← अध्यायः ८ शिक्षा
आपिशलशिक्षा

नाभितलप्रकरणम्

तत्र नाभिप्रदेशात्प्रेरितः प्राणो नाम वायुरूर्ध्वमाक्रामन्नुरःप्रभृतीनां
स्थानानामन्यतमस्मिन्स्थाने प्रयत्नेन विधार्यते ।
स विधार्यमाणो वायुः स्थानमभिहन्ति ।
तस्मात्स्थानाभिघाताद् ध्वनिरुत्पद्यत आकाशे ।
सा वर्णश्रुतिः ।
स वर्णस्यात्मलाभः । १ ।

तत्र ध्वनावुत्पद्यमाने यदा स्थानकरणप्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता । २ ।

यदेषत्स्पृशन्ति तदेषत्स्पृष्टता । ३ ।

दूरेण यदा स्पृशन्ति सा विवृतता । ४ ।

सामीप्येन यदा स्पृशन्ति सा संवृतता । ५ ।

इत्येषऽन्तःप्रयत्नः । ६ ।

स इदानीं प्राणो नाम वायुरूर्ध्वमाक्रामन्मूध्नि प्रतिहतो निवृत्तो यदा
कोष्ठमभिहन्ति तदा कोष्ठेषभिहन्यमाने गलबिलस्य विवृतत्वाद्विवारः
संवृतत्वात्संवारो जायते । ७ ।

तौ संवारविवारौ । ८ ।

तत्र यदा कण्ठबिलं संवृतं भवति तदा नादो जायते । ९ ।

विवृते कण्ठबिले श्वासो जायते । १० ।

तौ श्वासनादावनुप्रदानमित्याचक्षते । ११ ।

अन्ये तु ब्रुवते -- अनुप्रदानमनुस्वानो घण्टानिर्ह्रदवत् । १२ ।

तत्र यदा स्थानाभिघातजे ध्वनौ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गाद् घोषो जायते । १३ ।

यदा श्वासोऽनुप्रदीयते तदा श्वासध्वनिसंसर्गादघोषः । १४ ।

सा घोषवदघोषता । १५ ।

महति वायौ महाप्राणः । १६ ।

अल्पे वायावल्पप्राणः । १७ ।

साल्पप्राणमहाप्राणता । १८ ।

महाप्राणत्वादूष्मत्वम् । १९ ।

यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः कण्ठबिलस्य । २० ।

ाणुत्वं स्वरस्य च वायोस्तीव्रगतित्वाद्रौक्ष्यं भवति । तमुदात्तमाचक्षते । २१ ।

यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्रंसनं कण्ठबिलस्य महत्त्वं
स्वरस्य च वायोर्मन्दगतित्वत्स्निग्धता भवति । तमनुदात्तमाचक्षते । २२ ।

उदात्तानुदात्तस्वरसन्निपातात्स्वरित इति । २३ ।

एवं प्रयत्नोऽभिनिर्वृत्तः कृत्स्नः प्रयत्नो भवति । २४ ।

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ।। २५ ।

स्पृष्टत्वमीषत्स्पृष्टत्वं संवृतत्वं तथैव च । विवृतत्वं च वर्णानामन्तःकरणमुच्यते ।। २६ ।

कालो विवारसंवारौ श्वासनादावघोषता । घोषोऽल्पप्राणता चैव महाप्राणः स्वरास्त्रयः ।। २७ ।