आपिशलशिक्षा/अष्टमोध्यायः
← अध्यायः ७ | शिक्षा आपिशलशिक्षा |
अध्यायः ९ → |
प्रक्रमप्रकरणम्
एष क्रमो वर्णानाम् । १ ।
तत्रैषां स्थानकरणप्रयत्नानां व्याकरणप्रसिद्धरुच्यते । २ ।
इह यत्र स्थाने वर्णा उपलभ्यन्ते तत्स्थानम् । ३ ।
येन निवर्त्यन्ते तत्करणम् । ४ ।
प्रयतनं प्रयत्नः । ५ ।