अलङ्कारमणिहारः (भागः ४)/यमकालङ्कारः (१२३)

अथ यमकम्

अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा ।
क्रमादावर्तिता वर्णा यदि तद्यमकं भवेत् ॥

 यथा--

 सरसा सरसा सकलाविपुला विपुला फणीन्द्रभूमिभृतः । शौरेर्मोदं जनयति नयति नृणां दुरितमविरतं विरतिम् ॥ २२४० ॥

 अत्र सरसासरसासकलेत्यत्र रसासेत्यादीनामनर्थकानां वा विपुलाविपुलेत्यत्रार्थसंभवेन भिन्नार्थकानां वा जनयति नयतीत्यत्र क्वचित्सार्थकानां क्वचिदर्थविधुराणां वा वर्णानां क्रमाद्यत्पौनरुक्त्यं तद्यमकम् । अत्र सरसासरसासकलेत्यत्रावर्त्यमानानां रसासेतिवर्णानामर्थाभावेन भिन्नार्थकत्वस्य सार्थकानर्थकत्वस्य चाभावदव्याप्तिः, अत उक्तमनर्थका वेति । विपुलाविपुलेत्यत्रावर्त्यमानानां


विपुलेति वर्णानामनर्थकत्वस्य सार्थकानर्थकत्वस्य वा अभावादव्याप्तिरित्यत उक्तं भिन्नार्थका वेति । जनयति नयतीत्यत्र द्वितीयनयतिशब्दस्य सार्थकत्वान्नानर्थकत्वं नापि भिन्नार्थकत्वं, प्रथमनयतिशब्दस्यानर्थकत्वात् । अतस्तत्राव्याप्तिरित्यत उक्तं सार्थकानर्थकाश्च वेति । कपिः पिक इत्यदौ भिन्नार्थकानां वर्णानामावृत्तेर्यमकत्वप्रसङ्ग इत्यत उक्तं क्रमादिति । येन क्रमेण प्रथमं पठिताः तेनैव क्रमेणावर्तिता इत्यर्थान्न तत्रातिव्याप्तिः । वर्णा इति बहुवचनमविवक्षितम् । तेन--

 विजयीभव भववन्दित दितदितिजनिजातजातभीतिविशेष । शेषभुज भुजगभूधरधरणीरमणीमणियमान मुरारे ॥ २२४१ ॥

 इत्यत्र न यमकत्वक्षतिः । दितिजनीनां दैत्यानां जातं समूहः तस्माज्जातो यो भीतिविशेषः सः दितः छिन्नः येन सः तस्य संबुद्धिः ‘दितं छितं वृक्णम्' इत्यमरः । न चैवं लक्षणाननुगम इति वाच्यं, उक्तविधात्रितयान्यतमविधावद्वर्णावृत्तिर्यमकमित्येके । एकार्थत्वभिन्नशब्दावृत्तिर्यमकम् । एकार्थकत्वभेदश्च निरर्थकेषु भिन्नार्थकेषु सार्थकानर्थकेषु वर्णेष्वविशिष्टमिति नाननुगम इत्यन्ये ॥

 श्लोकार्धपादतद्भागवृत्त्या स्यात्तच्चतुर्विधम् ॥

 तत् यमकं श्लोकावृत्तौ अर्धावृत्तौ पादावृत्तौ पादभागावृत्तौ च भवत् प्रथमं चतुर्विधं भवति ॥

 तत्र श्लोकावृत्तिर्यथा--

 उत्तुङ्गमध्यवनिकामन्दारोल्लासिसुविपुलक्रोड

म् । तमचलमहिमाधारं सद्यो गोविन्दमादधतमिष्टम् ॥ २२४२ ॥

 उत्तुङ्गमध्यवनि कामन्दारोल्लसिसुविपुलक्रोडम् । तमचलमहिमाधारं सद्योगोऽविन्दमादधतमिष्टम् ॥

 उत्तुङ्गमध्यवनिकामन्दारोल्लासिसुविपुलक्रोडं तं अचलं अहिं आधारं सद्यः गोविन्दं आदधतं इष्टम् । उत्तुङ्गं अध्यवनि कामं दारोल्लासिसुविपुलोक्रोडं तं अचलमहिमाधारं सद्योगः अविन्दं आदधतं इष्टम्, इति पदच्छेदः । उन्नताः तुङ्गाः पुन्नागतरवः यस्यां तस्यां उत्तुङ्गायां 'पुन्नागे पुरुषस्तुङ्ग' इत्यमरः । मध्यवनिकायां मध्येऽरण्यमित्यर्थः । ये मन्दाराः पारिजाततरवः ‘पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः' इत्यमरः । तेषु उल्लासी शोभना विपुला भूदेवी यस्य सः सुविपुलः भूदेव्या श्लिष्ट इत्यर्थः । ईदृशः क्रोडः आदिवराहो यस्मिंस्त तथोक्तं, आदिवराहस्य भगवतश्शेषाद्रावाविर्भूतत्वात् । ‘क्रोडो भूदार इत्यपि' इति वराहपर्यायेष्वमरः । तं सुप्रसिद्धं अहिं अचलमित्यन्वयः । शेषाद्रिमित्यर्थः । शेषस्यैवाचलत्वेनावतीर्णतायाः पुराणप्रसिद्धतया अभेदेन निर्देशः । आधारं निवासस्थानं अदधतं कुर्वाणं तत्र निवसन्तमित्यर्थंः । इष्टं निरतिशयप्रीतिविषयं ‘प्रियो हि ज्ञानिनोऽत्यर्थं’ इति गानात् । ‘इषु इच्छायां’ कर्मणि क्तः । इष्टं सर्वैः पूजितमिति वा । यजतेः क्तः--

इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु ।
सप्ततन्तौ पुमान् क्लीबे संस्कारे क्रतुकर्मणि ॥

इति मेदिनी । उत्तुङ्गं सर्वैर्गुणैरतिमात्रमुन्नतं । अध्यवनि

भूमौ । विभक्त्यर्थेऽव्ययीभावः । अध्यवनि अहिमचलमाधारमादधतमित्यन्वयः । कामं पर्याप्तं यथास्यात्तथा दारैः सह

धर्मिण्या लक्ष्म्या उल्लासि प्रकाशमानं सुविपुलं अतिविशालं क्रोडं भुजान्तरं यस्य तं लक्ष्मीसमाश्लिष्टविशालवक्षसमित्यर्थः । तं वेदान्तवेद्यजगत्कारणत्वादिकल्याणगुणगणतया प्रसिद्धं अचलस्य स्थिरस्य महिम्नः माहात्म्यस्य आधारं इष्टं आश्रिताभीप्सितं यज्वभिः कृतं यागं वा आदधतं पुष्णन्तं गोविन्दं श्रीनिवासं ‘गोविन्देति यदाक्रन्दत्’ इत्युक्तरीत्या भगवतस्तन्नाम्ना सौशील्यपराकाष्ठाद्योतकेनाह्वाने प्रीत्यतिशयस्य गम्यमानतया शेषाद्रौ प्रायेण गोविन्दनाम्न एव जनैः कीर्त्यमानतया गोविन्दशब्देन निर्देशः । सन् प्रशस्तः योगो ध्यानं यस्य स तथोक्तस्सन् सद्यः अविन्दं शरणमवृणवम् । विन्दतेलङुत्तमैकवचनम् ॥

 अर्धावृत्तिर्यथा--

 शुभदामोऽदरभासुरजय मापाहिस्थिराधरामोदिन् । शुभ दामोदर भासुर जय मा पाहि स्थिराधरामोदीन् ॥ २२४४ ॥

 शुभदामः अदरभासुरजय माप अहिस्थिराधरामोदिन् शुभ दामोदर भासुर जय मां पाहि स्थिराधरामोदिन्, इति पदच्छेदः । अदरभाः अनल्पतेजसः ये असुराः जयतीति जयः

पचाद्यच् । तेषां जयः अनल्पविक्रमदैतेयजेतेत्यर्थः तस्य संबुद्धिः अदरभासुरजय ! अहिस्थिराधरः शेषाद्रिः तस्मिन् आमोदिन् आनन्दिन्, शुभ ‘मङ्गळानां च मङ्गळम्’ इत्युक्तरीत्या मङ्गळरूप । दामोदर भासुर स्वप्रकाशस्वरूप । स्थिरायाः भूदेव्याः अधरेण अधररसेन आमोदिन् । यद्वा--स्थिराधर धरणिधर ‘धरणिधराच्युत शङ्खचक्रपाणे, ‘धरणिधर मे शिक्षय मनः’ इत्या

दिकमिह स्मर्तव्यम् । अतएव आमोदिन् अतिनिर्हारिपरिमळशालिन् । भूदेव्यास्स्वाभाविकगन्धवत्त्वेन नित्यतद्योगादिति भावः--

‘विमर्दोत्थे परिमळो गन्धे जनमनोहरे ।
आमोदस्सोऽतिनिर्हारी'

इत्यमरः । यद्वा ‘सर्वगन्धस्सर्वरसः’ इति श्रवणात्सर्वदिव्यगन्धेत्यर्थः । माप श्रीपते! शुभा दामा वैजयन्ती यस्य स तथोक्तः त्वं जय । जिधातोर्लोण्मध्यमैकवचनम् । ‘न पुंसि दाम संदानम्’ इत्यमरः । दामशब्दस्य स्त्रीलिङ्गस्य ‘मनः’ इति ङीब्निषेधे 'डाबुभाभ्यामन्यतरस्याम्' इति डाप् । ततो बहुव्रीहिः । भा मां पाहि पालय ॥

 यथावा--

 वदनाभिभाविताब्जं परमञ्जनवेदगिरिशिरस्युदितम् । वद नाभिभाविताब्जं परमं जन वेदगिरि शिरस्युदितम् ॥ २२४५ ॥

 वदनाभिभाविताब्जं परं अञ्जनवेदगिरिशिरसि उदितं वद नाभिभाविताब्जं परमं जन वेदगिरि शिरसि उदितं इति च्छेदः । वदनेन अभिभावितः अभिभवं तिरस्कारं प्रापितः अब्जः चन्द्रो येन तम् । तिरस्कारे भगवतः प्रयोजककर्तृत्वं, वदनस्य प्रयोज्यकर्तृत्वम् । अञ्जनवेदगिरिशिरसि अञ्जनश्चासौ वेदश्च अञ्जनवेदः अञ्जनाख्यो वेदाख्यश्च यो गिरिः तस्य शिरसि शिखरे उदितं आविर्भूतम् । नाभिभाविताब्जं नाभौ भावितं उत्पादितं अब्जं पद्मं येन तम्,

'अजस्य नाभावध्येकमर्पितं यस्मिन्निदं विश्वं भुवनमधिश्रितम्’ इति श्रुतेः । वेदगिरि श्रुतिरूपायां वाचि शिरसि अन्ते वेदान्ते इत्यर्थः । उदितं उदीरितं । वदेः कर्मणि क्तः । 'तं त्वौपनिषदम्' इति श्रुतेः । हे जन ! परं अतिशयितं यथास्यात्तथा परमं

अत्युत्तमं वद ब्रूहि । अञ्जनगिरावाविर्भूतं भगवन्तं विधातृजनिनिदानभूतनाभिकमलतया अखिलजगत्कारणं परं ब्रह्मेति वदेति जनान् प्रत्यावेदनम् ॥

 यथावा--

 प्रपदनतस्तव नान्येऽवाकलयन्ते मुदं ननूपायाः । प्रपदननस्तवनान्येवाकलयन्ते मुदं न नूपायाः ॥ २२४६ ॥

 प्रपदनतः तव न अन्ये अवाकलयन्ते मुदं ननु उपायाः प्रपदनतः स्तवनानि एव अकलयं ते मुदं न नु उपायाः, इति पदच्छेदः । नन्वित्यामन्त्रेण । ननु भगवन् ! प्रपदनतः शरणवरणात् आद्यादित्वात्सार्वविभक्तिकस्तसिः । अन्ये इतरे उपायाः यज्ञदानतपोऽनशनादिसाधनानि तव मुदं प्रीतिं नावाकलयन्ते नावाकल्पयन्ते । अवाङ्पूर्वकात्कलयतेर्लट् । ते तव प्रपदे पादाग्रे 'पादाग्रं प्रपदम्' इत्यमरः । नतः शरणागतस्सन् स्तवनान्येव स्तुतीरेव अकलयं अरचयम् । कलयतेर्लङुत्तमैकवचनम् । मुदं प्रीतिं, तेन स्तवनेनेति भावः । नुशब्दः पृच्छायाम् । ‘नु पृच्छायां विकल्पे च' इत्यमरः । नोपायाः तु नोपागच्छः किम् ? उपाङ्पूर्वकादुपपूर्वकाद्वा यातेर्लङ्मध्यमः । उपागत एवेति निर्धारयामि । स्तवप्रिय इति हि तव नामेति भावः । द्वितीयार्धे प्रपदनतः स्तवनानीत्यत्र ‘खर्परे शरि वा विसर्गलोपो वक्तव्यः' इति विसर्गलोपः । अकलयन्ते इत्यत्र ‘वा पदान्तस्य इति वैकल्पिकोऽनुस्वारस्य परसवर्णः । अत्र--

इति वाग्भिः प्रशस्ताभिरयोनिर्विष्णुरीडितः ।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥


 इत्यादिप्रमाणान्यनुसंधेयानि । इमे श्लोकावृत्त्यर्धावृत्तियमके महायमकं समुद्गकमिति नामभ्यां रुद्रटादिभिर्व्यवाह्रियेताम् । यथोच्यते--

'अर्धं पुनरावृत्तं जनयति यमकं समुद्गकं नाम ।
श्लोकस्तु महायमकम्’ इति ॥

 यथावा--

 लक्ष्मीश्चकास्ति भवतो नवतोयदसारभासितादवितः । लक्ष्मीश्च काऽस्ति भवतोऽनवतो यदसारभासितादवितः ॥ २२४७ ॥

 लक्ष्मीः चकास्ति भवतः नवतोयदसारभासितात् अवितः, इति पूर्वार्धे । उत्तरार्धे तु लक्ष्मीः च का अस्ति भवतः अनवतः यत् असारभासितात् अवितः इति च्छेदः । हे अवितः अवतेः रक्षणार्थकातृच् । हे रक्षक!

'न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम्’ ।

इत्युक्तेः । नवतोयदाः प्रावृषेण्यवारिदाः तेषु सारः श्रेष्ठः तस्य भा प्रभेव असितात् श्यामलात् । यद्वा नवतोयदस्य सारभा श्रेष्ठदीप्तिः सेव असितः तस्मात् । तस्या अप्यसितादिति वा । भवतः त्वत्तः लक्ष्मीः चकास्ति । नीलतोयदमध्यस्थविद्युदिव प्राप्तपरभागतया भासत इति भावः । यद्वा भवतस्सकाशात् लक्ष्मीः संपत् जनानामिति शेषः । चकास्ति त्वत्त एव जगतां समृद्धिलाभ इति भावः । अनवतः आपत्सु अरक्षकात् संहर्तृतया अप्रीणयतश्च भवतः शर्वात् लक्ष्श्ची श्रीरपि संपदिति वार्ताऽपीति भावः । का अस्ति जनानां तस्मात्काऽपि संपन्न सिध्यतीति भावः ।

कुत इत्यत आह-—यदिति । यत् यस्मात्करणात् अयमित्यध्याहारः,

असारं निस्सारं अश्रेष्ठं वा भसितमेव भासितं वायसराक्षसादिवत् स्वार्थिकोऽण् । तस्मात् अवितः प्रीतः तृप्तो वा भवति । अवतेः प्रीत्यर्थकात्तृप्त्यर्थकाद्वा कर्तरि क्तः । रक्षणासमर्थात् भस्ममात्रसमृद्धिमत्तया तृप्तादस्माल्लक्ष्मीलाभस्सर्वरक्षकाच्छ्रीनिवासाद्भगवत इव जनानां कथं निष्पद्येतेति भावः ॥

 यथावा--

 श्रीशोभितस्स दासं पदं श्रितं बहुकरोऽतिहीनमपि । श्रीशोऽभितस्सदा संपदं श्रितं बहु करोऽति हीनमपि ॥ २२४८ ॥

 श्रीशोभितः सः दासं पदं श्रितं बहुकरः अतिहीनं अपि श्रीशः अभितः सदा संपदं श्रितं बहु करोति हि इनं अपि इति पदच्छेदः । श्रिया षाड्गुण्यसंपदा शोभित: । बहवः कराः हस्ताः यस्य स तथोक्तः । स्वसंपदनुगुणपुरुषार्थचतुष्टयदानौपयिकपाणिचतुष्टय इति भावः । सः सर्वेश्वरत्वेन सकलोपनिषत्प्रसिद्धः श्रीशः भगवान् श्रीनिवासः अतिहीनमपि अतिदुर्गतमपीति यावत् । अपिर्विरोधे । पदं स्वचरणं श्रितं शरणं गतं दासं शेषभूतं चेतनं अभितः समन्ततः सर्वस्मिन् देशे इत्यर्थः । सदा सर्वस्मिन् काले बहु विपुलं यथास्यात्तथा संपदं सपत्तिं श्रिंत प्राप्तं करोति । नैतावदेव किंतु इन मपि प्रभुमपि करोति । 'इनस्सूर्ये प्रभौ' इत्यमरः । अत्र अपिस्समुच्चये । हिः प्रसिद्धौ ॥

 यथावा--

 निजधाम्नि देवनेता पवियुक्तश्श्रीर्भवत्यनुग्रहतः । निजधाम्नि देवने तापवियुक्तश्रीर्भवत्यनुग्रहतः ॥ २२४९ ॥

 निजधाम्नि देवनेता पवियुकः श्रीः भवत्यनुग्रहतः । निजधाम्नि देवने तापवियुक्तश्रीः भवति अनुग्रहतः । इति छेदः । निजं नित्यं धाम तेजः प्रभावो वा यस्यास्सा निजधाम्नी । तस्यास्संबुद्धिः हे निजधाम्नि! ‘अन उपधालोपिनोऽन्यतरस्याम्' इति वैकल्पिको ङीप् । ‘स्वके नित्यं निजं त्रिषु' गृहगेहत्विट्प्रभावा धामानि’ इति चामरः । ‘निजं स्वीये च नित्ये च' इति मेदिनी च । हे श्रीः भवत्या अनुग्रहः भवत्यनुग्रहः तस्मात् सार्वविभक्तिकस्तसिः ‘सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ इति भाष्यकारेष्टेः ‘ठक्छसोश्च' इति वार्तिकारम्भेणानित्यताज्ञापनाद्भवतीशब्दस्य न पुंवद्भावः । एतच्च हंससंदेशरसास्वादिन्यां ‘भवतीभागधेयेन जीवन्’ इत्यत्र निपुणतरं प्रपञ्चितमस्माभिः । देवनेता इन्द्रः पविमुक्तः वज्रसहितः ‘कुलिशं भिदुरं पविः' इत्यमरः । एतेन शौर्यस्थैर्यं व्यञ्जितम् । अतएव अनुग्रहतः उग्रैः दैत्यादिभिः क्रूरैः हतः हिंसितो न भवतीति तथा । अतएव निजधाम्नि स्वस्थाने त्रिदिवे देवने क्रीडने द्योतने मोदने वा । तापवियुक्तश्रीः तापैः आध्यात्मिकादिभिः वियुक्ता श्रीस्संपत् यस्य स तथोक्तः भवति । अत्र विष्णुपुराणकथाऽनुसंधेया । इमान्यर्धावृत्तिरूपयमकोदाहरणानि सर्वाण्यपि वक्ष्यमाणगोमूत्रिकाबन्धोदाहरणानि भविष्यन्ति ॥

अथ पादावृत्तियमकविभागः

आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव ॥

 प्रथमपादस्य द्वितीयतृतीयचतुर्थपादेषु क्रमेणावृत्तौ त्रयो भेदाः । युगपदावृत्तौ त्वेक इति प्रथमपादावृत्तिनिबन्धनाश्चत्वारो भेदाः । तथा द्वितीयपादस्य तृतीयचतुर्थयोः क्रमेणावृत्तौ द्वौ

भेदौ’ तृतीयपादस्य चतुर्थपादे आवृत्तावेक इति शुद्धाः पादावृत्तिनिबन्धना भेदास्सप्त । तथा प्रथमस्य द्वितीये तृतीयस्य चतुर्थे चावृत्तावेकः । तथा प्रथमस्य चतुर्थे द्वितीयस्य चतुर्थे द्वितीयस्य तृतीये चावृत्तावपर इति संकीर्णौ द्वौ भेदौ । आहत्य पादावृत्तिनिबन्धना भेदा नव संपद्यन्ते । इदमुपलक्षणम् । यथाहि प्रथमपादस्य द्वितीयादिपादेषु क्रमेण यौगपद्येन चावृत्तौ चत्वारो भेदा उक्ताः । तथा प्रथमस्य द्वितीयतृतीययोर्द्वितीयचतुर्थयोः तृतीयचतुर्थयोश्चावृत्तावन्येऽपि त्रयो भेदस्संभवन्ति । तथा द्वितीयस्य तृतीयचतुर्थयोः क्रमेणावृत्तौ भेदद्वयवत् युगपदावृत्तावपरोऽपि भेदस्संभवतीति ध्येयम् ॥

अथ पादभागावृत्तियमकविभागः.

द्विधा विभागे पादानां प्रथमाद्यादिमा यदि ।
द्वितीयाद्यादिभागेषु यम्यन्ते स्युर्भिदा दश ॥
प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः ।
भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥
एवं द्विधा विभागे तु भेदानां विंशतिर्भवेत् ।
त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात् ॥

 पादानां द्विधा विभागे प्रथमपादाद्यभागस्य द्वितीयादिपादाद्यभागेषु क्रमेण युगपच्चावृत्तौ चत्वारो भेदाः । द्वितीयपादाद्यभागस्य तृतीयचतुर्थपादाद्यभागयोः क्रमेणावृत्तौ द्वौ भेदौ । प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावेकः, तथा प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे द्वितीयपादाद्यभागस्य तृतीय

पादाद्यभागे चावृत्तावपरो भेदः । तथा अर्धावृत्तिन्यायेन प्रथमपादाद्यभागस्य तृतीयपादाद्यभागे द्वितीयपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावन्यो भेद इत्याद्या भागावृत्तिनिबन्धना दश भेदाः ॥

 नन्वर्धावृत्तिन्यायेनेव श्लोकावृत्तिन्यायेनापि तत्तद्भेदाः कुतो नोच्यन्त इति चेत् विच्छित्तिविशेषाभावेन श्लोकान्तरे भागावृत्तिनिबन्धना भेदा नोक्ता इति ध्येयम् । एवमेवान्त्यभागावृत्तिनिबन्धनाश्च भेदा दश । एवं पादानां द्विधा विभागे विंशतिर्भेदाः त्रिधा विभागे त्रिंशत् । चतुर्धा विभागे चत्वारिंशद्भवन्ति भेदा इत्याद्यूह्यम् । इत्थं शुद्धभेदा निरूपिताः ॥

अथ संकीर्णभेदप्रकाराः.

एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम् ।
अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः ॥

 यदा प्रथमादिपादगतान्त्यभागो द्वितीयादिपादाद्यभागे यम्यते तदा अन्त्य आदौ यम्यत इत्यन्वर्थताश्रयणादन्त्यादिकम् । यदा प्रथमपादाद्यभागो द्वितीयपादान्त्यभागे यम्यते तदा आद्योऽन्त्ये यम्यत इत्याद्यन्तकम् । एवं प्रथमादिपादमध्यभागस्य द्वितीयादिपादाद्यभागे यमने मध्यादिकम् । पवमाद्यभागस्य मध्यभागे यमने आदिमध्यगम् । एवमन्त्यभागस्य मध्यभागे यमने अन्त्यमध्यगम् । मध्यभागस्यान्त्यभागे यमने मध्यान्त्यकम् । यदा एतेषां समावेशस्तदैतत्समुच्चयाश्च भवन्तीत्यवधेयम् । एवमेक--पादगतभागानां पादान्तरभागापेक्षा भेदाः प्रदर्शिताः । एकपादगतभागानामन्योन्यापेक्षा भेदाः प्रदर्श्यन्ते-

एकैकपादे नियता नियतक्रमशालिनः ।
यम्यन्ते चेदादिमध्यान्त्यभागास्तद्भिदाश्शतम् ॥

 यदा त्वेकैकस्मिन्नेव पादे आदिमध्यान्त्यभागानां नियतक्रमत्वेन अनियतक्रमत्वेन च यमनं तदा शतं अनेके भेदास्संभवन्ति । एते यमकप्रभेदाः काव्यलक्ष्मीकण्ठगडुभूततया न प्रपञ्चनार्हा इति दिङ्मात्रमेवोदाह्रियते ॥

 पुरुषस्समाहितमना यस्सेवेताहिशैलमौलिमणिम् । पुरुषस्स माहितमनास्तस्मै किं किं पदं न विदधीत ॥ २२५० ॥

 यः पुरुषः मनुजः समाहितमनाः प्रणिहितचित्तस्सन् अहिशैलमौळिमणिं सेवेत तस्मै पुरुषाय सः 'सकलफलप्रदो हि विष्णुः' इति प्रसिद्धः माहितमनाः मायै श्रियै हितं प्रियं करणं मनो यस्य सः । अनेन पुरुषकारसांनिध्यं तत्प्रीत्याचरणैकतानत्वं चोक्तम् । पुरुषः भगवान् किं किं फलं न विदधीत ‘किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्युक्तेरिति भावः ॥

रत्नपर्वतमारुह्य यथा रत्नं नरो मुने ।
सत्वानुरूपमादत्ते तथा कृष्णान्मनोरथान् ॥

इत्यादिकमप्यत्रानुसंधेयम् ॥

 यथावा--

 नाशमितोऽभवदमुना भवता मम तावदखिलदुरितौघः । नाशमितो भवदमुना भविता फणिशैलनीलजलद हरे ॥ २२५१ ॥

 नाशं इतः अभवत् अमुना इति प्रथमपादे । न अशमितः भवदमुनाः इति तृतीयपादे च छेदः । हे हरे ! इदमाश्रितदुरितापहारसामर्थ्याभिप्रायगर्भम् । अमुना भवता आत्महविस्समर्पणोद्देश्यभूतेन त्वया, हेतौ तृतीया । मम अखिलदुरितौघानां सर्वपूर्वाघव्यूहानां, इदमुपलक्षणं प्रामादिकोत्तराघानामपि । नाशं विनाशं इदमश्लेषस्याप्युपलक्षणम् । इतः प्राप्तः इणः कर्तरि क्तः अभवत् । उत्तराघाश्लेषस्य सिद्धवत्काराभिसंधिना भूतनिर्देशः । भवस्संसार एव दमुनाः आग्निः सप्तार्चिर्दमुनाः' इत्यमरः । भवतेत्येतदत्राप्यनुषज्यते । अशमितः न भविता अनिर्वापितो न भविष्यति । भूधातोर्भविष्यति लुट् । फणिशैलनीलजलदेति विशेषणं भवाग्निनिर्वापणधुरीणताभिप्रायकम् । भवता मम पूर्वोत्तराघविनाशाश्लेषयोर्निर्वर्तितयोः पुनस्संसारतापः कदाऽपि न भविष्यत्येवेति भावः ॥

 यथावा--

 भविता सत्कृत्त्यादृतिरच्युत न त्वत्पदाश्रितानां यः । भवितासत्कृत्त्यादृतिरेव स एषोऽत्र को नु संशेताम् ॥ २२५२ ॥

 हे अच्युत ! यः पुमान् त्वत्पदाश्रितानां भागवतानां सत्कृतौ सत्कारे बहुमानने आदृतिः आदरणं यस्य स तथोक्तो न भविता स एष जनः असत्कृत्यादृतिरेव असत् अप्रशस्तं यत्कृत्यं तस्मिन् आदृतिरस्य तथोक्त एव भविता । यद्वा भवितासत्कृत्यादृतिरिति तृतीयचरणे समस्तं पदम् । भवितया संसारितया सतां ब्रह्मविदां कृत्ये आचारे आदृतिः यस्य स न भवतीत्यसत्कृत्यादृतिरेरव । अथवा असत्यां अप्रशस्तायां कृत्यायां देवतायां

'कृत्या क्रियादेवतयोः' इत्यमरः । आदृतिर्यस्य तथोक्त एव भविता । भागवताराधनविमुखानामीदृशी गतिरिति भावः । अथवा असत्कृत्त्याः असती स्पर्शाद्यनर्हा या कृत्तिः श्वादिचर्म 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । तस्याः दृतिः भस्त्रा भविता भागवतसत्कारादरविधुरः पुमान् चर्मभस्त्रिकाप्राय एव न तु चेतन इति भावः । अत्र पद्यत्रयेऽप्याद्यपादस्य तृतीयपादे आवृत्तिः ॥

 यथावा--

 क्रियते यद्भुवनावनमीशा नो ननु वृषाचलेशेन । प्रभवेदेतद्रचयितुमीशा नो ननु वृषा च लेशेन ॥ २२५३ ॥

 ईशा नः ननु वृषाचलेशेन । ईशानः न नु वृषा च लेशेन इति छेदः । वृषाचलेशेन शेषाद्रिनाथेन नः अस्माकं ईशा 'ईशा वास्यमिदग् सर्वम्’ इत्यत्रेव ईट्ब्दोऽयं तृतीयैकवचनान्तः । स्वामिनेत्यर्थः । यत् भुवनावनं जगत्पालनं कियते एतत् भुवनावनं रचयितुं ईशानः शर्वः वृषा च नु वासवोऽपि वा ‘नु पृच्छायां विकल्पे च' इत्यमरः । लेशेन लेशतोऽपि न प्रभवेन्ननु । ननुरवधारणे । ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः ।

न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् ।
स्थितौ स्थितं महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥

 इत्युक्तं पालनसामर्थ्यं ‘न सन्न चासच्छिव एव केवलः' ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इति कारणत्वशङ्कास्पदत्वेन श्रुतयोश्शिवशतमखयोर्न संभवेदिति भावः ॥

 यथावा--

 भूष्णुस्स्याद्यो मनुजो भवति स दामोदरहितताश्रेयान् । यो मनुजोऽभूष्णुस्स च भवति सदामोदरहितताश्रेयान् ॥ २२५४ ॥

 यः मनुजः भूष्णुः वर्धिष्णुः स्यात् सः दामोदराय हितः दामोदरहितः ‘हितयोगे च' इति चतुर्थी । ‘चतुर्थी तदर्थ' इत्यादिना समासः । तस्य भावः दामोदरहितता तया श्रेयान् प्रशस्यतरः भवति । यो मनुजः अभूष्णुः स च संश्चासावामोदश्च सदामोदः प्रशस्तानन्दः तेन रहिततया विधुरतया अश्रेयान् अविद्यमानं श्रेयो यस्य तथाभूतः भवति । ‘ईयसश्च' इति बहुव्रीहेर्न कप् ॥

 यथावा--

 त्वयि योऽच्युताभिदध्यादन्तर्यामीति शब्दमात्रमपि । तां श्रियमेति स न विशेदन्तर्यामीति शब्दमात्रमपि ॥ २२५५ ॥

 हे अच्युत ! त्वयि विषये अन्तर्यामी अन्तर्नियन्तेति शब्दमात्रमपि यः अभिदध्यात् । मा स्म तदर्थं ज्ञासीदिति भावः । सः पुमान् तां श्रियं संपदं एति प्राप्नोति । यां श्रियं ईतिशब्दमात्रमपि विप्लवशब्दमात्रमपि अन्तः न विशेत् किमुत तदर्थः । त्वयि अन्तर्यामीति शब्दमात्रं प्रयुञ्जानोऽपि निरातङ्कां श्रियमैहिकीमामुष्मिकीं वा प्राप्नोतीति भावः । ‘ईतिर्डिम्बप्रवासयोः' इत्यमरः । डिम्बो विप्लवः ‘डिम्बे डमरविप्लवौ' ईति तेनैवानुशिष्टत्वात् ॥

 यथावा--

 यः फणिशैलनिवेशे श्रीशेऽवधिरहितवर्धने

निपुणः । स भवति वसुधाधीशश्श्रीशेवधिरहितवर्धनेऽनिपुणः ॥ २२५६ ॥

 श्रीशे अवधिरहितवर्धने निपुणः श्रीशेवधिः अहितवर्धनेऽनिपुणः इति पदच्छेदः । यः पुमान् अवधिरहितं अनन्तं वर्धनं वृन्द्विः यस्य तथोक्ते स्वरूपेण गुणैश्च निरतिशयबृहति परस्मिन् ब्रह्मणीति यावत् । यद्वा अनवच्छिन्नाभिवृद्धौ त्रिविक्रमावतारे तथा प्रवृद्धत्वादिति भावः । अवधिरहितं यथास्यात्तथा वर्धने वर्धिष्णाविति वा । ‘वर्धनं वृद्धिवर्धिष्णुच्छेदे' इति मेदिनी । ‘स्याद्वर्द्धिष्णुस्तु वर्धनः' इत्यमरश्च । फणिशैलनिवेशे श्रीशे श्रीनिवासे निपुणः मातरि निपुण इत्यादाविव तत्पूजनैकतान इत्यर्थः । ‘साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः’ इत्यर्चायां गम्यमानायां निपुणशब्दयोगे सप्तमी । सः पुमान् श्रियः संपदः शेवधिः निधिः 'निधिर्ना शेवधिः' इत्यमरः । अहितानां वैरिणां वर्धने छेदने विषये निपुणः कुशलः वसुधाधीशः राजा भवति । अत्र ‘क्रियते यद्भुवनावनम्’ इत्यादिपद्यचतुष्टयेऽपि द्वितीयपादस्य तुरीयपादे आवृत्तिः । अत्र प्रथमस्य पादस्य तृतीये पादे आवृत्तौ संदंशो नाम यमकम् । द्वितीयस्य चतुर्थे आवृत्तौ संदष्टकं नाम यमकमिति रुद्रटः । तथाच तदीयं लक्षणं--

पर्यायेणान्येषामावृत्तानां सहादिपादेन ।
मुखसंदंशावृतयः क्रमेण यमकानि जायन्ते ॥

 आदिपादेन द्वितीयपादावृत्तौ मुखं नाम यमकम् । तेन तृतीयपादावृत्तौ संदंशोनाम यमकम् । तेन तुरीयपादावृत्तावावृतिर्नाम यमकमिति तदर्थः ।

प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन ।
यमके संजायेते गर्भस्संदष्टकं चेति ॥ इति ॥

 पश्चिमयोः तृतीयतुरीयपादयोः द्वितीयेनावृत्तौ गर्भसंदष्टकनामनी यमके भवत इति तदर्थः । प्रथमतृतीयपादाभ्यां द्वितीयतुरीयपादयोरावृत्तिरिहार्यावृत्तेषु न घटत इति नोदाहार्ष्म प्रतिज्ञाभङ्गभयात् ॥

 अथ पादभागावृत्तियमकभेदा दिङ्मात्रमुदाह्रियन्ते--

 वनमालीयत नीपावनमाली योगिनां च यत्र गिरौ । वनमाली य इहास्तेऽवनमालीढाब्धिजाधरं तमये ॥ २२५७ ॥

 यत्र गिरौ शेषाचले नीपावनं नीपानां कदम्बानां बन्धूकानां नीलाशोकानां वा कदम्बबन्धूकानीलाशोकानां सर्वेषां वा तरुविशेषाणां अवनं रक्षकं 'पुंवाक्येष्वनेकार्थत्वमदोषाय’ इत्यसकृदवोचाम । ‘नीपः कदम्बे बन्धूके नीलाशोकद्रुमेऽपि च' इति विश्वः । वनं विपिनं आलीयत आश्लिक्षत् स्थितमित्यर्थः । योगिनां मुनीनां आली पङ्क्तिश्च आलीयतेति योजना । इह अस्मिन्गिरौ वनमाली--

आपादलम्बिनीं मालां वनमालां विदुर्बुधाः ।
पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः ॥

इत्याद्युक्तलक्षणवैजयन्त्याख्यमालालंकृतः यः परमपुरुषः आस्ते । अवनं निरुपाधिकसर्वरक्षकं आलीढाब्धिजाधरं आस्वादितरमाधरं तं श्रीनिवासं अये शरणं प्रपद्ये । तं अवनं अये इति वा योजना । रक्षकत्वेन वृणोमीत्यर्थः । इह प्रथमपादभागस्य वनमालीति चतु

रक्षरात्मकस्य द्वितीयादिपादत्रयभागेष्वावृत्तिः । प्रथमतृतीययोः पञ्चानां वर्णानामावृत्तिरप्यस्तीति विशेषश्च ॥

 मम तावदियं सुतराममता दुरिताळिरच्युतात्यमिता । ममतां वहता भवता भवतापहृता क्षमापदं गमिता ॥ २२५८ ॥

 हे अच्युत! तावदिति साकल्ये । सुतरां अमता अनभ्युपगता अत्यमिता मम त्वां प्रपन्नस्येति भावः । दुरिताळिस्तावत् सर्वाघततिरित्यर्थः । ममतां मदीयोऽयमिति वात्सल्यमित्यर्थः । वहता भवतापहृता संसारसंज्वरनिरासकेनेति स्वापराधक्षमादक्षताभिप्रायकम् । भवता क्षमापदं क्षमागोचरतां गमिता नीतेत्यर्थः । अनेन 'न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः' इत्युक्तोऽर्थस्संगृहीतः । अत्र प्रथमपादादिमभागस्य ममतेत्यक्षरत्रयात्मकस्य द्वितीयतृतीयपादादिभागमात्रे आवृत्तिः । न तु तुरीयपादादिभागे । अत्र यमकान्तरमप्यवधेयम् ॥

 स्तावकमहिशिखरिशशिंस्तावकचरितस्य धन्यमिह मन्ये । भावुकमखिलं सुभगंभावुकमेनं यतो नयसि मनुजम् ॥ २२५९ ॥

 हे अहिशिखरिशशिन् ! तावकचरितस्य स्तावकं स्तोतारं जनं धन्यं मन्ये । यतो हेतोः सुभगंभावुकं एनं मनुजं अखिलं भावुकं कुशलं 'भावुकं भविकं भव्यं' इत्यमरः । नयसि । तस्मादमुं धन्यं मन्ये इति योजना । अत्राद्यपादाद्यभागस्य द्वितीयपादादिभागे तृतीयाद्यपादस्य तुरीयपादादिभागे चावृत्तिः ॥

 यैर्न कृता क्वचिदपि वा सत्कृत्त्यास्स्युः प्रसेविकाश्शौरे । श्वासान्वितास्त एतेऽसत्कृत्त्यास्स्युः प्रसेविका नूनम् ॥ २२६० ॥

 यैर्जनैः क्वचिदपि वा सत्कृतिः आदरः तया सत्कृत्या । ‘अनचि च' इति तकारस्य द्वित्वं यमकाविरोधायेति ध्येयम् । प्रसेविकाः प्रकृष्टास्सेवाः 'धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' इति सेवतेः ण्वुल् । धात्वर्थश्च सेवनम् । न कृता: त एते जना श्वासान्विताः श्वसन्त्यः असत्कृत्त्याः असती स्वर्शाद्यनर्हा या कृत्तिः श्वगर्दभादिचर्म तस्याः प्रसेविकाः भस्त्रिका एव नूनम् । ‘भस्त्रा चर्मप्रसेविका' इत्यमरः । भगवत्सेवनविधुराः श्वासमात्रवः च्चर्मभस्त्रिकाप्राया एव । अत्र 'तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्ति च’ इत्यादिभागवतश्लोकार्थोऽनुसंधेयः । अत्र द्वितीयतुरीययोराद्यभागावृत्तिः ॥

 यस्तव कथासुधायां यदुवंशमणे महादृतिर्न स्स्यात् । सम्यक्कृते विमर्शे स नरो नूनं महादृतिर्नस्स्यात् ॥ २२६१ ॥

 हे यदुवंशमणे ! यः नरः तव कथासुधायां महादृतिः महती आदृतिर्यस्य तथोक्तः । न स्यात् न भवेत् सः नरः सम्यक् विमर्शे कृते नस्स्यादित्यत्र नः स्यात् इति छेदः । नः अस्माकं स नरः महादृतिः महती भस्त्रिकैव स्यात् तत्तुल्यो भवेत् । अस्मद्दृष्ट्या स चर्मभस्त्रिकाप्राय एव स्यात् न तु चेतन इति भावः । अत्र द्वितीयतुरीयपादयोरन्त्यभागावृत्तिः ‘दृतिश्चर्मपुटे मत्स्ये' इति मेदिनी । ‘दृतेः पादादिवोदकम्’ इति प्रयोगश्च ॥

 जगतां स भवानीशः फणधरगिरिनाथ न तु भवानीशः । ब्रह्माऽपि भवानीशस्तदहं तव किंकरो भवानीशः ॥ २२६२ ॥

 हे फणधरगिरिनाथ! भवानेव जगतां ईशः स्वामी । भवानीशस्तु रुद्रस्तु न नेश इत्यर्थः । ब्रह्माऽपि नेशः । कुत इत्यत आह-- भवानीश इति । भवेन संसारेण अनीशः अस्वतन्त्रः संसारबन्धविवश इत्यर्थः । ‘अनीशया शोचति मुह्यमानः’ इति श्रुतेः । तत् तस्मात् रुद्रादीनां संसारपरतन्त्रत्वात् अहं भवबन्धान्मुमुक्षुरिति भावः । ईशः ईट्छब्ददष्षष्ठ्यन्तोऽयम् । निरुपाधिकतया सर्वेश्वरस्येत्यर्थः ‘जुष्टं यदा पश्यत्यन्यमीशं, ज्ञाज्ञौ द्वावजावीशनीशौ' इत्यादिश्रुतिभ्यः । तव ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’ इत्युक्तरीत्या भवसागराद्विनतानुद्धरतस्तवेति भावः । किंकरः भवानि भवेयम् । लोडुतमैकवचनम् । मुमुक्षुरहं ‘बद्धस्स्वयं किमु विमोचयिता बतान्यम्' इति न्यायेन स्वयमेव संसृतिबन्धमोमुह्यमानानुमानाथादीननादृत्य निखिलसंसृतिपाशबन्धनिर्धूननपरमाद्भुतशक्तेस्तवैव दास्यमभ्युपेयामिति भावः । अत्र ‘आ ब्रह्मस्तम्बपर्यन्ता’ इत्यादिप्रमाणान्यप्यनुसधेयानि । अत्र प्रथमपादान्त्यभागो भवानीश इति वर्णचतुष्टयात्मको द्वितीयादिपादत्रयान्त्यभागेष्वावर्तितः ॥

 यथावा--

 स्वधयैव भृशमनन्तं प्रलयदशायां वषाचलेशमनन्तम् । य उपास्ते शमनन्तं न वीक्षते बत स

विन्दते शमनन्तम् ॥ २२६३ ॥

 प्रलयदशायां स्वधया लक्ष्म्या सह । एवशब्दो भिन्नक्रम उत्तरत्रान्वेति । ‘स्वधा त्वं लोकभावनी’ इति पुराणोक्तेः स्वधाशब्दो लक्ष्मीवाची । महाभारते च श्रीवासवसंवादे—-‘अहं स्वाहा स्वधा चैव’ इति श्रिया स्वयमेवोक्तत्वाच्च । भृशं अनन्तं प्राणन्तं ‘आनीदवातग्ग् स्वधया तदेकम्’ इति श्रुतेः । महाभारते च--

कृत्वा मत्स्थानि भूतानि स्थावराणि चराणि च ।
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम ॥

 इति विद्याशब्दो लक्ष्मीपरः । ‘आत्मविद्या च देवि त्वम्' इत्याद्युक्तेः । यद्वा ‘तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति’ इत्युक्तरीत्या स्वधया आनीदिति प्रेमपारतन्त्र्ये तात्पर्यम् । यद्वा स्वस्मिन् धीयत इति व्युत्पत्त्या स्वधाशब्दस्स्वसत्ताविषयकः । स्वकीयं विश्वधारणसामर्थ्यमेव वा स्वधा । तथाच ‘श्रेष्ठश्च' इत्यधिकरणे भाष्यं--‘आनीदवातम्' इति तु न जैवं श्रेष्ठं प्राणनमभिप्रेत्योच्यते अपितु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते' इति । 'अत्रानन्याधीनसत्ताकत्वमभिप्रेतम्' इति चतुश्श्लोकीभाष्ये आचार्याः । अनेन जगत्कारणत्वमुक्तम् । ‘कारणं तु ध्येय' इति तस्यैवोपास्यत्वश्रवणात् । अनन्तं त्रिविधपरिच्छेदविधुरं वृषाचलेशं अर्चात्मना वेंकटाद्राववस्थितं परं ब्रह्मैवेत्यर्थः । यः पुमान् उपास्ते सः तं अतिभीषणतया दुर्दर्शं दुष्कृतां यातयितारं प्रभुमिति भावः । 'प्रभुरहमन्यनृणां न वैष्णवानाम्' इति ह्युच्यते । शमनं यमं 'शमनो यमराड्यमः' इत्यमरः । न वीक्षते ।

सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागियैरिह ।
न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्त्यघचीर्णनिष्कृताः ॥


 इति श्रीभागवताद्युक्तेरिति भावः । अथापि तं शमनं यमं विन्दते प्राप्नोतीति विरोधः । परिहारस्तु शं अनन्तमिति छेदेन अनन्तं अपरिच्छिन्नं शं सुखं परब्रह्मानुभूतिसुखमिति भावः तस्यैवानन्तत्वात् । विन्दते प्रप्नोतीति । अत्रापि प्रथमपादान्त्यभागस्य पादान्तरेष्वावृत्तिः ॥

 यथावा--

 याऽघं तपसाऽधयति त्वत्कीर्तिसुधां नृणां ततिस्सा धयति । अथ भक्तिं साधयति त्वय्यच्युत तां भवांश्च साधयति ॥ २२६४ ॥

 हे अच्युत ! या नृणां ततिः तपसा कृछ्रचान्द्रायणादिना अघं पापं अधयति अधःकरोति तिरस्करोतीत्यर्थः । अधस् इति सान्ताव्ययात् णाविष्ठवद्भावे टिलोपः । स नृणां ततिः त्वत्तीर्तिसुधां धयति पिबति । धेट् पाने' कर्तरि लट् । तत्फलमाह-- अथेति । अथ त्वयि भक्तिं साधयति निष्पादयति । भवांश्च एवमुपासितस्त्वमपि तां नृणां ततिं साधयति बाढंकरोति साधुं करोतीत्यर्थः । बाढशब्दात् णाविष्ठवद्भावे 'अन्तिकबाढयोर्नेदसाधौ’ इति साधादेशः । द्वितीये साधुशब्दात् णाविष्ठवद्भावे टिलोप इति भिदा ॥

 यथावा--

 करिणो वरद हरे ते चरणे मम दुरितमघनुद हरेते । तद्व्यर्थं दहरे ते न ध्याते श्रीपते यदहरेते ॥ २२६५ ॥

 हे हरे ! ‘हरिर्हरति पापानि’ इत्येतदत्र स्मर्तव्यम् । अघं दुःखं व्यसनं वा नुदति क्षिपतीत्यघनुदः । तस्य संबुद्धिः । ते तव चरणे मम दुरितं हरेते । यदहः यस्मिन्नहनि अत्यन्तसंयोगे द्वितीया । दहरे हृदयपुण्डरीके ते पूर्वोक्ते एते तव चरणे न ध्याते तदहः व्यर्थं निरर्थकम् । अत्र ‘यन्मुहूर्तं क्षणं वाsपि’ इति वचनार्थस्स्मर्तव्यः ॥

 यथावा--

 स भवान्यदि नो दयते जन्तोर्ज्ञानं तदाऽस्य नोदयते । कर्माणि न नोदयते तत्त्वां ध्यातुं रमाविनोद यते ॥ २२६६ ॥

 विनोदयतीति विनोदः रमायाः विनोदः रमाविनोदः तस्य संबुद्धिः । रमायाः विनोद विनोदहेतो इति वा हेतुहेतुमतोरैक्यम् । हे श्रीनिवासेत्यर्थः । स भवान् जन्तोः प्राणिनः नो दयते यदि दयतेर्लट् ‘अधीगर्थदय' इति कर्मणश्शेषत्वविवक्षया षष्ठी । तदा अस्य जन्तोः ज्ञानं निश्श्रेयसौपयिकमिति भावः । नोदयते नोदेति । अयतेर्लट् । स भवान् अस्येत्येतच्चानुषज्यते । अस्य जन्तोः कर्माणि पापरूपाणि न नोदयाते न निवर्तयते । नुदतेर्णिजन्ताल्लट् । यद्वा अयमित्यध्याहारः । अयं जन्तुः कर्माणि न नोदयते इति योजना । पापकर्मणः क्षयाभावे ज्ञानानुदयादिति भावः । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः' इति हि स्मृतिः ।

तत् तस्मात् उक्ताद्धेतोः त्वां ध्यातुं यते यत्न करोमि । यततेर्लडुत्तमैकवचनम् । पापक्षयपूर्वकज्ञानोदयनिदानत्वाद्भवत्कृपायास्तत्संपादनाय त्वामुपासितुं यत्नवान्भवामीति निर्गळितोऽर्थः ॥

 कृतविधिनाभीकमलं हृदयान्तरकृतनिकेतनाभीकमलम् । व्रजललनाभीकमलंकुरुतां हृद्ब्रह्म तदधुनाऽभीकमलम् ॥ २२६७ ॥

 कृतः सृष्टः विधि: ब्रह्मा येन तथोक्तं नाभीकमलं यस्य तत् । हृदयान्तरे वक्षोऽन्तराळे कुतनिकेतना रचितमन्दिरा अभीः अविद्यमाना भीर्यस्यास्सेति पञ्चमीबहुव्रीहिः । आश्रितभीतिहारिणी । षष्ठीबहुव्रीहिर्वा । परिपूर्णापराधेष्वाश्रितयूधेषु कलुषितमतेर्दण्डधराल्लोकेश्वराद्भर्तुरपि तत्परित्राणे ‘किमेवं निर्दोष: क इह जगति’ इति बोधयन्ती न बिभेतीति भावः । अभीः कमला यस्य तत् तथोक्तम् । आभ्यां परत्वमुक्तम् । व्रजललनानां गोपमहिलानां अभीकं कामुकं ‘कम्रः कामयिताऽभीकः' इत्यमरः ‘अनुकाभिकाभीकः कमिते' त्यभेः कमिते’ कमितेत्यर्थे कन्प्रत्ययो निपातितः । अनेन सौलभ्यमुक्तम् । ब्रह्म उक्तविधं परं ब्रह्म हृत् मम चित्तं कर्म अलंकुरुतां परिष्कुरुताम् । तत् मनः कर्तृ । अधुना अलं पर्याप्तं अभीकं निर्भयं भवति भगवति परस्मिन् ब्रह्मणि हृदयमधिवसति कुतो मम भयवार्तेति भावः । ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति’ इति श्रुतेः । अत्र प्रथमपादान्त्यभागगतसस्वरव्यञ्जनपञ्चकस्य तदितरपादान्त्यभोगष्वावृत्तिरिति विशेषः ॥

 श्रयसि सदा सहितत्त्वं श्रिया यदेतत्पुरा सदास हि तत्त्वम् । अयसि स दासहितत्त्वं त्वामेवं वेद यः सदा स हि तत्त्वम् ॥ २२६८ ॥

 हे भगवन्! सदा श्रिया सहितत्त्वं श्रयसि । श्रिया नित्ययोगवानिति श्रीमच्छब्दार्थ उक्तः । 'आनीदवातग् स्वधया तदेकम्’

इत्युक्तं तस्यैव जगत्कारणत्वमाह-- यदिति । एतत् परिदृश्यमानं चिदचिदात्मकं जगत् पुरा सृष्टेः प्राक् आस हि । तत् त्वम् इति छेदः । हिरवधारणे । अयं भिन्नक्रमः पूर्वत्र परत्र चापि संबध्यते । यत् सकलोपनिषत्प्रसिद्धं सत् हि सदेव सच्छब्दाभिलपनीयं ब्रह्मैव आस । जगदिदं यत्कारणकं यदात्मकमेवासीत् । आसेति तिङन्तप्रतिरूपकं बभूवार्थकमव्ययम् । यद्वा आस दिदीपे । दीप्त्यर्थकादसधातोर्लिट् । तद्ब्रह्म त्वमेव । त्वमेव तदिति वा योजना । ‘सदेव सोम्येदमग्र आसीत्’ इति कारणवाक्यार्थस्स्मारितः । एवंच श्रियःपत्युरेव जगत्कारणत्वं नान्यस्येत्युक्तं भवति । सः ईदृशः त्वं दासेभ्यः ‘दासभूतास्स्वतर्स्स्वे ह्यात्मानः परमात्मनः’ इत्युक्तरीत्या शेषभूतेभ्यः हितत्त्वं सिद्धोपायत्वं अयसि प्राप्नोषि । ‘इट किट' इत्यत्र प्रश्लिष्टस्य इधातोर्लट् । यः पुमान् सदा त्वां एवं श्रियःपतिं जगत्कारणं सिद्धोपायभूतं च वेद स हि स एव तत्त्वं आत्मपरमात्मयाथात्म्यं वेदेति योजना । अत्राद्यपादान्त्यभागगतानां षण्णां सस्वरव्यञ्जनानां पादान्तरान्त्यभागेष्वावृत्तिरिति पूर्वेभ्यो विशेषः । चतुर्थचरणे यः सदा इत्यत्र ‘वा शरि' इति पाक्षिको विसर्गस्य विसर्ग एवैष्टव्यः । न तु ‘विसर्जनीयस्य सः’ इति सकारः । असंयुक्तसकारयमकप्रक्रमभङ्गापत्तेः ॥

 वितर शुभां गाङ्गेयं त्वां गायानीह विनतगाङ्गेयम् । लक्ष्मीसुभगाङ्गेयं पूताऽस्तु वृथैव मा स्म गाङ्गेयम् ॥ २२६९ ॥

 शुभां गां वाचं वितर । गेयं गातुं योग्यम् । विनतः गाङ्गेयो भीष्मः यस्मिंस्तं त्वां गायानि गायेयं लोडुत्तमैकवचनम् ।

विष्णोर्गानं च गेयं च नटनं च विशेषतः ।
ब्रह्मन्ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥

 इति शौनकोक्तेरिति भावः । हे लक्ष्मीसुभगाङ्गा श्रीशोभनमूर्ते श्रीनिवासेत्यर्थः । इयं गौः वाक् पूता अस्तु त्वत्संकीर्तनादिति भावः । यथाह्युच्यते शौनकेनैव--

नृत्यतां श्रीपतेरग्रे करसंस्फोटनादिभिः ।
उडुयिन्ते शरीरस्था महापातकपक्षिणः ॥

 इति । अत्र संस्फोटनादिभिरित्यादिशब्देन गानस्यपि ग्रहणं, पूर्वश्लोके तस्यैव प्रस्तुतत्वात् । वृथा गेयं त्वत्कीर्तनविधुरं गानं मा स्म गां न प्राप्नुयामेव ।

हरिगीतं विना नान्यद्ब्राह्मणेन नरोत्तम !
भाषागानं न कर्तव्यं तस्मात्पापं त्वया कृतम् ॥

 इति भवगद्गीतातिरिक्तगानप्रतिषेधादिति भावः । अत्राद्यपादान्त्यभागस्याक्षरत्रयात्मकस्य पादान्तरेष्वावृत्तिरिति विशेषः ॥

 यथावा--

 महिमानं वेदान्ते वचसां तव विश्रुतस्य वेदान्ते । स्वमहं विभवेऽदान्ते करुणय मयि दुरभिभवभवेऽदान्ते ॥ २२७० ॥

 वेदान्ते विश्रुतस्य तव महिमानं वचसां अन्ते वेद जानामि 'यतो वाचो निवर्तन्ते’ इति श्रुतेः । विभवे जगत्प्रभवे सर्वव्यापिने ते तुभ्यं अहं स्वं आत्मानं त्वदीयं स्वमेवेति वा अदां अददां त्यय्यात्मसमर्पणमकार्षमित्यर्थः । दुरभिभवो भवः संसारो यस्य तस्मिन् त्वच्चरणशरणवरणमन्तरेण उपायान्तरैर्दुरपनय

संसारे इत्यर्थः । अदान्ते ‘शान्तो दान्तः’ इत्युक्तदमदवीयसीतिस्वकार्पण्याभिव्यञ्जनम् । मयि करुणय करुणां कुरु । करुणाशब्दात् "तत्करोति’ इति णिच् । अदान्ते इत्यत्र ‘वा पदान्तस्य’ इति परसवर्णः । पूर्ववदेव यमकम् ॥

 कमलासख तव दास्ये कृतरुचिरात्मानमेव ते दास्ये । अविदितविनतौदास्ये लगति मनस्त्वयि ममेन्दुलसदास्ये २२७१ ॥

 इदं भगवन्तं शरणं प्रपित्सोः कवेर्वचनम् । हे कमलासख ! अयं श्रीमच्छब्दार्थः । अनेन आत्मसमर्पणोद्देश्यत्वं श्रीविशिष्टस्यैवेति सूचितम् । तव दास्ये कैंकर्ये कृतरुचिः अनेन शरणागतिमन्त्रे उक्तरखण्डगतचतुर्थ्यन्तशब्दार्थस्सूचितः । आत्मानमेव ते तुभ्यं दास्ये आत्मरक्षाभरं त्वयि समर्पयिष्यामीति भावः । अनेन ‘शरणं प्रपद्ये’ इत्येतदर्थ उक्तः । अत्र हेतुमुपपादयति-- अविदितेति । अविदितं विनतेषु औदास्यं उदासीनता येन तस्मिन् अतएव त्वयि मम मनः लगति । इन्दुलसदास्ये इति भगवतो विशेषणमनुग्रहप्रसन्नताव्यञ्जनाय । अत्र प्रथमपादान्तिमभागस्य वर्णद्वयात्मकस्य चतुर्ष्वपि पादान्त्यभागेष्वावृत्तिरिति विशेषः ॥

 यथावा--

 निखिलमिहालं करणं नियम्य यः श्रुतिवधूमहालंकरणम् । नरसखमापच्छरणं न भजेत कदाऽपि स भवमापच्छरणम् ॥ २२७२ ॥

 यः पुमान् निखिलं करणं सर्वाणीन्द्रियाणीत्यर्थः । अल पंर्थाप्तं यथातथा नियम्य विषयेभ्यः प्रत्याहृत्य श्रुतिरेव वधूः

तस्याः महाभरणं शिरोमणिमित्यर्थः । नरसखं नारायणं शरणं रक्षितारमुपायं वा आपत् प्राप्नोत् । रक्षितृत्वेन वा उपायत्वेन वा अवृणोदित्यर्थः । स पुमान् कदाऽपि आपदां शरणं निवासभूतं सकलविपज्जन्मभूमिमित्यर्थः । भवं संसारं न भजेत । भगवति न्यस्तरक्षाभरस्य क्व पुनस्संसृतिसृत्यवतार इति भावः । भगवन्तं शरणमुपेयिवान् भवं शर्वं आपच्छरणं कदाऽपि न भजेत आपत्सु रक्षकतया न सेवेतेति च प्रतीयते । अत्र पूर्वार्धे उत्तरार्धे च चरमभागे यमकम् ॥

 अथ मध्यभागयमकम्--

 यथा--

 रघुजाय ते नमस्स्तान्न जायते यन्मुधा कदाचिदपि । जलजायतेक्षण जनव्रजा यतेरन्विधातुमिदमेव ॥ २२७३ ॥

 हे जलजायतेक्षण ! अनेन प्रपन्नेष्वतिप्रसन्नत्वं व्यज्यते । रघुजाय शरणवरणधर्मप्रवर्तनधुरीणरघुवंशजत्वकथनेनास्यापि तादृशव्रतदीक्षितत्वं द्योतितम् । अतएव 'सर्वलोकशरण्याय राघवाय’ इत्युक्तिः । ते तुभ्यं नमः ‘निवेदयत मां क्षिप्रम्’ इत्युक्तमात्मनिवेदनं ‘नमस्कारात्मकं तस्मै विधायात्मनिवेदनम्' इति ह्युच्यते । स्तात् भवतु । किं तेनत्यत्राह--यत् नमस्करणं कदाचिदपि

मुधा न जायते निरर्थकं न संपद्यते । फलेग्रहितामेव भजत इति भावः । स्वानुष्ठितमात्मनिवेदनमेव सर्वैरनुष्ठेयमिति 'प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां समृद्धिम्’ इति न्यायेनाशस्ते–-जनेत्यादिना । जनव्रजाः पामरपरीक्षकसाधारण्येन सर्वे जननिवहाः इदमेव भगवते आत्मनिवेदनमेव विधातुं यतेरन् प्रार्थनायां लिङ् । यतन्ताम् । किमन्यैर्व्यभिचरितप्रयोजनैरुपायैः

तथफलमिदमेकमेव सेवन्तां सर्वाधिकारिकत्वादस्य ‘अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम' इति तेनैव प्रतिज्ञातत्वादपेक्षितसकलफलदानधौरेयत्वाच्चेति भावः। अत्राद्यपादमध्यभागगताः जायते इति त्रयो वर्णा एव पादान्तरमध्यभागे यम्यन्त इति मध्ययमकमिदम् ॥

 यथावा--

 सरसी विसारसारससौगन्धिकसारसारहितवृत्तिः । भाति घनसारसारसुशाती सरसा रसारमण तेऽद्रौ ॥ २२७४ ॥

 रसायाः भूदेव्याः रमण वल्लभ ! ‘विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम्’ इति श्रुत्या तस्या भगवत्प्रियात्वस्योक्तत्वादस्यापि तद्वल्लभत्वमित्यभिप्रायेण तथा संबोधनम् । हे भूवराहेति वा । ते तव अद्रौ शेषाचले इत्यर्थः । विसाराः मीनाः सा रसाः पुष्कराह्वखगाः सौगन्धिकानि कह्लाराणि सारसानि पद्मानि तैः अरहिता वृत्तिः स्थितिः यस्यास्सा तद्युक्तेत्यर्थः । घनसारस्य कर्पूरस्य सारः स्थिरांशः स इव सुशीता अतिशिशिरा सरसा रसेन मधुररसेन सह वर्तत इति तथोक्ता च । सरसी स्वामिपुष्करिणी भाति । अत्र प्रथमपादमध्यभागस्य सारसारेतिवर्णद्वययमकरूपस्य द्वितीयादिपादमध्यभागे यमनान्मध्ययमकविशेष इति पूर्वस्माद्विशेषः ॥

 यथावा--

 शरणरणश्रवणक्षणचरणरणत्कटकमतिजवादेत्य । नीरणरणकितविचकितवारण रणधुर्य देव भव शरणम् ॥ २२७५ ॥

 शरणेति रणः ध्वनिः रक्षकेत्याक्रन्दनमिति यावत् ‘रणः क्वणे' इति, 'रवे रणः' इति च संकीर्णनानार्थवर्गयोरमरः । 'रण: कोणे क्वणे पुंसि समरे पुंनपुंसकम्' इति मेदिनी च । तस्य । श्रवणक्षणमेव चरणयोः रणन्तौ ध्वनन्तौ कटकौ बलयौ यस्मिन्कर्मणि तद्यथास्यात्तथा अतिजवात् एत्य ग्राहग्रस्तगजेन्द्रसविधमिति भावः । रणरणकः उत्तरोत्तरतरङ्गितभयविसंष्ठुलत्वं निर्गमितः रणरणको यस्य सः नीरणरणकः तथोक्तः कृत: नीरणरणकितः नीरणरणकशब्दात् णिजन्तार्त्कमणि क्तः विचकितः नक्राक्रान्ततया विशेषतः प्रतिहतः वारणः गजेन्द्रो येन तस्य संबुद्धिः नीरणरणकितविचकितवारण ! हे रणधुर्य समरधौरेय हे देव मम शरणं भव । गजेन्द्रस्येव ममापि भयचकिततां निर्धूय परित्राणं विदध्या इति भावः । अत्रापि पूर्ववदेव रणरणेति मध्यभागयमकं पादचतुष्टये ॥

 श्रीवासादेवासावासाद्या सकलसंपदखिलजनैः । का वा सा याऽवासादयितुं संपत्ततो न शक्येत ॥ २२७६ ॥

 असौ जगदानन्दसंदायितया दृश्यमाना अखिलसंपत् श्रीवासात् भगवत एव सकाशात् सकलजनैः आसाद्या प्राप्या । का वा सा या अवासादयितुमिति छेदः । ततः तस्मात् श्रीनिवासात् या संपत् अवासादयितुं अवाप्तुं स्वार्थिको णिच् यद्वा ततः तेन श्रिनिवासेन आसादयितुं श्रितान्प्रापयितुं न शक्येत । सा तथाविधा संपत् का वा न कापि तादृशी संपदस्तीति भावः । अत्राद्यपादे एकवर्णान्तरव्यवहितवासारूपवर्णद्वयावृत्तिलक्षणमध्यभाग

एव तृतीयपादे तथाऽऽवर्त्यत इति प्रागुदाहृताव्यवहितवर्णद्वयावृत्तिरूपमध्ययमकाद्विच्छित्तिविशेषः ॥

 यथावा--

 स जयति भुजगेशधरो जपावनं सहजपावनं यत्र । यत्र नृणां दानतपोजपावनं दिविजपावनं भवति ॥ २२७७ ॥

 दानतपोजपानां अवनं गमनं प्राप्तिरित्यर्थः । अवतेर्गत्यर्थकाद्भावे ल्युट् । दिविजान्पातीति दिविजपः देवेशः भगवान् तस्य अवनं प्रीणनं भवति । प्रीणनार्थकादवतेः करणे ल्युट् । स्पष्टमन्यत् । अत्र द्वितीयपादे वर्णान्तरव्यवधानेनावृत्तस्य जपावनमित्यक्षरसमुदायस्य तुरीयपादे तथाऽऽवृत्तिरिति विशेषः ॥

 अतिबहुलसत्तमो जायतेऽहिभूभृत्पते मनो यस्य । बत बहुलसत्तमोजायते हि भूभृत्स तव दृष्ट्या ॥ २२७८ ॥

 हे अहिभूभृत्पते! यस्य पुंसः मनः अतिबहुलं सत् विद्यमानं तमः यस्य तथोक्तं जायते त्वत्कटाक्षप्रसरात्पूर्वमतिमात्रतामसं भवतीति भावः । सः मनुजः तव दृष्ट्या 'यत्सत्त्वं स हरिर्देवः’ इति

सत्त्वमयतयोक्तस्य तव कटाक्षेणेति भावः । बहुला सत्ता साधुता प्रशस्तता वा यस्मिंस्तत्तथोक्तं यथातथा । यद्वा बह्वी लसतो भावः लसत्ता भगवत्संश्लेषः यस्मिंस्तद्यथातथा हि भूभृदिति छेदः । भूभृत् राजा सन् ओजायते । हिरवधारणे । सत्त्वगुणोन्मेषेण दीप्यते । 'तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्’ इति सत्त्वगुणस्य प्रकाशकत्वं हि गीयते । अत्र पूर्वार्धमध्यभाग उत्तरार्धमध्यभागे आवर्त्यते । विपुलानामार्यावृत्तभेदोऽयमिति च विशेषः ॥

संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ।
यस्यास्तां पिङ्गलनागो विपुलामभिसमाख्याति ॥

इति लक्षणात् ॥

 यद्वैभवं न मेयं नमेयमहिशैलनाथमहिलां ताम् । सर्वस्य हि सुनमेयं न मे यमाद्भीरितःपरं भविता ॥ २२७९ ॥

 यस्याः वैभवं महिमा मातुं योग्यं मेयं न भवति 'यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुर्नालं मातुमियत्तया निरवधिम्' इत्युक्तरीत्या भगवताऽप्यपरिच्छेद्यमित्यर्थः । तां अहिशैलनाथमहिलां नमेयं शरणं व्रजेयम् । कथमेवमज्ञतमस्त्वं तां नमेरित्यत्राह–-हि यस्मात् इयं अज्ञातनिग्रहेति भावः । सर्वस्य अज्ञस्य सर्वज्ञस्य वा जन्तोः सुनमा सुखेन नमनीया । पामरपरीक्षकविभागकार्पण्यानादरेण सर्वशरण्येति भावः । अतोऽहं शरणं व्रजेयमिति योजना । इतःपरं तच्छरणागतेरनन्तरं मे यमात् भीः न भविता । ‘परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणां न वैष्णवानाम्’ इत्याद्युक्तेरिति भावः । सा हि भगवदविनाभूता । अत्र पादचतुष्टये अन्त्याद्यभागयोः नमेयमिति वर्णनामैकरूप्येणावृत्तिरिति भेदः ॥

 यथावा--

 लोके समाननामा समानना मा शुधांशुबिम्वेन । जुषतां समानना मा समाननामामराधिनाथो याम् ॥ २२८० ॥

 लोके समानं मानसहितं पूज्यमित्यर्थः तादृशं नाम यस्यास्सा असमानं नाम यस्या इति वा । सुधांशुबिम्बेन समानना तुल्यव

दना समं सर्वं जगत् आनयति जीवयतीति समानना कर्तरि ल्युः । 'समं सर्वम्' इत्यमरः । मा श्रीः मा मां जुषतां सेवताम् । मा जुषतामिति पदाभ्यां ‘श्रीर्मा देवी जुषताम्’ इति श्रुतिखडः प्रत्यभिज्ञाप्यते । यां अमराधिनाथः इन्द्रः समाननाम सम्यक् प्रणतवान् शरणं गत इत्यर्थः । अत्रापि पूर्ववदेव यमकम् । पञ्चानां वर्णानामावृत्तिरिति पूर्वस्माद्वैलक्षण्यम् ॥

 न भयानकाद्द्रवेयं न काद्द्रवेयं यमं समीक्ष्यास्मात् । नो यदि स वै नते यः सवैनतेयः प्रभुर्ददात्यभयम् ॥ २२८१ ॥

 यमं काद्रवेयं यमरूपमाशीविषमिति व्यस्तरूपकम् समीक्ष्य भयानकात् अस्मात् न द्ववेयमिति न किंतु द्रवेयमेव । नते शरणागते विषये यः प्रभुः अभयं ददाति सवैनतेयः वैनतेयसहितः सः प्रभुः भगवान् नो वै यदि नैव चेत् न द्रवेयमिति नेति योजना । अत्र प्रथमपादान्त्यभागः पञ्चवर्णात्मको द्वितीयपादादिभागे आवर्त्यते । एवमुत्तरार्धेऽपि विभिन्नानुपूर्वकिपञ्चवर्णावृत्तिरिति पूर्वेभ्यो विशेषः । एवमग्रेऽपि । सवैनतेयः इत्यत्र 'वा शरि’ इति पाक्षिकः विसर्जनीयस्य विसर्जनीयः यमकावैरूप्यायेष्टव्यः ॥

 यथावा--

 नयसे यमसालोक्यं यमसालोक्यं भजेत स हि जन्तुः । गमयसि यं परमपदं परमपदं स्यात्स

संसरणविपदः ॥ २२८२ ॥

 यं जन्तुं सलोकस्य भावः सालोक्यं न सालोक्यं असालोक्यं आलोको दर्शनं कटाक्षाविषयतामित्यर्थः नयसे स जन्तुः यमसालोक्यं कृतान्तसलोकतां भजेत । यं परमपदं दिव्यं स्थानं गमयसि सः संसरणविपदः संसारापदः पदं स्थानं न पदं अपदं अविषय इति यावत् स्यात् संसृतिक्लेशान्पुनर्नानुभवेदित्यर्थः ॥

 यथावा--

 त्वं ननु बहुलाघवतो बहुलाघवतोऽपि बत नताञ् जननि । शौरे रक्षसि दयिता रक्षसि दयिताऽसि किमथवाऽऽश्चर्यम् ॥ २२८३ ॥

 ननु जननि बहुलाघवतः अतिलाघवेन सार्वविभक्तिकस्तसिः । अतिमात्रचित्तचापलेनेति भावः । बहुलं अधिकं अघं पापमेषामस्तीति बहुलाघवतोऽपि नतान् शरणागतान् शौरेर्दयिता त्वं रक्षासि । बत अघवतामपि रक्षणमाश्चर्यावहमिति भावः । स्वयमेव समाधत्ते--अथवेति । रक्षसि काकासुर एव वा रावण एव वदयिता दयमाना असि दयतेः कर्तरि क्तः दयाऽस्यास्संजाता दयितेति वा तारकादित्वादितच् । इदं च पाद्मरामायणयोः स्पष्टम् । अतः अघवतामपि विनतानां रक्षणं किमाश्चर्यमिति भावः । पूर्ववदेवेदं यमकं, षण्णामक्षराणामावृत्तिः परं विशेषः ॥

 यथावा--

 दिव्यास्सुतरामहतीस्सुतरा महतीस्सदाऽखिलाश्शक्तीः । भृशमवितथा दधानं तथाऽऽदधानं

श्रियं जयतु दैवम् ॥ २२८४ ॥

 दिव्याः आश्चर्यावहाः सुतरां अत्यन्तं अहतीः क्षतिरहिताः अप्रतिहता इत्यर्थः । सुतराः कल्याणतराः महतीः विपुलाः पूज्या वा भृशं अवितथाः अनारोपिताः अखिलाः शक्तीः दधानं--

समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥

 इत्येतदिहानुसंधेयम् । तथा श्रियं निश्श्रेयसैश्वर्यपर्यन्तां संपदं आदधानं आश्रितेष्विति शेषः । दैवं परं ब्रह्म जयतु । अत्रापि पूर्ववदेव यमकम् । पूर्वार्धे षण्णां उत्तरार्धे पञ्चानां वर्णानामावृत्तिरिति तु वैलक्षण्यम् । उत्तरार्धे तवर्गीयवर्णानां क्रमादावृत्तिरिति विच्छित्तिविशेषश्च द्रष्टव्यः ॥

 यथावा--

 हृदयहरश्रीवत्से श्रीवत्से सर्वहृद्यमाधुर्ये । माधुर्ये गतविशयं विश यं जानासि शेषिणं हृदय ॥

 हृदयहरः मनोहारी श्रीवत्सः तन्नामा लाञ्छनविशेषः यस्य तस्मिन् । श्रीः वत्से वक्षसि यस्य तस्मिन् सर्वहृद्यं माधुर्यं प्रेमा यस्य तस्मिन् । ‘स्वादुप्रियौ तु मधुरौ' इत्यमरः । मायाः धुर्ये श्रीवल्लभे इत्यर्थः । हे हृदय ! गतविशयं निस्संशयं यथास्यात्तथा महाविश्वासपूर्वकमिति यावत् । विश प्रविश । कर्मणोऽधिकणत्वविवक्षया सप्तमी । यं श्रीवल्लभं शेषिणं निरुपाधिकसर्वशेषिणं जानासि । तस्मिन् विशेति योजना । अत्राद्यपादान्त्यभागावस्थितस्य सस्वरव्यञ्जनत्रयस्य द्वितीयपादादिभागे, एवं द्वितीयपादान्त्यभागस्थस्य तृतीयपादादिभागे, तदन्त्यभागस्थस्य तुरीयपादाद्यभागे, तदन्त्यभागावस्थितस्य हृदयेत्यस्य पुनराद्यपादादौ चाबृत्तिरिति पूर्वेभ्यो वैचित्र्यविशेषः ॥

 यथावा--

 मन्दारैस्संपन्ने संपन्नेतर्नतेऽरिशंखशय । खशयस्तुतो विहरसे हरसेव्ये फणिगीरौ समन्दारैः ॥

 नते प्रणते संपन्नेतः संपत्प्रापक हे अरिशंखशय चक्रशंखपाणे भगवन् ! मन्दारैः पारिभद्रतरुभिः संपन्ने हरसेव्ये शिवेन सेवनीये फणिगिरौ खशयैः स्वर्गिभिः स्तुतस्सन् दारैस्समं विहरसे । समन्दारैरित्यत्र ‘वा पदान्तस्य' इति परसवर्णः । अत्रापि पूवर्पद्यवदेवान्त्यादियमकं द्रष्टव्यम् । दण्डी तु इदं संदष्टयमकमित्याह । यथोक्तं काव्यादर्श-- ‘संदष्टयमकस्थानमन्तादी पादयोर्द्वयोः' इति ॥

 आलीढभारतरसा नभारतररसाधना भवज्जनता । वितमस्सभारतरसा न भारतरसा भवस्य खिद्येत ॥ २२८७ ॥

 हे भगवन्! आलीढा आश्रिता भारती भरतखण्डसंबन्धिनी रसा भूः ययासा भरतखण्डजनितेत्यर्थः । भरतखण्डजन्मनस्सर्वपुरुषार्थसौलभ्यस्य भागवताद्युक्तत्वात्तथोक्तिः । भवज्जनता त्वदीयाजनसमूहः । यद्वा भवज्जनता आलीढभारतरसेति योजना । आलीढः आस्वादितः भारतस्य श्रीमन्महाभारतस्य रसः आतिस्वादुतमस्सारभूतोऽर्थः यया सा अधिगतचरमश्लोकसारभूतशरणव्रजनरूपार्थेति यावत् । अतएव नभारतरसाधना । भारतरं अतिगुरु साधनं भक्तिरूपं परमपुरुषार्थसाधकोपायः तत् न विद्यते यस्यास्सा तथोक्ता । नशब्देन बहुव्रीहिः । शरणव्रजनलक्षणलघूपायलाभेनानादृतभक्तिरूपगुरुतरोपाया सतीत्यर्थः । स्वतन्त्रप्रपदननिष्ठेति फलितोऽर्थः । अतएव वितमाश्च सा सभा च

वितमस्सभा ‘आदित्यवर्णं तमसः परस्तात् । प्रजापतेस्सभां वेश्म प्रपद्ये' इत्यादि श्रुतिप्रतिपादितमप्राकृतं दिव्यं स्थानं ‘सभा सामाजिके गोष्ठ्यां द्यूतमन्दिरयोरपि' इति मेदिनी । तस्यां रतं 'जक्षन्क्रीडन्रममाणः' इत्याम्नातं मुक्तानुभाव्यं क्रीडनं । रमतेर्भावे क्तः । तस्मिन् रसः अनुरागः यस्यास्सा तथोक्ता निश्श्रेयससाम्राज्यमनुभवन्ती सतीति भावः । भवस्य संसारस्य भारतरसा भारवेगेन ‘रंहस्तरसी तु रयस्स्यदः' इत्यमरः । न खिद्येत । ईदृशामपुनरावृत्तेश्श्रवणात् स्मरणाच्चेति भावः । अत्र पूर्वोत्तरार्धयोः मध्ये एकरूपतया नकारमात्रव्यवधानेन भारतरसेत्यक्षरपञ्चकावृत्तेरन्त्याद्ययमकद्वयं संदष्टयमकं च । यमकस्य अयमकरूपपार्श्वभागाभ्यां संदंशेनेव मध्ये दष्टत्वादिति बोध्यम् ॥

 धनिकभवने हयानन धनेहया न न पदं ननु निदध्याम् । त्वद्दत्तमहा विभवं सुमहाविभवमपि किं नु याचेय ॥ २२८८ ॥

 ननु हयानन हे हयग्रीव! धनेहया वित्तस्पृहया धनिकानां सत्पात्रासात्कृततया निन्दितधनशालिनां निन्दायां मत्वर्थीयष्ठन् । धनशब्दादुक्त एवार्थे मत्वर्थीये इनिप्रत्यये कुत्सायां कन्वा । भवने पदं चरणं न न निदध्यां नैव निक्षिपेयम् । न नेति वीप्सायां द्विर्भावः । अत्र भये प्रतिज्ञाने वा द्योत्ये वीप्सा । यदाहुः--

प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च ।
भये च विस्मये चैव पौनःपुन्यमलंकृतिः ॥

 इति । सामान्यधनिकगृहपदन्यसनवैरस्येऽपि महोदारमहाराजादियाच्ञायां को दोष इत्यत आह-- त्वदित्यादिना । त्वया

दत्तं महः तेजः यस्य स तथोक्तः त्वत्कटाक्षावाप्तलोकोत्तरनित्यसाम्राज्यप्रयुक्तदिव्यतेजश्शालीति भावः । अहं सुमहान् महावदान्यत्वेन सकललोकमाननीयः यः अविभवः भानुसूनुः कर्णः तमपि विभवं अर्थं याचेय किंनु तादृशमपि नार्थयेय किमन्यं वदान्यंमन्यमिति भावः । अत्रापि पूर्ववदेव यमकं, पूर्वोत्तरार्धयोर्विभिन्नरूपत्वं विशेषः ॥

 भगवन्न्यावन्न्यासं वन्न्यावन्न्यां पदोरहीन्द्रगिरेः । साऽहन्ता हन्ता मां हन्ताहन्तां भजेय न पुनरपि ॥ २२८९ ॥

 हे भगवन्! अहीन्द्रगिरेः वन्या वनसमूहः तस्याः अवन्यां पदोः चरणयोः यावन्न्यासं न्न्यासर्पयन्तेमव सा स्वस्वरूपभ्रंशयित्री अहंता अहंकारः मां हन्ता नाशयिता हन्तेर्लुट् । हन्तेति भविष्यन्महालाभचिन्तनजनितहर्षे । अहं तां अहन्तां पुनरपि शेषशैलवनभूपदन्यासोत्तरमपि न भजेय विन्देय । भजते स्संभावनायां लिङ् । अत्राद्यतृतीयपादयोस्सस्वरव्यञ्जनद्वयावृत्तिलक्षणयमकरूपमध्य भागस्तादृशयमकरूप एव द्वितीयतुरीययोः पादयोराद्यभागे आवर्त्यत इति मध्याद्ययमकविशेषः संदंशयमकं च द्रष्टव्यम् ॥

 ज्ञानन्देयं भवता नन्देयं ननु मुकुन्द येनाहम् । किं नाथेय कमपि वा नाथे यत्त्वयि समर्पितात्मभरः ॥ २२९० ॥

 ननु मुकुन्द मुक्तिभूप्रद! भवता मह्यमिति शेषः । ज्ञानं त्वद्विषयकमिति भावः । भवतैव देयम् येन ज्ञानेन अहं नन्देयं त्वत्सायुज्यानन्दं प्राप्नुयां 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इति

गीतत्वादिति भावः । अन्य एवामुमर्थं प्रार्थ्यतामित्यत्राह--किमिति । कं वा त्वदन्यं कमपि वा नाथेय किं याचेय किं किं नाथेयेति वा । मदभीप्सितज्ञानदानापटुमन्यं किं वस्तु प्रार्थयेय । अपेक्षितार्थस्य तस्मादलब्धेरिति भावः । कुत इयं प्रतिज्ञेत्यत्राह-- नाथे इत्यादि । यत् यस्मात् नाथे सर्वेश्वरे त्वयि अहं समर्पितात्मभरः त्वयि न्यत्सात्मरक्षाभरस्यान्यनाथनं कथं घटेतेति भावः । यथोक्तं--

तत्पादभक्तिज्ञानाभ्यां फलमन्यत्कदाचन ।
न याचेत्पुरुषो विष्णुं याचनान्नश्यति ध्रुवम् ॥

 इति । अत्राद्यपादमध्यभागस्य द्वितीयपादाद्यभागे आवृत्तिः । तृतीयपादमध्यभागस्य तुरीयपादाद्यभागे इति मध्यादियमकं संदंशयमकभेदश्च ॥

 सप्रमदगण्डकैरहिशिखरी सप्रमदगण्डकैर्लसति । दितसारसैरिभैरपि विपुलोदितसारसैरिभैरपिच ॥ २२९१ ॥

 सप्रमदैः सस्त्रीकैः सहर्षैर्वा गण्डकैः खडिग्मृगैः । ‘गण्डके खड्गखड्गिनो' इत्यमरः । सप्रमदाः प्रकृष्टदानोदकसहिताः गण्डाः करटाः यैस्तैः । सप्रमदगण्डकै: ‘शेषाद्विभाषा’ इति कप् । दितानि छिन्नानि सारसानि पद्मानि यैस्तैः । पद्मविक्षोभिभिरित्यर्थः । ‘दितं छितम्' इत्यमरः । इभैः गजैः। विपुलं यथातथा उदितः अतिमात्रप्रवृद्धः सारः बलं येषां तैः विपुलैः महद्भिः उदितसारैरिति वा । सैरिभैः वनमहिषैः अहिशिखरी लसति । अत्र प्रथमतृतीयपादादिभागयोर्द्वितीयतुरीयपादयोर्मध्यभागे आवृत्तेरादिमध्ययमेकं संदंशयमकभेदश्च ॥

 एवमेकपादगतभागानां पादान्तरभागापेक्षा यमकभेदा दिङ्मात्रेणोदाहृताः । अथ एकपादगतभागानामन्योन्यापेक्षा भेदा दिङ्मात्रमुदाह्रियन्ते । यथा--

 पायादेषाऽपायाज्जाया शौरेस्सुधाजलधिजाया । छायाया अच्छाया गेयाऽऽस्थानी सुधीभिरविगेया ॥ २२९२ ॥

 या अच्छायाः छायायाः कान्तेः आस्थानी सुधीभिः गेया अविगेया केनाप्यनिन्द्या एषा सुधाजलधिजा शौरेः जाया अपायात् पायादिति योजना ॥

 यथावा--

 कल्याणाम्बुजकल्यायिता मृगाधिपनगाधिपतिदयिता । भाव्याऽमरैश्शुभाऽव्यान्मा तादृशवैभवा जगन्माता ॥ २२९३ ॥

 कल्याणमेवाम्बुजं तस्य कल्यायिता प्रभातायमाना ‘प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । अमरैः भाव्या ध्येया शुभा कल्याणी तादृशवैभवा अवाङ्मनसगोचरैश्वर्या जगन्माता मृगाधिपनगाधिपतेः शेषाद्रीशस्य दयिता मा श्रीः । अव्यात् इति योजना ॥

 यथावा--

 बृन्दारकारिबृन्दास्कन्देशानस्य नतशिवस्कन्दे । विन्दे पदारविन्दे नन्देष्टसुतस्य संभृतानन्दे ॥

 बृन्दारकारीणां दैत्यानां बृन्दस्य आस्कन्दे पराभवे ईशानस्य पटीयसः । अन्यत्सुगमम् ॥

 यथावा--

 विन्देमहि गोविन्दे कन्देऽरिदवस्य भुवनतरुकन्दे । मन्देतराममन्दे कुन्देड्यरदे रुचिं हृदि मुकुन्दे ॥ २२९५ ॥

 अरिदवस्य कन्दे जलदे भुवनतरोः कन्दे मूलभूते ‘कन्दस्तु सूरणे सस्यमूले जलधरेऽपिच' इति मेदिनी । अमन्दे पटीयसि कुन्देड्यरदे कुन्दश्लाघ्यदशने मुकुन्दे विषये हृदि रुचिं अभिरतिं विन्देमहीति योजना ॥

 यथावा--

 दाता धियमवदातां दाताखिलसंशयामसुरदाता । पाता श्रियमनिपातां पाता कमलाधरस्य मां पाता ॥ २२९६ ॥

 अवदातां शुद्धां अतएव दातः छिन्नः अखिलसंशयः यया तां ‘दो अवखण्डने’ इति धातोः कर्मणि क्तः ‘कृत्तं दातम्' इत्यमरः । धियं दाता 'ददामि बुद्धियोगं तं' इति गानात् । अवदाताशब्दो विशुद्धवाची । दातेत्यस्य तृन्नन्तया तद्योगे ‘न लोक’ इत्यादिना षष्ठीनिषेधः । अनेन तृना भगवतो धीदानताच्छील्यं द्योत्यते । तस्य 'आ क्वेस्त्तच्छील' इत्यादिना ताच्छील्ये विधानात् । असुराणां दाता छेत्ता । द्यतेस्तृच् । शैषिकषष्ठ्यास्समासः । श्रियं संपदं अनिपातां सतीं पाता रक्षिता । कमलायाः श्रियः अधरस्य पाता

रमाधररसास्वादविधाता भगवान् श्रीनिवास इति विशेषणबलाल्लभ्यते । मां पाता रक्षिष्यति । पाधातोर्लुट् । अत्र पद्यपच्चकेऽपि

प्रतिपादमादिमभागस्यान्ते आवृत्तिः अन्तिमे तु आद्यचरणादिमभाग एव तदन्त्यभागे द्वितीयपादाद्यन्तयोश्चावर्त्यते । एवं तृतीयपादाद्यभाग एव तदन्त्यभागे तुरीयपादाद्यन्तयोश्चावर्त्यत इति विशेषः ॥

 अथ संकीर्णयमकभेदा दिङ्मात्रमुदाह्रियन्ते ।

 यथा--

 क्रव्यादां तन्वन्तं तन्वन्तं क्रतुभुजश्च धिन्वन्तम् । राममभिवीक्ष्य समितौ स मितौजा रावणोऽपि शमितौजाः ॥ २२९७ ॥

 क्रव्यादां क्रव्यादानां तनूनां शरीराणां अन्तं विदधानं क्रतुभुजः देवान् इदं क्रव्यात्प्रतिद्वन्द्वि धिन्वन्तं प्रीणयन्तं च । रामं समितौ संगरे अभिवीक्ष्य सः दुराधर्षतया प्रसिद्धो रावणोऽपि मितौजाः मितं ओजः प्रभावो यस्य स तथोक्तः अतएव शमितौजाः शमितं शान्तिं प्रापितं ओजः दीप्तिः यस्य तथोक्तः अभवदिति शेषः ‘ओजः प्रभावे दीप्तौ च' इत्यमरः । अत्र तन्वन्तमिति प्रथमपादान्त्यभागो द्वितीयपादादिभागे समिताविति । तृतीयपादान्त्यभागश्चतुर्थपादादिभागे चावर्त्यते । तन्वन्तमित्यस्य मितौजा इत्यस्य च द्वितीयतुरीयपादयोरावृत्तिरपीति संकरः ॥

 यथावा--

 तरिताऽस्मि भवाब्धिमहं तरिता त्वदपाङ्गकेन मातरिता । भवितां ननु कथमिव मम भविता निश्श्रेयसं हि संभविता ॥ २२९८ ॥

 अहं भवाब्धिं तरितास्मि तरिष्यामि 'तॄ प्लवनतरणयोः' अस्माद्धातोर्लुट् । कथं तरितासीत्यत्राह-- हे मातः ! तव ‘संसारार्णवतारिणीम्’ इति प्रसिद्धाया इति भावः । अपाङ्गकेन कटाक्षेण तरिता नौत्वं ‘स्नियां नौस्तरणिस्तरिः' इत्यमरः । इता प्रप्ता । त्वत्कटाक्षे नौत्वमवलम्बमाने कथमहं भवाब्धिं न तरेयमिति भावः । इतः परं मम भविता संसारिता कथमिव भविता भविष्यति । भवतेर्लुट् । कुतो न भवेदित्यत्र उपन्यस्तेऽपि पूर्वं हेतौ दार्ढ्याय हेत्वन्तरं चोपन्यस्यति--हि यतः निश्श्रेयसं मुक्तिः संभविता संभविष्यतीति । अत्र युग्मयोः पादयोराद्यभागस्यान्त्यभागे अवृत्तिरितीदं एकपादगतभागान्योन्यापेक्षं यमकम् । प्रथमतृतीयपादादिभागयोर्द्वितीयतुरीयपादादिभागे आवृत्तिरिति पादान्तरभागापेक्षयमकं चात्र संकीर्णम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥

 यथावा--

 मधुनाशन शुचमधुना मधुना त्वद्दिव्यतरचरितमधुना । भवता शुभलाभवता भवतापो मे निरासि हृदि भवता ॥ २२९९ ॥

 शुचं अधुना इति छेदः । हृदिभवता हृदयस्थितेन भवतेति योजना ॥

 यदि तु न समुद्भवेद्भुवि हृदयालु दयालु तत्परं ब्रह्म । जगति न समुद्भवेद्भवपतयालुतया लुठन् जनो जातु ॥ २३०० ॥

 तत् हृदयालु परं ब्रह्म दयालु सत् भुवि अस्यां भूमौ यदि तु न समुद्भवेत् अर्चात्मना वेंकटाचलादौ नावतरेच्चेत् भवे संसारे

पतयालुतया पतनेन लुठन् उपावर्तमानः अयं जनः जगति समुत् मुदा सहितः न भवेत् अस्मिन् भुवने न कमप्यानन्दं विन्देदिति भावः । ‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्' इति श्रुत्यर्थच्छायाऽत्रानुसृता । अत्राद्यपादमध्यस्थानां नसमुद्भवे इति सस्वरव्यञ्जनानां तृतीयपादमध्यभागे आवृत्तिः । द्वितीयतुरीयपादयोर्मध्ये दयालु दयालु तयालु तयालु इति यमकविशेषश्च ॥

 परिभवहरणं श्रयतोपरिभवहरणं च भगवतश्चरणम् । निलयं तु कदर्याणां निरयं न भजत जनाः कदर्याणाम् ॥ २३०१ ॥

 हे जनाः ! परिभवहरणं ‘ध्येयं सदा परिभवघ्नमभीष्टदोऽहम्’ इति श्रीभागवतोक्तरीत्या सर्वपरिभवनिवारणं उपरि इतःपरं भवस्संसारस्तस्य हरणं च भगवतश्चरणं श्रयत । कदर्याणां--

आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।
लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥

 इत्युक्तलक्षणानां कृपणानां कुत्सिताश्च ते अर्याश्च कदर्याः । तेषां अर्याः स्वामिनो वैश्या वा । ‘अर्यस्स्वामिवैश्योः' इति निपातनात्साधुः । ‘स्यादर्यस्स्वामिवैश्ययोः' इत्यमरः ‘कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः । निलयमेव निरयं नरकं व्यस्तरूपकं न भजत । धनलिप्सया कुत्सितानां राज्ञां विशां धनिनां वा नरकप्रायान् गृहान्मा सेविढ्वमिति भावः ॥

 कलयामि तां सकलयाऽमितां स कलया

मितां सदाऽहं याम् । तरसाऽधुनाऽतितरसाधुनाऽतितरसा धुनाति साऽघं श्रीः ॥ २३०२ ॥

 कलयामि तां सकलया अमितां सः कलया मितां सदा अहं याम् तरसा अधुना अतितरसाधुना अतितरसा धुनाति सा अघं श्रीः ॥ इति छेदः । तां प्रसिद्धां सकलया कलया अमितां मितां ज्ञातां सर्वशास्त्रापरिच्छेद्यमहिमतया ज्ञातामित्यर्थः । यां श्रियं सः दासभूतः अहं सदा कलयामि ध्यायामि सा श्रीः अतितरसा अतितः सातत्येन प्राप्तः रसः कृपारस: यया सा तथोक्ता सती । अतितेत्यत्र ‘अत सातत्यगमने’ इत्यस्माद्धातोः कर्मणि क्तः । अविश्रान्तकारुण्या सतीत्यर्थः । अतितरश्चासौ साधुश्च अतितरसाधुः तेन महाश्रेष्ठेनेत्यर्थः । अतिशब्दो वृत्तिविषये द्रव्यवचनः तेन ‘अव्ययघादाम्वद्रव्यप्रकर्षे’ इति अद्रव्यप्रकर्षार्थविहितस्यामोऽत्र न प्रसक्तिः । तरसा वेगेन निरवधिकवेगेनेत्यर्थः । अधुना अद्यैव अघं पाप्मानं धुनाति कम्पयति । उक्तविशेषणविशिष्टां श्रियं ध्यायतो मम सद्य एव पूर्वोत्तराघविनाशाश्लैषौ भवत इति भावः ॥

 दण्डी तु-- प्रातिलोम्येन पादाद्यावृत्तौ प्रतिलोमयमकमित्यभाणत् । तथाच तल्लक्षणम्--

आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा ।
यमकप्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥

 इति । यत्र पूर्वपादस्य प्रतिलोमावृत्त्या उत्तरपादः, पूर्वार्धस्य प्रतिलोमावृत्त्या उत्तरार्धं, एकस्य श्लोकस्य प्रतिलोमावृत्त्या श्लोकान्तरं च निष्पद्यते तत्प्रतिलोमयमकमिति तदर्थः । अयमनुलोमप्रतिलोमचित्रभेद इत्यन्ये । पादभागप्रातिलोम्येऽपीदं दृश्यते । अत्रा

र्यावृत्तविशेषैरेव उदाहरणप्रदर्शनस्य प्रतिश्रुततया तेषामसमगणपादतया पादप्रातिलोम्यस्य दुर्घटत्वेन पादभागार्धश्लोकप्रातिलोम्यावृत्तिः प्रदर्श्यते ॥

 तत्र पादभागप्रातिलोम्यावृत्तिर्यथा--

 सरसाशय यशसा रस इति विदितो वितमसि स्थितो यस्स्थाने । वनमालाली लीलामानव राम त्वयाऽमुनाऽवाप्ताऽहो ॥ २३०३ ॥

 सरसः आशयः अभिप्रायो यस्य तस्य संबुद्धिः । हे लीलामानव स्वेच्छागृहीतमानुषविग्रह हे राम! यः त्वं रस इति ‘रसो वै सः’ इति श्रुतानन्दमयरूप इति यशसा विदितस्सन् वितमसि स्थाने परमे व्योम्नि स्थितोऽसि । अमुना ईदृशेन त्वया वनमालानां काननच्छटानां आली श्रेणी प्राप्ता अहो अप्राकृतदिव्यधामावस्थितस्य प्राकृतदण्डकारण्यावाप्तिराश्चर्यावहेति भावः । अत्र प्रथमतृतीयपादभागयोस्सस्वरव्यञ्जनपञ्चकयोः प्रातिलोम्येन यमकविशेषः ॥

 गर्ह्यं जनयन्नयनं प्रभविष्यति तिष्यविभव एव हरे । तव नाम्नामाम्नानादपरा न नरापदपनयेऽस्ति गतिः ॥ २३०४ ॥

 हे हरे ! गर्ह्यं निन्द्यं अयनं मार्गं जनयन् जनानमार्गे प्रवर्तयन्नित्यर्थः । तिष्यस्य कलेः ‘तिष्यः पुष्ये कलियुगे' इत्यमरः । विभव एव प्रभविष्यति प्रभुतां प्रपत्स्यत इत्यर्थः । नात्र युगे यागदानतपःप्रभृत्युपायानुष्ठानावकाश इति भावः । तर्हि कथं दोषनिस्तार इत्यत अह-- तव ‘हरिर्हरति पापानि’ इति प्राख्यातदि

व्यानाम्न इति भावः नाम्नां आम्नानात् अभ्यासात् अपरा अन्या नराणां मानवानां विपदः संस्मृतिरूपापदः अपनयने उत्सारणे गतिः उपायः नास्ति त्वन्नामसंकीर्तनमेव विपदुत्तरणोपाय इत्यर्थः। यथोख्यते--

कलेर्दोषनिधे राजान्नस्ति ह्येको महान्गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥

 इति । अत्राद्यतृतीयपादयोरन्ते वर्णद्वितयस्य एकान्तरिततया परिवर्तनम् । द्वितीयतुरीययोस्तु अव्यवहिततया वर्णचतुष्टयस्येति बोध्यम् ॥

अर्धस्य प्रातिलोम्येनावृत्तिर्यथा--

 सा भायादनघतरा कान्ताशाऽतीव जनवरामोदा । दामोरा वनजवती शान्ताकाऽऽरातघनदया भासा ॥ २३०५ ॥

 साभायात् अनघतरा कान्ताशा अतीव जनवरामोदा दामोराः वनजवती शान्ताका आरातघनदया भासा । इति पदच्छेदः । अनघतरा अपहतपाप्मा कान्ताशा कान्ते वल्लभे भगवति आशा अभिलाषो यस्यास्सा भगवद्विषयकनिरतिशयप्रीतिशालिनीति भावः । यद्वा आशः व्याप्तिः ‘अशू व्याप्तौ’ भावे घञ् । कान्तस्य आश इव आशो यस्यास्सा ‘त्वया च विष्णुना चाम्ब जगद्व्याप्तं चराचरम्' इत्युक्तेः । अतीव अतिमात्रं जनवरामोदा जनवराणां नरश्रेष्ठानां आमोदा आमोदयित्री आङ्पूर्वकान्मोदयतेः पचाद्यच् । यद्वा वरः आमोदः प्रीतिर्यस्यास्सा जनेषु वरामोदा निरतिशयप्रीतिरित्यर्थः । अथवा वरैः तत्तदभिलषितैर्वरैः आमोदा आमोदयित्री

जाननां वरामोदा दामोराः दाम कुसुममाल्यं उरिस यस्यास्सा

दामोराः अतएव ‘महामालाविभूषणा’ इति तन्नाम । 'उरःप्रभृतिभ्यः कप्’ इति कप् न भवति, समासान्तविधेरनित्यत्वात् । तथा-- च मुरारिप्रयोगः ‘आपूर्यमाणोरसम्' इति । वनजवती वनजं अब्जं अस्या अस्तीति तथोक्ता पद्मिनीत्यर्थः । 'पद्ये स्थितां, पद्मप्रिये पद्मिनि पद्महस्ते’ इत्यादिप्रमाणात् । शान्तं अकं आश्रितानां पापं दुःखं वा यया सा शान्ताका । ‘अकं पापे च दुःखे च' इति विश्वः । आरातघनदया आराता आत्ता ‘रा आदाने’ इत्यस्माद्धातोः कर्मणि क्तः । घना सान्द्रा दया यस्यास्सा । सा प्रसिद्धा श्रीरित्यर्थः । भासा प्रभावेन ‘भाः प्रभावे च दीप्तौ च' इति मेदिनी । भायात् प्रकाशताम् । सा भायादित्यत्र मा भायादिति पाठे मा भायात् इति छेदः । तुरीयपादान्ते दयाभासेत्यत्र दयाभामेति पाठे आरातघनदया भामेति वा आरातघनदयाभा मा इति वा छेदः । आरातघनदया उक्तोऽर्थः । द्वितीयपक्षे तु—- आराते आत्ते घने दया च आभा च दयाभे यस्यास्सा मा इदं विशेष्यं लक्ष्मीरित्यर्थः । मा मां प्रति भायात् प्रकाशतां मयि संनिधत्तामिति यावत् ॥

 श्लोकस्य प्रातिलोम्यं यथा--

 वैताने भुवि जनिता मा तारारामदमनयोज्याज्ञा । मानातिगविभवनदी दासावनसारसरसनयनाभा ॥ २३०६ ॥

 भानायनसरसरसाऽनवसादाऽऽदीनवभाविगतिनामा । ज्ञा ज्ञा ज्यायो नमदमरा राता माता निजविभुनेता वै ॥ २३०७ ॥

 वैताने भुवि जनिता मा तारारामदमनयोज्याज्ञा मानातिगविभवनदी दासावनसारसरसनयनाभा भानायनसरसरसा अनवसादा आदीनवभविगतिनामा ज्ञा ज्यायः नमदमरा राता माता निजविभुना इता वै । इति पद्यद्वयपदच्छेदः । वैताने वितानसंबन्धिनि कर्मणीति यावत् । यज्ञियभूकर्षणावसरे इति भावः । भुवि भूमौ जनिता मा श्रीः इदं विशेष्यम् । तारारामदमनयोज्याज्ञा । तारायाः रामः रमणः वालीत्यर्थः । तस्य दमनः दण्डयिता भगवान् दाशरथिः तस्मिन् योज्या योजनीया आज्ञा शासनं यस्यास्सा तस्य तदाज्ञानुवर्तितायाश्श्रीरामायणे प्रसिद्धत्वात् । मानातिगविभवनदी मानातिगः वेलातीत: यो विभवः वैभवः तस्य नदी आश्रयभूतेति यावत् । भगवत्यां नदीत्वरूपणेनारूपितमपि विभवस्य सलिलत्वं प्रतीयत इत्येकदेशविवर्तिरूपकविशेषः । अतएव 'महाविभववाहिनी’ इति तन्नामसहस्रे पठ्यते । दासावनसारसरसनयनाभा दासानां किंकराणां अवने रक्षणे विषये सारा श्रेष्ठा सरसा सदया नयनाभा लोचनश्रीः यस्यास्तथोक्ता । भानायनसरसरसा भानस्य प्रकाशस्य भातेर्भावे ल्युट् । अयनं मार्गः आश्रय इति यावत् । तादृशो यस्सरः हारः तेन सरसा रमणीयेति यावत् । अनवसादा अविद्यमानः अवसादः कार्श्यं यस्यास्सा ।

आदीनवभविगतिनामा आदीनवः क्लेशः ‘आदीनवास्त्रवौ क्लेशे’ इत्यमरः । आदीनवयुक्तानां भविनां संसारिणां गतिः गम्यत इति गतिः कर्मणि क्तिन् । प्राप्यं नाम यस्यास्तथोक्ता तापत्रयदूषितसंसारिजनानुसंधेयनामधेयेति भावः । ज्ञा विदुषी सर्वज्ञेत्यर्थः । अत एव 'सर्वज्ञा कमलप्रभा’ इति तन्नामसु पठन्ति । ज्यायः इदमुत्तरत्रान्वेति । नमदमरा नमन्तः अमराः यां तथोक्ता । निजविभुना स्ववल्लभेन भगवता इता युक्ता ज्यायः श्रेयः अतिप्रशस्यमै

श्वर्यमित्यर्थः । प्रशस्यशब्दादीयसुनि तस्य ‘ज्य च' इति ज्यादेशः । राता दास्यति । ‘रा दाने’ लुट् । वै इति प्रसिद्धौ । एवं यमकदिगुदाहृता ॥