← अध्यायः २० अर्थशास्त्रम्
अध्यायः २१
कौटिलीय:
अध्यायः २२ →

 शुल्क-अध्यक्षः शुल्क-शालां ध्वजं च प्रान्-मुखं उदन्-मुखं वा महा-द्वार-अभ्याशे निवेशयेत् ।। ०२.२१.०१ ।।

 शुल्क-आदायिनश्चत्वारः पञ्च वा सार्थ-उपयातान्वणिजो लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ।। ०२.२१.०२ ।।

 अमुद्राणां अत्ययो देय-द्वि-गुणः ।। ०२.२१.०३ ।।

 कूट-मुद्राणां शुल्क-अष्ट-गुणो दण्डः ।। ०२.२१.०४ ।।

 भिन्न-मुद्राणां अत्ययो घटिका-स्थाने स्थानं ।। ०२.२१.०५ ।।

 राज-मुद्रा-परिवर्तने नाम-कृते वा सपाद-पणिकं वहनं दापयेत् ।। ०२.२१.०६ ।।

 ध्वज-मूल-उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्-प्रमाणेनार्घेण पण्यं इदं कः क्रेता" इति ।। ०२.२१.०७ ।।

 त्रि-रुद्ध-उषितं अर्थिभ्यो दद्यात् ।। ०२.२१.०८ ।।

 क्रेतृ-संघर्षे मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०२.२१.०९ ।।

 शुल्क-भयात्पण्य-प्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ।। ०२.२१.१० ।।

 शुल्कं अष्ट-गुणं वा दद्यात् ।। ०२.२१.११ ।।

 तदेव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेनार्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ।। ०२.२१.१२ ।।

 प्रतिक्रेतृ-भयाद्वा पण्य-मूल्यादुपरि मूल्यं वर्धयतो मूल्य-वृद्धिं राजा हरेत् । द्वि-गुणं वा शुल्कं कुर्यात् ।। ०२.२१.१३ ।।

 तदेवाष्ट-गुणं अध्यक्षस्यच्- छादयतः ।। ०२.२१.१४ ।।

 तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः । तर्कः फल्गु-भाण्डानां आनुग्राहिकाणां च ।। ०२.२१.१५ ।।

 ध्वज-मूलं अतिक्रान्तानां चाकृत-शुल्कानां शुल्कादष्ट-गुणो दण्डः ।। ०२.२१.१६ ।।

 पथिक-उत्पथिकास्तद्विद्युः ।। ०२.२१.१७ ।।

 वैवाहिकं अन्वायनं औपायिकं यज्ञ-कृत्य-प्रसव-नैमित्तिकं देवैज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डं उच्छुल्कं गच्छेत् ।। ०२.२१.१८ ।।

 अन्यथा-वादिनः स्तेय-दण्डः ।। ०२.२१.१९ ।।

 कृत-शुल्केनाकृत-शुल्कं निर्वाहयतो द्वितीयं एक-मुद्रया भित्त्वा पण्य-पुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः ।। ०२.२१.२० ।।

 शुल्क-स्थानाद्गोमय-पलालं प्रमाणं कृत्वाअपहरत उत्तमः साहस-दण्डः ।। ०२.२१.२१ ।।

 शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाअवघुषितो दण्डः पण्य-नाशश्च ।। ०२.२१.२२ ।।

 तेषां अन्यतमस्यऽनयने बहिरेवौच्छुल्को विक्रयः ।। ०२.२१.२३ ।।

 अन्त-पालः सपाद-पणिकां वर्तनीं गृह्णीयात्पण्य-वहनस्य । पणिकां एक-खुरस्य । पशूनां अर्ध-पणिकां क्षुद्र-पशूनां पादिकाम् । अंस-भारस्य माषिकां ।। ०२.२१.२४ ।।

 नष्ट-अपहृतं च प्रतिविदध्यात् ।। ०२.२१.२५ ।।

 वैदेश्यं सार्थं कृत-सार-फल्गु-भाण्ड-विचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ।। ०२.२१.२६ ।।

 वैदेहक-व्यञ्जनो वा सार्थ-प्रमाणं राज्ञः प्रेषयेत् ।। ०२.२१.२७ ।।

 तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणं उपदिशेत्सर्वज्ञ-ख्यापनार्थं ।। ०२.२१.२८ ।।

 ततः सार्थं अध्यक्षोअभिगम्य ब्रूयात्"इदं अमुष्यां उष्य च सार-भाण्डं फल्गु-भाण्डं च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ।। ०२.२१.२९ ।।

 निहूहतः फल्गु-भाण्डं शुल्क-अष्ट-गुणो दण्डः । सार-भाण्डं सर्व-अपहारः ।। ०२.२१.३० ।।

 राष्ट्र-पीडा-करं भाण्डं उच्छिन्द्यादफलं च यत् । ।। ०२.२१.३१अ ब ।।

 महा-उपकारं उच्छुल्कं कुर्याद्बीजं च दुर्लभं ।। ०२.२१.३१च्द् ।।