अलङ्कारमणिहारः (भागः ३)/छेकोक्त्यलङ्कारः (९५)

               




   


 यथावा--

 समितौ सतां निविशतां न तावता त्वत्कथां खलो गायेत् । लोकेश किंनु काकः पञ्जरनिहितोऽपि पञ्चमं ब्रूयात् ॥ १९१२ ॥

 यथावा--

 त्वयि सर्वेऽप्युपचारा वन्ध्यास्स्युर्देवतान्तरासङ्गे । एकस्मिन् स्वैरत्वे नाथ सहस्रं व्रतानि नश्यन्ति ॥ १९१३ ॥

 यथावा--

 प्राक्त्वदनुग्रहहानादधुनाऽपि तवात्यनुग्रहविधानात् । अभजामाकिंचनतामेवंच पृथाभुवां न किल राज्यम् ॥ १९१४ ॥

 प्राक् अकिंचनतां दरिद्रतां अधुना अकिंचनतां उपायान्तरविधुरतां अभजाम । एवंच ऐहिकश्रीरस्माकं दवीयसीति बिम्बमनादृत्य एवंचेत्यादिप्रतिबिम्बवर्णनात् ललितोज्जीवितेयम् । पूर्वोदाहरणेषूपमानिदर्शनाद्युज्जीवितत्वं द्रष्टव्यं बुद्धिमद्भिः । एषु सर्वेष्वपि पद्येषु तत्तद्देशीयलोकप्रवादानुकृतिः ॥

इत्यलंकारमणिहारे लोकोक्तिसरश्चतुर्नवतितमः.


अथ छेकोक्तिसरः (९५)


स्याच्चेल्लोकोक्तिरन्स्यार्थगर्भा छेकोक्तिरिष्यते ।

 यथावा--

 त्वद्विमुखोऽम्बुजलोचन मद्वंशे मा जनिष्ट कश्चिदपि । विकलस्स्वयं प्लवङ्गस्सकलं वनमपि कदर्थयेन्नूनम् ॥ १९१५ ॥

 अत्र ‘मा जनिष्ट स नो वंशे’ इत्युपक्रम्य ‘आजन्मनिधनं यस्य वासुदेवो न दैवतम्’ इति वचनैकदेशार्थसंग्राहके प्रपन्नवचने विकलस्स्वयं प्लवङ्ग इत्यान्ध्रदेशप्रसिद्धलोकप्रवादोऽनुकृतः । तत्र सर्वेश्वरेश्वरे त्वयि वैमुख्यमश्नुवानः अतिचपलतया कपिप्राय एव । स हि अचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यभक्तिपरिपूर्णतया महावनमिवातिगभीरतमं स्वकुलमपि स्वदौरात्म्येनाकुलयेदित्यर्थान्तरमपि गर्भितम् ॥

 यथावा--

 ननु कस्मिन् वल्मीके वृजिनगतिः कीदृगस्तिवेति वदन् । सङ्गात्स्जनस्यापि त्रस्यति भगवंस्त्वदेकशरणो यः ॥ १९१६ ॥

 वृजिनगतिः जिह्मगः । अत्रान्ध्रभाषाप्रसिद्धलोकप्रवादानुकृतिः । प्राकृतो जनस्तमोमयतया दुर्जन्तुसंवलिततया चातिभयङ्करो वल्मीकप्राय एव तस्मिन् वृजिनगतिः दुरितानुबन्धः कीदृग्वेत्यर्थान्तरगर्भिता । अत्र--

अप्येकपङ्क्तौ नाश्नीयाद्ब्राह्मणैस्स्वजनैरपि ।
को विजानाति किं कस्य प्रच्छन्नं पातकं भवेत् ॥

 इति स्मृत्यर्थच्छायाऽनुसृता ॥

इत्यलङ्कारमणिहारे छेकोक्तिसरः पञ्चनवतितमः.