अलङ्कारमणिहारः (भागः २)/विशेषालंकारः (४६)

अथ विशेषालंकारसरः (४६)

विशेषस्स्याद्विनाऽऽधारादाधेयं वर्ण्यते यदि ।

 प्रख्याताधारमन्तरेणाधेयस्य विशिष्टावस्थितिवर्णनं विशेषालंकारः । अयं च द्विविधः-- आधारान्तरगतत्वेनाधेयस्य वर्णनं निराधारत्वेन च ॥

 तत्राद्या यथा--

 क्षीणेऽस्तगेऽपि चन्द्रे सान्द्रा शौरे तनोति तज्ज्योत्स्ना । तव वदने दीव्यन्तीवरहितमिन्दीवरामोदम् ॥ १३७३ ॥

 वरं हितं च इन्दीवराणां आमोदं सौरभम्, पक्षे दीव्यन्तीवरहितमित्यत्र दीव्यन्ती इवरहितमिति च्छेदः । इवरहितं इन्दीवरामोदं इन्दिरामोदमित्यर्थः । इन्दीवरामोदमित्यत्र दकारोत्तरवर्तिन ईकारस्य ह्रस्वे वर्णाद्वितयात्मकत्वेन उत्तरस्य इकारस्य लोपेऽपि पूर्वस्य इकारस्य सद्भावेन तथा निष्पत्तेः ॥ यद्वा ईवरहितमित्येव च्छेदः, तथाच ईवरहितं इन्दीवरामोदं इन्द्रामोदमित्यर्थः । इन्दीवरामोदशब्दे दकारोत्तरवर्तिना ईकारेण सह वकारस्य लोपे अवशिष्टदकाररेफसंयोगेन तथा निष्पत्तेरिति भावः । भगवद्दिव्यवदनज्योत्स्नायास्त्रैलोक्यैश्वर्यवितरणेनेन्द्रामोदविधानं पुराणादिषु प्रसिद्धम् । भगवद्वदनश्रियः तदीयस्मितश्रियो वा ज्योत्स्नात्वेनाध्यवसानम् । अत्र चन्द्ररूपप्रसिद्धाधारस्याभावेऽपि तज्ज्योत्स्नारूपाधेयस्य भगवद्वदनलक्षणाधारान्तरगतत्वेन विशिष्टावस्थितिः ॥  यथावा

 लीनेऽपि जलधिमध्ये भानौ निखिलं तदीयरुचिजालम् । कमलोल्लासं कलयति कमलाक्षोरस्स्थमणिगतं सततम् ॥ १३७४ ॥

 कमलोल्लासं कमलानां विकासं कमलाया हर्षं च । अत्रापि भानुरुचिजालस्य प्रसिद्धाधाराभावेऽपि वर्णनीये कौस्तुभे विशिष्टावस्थानमुक्तम् ॥

 यद्यप्यत्रोदाहरणद्वयेऽपि ज्योत्स्नारविरुचिजालजातीये एव वर्णनीययोर्ज्योत्स्नारुचिजाले वर्ण्येते न तु ते एव । तथाऽपि भेदेऽप्यभेद इत्यतिशयोक्तिबलादेकत्वाध्यवसायाददोषः । इन्दीवरामोदकमलोल्लासयोस्तु श्लेषभित्तिकाभेदाध्यवसायमूलकातिशयोक्तिबलादेकत्वाध्यवसायः । न चैवमतिशयोक्तिरेव स्यादिति वाच्यम् । तस्यास्सर्वालङ्कारप्राणप्रदतया अलङ्कारान्तरबाधनायोगात्, अन्यथा श्लिष्टपरंपरिताद्यनेकालङ्कारलोपप्रसङ्गात् । यथोक्तं भामहेन--

सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते ।
यत्नोऽस्यां कविभिः कार्यः कोऽलङ्कारस्तया विना ॥

इति । वक्रोक्तिः अतिशयोक्तिरित्यर्थः ॥

 द्वितीयः प्रकारो यथा--

 नयनरुचाऽवयवरुचाऽप्यगगनजलदाननभ्रतटितश्च । दिशिदिशि परिविकिरन्ती दिशति फणीशाद्रिमणिवधूरमृतम् ॥ १३७५ ॥  अमृतं सलिलं निश्श्रेयसं च । अत्र गगनं विना अभ्राणां अभ्राणि विना तटितां च निराधारतयैवावस्थानम् ॥

 यथावा--

 सह रघुवीरेण गतं तदाश्रितं यच्चराचरं निखिलम् । तत्कीर्तेर्धाष्ट्यं कियदेका लोकान्निराश्रया चरति ॥ १३७६ ॥

 पूर्वं रूपकसङ्कीर्णम् । इदं शुद्धं समासोक्तिसङ्कीर्णं वा ॥


द्वितीयविशेषः

यत्रैकमेव युगपदनेकाधारसंश्रयम् ।
आधेयं वर्ण्यते सोऽपि विशेषः परिकीर्तितः ॥

 यत्रैकमाधेयं परिच्छिन्नयत्किञ्चिदाधारस्थितमपि युगपदनेकाधारगतत्वेन वर्ण्यते स द्वितीयो विशेषप्रकारः । वक्ष्यमाणपर्यायव्यावृत्तये युगपदिति ॥

 यथा--

 शिरसि दिशां तत्त्वदृशां मनसि मुनीनां च वचसि सुकवीनाम् । त्वयि सन्त एव सुगुणाः पयसिजलोचन सदाऽपि विहरन्ते ॥ १३७७ ॥

 यथावा--

 श्रुतिमौळौ नतमौळौ प्रतिभाति च यद्वृषाद्रिवरमौळौ । तत्पादपद्मयुगळं मत्पापततिं जगत्पतेर्हरताम् ॥ १३७८ ॥  अत्रादिमे पद्ये भगवतः कल्याणगुणानां द्वितीये पादपद्मयुगळस्य च युगपदनेकाधारस्थितिः ॥

 यथावा--

 श्रितकनकविमानं यं वीक्षेऽहिगिरो पुमांसममुमेव । वेद्मि विधाभेदाद्रविबिम्बे श्रितकनकधामानम् ॥ १३७९ ॥

 यं अहिगिरौ श्रितकनकविमानं वीक्षे पश्यामि अमुमेव पुमांसं परमपुरुषं रविबिम्बे विधाभेदात् प्रकारभेदात् श्रितकनकधामानं 'य एषोऽन्तरादित्ये हिरण्मयः पुरुष' इति श्रुतहिरण्यवर्णं वेद्मि अयमेक एव परमपुरुष उभयत्र स्थित इति जानामि । शेषाद्रौ जलदनीलवर्णत्वं रविबिम्बे तु सुवर्णवर्णत्वमित्ययमेव विधाभेदः ।पक्षेश्रितकनकविमानशब्दमेव विधाभेदात् वि धा इति वर्णमात्रवैलक्षण्यात् श्रितकनकधामानं श्रितकनकधामशब्दं वेद्मीति चमत्कार एव पूर्वतो विशेषः ॥


तृतीयविशेषः

किंचित्कार्यारम्भमात्रादन्यत्कार्यं सुदुष्करम् ।
कृतं निबध्यते यत्र विशेषस्सोऽपि सम्मतः॥

 किंचित्कार्यमारभमाणस्यासंभाविताशक्यकार्यान्तरनिर्वर्तनं तृतीयो विशेषप्रकारः । एवंच एतदन्यतमत्वं विशेषालंकारसामान्यलक्षणमिति ध्येयम् ॥

 यथा--

 सोपानपथे ददता गोपालेनापि पादमहिशैले । उदलङ्घि साऽर्चिरादिकपदवी सहसाऽत्र कोनु संदिग्धाम् ॥ १३८० ॥

 अत्र शेषाद्रिसोपानप्रथमपर्वणि पदन्यसनरूपकिंचित्कार्यारम्भेणासंभाविताशक्यतमार्चिरादिमार्गोल्लङ्गनरूपकार्यान्तरनिर्वर्तनं निबद्धम् ॥

 यथावा--

 मरुदशनवरधराधरशिरो हरे त्वं वतंसयसि सततम् । जगदखिलं शेखरितं भगवन् भवतेति भवति चित्रमिदम् ॥ १३८१ ॥

 अत्र शेषगिरिमात्रावतंसनलक्षणकिंचित्कार्यारम्भेण दुष्करतमाखिलजगच्छेखरवत्तानिष्पादनम् ॥

 यथावा--

 त्वामेकं विश्वम्भर बिभ्राणो हृदि बिभर्मि विश्वमिदम् । ननु विश्वभरणनिपुणस्त्वं वाऽहं वा विमृश्य वद तावत् ॥ १३८२ ॥

 अत्रैकभगवद्भरणकार्यारम्भेण दुष्करतमविश्वभरणकार्यान्तरकरणम् । विश्वंभरेति साभिप्रायविशेष्यविन्यासरूपपरिकराङ्कुरोदञ्चितवैभवमिति विशेषः ॥

 यथावा--

 अतिसुरभिगन्धमादनमतिवेलं रत्नसानुमहिशैलम् । सृजतेह चित्रकूटं बहवशैलाः कृताः क्षितौ विधिना ॥ १३८३ ॥  अत्यन्तं सुरभिणां चम्पककुसुमानां गन्धेन मादनं जनमानसविकारोत्पादकम् । पक्षे अतिसुरभि अतिमात्रमनोज्ञं गन्धमादनं तन्नामानं गिरिम् । रत्नानि सानुषु यस्येति तं रत्नसानुम् । पक्षे सुमेरुम् । चित्राणि विस्मयावहानि कूटानि शिखराणि यस्य तत्, चित्रकूटनामगिरिं च । ईदृशमहिशैलं सृजता विधिना क्षितौ बहवश्शैलाः कृताः सृष्टाः ॥

 यथावा--

 सुखपवनसर्वतोमुखशुचिविपुलं फणधराचलं सृजता । अन्यानि पद्मजनुषा युगपद्भूतानि ससृजिरे पञ्च ॥ १३८४ ॥

 खं नभः, पवनः, सर्वतोमुखं सलिलं, शुचिः अग्निः, विपुला भूश्च एतेषां समाहारः, तत् शोभनं यस्य तत् सुखपवनसर्वतोमुखशुचिविपुलम् । पक्षे सुखं पान्ति रक्षन्तीति सुखपानि सुखावहानि वनानि काननानि यस्मिन् सः, सर्वतोमुखः विश्वतश्शिखरवान्, शुचिः शुद्धः, विपुलः विशालश्चेति विशेषणानां कर्मधारयः । ईदृशं फणधराचलं सृजता । अन्यत्सुगमम् ॥ अत्र विलक्षणानां भूतानां युगपत्सृष्टेश्श्रौतः क्रमो न विवक्षितः ॥

 यथावा--

 महितमहारम्भाढ्यां बहुशोभाभृत्कृतस्थलां सृजता । अहिशैलधरां धात्रा विहिताऽनेकाप्सरस्सृष्टिः ॥ १६८५ ॥

 महिताः महानां आरम्भाः तैः आढ्यां संपन्नाम् । पक्षे महिता पूजिता महती रम्भा तन्नामा अप्सराः तया आढ्याम् । बहुशः भाभृन्ति कृतानि स्थलानि यस्यास्ताम् । पक्षे बहुशोभां बिभर्तीति बहुशोभाभृत् कृतस्थला नामाप्सराः यस्यां सेति । अहिशैलधरां सृजता धात्रा अनेकासां अप्सरसां स्वर्वेश्यानां सृष्टिः, पक्षे अनेकेषां अप्सरसां जलाशयानां सृष्टिः विहितेति ॥ अत्र 'अतिसुरभिगन्धमादनम्' इत्याद्युदाहरणत्रये शेषाद्रिसृष्टिरूपकिंचित्कार्यारम्भेण नानाविधशैलादिसर्जनरूपदुष्करतरकार्यान्तरनिष्पादनं श्लेषोत्तम्भितं निबद्धम् । मध्यपद्ये रत्नावळी चेति विशेषः ॥

इत्यलंकारमणिहारे विशेषालंकारसरः षट्चत्वारिंशः.