमशयनगुत्सृज्येत्यनेन मद्विप्रलंभजनिनज्वरोपशमनार्थं कुसुमुमशयनादिकं कल्पितं मव्वागतेऽपि कथं मामुपेक्षम इयर्थः । गमिष्यातीत्येकवचनेन यदि त्वं मामुपेक्ष्य गमिष्यसि तर्हि तदा बलाद्रृहीत्वापि प्रकृतकार्ये


१ अपराधयिष्यामि इति क्व० पु० पा० । २ अपरिनिर्वाणोऽयं इति क्र० पु० पा०। ३ समवस्था इति क्व० पू० पा० । ४ पेशलैः इति क्व० पु० पा० ।

 शकुन्तला-पोरव, रक्ख अविणेअं । मअणसंतत्तावि ण हु अत्तणो पहवामि।[ पौरव, रक्षाविनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि ]

 राजा–भीरु, अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्न तत्र दोषं ग्रहीष्यति कुलपतिः । अपि च ।


तत्रापीट्टगवस्थ तत्रापि क्रुसुमशयननलिनीदलादि हित्वा सुतरां गन्तुमशक्तेति कथंशब्दार्थः । काव्यलिङ्गं हेतुर्वा । श्रुत्यनुप्रासवृत्त्यनुप्रासयोः पूर्वार्ध एकवाचकानुप्रवेशलक्षणः संकरः । उत्तरार्धे तु श्रुत्यनुप्रास [वृत्यनुप्रास ] योरेव संसृष्टिः। दन्त्यानामोष्ठ्यानां च बहूनां सद्भावात् । अत्र पेलवैरित्यत्र पर्यायं पठित्वा श्रीडाश्लीलदोषः परिहर्तव्यः। अनेन चोपन्यसो नामाङ्गपुपक्षिप्तम् । तल्लक्षणमादिभरते-'उपपत्तिकृतो योऽर्थ उपन्यासस्तु स स्मृतः ’ इति । पौरव, रक्षाविनयम् । रतेरनिर्वाहात्पौरवेति संबुद्धिः। मदनसंतप्तापो न खल्वात्मनः प्रभवामि । स्वेच्छायां सत्यानपि गुरुजनपराधीनत्वादसामर्थ्यम् । स्वेच्छा तु मदनसंततेत्यनेनोक्ता क्वचित्पुस्तके ' मअणवाहिआओ वि कण्णआओ अत्तणो ण प्यवहन्ति ? इति पठः । मदनबाधिता अपि कन्यका इस्यप्रस्तुतप्रशंसा । दृष्ट्वा । अर्थात्वाम्र्थ । ते तव तत्र मत्परिग्रहे तत्रभवान्पूज्यः कुमपतिः कण्वो दोषं न ग्रहीष्यति । यतो विदितधर्मा श्रुतिस्मृत्याचारज्ञ इत्यर्थः । ' धर्मा -


करिष्यामीति द्योत्यते । निवारकेतरजनसन्निधानभावादिति भावः । पोरवेत्यादि । विनयं सौशील्यादिगुणं रक्षेत्यनेन परकन्याबलाद्रहणेन सर्वं गमिष्यतीत्यर्थः । तर्हि एतावन्तमनेहसं मदनज्वरजनितकार्श्यवैवर्ण्यादिकं मिथ्या किमित्याशंक्याह- मदनहस्तगतापीत्यादिना आत्मनः न प्रभवामीत्यनेन स्वतंत्रा न भत्रमि किंतु काश्यपाधीनेत्यर्थः । अलमित्यादि । गुरुजभयेन " ताते जीवे देशिके च श्लाघ्यालब्धिर्गुरुस्त्रिषु " इति नानार्थरत्नमाला । अलमिति प्रतिपेधे कन्यासंप्रदानादिकारिणो गुरवः किमपि चिंतविष्यतीति चिंताजनितं कार्यप्रत्यूहनिमित्तं भीरुत्वं मुंचेदिति भावः । विदितधर्मा विदितः ज्ञातः धर्मो येन स तथोक्तः ‘‘ धर्मादनिच् ’’ केवलात् इति समासान्तः ।


१ विणअं ( विनयं ) इति क्व० पू० पा० । २ मअणहद्थगदावि (मदनहस्तगतापि) इति क्वo पु० पा० । ३. हु ( खलु ) इति क्व० पु० नास्ति । ४ श्रुत्वापि इति क० पु० पाठः । ५ अत्र इति क्व० पु० पाठः। ६ पश्य इति क्व० पु० पाठः ।

गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनदिन्ताः ॥ २४ ॥

 शकुन्तला--मुञ्च दाव मे । भूओ वि सहीजणं अणुमाणइस्से। [ मुश्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ]

 राजा--भवतु । मोक्ष्यामि ।

 शकुन्तला---कदा । [ कदा ]


दनिच्केवयत् ’ इत्यनिच् । { गान्धर्वेणेति । ' गान्धर्वः समयन्दिश्रः इति स्मरणात् । अयं गान्धर्वो विवाहः अनेनोपदिष्टं नाम भूषणमुक्तम् । तल्लक्षणं तु -' प्रतिगृह्य तु श।स्त्रार्थ यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ ' इति । मुञ्च तावन्माम् । भूयोऽपि सर्वज्ञ-


अत्र अन्मिन्विष्ये दोषं व्यभिचारत्वदोषम् । अथ कामसूत्रविमृष्यन्तः गुरुजनभंजत्याभिगरणभीरुताकां शकुन्तलां कामसूत्रोक्तकन्याविश्रभणोपत्वं मनसि निधाय दृष्टत्वेन समाधत्ते । गान्धर्वेणेत्यादिना । वदाह वात्सायनः ' एवं चित्तनुगां बालामुपायेन प्रसाधयेत् । तथा चेत्सानुशगा च विश्रब्धा चापेि जायते ॥ नात्वंतमानुलोम्बेन चानिप्रतिकूल्यता । सिद्धिं गच्छति कन्यासु तस्मान्मध्ये साधयेत् ॥ आत्मनः प्रीति जननं योषितां मानवद्धनम् । कन्याविश्रंभणं वेत्ति यः स तासां प्रोयो भवेत्भ ॥ अतिलज्जान्वितेत्येवं यस्तु कन्यामुपेक्षते । सोऽनभिप्रायवेदीति पशुवत्परिभूयते ॥ " इति गन्धर्वेणेत्यादि । गान्धर्वेण विवाहनेन गान्धर्वनाम्ना विवाहेन परस्परं स्नेहात्कतो विवाहेगान्धर्व इ्त्युच्यते तदुक्त याज्ञवल्क्येन “ गान्धर्वः समवान्मिथः " इति । बह्व्यः न त्वमेकेति वाचत् । राजर्षिकन्यका इत्यनेन त्वमपि राजर्षेर्विश्वामित्रस्य दुहिता तवापि गान्धर्वविवाह्तु युज्यत इत्यर्थः । गान्धर्वविवाहविषये स्वस्य न विचिकित्सा किमु पितृजनसमस्या स्वातंत्र्ये क्रियमाणे अपराधः स्यादित्याशंक्याह - पितृभिश्चाभिनन्दिताः । गान्धर्वविवाहस्य पितृजनानपेक्षित्वात् । अनुमोदिताः अनुरूपवरसंन्निधानमेव गान्धर्वविवाहस्य हेतुरिति भावः । स्वकुलकलंकभूतव्यभिचाविधसंभावना न कञ्चेनि भात्रः । श्लोके उदाहरणं नामालंकारः । तदाह ‘‘ यत्र स्वल्पार्थं उक्तेन वाक्येनाभिप्रदर्शनात् । सध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ " इति । अत्र निपुणेन राज्ञा नृटाभिसरणभीरुं शकुन्तलां प्रति स्वाभिसरणय गान्धर्वविवहृत्येन प्रदर्शितवान् तेन च काश्यपकोपाभावप्रतिपादनादुदाहरणं भवति । अज्जेत्यादि । भूयोऽपि सखीजनमित्यनेन प्रथम सख्यनुरोधेनेमकृत्यमारभ्यं न त्वनुरागणोति आत्मगौरवं व्यज्यते । स्वात्मनि प्रणयामि


१ अज्ज ( आर्य ) इत्याधिकं क्व० पु० । २ अनुमानयिष्यामि इति क्व. पु० पाठः ।

 राजा--

अपरिक्षतकोमलस्य याव-
त्कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते
सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २५ ॥

( इति मुखमस्याः समुन्नमयितुमिच्छतेि । शकुन्तला परिहरतेि नाट्येन )


नमनुमानयिष्ये । अपरिक्षतेति । सुन्दरीति व्याख्यातचरम् । न विद्यते परिक्षतं यस्य स चासौ कोमलश्च । अथ चापरिक्षतं भ्रमरादिना कोमलं च तस्य नवस्य प्रथमास्वाद्यस्य | अथ च प्रथमविकसितस्य कुसुमस्येव तवास्य सुधासहोदरस्य मत्सुकृतोपचयलभ्यस्याधरस्य पिपासता पातुमिच्छता षट्पदेन भ्रमरेणेव मया सर्वदैताचित्तेनाधुना धन्यतरेण सदयं यावद्रसो गृह्यतेऽधरपानं क्रियत इति । यावदित्यवघौ । तदनन्तरं मोक्ष्यामीति भावः । सदयमित्यनेन बालालारलनकौशलं ध्वनितम् । श्लेषवाच्योपमा । स्यस्ये इति सदसुन्देति छेकवृत्त्यनुप्रासाः । मालभारिणी वृत्तम् । तल्लक्षणं तु-‘विषमे ससजे नगे नगे नाविषमस्त्र्येण तु मालभारिणीयम् । ’ इति } समुन्नमयितुमिति त्रिपताकस्योत्तानाभ्यां मध्यमातर्जनीभ्यां चिबुकदेशगताभ्यामिति ज्ञेयम् । नाट्येनेति परावृत्तेन शिरसा विनिगूहितेनाधरेण ! तल्लक्षणं तु - ' पराङ्मुखीकृतं शीर्षं परावृत्तमुदीरितम् । तत्कार्यं कोप-


मनः सूच्यते तेन धृतिः । भवत्वियंगकारे मोक्षामीति भविष्यदर्थेन इदानीं न मुंचामि किंतु प्रकृतकार्यनिर्वाहानंतरं मोक्ष्यामीति व्यज्यते । अपरिक्षतेत्वादि । अपरिक्षतकोमलस्यानुपहतकोमलस्य केनाप्यननुभूतस्येति यावत् । नवस्य नूतनस्य सद्योविकसितत्येति यावत् । अनेनाधरपानं प्रत्यादरत्वे हेतुरुक्तः । अधरस्य कुसुमोपमानेनातियार्दवमुच्यते । राज्ञः षट्पदोपमानेन भ्रमरस्य यथा बहुकुसुमरसास्वादनवैदग्ध्यं तथा स्वस्यापि बहुपद्मिन्र्र्जातिस्त्रीसंभोगचातुरी सूच्यते । पिपासता पातुमिच्छता मयेत्यनेन " रत्नहारी तु पार्थिवः ” इति न्यायेन लोकोत्तरं चिरप्रार्थितमुपनतं वस्तु कथं मया परित्याज्यमिति द्योत्यते । अस्याधरस्येति निर्देशेन तद्ग्रहणे प्रवृत्तिः सूच्यते । सुंदरीत्यनेन गाढालिंगनाभिलषः सूच्यते । देहसद्भावस्य त्वत्प्रात्या सफलत्वमिति भावः । अत एव सुंदरीत्युक्तम् ? नाट्येन परिहरतीत्यनेन नाटकस्याभिनेयत्वादभिनयस्य संभोगशृंगरस्यासभ्यत्वात्तत्र परिहार इत्यवगंतव्यम् । नाटकस्य संभोगवर्णनेन रसभंगप्रसंग: । तदुक्तं । " संरोधं भोजनं स्नानं संभोगं चानुलेपनम् । अंबरप्रहृणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ " इति।

( नेपथ्ये )

 चक्ववाकहुए, आमन्तेहि सह अरं । उवट्टिआ रअणी । [ चक्रशकवधूः आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ]

 शकुन्तला--( ससंभ्रमम् ।) पोरव ! असंसअं मम सरीरवुत्तन्तोवलम्भस्म अज्जा गोदमी इदो एव्व आअच्छदि । जाव विंडवन्तरिदो होहि । [ पौरव, असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । यावद्विटपान्तरितो भव ]

 राजा--तथा । ( इत्यात्मानमावृत्य तिष्ठति )


लज्जदिकृते वस्त्रापसरणे ॥ सुखान्तर्निहितप्राणसाध्येषु विनिगूहितः । रोपेप्ययाश्च नारीणां वाञ्छति वल्लभे ।। ’ इति । अनेन मुग्धाव्यवहरोऽप्युक्तः । ' मुग्धा नववयःक्रमा रती वामा ' इति । चक्रवाकवधूः आमन्त्रयस्वापृच्छस्व सहचरम् उपस्थिता रजनी । इयमप्रस्तुतप्रशंसा | तेन शकुन्तले प्रियमापृच्छस्वेति प्रकृतो गम्योऽर्थः । अतएव ' शकुन्तला --ससंभ्रमम् ' इत्यादि । अनेन द्वितीयं पताकास्थानकमुक्तम् । तल्लक्षणं दशरूपके- ' प्रस्तुनागन्तुभावस्य वस्तुनोऽन्योक्तिसूचकम् ? पताकास्थानवत्तुल्यं संविधानविशेषणम् । ’ इति वृत्तिकारेण व्याख्यातमन्योक्तिसमासोक्तिभेदादिति । तत्रान्योक्येदम् । समासोक्त्याग्रिमसंधौ भविष्यति । अन्योक्तिरक्षणं तूद्भटे- ' असमानविशेषणमपि यत्र समाने निवृत्तनुपमेयम् । उक्तेन गम्यते परमुपमानेनेति सान्योक्तिः ।। ’ इति । एषां स्थानमप्युक्तं मातृगुप्ताचार्यैः-' मुखे प्रतिमुखे गर्भे विमर्शे च चतुर्ष्वपि । भेदाः संधिषु कर्तव्याः पताकास्थानकस्य तु ॥ ' इति ! ससंभ्रमं सभयम् | पौरव, असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । ' उपलम्भस्त्वनुभवः ' इत्यमरः । यावद्विटपान्तरितो भव । इदं व्याज-


नेपथ्य इत्यादि । इदं सन्तोवचनं गतम्यागच्छति दुष्यन्तं मुंचेति समामसोत्तयडंकारेण व्यज्यते । चक्रावाकवधूके इत्यनेन प्रच्छन्नकामुकानुरक्तकाभिनीसंबोधनं क्रियते । रजनीशब्देन प्रारब्धकर्मप्रत्यूह उक्तः । अत्र नर्मंस्पंदो नाम कैशिकीनृत्यंगमुक्तम् । यदाह " नर्मस्पंदः सुखारंभां भयनि नवसंगमे " इति । अत्र विरहखेदखिन्नायाः शकुन्त-


१ कर्णं दत्त्वा इत्याधिकं क्व० पु० । ३ राअ ( स्वयम् ) इत्याधिकं क्व० पु० ।

३ ता (तस्मात् ) इति क्व० पु० पाठः। ४ स्थितः इतिं क्व० पु० पाठः । ।

( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )

 सख्यौ--इदो इदो अज्जा गोदमी । [ इत इत आर्या गौतमी ]

 गौतमी--( शकुन्तलामुपेत्य ) जादे, अवि लहुसंदावाइं दे अङ्गाइं । [ जाते, अपि लघुसन्तापानि तेऽङ्गानि ]

 शकुन्तला-अत्थि मे विसेसो । [ अस्ति मे विशेषः ]

 गौतमी--इमिणा दब्भोदएण णिराबाधं एव्व दे सरीरं भविस्सदि । ( शिरसि शकुन्तलामभ्युक्ष्य ) वच्छे, परिणदो दिअहो । एहि । उडजं एव्व गच्छ ह्म । ( इति प्रस्थिताः )[ अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । वत्से, परिणतो दिवसः । एहि । उटजमेव गच्छामः |

 शकुन्तला–( ऑत्मगतम् ) हिअअ, पडमं एव्व सुहोवणदे मणोरहें कादरभवं ण मुञ्चसि । साणुसअविहडिअस्स कहं दे संपदं संदाबो। ( पदान्तरे स्थित्वा । प्रकाशम् ) लदावलअ संद्वाबहारअ, आमन्तेमि तुमं मूओ वि परिभोअस्स । ( इति दुःढेन


मिति राज्ञो मनसि स्यात्, तन्निवारणायासंशयमित्युक्तिः । अनेन निरोधो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-‘ या तु व्यसनसंप्राप्तिनिरोधः स तु कीर्त्यते ’ इति । अत्र स्वाभीष्टाच्युतिरेव व्यसनम् । इत इत आर्या गौतमी । जाते पुत्रे । अपीति प्रश्ने । लघुः स्वल्पः संतापो येषु तानि तेऽङ्गानि । अस्ति मे विशेषः । अनेन दर्भादकेन दर्भसहितेनोदकेन । वैतानोदकेने त्यर्थः । निराबाधं पीडारहितमेव ते शरीरं भविष्यति । वत्से, परिणतो दिवसः। एहि । उटजमेव गच्छामः ।‘पर्णशालोटजोऽस्त्रियाम्' इत्यमरः । हृदय, प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । एवकारो


लायाः प्रियसमागमेन सुखारंभः गौतम्यागमननिमित्तभयेन भयान्त इति नर्मस्पन्दः । हृदयेति । प्रथममेव मुखोपनत इति प्रथमाङ्के आश्रमरक्षाव्याजेन स्वयमेवानायासेन


१ प्रतिष्टा इति क्व० पु० पाठः । २ तापसी इति क्व० पु० पाठः । ३ अज्जा गोदमी ( आर्या गौतमी ) इति क्व० पु० नास्ति । ४ मंदिद ( मंत्रित ) इत्यधिकं क्व० पू० । -५ स्वगतम् इति क्व० पु० पा० । ६ साणुसअं (सानुशयं ) इतेि क्व० पु पाठः। ७ णु् ( नु ) इत्याधिकं क्व पु० पाठः ।

ईनष्कांता शकुंतला सहेतराभिः )[ हृदय, प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सनुशयविघटितस्य कथं ते सांप्रतं संतापः। लतावल्य संतापहारक, आमन्त्रये त्वां भूयोऽपि सैरिभोगाय ]

 राजा--( पूर्वस्थानमुपेत्य । सनिःश्वासम् ) अहो विघ्नवत्यः । प्रार्थितार्थसिद्धयः । मया हि


भिन्नक्रमः । नैव मुञ्चसीति मनोरथे विषयस्य निगीर्णत्वादतिशयोक्तिः । सानुशयविघट्टितस्य सपश्चात्तापं च तद्विघट्टितं च तस्य । "अथानुशयो दीर्घद्वेषानुतापयोः" इत्यमरः । कथं ते सांप्रतं संतापः । यत्संगमे कातरता तत्संगमाभावे तदभाव एवोचितो न तु ताप इति कथं शब्दार्थः । लतावल्य लतागृह संतापहारकेति । अथ च लतागृह संतापहारकेत्येकयोक्त्या दुष्यन्तलतायहयोः संबोधनम् । वलयशब्देनाच्छादकत्वसाधम्येण गृहं लक्षयता गुप्ततरत्वमनोहरत्वादि ध्वनितम् । आमन्त्रये त्वांभूयोऽपि परिभोगाय मुखाय संभोगाय च । अनेन मनोरथो नाम भूषणमुपक्षिप्तम् । तल्लक्षणं तु-‘ मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ’ इति ।


समागत इत्यर्थः । मनोरथविषये अनुरूपवरे राजनीत्यर्थः । मनोरथ इत्यनेनानुरू- पवरप्राप्तौ सत्यां बहुरहस्यकथनचुम्बनालिंगनसंभोगादिकं कर्तव्यमिति खमनसि स्थितमुच्यते । कातरभावं न मुंचसीत्यनेन दुष्यंतेन बहुप्रार्थनायां कृतायामपि गुरुजनादिभीत्या संभोगादिविषये अनुमतिर्न कृतेत्यर्थः । सांप्रतमिदानीम् अस्मिन्नेव राजनि पुनरप्यागते सतीत्यर्थः । सानुशयं विघटितस्येति गौतम्यागमनेन पश्चात्तापपूर्वकं विघटितस्य यथा मनोरथपूर्तिर्भवति तथा संभोगादिकं न जातमित्यर्थः । मनोरथस्तु बहुवारं संभोगादिकं कर्तव्यमिति मनसि स्थितमिदानीं गौतम्यागमनेन एकरमेव जातमिति क्षात्रः । सानुशयमित्यनेन पूर्वं प्रथमदर्शने एकवारं संभोगदिकं जातं चेदिदानीमप्येकवारं संभोगेन मनोरथपरिपूर्तिः किंचिद्भवेत् तथा न जातमित्यर्थः । अनेन पुनरपि नायकप्राप्ति प्रति चित्तासंगो विंदुरित्यनुसंधेयम् । लतावलयेत्यादि । अत्र मनोरथो नामालंकारः तदुक्तं ‘‘ मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ” इति । अत्र शकुंतला लतावलयव्याजेन राजानमामंत्रयत इति मनोरथः । अहो इत्यादि । अहो इत्याश्चर्ये् चिरप्रार्थितनायिकासंगमजनितानंदानुभवस्य मध्ये विघटनात् प्रतिकूलविधिप्राबल्यंगुल्याश्चर्यम् । प्रार्थितार्थसिद्धय इति बहुवचनेन स्वस्य नायिकाविषयकविविधमनोरथ-


{{{1}}}

मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥२६॥


मुहुरिति । मुहुर्वारंवारमंगुल्या तर्जन्या संवृत आच्छादितोऽधरोष्ठो यत्र तत् । प्रतिषेधाक्षराणि मा मालमित्यादीनि तेषां यद्वैक्लव्यं स्फुटमनुच्चारणं तेनाभिरामम् । विक्लवशब्दो धर्मपरः । अंसे विवर्तितुं शीलं यस्य तत् । वलिते पक्ष्मले अक्षिणी यस्याः सा पक्ष्मलाक्षी तस्या मुखम् । अनेन चुम्बनार्थमुन्नमने योग्यता ध्वनिता । कथमपि महता कष्टेन । उन्नमितं चुम्बनार्थमूर्ध्वीकृतम् । न चुम्बितम् । तु पश्चात्तापे । तेन तावन्मात्रचुम्ब- नलाभेनापि कृतकृत्यता स्यादिति ध्वन्यते । स्वभावोक्तिः । श्रुतिवृत्यनुोप्रासौ । कथमपीत्यस्यार्थं प्रति विशेषणत्रयार्थस्य हेतुत्वोपादानात्काव्य-


भेदाः सूच्यन्ते । भयेत्यनेनानुभवविषयतोक्ता । मुहुरंगुलिसंवृताधरोष्ठमिति । अंगुलीभिः संवृतः सम्यक् प्रच्छादितः अधरोष्ठः यत्र तत्तथोतम् । अंगुलीभिः संवृत इत्यनेन अधरचुंबनप्रतिबंधकतिरस्कारे सुकरत्वं सूचितं न तु हस्तसंवृताधरोष्ठमित्युक्तम् । तेनानुरागातिशयान्भानजनितबाह्यकोपः सूच्यते । अनेन संवरणांगुल्यपकर्षणकार्यस्य तत्कारणभूतकेशग्रहादयश्च व्यज्यंते । मुहुर्बहुश इत्यनेन यदा एकेन हस्तेन कुचं जृहीत्वा अन्यहस्तेनांगुलीरपनुद्य तेनैव हस्तेन नीवीमोचनं क्रियते । तन्मध्ये क्षणे क्षणे अंगुलीभिरधरसंवरणमिति भावः । तेन चाधरसंवरणांगुल्यपनयनसमये तदनुनयार्थं बहुविधचाटुकरणचातुरी सूच्यते । यावता कालेन सुरतप्रस्तावांगीकारः तावदविकलमेकेन हस्तेन केशग्रहं कृत्वा चाटूक्त्यानुनीयान्यहस्तेनांगुलीरपनुद्य चुंबितमिति भावः । अनेन स्फुरिताख्यः कन्याचुम्बनविशेषः सूचितः । यदाह वात्स्यायनः " निमित्तं स्फुरितं घटितमिति त्रीणि कन्याचुम्बनानि । तत्र वदनप्रवेशितमोष्ठमवग्रहीतुमिच्छंती स्पंदयंती स्वमोष्ठं नोत्तरमुत्सहत इति स्फुरितम् ” इति । प्रतिषेधाक्षरचिक्लवाभिरामं प्रतिषेधाक्षरैः परस्परविमर्दजनितानंदातिशयवशान्मामेत्यादिवचनैर्विक्लकंविह्वलं परवशमिति यावन् । अभिरामं भ्रूभंगाधरस्पंदनखेदविदूनां स्वसंपर्कसंभूतसुखजनितत्वाद्रमणीयम् । अनेन प्रतिषेधाक्षरकथनेन हस्तयोर्व्यापाराभावाद्गाढाश्लेषः सूच्यते। तेन च स्तनमुकुलादिसर्वांगस्पर्शनं सूचितम् । अत्रापि मुहुरित्यनुषज्यते तेन च देशस्य विविक्तया निरर्गलसुरतक्रियानुकूलबहुविधस्वरविशेषवद्वाग्विजृंभणचातुरी ध्वनिता । अंसयोर्विवर्तति । असंयोर्विवर्तते विवलत इत्यंसविवर्ति । एतदंसविवर्तनं गुरुजनभीत्या दंतक्षतकरणपरिहारार्थमित्यवगन्तव्यम् । अत्रापि मुहुरित्यनुषज्यते । अनेन संमुखे सति अधरचुम्बनं तत्परिहारार्थमंसयोर्विवर्तने सतेि कपोलचुंबनं तदुभयपरिहारार्थे मुहुरिति भावः। तेन निरतिशयानंदानुभवाद्वचसा निषेधं कर्तुमशक्यत्वं सूचितम् । अत एव मुखमित्युक्तं नत्वधरमिति । मुखस्यैव बहुचुबनविषयत्वात् अत एव पक्ष्मलक्ष्या इत्यनेन नेत्रचुंबनमपि सूचितम् । अनेन संभोगः सूच्यते । तदुक्तं भवप्रकाशे ‘‘कामोपचारः संभोगः कामस्त्रीपुंसयोः सुखम् । सुखमानन्दसंभेदः परस्परविमर्दतः ॥ उपचारस्तदानंदकारक कर्म कथ्यते ॥ " इति । अत्र केशग्रहणमुष्टिपीडनविशेषादीनां नायिकासुखकरत्वादानदसंभोगः । कथमपीति । कथंचिद्यत्नेनेति यावत् । तदुक्तमुत्पलमालायां “ ज्ञातहेतु विवक्षाचामप्यादि कधमव्ययम् । कथमादि तथाप्यन्तं यत्नगैरववाढयोः ” इति । प्रथममंगुलिसंवरणम् । तस्मिन्नपकृष्टे सति प्रतिषेधाक्षरवैक्लव्यं तस्मिन्विरमिते सति अंसन्निवर्तनं एवं प्रकारेण कृच्छ्रेणेत्यर्थः । कथमपीत्यनेन नववधूः शनैरेवोपभोक्तुमुचितेति व्यज्यते । न चुंबितं तु । अत्र पुंचनशब्देन तदविनाभूतसंभौगः सूच्यते । न चुंबितं त्विति तुशब्दपुनश्शब्दार्थवाचकः । तु पुनर्नचुंबितमित्यनेन एकवारमेव चुंबितमिति व्यज्यते । चिरप्रार्थाितकृछ्रलब्धनायिकायाः बहुवारमंभोगस्य समुचितत्वात् गौतम्यागमनेन एकवारं संभोगो जात इत्यर्थः । तेन च मध्याह्ने संगतयोः स्त्रीपुंसोरसायमेकवारसंभोगकथनेन स्वस्य मन्मथकलाप्रावीण्येन दीर्घसुरतं

बहुविधक्रीडाश्च सूच्यन्ते । ध्वनिकारेणापि निपातानां रसाभिव्यंजकत्वो दाहरणे अयं श्लोकस्तु न चुंबितं त्वित्येवोदाहृतः । केचिन्न चुंबितं तदिति पठंति । तदयुकम् । उत्तरत्र " दुष्यन्तेनाहितं तेजो दधानाम् ” इति "पीतमया 
सदयमेव रतोत्सवेषु " इत्यनेन च संभोगगर्भधारणानामाकाशवाणीदुष्यन्तमुखोदि-

तत्वात् । तु पुनर्न चुंबितमित्यनेन पुनरपि तत्प्राप्तिं प्रतिचित्तासंगो विन्दुक्त इति बोघ्यम्। अत्र कुट्टमितं नाम स्त्रीणां स्वाभाविकालंकार उक्तः । तदुक्तम् ‘‘अलंकारस्तु नाट्यज्ञैः प्रोक्ता भावसमाश्रयाः । यौवनेऽभ्यधिकं स्त्रीणां विकारा गात्रवक्त्रजाः” तत्र उपचारैः सदानंदाधरकेशग्रहादिभिः । सुखोपचारवत्कोपो बाह्यः कुट्टमितं जगुः ॥ " इति । अत्र सुखोपभोगपरमानन्दकेशग्रहादयः स्फुटाः । अंगुलिसंवृताधरोष्ठत्वेन प्रतिषेधाक्षरैश्च बाह्यः कोपोऽनुमीयते । अत्र अनेके रसाश्च प्रतीयन्ते । यदाह भरतः " न ह्येकरसज काव्यं किंचिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ॥ " इति ॥ लोकोत्तरवर्णनानिपुणकविकर्म काव्यम् । तदेव प्रयोगार्हं नाट्यं भवति। भावादिव्यतिरेकेण एकरस एव यस्मिन्काव्ये दृश्यते तादृशं काव्यं प्रयोगार्हं न भवतीत्यर्थः । यथा प्रकृते नायकारब्धः श्रृंगारः स्फुट एव । तदनुभावाः अधरस्यांगुलिसंवरणेन धैर्यम् । तेन च मिथ्यामानेन गर्वो मदश्च। मुहुरित्यनेनानुरागगोपनादवहित्थम् । प्रतिषेधाक्षरविक्लवमित्यने न दैन्यम् । अंसविवर्तीत्यनेन वचनोच्चारणे ग्लानिः । परस्परदृष्टिसंवधे लज्जा । चुंबितमित्यनेन हर्षः । पुनर्न चुंबितमित्यनेन विनघ्नकारिणीं गौतमीं प्रति क्रोधः । तेन रौद्ररसः प्रतीयते । किंच पुनर्न चुंबितमित्यनेन रात्र्यागमनात्खलु गौतम्यागतेति रात्रिं प्रत्यौग्र्यम् । अहो इति विस्मयः । प्रार्थितार्थसिद्धयो विघ्नवत्य इति निर्वेदः शोकश्च । पुनर्नचुंबितमित्यनेन

पुनस्तत्प्राप्तिं प्रति चिंता वितर्कश्च । प्रतिषेधाक्षरविक्लवमित्यनेन लज्जाभावः शांतिः चपलता च । अंसविवर्तीत्यनेन चुंबनपरिहारेण दन्तक्षताद्गुरुभ्यः शंका भयं

च । अंगुलिसंवृताधरोष्ठमित्यनेन मुग्धत्वं तेन नायकारब्धश्रृंगारः । तदुक्तं श्रृंगारे कदाचि  क्व नु खलु संप्रति गच्छामि । अथवा । इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । ( सर्वतोऽवलोक्य )

 तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
  क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरार्पितः ।
 हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
  निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २७ ॥


लिङ्गम् । वृत्तमनन्तरोक्तम् । तस्या इति । तस्याः पुर इव परिवर्तमा- नाया पुष्पमयी न पल्लवमयी । तेषां ततोऽपि मृदुत्वात् । तेन तस्याः कोमलतरत्वं ध्वन्यते । शरीरेण संतप्तदेहेन लुलितेतस्ततः क्षिप्ता । शरीरस्य संतप्तत्वं प्रकरणलभ्यमिति नोक्तम् । शिलायामियं शय्येति यथादृष्टोक्तिः। क्लान्ता । एवमेष इदमित्यत्रापि । अत्रैषशब्दः समीपतरत्वं वदन्मदनलेखस्य स्वोद्देशेन प्रियालिखितत्वेन च हृद्यतरत्वं ध्वनति । अतएव नेदमेतदोः प्रक्रमभङ्गः शङ्कनीयः । उक्तं च- 'इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् ’ इति । अतएव पुष्पाद्यविशेषेणोक्तम् । अत्र तु नलिनीपत्रे नखैरर्पित इति । यथायथं पंचानामप्युपयोगादक्षरबाहुल्याद्वानखैरिति बहुवचनम् । बिसाभरणं क्लान्तमित्येव । इयमुना प्रकारेणायं स्तनन्यस्तो मृणालभरः क्लान्तः । इति प्रकारशब्दार्थः। मध्यदीपकालंकारः। आ समन्तात्सज्यमाने स्वयमेव संबध्यमाने ईक्षणे यस्य सः । शून्यादपि तया विरहितादपि वेतसगृहात्सहसाकस्मान्निर्गन्तुं न शकोमि । तत्त्यक्तान्युपभोगचिह्नान्यत्यन्तं मम मनो रमयन्ति तत्र सा किमु वक्तव्येति भावः । हेत्वनुप्रासौ । अत्र निर्गमनकारणे शून्यत्वे सति यस्तदभावः सा विशेषोक्तिः । अथ च तत्सद्भावस्य कारणस्याभावेऽपि गमनाभावस्तत्कार्यमुक्तमिति विभावना । अत्र च कारणाभावस्तद्विरुद्धोक्तिः । साधकबाधकप्रमाणाभावात्संदेहसंकरः ।शार्दूलविक्रीडितं वृत्तम् । अस्य तुर्यचरणेन


न्नायिकारब्धत्वं कदाचिन्नायकारब्धत्वं कदाचिदुभयारब्धत्वं कदाचिद्धर्षे णारंभो मदेन वा चिन्तया वोन्मादेन वा " इत्यादि । अत्रानेकेषां रसानां श्रृंगारंगत्वेनोपादानं कृतम् । अनेन कविनटयोः शिक्षाप्रकारः प्रदर्शितः । क्व नु खल्वित्यादि । खलु जिज्ञासायाम् । तस्या इति । तस्या अनुभूतायाः शकुन्तलायाः शरीरलुलितेत्यनेन तत्कृतबहुविधसुरत १५

( आकाशे ।)

राजन्,

सायंतने सवनकमणि संप्रवृत्ते
वेदिं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः
संध्यापयोदकपिशाः पिशिताशनानाम् ॥ २८ ॥

पुष्पं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके–' पुष्पं वाच्यं विशेषवत् ' इति । सायंतन इति । सायंतने सायंकालीने । ‘सायंचिरं-' इत्यादिना ट्युल् तुडागमश्च । सवनकर्मणि यजनकर्मणि। ‘सवनं यजने स्नाने ’ इति विश्वः । सम्यक्प्रवृत्ते न त्वादावेव । हुताशनवतीं वेदिं परितः प्रयस्ता इतस्ततो विक्षिप्ताः । क्वचित् ‘ प्रकीर्णाः ’ इति पठः। संध्यापयोदवत्सा- यंकालीनमेघवत्कपिशाः पिङ्गटा भयमादधानाः पिशिताशनानां रक्षसां छायापंक्तयो बहुधानेकवारं चरंति गतागतं कुर्वन्ति । ‘छाया स्यादातपाभावे सच्छोभापंक्तिषु स्मृता ' इतेि विश्वः । परिप्रेति पिशापिशीति छेकवृत्तिश्रुत्यनुप्रासाः । उपमा च । वसन्ततिलका वृत्तम् । अत्रापि भयानको रसः । उक्तं च--' भये तु मन्तुना घोरदर्शनश्रवणादिभिः । चेतस्यतीवचाञ्चल्यं तत्प्रायो नीचमध्ययोः ॥' इति । तद्भयं स्थायिभावः। पिशितासनच्छायावलोकनं विभावः । पद्यस्थभयशब्देन प्रासलक्षणो व्यभिचारी । उद्दीपनविभावादिकं स्वयमूहनीयम् । अत्र प्रतिमुखसंधौ निर्मनर्मद्युत्युपासनान्यङ्गानि नोक्तानि । कानिचिद्व्यत्ययेनाप्युक्तानेि तत्कथमिति । न वाच्यम् । भरतादिभिरेव तथोक्तेः । तत्रादिभरते- 'कविभिः काव्यकुशलै रसभावमपेक्ष्य तु । सर्वाङ्गानि कदाचित्तु द्वित्रिहीनानि वा पुनः ।


क्रियाः सूच्यन्ते । आसज्यमानेक्षणः आसंमताद्बद्धेक्षणः सहसा न शक्नोमित्यनेन सर्वकार्यानुत्साह उक्तः । सायंतन इति । सायतने सांध्ये सवनकर्मणि यज्ञकर्मणि छायाः प्रतिबिंबानि बरांतेि घृतादिपात्रेषु दृश्यन्त इत्यर्थः। बहुधा भयमादधाना इत्यनेन स्वेषां तत्प्रती


१ नेपथ्ये इति क्व० पु० पाठः । २ प्रवृत्ताः, प्रकीर्णाः इति क्व० पु० पाठः ।

 रजा--अयमहमागच्छामेि । ( इति निष्क्रान्तः )

इति तृतीयोऽङ्कः ।


व्युत्क्रमेणापि कार्याणि ’ इति । रसार्णवसुधाकरेऽपि-‘ केषांचिदेषामङ्गानां वैकल्यं केचिदूचिरे ’ इत्यादि ॥

इति श्रीमदभिज्ञानशाकुन्तलटीकायामर्थद्योतनिकायां

तृतीयोऽङ्कः समाप्तः ।


करायावीरत्वं च सूचितम्। निष्क्रान्ताः सर्वे ‘‘तेषामन्ते च निर्गमः ” इत्युक्तत्वात् । ।

इति श्रीरमणवेङ्कटाचलेश्वरपादारविंदसमाराधकवैखानसकुलतिलककौशिकगोत्रवेङ्कटभट्ट

इतिगोत्रक्रमागतभट्टविरुदश्रीतिम्मलाचार्यस्य पुत्रेण ध्वनिप्रस्थानपरमाचार्याष्ट

भाषाचक्रवर्तिश्रीनिवासाचार्येण विरचितायामभिज्ञानशाकुन्तलव्या

ख्यायां तृतीयोऽङ्कः समाप्तः ।

  1. सत्यं इत्य.क्व.पु.
  2. शकुन्तलया इत्य्.क्व.पु.
  3. कुत इ.पा.
  4. वर्णम् इति क्क० पु० पा० ।
  5. यथोद्दिष्टं इति क्क० पु० पा० ।
  6. संगतार्थां इति क्क० पु० पा० ।
  7. मअणो दिवावि रत्तिंवि (मदनो दिवापि रात्रिमपि) इति क्क० पु० पा० ।
  8. निर्घृणः इति क्क० पु० पा० ।
  9. बलवत् इति क्क० पु० पा० ।
  10. युक्त इति क्कo पु० पा० ।
  11. उभे-(विलोक्य सहर्षे) इति क्क० पु० पा० ।
  12. अणुगेण्हादु पिअ (अनुगृह्णातु प्रिय०) इतेि क्क० पु० पा० ।
  13. उपविष्ठः इति क्क० पु० पा० ।
  14. सलज्जं इति क्क० पु० पा० ।
  15. वअस्स (वयस्य) इत्यधिकं क्क० पु० ।
  16. णु (ननु) इति क्क० पु० नास्ति ।
  17. वो (वां) इति क्क० पु० प० ।
  18. तहवि (तथापि) इत्यधिकं क्क० पु० ।
  19. णं एस वो धम्मो (नन्वेप वो धर्मः) इति क० पु० पा० ।
  20. एच्च (एव) इत्य० क्क० पु० ।
  21. मम्महेण (मन्मथेन) इति क्क० पु० पा० ।
  22. नः इति क्क० पु० पा० ।
  23. अलं (अलम् ) इति क्क० पु० पा० ।