अलङ्कारमणिहारः (भागः ३)/निरुक्त्यलङ्कारः (१०१)

               




   


दुत्कर्षात्युक्तावुदात्तं, शौर्यात्युक्तावत्युक्तिः' इति । अन्ये तु "अत्यद्भुतकविप्रतिभामात्रगोचरासंभावितार्थवर्णनमुदात्तमित्युदात्ता लंलकारं लक्षयित्वा तस्यार्थस्य संपच्छौर्यौदार्यादिनानाप्रकारतया तथाविधसंपच्छौर्यादार्याद्यत्युक्तीनां भेदे प्रमाणाभावान्नात्युक्तिः पृथक् लक्षणीया” इत्याहुः । दीक्षितानां तु तथ्यत्वातथ्यत्वाभ्यामनयोर्भेद इत्यभिप्रायमवर्णयद्वैद्यनाथः ॥

इत्यलङ्कारमणिहारे अत्युक्तिसरश्शततमः.


अथ निरुक्तिसरः (१०१)


 सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥

 योगवशान्नाम्नोऽर्थविशेषाभिधायिनोऽर्थान्तरोपवर्णनं निरुक्तिर्नामालङ्कारः । यद्यप्ययं प्राचीनैर्नालंकारतया लक्षितः, तथाऽपि जयदेवीये चन्द्रालोके तृतीयमयूखे--

निरुक्तं स्यान्निर्वचनं नाम्नस्सत्यं तथाऽनृतम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥

 इति काव्यलक्षणतया प्रतिपादितं निरुक्तमेव किंचिद्वैलक्षण्येन दीक्षितैरर्थालंकारतया पर्यगण्यतेति तदनुरोधेनास्माभिरप्ययमलंकारो लक्षितः । नाम्नः प्रसिद्ध्यनुरोधेन कृतं निर्वचनं सत्यं, अनृतं निर्वचनं त्वन्यथा कलितम् ॥

 यथा--

 अर्दयसि जनानेतान्निर्दय इव भवदुरन्तकान्तारे । जगदीश तदिह सत्यं जनार्दनोऽसीति कोऽत्रं सन्देहः ॥ १९६७ ॥

 अत्र जनैस्सर्वान् पुमर्थान् अर्द्यते याच्यत इति व्युत्पादितस्य जनार्दननाम्नः उक्तरीत्या योगतोऽर्थान्तरकल्पनम् ॥

 यथावा--

 अतिविशदमधुरतावकवचोरसस्ते यतस्सुधाब्धिसुते । तेनैव गुणेन सिता बभूव तच्छर्करा सितेति जगे ॥ १९६८ ॥

 हे सुधाब्धिसुते! इदं तद्वाग्रसेऽपि विवक्षिततद्गुणानुवर्तनाभिप्रायकम् । शर्करा तेनैव उक्तविशेषणतावकवचोरसेनैव कर्त्री गुणेन करणभूतया रज्ज्वा सिता अपराधानुगुणशिक्षणाय सन्दानिता । परमार्थतस्तु-- तेनैव गुणेन विशदिम्ना मधुरिम्णा च गुणेनैव सिता विशदा बद्धा च ‘षिञ् बन्धने’ कर्मणि क्तः संबद्धेत्यर्थः । उक्तविशेषणविशिष्टश्रीवाग्रसचौर्यादेवास्या वैशद्यमाधुर्यलाभश्शर्कराया इति भावः । अतः एवं बद्धत्वादेव सितेति जगे अगीयत ‘शर्करा सिता’ इति नैघण्टुकैरिति भावः । अत्र सितेति शर्करानाम्नो योगतोऽर्थान्तरकल्पनम् ॥

 यथावा--

 पदवीवशात्प्रविशतो यदभूच्चन्द्रस्य विश्रमस्थानम् । त्वदुदवसितशीर्षगृहं तदुच्यते नाथ चन्द्रशालेति ॥ १९६९ ॥

 अत्र चन्द्रशालेति नाम्नोऽर्थान्तरकल्पनं योगेन ॥

 यथावा--

 यद्विश्वनामरूपव्याकरणपटीयसी तव प्रेक्षा । तत्त्वां शेषगिरीश्वरमवैमि सच्छब्दितं हरे सत्यम् ॥ १९७० ॥

 हे हरे यत् यस्मात् तव प्रेक्षा प्रज्ञा ‘प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । पक्षे प्रकृष्टा ईक्षा 'तदैक्षत बहु स्याम्' इत्याद्युक्तसंकल्पः नामानि प्रातिपदिकानि, उपलक्षणमेतदाख्यातानाम् । तेषां रूपाणि स्वरूपाणि विश्वानि नामरूपाणि यस्मिंस्तत्तथोक्तं यद्व्याकरणं शब्दनयः तस्मिन् पटीयसी । अन्यत्र विश्वस्य चिदचिदात्मकप्रपञ्चस्य नामरूपव्याकरणे देवादिवि चित्रसृष्टितन्नामधेयकरणे पटीयसी । तत् तस्मात् एवंविधव्याकरणनयपटुतरप्रज्ञत्वात्, पक्षे तव एवंविधसंकल्पवत्वात् । सच्छब्दितं सन् विद्वान् इति शब्दितं उक्तं ‘सन्सुधीः' इत्यमरः । पक्षे ‘सदेव सोम्य’ इति सच्छब्दाभिलपनीयं अत्र सच्छब्दो मानसंबन्धयोग्यत्वलक्षणं सत्त्वं प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते । त्वां शेषस्य पतञ्जलितयाऽवतीर्णस्य भगवतोऽनन्तस्य गिरि वाचि महाभाष्ये इत्यर्थः । ईश्वरं समर्थं तदधीतिबोधप्रचारपटीयांसमित्यर्थः । 'स्वामीश्वराधिपति’ इत्यादिना सप्तमी । सत्यं निश्चितं यथा स्यात्तथा । इतरत्र शेषगिरीश्वरं वेङ्कटाद्रिनाथं त्वां सत्यं 'सत्यं ज्ञानम्' इत्युक्तं परं ब्रह्म अवैमीति योजना । अत्र उक्तरीत्या शेषगिरीश्वरशब्दस्य योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 नलिनेक्षणललनामणि नयनरुचा तव निराकृतो मीनः । विगळितसारो मन्ये विसारमेनं वदन्ति तद्विबुधाः ॥ १९७१ ॥

 धवलोज्ज्वलासितरुचा तव लोचनसरसिजेन मीन इह । प्रविलोपितसारोऽभूद्भुवि लोकैस्तद्विसार इत्यूचे ॥ १९७२ ॥

 इदमेकार्थकं पद्यद्वयमानुपूर्वीवैचित्र्यप्रदर्शनमात्रसारम् ‘विसारश्शकुली’ चेति मीनपर्यायेष्वमरः । अत्र उक्तप्रकारेण विसार इति मीननाम्नो योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 हरिणा स्वरुचिजिहीर्षुर्घनः कपोलेऽभ्यहन्यत प्रायः । अस्य भ्रश्यन्ति रदाः करकमिषान्नीरदं तदाहुरमुम् ॥ १९७३ ॥

 निर्गळिताः रदाः दन्ताः यस्य स इति नीरदशब्दस्य योगप्रदर्शनेनार्थान्तरकल्पनम् ॥

 यथावा--

 तव यशसैवाच्युत भुवि पवित्रितायां स्वजन्मवैफल्यम् । जानाना विबुधधुनी जाता मन्दाकिनीति सार्थाख्या ॥ १९७४ ॥

 मन्दा अभाग्या अलसा वा अकिनी दुःखिनी ‘अकं दुःखे च पापे च' इति विश्वः । अत्र मन्दाकिनीति नाम्नो योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 स्वस्तरुरुदारमणिना त्वया परास्तस्ततस्स्वरुर्भूत्वा । त्वां विजिगीषुस्त्वन्नखभिन्नोऽन्वर्थाभिधोऽभवन्नृहरे ॥ १९७५ ॥

 स्वस्तरुः कल्पशाखी उदारमणिना त्वया परास्तः औदार्येण निरस्तः ततः वैरशुद्धिविधानाय स्वरुः दम्भोळिः भूत्वा

‘शतकोटिस्स्वरुश्शम्ब' इत्यमरः । त्वां विजिगीषुस्सन् त्वन्नखैः भिन्नः विदारितः अतएव अन्वर्थाभिधः सुष्ठु अरुः यस्य सः स्वरुः बलवद्व्रण इति अन्वर्थसंज्ञकः अभवत् । ‘व्रणोऽस्त्रियामीर्ममरुः’ इत्यमरः । नृहरे इति दम्भोलिविभेदनक्षमनखशिखातैक्ष्ण्यातिशयाभिप्रायगर्भम् । अत्र स्वस्तरुः स्वस्तरुशब्दः परास्तः पराकृतः स्तः स्त इति वर्णो यस्य स तथोक्तः । अतएव स्वरुर्भूत्वा उक्तरीत्या स्वरुशब्दो भूत्वेत्यर्थोऽपि चमत्कारातिशयाधायकः । अत्र स्वरुरिति नाम्नो योगेनार्थान्तरपरिकल्पनं विषमालंकारसंकीर्णम् ॥

 यथावा--

 श्रीरुचिभारकचाकचिदूरधुतं कनकमीषदार्तमरौत् । तदिदं कार्तस्वरमिति गदितं कविभिरिति विदितमस्माभिः ॥ १९७६ ॥

 अरौत् अक्रन्दत् । ईषदार्तः कार्तः स्वरो यस्य तत्तथोक्तं 'ईषदर्थे’ इत्यनेन कोः का इत्यादेशः । अत्र कार्तस्वरमिति नाम्नः योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 भ्रात्रा सह हरिहृदयं यान्त्या रत्नाकरो जनिनिकाय्यः । मुद्रित आसीद्रमया नूनं तदिमं जगुस्समुद्र इति ॥ १९७७ ॥

 भ्रात्रा कौस्तुभेन सह निर्गमनं जन्मगृहस्य रत्नाकरत्वं च मुद्रणावश्यकतां द्योतयतः । अत्र समुद्र इति नामधेयस्य योगेनार्थान्तरकल्पनम् । समुद्रशब्दः संपूर्वकात् 'उन्दी क्लेदने'

इत्यस्माद्धातोः ‘स्फायितञ्चि' इत्यादिना रकि सिद्धः । समीचीनाः उद्राः जलजन्तुविशेषा अस्मिन्निति कैश्चिन्निष्पादितः । तस्य योगेनान्यदर्थकल्पनम् ॥

 यथावा--

 निजवदनरुचिजिहीर्षोस्सितद्युतेर्हरिरवद्यति स्म करान् । शुचिकरतयैष विदितोऽवदातकरतां कुतोऽन्यथा बिभृयात् ॥ १९७८ ॥

 करान् हस्तान् किरणानिति तु तत्त्वम् । अवद्यति स्म कृणत्ति स्म ‘दो अवखण्डने’ अस्माद्दैवादिकात्कर्तरि लट् । अन्यथा एवं करच्छेदाभावे शुचिकरतया परस्वापहरणदोषविरहेण शुद्धहस्ततया विशदकिरणतयेति | वस्तुस्थितिः । विदितः एषः अवदातकरतां अवकृतपाणितां शुक्लांशुतामिति परमार्थस्थितिः । ‘कृत्तं दातं दितं छितम्' इत्यमरः । द्यतेः कर्मणि क्तः । ‘आदेचः' इत्यात्वम् । शिष्टं स्पष्टम् । अत्रावदातकर इति सितकिरणतारूपप्रवृत्तिनिमित्तशालिनो नाम्न उक्तरीत्या योगेनार्थान्तरवर्णनम् ॥

 यथावा--

 निजमन्दहसितलक्ष्मीमुमुषिषयेन्दौ करान्प्रसारयति । तानसिनोत्सपदि हरिस्तेन स सितकर इति प्रथामयते ॥ १९७९ ॥

 असिनोत् अबध्नात् ‘षिञ् बन्धने' लङ् । सितकरः संदानितपाणिः । अत्र सितकर इति नाम्न उक्तरीत्या योगेनार्थान्तरप्रक्लृप्तिः ॥

 यथावा--

 प्रद्योतनशतसदृशा विद्योतितदशदिशाऽम्ब तव महसा । विध्वंसितद्युतितया विद्युदपद्यत यथार्थमभिधानम् ॥ १९८० ॥

 विध्वंसिता द्युत् संपदादित्वात्क्विप् । द्युतिः यस्यास्सा विद्युत् निष्प्रभेत्यर्थः । पक्षे विशेषेण द्योतत इति विद्युत् ‘द्युत दीप्तौ’ ‘भुजभास’ इत्यादिना कर्तरि क्विप् । ‘विद्युत्तटिति संध्यायां स्त्रियां त्रिषु तु निष्प्रभे' इति मेदिनी । स्पष्ट मन्यत् । अत्र विद्युदिति नाम्नो योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 आहूतोऽपि नियोद्धुं बाहुभ्यां तव निरस्तराहुभ्याम् । नागाद्भुजगोऽच्युत तन्नागं तं प्राहुरर्थतत्त्वज्ञाः ॥ १९८१ ॥

 अत्र नाग इति नाम्नः नागच्छतीति नाग इति योगादर्थान्तरं कल्पितम् ॥

 यथावा--

 त्वत्पदरुचिहरणात्तत्प्रहृतश्शीर्षेऽम्ब लोहितं मुञ्चन् । लोकान्तर्हित आसीद्यल्लोहितकस्तदेष शोणमणिः ॥ १९८२ ॥

 हे अम्ब! यत् यस्मात् त्वत्पदरुचिहरणाद्धेतोः शीषं तत्प्रहृतः तेन त्वत्पदेन अभिहतः अतएव लोहितं रुधिरं मुञ्चन् शीर्षे उद्वमन् सन् लोकान्तर्हितः लोके अन्तर्धानं गतः आसीत्

त्वत्पदाभिघातहेतुकरुधिरस्राविमस्तकत्वप्रयुक्तावमानेन कस्यापि मुखं दर्शयितुमपत्रपिष्णुतया क्वापि निलीन इति भावः । तत् तस्मात् एष शोणमणिः पद्मरागः लोहितकः आसीदित्यनुषज्यते । लोहितकः लोहितं रुधिरं के शिरसि यस्य स तथोक्तः तन्नामा आसीत् । परमार्थतस्तु लोकयोः लोवर्णकवर्णयोः अन्तः मध्ये हितौ हिकारतकारौ यस्य स तथोक्तः । शब्दार्थयोस्तादात्म्यम् । लोहित एव लोहितकः तन्नामा ‘लोहितान्मणौ’ इति स्वार्थिकः कन् । 'शोणरत्नं लोहितकः' इत्यमरः । अत्र स्वार्थकना निष्पन्नस्य लोहितक इति नाम्नो योगान्तरेणार्थान्तरकल्पनं चमत्कारान्तरं स्फुटमेव ॥

इत्यलंकारमणिहारे निरुक्तिसर एकशततमः.


अथ प्रतिषेधसरः (१०२)


प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ।

 यः प्रसिद्धो निषेधानुवादो ज्ञातत्वात् स्वतोनुऽपयुक्तोऽर्थान्तरगर्भीकारेण चारुतामाधत्ते स प्रतिषेधालंकारः ॥

 यथा--

 न सुधांशुना न सुधया न मलयमरुता न चापि तुहिनभृता । निरुपमकरुणाशिशिरास्स्वेनैव कृता रमेश तव भक्ताः ॥ १९८३ ॥

 अत्र भगवद्भक्तानां सुधांशुप्रभृतिनिर्मितत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तेषां सुधांशुप्रभृतिभ्योऽप्यतिशयिततया शैशिर्य