अलङ्कारमणिहारः (भागः ३)/प्रत्यनीकालङ्कारः (६०)

               




   


 अत्र यादृच्छिकसुकृतादेव सिद्ध्यन्त्या भगवत्कर्तृकोद्दिधीर्षायास्साधुसमागमादनायासेन सिद्धिः ॥

 यथावा--

 काङ्क्षन्त्या व्रजसुदृशश्शैरेर्दातुं स्वयंग्रहाश्लेषम् । आननसौरभलोभादापतदळिबृन्दमकृत साहाय्यम् ॥ १५०० ॥

 अत्रोत्कण्ठिताया गाोपललनाया आकस्मिकमिळिन्दवृन्दापतनरूपकारणान्तरसमवधानेन शौरिकर्मकस्वयंग्रहाश्लेषस्यानायासेन सिद्धिः ॥

 शौरिनवचाटुभङ्गीमङ्गीचक्रे यदा व्रजलताङ्गी । श्लथमपि तदोपगूहनमकार्यकस्मात्पिकारवैस्सान्द्रम् ॥ १५०१ ॥

 अत्र पिकनिनादैरुपगूहनस्य साङ्गत्वसिद्धिः ॥

 इत्यलंकारमणिहारे समाधिसर एकोनषष्टितमः.


अथ प्रत्यनीकालंकारसरः (६०)


बलिनि प्रतिपक्षे वा तत्प्रक्षे वा तिरस्कृतिः।
तत्प्रतिद्वंद्विसाह्यं वा प्रत्यनीकमितीर्यते ॥


 यत्र बलिनि प्रतिपक्षे दुर्बलेन साक्षात्तिरस्कारः तत्र प्रतिकर्तुमनीशानेन दुर्बलेन तदीयस्य तिरस्कारः स्वयमसमर्थस्य स्वविरोधिप्रतिद्वन्द्विनि साहायकं वा प्रत्यनीकम् । अनीकस्य सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव सिद्धे 'अव्ययं विभक्ति' इत्यादिसूत्रे पुनस्सादृश्यग्रहणाद्गुणीभूतेऽपि साद्दश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदसामर्थ्ये तत्संबन्धिनः कस्यचित्तिरस्कारः क्रियते । तदभावे च प्रबलस्वविरोधिप्रतिकर्तुस्साह्यं क्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमित्याख्यायते । अत्र च प्रतिपक्षगतं प्राबल्यं आत्मगतं दौर्बल्यं च गम्यते । तत्राद्या यथा--

 महसा तव सादितभास्सहसा दिवसाधिपस्य किल बिम्बम् । अविलम्बं कौस्तुभतामवलम्ब्याक्रामति स्म तव हृदयम् ॥ १५०२ ॥

 अत्र साक्षात्प्रतिपक्षतिरस्कारः प्रतिपादितः ॥

 यथावा--

 त्वद्रुचिकृतपरिभवतस्तापिञ्छं भ्रंशितात्ममुखवर्णम् । पिञ्छं भूत्वाऽमर्षात्पदं न्यधात्तव शिरस्पदे शौर ॥ १५०३ ॥

 तापिञ्छस्य तमालस्य विकारः पुष्पं तापिञ्छं "द्विहीनं प्रसवे सर्वम्’ इति क्लीबता । त्वद्रुचिकृतात् परिभवतः पराभवात् भ्रंशितः भ्रंशं प्रापितः आत्मनो मुखवर्णः वदनतेजः यस्य तथोक्तं प्राप्तमुखवैवर्ण्यमित्यर्थः । पिञ्छं बर्हं भूत्वा तत्त्वेनाविर्भूयेत्यर्थः ।

पक्षे तापिञ्छमिति पदं भ्रंशोऽस्यास्तीति भ्रंशि । ता इति आत्मा स्वरूपं यस्य सः तात्मा मुखवर्णः प्रथमाक्षरं यस्य तत्तथाभूतं सत् पिञ्छं भूत्वा तापिञ्छमितिपदं अद्यताकारोत्सारणेन पिञ्छमिति निष्पद्येत्यर्थः ॥ सुगममन्यत् ॥

 यथावा--

 उरसापास्तं शौरेः कपाटमथ कटतया मदोन्नद्धम् । ऊर्ध्वं कमञ्चयन्ननु तदुरश्छादयति कङ्कटात्माऽहो ॥ १५०४ ॥

 कपाटं कवाटं ‘कवाटमररं तुल्ये' इत्यत्र कपाटमिति पाठमेव मुख्यतयाऽभ्युपेत्य कं शिरः पाटयतीति विग्रहः प्रदर्शितस्सुधायाम् । पक्षे कपाटमिति पदं च । अनयोस्तादात्म्यम् । शौरेः उरसा अपास्तं निरस्तं सत् 'कवाटवक्षाः परिणद्धकंधरः' इति कवाटस्योरस्सादृश्योक्तेस्तस्य तदपास्तत्वोक्तिः । पक्षे पास्तमिति भेदः । पाः पाकारः अस्तः निरस्तो यस्मिंस्तत्तथोक्तं सदित्यर्थः । कटतया गजगण्डतया “गण्डः कट' इत्यमरः । मदोन्नद्धं मदेन गर्वेण दानोदकेन च उन्नद्धं उद्वृत्तं सत् । अतएव कं शिरः ऊर्ध्वं अञ्चयत् उन्नमयदित्यर्थः । पक्षे ऊर्ध्वं अग्रभागे इति यावत् ।

कमञ्च यत् इति च्छेदः । कमञ्च कमित्याकारकं मान्तशब्दं च यत् प्राप्नुवत्सत् इणश्शतरि ‘इणो यण्' इति यण्। कङ्कट इत्यात्मा स्वरूपं यस्य तत् कङ्कटात्म कवचरूपं सत् ‘उरश्छदः कङ्कटकः' इत्यमरः । तदुरः भगवद्वक्षः छादयति । पक्षे कङ्कटात्मा कङ्कट इति निष्पन्नस्वरूपमित्यर्थः । कटशब्दस्यादौ कम् इत्यस्य न्यासे अनुस्वारे परसवर्णे च कङ्कटत्वेन निष्पन्नमित्यर्थः ॥

 यथावा--

 जेतुं त्मामपटीयान्मल्लस्त्रीभूयमेत्य मल्ली सन् । जयति शिरोऽधिवसंस्तव ललनाः किल नन्दतनय तव जैत्र्यः ॥ १५०५ ॥

 हे नन्दतनय! इदं विवक्षितमल्लजयाद्युपस्काराय । मल्लः चाणूरादिः त्वां मल्लयुद्धविशारदं त्वं जेतुं अपटीयान् सन् । स्त्रीभूयं स्त्रीत्वं 'भुवो भावे' इति क्यप् । एत्य मल्ली सन् मल्लशब्दाज्जातिलक्षणे ङीषि मल्लीति निष्पत्तेरिति हृदयम् । पक्षे मल्लीकुसुमतामाश्रित इत्यर्थः । मल्लीशब्दाद्वैकारिकेऽणि ‘पुष्पमूलेषु बहुळम्’ इति तस्य लुप् ‘लुपि युक्तवद्व्यक्तिवचने’ इति युक्तवद्भावः । तव शिरः अधिवसन् सन् जयति त्वां पराभवतीत्यर्थः । पक्षे शिरोमाल्यतया उत्कर्षं प्राप्नोतीत्यर्थः । तथाहि-- ललनाः स्त्रियः तव जैत्र्यः किल । तव गोपवधूवशंवदत्वादिति भावः । यथोक्तमाचार्यैः ‘तदपि परमं तत्वं गोपीजनस्य वशंवदम्’ इति । किलेत्युपालम्भे । अतः पुंस्त्वेन दुस्साधं त्वज्जयं स्त्रीत्वेन साधितवानिति भावः । एषु त्रिषूदाहरणेष्वपि साक्षात्प्रतिपक्षतिरस्कारः शब्दार्थतादात्म्यमूलकश्लेषभित्तिकाभेदाध्यवसायानुप्राणित इति विशेषो द्रष्टव्यः ।

 यथावा--

 निजरुचिमपहृत्य पयोधरलीनोल्लसति या कृतार्थेव । तां चपलां हारमिषां सपयोधरमम्ब नह्यसे कण्ठे ॥ १५०६ ॥

 या चपला विद्युत् निजरुचिं तव श्रियं अपहृत्य । चपलेत्यनेनानवस्थितचित्ततया असमीक्ष्यकारिता द्योतिता । पयोधरे जलदे लीना सती कृतार्थेव नेतःपरं मम भयं किंचिदपि संभवेदिति कृतकृत्येव । उल्लसति हृष्यतीत्यर्थः । प्रकाशत इति तत्त्वम् । हारमिषां वज्रमणिहारच्छलां तां चपलां सपयोधरं स्वरुचिप्रतिभटतटिल्लताश्रयभूतजलधरसहितं यथास्यात्तथा । पक्षे स्तनसहितं यथास्यात्तथा कण्ठे नह्यसे ‘कण्ठे बध्द्वा दशग्रीवम्' इत्यादिवद्ग्रीवायां बध्नासीत्यर्थः । पक्षे कन्धरायां परिष्कारहेतोः प्रतिमुञ्चसीत्यर्थः । अत्र साक्षात्प्रतिभटभूतायास्तटिल्लतायास्साश्रयायास्तिरस्कारः कैतवापह्नुतिश्लेषमूलाभेदाध्यवसायाभ्यामुज्जीवित इति पूर्वोदाहरणेभ्यो वैलक्षण्यम् ॥

 द्वितीयं यथा--

 तनुरुचिजितस्तवाच्युत मुखं विजेतुं विधुर्भवन्नेव । मकारो भूत्वा मधुकर इभमग्रसत त्वदेकशरणमहो ॥ १५०७ ॥

 हे अच्युत! मधुकरः भ्रमरः मधुकरशब्दश्च । तयोस्तादात्म्म् । तव तनुरुच्या शरीरश्रिया अल्पयैव त्विषेत्यपि गम्यते । जितस्सन् तव मुखं विजेतुं विधुर्भवन्नेव चन्द्रमा भवन्नेव विगतधुवर्णो भवन्नेव च विधूभवनसमसमयमेवेति भावः । मकरः ग्राहः भूत्वा पक्षे मधुकरशब्दः धुकारलोपे मकरो भूत्वेत्यर्थः । त्वदेकशरणं इभं गजं अग्रसत ग्रस्तवान् । अत्र भगवत्तनुरुचिविजितस्य तत्प्रतीकारानीशस्य मधुकरस्य रूपान्तरपरिग्रहेण तदेकशरणे वारणे पराक्रमः प्रकटितः । इदमुपदर्शित

शब्बार्थतादात्म्यमूलकविच्छित्तिविशेषशालि । एवमग्रिमोदाहारणयोरपि द्रष्टव्यम् ॥

 यथावा--

 जेत्रीं तव गां भेत्तुं प्रथमं कोपाश्रितः किलोपगतोऽम्ब । लोपगतोऽन्ते कोकिल इह कोलस्सन् भिनत्ति गां तदभिख्याम् ॥ १५०८ ॥

 हे अम्ब कोकिलः जेत्रीं स्वावमन्त्रीं तव गां भेत्तुं विदारयितुं प्रथमं आदौ कोपश्रितः क्रोधान्वितस्सन् उपगतः किल त्वद्वचनसमीपं गतो ननु । अन्ते पर्यवसाने लोपगतः स्वयमेव छेदनं प्राप्तस्सन् कोलस्सन् वराहो भवन् तदभिख्यां गोनामधारिणीं गां भुवं भिनत्ति भूदारत्वप्रसिद्धेस्तस्येति भावः ॥ पक्षे कोकिलः कोकिलशब्दः प्रथमं को इति वर्णेन अपाश्रितः अश्रितः किलोपं किवर्णभ्रंशं गतः ‘द्वितीया श्रित’ इति समासः । अन्ते अवसाने लोपगतः लवर्णेन युक्तः । लुप्तकिवर्णमात्रः कोकिलशब्दः कोल इति निष्पन्न इत्यर्थः ॥

 यथावा--

 इक्षुर्गवा तव जितो द्रुतमनितरदृश्यमासमुख एव । अवलम्ब्य तरक्षुत्वं हिनस्ति गास्तदभिधाः क्रुधा भगवन् ॥ १५०९ ॥

 हे भगवन् ! इक्षुः तव गवा वाचा जितः तिरस्कृतः अत एव द्रुतं अनितरदृश्यमानमुखः पराजितत्वप्रयुक्तावमानेनान्येषामदर्शितमुख इति भावः । पक्षे अविद्यमानः इः इत्याकारकवर्णः

यस्मिन् कर्मणि तद्यथास्यात्तथा अनि । तराभ्यां तकाररेफाभ्यां दृश्यमानं मुखं आदिः यस्य स तथोक्तः । तरक्षुत्वं मृगादनत्वं 'तरक्षुस्तु मृगादनः' इत्यमरः । पक्षे इक्षुशब्दः इकारोत्सारणे तत्रैव तकाररेफयोर्न्यसने तरक्षुरिति निष्पन्न इत्यर्थः । तदभिधाः गोशब्दाभिलप्यवागभिधानाः गाः हिनस्तीत्यर्थः ।

 यथावा--

 फणिशिखरिविधो भवता तिरोहितं तत्प्रतिक्रियानीशम् । पर्वणि कदाचन विधुं त्वन्नामानं तमस्तिरस्कुरुते ॥ १५१० ॥

 तम आश्रितनामज्ञानं राहुश्च । इदं कर्तृ, फणिशिखरिणि विद्यमाना विधुर्विष्णुः । तस्य संबुद्धिः भवता तिरोहितं नाशितं सत् ॥

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥

 इति गानात् । स्पष्टमन्यत् । अत्र भगवता तिरोहितेन तमसा तस्मिन् प्रतिविधातुमक्षमेण तन्नामधरितया तदीयत्वेन कल्पितख्य विधोस्तिरस्कृतिः ॥

 यथावा--

 तव तनुभासाऽधरितो नवजलदस्त्वन्निवासमहिशैलम् । अधरीकृत्योद्गर्जति न घनो न्यक्कारमात्मनस्सहते ॥ १५११ ॥

 अत्र भगवत्तनुरुचा अधरीकुतस्य नवजलदस्य तत्प्रतिकरणापटुतया तदीयशैलाधरीकरणम् । उदाहरणद्वयेऽपि अधरविधुप्रभृतिशब्दगतश्लेषोत्तम्भितस्साक्षात्प्रतिपक्षतिरस्काराक्षमस्य तदीयतिरस्कारस्तुल्य एव । अन्तिमे त्वर्थान्तरन्यासशेखरितत्वं विशेष इति ध्येयम् ।

 क्वचित्प्रतिपक्षसंबन्धिसंबन्धितिरस्कारेऽपीदं दृश्यते । यथा--

 नूनमयं स्वर्भानुर्लूनशिराश्श्रीनिकेतनेन पुरा । तद्भासमनुविभातो विभावसोर्मण्डलं क्वचिद्ग्रसते ॥

 अनुविभात इति भाच्छब्दस्य षष्ठ्येकवचनं विभावसोरित्यस्य विशेषणं 'तमेव भान्तमनुभाति सर्वम्’ इति श्रुतिच्छायाऽत्रानुसंहिता । मण्डलं बिम्बं, राष्ट्रमित्यपि गम्यते । शिष्टं स्पष्टम् । अत्र भगवल्लूनशीर्षेण तत्प्रतिकारानीश्वरेण स्वर्भानुना तदीयभासमनुविभासमानस्य भानोर्यन्मण्डलं तस्य तिरस्कृतिरिति प्रतिपक्षसंबन्धिसंबन्धितिरस्कृतिः ॥

 यथावा--

 अवधीरितो मुखरुचा तव धवलांशुर्मदम्ब नयनसखम् । परिभूय नलिनमलिनस्तदाश्रितांस्तत्र निगळयति रात्रौ ॥ १५१३ ॥

 तवेत्येतत् मुखरुचा नयनसखं इत्युभयत्रापि संबध्यते । अत्र

साक्षात्प्रतिपक्षभूतजगज्जननीवदनसंबन्धि नयनं, तत्सखतया तत्संबन्धि नलिनं, तत्संबन्धिनोऽळिनः, तत्तिरस्कृतिरभिहितेति पूर्वस्माद्विच्छित्तिविशेषः ॥

 तृतीयं यथा--

 हरिरुचिभरपरिभूतं कुवलयमखिलाम्ब तावकाक्षिवपुः । तद्रूपजितस्यागाच्छरतां मदनस्य तत्प्रतिचिकीर्षोः ॥ १५१४ ॥

 अत्र स्वविरोधिहरिपरिभवानीशेन कुवलयेन लक्ष्मीनयनात्मनाऽवतीर्य तद्रूपविजिततया तत्प्रतिचिकीर्षोर्मदनस्य शरतया साहाय्यं विहितमिति तत्प्रतिद्वन्द्वि साह्यरूपं तृतीयः प्रत्यनीकप्रकारः ॥

 अत्र विचार्यते-- हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति । तत्र ‘त्वद्रुचिकृतपरिभवतः’ इत्युदाहरणे तावद्धेत्वंशश्शाब्दः । उत्प्रेक्षांशमात्रमार्थं, अन्येषु तूदाहरणेषु द्वयमप्यार्थम् । अस्मिन्नलंकारे हेतुत्वं निश्चीयमानं हेतूत्प्रेक्षायां तु संभावनमित्यस्ति विशेष इतिचेत् प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापत्तेः । वाचकस्य इवादेरभावाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् ।

यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनाऽपि बाधते ।

 इत्यलंकारसर्वस्वोदाहृते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्वक्त्रसदृशमिन्दुं राहुर्बाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । 'मम रूपकीर्तिमहरद्भुवि यः' इति कुवलयानन्दोदारणे तु हेत्वंश उत्प्रेक्षांशेश्चत्युभयमपि शाब्दम् । यद्यपि प्रतिपक्षगतबलवत्त्वस्वात्मगतदुर्बलत्वयोः प्रतीतेर्हतूत्प्रेक्षान्तरादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे, तदविनाभावित्वात् ।

किंतु तदवान्तरविशेषो भवितुम् । न हि पृथिव्यवान्तरभेदाद्घटात्पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति ॥

इत्यलंकारमणिहारे प्रत्यनीकसरष्षष्टितमः


अथ काव्यार्थापत्तिसरः. (६१)


दण्डापूपिकया यत्रार्थान्तरापतनं भवेत् ।
काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥

 दण्डापूपं विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः अहं शक्तोs शक्तोऽस्यां क्रियायामित्यहमहमिकेतिवन्मत्वर्थीयष्ठन् । दण्डापूपाविव दण्डापूपिका ‘इवे प्रतिकृतौ' इति कन्वा । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणमप्यर्थसिद्धम् । एवंविधो न्यायो दण्डापूपिकाशब्देनोच्यते । यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायलक्षणादर्थान्तरमापतति साऽर्थापतिः । तान्त्रिकाभिमतार्थापत्तिव्यावर्तनाय काव्यपदम् । अयमेव कैमुतिकन्याय इत्यप्युच्यते । अत एव ‘कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते' इति लक्षणं प्रणीतं कुवलयानन्दे । नन्वेवमर्थादथान्तरप्रतीतेरनुमानमेवेदमिति चेन्न । समानन्यायस्य संबन्धरूपत्वाभात् । दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव । दण्डभक्षणेऽपि पृथक्प्रदेशावस्थानादिना केनापि निमित्तेन अपूपानामभक्षणस्यापि भावात् । अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्यास्ततः पृथग्भावः ॥