← अध्यायः १६ अर्थशास्त्रम्
अध्यायः १७
कौटिलीय:
अध्यायः १८ →

 साहसं अन्वयवत्प्रसभ-कर्म ।। ०३.१७.०१ ।।

 निरन्वये स्तेयम् । अपव्ययने च ।। ०३.१७.०२ ।।

 "रत्न-सार-फल्गु-कुप्यानां साहसे मूल्य-समो दण्डः" इति मानवाः ।। ०३.१७.०३ ।।

 "मूल्य-द्वि-गुणः" इत्यौशनसाः ।। ०३.१७.०४ ।।

 यथा-अपराध इति कौटिल्यः ।। ०३.१७.०५ ।।

 "पुष्प-फल-शाक-मूल-कन्द-पक्व-अन्न-चर्म-वेणु-मृद्-भाण्ड-आदीनां क्षुद्रक-द्रव्याणां द्वाद्श-पण-अवरश्चतुर्विंशति-पण-परो दण्डः ।। ०३.१७.०६ ।।

 काल-आयस-काष्ठ-रज्जु-द्रव्य-क्षुद्र-पशु-पट-आदीनां स्थूलक-द्रव्याणां चतुर्विंशति-पण-अवरोअष्ट-चत्वारिंशत्-पण-परो दण्डः ।। ०३.१७.०७ ।।

 ताम्र-वृत्त-कंस-काच-दन्त-भाण्ड-आदीनां स्थूलक-द्रव्याणां अष्ट-चत्वारिंशत्-पण-अवरः षण्-णवति-परः पूर्वः साहस-दण्डः ।। ०३.१७.०८ ।।

 महा-पशु-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-सूक्ष्म-वस्त्र-आदीनां स्थूलक-द्रव्याणां द्विशत-अवरः पञ्च-शत-परो मध्यमः साहस-दण्डः ।। ०३.१७.०९ ।।

 स्त्रियं पुरुषं वाअभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च-शत-अवरः सहस्र-पर उत्तमः साहस-दण्डः इत्याचार्याः ।। ०३.१७.१० ।।

 "यः साहसं "प्रतिपत्ता" इति कारयति स द्वि-गुणं दद्यात् ।। ०३.१७.११ ।।

 "यावद्द्हिरण्यं उपयोक्ष्यते तावद्दास्यामि" इति स चतुर्-गुणं दण्डं दद्यात् ।। ०३.१७.१२ ।।

 यः "एतावद्द्हिरण्यं दास्यामि" इति प्रमाणं उद्दिश्य कारयति स यथा-उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ।। ०३.१७.१३ ।।

 स चेत्कोपं मदं मोहं वाअपदिशेद्यथा-उक्तवद्दण्डं एनं कुर्यादिति कौटिल्यः ।। ०३.१७.१४ ।।

 दण्ड-कर्मसु सर्वेषु रूपं अष्ट-पणं शतं । ।। ०३.१७.१५अ ब ।।

 शतात्परेषु व्याजीं च विद्यात्पञ्च-पणं शतं ।। ०३.१७.१५च्द् ।।

 प्रजानां दोष-बाहुल्याद्राज्ञां वा भाव-दोषतः । ।। ०३.१७.१६अ ब ।।

 रूप-व्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ।। ०३.१७.१६च्द् ।।