अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः १४

← अध्यायः १३ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः १५ →

अध्यायः १४

उपक्रम्यस्य हि द्वि-त्वाद् द्वि-धैवोपक्रमो मतः ।
एकः संतर्पणस् तत्र द्वितीयश् चापतर्पणः ॥ १ ॥

बृंहणो लङ्घनश् चेति तत्-पर्यायाव् उदाहृतौ ।
बृंहणं यद् बृहत्-त्वाय लङ्घनं लाघवाय यत् ॥ २ ॥

देहस्य भवतः प्रायो भौमापम् इतरच् च ते ।
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ॥ ३ ॥

भूतानां तद् अपि द्वैध्याद् द्वितयं नातिवर्तते ।
शोधनं शमनं चेति द्वि-धा तत्रापि लङ्घनम् ॥ ४ ॥

यद् ईरयेद् बहिर् दोषान् पञ्च-धा शोधनं च तत् ।
निरूहो वमनं काय-शिरो-रेको ऽस्र-विस्रुतिः ॥ ५ ॥

न शोधयति यद् दोषान् समान् नोदीरयत्य् अपि ।
समी-करोति विषमान् शमनं तच् च सप्त-धा ॥ ६ ॥

पाचनं दीपनं क्षुत्-तृड्-व्यायामातप-मारुताः ।
बृंहणं शमनं त्व् एव वायोः पित्तानिलस्य च ॥ ७ ॥

बृंहयेद् व्याधि-भैषज्य-मद्य-स्त्री-शोक-कर्शितान् ।
भाराध्वोरः-क्षत-क्षीण-रूक्ष-दुर्-बल-वातलान् ॥ ८ ॥

गर्भिणी-सूतिका-बाल-वृद्धान् ग्रीष्मे ऽपरान् अपि ।
मांस-क्षीर-सिता-सर्पिर्-मधुर-स्निग्ध-वस्तिभिः ॥ ९ ॥

स्वप्न-शय्या-सुखाभ्यङ्ग-स्नान-निर्वृति-हर्षणैः ।
मेहाम-दोषाति-स्निग्ध-ज्वरोरु-स्तम्भ-कुष्ठिनः ॥ १० ॥

विसर्प-विद्रधि-प्लीह-शिरः-कण्ठाक्षि-रोगिणः ।
स्थूलांश् च लङ्घयेन् नित्यं शिशिरे त्व् अपरान् अपि ॥ ११ ॥

तत्र संशोधनैः स्थौल्य-बल-पित्त-कफाधिकान् ।
आम-दोष-ज्वर-च्छर्दिर्-अतीसार-हृद्-आमयैः ॥ १२ ॥

विबन्ध-गौरवोद्गार-हृल्-लासादिभिर् आतुरान् ।
मध्य-स्थौल्यादिकान् प्रायः पूर्वं पाचन-दीपनैः ॥ १३ ॥

एभिर् एवामयैर् आर्तान् हीन-स्थौल्य-बलाधिकान् ।
क्षुत्-तृष्णा-निग्रहैर् दोषैस् त्व् आर्तान् मध्य-बलैर् दृढान् ॥ १४ ॥

१४.१४cv क्षुत्-तृष्णा-निग्रहैर् दोषैर् १४.१४cv क्षुत्-तृष्णा-निग्रहैर् दोषैश् १४.१४dv चार्तान् मध्य-बलैर् दृढान् समीरणातपायासैः किम् उताल्प-बलैर् नरान् ।
न बृंहयेल् लङ्घनीयान् बृंह्यांस् तु मृदु लङ्घयेत् ॥ १५ ॥

युक्त्या वा देश-कालादि-बलतस् तान् उपाचरेत् ।
बृंहिते स्याद् बलं पुष्टिस् तत्-साध्यामय-संक्षयः ॥ १६ ॥

वि-मलेन्द्रिय-ता सर्गो मलानां लाघवं रुचिः ।
क्षुत्-तृट्-सहोदयः शुद्ध-हृदयोद्गार-कण्ठ-ता ॥ १७ ॥

व्याधि-मार्दवम् उत्साहस् तन्द्रा-नाशश् च लङ्घिते ।
अन्-अपेक्षित-मात्रादि-सेविते कुरुतस् तु ते ॥ १८ ॥

अति-स्थौल्याति-कार्श्यादीन् वक्ष्यन्ते ते च सौषधाः ।
रूपं तैर् एव च ज्ञेयम् अति-बृंहित-लङ्घिते ॥ १९ ॥

१४.१९cv रूपं तैर् एव विज्ञेयम् अति-स्थौल्यापची-मेह-ज्वरोदर-भगन्दरान् ।
कास-संन्यास-कृच्छ्राम-कुष्ठादीन् अति-दारुणान् ॥ २० ॥

तत्र मेदो-ऽनिल-श्लेष्म-नाशनं सर्वम् इष्यते ।
कुलत्थ-जूर्ण-श्यामाक-यव-मुद्ग-मधूदकम् ॥ २१ ॥

मस्तु-दण्डाहतारिष्ट-चिन्ता-शोधन-जागरम् ।
मधुना त्रि-फलां लिह्याद् गुडूचीम् अभयां घनम् ॥ २२ ॥

रसाञ्जनस्य महतः पञ्च-मूलस्य गुग्गुलोः ।
शिला-जतु-प्रयोगश् च साग्निमन्थ-रसो हितः ॥ २३ ॥

१४.२३cv शिलाह्वस्य प्रयोगश् च विडङ्गं नागरं क्षारः काल-लोह-रजो मधु ।
यवामलक-चूर्णं च योगो ऽति-स्थौल्य-दोष-जित् ॥ २४ ॥

व्योष-कट्वी-वरा-शिग्रु-विडङ्गातिविषा-स्थिराः ।
हिङ्गु-सौवर्चलाजाजी-यवानी-धान्य-चित्रकाः ॥ २५ ॥

निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात् ।
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् ॥ २६ ॥

१४.२६dv तैलं च सदृशांशिकम् सक्तुभिः षो-डश-गुणैर् युक्तं पीतं निहन्ति तत् ।
अति-स्थौल्यादिकान् सर्वान् रोगान् अन्यांश् च तद्-विधान् ॥ २७ ॥

हृद्-रोग-कामला-श्वित्र-श्वास-कास-गल-ग्रहान् ।
बुद्धि-मेधा-स्मृति-करं संनस्याग्नेश् च दीपनम् ॥ २८ ॥

अति-कार्श्यं भ्रमः कासस् तृष्णाधिक्यम् अ-रोचकः ।
स्नेहाग्नि-निद्रा-दृक्-श्रोत्र-शुक्रौजः-क्षुत्-स्वर-क्षयः ॥ २९ ॥

१४.२९av अति-कार्श्यं भ्रमः श्वास- १४.२९bv -तृष्णाधिक्यम् अ-रोचकः वस्ति-हृन्-मूर्ध-जङ्घोरु-त्रिक-पार्श्व-रुजा ज्वरः ।
प्रलापोर्ध्वानिल-ग्लानि-च्छर्दि-पर्वास्थि-भेदनम् ॥ ३० ॥

१४.३०dv -च्छर्दिः-पर्वास्थि-भेदनम् वर्चो-मूत्र-ग्रहाद्याश् च जायन्ते ऽति-विलङ्घनात् ।
कार्श्यम् एव वरं स्थौल्यान् न हि स्थूलस्य भेषजम् ॥ ३१ ॥

१४.३१av विण्-मूत्रादि-ग्रहाद्याश् च १४.३१dv न हि स्थौल्यस्य भेषजम् बृंहणं लङ्घनं वालम् अति-मेदो-ऽग्नि-वात-जित् ।
मधुर-स्निग्ध-सौहित्यैर् यत् सौख्येन च नश्यति ॥ ३२ ॥

१४.३२av बृंहणं लङ्घनं नालम् १४.३२cv मधुर-स्नेह-सौहित्यैर् १४.३२dv यत् सौख्येन विनश्यति क्रशिमा स्थविमात्य्-अन्त-विपरीत-निषेवणैः ।
योजयेद् बृंहणं तत्र सर्वं पानान्न-भेषजम् ॥ ३३ ॥

अ-चिन्तया हर्षणेन ध्रुवं संतर्पणेन च ।
स्वप्न-प्रसङ्गाच् च कृशो वराह इव पुष्यति ॥ ३४ ॥

१४.३४av अ-चिन्तया प्रहर्षेण १४.३४cv स्वप्न-प्रसङ्गाच् च नरो न हि मांस-समं किञ्-चिद् अन्यद् देह-बृहत्-त्व-कृत् ।
मांसाद-मांसं मांसेन संभृत-त्वाद् विशेषतः ॥ ३५ ॥

१४.३५dv संभृत-त्वाद् विशिष्यते १४.३५dv संभृत-त्वाद् बृहत्-त्व-कृत् गुरु चा-तर्पणं स्थूले विपरीतं हितं कृशे ।
यव-गोधूमम् उभयोस् तद्-योग्याहित-कल्पनम् ॥ ३६ ॥

१४.३६dv तद्-योग्य-हित-कल्पनम् १४.३६dv ततो ग्राहित-कल्पनम् दोष-गत्यातिरिच्यन्ते ग्राहि-भेद्य्-आदि-भेदतः ।
उपक्रमा न ते द्वि-त्वाद् भिन्ना अपि गदा इव ॥ ३७ ॥

१४.३७cv उपक्रमा न तु द्वि-त्वाद्