अलङ्कारमणिहारः (भागः २)/मालादीपकालंकारः (५०)

               




   

यद्यपि प्राचीनैरेतद्दीपनमात्रानुगुण्याद्दीपकानन्तरं लक्षितम् । शृङ्खलामूलत्वेन विशिष्टमस्य चारुत्वमित्यस्मिन्नेव प्रकरणे लक्षितं सर्वस्वकुवलयानन्दकारादिभिरिति ॥



अथ मालादीपकसरः (५०)

मालादीपकमेतत्स्याद्दीपकैकावळीयुतेः ॥

 युतेः योगात् । एकधर्मान्वयस्य गृहीतमुक्तरीतेश्च मेळनात् मालादीपकं नामालंकारः । एकस्यैव धर्मस्य वाक्यान्तरेष्वप्यन्वयमात्रेण दीपकसादृश्याद्दीपकं, न तु प्रागुक्तदीपकालंकारः, प्रकृताप्रकृतानामौपम्यस्य गम्यतायामेव तदवतारात् ॥

 यथा--

 हारः कौस्तुभमणिना सोऽपि भवद्वक्षसा तदपि लक्ष्म्या । साऽपि भवता भवानपि सौशील्याद्यैर्गुणैरुपस्क्रियते ॥ १४०५ ॥

 उपस्क्रियते अलंक्रियते । उपपूर्वकात्कृञः कर्मणि लट् । 'उपात्प्रतियत्न’ इत्यादिना प्रतियत्नार्थे कृञस्सुट् । प्रतियत्नो गुणाधानम् । अत्र उपस्क्रियत इत्येकमेव पदं हारः कौस्तुभमणिना उपस्क्रियते सोऽपि भवद्वक्षसा उपस्क्रियत इत्येवं सर्ववाक्यान्वयीति दीपकसादृश्याद्दीपकम् । गृहीतसुक्तरीतिसद्भावादेकावळीति दीपकैकावळीयोगः ॥  यथावा--

 रुद्राश्रिता दिविषदो रुद्रो ब्रह्माणमाश्रितो भगवन् । ब्रह्मा त्वामाश्रित इह न त्वं श्रयसे कदाचिदपि कमपि ॥ १४०६ ॥

 इदमावृत्तिदीपकैकावळीयोगलक्षणं मालादीपकमिति पूर्वोदाहरणाद्विशेषः । अत्र–-

रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः ॥

इति महाभारतीयभगवद्वचनार्थोऽनुसंहितः ॥

इत्यलंकारमाणिहारे मालादीपकसरः पञ्चाशः