← अध्यायः १७ अर्थशास्त्रम्
अध्यायः १८
कौटिलीय:
अध्यायः १९ →

 वाक्-पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति ।। ०३.१८.०१ ।।

 शरीर-प्रकृति-श्रुत-वृत्ति-जन-पदानां शरीर-उपवादे काण-खञ्ज-आदिभिः सत्ये त्रि-पणो दण्डः । मिथ्या-उपवादे षट्-पणो दण्डः ।। ०३.१८.०२ ।।

 "शोभन-अक्षिमन्तः" इति काण-खञ्ज-आदीनां स्तुति-निन्दायां द्वादश-पणो दण्डः ।। ०३.१८.०३ ।।

 कुष्ठ-उन्माद-क्लैब्य-आदिभिः कुत्सायां च सत्य-मिथ्या-स्तुति-निन्दासु द्वादश-पण-उत्तरा दण्डास्तुल्येषु ।। ०३.१८.०४ ।।

 विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१८.०५ ।।

 कुष्ठ-उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं । क्लीब-भावे स्त्रियो मूत्र-फेनोअप्सु विष्ठा-निमज्जनं च ।। ०३.१८.०६ ।।

 प्रकृत्य्-उपवादे ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-अन्त-अवसायिनां अपरेण पूर्वस्य त्रि-पण-उत्तरा दण्डाः । पूर्वेणापरस्य द्वि-पण-अधराः । कुब्राह्मण-आदिभिश्च कुत्सायां ।। ०३.१८.०७ ।।

 तेन श्रुत-उपवादो वाग्-जीवनानां । कारु-कुशीलवानां वृत्त्य्-उपवादः । प्राज्जूणक-गान्धार-आदीनां च जन-पद-उपवादा व्याख्याताः ।। ०३.१८.०८ ।।

 यः परं "एवं त्वां करिष्यामि" इति करणेनाभिभर्त्सयेद् । अकरणे यस्तस्य करणे दण्डस्ततोअर्ध-दण्डं दद्यात् ।। ०३.१८.०९ ।।

 अशक्तः कोपं मदं मोहं वाअपदिशेद्द्वादश-पणं दण्डं दद्यात् ।। ०३.१८.१० ।।

 जात-वैर-आशयः शक्तश्चापकर्तुं यावज्-जीविक-अवस्थं दद्यात् ।। ०३.१८.११ ।।

 स्व-देश-ग्रामयोः पूर्वं मध्यमं जाति-संघयोः । ।। ०३.१८.१२अ ब ।।

 आक्रोशाद्देव-चैत्यानां उत्तमं दण्डं अर्हति ।। ०३.१८.१२च्द् ।।