अलङ्कारमणिहारः (भागः ३)/पर्यायालङ्कारः (५३)


अथ पर्यायालंकारसरः (५३)


 अधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलंकृतिः ॥

 यत्रैकमाधेयमनेकस्मिन्नाधारे क्रमात् स्वतो भवति कविना वा निबध्यते तत्र पर्यायालंकारः । अत्र 'अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे’ इति विशेषालंकारव्यावृत्तये क्रमेणेति । तत्र ह्याधेयस्य युगपदनेकाधारसंबन्ध इति नातिप्रसङ्गः । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्था संज्ञा । अस्य च प्रयोजकाभिधानानभिधानाभ्यां द्वैधी ॥

 यथा--

 दुग्धोदन्वति पूर्वं मुग्धेन्दौ तदनु विदधती वासम् । अधुना तु सुधा निवसति मधुनाशन तावकीनचरितेषु ॥ १४२५ ॥

 अत्रैकस्यास्सुधायाः क्रमेण दुग्धोदन्वदाद्यनेकाधारसंश्रयणं निबद्धम् । तत्र दुग्धोदन्वन्मुग्धेन्द्वोस्सुधायास्स्थितिर्वस्तुसत्येवोक्ता । वर्णनीयभगवच्चरितेषु तु कविना परं निबद्धा । यत्राधाराधेयतत्संबन्धक्रमेषु क्वचिदपि वा कविकल्पनापेक्षाऽस्ति तत्रैवायमलंकारः । यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चिदलंकार इति तु तत्त्वम् ॥

 यथावा--

 चिन्तामणिस्सुधाब्धेस्सुधाशनाधिपपदे निधाय


पदम् । वाताशनगिरिशिखरे जातावासो रमानिवासात्मा ॥ १४२६ ॥

 अत्र प्रयोजकानभिधानं स्पष्टम् ।

 तदभिधाने यथा--

 प्रवरा मौक्तिकमणयः प्रवाळमतिरुचिरममृतसारश्च । वारिधिना स्वसुताया वदने वात्सल्यतो न्यधायिषत ॥ १४२७ ॥

 अत्र वारिधिना वात्सल्यत इति प्रयोजकनिर्देशः । अत्रोत्तममुक्ताफलादीनामर्णवलक्ष्मीवदनरूपानेकाधारनिवेशनम् । अर्णवस्याधारता अार्थी । पूर्वोदाहरणेषु तु सा शाब्दी । इयं रदनादीनां मुक्ताफलादिकत्वेनाध्यवसानाद्रूपाकातिशयोक्त्यनुप्राणिता चेति विशेषः ॥

 यथावा--

 विद्रुमगतमारुण्यं विधिना तव दशनवसनयोर्न्यस्तम् । तदनु पदनलिनयुग्मे स्वप्रौढिप्रथनकुतुकतोऽब्धिसुते ॥ १४२८ ॥

 अत्रापि विधिना स्वप्रौढिप्रथनकुतुकत इति प्रयोजकनिर्देशः । अयं सर्वोऽपि संकोचविकासास्पृष्टतया शुद्धपर्यायः ।

 संकोचपर्यायो यथा--

 जगदखिलं व्याप्य पुरा जरदिभमुख्येष्वथ क्वचिल्लग्ना । अगणितगुण तव करुणा निगळितचरणा किलाद्य मय्येव ॥ १४२९ ॥

 इदं स्वस्मिन्नेव भगवतो भूयसी कृपेत्यभिमन्यमानस्य कवेर्वचनम् । अत्र करुणाया उत्तरोत्तरमाधारसङ्कोचात्सङ्कोचपर्यायोऽयम् ॥

 यथावा

 परमेष्ठिपदान्महतो गिरिशजटाजूटकोटरे लग्ना । अरविन्दवासिनि ततो लीना मन्दस्मितेऽम्ब तव गङ्गा ॥ १४३० ॥

 अत्र गङ्गाया उत्तरोत्तरमाधारसङ्कोचः । अतिशयोक्त्यनुप्राणितत्वमुभयत्र तुल्यम् । पूर्वमुदाहरणमुत्प्रेक्षाशिरस्कं, इदं तु वक्ष्यमाणमीलितशिरस्कमिति भिदा ॥

 विकासपर्यायो यथा--

 अम्ब यदैश्वर्यं त्वयि संबन्धात्तव तदम्बुजाक्षेऽपि । संबद्धं किं बहुना त्र्यम्बकमुखसुरकदम्बकेऽ पि ततः ॥ १४३१ ॥

 अम्बुजाक्षे भगवति श्रीनिवासे । अत्रैश्वर्यस्य पूर्वपूर्वाधारापरित्यागेनैवाधारान्तरसंक्रमणम् । विकासपर्यायोऽयम् ॥

 यथावा--

 वक्षस्येवैक्ष्यत ते कौस्तुभसौवस्तिके कठोरत्वम् । एतर्हि पातकान्मम चेतस्यपि दैत्यशातनोदीतम् ॥ १४३२ ॥

 हे दैत्यशातन दैत्यारे ! इदं संसारभारनिविण्णस्य कवेर्भगवन्तं प्रत्युपालम्भवचनम् । अत्रापि पूर्ववदेव विकासपर्यायः । कठोरत्वशब्दप्रतिपाद्यकाठिन्यनैर्घृण्यरूपार्थद्वयश्लेषनिर्व्यूढत्वं विशेषः ॥

 अत्र रसगङ्गाधरकृत् -- "एकसंबन्धनाशोत्तरमपरसबन्धे सत्येव लोके पर्यायपदप्रयोगदर्शनात् "श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः’ इति प्रकाशोदाहृते तथैव दृष्टत्वाच्च ।

बिंम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना हृदयेऽप्येष मृगशाबाक्षि दृश्यते ॥

 इत्यत्र पर्यायकथनमयुक्तम्" इत्यभाणीत् । अन्य तु प्रकाश एव 'बिम्बोष्ठे' इति पद्यस्योदाहरणेन पर्यायस्य समर्थनात् अलङ्कारशास्त्रपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकिंचित्करत्वाच्च तदुक्तमचतुरश्रमेवेति वदन्ति ॥

 क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः ।

 एकस्मिन्नाधारे क्रमादनेकाधेयवर्णनं च पर्याय इत्यर्थः । वक्ष्यमाणसमुच्चयालङ्कारवारणाय क्रमादिति । तत्र हि गुणक्रिययोर्यौगपद्येनान्वयः ।विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्याः विनिमयो लक्षणत्वेनानुपदमेव वक्ष्यते ॥

 यथा--

 भवजलनिधिचिन्तनतो भयचकितः पूर्वमथ सुनिर्विण्णः । त्वद्गुणगणगणनादथ धीरो विन्दामि माधवानन्दम् ॥ १४३३ ॥

 हे माधवेति संबुद्धिः । अत्र प्रथमं भयचकितत्वं अथ निर्वेदः ततो धैर्यं अनन्तरमानन्द इत्येकस्मिन्नेवाधारे क्रमादनेकाधेयवर्णनम् ॥

 यथावा

 देहात्मभ्रमवान् प्रागथ स्वतन्त्रात्मधीस्ततो भगवन् । त्वदितरशेषभ्रमवानधुना मन्ये त्वदेकशेषं माम् ॥ १४३४ ॥

 स्वतन्त्रात्मधीः स्वतन्त्रात्मभ्रमवान् । त्वदन्येषां पित्रादीनां देवतान्तराणां वा शेष इति भ्रमवान् । अत्र देहात्मभ्रमस्वतन्त्रात्मभ्रमान्यशेषत्वभ्रमभगवदेकशेषत्वानामनेकेषामाधेयानां क्रमादेकस्मिन्नाधारे निबन्धनम् ॥

 यथावा--

 आदौ तमसा मलिनं गुरुकृपया विशदमथ च हरितत्वम्। अधिगम्य तत्र रक्तं हृदयं मम चित्रमेतदब्जाक्ष ॥ १४३५ ॥

 अत्रादौ माळिन्यं अज्ञानं नैल्यं च । अथ वैशद्यं ज्ञानप्रकाशः धावल्यं च । अनन्तरं हरितत्वप्राप्तिः भगवद्याथात्म्यनिष्कर्षः, हरिद्वर्णत्वं च । अथ रक्तता भगवति प्रीतिः आरुण्यं चेत्येकस्मिन्नाधारे क्रमेणानेकाधेयवर्णनम् । चित्रं आश्चर्यमिदं शबलवर्णं चेत्यप्युपस्कार्यम् । पूर्वोदाहरणं शुद्धम् । इदं तु श्लेषसंकीर्णं तमसेत्यादिना उपात्तप्रयोजकं चेति विशेषः ।

 यथावा --

 हन्त परस्वस्तैन्यप्रवेशधीरो भवन्नरो भगवन् । दृष्टोऽवितस्वया चेत्परस्वसैन्यप्रवेशधीरस्स्यात् ॥

 त्वया दृष्टः कटाक्षितः । अवितः रक्षितश्च । पक्षे वित इति छेदः । विगततकार इत्यर्थः । दृष्टश्चेति योजना । परस्वस्तै

न्यप्रवेशधीरशब्दस्तकारविगमे परस्वसैन्यप्रवेशधीर इति निष्पद्येतेत्यर्थः । पूर्वं स्तेन एव सन् भवत्कटाक्षवीक्षितश्शूरो भवेदिति भावः । 'शौर्यं नाम असहायस्यापि भीमे परबले स्वबल इव निर्भयप्रवेशसामर्थ्यम्’ इति गद्यभाष्ये आचार्याः । तदेतदुक्तं परस्वस्तैन्येत्यादिना । परस्वस्य अन्यवित्तस्य स्तैन्ये चौर्ये प्रवेशः तस्मिन् धीरः विद्वान्, परेषां स्वेषां च सैन्ये प्रवेशः तस्मिन् धीरः धैर्यवानित्यर्थः । अत्रैकस्मिन्नेवाधारे चोरत्वधीरत्वयोः पर्यायेण वर्णनम् ॥

 यथावा--

 त्वद्विश्लिष्टा सीता सुतरान्तरलत्वमेत्य दाशरथे । अथ शुभगुणवाराशिस्थिरान्तरासीत्त्वया विशिष्टैव ॥ १४३७ ॥

 हे दाशरथे ! शुभगुणवाराशिः सीता त्वद्विश्लिष्टा सती सुतरां तरलत्वं चञ्चलचित्ततां एत्य अथ अनन्तरं त्वया विशिष्टैव त्वत्संश्लेषं प्राप्तैव स्थिरान्तरा स्थिरं अन्तरं मनो यस्यास्सा तथोक्ता आसीत् । पक्षे विश्लिष्टेति शब्दव्यक्तिः सुतरा अतिशोभना अन्तः मध्ये अ त्वं अविद्यमानलकारतां एत्य शुभाः गुणानां वाराः समूहाः यस्यास्सा तथोक्ता । इदं सीताविशेषणमेव । अन्तः मध्ये शिस्थिरा शिः शिवर्णः स्थिरो यस्यां सा तथाविधा सती विशिष्टैवासीत् । विश्लिष्टाशब्दः लकारोत्सारणे शिवर्णस्थैर्ये च विशिष्टेति भवतीत्यर्थोऽपि चमत्कारी । अत्रैकस्मिन्नेव सीतारूपाधारे तरळत्वस्थैर्यरूपाधेययोः क्रमेण निबन्धः । उदाहरणद्वयेऽपि विशेषस्स्पष्ट एव ॥

इत्यलंकारमणिहारे पर्यायसरस्त्रिपञ्चाशः.