आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/चतुर्दशप्रश्नः
अथ चतुर्दशः प्रश्नः.
अश्वनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं अवर्णाधारकपादपद्मं सर्वशरीराधारकम् ।
१
भरणि-ऋक्षरूपं सप्तत्रिंशत्सिराश्रितं इवर्णजानुपद्म चलनक्रियाकारकगतागतकर्मोपकारकम् ।
२
कृत्तिकाभाधिष्ठितं सप्तत्रिंशत्सिरावृतं उवर्णाश्रितजङ्घापद्मं
जङ्गमशरीराधारकम् ।
३
रोहिणी-ऋक्षरूपं सप्तत्रिंशत्सिरावृतं ऋवर्णाश्रितमेढ्रपद्मं
प्रजाजननकारकं । सिरावलम्बक-ऋवर्णबोधकोरुपद्मं
जङ्गमशरीरधारकम् ।४
मृगशिरोनक्षत्ररूपं सप्तत्रिंशत्सिराश्रितं लृवर्णबोधकप्रदेशगतकमलं जलमलाशयधारकम् ।
५
पुनर्वसूभाप्रतिपादकं सप्तत्रिंशत्सिराधारकं ऐवर्णाधारकमलं रतिसुखकारकम् ।
७
तिष्यतारारूपं सप्तत्रिंशत्सिरावृतं ओवर्णाश्रितनाभिपद्मं श्वासपवनगतिकारकम् ।
८
आश्लेषानक्षत्रात्मकं साप्तत्रिंशत्सिरावृतं औवर्णाधारभूतं
कुण्डलीकृतनाभ्यावृतपद्मं पवनगतिकारकम् ।
९
मखानक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकं ‘अम्’ इत्यनुसारबोधकनाभ्यावृतपद्मं पाचकपित्तप्रतिपादकम् ।
१०
फल्गुनीनक्षत्ररूपं सप्तत्रिंशत्सिरावलम्बकवर्णज्ञापकवृषणद्वयपद्मं सप्तधात्वङ्कुरालवालपोषकम् ।
११
उत्तरफल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बखवर्णज्ञापकरोमराजिपद्मं विसर्जनरूपसुखहेतुकम् ।
१२
हस्तोडुरूपप्रतिपादकं सप्तत्रिंशत्सिराश्रितगवर्णज्ञापिदक्षिणपक्षपद्मं गर्भाशयकारकम् ।
१४
चित्रानक्षत्ररूपं सप्तविंशत्सिरावृतं घवर्णबोधकवामपक्षगतपद्मं परिपूर्णगर्भाशयकारणम् ।
१५
स्वातीताराप्रतिपादकं सप्तत्रिंशत्सिराधारकं ङवर्णज्ञापकं [३]दक्षिणहस्तपद्मं तत्तच्छरीरगतभिन्नस्वर[४]ज्ञापकम् ।
१६
विशाखानत्ररूपं सप्तत्रिंशत्सिरावलम्बकचवर्णद्योतकवामहस्तपद्मं स्त्रीपुंसस्वरभेदज्ञापकम् ।
१७
अनूराधानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं छवर्णद्योतकं
दक्षिणभुजपद्मं ऊर्ध्वकायधारकम् ।
१८
आषाढऋक्षरूपं सप्तत्रिंशत्सिरावृतं झवर्णज्ञापकं वामबाहुपद्मं सर्वकर्मोपकारकम् ।
२१
आषाढनक्षत्रात्मकं सप्तत्रिंशत्सिराधारकं ञवर्णद्योतकं
दक्षिणप्रकोष्ठपद्मं हस्तकौसल्यद्योतकम् ।
२२
श्रोणानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं टवर्णबोधकवामप्रकोष्ठपद्मं हस्तकौशल्यज्ञापकम् ।
२३
श्रविष्ठानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ठवर्णयोबोधकं
दक्षिणपाणितलपद्मं सर्वार्थाभिनय (ज्ञानज्ञापक) ज्ञापकम् ।
२४
शतभिषक्-नक्षत्रात्मकं सप्तत्रिंशत्सिराधारकं डवर्णबोधकं वामपाणितलपद्मं सर्वार्थाभिनयज्ञान (ज्ञापकज्ञान) हेतुकम् ।
२५
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ढवर्णद्योतककण्ठपद्मं तत्तद्वर्णाश्रिततत्तत्स्वरभेदज्ञापकम् ।
२६
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं णवर्णद्योतकग्रीवापद्मं पञ्चप्राणाधारकम् ।
२७
रेवतीऋक्षरूपं सप्तत्रिंशत्सिरावृतं थवर्णबोधकं शिरःकमलात्मकपद्मं सहस्रसिराश्रितवर्णज्ञानज्ञापकम् ।
२९
षष्टिर्नाडिकानामहर्निशम् ।
३०
पञ्चदशाहः पक्षः ।
३१
पक्षद्वयं मासः ।
३२
मासद्वयमृतुः ।
३३
त्रिऋतु एकायनम् ।
३४
षडृतवो द्वादशमासास्संवत्सरः ।
३५
अश्विनी ज्वरः ।
३६
भरण्यतिसारः ।
३७
कृत्तिका ग्रहणी ।
३८
रोहिण्यर्शोविकारः ।
३९
मृगशीर्षमजीर्णम् ।
४०
आर्द्रा मन्दानिलः ।
४१
पुनर्वसू विषूची ।
४२
तिष्यमरुचिः ।
४३
आश्लेषा पाण्डुः ।
४४
मखा श्वासः ।
४५
फल्गुनी कासः ।
४६
फल्गुनी कुष्ठामयः ।
४७
हस्तो मेहः ।
४८
चित्ता कुक्षिरोगः ।
४९
स्वाती नेत्रामयः ।
५०
विशाखा कर्णरोगः ।
५१
अनूराधा नासिकामयः ।
५२
श्रोणा हृदयामयः ।
५७
श्रविष्ठा पवनः ।
५८
शतभिषक् पित्तरोगः ।
५९
प्रोष्ठपदं कफामयः ।
६०
प्रोष्ठपदं मदात्ययः ।
६१
अश्विनीनक्षत्रविरुद्धगतिहेतुग्रहयुक्ततत्तत्कालानुगतरसाजीर्णजन्यामपित्तविषक्रिमिविकारकज्वराः प्रदृश्यन्ते ।
६३
अवर्णज्ञापकयावत्सिरानालावृतौषधयः ज्वरप्रकोपनिवर्तकाः ।
६४
अजीर्णजन्यामपित्तविषक्रिमिनिवर्तकं यत्तदेव भेषजम् ।
६५
{{rh|left=औषधिदानजपहोमदेवतार्चनं निवर्तकम् ।|right=६६
क्वचित्क्वाथयोगाः ।
६९
क्वचिच्चूर्णादयः ।
७०
क्वचित्तैललेहघृतादयश्च ।
७१
अश्विनीदेवतार्चनं तत्र भेषजम् ।
७२
तत्तन्नक्षत्रविगतियोगग्रहयुक्तकालसंयोगवशाज्जातज्वराः
कष्टसाध्याः । निवर्त्यनिवर्तकज्ञानं यथायोगं तन्निवर्तकम् ।
७३
भरणिविगतियोगग्रहयुक्तकालसंयोगादतिसारामयाः प्रदृश्यन्ते ।
७४
इवर्णज्ञापकयावत्सिरानालावृततत्तदौषधियोगाः तन्निवर्तकाः ।
७५
यमदेवतार्चनं निवर्तकम् ।
७६
कृत्तिकाभाविरुद्धगतिजातग्रहयुक्तकालसंयोगवशाद्ग्रहणीरोगः प्रपद्यते ।
७७
उवर्णज्ञापकयावत्सिरानालाऋवृतौषधियोगकरणं ग्रहणीरोगनिवर्तकम् ।
७८
अग्निदेवताप्रार्थनविधिः निवर्तकः ।
७९
रोहिणीऋक्ष विगतियोगजातग्रहयुक्तकालसंयोगवशादर्शारोगप्रवृत्तिः ।
८०
ऋवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं अर्शोरोगनिवर्तकम् ।
८१
प्रजापतिदेवताप्रार्थनं तत्र भेषजम् ।
८२
मृगशीर्षविरुद्धगतियोगजातग्रहयुक्तकालसंयोगवशादजीर्णामयाः प्रपद्यन्ते ।
८३
लृर्णबोधकयावत्सिरानालावृतौषधियोगकरणं अजीर्णामयनिवर्तकम् ।
८४
सोमदेवताप्रार्थनादिकं निवर्तकम् ।
८५
आर्द्रानक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात्
मन्दानलरोगः प्रवर्तते । ए ऐ वर्णज्ञापकयावत्सिरानालावृतयावन्निवर्तकद्रव्यं मन्दानलभेषजम् ।
८६
तत्तद्दुरितनिवर्तकयावत्प्रायश्चित्तरूपरुद्रदेवताप्रार्थनं विधिः ।
८७
इत्यायुर्वेदस्य चतुर्दशः प्रश्नः समाप्तः.
- ↑ रतिसुखकारकम्--C.
- ↑ तृतीयं फल्गुनीनक्षत्रमिदमधिकमिति भाति.
- ↑ हस्तद्वयपद्मं--A&C.
- ↑ सर्वA&C.
- ↑ रोहिणीति ज्येष्ठानक्षत्राय नामान्तरम् वर्णविन्यासस्तु नकृतः
- ↑ विचृतिः इ वेदे. तै. सं. IV. 4, 10.
- ↑ तृतीयमिदं प्रोष्ठपदानक्षत्रमधिकमिति भाति.
- ↑ ज्येष्ठारोह्यपस्मारः--A.
- ↑ मूलं विद्रधिः क्षयः--A. मूलं विधृतिः क्षयः--C.
- ↑ अत्र रोहिणी विचृतिरिति ज्येष्ठामूलयोर्वेदिके नामधेयेऽजानता लेखकेन ज्येष्ठामूले सूत्रयोः प्रक्षिप्य रोहिणीविचृतिशब्दौ रोगबोधकाविति वर्णव्यत्यासेन लिखिताविति भाति.
- ↑ अष्ट--A&C.
- ↑ श्रवणम्--C. स्रवणम्--A.
- ↑ ऋग्वेद X 97, 6.
- ↑ कउ--A & C.
- ↑ चविरस--Dr. B.S.