आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/पञ्चदशप्रश्नः

अथ पञ्चदशः प्रश्नः.


पुनर्वसुविगतिजातग्रहयुक्तकालसंयोगवशात् विषूचीरोगः प्रवर्तते ।
 
आ औ वर्णज्ञापकयावत्सिरावृतौषधियोगकरणं विषूचीरोगनिवर्तकम् ।
 
अदितिदेवताप्रार्थनं भेषजम् ।
 
तिष्यनक्षत्र विगतिजातग्रहयुक्तसमयविशेषवशादरुचिरोगस्सम्पद्यते ।
 
[१]अं वर्णद्योतकयावत्सिरानालावृतयावन्निवर्तकद्रव्यं अरुच्यामयनिवर्तकम् ।
 
बृहस्पतिदेवताप्रार्थनं भेषजम् ।
 
आश्लेषानक्षत्रविगतियोगग्रहयुक्तसमययोगात् पाण्ड्वामयः प्रवर्तते ।
 
क ख वर्णद्योतकयावत्सिरानालावृततत्तत्सजातीयद्रव्ययोगकरणं पाण्ड्वामयनिवर्तकम्[२]
 
मखानक्षत्र विगतिजातग्रहयुक्तकालविशेषवशात् श्वासामयः प्रपद्यते । ग घ वर्णद्योतकयावत्सिरानालावृतयावदोषधयस्तन्निवर्तकाः ।
 
पितृदेवताराधनजपहोमा भेषजम् ।
१०
 
फल्गुनीनक्षत्रात्मकविषमगतिजातसमयविशेषवशात्कासामयस्सम्पद्यते ।
११
 
ङ वर्णज्ञापकयावत्सिरानालावृतौषधियोगकरणं कासामयनिवर्तकम् ।
१२
 
अर्यमदेवताप्रार्थनं विधिः ।
१३
 
फल्गुनीनक्षत्रविगतिजातग्रहयुक्तकालवशात्कुष्ठामयः प्रपद्यते । च छ वर्णद्योतकयावत्सिरानालावृतौषधियोगकरणं कुष्ठामयनिवर्तकम् ।
१४
 
भगदेवताप्रार्थनं विधिः ।
१५
 
हस्तोडुविगतिजातग्रहयुक्तकालवशान्मेहामयो भासते ।
१६
 
ज झ वर्णद्योतकयावत्सिरानालावृतौषधयोगकरणं मेहामयनिवर्तकम् ।
१७
 
सवितृदेवताप्रार्थनं भेषजम् ।
१८
 
चित्त्रानक्षत्रविगतियोगज्ञाजातग्रहयुक्तसमयविशेषवशान्मूर्छामयः सम्पद्यते ।
१९
 
ञ्चवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं मूर्छामयभेषजम् ।
२०
 
इन्द्रदेवताप्रार्थनं विधिः ।
२१
 
स्वातीनक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात् नेत्रामयः प्रपद्यते ।
२२
 
टठवर्णबोधकयावत्सिरानालाबृतद्रव्यं [३]नेत्रामयहारकम् ।
२३
 
वायुदेवताप्रार्थनं विधिः ।
२४
 
विशाखानक्षत्रविगतिजातग्रहयुक्तकालवशात्कर्णरोगः प्रपद्यते ।
२५
 
डढवर्णद्योतकसिरानालावृतौषधियोगकरणं निवर्तकम् ।
२६
 
इन्द्राग्निदेवताप्रार्थनं तत्तत्कर्मविपाककरणं भेषजम् ।
२७
 
अनूराधानक्षत्र विगतिजातग्रहयुक्तकालवशान्नासिकामयः प्रपद्यते ।
२८
 
णवर्णज्ञापकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं नासिकामयहारकम् ।
२९
 
मित्रदेवताप्रार्थनं निवर्तकम् ।
३०
 
तथवर्णज्ञापकयावत्सिरानालावृतौषधिकरणं नासिकामयहारकम् ।
३१
 
मित्रदेवताप्रार्थनं निवर्तकम् ।
३२
 
रोहिणीनक्षत्र विगतियोगजातग्रहयुक्तकालवशान्मुखामयस्सम्पद्यते ।
३३
 
दधवर्णबोधकयावत्सिरानालावृततत्तदुपयुक्तयोगकरणं मुखामयनिवर्तकम्[४]
३४
 
इन्द्रदेवता प्रार्थनं विधिः ।
३५
 
विचृतिविरुद्धगतिसम्भवग्रहयोगकालवशात्क्षयस्सम्पद्यते ।
३६
 

नवर्णबोधकयावत्सिरानालावृतप्रयुक्तद्रव्ययोगकरणं

तदामयनिवर्तकम् ।
३७
 
पितृदेवताप्रार्थनं भेषजम् ।
३८
 
अषाढानक्षत्रविगतिसम्भवग्रहयुक्तकालवशात् अश्मरीरोगः प्रतिभासते ।
३९
 
{{rh|left=पफवर्णद्योतकयावत्सिरानालावृतयावन्निवर्तकद्रव्यं
अश्मरीनिवर्तकम् ।
४०
 
अब्देवताप्रार्थनं निवर्तकम् ।
४१
 
अषाढानक्षत्रविगतिसम्भवग्रहयुक्तकालवशात् छर्दिरोगः प्रपद्यते ।
४२
 
बभवर्णद्योतकयावत्सिरानालावृत ओषधियोगकरणं निवर्तकम्[५]
४३
 
विश्वेदेवाभिषेचनं निवर्तकम् ।
४४
 
श्रोणानक्षत्रविरुद्धगतिसम्भवग्रहयुक्तकालसंयोगवशादरुचिरोगः[६] प्रपद्यते ।
४५
 
मवर्णबोधकयावत्सिरानालाऋवृततदुपयुक्तद्रव्ययोगकरणं तदामयनिवर्तकम् ।
४६
 
विष्णुदेवताप्रार्थनं तत्र भेषजम् ।
४७
 
श्रविष्ठानक्षत्रविरुद्धगतिसम्भवग्रहसंयुक्तकालसंयोगवशात्पवनामयः प्रपद्यते ।
४८
 
यरवर्णोच्चारणहेतुकतत्तत्सिरानालावृततत्सजातीयद्रव्यं तदामयनिवर्तकम् ।
४९
 
वसुदेवताप्रार्थनं भेषजम् ।
५०
 
शतभिषङ्नक्षत्रविगतिजातग्रहकालसंयोगवशात् पित्तरोगः प्रपद्यते ।
५१
 
लववर्णद्योतकयावत्सिरानालावृत तन्निवर्तकद्रव्ययोगकरणं पित्तप्रकोपनिवर्तकम् ।
५२
 
इन्द्रदेवताप्रार्थनं तत्र भेषजम् ।
५३
 
प्रोष्ठपदाविरुद्धगतिसम्भवग्रहयुक्तकालसमयविशेषात्कफामयः प्रपद्यते ।
५४
 
शषवर्णबोधकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं कफामयहारकम् ।
५५
 
अजैकपाद्देवताप्रार्थनं विधिः ।
५६
 
प्रोष्ठपदानक्षत्रविरुद्धगतिसम्भवग्रहयुक्तकालवशादपस्मारामयाः प्रपद्यन्ते ।
५७
 
सवर्णद्योतकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं अपस्मारामयहारकम् ।
५८
 
अहिर्बुध्न्यदेवताप्रार्थनं निवर्तकम् ।
५९
 
रेवतीनक्षत्रविरुद्धगतिसम्भवग्रहयुक्त कालवशाद्व्रणरोगस्सम्पद्यते ।
६०
 
हवर्णद्योतकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं व्रणामयनिवर्तकम् ।
६१
 
पूषदेवताप्रार्थनं विधिः ।
६२
 
वह्निभूताधिकद्रव्यादनाजीर्णजन्याम-पित्त-विषकिमिग्रस्तसिराविकारजाता रक्तपित्तविकाराः ।
६३
 
अम्बुभूताधिकगुणोपलम्भकयावत्पदार्थास्तद्विकारहारकाः ।
६४
 
पटोल गोपा घनवृषरोहिणि केश्य चन्दन तिक्तावर्युत्पलयष्टिद्राक्षेक्षुपद्मक रेणुक निम्ब वधूत्रायन्ती मदयन्तीवत्सक मूर्वाप्रियङ्गु महती स्थिरापर्णि बलावटरुह विश्वमोचरसवद्यावत्पदार्थाः चूर्णक्वाथतैललेहविकाररूपाद्याः रक्तपित्तामयप्रकोपहारकाः ।
६५
 
अम्बुभूताधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिग्रस्तसिराविकारहेतुकाश्वासकासविकाराः ।
६६
 
वह्निभूताधिकगुणोपलम्भकयावत्पदार्थास्तद्विकारहारकाः ।
६७
 
वाशानिशा क्षुद्राऽमृत मुण्डिकपोताः शठीकुण्डलिपुनर्णवा भार्ङिमसि कोकिलाक्षब्राह्मीझरस्येवरुदमण्डूकपर्ण्यर्कालर्कार्तवतपस्विनी भृङ्गी सुवर्चलबिल्व

काश्मीरतक्कारिपाटलांशुमती स्थिरग्रन्थि चव्य चित्रकशुण्ठिपच्यातकराजमरि[७]शृङ्गि धात्रि विभीतकैला लवङ्गपत्रकनागकेसर धन्वयासतुषगन्धवारिजीरका

दिप्यकाः चूर्णक्वाथतैललेह्यविकाराः विकारभूताग्नेयश्वासकासरक्तप्रकोपहारकः ।
६८
 
वह्निभूताधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगतसिराविकारा हिध्मामयाः ।
६९
 
निवर्तकाम्बुभूताधिकगुणोपलम्भकयावत्पदार्थाः तद्विकारहारकाः ।
७०
 
कपित्थकणा मधु लवण रसोन दशमूलक्षीरसिद्धपुनर्णवानिर्गुण्डिबलावर्युत्पल पित्तवराकुष्ठापूरित कटुकचव्याश्वगन्धसुवर्चलैः सिद्धःक्वाथोहिध्मारोगनिवर्तकः ।
७१
 
यद्धातुविरुद्धान्योन्यद्रव्यादनाजीर्णजन्यामपित्त विषकिमिग्रस्तसिराविकारकारकद्रव्यविरुद्धान्यद्रव्यादनं यावद्धातुपोषकैकभेषजम् ।
७२
 
दशमूललवङ्गदारुभार्ङ्गिचाशा[८]वृश्चिकघनधन्वयासबलाकुरु[९]चककोल मदमुसलि हरिद्रा[१०]नेताश्वगन्ध जीरकरास्ना द्राक्षाशृङ्गिस्थिरापर्णिभिरुजिमति(?)गोक्षुरचन्दनोत्पलयष्टिकशेरु [११]कपातातिविषोशीरवालुक[१२]हेष्मरकाकनासा कुष्ठमञ्जिष्ठालाका काकोल्यका बृहस्पति

कुण्डल्यर्कामृतावन्ति विलङ्गभार्ङ्गिवत्सकखदिरासन

निम्बशिग्रुकरञ्ज शतबिल्वराजवृक्ष भल्लातकब्रह्मगुलूचीघृष्टिवति(?) विदारि विभीतक शिरीष पौष्करदार्वीकरकाकुष्ठ[१३]....बीजक्षारक[१४]पिताप्यदीप्यकजाजी तारामिशिगुग्गुलुलाक्षाकटुकादि शाला पुष्पधान्याककूष्माण्ड सौकुमार्याश्वपर्णाः क्वाथघृततैललेह्य विकाररूपा द्विभर्जन सप्तधातुकार्श्यकारकामयघातकाः ।
७३
 
पटोलादि पञ्चदशत्रयोदशद्रव्यं यथायोगं चूर्णीकृतं रक्तपित्तामयविनाशकम् ।
७४
 
द्वादशत्रयोदशार्थाः यथायोगं क्वाथोपयोग्या रक्तपित्तामयहारकाः ।
७५
 
तद्वत्तैलघृतलेह्यादि मधुसितायुतद्रव्यं रक्तामयविघातकम् ।
७६
 
वाशादिपञ्चदश त्रयोदशाष्टादशार्थाः यथायोगं सूक्ष्मचूर्णभूताः समधु श्वासकासक्षयविकारघातकाः ।
७७
 
अष्टनवदशैकादशत्रयोदशद्रव्यं यथायोगं क्वाथोपयोग योग्यं श्वासकासक्षयहरम्[१५]
७८
 
पञ्चदश सप्तदश विंशतिपदार्थाः तैलघृतोपयोग्याः श्वासकासक्षयघातकाः ।
७९
 

इत्यायुर्वेदस्य पञ्चदशः प्रश्नः समाप्तः.


  1. नक्षत्राणां वर्णयोगक्रमोऽत्र पूर्वप्रश्नोक्तक्रमाद्भिद्यते ।
  2. देवतार्चनं नोक्तं वा ? लेखकेन त्यक्तं वा ?
  3. कर्णामय--A&C.
  4. विचृत्यनन्तरं रोहिणीत्यादिवाक्यं पठितं कोशद्वयेऽपि दृश्यते.
  5. अब्देवतेत्यादि--करणं निवर्तकं इत्यन्तं कोशद्वयेऽप्यदृष्टं सन्दर्भवशादुद्धृतम्.
  6. हृदयामयः.
  7. पथ्यातृणराजमरिच--Dr.B.S.
  8. यासा--Dr. B.S.
  9. कुरुवक--Dr.B.S.
  10. वल्ला--A.
  11. कपिता--Dr. B.S.
  12. हेष्कर--A
  13. करककुष्ठ--Dr. B.S.
  14. दार्वीकनकाह्वयकान्तिकुटजक्षारक--A.
  15. अष्टेत्यादि हरमित्यन्तं A. कोशे न दृश्यते ।