अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः १३

← अध्यायः १२ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः १४ →

अध्यायः १३

वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु ।
स्वाद्व्-अम्ल-लवणोष्णानि भोज्यान्य् अभ्यङ्ग-मर्दनम् ॥ १ ॥

वेष्टनं त्रासनं सेको मद्यं पैष्टिक-गौडिकम् ।
स्निग्धोष्णा वस्तयो वस्ति-नियमः सुख-शील-ता ॥ २ ॥

दीपनैः पाचनैः स्निग्धाः स्नेहाश् चानेक-योनयः ।
विशेषान् मेद्य-पिशित-रस-तैलानुवासनम् ॥ ३ ॥

पित्तस्य सर्पिषः पानं स्वादु-शीतैर् विरेचनम् ।
स्वादु-तिक्त-कषायाणि भोजनान्य् औषधानि च ॥ ४ ॥

सु-गन्धि-शीत-हृद्यानां गन्धानाम् उपसेवनम् ।
कण्ठे-गुणानां हाराणां मणीनाम् उरसा धृतिः ॥ ५ ॥

कर्पूर-चन्दनोशीरैर् अनुलेपः क्षणे क्षणे ।
प्रदोषश् चन्द्रमाः सौधं हारि गीतं हिमो ऽनिलः ॥ ६ ॥

अ-यन्त्रण-सुखं मित्रं पुत्रः संदिग्ध-मुग्ध-वाक् ।
छन्दानुवर्तिनो दाराः प्रियाः शील-विभूषिताः ॥ ७ ॥

१३.७av अ-यन्त्रण-मुखं मित्रं शीताम्बु-धारा-गर्भाणि गृहाण्य् उद्यान-दीर्घिकाः ।
सु-तीर्थ-विपुल-स्वच्छ-सलिलाशय-सैकते ॥ ८ ॥

साम्भो-ज-जल-तीरान्ते कायमाने द्रुमाकुले ।
सौम्या भावाः पयः सर्पिर् विरेकश् च विशेषतः ॥ ९ ॥

१३.९bv कायमानं द्रुमाकुले श्लेष्मणो विधिना युक्तं तीक्ष्णं वमन-रेचनम् ।
अन्नं रूक्षाल्प-तीक्ष्णोष्णं कटु-तिक्त-कषायकम् ॥ १० ॥

दीर्घ-काल-स्थितं मद्यं रति-प्रीतिः प्रजागरः ।
अनेक-रूपो व्यायामश् चिन्ता रूक्षं विमर्दनम् ॥ ११ ॥

विशेषाद् वमनं यूषः क्षौद्रं मेदो-घ्नम् औषधम् ।
धूमोपवास-गण्डूषा निः-सुख-त्वं सुखाय च ॥ १२ ॥

उपक्रमः पृथग् दोषान् यो ऽयम् उद्दिश्य कीर्तितः ।
संसर्ग-संनिपातेषु तं यथा-स्वं विकल्पयेत् ॥ १३ ॥

१३.१३dv तं यथा-स्वं प्रकल्पयेत् ग्रैष्मः प्रायो मरुत्-पित्ते वासन्तः कफ-मारुते ।
मरुतो योग-वाहि-त्वात् कफ-पित्ते तु शारदः ॥ १४ ॥

चय एव जयेद् दोषं कुपितं त्व् अ-विरोधयन् ।
सर्व-कोपे बलीयांसं शेष-दोषा-विरोधतः ॥ १५ ॥

प्रयोगः शमयेद् व्याधिम् एकं यो ऽन्यम् उदीरयेत् ।
नासौ विशुद्धः शुद्धस् तु शमयेद् यो न कोपयेत् ॥ १६ ॥

१३.१६av प्रयोगः शमयेद् व्याधिं १३.१६bv यो ऽन्यम् अन्यम् उदीरयेत् व्यायामाद् ऊष्मणस् तैक्ष्ण्याद् अ-हिताचरणाद् अपि ।
कोष्ठाच् छाखास्थि-मर्माणि द्रुत-त्वान् मारुतस्य च ॥ १७ ॥

दोषा यान्ति तथा तेभ्यः स्रोतो-मुख-विशोधनात् ।
वृद्ध्याभिष्यन्दनात् पाकात् कोष्ठं वायोश् च निग्रहात् ॥ १८ ॥

तत्र-स्थाश् च विलम्बेरन् भूयो हेतु-प्रतीक्षिणः ।
ते कालादि-बलं लब्ध्वा कुप्यन्त्य् अन्याश्रयेष्व् अपि ॥ १९ ॥

तत्रान्य-स्थान-संस्थेषु तदीयाम् अ-बलेषु तु ।
कुर्याच् चिकित्सां स्वाम् एव बलेनान्याभिभाविषु ॥ २० ॥

आगन्तुं शमयेद् दोषं स्थानिनं प्रतिकृत्य वा ।
प्रायस् तिर्यग्-गता दोषाः क्लेशयन्त्य् आतुरांश् चिरम् ॥ २१ ॥

साधारणं वा कुर्वीत क्रियाम् उभय-योगिनीम् ॥ २१.१+१ ॥

कुर्यान् न तेषु त्वरया देहाग्नि-बल-वित् क्रियाम् ।
शमयेत् तान् प्रयोगेण सुखं वा कोष्ठम् आनयेत् ॥ २२ ॥

ज्ञात्वा कोष्ठ-प्रपन्नांश् च यथासन्नं विनिर्हरेत् ।
स्रोतो-रोध-बल-भ्रंश-गौरवानिल-मूढ-ताः ॥ २३ ॥

१३.२३dv -गौरवानिल-मूढ-ता आलस्या-पक्ति-निष्ठीव-मल-सङ्गा-रुचि-क्लमाः ।
लिङ्गं मलानां सामानां निर्-आमाणां विपर्ययः ॥ २४ ॥

विण्-मूत्र-नख-दन्त-त्वक्-चक्षुषां पीत-ता भवेत् ।
रक्त-त्वम् अथ कृष्ण-त्वं पृष्ठास्थि-कटि-संधि-रुक् ॥ २४.१+१ ॥

१३.२४.१+१dv पृष्ठास्थि-कटि-संधिषु शिरो-रुक् जायते तीव्रा निद्रा वि-रस-ता मुखे ।
क्व-चिच् च श्वयथुर् गात्रे ज्वरातीसार-हर्षणम् ॥ २४.१+२ ॥

ऊष्मणो ऽल्प-बल-त्वेन धातुम् आद्यम् अ-पाचितम् ।
दुष्टम् आमाशय-गतं रसम् आमं प्रचक्षते ॥ २५ ॥

अन्ये दोषेभ्य एवाति-दुष्टेभ्यो ऽन्यो-ऽन्य-मूर्छनात् ।
कोद्रवेभ्यो विषस्येव वदन्त्य् आमस्य संभवम् ॥ २६ ॥

आमेन तेन संपृक्ता दोषा दूष्याश् च दूषिताः ।
सामा इत्य् उपदिश्यन्ते ये च रोगास् तद्-उद्भवाः ॥ २७ ॥

वायुः सामो विबन्धाग्नि-साद-स्तम्भान्त्र-कूजनैः ।
वेदना-शोफ-निस्तोदैः क्रम-शो ऽङ्गानि पीडयन् ॥ २७+१ ॥

विचरेद् युग-पच् चापि गृह्णाति कुपितो भृशम् ।
स्नेहाद्यैर् वृद्धिम् आयाति सूर्य-मेघोदये निशि ॥ २७+२ ॥

निर्-आमो विशदो रूक्षो निर्-विबन्धो ऽल्प-वेदनः ।
विपरीत-गुणैः शान्तिं स्निग्धैर् याति विशेषतः ॥ २७+३ ॥

दुर्-गन्धि हरितं श्यावं पित्तम् अम्लं घनं गुरु ।
अम्लीका-कण्ठ-हृद्-दाह-करं सामं विनिर्दिशेत् ॥ २७+४ ॥

आ-ताम्र-पीतम् अत्य्-उष्णं रसे कटुकम् अ-स्थिरम् ।
पक्वं वि-गन्धि विज्ञेयं रुचि-पक्ति-बल-प्रदम् ॥ २७+५ ॥

१३.२७+५dv रुचि-वह्नि-बल-प्रदम् आविलस् तन्तुलः स्त्यानः कण्ठ-देशे ऽवतिष्ठते ।
सामो बलासो दुर्-गन्धिः क्षुद्-उद्गार-विघात-कृत् ॥ २७+६ ॥

फेन-वान् पिण्डितः पाण्दुर् निः-सारो ऽ-गन्ध एव च ।
पक्वः स एव विज्ञेयश् छेद-वान् वक्त्र-शुद्धि-दः ॥ २७+७ ॥

सर्व-देह-प्रविसृतान् सामान् दोषान् न निर्हरेत् ।
लीनान् धातुष्व् अन्-उत्क्लिष्टान् फलाद् आमाद् रसान् इव ॥ २८ ॥

आश्रयस्य हि नाशाय ते स्युर् दुर्-निर्हर-त्वतः ।
पाचनैर् दीपनैः स्नेहैस् तान् स्वेदैश् च परिष्कृतान् ॥ २९ ॥

शोधयेच् छोधनैः काले यथासन्नं यथा-बलम् ।
हन्त्य् आशु युक्तं वक्त्रेण द्रव्यम् आमाशयान् मलान् ॥ ३० ॥

घ्राणेन चोर्ध्व-जत्रूत्थान् पक्वाधानाद् गुदेन च ।
उत्क्लिष्टान् अध ऊर्ध्वं वा न चामान् वहतः स्वयम् ॥ ३१ ॥

धारयेद् औषधैर् दोषान् विधृतास् ते हि रोग-दाः ।
प्रवृत्तान् प्राग् अतो दोषान् उपेक्षेत हिताशिनः ॥ ३२ ॥

विबद्धान् पाचनैस् तैस् तैः पाचयेन् निर्हरेत वा ।
श्रावणे कार्त्तिके चैत्रे मासि साधारणे क्रमात् ॥ ३३ ॥

१३.३३bv पाचयेन् निर्हरेत् तथा प्रावृट्-शरद्-वसन्तेषु मासेष्व् एतेषु शोधयेत् ।
साधारणेषु विधिना त्रि-मासान्तरितान् मलान् ॥ ३३+१ ॥

ग्रीष्म-वर्षा-हिम-चितान् वाय्व्-आदीन् आशु निर्हरेत् ।
अत्य्-उष्ण-वर्ष-शीता हि ग्रीष्म-वर्षा-हिमागमाः ॥ ३४ ॥

संधौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत् ।
स्वस्थ-वृत्तम् अभिप्रेत्य व्याधौ व्याधि-वशेन तु ॥ ३५ ॥

त्रयः साधारणास् तेषाम् अन्तरे प्रावृषादयः ।
प्रावृट् शुचि-नभौ तेषु शरद् ऊर्ज-सहौ स्मृतौ ॥ ३५.१+१ ॥

तपस्यो मधु-मासश् च वसन्तः शोधनं प्रति ।
एतान् ऋतून् विकल्प्यैवं दद्यात् संशोधनं भिषक् ॥ ३५.१+२ ॥

कृत्वा शीतोष्ण-वृष्टीनां प्रतीकारं यथा-यथम् ।
प्रयोजयेत् क्रियां प्राप्तां क्रिया-कालं न हापयेत् ॥ ३६ ॥

युञ्ज्याद् अन्-अन्नम् अन्नादौ मध्ये ऽन्ते कवडान्तरे ।
ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम् ॥ ३७ ॥

कफोद्रेके गदे ऽन्-अन्नं बलिनो रोग-रोगिणोः ।
अन्नादौ वि-गुणे ऽपाने समाने मध्य इष्यते ॥ ३८ ॥

व्याने ऽन्ते प्रातर्-आशस्य सायम्-आशस्य तूत्तरे ।
ग्रास-ग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि ॥ ३९ ॥

मुहुर् मुहुर् विष-च्छर्दि-हिध्मा-तृट्-श्वास-कासिषु ।
योज्यं स-भोज्यं भैषज्यं भोज्यैश् चित्रैर् अ-रोचके ॥ ४० ॥

कम्पाक्षेपक-हिध्मासु सामुद्गं लघु-भोजिनाम् ।
ऊर्ध्व-जत्रु-विकारेषु स्वप्न-काले प्रशस्यते ॥ ४१ ॥