अलङ्कारमणिहारः (भागः २)/असंभवालंकारः (३८)

(३८)-अथासंभवसरोऽष्टत्रिंशः.


असंभाव्यत्वकथनमर्थसिद्धेरसंभवः ॥

 कस्यचित्कार्यस्य निष्पत्तेरसंभावनीयत्ववर्णनमसंभवो नामालंकारः । यथा--

 कुरुसदसि द्रुपदसुता परिभूताऽभूद्यदा तथा धूर्तैः । तव करुणा तां भगवंस्तदाऽभिरक्षेत्तथेति को वेद ॥ ११३९ ॥

 यथावा--

 चरणत्रयमितधरणीवरणकृतार्थेन वामनेन हरे । जगतां त्रितयं भवताऽऽक्रम्यत इति केन नाम विज्ञातम् ॥ ११४० ॥

 यथावा--

 सर्वद इति हृदयं त्वयि दर्वीकरगिरिपते मया न्यस्तम् । अपहरसि तदेव त्वं देव त्वामीदृगिति न वेदाहम् ॥ ११४१ ॥

 अत्रोदाहरणत्रये पाञ्चालीरक्षणजगत्त्रयाक्रमणहृदयापहरणानां पदार्थानां निष्पत्तेरसंभावनीयत्वं को वेदेत्यादिभिराविष्कृतमिति लक्षणानुगतिः ॥  यथावा--

 गोपकिशोरस्य वने तापो मा भूत्पिधेहि घन तपनम् । इत्याशासे विद्यात्का वा दावाग्निमेष पिबतीति ॥ ११४२ ॥

 यशोदाया उक्तिरियम् । घनेति जलधरस्य संबोधनम् । अत्र गोपकिशोरस्य दावाग्निपानरूपपदार्थनिष्पत्तेरसंभाव्यत्वं का वा विद्यादित्यनेनाविष्कृतम् ॥

 यथावा--

 शुभभाविभवान्दद्या इति हे रमाधिप समाश्रिता एते । शुभभाविभवानेवं हरे त्वमेषां हरेरिति न विद्मः ॥ ११४३ ॥

 शुभं कल्याणं भाः दीप्तिः विभवः ऐश्वर्यं एतेषां द्वंद्वः शुभभाविभवाः तान् । उत्तरार्धे विरोधपरिहारे हे शुभेति संबुद्धिः । भाविभवान् भविष्यज्जन्मानीत्यर्थः । अत्र शुभभाविभवहरणरूपपदार्थनिष्पत्तेरसंभावनीयता एवं हरेरिति न विद्म इत्यनेन प्रकाशिता ॥ रमाधिप हरे इति संपत्प्रदानहरणसामर्थ्याभिप्रायगर्भविशेष्यन्यसनरूपपरिकराङ्कुरश्लेषविषमविशेषसंकीर्णोऽयमिति पूर्वेभ्यो विशेषः ॥

 अयमलंकारो दीक्षितोपज्ञमेव । प्राचीनैस्तु न लक्षितः । तद्दर्शने तु प्रदर्शितेषु प्रथमेतरेषु ‘चरणत्रयमितधरणी' इत्यादिषु त्रिषूदाहरणेषु यद्यपि विरोधालंकारेण भाव्यम् । वामनादीनां द्रव्याणां जगत्त्रयाक्रमणादिक्रियाभिर्विरोधस्य स्फुटत्वात् । अत एव कुवलयानन्दीयासंभवोदाहरणभूतं ‘अयं वारामेको निलय इति रत्नाकर इति’ इति पद्यमलंकारसर्वस्वकारादयो द्रव्यक्रियाविरोधोदाहरणतयोपाददिरे । अन्तिमे ‘शुभभाविभवान्दद्याः' इत्युदाहरणे तु वक्ष्यमाणविषमप्रकारभेदेन भवितव्यं, अर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तेरनिष्टप्रतिलम्भस्य च वर्णितत्वात् । तथाऽपि प्राथमिके ‘कुरुसदसि द्रुपदसुता' इति पद्ये तादृशविरोधस्य वा अलंकारान्तरस्य वा असंभवादसंभवालंकार एवोक्तलक्षणलक्षितो विच्छित्तिविशेषशालितयाऽवश्याभ्युपेय इति द्वितीयाद्युदाहरणेष्वप्यर्थनिष्पत्त्यसंभाव्यतावर्णनलक्षणविच्छित्तिविशेषसद्भावस्य सहृदयहृदयैकसाक्षिकतया स एवालंकारः प्रधानीभूत इति तेनैव व्यपदेशो युक्तः 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात् । अन्यस्तु तदङ्गत्वेनाप्रधानतयाऽवतिष्ठत इति सुधीभिराकलनीयम् ॥

इत्यलंकारमणिहारे असंभवसरोऽष्टत्रिंशः