अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २०
← अध्यायः १९ | अर्थशास्त्रम् अध्यायः २० कौटिलीय: |
अध्यायः २१ → |
मान-अध्यक्ष्यो देश-काल-मानं विद्यात् ।। ०२.२०.०१ ।।
अष्टौ परम-अणवो रथ-चक्र-विप्रुट् ।। ०२.२०.०२ ।।
ता अष्टौ लिक्षा ।। ०२.२०.०३ ।।
ता अष्तौ यूका ।। ०२.२०.०४ ।।
ता अष्टौ यव-मध्यः ।। ०२.२०.०५ ।।
अष्टौ यव-मध्या अङ्गुलं ।। ०२.२०.०६ ।।
मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य-प्रकर्षो वाअङ्गुलं ।। ०२.२०.०७ ।।
चतुर्-अङ्गुलो धनुर्-ग्रहः ।। ०२.२०.०८ ।।
अष्ट-अङ्गुला धनुर्-मुष्टिः ।। ०२.२०.०९ ।।
द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषं च ।। ०२.२०.१० ।।
चतुर्-दश-अङ्गुलं शमः शलः परीरयः पदं च ।। ०२.२०.११ ।।
द्वि-वितस्तिररत्निः प्राजापत्यो हस्तः ।। ०२.२०.१२ ।।
सधनुर्-ग्रहः पौतव-विवीत-मानं ।। ०२.२०.१३ ।।
सधनुर्-मुष्टिः कुष्कुः कंसो वा ।। ०२.२०.१४ ।।
द्वि-चत्वारिंशद्-अङ्गुलस्तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानं ।। ०२.२०.१५ ।।
चतुष्-पञ्चाशद्-अङ्गुलः कूप्य-वन-हस्तः ।। ०२.२०.१६ ।।
चतुर्-अशीत्य्-अङ्गुलो व्यामो रज्जु-मानं खात-पौरुषं च ।। ०२.२०.१७ ।।
चतुर्-अरत्निर्दण्डो धनुर्-नालिका पौरुषं च गार्हपत्यं ।। ०२.२०.१८ ।।
अष्ट-शत-अङ्गुलं धनुः पथि-प्राकार-मानं पौरुषं चाग्नि-चित्यानां ।। ०२.२०.१९ ।।
षट्-कंसो दण्डो ब्रह्म-देय-आतिथ्य-मानं ।। ०२.२०.२० ।।
दश-दण्डो रज्जुः ।। ०२.२०.२१ ।।
द्वि-रज्जुकः परिदेशः ।। ०२.२०.२२ ।।
त्रि-रज्जुकं निवर्तनं एकतः ।। ०२.२०.२३ ।।
द्वि-दण्ड-अधिको बाहुः ।। ०२.२०.२४ ।।
द्वि-धनुः-सहस्रं गो-रुतं ।। ०२.२०.२५ ।।
चतुर्-गो-रुतं योजनं ।। ०२.२०.२६ ।।
इति देश-मानं ।। ०२.२०.२७ ।।
काल-मानं अत ऊर्ध्वं ।। ०२.२०.२८ ।।
तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः ।। ०२.२०.२९ ।।
द्वौ तुटौ लवः ।। ०२.२०.३० ।।
द्वौ लवौ निमेषः ।। ०२.२०.३१ ।।
पञ्च-निमेषाः काष्ठाः ।। ०२.२०.३२ ।।
त्रिंशत्-काष्ठाः कलाः ।। ०२.२०.३३ ।।
चत्वारिंशत्-कलाः नालिका ।। ०२.२०.३४ ।।
सुवर्ण-माषकाश्चत्वारश्चतुर्-अङ्गुल-आयामाः कुम्भच्-छिद्रं आढकं अम्भसो वा नालिका ।। ०२.२०.३५ ।।
द्वि-नालिको मुहूर्तः ।। ०२.२०.३६ ।।
पञ्च-दश-मुहूर्तो दिवसो रात्रिश्च चैत्रे चऽश्वयुजे च मासि भवतः ।। ०२.२०.३७ ।।
ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्-मासं वर्धते ह्रसते चैति ।। ०२.२०.३८ ।।
छायायां अष्ट-पौरुष्यां अष्टादश-भागश्छेदः । षट्-पौरुष्यां चतुर्-दश-भागः । त्रि-पौरुष्यां अष्ट-भागः । द्वि-पौरुष्यां षड्-भागः । पौरुष्यां चतुर्-भागः । अष्ट-अङ्गुलायां त्रयो दश-भागाः । चतुर्-अङ्गुलायां त्रयोअष्ट-भागाः । अच्छायो मध्य-अह्न इति ।। ०२.२०.३९ ।।
परावृत्ते दिवसे शेषं एवं विद्यात् ।। ०२.२०.४० ।।
आषाढे मासि नष्टच्-छायो मध्य-अह्नो भवति ।। ०२.२०.४१ ।।
अतः परं श्रावण-आदीनां षण्-मासानां द्व्य्-अङ्गुल-उत्तरा माघ-आदीनां द्व्य्-अङ्गुल-अवरा छाया इति ।। ०२.२०.४२ ।।
पञ्चदश-अहो-रात्राः पक्षः ।। ०२.२०.४३ ।।
सोम-आप्यायनः शुक्लः ।। ०२.२०.४४ ।।
सोम-अवच्छेदनो बहुलः ।। ०२.२०.४५ ।।
द्वि-पक्षो मासः ।। ०२.२०.४६ ।।
त्रिंशद्-अहो-रात्रः कर्म-मासः ।। ०२.२०.४७ ।।
सार्धः सौरः ।। ०२.२०.४८ ।।
अर्ध-न्यूनश्चान्द्र-मासः ।। ०२.२०.४९ ।।
सप्त-विंशतिर्नाक्षत्र-मासः ।। ०२.२०.५० ।।
द्वात्रिंशद्बल-मासः ।। ०२.२०.५१ ।।
पञ्चत्रिंशदश्व-वाहायाः ।। ०२.२०.५२ ।।
चत्वारिंशद्द्-हस्ति-वाहायाः ।। ०२.२०.५३ ।।
द्वौ मासावृतुः ।। ०२.२०.५४ ।।
श्रावणः प्रौष्ठपदश्च वर्षाः ।। ०२.२०.५५ ।।
आश्वयुजः कार्त्तिकश्च शरत् ।। ०२.२०.५६ ।।
मार्ग-शीर्षः पौषश्च हेमन्तः ।। ०२.२०.५७ ।।
माघः फाल्गुनश्च शिशिरः ।। ०२.२०.५८ ।।
चैत्रो वैशाखश्च वसन्तः ।। ०२.२०.५९ ।।
ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ।। ०२.२०.६० ।।
शिशिर-आद्युत्तर-अयणं ।। ०२.२०.६१ ।।
वर्ष-आदि दक्षिण-अयनं ।। ०२.२०.६२ ।।
द्व्य्-अयनः संवत्सरः ।। ०२.२०.६३ ।।
पञ्च-संवत्सरो युगं इति ।। ०२.२०.६४ ।।
दिवसस्य हरत्यर्कः षष्टि-भागं ऋतौ ततः । ।। ०२.२०.६५अ ब ।।
करोत्येकं अहश्-छेदं तथाएवएकं च चन्द्रमाः ।। ०२.२०.६५च्द् ।।
एवं अर्ध-तृतीयानां अब्दानां अधिमासकं । ।। ०२.२०.६६अ ब ।।
ग्रीष्मे जनयतः पूर्वं पञ्च-अब्द-अन्ते च पश्चिमं ।। ०२.२०.६६च्द् ।।