प्रमुखा विकल्पसूचिः उद्घाट्यताम्

आयुर्वेदे द्वितीयप्रश्नः.


गुहान्तरनिवासिनीं गुरुकृपाकटाक्षादमी
सहायमनुचिन्तकास्सरसिजेषु षट्सु क्रमात् ।
गुहामयभिषक्तया सततमष्टवाग्वादिनीं
महात्रिपुरसुन्दरीमिह मुहुर्नमस्कुर्महे ॥

 रोगत्वं प्रतिपादितम् । रोगनिवृत्तिद्वारा धातुपोषणं वक्तुमुचितं भवति । तथा सति दोषप्रकोपनिवर्तकं रसदि विना लोके निवर्तकद्रव्याभावः सुप्रसिद्ध इत्यस्वरसादाह-- द्विरसेति।

 द्विरसार्थरसहीनार्थहीनरसवाननिलनिवारकः ॥

 स्वादुरसौ रसपचनप्रकोपनिवर्तकः । पित्तप्रकोपोऽपि स्वादुरसेन भाव्यः । एकस्य द्रव्यस्योभयदोषनिवर्तकत्वं वक्तुं शक्यते । द्विरसार्थहीनाधिकरसद्रव्यं पवनपित्तप्रकोपनिवर्तकम् । अधिकस्वादुरसद्रव्यं पित्तप्रकोपनिवर्तकम् । तस्मादधिकरसद्रव्यं पवनं हरतीति सूत्रे प्रतिपादितम् ।

कषायतिक्तमधुराः पित्तमन्यैस्तु कुप्यते । इति ॥

 ननु शरीरं सप्तधातुमयं, तज्जन्यमपि सप्तधातुमयं भवति शरीरे सिराः कति सन्ति ? आशयाश्च मर्मस्थानसन्धयः ? तत्सर्वं विहाय पैतृकास्त्रयः मातृजाश्चत्वारो धातव एवाभिहिता इत्याशयं मनसि निधाय तत्रस्थितसिरामर्मास्थिसन्ध्याशयानलादीनि व्याचष्टे-- षडिति ॥  षट्सहस्रत्रिंशत्सिरास्त्रिंशच्छल्याश्शतद्वयदशोत्तरसन्धयो नवाशीतिस्नायुपेशिधरा भवन्ति ॥ २ ॥

 शरीरमात्रं सर्वत्र सिरावृतम् । तथाऽस्थीनि सन्धयश्चाशयाश्च सर्वैरेभिरावृतं शरीरमिति । तत्सर्वं भूतमयम् । मातुरेवोत्पद्यन्त इत्यर्थः । दोषास्सिरावृता मर्मगता आशयस्थाश्च । एते स्वस्थदोषमार्गाः अन्यस्वस्थधातून्प्रविशन्ति । स्वस्थास्वस्थदोषविज्ञानार्थं सर्वशरीरं विभज्य तत्तज्ज्ञानं विज्ञाय दोषप्रकोपानपहर्तुं शक्यत एवेत्यर्थः । शरीरस्थितसिरादीन्विभजति ।

 ननु सप्तधातुधरास्सप्तत्वं च पवनसप्तत्वं चाश्रितम् । अन्तःप्रविष्टस्स्वादुरसो भूत्वाऽनिलप्रकोपं हरतीति यत्तदयुक्तं, धातुपोषककार्योपकारकत्वेनान्यथासिद्धत्वात् । त्वगन्तस्स्थरसासृगादयो यथाविधि मार्गे सञ्चारीकृताः । पवनप्रकोपस्य निवारकत्वं स्वादुरसस्य कथं भवेदित्यस्वरसादाह-- सप्तेति ।

 सप्तधातुधरास्सप्ताशयास्तन्मध्यगग्रहणीकलाजातः स्वादुरसोऽनिलप्रकोपं हरति ॥ ३ ॥

 अस्यार्थः–- सप्तत्वचः सप्तधातून्दधति । रसरक्ताद्यपि अनिलसञ्चाराद्यथामार्गमनतिक्रम्य स्थितस्थापकत्वमनिल एव हरति । तस्य तावन्मात्रोपकारकगुणत्वात् स्वादुरसः अनिलप्रकोपं हरतीति यत्तद्युक्तमितार्थः । गतागतकलोपकारकत्वं अनिल एव करोति । तस्मादनिलप्रकोपनिवृत्त्यर्थं स्वादुरसद्रव्यादनं युक्तमित्यर्थः । तत्र सूत्रवचनं--

प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः ॥
उरःकण्ठचरो बुद्धिहृदयेन्द्रियचित्तधृक् ।

ष्ठीवनक्षवधूद्गारनिश्श्वासान्नप्रवेशकृत् ।
उरस्स्थानमुदानस्य नासानाभिगलांश्चरेत् ।
वाक्प्रवृत्तिप्रयत्नौजोबलवर्णप्रतिक्रियः ॥[१]

 इति । एतद्वचनानुसारेण सर्वशरीरव्यापकत्वमनिलस्य । तस्मात्स्वादुरसः अनिलकोपं हरतीत्यर्थः ॥

 ननु एतादृशाशयानां सर्वशरीरान्तस्स्थितत्वस्य सार्वजनीनत्वेन तत्तत्कार्योपलम्भकत्वं यथाविधि चोदितमिति सप्ताशयास्सप्तधातुमन्तः सर्वसाधारणत्वात् । तथा सति एष्वाशयेषु प्रजाजननदेशं निर्णीतुमशक्यत्वात्, किं च सप्तत्वक्सिराधात्वाशयाभिवर्धनं पञ्चपाचकपित्तानिलजातस्वादुरसोऽनिलप्रकोपमपहरतु । तस्य रोगारोगैककारणत्वं सर्वशरीराणां सुप्रसिद्धमिति तात्पर्यं मनसि निधाय प्रजाजननहेतुप्रदेशं विवृणोति-- अष्टेति ।

 अष्टमो गर्भाशयः स्त्रीणाम् ॥ ४ ॥

 प्रजाजननहेतुकाशयः स्त्रीणामेव सम्भाव्य इत्यर्थः । तत्र शारीरवचनं--

गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे ॥[२]

 सप्ताशयातिरिक्तं पित्तपक्वाशयान्तरं नेतरेषु सम्भावितमिति गर्भाधानहेतुकत्वं स्त्रीणामेव सम्भावितत्वात् । अत एव प्रथमतः स्त्रीणां नामोच्चारणानन्तरं पुंनामोच्चारणमिति सकलशास्त्रेषु श्रेष्ठक्रमोऽस्तीति व्यपदेशितम् । आदौ स्त्रीपुरुषयोर्धातुरेव योन्यां प्रविश्य जनयति । तथा सति धातुमेलनमेव पिण्डं भवेत् । यावत्कारणं तावत्कार्यमिति न्यायात् । इदानीमङ्गजननका र्यदर्शनस्य हेत्वभावो दृश्यते । कारणेन विना कथं कार्योत्पत्तिरित्यस्वरसादाह-- स्वमिति ।

 स्वं स्वं स्वोष्मणा स्रवद्रसात्मं चौजः । स्वं स्वं स्वस्य स्वयमेव हेतुर्भवति ॥ ५ ॥

 स्वाङ्गानि स्वस्मिन्नेव प्रजाः प्रजायन्ते, अन्यथा तदन्वयव्यतिरेकाभ्यां सुखदुःखे कथमुपपद्येते । अन्यजननस्य तदन्वयव्यतिरेके सति सुखदुःखानुभवोऽस्तीत्यत इतरजनने स्वशरीरमेव कारणमिति । तत्र काव्यवचनं--

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मनैव प्रलीयसे ॥

 श्रुतिवचनं--

अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदां शतम् ॥

 गर्भाशयगतोष्मणा मातुः पित्तसारः स्त्रवति । तत्सारजन्यस्सारः शिरउत्पादको भवति । तद्रसात्मकं चौजो भवति । गर्भाशयगतोष्मणा मातुः पाणिः स्रवति । तत्सारजन्यो रसः पाण्युत्पादको भवति । गर्भाशयगतोष्मणा मातुः पादसारस्स्रवति । तत्सारजन्यसारः पादोत्पादको भवति । एवं पार्श्वौ च । पृष्ठोदरजङ्घशिश्नोपस्थपाय्वङ्गादीनि गर्भाशयगतोष्मणा मातुरङ्गानि एषु स्रवन्ति । तत्सारजन्यसाराणि तदुत्पादकानि भवन्ति । मातुराहाररसाहारास्तद्व्यतिरिक्ताङ्गाभिवर्धकाः । तान्यङ्गानि रक्तभूतानि सन्ति । तत्तदङ्गेषु वायुः प्रकुप्यते । तत्पवनकोपनिवृत्त्यर्थं स्वादुरसवद्द्रव्यम्, तन्निवर्तनद्वारा भेषजं स्वादुरसमश्नीयात् ॥

 अथ ज्ञापनार्थं तदुत्पादकान्यङ्गान्याह--शिर इति ॥

 शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घशिश्नोपस्थपाय्वङ्गानि भवन्ति ॥ ६ ॥

 एतानि मातुर्गर्भाशये स्रवन्ति । तत्तदङ्गान्याविर्भवन्तीत्यर्थः । ते रसा गर्भाशयमुखं पुष्णन्तीत्यर्थः । गर्भाशयगतोष्मणा मातुः पादपार्श्वपृष्ठोदरजङ्घशिश्नोपस्थेभ्यस्सारास्रवन्ति । तत्सारजन्यसाराः पार्श्वाद्यङ्गोत्पादकाः । तद्रसात्मकं चौजो भवति । अन्तर्वत्न्याः शिरोमांसाशयानां सारस्य गर्भे स्रावितत्वात् । गर्भाशये पवनप्रकोपस्य युक्तत्वात्, तदर्थं स्वादु रसवद्द्रव्यमद्यात् । अङ्गाविर्भावानन्तरं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामतिक्षत्वात् तत्तत्स्थितानि तत्तत्स्थानं विहाय गर्भाशयं प्रवेष्टुमयोग्यत्वात् श्रोत्रादीनामाविर्भावः कथं स्यादित्यस्वरसादाह-- श्रोत्रेति ॥

 श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तथा ॥ ७ ॥

 सर्वेन्द्रियाणि सूक्ष्मशरीराण्यपि मातुस्स्वशरीरस्थितपञ्चभूतानां गर्भाशये उपलभ्यमानत्वात् । इन्द्रियादीनां तत्तद्गुणत्वादेव गुणिनमन्तरेण गुणावस्थानस्य वक्तुमयोग्यत्वात् तत्तद्भूतप्रवेशनात्तत्तदिन्द्रियसहिता एव गर्भाशयं प्रविशन्तीत्यर्थः । धात्वादीनां सारद्रव्यत्वेन स्वं स्वं स्वोष्मणा स्रवत्तत्तदाकृतिकार्यहेतुकमातृधातुस्रावितावयवो गर्भाशये कुणपावयवाभिवृद्धिहेतुककार्यं रसावकाशवद्भवतीति तस्मात्तयोः कार्यकारणभावो वक्तुं शक्यते । अत्र तु निराकृति द्रव्यं सरन्ध्रकं कथमन्यत्र प्रवेष्टुं शक्यते ? शिरःपाण्यादिवत्सावयवद्रव्यत्वाभावात् सावकाशप्रवेशानवकाशः । इदं तु निरवयवद्रव्यं स्वमातृस्थावयवसारं गर्भाशये स्रवतीति वक्तुमशक्यमित्यस्वरसादाह-- सरन्ध्रेति ।

 सरन्ध्रकाभ्यन्तरधरास्त्रयस्त्रयस्सिराः । पादयोश्चतुस्त्रिंशत्सरन्ध्रकाभ्यन्तरधराः ॥ ८ ॥

 अस्यार्थः--

 काश्चिदभ्यन्तरधराः काश्चित्सरन्ध्रकाः एकैकशस्त्रिसिरावृताः । सावकाशद्रव्यस्य व्याप्याकाशत्वेन शरीरस्य पश्चभूतात्मकत्वेन आकाशद्रव्यस्यापि तत्प्रविष्टत्वात् तस्य त्रित्रिसिरावृतद्रव्यत्वात् गर्भाशये स्रावयितुं युक्तमित्यर्थः । अत्र त्रित्रिसिरवृताः सरन्ध्रकाभ्यन्तरधराः सप्तशतसङ्ख्याकाः पादमस्तकाधिष्ठिता इत्यर्थः । मातृगर्भाशये तदङ्गानि तत्रैव स्रवन्तीत्युक्तम् । तदेव विवृणोति-- पादेति । पादयुग्मस्थितपद्मं गर्भाशये स्रावितत्वात् तत्पादयुगमजायत । अवर्णद्वयमपि तत्रैवाजायत । तदनन्तरं मातृजानुस्थितत्रिसिरावृतं च मातृगर्भाशये कुणपपिण्डरूपस्याविर्भावे कथं नु मातुरङ्गसार एव तत्राविर्भवतीत्यत आह-- पादेति ।

 पादस्थितपद्ममवर्णजनकं चतुस्त्रिंशत्सिरावृतम् ॥ ९ ॥

 मातुरङ्गभूतपादं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकसरन्ध्रकाभ्यन्तरं चतुस्त्रिंशत्सिरावृतं तत्पादस्थितावर्णं वामपादे स्वरितप्लुतसहितावर्णात्मकं पादयुगमजायतेत्यर्थः । तदूर्ध्वाङ्गं जानुयुगं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकमजायतेत्याह--जान्विति ।

 जानुपद्मगतमिवर्णजनकं चतुस्त्रिंशत्सिरावृतम् ॥

 सरन्ध्रकाभ्यन्तरधरचतुस्त्रिंशत्सिरावृतं वामेतरजानुयुगं स्वरितप्लुतसहितेवर्णद्वयं गर्भाशये स्रावितं तज्जानुयुगमजायतेत्यर्थः ।

 गतागतकर्मोपकारकवर्णप्रयुक्तवातपित्तकफदोषाश्रयद्रव्यादनेन अविकृतास्सन्तः गतागतकर्मोपकारकजङ्घादेशगतपद्मं सरन्ध्रकाभ्यन्तरविंशतिसिरावृतं जानुपद्ममजायतेत्याह-- उवर्णेति ।

 उवर्णात्मकमूरुंप्रदेशपद्मं विंशतिसिरावृतम् ॥

 स्वरितप्लुतसहितोवर्णजङ्घापद्मं स्वं स्वं स्वोष्मणा स्रवेद्रसात्मकं गर्भाशये आविर्भवतीत्यर्थः ।

 श्रोणिप्रदेशस्थितसरन्ध्रकाभ्यन्तरधराश्रितर्वर्णज्ञापकमूरुप्रदेशपद्मं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं दृश्यत इत्याह-- ऋवर्णेति ।

 ऋवर्णजनकं श्रोणिप्रदेशपद्मं विंशतिसिरावृतम् ॥ १२ ॥

 ऋवर्णहेतुकमूरुप्रदेशपद्मं विंशतिसिरावृतं स्वरितप्लुतसहितर्वर्णाधारभूतं पाचकपित्तोष्मभिर्विंशतिसिरावृतं वामेतरोरुपद्मं गतागतकर्मोपकारकबहुभारजं मातुरङ्गादेव गर्भाशये आविर्भवतीत्यर्थः ।

 लृवर्णज्ञापकं श्रोणिप्रदेशपद्मं तथैवाजायतेत्याह-- लृवर्णेति ।

 लृवर्णजनकं श्रोणिप्रदेशपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १३ ॥

 सरन्ध्रकाभ्यन्तरसिरावृतमूर्ध्वाङ्गभारवहं श्रोणिप्रदेशपद्मं आविर्भवतीत्यर्थः ।

 एवर्णाधारभूतमेवर्णस्वरितप्लुतवर्णाधारभूतकटिबीजवङ्क्षणतत्पार्श्वलग्नं आधारभूतमातुरङ्गान्येव तत्राविर्भवन्तीत्याह-- एवर्णमिति ।

 एवर्णजनकं कटिप्रदेशगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १४ ॥

 ऐवर्णजनकं बीजगतपार्श्वगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १५ ॥

 ओवर्णजनकं वङ्क्षणप्रदेशगतं पद्मं द्वादशसिरावृतम् ॥ १६ ॥

 औवर्णजनकं बीजप्रदेशगतं पद्मं द्विसिरावृतम् ॥ १७ ॥

 मिथुनकर्मोपयोगिका ए ऐ ओ औ इत्याद्यचः कटिप्रदेशपद्मंं वङ्क्षणप्रदेशपद्मं चतुस्त्रिंशत्सिरावृतं मातुरङ्गानि स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं गर्भाशये आविर्भवन्तीत्यर्थः ॥

 दीर्घस्वरितप्लुतस्वररूपभूतानां ए ऐ ओ औ वर्णानामाधारभूतानि । अनुबन्धकहेतुवर्गस्य मध्ये कखवर्णद्वयस्य एवर्णाधारपद्मपार्श्वस्थितपद्मस्य प्रजाजननहेतुभूतस्य मिथुनकर्महेतुपद्मं विवृणोति कखेति ।

 कखवर्णजनकं तत्पार्श्वपद्मं षोडशसिरावृतम् ॥

 अवर्णकवर्णहवर्णज्ञापकसिरावृतपवनताल्वोष्ठपुटव्यापार औवर्णज्ञापकसामग्री सरन्ध्रकाभ्यन्तरचतुस्त्रिंशत्सिरागतपवनं दीर्घस्वरितप्लुतसहितमज्जं तत्पार्श्वस्थितं सत् श्रोत्राकाशमुद्भावयतीत्यर्थः ।

 मिथुनकर्मोपकारकमेढ्रपद्मं सरन्ध्रकाभ्यन्तरधरत्रिषष्टिसिरावृत गघवर्णदेवताधारभूतं सप्तधातुरसजन्यरेतआधारभूतं सकलधातुसिरामयं मन्मथगेहपद्मं विवृणोति-- गघेति ।

 गघवर्णजनकमेढ्रप्रदेशस्त्रिषष्टिसिरावृतः ॥ १९ ॥

 गर्भाशये पिण्डं यथा भवति तथा मातुराहाररसजातं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं पुंवत्पिण्डं यथा दृश्यते तन्मेढ्रपद्माज्जायत इति वक्तव्यम्, तस्य मातुरङ्गाभावत्वेन मेढ्रपद्मस्यायोग्यत्वात् । एतदाविर्भावकथनमयोग्यमिति न वाच्यम् । रेतोऽधिकत्वात् पुत्रो भवतीति न्यायात् । शुक्लशोणितसन्निपातो योनिरिति लक्षणवचनाच्च । एतयोरैक्यं योनिः । तद्वचनं तत्तदङ्गाविर्भावकथनं मातुराहारपरिणामवशात् पुंनिष्ठरेतस आधिक्यं यत्र भवति तत्र मेढ्रपद्मस्य हेतुत्वात् शुक्रशोणितसान्निपात्याविर्भावकथनं तत्तदभिवर्धनं च । स्वं स्वं स्वोष्मणास्रवद्रसात्मकं पुन्निष्ठाङ्गाविर्भावं तत्सान्निपात्याभिवर्धनं तस्यापि योनिलिङ्गस्यापि मेढ्रपद्मत्वात् तज्जातत्वकथनं तदङ्गाभिवर्धनं च युक्तमित्यर्थः । पुन्निष्ठमेढ्रपद्मं स्त्रीनिष्ठयोनिपद्मं चेत्युभयस्यापि मन्मथगेहत्वात् । रेतआधिक्यजातोपाधिकवशाच्च । दीर्घमेढ्रहेतुकपद्मस्य पुन्निष्ठत्वेन तदङ्गाभिवर्धनं युक्तमिति तात्पर्यम् ।

 स्त्रीनिष्ठसिरावृतमेढ्रपद्माधारभूतपृष्ठदेशपद्मं विविच्य दर्शयति-- ङेति ।

 ङोच्चारणहेतुकं पृष्ठदेशगतं पद्मं चतुस्त्रिंशत्सिरावृतम् ॥ २० ॥

 सरन्ध्रकाभ्यान्तराधारचतुस्त्रिंशत्सिरावृतं ङवर्णदेवताधारभूतपृष्ठदेशपद्मं ऊर्ध्वाङ्गसर्वदेहभारं भजत् पादजानुजङ्घोरुकटिश्रोणिभ्यां गतागतरूपचलनात्मककर्म कुर्वत् मिथुनकर्मोपकारकफलमात्रमेव भजत् अपानपवनाधारकं जठरानलप्रदेशाधा रभूतं तज्जातमलनिस्सारणहेतुकं भवतीत्यर्थः । ननु स्त्रीपुरुषसाधारणलिङ्गमेढ्रपद्मे तत्तज्जातिजन्यस्वरा एव तत्तद्वर्णशरीरज्ञापकाश्शरीरभेदमपि तत्र जाता वर्णा एव ज्ञापयन्तीत्युक्तम् । तत्तद्देशस्थितगुदविवरस्यापि सरन्ध्रकत्वात् तद्गुदप्रदेशविवरं विहाय योनिलिङ्गमेढ्रपद्मस्थितरन्ध्राणां हीनाधिकत्वात् तत्तज्जातिजन्यस्वरज्ञापकगुदस्थितरन्ध्रमार्गं विहाय लिङ्गमेढ्ररन्ध्राधारसिरारन्ध्रमार्गगतपवननिस्सरणगघवर्णभेदज्ञानज्ञापकं भवतीत्याशयं मनसि निधाय गुदद्वाराधारभूतवर्णदेवतां विवृणोति-- ङेति ।

 ङोच्चारणहेतुकं पृष्ठदेशपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ २१ ॥

 ङकारानुबन्धदेवताधारभूतपृष्ठदेशपद्मं चतुस्त्रिंशत्सिरावृतम् । पृष्ठदेशपद्मविवरस्य विट्संसरणमात्र एव चरितार्थत्वात् सवर्णस्वराभेदज्ञापकं भवतीत्यर्थः ।

 सर्वाशयानामाधारभूतगुदावृतवलयपद्मयोनिलिङ्गमेढ्रपद्मावृतसिरावर्णाधारभूतगुदावृतचक्रपद्मं चछवर्णदेवतात्मकं विवृणोति चछेति ।

 चछवर्णोत्पादकं तत्पार्श्वपद्मं चतुर्दशसिरावृतम् ॥ २२ ॥

 गुदपद्मस्य वक्राकारेणावृतपद्मे तत्पार्श्वपद्मं पवननिस्सरणहेतुभूतचछवर्णदेवतात्मकं गर्भाशये आविर्भवतीत्यर्थः ।

 जठरानलरूपपाचकपित्तस्य आधारभूतजठरानिलपद्मं आविर्भवतीत्याह-- जझेति ।

 जझवर्णोच्चारणहेतुकं जठरानिलपद्मं चतुर्दशसिरावृतम् ॥ २३ ॥

 कुण्डल्याधारभूगतपवनदेवतारूपषट्कमलानामाधारभूतत्वात् श्वासोच्छ्वासरूपपवनाधारभूतं नाभिपद्मं मातुराहाररसजातरसाहृतकमलकाण्डालवालस्थरूपं विवृणोति-- ञेति ।

 ञवर्णोत्पादकं नाभिप्रदेशपद्म विंशतिसिरावृतम् ॥ २४ ॥

 कुण्डलीगततत्पार्श्वगपवनस्य आधारभूतं सरन्ध्रकाभ्यन्तरधरं विंशतिसिरावृतम् । नाभिप्रदेशपद्मं ञवर्णदेवतात्मकं पाचकपित्ताग्निजनकं अग्निचक्रजातश्वासानिलोष्मणा सहस्रदळावृतशिरःकमलस्थामृतजनकं भवतीत्यर्थः ॥

 नाभिरन्ध्रसिरावृतकुण्डलीरूपपवनचक्रं सरन्ध्रकाभ्यन्तरधरत्रिंशत्सिरावृतं नाभिपद्मावृतपवनचक्रं व्याचष्टे--टठेति ।

 टठवर्णोत्पादकं नाभिप्रदेशपद्मं त्रिंशत्सिरावृतम् ॥ २५ ॥

 कुण्डल्याधारभूतानिलात्मनाभिरन्ध्रसिरावृतपवनचक्रं मातुराहाररसाद्गर्भाशयं पोषयेत् टठवर्णदेवतात्मकं त्रिंशत्सिरावृतं नाभ्यावृतपवनचक्रमाविर्भवतीत्यर्थः ।

 नाभिपार्श्वस्थितरोमराजिकार्यजनकाभ्यावृतालवालचक्रं द्वाविंशतिसिरावृतडढवर्णदेवतात्मकं मातुराहाररसादनाज्जातरसस्रावितं गर्भाशयरोमराजिशाखि जायत इत्याह-- डढेति ।

 डढवर्णहेतुकं रोमराजिपार्श्वगतं द्वाविंशतिसिरावृतम् ॥ २६ ॥

 सरन्ध्रकाभ्यन्तरधरद्वाविंशतिसिरावृतपवनेन डढवर्णदेवता श्रोत्रविवरप्रापणरोमराजिहेतुकपार्श्वद्वयपद्मं जायत इत्यर्थः ।

 तद्रोमराजिफलीभूतहृत्कमलं विवृणोति-- णवर्णेति ।

 णवर्णाधारभूतं हृत्कमलं त्रिंशत्सिरावृतम् ॥

 त्रिंशत्सिरावृतं हृत्कमलं प्रादुर्भवतीत्यर्थः ।

 पञ्चाशत्सिरावृतस्तनद्वयपद्मं सकलस्वराभिव्यञ्जकमाह-- तथेति ।

 तथवर्णोत्पादकं स्तनद्वयपद्मं पञ्चाशत्सिरावृतम् ॥

 अधिकस्तनद्वयपद्मं सुस्वराभिव्यञ्जकहेतुकं स्तनद्वयपद्मवत् पुंसामधिकघोषधातुज्ञापकं तन्मांसग्रन्थिरूपं दीर्घस्वरितप्लुतसहिताचामाधारभूतं तादृशस्तनयुग्मं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं मातुराहारपरिणामाज्जातं गर्भाशये स्तनयुगं जायत इत्यर्थः ॥

 सरन्ध्रकाभ्यन्तरधरकण्ठदेशपद्मं दधवर्णोत्पत्तिकार्यहेतुकं कण्ठदेशपद्मं जायत इयाह-- दधेति ।

 दधवर्णोत्पादकं कण्ठदेशपद्मं पञ्चाशत्सिरावृतम् ।

 सर्ववर्णानामाधारभूतं सर्वसिराभिव्यञ्जकं गर्भाशये मातुराहाररसपरिणामहेतुकं कण्ठदेशपद्मं जायत इत्यर्थः ॥

 सरन्ध्रकाभ्यन्तरधरसिरावृतं अनुस्वारनवर्णदेवतात्मकं जायत इत्याह-- नेति ।

 नवर्णोत्पादकं ग्रीवापद्मं षोडशसिरावृतम् ॥ ३० ॥

 नवर्णोत्पादकं षोडशसिरावृतं गर्भाशये ग्रीवापद्मं जायत इत्यर्थः । शिरस्स्थानाधिष्ठितनवर्णरूपानुस्वारदेवतात्मकं षोडशसिरावृतं ग्रीवाङ्गाधारभूतपद्मं मातुर्गर्भाशयं प्रविश्य ग्रीवाङ्गं जायत इत्यर्थः ॥

 पफवर्णस्थानबाहुप्रदेशं षोडशसिरावृतपद्मं मातुरङ्गं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं पफवर्णदेवतात्मकं बाहुप्रदेशमित्याह-- पफेति ।

 पफवर्णोत्पादकं बाहुपद्मं षोडशसिरावृतम् ॥

 पफवर्णोत्पादकं तथा बाह्वोः षोडशसिरावृतं सरन्ध्रकाभ्यन्तरधरबाहुप्रदेशपद्मं गर्भाशये आविर्भवतीत्यर्थः ॥

 जिह्वाग्रस्थितलालारूपरसादिबन्धनहेतुकं बभवर्णदेवतात्मकं द्विसिरावृतं जिह्वन्तःप्रदेशगतपद्मं मातुरङ्गात्स्रवत् तत्तत्सारगर्भाशयं प्रविश्य रसबन्धनपद्मं जायत इत्याह-- बभेति ।

 बभवर्णजनकं प्रकोष्ठप्रदेशपद्मं पञ्चाशत्सिरावृतम् ॥ ३२ ॥

 बभवर्णज्ञापकं रसबन्धनपद्मं सरन्ध्रकाभ्यन्तरधरं पञ्चाशत्सिरावृतप्रकोष्ठगतपद्मं बभवर्णदेवतात्मकं रसवद्द्रव्यादनसारजातं मातुरङ्गात्स्रवीभूतं प्रकोष्ठपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 अनुस्वारसहितबिन्दुरूपमवर्णदेवतात्मकं मनोविषयकयावच्छब्दोच्चारणजातार्थबोधकहस्तविन्यासज्ञापकं हस्तपद्मं जायत इत्याह-- मेति ।

 मवर्णोच्चारणहेतुकं सकलशब्दार्थज्ञापकं हस्तगतपद्मं पञ्चाशत्सिरावृतम् ॥ ३३ ॥

 ताल्वोष्ठपुटव्यापाराधीनशब्दार्थविषयज्ञापकयावत्सिरासजातीयव्यापकं हस्तपद्ममाविर्भवतीत्यर्थः ॥

 जिह्वाग्रस्थितलालारूपरसादिज्ञापकं यवर्णदेवतात्मकं द्विसि रावृतजिह्वाग्रगतपद्मं मातुरङ्गात्स्रवीभूतरसबन्धनपद्मं गर्भाशये जायत इत्याह-- यवर्णेति ।

 यवर्णज्ञापकं रसबन्धनपद्मं द्विसिरावृतम् ॥ ३४ ॥

 सर्ववर्णज्ञापकहेतुभूतं लालारूपजलात्मकाविर्भूतं यवर्णदेवतात्मकं गर्भाशये जिह्वाग्रगतपद्मं जायत इत्यर्थः ।

 जिह्वाग्रस्थितपद्मपार्श्ववर्तिसरन्ध्रकाभ्यन्तररेफवर्णदेवतात्मकं मातुराहाररसपरिणामवशात् गर्भाशये जिह्वापार्श्वाग्रपद्मं जायत इत्याह-- रेफेति ।

 रेफवर्णोत्पादकमोष्ठपद्मं षोडशसिरावृतम् ॥
 लवर्णजनकं वाचस्पतिप्रदेशस्थं द्विसिरावृतम् ॥

 सकलवर्णोत्पादकवाचस्पतिप्रदेशगतमोष्ठपद्मं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं गर्भाशये दृश्यत इत्यर्थः ॥

 चतुर्विंशतिसिरात्मकलवर्णज्ञापकं तद्वर्णाधिष्ठितदेवतात्मकं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं नासिकाग्रगतपद्मं जायत इत्याह-- वेति ।

 ववर्णोत्पादकं नासिकाग्रगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ ३७ ॥

 गन्धवती पृथिवी सर्वद्रव्यनिष्ठगन्धं चतुस्त्रिंशत्सिरावृता जिघ्रन्ती गर्भाशयं प्रविश्य प्रादुर्भवतीत्यर्थः ॥

 एकैकसिरावृतं तालुद्वयगतपद्मं शवर्णोच्चारणहेतुभूतं आस्यप्रदेशं सम्प्राप्य श्रोत्रप्रदेशपद्मं भवतीत्याह-- शेति ।

 शवर्णज्ञापकं गन्धवहपद्मं द्विसिरावृतम् ॥ ३८ ॥

 द्विसिरावृतशवर्णदेवतात्मकं तालुद्वयपद्मं रसनेन्द्रियगतलालारूपजलजनकं व्याचष्टे-- षेति ।

 षवर्णोत्पादकतालुद्वयपद्ममेकैकसिरावृतम् ॥

 तालुप्रदेशाधारकद्विसिरागतपवनेन षवर्णं श्रोत्रेन्द्रियं प्राप्य ताल्वोष्ठपुटव्यापारसामग्रीसान्निध्ये भवतीत्यर्थः ॥

 पञ्चाशत्सिरावृतमक्षिपद्मं सवर्णाधारभूतं जायत इत्याह-- सेति ।

 सवर्णज्ञापकमक्षिप्रदेशगतपद्मं चतुःपञ्चाशत्सिरावृतम् ॥ ४० ॥

 तत्तज्जनाक्षिपद्मं सवर्णज्ञापकं गर्भाशये आविर्भवतीत्यर्थः ।

 सरन्ध्रकाभ्यन्तरद्विसिरावृतपक्षप्रदेशपद्मं आविर्भवतीत्याह-- हेति ।

 हवर्णोत्पादकं पक्षप्रदेशपद्मं द्विसिरावृतम् ॥

 मातुराहारादनाज्जातं हवर्णदेवतात्मकं जायत इत्यर्थः ।

 सरन्ध्रकाभ्यन्तरधरद्विसिरावृतळवर्णदेवतात्मकं अपाङ्गदेशपद्ममाविर्भवतीत्याह-- ळेति।

 ळवर्णोत्पादकमपाङ्गदेशपद्मं द्विसिरावृतम् ॥

 मातुराहाररसाज्जातं मातुरपाङ्गपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 एकैकसिरावृतं द्वात्रिंशद्दन्तपङ्क्तिपद्मं क्षवर्णदेवतात्मकं जायत इत्याह-- क्षेति ।  क्षवर्णज्ञापकं दन्तपङ्क्तिप्रदेशपद्मं त्रिंशत्सिरावृतम् ॥ ४३ ॥

 मातुराहाररसाज्जातं दन्तपङ्क्तिपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 पञ्चदशसिरावृतं कपोलपद्मं रवर्णदेवतात्मकं गर्भाशये प्रादुर्भवतीत्याह-- रेफेति ।

 रेफोत्पादकं कपोलपद्मं रवर्णदेवतात्मकम् ॥

 रेफदेवतात्मकं कपोलपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 आदिक्क्षान्तवर्णाधारकाङ्गपद्मं पादाद्यङ्गाधिष्ठितं वर्णोच्चारणप्रयत्नजातवर्णाद्यनुभवज्ञानविषयकताल्वोष्ठपुटव्यापारजातपवनप्रयत्नप्रेरिताङ्गज्ञापकवर्णज्ञानविषयकज्ञानवत्त्वात्, यन्नैवं तन्नैवं यथा घटः । स्वरितशब्दविषयकज्ञानं ताल्वोष्ठपुटव्यापाराधीनसंस्कारजातवर्णानुभवविषयकं ज्ञानेच्छाप्रयत्नजातवर्णानुभवज्ञानविषयकत्वात् यन्नैवं तन्नैवम् । इयं शब्दविषयप्रवृत्तिः इच्छाज्ञानविषयिका, समर्थप्रवृत्तिजनकत्वात्, यथा घटः । एतदनुमानचतुष्टयं सर्ववर्णानां तत्तदङ्गाधिष्ठितविषयकं भवति ।

 सरन्ध्रकाभ्यन्तरधरास्सप्तशतसिरा आस्यं च तत्प्रदेशमावृत्य ताल्वोष्ठपुटव्यापारभेदकर्मणां वर्णानां उत्पत्तिकारणं, तद्ज्ञानादिकर्मव्यतिरेकेण वर्णानि नोत्पद्यन्ते । अन्यथा वीणानादवत्तन्त्रीणां यावद्दुष्टताडनात्पवनेन नखजातकर्मणा तत्तद्वर्णजनकहेतुभूतत्वं भवतीति वीणायन्त्रशरीरे तत्तद्वर्णोत्पादकं तत्तत्प्रदेशस्थिततत्तद्वर्णजनकनिबन्धनं कृत्वा तावद्वर्णजनकाङ्गुष्ठ पुटघट्टनेन एतादृशवर्णनिमित्तमेतत् इति तज्जनकहेतुभूतकारणकर्मणां तज्जन्यशब्दानां व्याप्तिं गृहीत्वा तत्तद्वर्णजनककर्म करोतीति तत्तत्कारणानुगुणकार्यमेव उत्पद्यते । सरन्ध्रकाभ्यन्तरधरास्त्रिंशत्सिरावृतास्सन्तः हस्ताङ्गुष्ठताडनेन प्रेरिता रणत्सप्तस्वरादिभेदाः पृथक्पृथग्विभिन्नास्सन्तः श्रुतिमण्डलाः स्वरव्यक्तोत्तरोत्तरतारतम्यं भूत्वा हीनमध्यमोत्तमाः कर्मकरणात्तत्तदनुस्वरितस्वराश्श्रूयन्ते । तद्वदेव शारीरयन्त्रं विज्ञाय तत्तद्वर्णानां व्याप्तिं गृहीत्वा तत्तद्वर्णात्मकाः शब्दावच्छेदकप्रयत्नव्यापारकर्मकरणात्तत्तत्स्वराधिष्ठितवर्णात्मकाश्शब्दाः तत्तद्धेतुभूतसिराभिः श्रूयन्त इत्याह-- सिरेति ।

 सिरास्यदोषगतिजातशब्दः कर्णयोः प्रपद्यते ॥

 ननु शब्दगुणवदाकाशमिति आकाशस्यैव शब्दजनकत्वम् । कर्णशष्कुल्यवच्छिन्नाकाश एव शब्दो भासते, नान्यत्र । ताल्वोष्ठपुटव्यापारादिकं निमित्तकारणम् । न तावत्सिराणां समवायत्वं तासां शरीरावयवाकारजनकत्वम् । ता न शब्दबोधकाः । पावकस्य दुष्टत्वेन धातुपोषकत्वे भ्रमः । तस्मात्पूर्वोक्तरीत्या सुत्रव्याख्यानं न सङ्गतमिति । अत्रोच्यते-- आकाशस्यैकत्वेन अनेकवर्णभेदजनककार्यस्य सामग्र्यभावात् । शरीरान्तस्स्थितधातुसञ्चारितवायुः अत्र न विवक्षितः, किन्तु ताल्वोष्ठपुटव्यापाराङ्गाङ्गसङघट्टनाज्जातशब्दकार्यहेतुकपवनश्शब्दजनक इति वक्तुं शक्यते । ताल्वोष्ठपुटव्यापाराङ्गाङ्गसंसर्गाज्जातपवनात् योग्यं भवतीति । यावत्कालविषयकौपाधिकपवनजातशब्दान्तरारम्भकः कदम्बमुकुळन्यायेन वा वीचीतरङ्गन्यायेन वा शब्दान्तरं जायते । तस्माद्द्रव्यसंयोगजातपवनस्य समवायकारणत्वं वक्तुं शक्यते ।

ताल्वोष्ठपुटव्यापारो यत्र दृश्यते तत्रैव वातशब्दनिमित्तकशब्दो निगमेन श्रूयते । तस्मात्तयोस्संयोगः समवायकारणमिति द्योत्यते । ताल्वोष्ठपुटव्यापारहेतुककार्यस्यास्यसंयोगस्य सिरादीनां वर्णभेदस्य निमित्तकारणत्वं ज्ञाप्यते । वर्णभेदात् शब्दविषयकज्ञानभेदकार्यं विचित्रहेतुप्रतिपादकसामग्रीजन्यं कारणस्य क्रियाविशेषमात्रवैलक्षण्यतया विचित्रवर्णज्ञापकत्वमनुभूयते । सोऽनुभवः सामग्रीभेदाद्भवतीति देशतः कालतः घटनारूपकार्यविशेषतः सिरादिबाहुल्यसंयोगात् हीनाल्पतरोच्चरितस्वरादिवर्णभेदज्ञानं तत्सामग्रीभेदात् भवतीति यत्र यस्संबन्धवर्णः स एव वौसिष्टक ? इत्युभ्युपगमात् श्रोत्राकाशस्य व्यवधानसामीप्यदेशभेदजातमरिम्ना उच्चोच्चतरोच्चतमोच्चारणभेदात्तत्तद्वर्णात्मकशब्दभेदो ज्ञायते । शब्दभेदबोधकवाक्यं सिराभेदोद्भववर्णभेदबोधककार्यं च पक्षद्वयं गृहीतम् । साध्यं तु तदुच्चारणहेतुभूतवर्णभेदविषयकज्ञानपूर्वं सिरादिभेदजन्यवर्णविषकज्ञानात्मकत्वात् भेर्यादिशब्दवत् ।

 अत्र शारीरवचनं--

दोषधातुमलादीनां ऊष्मेत्यात्रेयशासनम् ।
तदधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता ॥
सैव धन्वन्तरिमते कला पित्तधराह्वया ।
आयुरारोग्यवीर्यौजो भूतधात्वग्निपुष्टये ॥

एतद्वचनानुसारेण तत्तत्प्रदेशोद्भववर्णज्ञापिका ग्रहणीकला । तत्तद्रसादनाज्जातवर्णादिभेदज्ञानं तत्तद्रसद्रव्यपाकज्ञातपोषकैककार्यविषयकं रसविरसादनजातदोषादोषज्ञापकं उच्चोच्चतरशब्दभेदविषयकज्ञानगोचरजनकत्वात् । तत्तद्रसाहाराद्रसजातफल कार्यं वर्णोच्चारणहेतुपूर्वकं तत्तद्वर्णग्रहणीकलाषोडशकैकफलमात्रकार्यत्वात् श्रोत्रान्तस्स्थितसिरासंबन्धकरणेन ग्रहणीकलायाः शब्दबोधककार्यहेतुकत्वं व्यपदिश्यत इत्यर्थः । पादपद्ममारभ्य कर्णशष्कुलीकृतपद्मपर्यन्तस्थितवर्णानां क्षेत्रान्तस्स्थितसिरासंबन्धकार्यकारणं सप्तशतसङ्ख्यापूर्वकानां सिराणां आवेध्यत्वं विधिरिति ज्ञाप्यते । किं च देहधारकाष्टाशीतिसिरा न वेध्याः सिरासङ्कीर्णग्रन्थिकृतक्षुद्रवक्रग्रन्थिषु स्थिताश्च रक्तविमोचनकरणे न योग्या इत्यर्थः । ग्रहणीकलायाः रोगाभावकार्यहेतुकत्वं अविरुद्धरसादनाज्जातकर्मानुसारेण पाचकपित्ताख्या ग्रहणीकला वातपित्तकफैर्जुष्टानुबोधिकानुस्वारान् सवर्णान् सुबलान् अकारादिक्षकारान्तवर्णान् स्वस्य चापरस्य च बोधयितुं समर्था भवन्तीत्यर्थः ॥

 यदि विरुद्धरसादनाज्जाताजीर्णात् अनिलोऽजीर्णः तथा सति दोषगतयो विरुद्धा विकारकाः सत्यः शरीरं पीडयन्ति । यत्तदुद्बोधकं रसादनानुसारेण विरुद्धबोधकत्वं विवर्णज्ञापकत्वं अबलत्वं स्वरहीनत्वं तत्तद्वर्णेषूपलभ्यते । तत्तद्वर्णाधिष्ठितस्थलं विकारभूतमिति विज्ञाय तत्तन्निवर्तककार्यकरणं विधिरिति ।

येनारोग्यं भवेद्यस्य भवेद्यत्तद्बलं तथा ।
तदेव भेषजं सौख्यं भवेत्तेनैव तत्तदा ॥

इति उक्तत्वात् । येन केन प्रकारेण तन्निवर्तनं कारयेदिदित्यर्थः । श्रोत्रोपलब्धवर्णात्मकशब्दः सिरान्यदोषगतिक्रियाजन्यहेतुवत् अन्याहेतुकत्वे सति तद्धेतुजन्यत्वात् घटवत् । एतदनुमानेन सर्ववर्णात्मकशब्दानां सिरान्यदोषगतिक्रियाजन्यत्वं भासते । त्रयाणां कारणत्वं सङ्घे सङ्घे शक्तिः न त्वेकैकस्येति प्रतिपादितम् । ननु सिराणां शरीरयन्त्रधारणप्रयोजककार्यहेतुकत्वं ब्रूमः । सशब्दोत्पादककार्यहेतुभूतत्वस्य अन्यथासिद्धत्वात् । दोषगतिप्रकोपेन च रोगसम्भवात् । तथा हि विरुद्धरसादनादजीर्णे सति यावत्कारणाधिक्यजाताः तत्तद्रोगकार्यहेतुकाः सशब्दोपलम्भकान्यहेतुकाः । तत्तद्रोगनिवृत्यर्थं तत्तत्प्रदेशसिरागतासृग्विमोचनेन तत्तद्धेतुभूतरोगनिवर्तनस्य दृष्टत्वात् । सिरान्यगतरोगस्य तन्निष्ठासृग्विमोचननिवर्तककार्यस्य कार्यकारणभावः सूच्यते । करणस्य क्रियाविशेषवैलक्षण्यमात्रप्रतिपादकत्वात् । तत्र वचनम्--

सिराविधिश्शल्यविधिश्शस्त्रक्षाराग्निकर्म च ।

इति । सूत्रवचनस्य सिरासृग्विमोचनरूपकार्यप्रतिपादकत्वाच्च न ते शब्दजन्यकार्यहेतुका इति । अत्रोच्यते-- विरुद्धरसादनाज्जातरोगनिदानभूतलक्षणात्तत्तत्सिराप्रबोधकवर्णनिष्ठविकारविरुद्धस्वराघोषवर्णात्मकानि लिङ्गानि विज्ञाय तत्तद्रोगनिवृत्त्यर्थं तत्तत्सिरागतदुष्टरक्तविमोचनमात्र एव चरितार्थत्वात् । तस्मान्नान्यथासिद्धिरित्यर्थः ।

 ननु वर्णप्रबोधकसिराः सप्तशतसङ्ख्याकाः । ता एव मर्मस्थानभूताः आवेध्या इत्युक्तम् । यत्र यत्र विकारे जाते तत्तत्प्रदेशस्थितसिरासृग्विमोचनं कर्तव्यमित्युक्तम् ।

शिरोनेत्रविकारेषु ललाट्यां मोचयेत्सिराम् ।

इत्यादिवचनानि बहूनि सन्ति । तत्तद्वचनानुसारेण तत्तत्प्रदेशस्थितसिरा वेध्याः । वेधार्हसिराणामवेधकत्वप्रतिपादनपरं सिरास्यसूत्रं व्यर्थं स्यादित्यस्वरसादाह-- रिक्तेति ।

 रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्याः ॥ ४६ ॥

 रिक्तास्सिरा ह्रस्ववर्णोच्चारणहेतुभूताः । अतिरिक्तास्सिरा (दीर्घ) वर्णोच्चारणहेतुभूताः । अतिपूर्णास्स्वरास्स्वरितप्लुतवर्णोच्चारणहेतुभूताः ।

 ननु तत्र सप्तशतसिराणां मध्ये अष्टाशीतिसिरा वर्णोत्पादकहेतुभूताः ह्रस्वसंयोगोच्चारणहेतुभूततत्तद्वेधविज्ञानविषयकज्ञानविषयानुभवप्रमापदवृत्तिनिमित्तकाः सुस्वराः अष्टाशीतिसिराजन्यपदविषयकप्रवृत्तिहेतुभूतत्वात् । ता न वेध्या इति ब्रुमः । ह्रस्ववर्णानामधोमुखास्सिराः तज्जनकहेतुभूताः सिरा रिक्ताः । अतिरिक्तास्सिराः संसर्गवर्णोत्पादकवक्रमार्गगाः । अतिपूर्णाः सिरा गतागतोद्बोधकप्रवर्तकपवनगतकार्यानुकूलसुस्वराः प्लुताश्च । तासां करणत्वं प्रतिपादितम् । करणस्य क्रियाविशेषवैलक्षण्यद्योतककार्यहेतुभूतत्वात् । सप्तशतसिराणां मध्ये अष्टानवतिसिराः सरन्ध्रकाभ्यन्तरधराः । ता एव रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्याः । कस्य चिद्देहभेदेन अष्टानवतिसिराः । काश्चित्सरन्ध्रकाभ्यन्तरधराः । सर्वेषामेकप्रकारकवर्णोत्पादकवर्णसमूहपदजन्यवाक्यानां तत्तच्छरीरावच्छेददर्शनात् । सप्तशतसिराणां मध्ये तादृशा एव नोत्पादका इति व्यवच्छेत्तुं वक्तुमशक्यत्वात् । तत्तच्छरीररूपविचित्रस्वरशब्दज्ञानविषयकः आत्मा प्रतिशरीरं भिन्नः सुखदुःखादिवैचित्र्यादिभेदेनोपलभ्यमानत्वात्, शब्दस्वरविचित्रवर्णाङ्गभेदद्रव्यगुणाधारकत्वात् । तस्मात्परोद्बोधकत्वसर्ववर्णप्रदात्मकानां ते वैचित्र्योपलम्भकत्वात् । सप्तशतसिराणां अवेधकत्वं वक्तुं विधेयाः सर्ववर्णानां भेदोद्बोधकाः । तस्मात्सप्तशतसिराणामधोमुखत्वं प्रतिपादितमित्यर्थः ।

"धन्वन्तरिस्तु त्रीण्याह सन्धीनां च शतद्वयम्"
एतद्वचनमारभ्य न हि धन्वन्तरिमते ।
"तदधिष्ठानमन्नस्य ग्रहणात् ग्रहणी मता ।
सैव धन्वन्तरिमते कला पित्तधराह्वया ॥"

 एतावत्प्रतिपादितार्थं सद्वर्णात्मकपदार्थप्रवृत्तिविषयकज्ञानगोचरज्ञानकार्योद्बोधकसिराः सप्तशतसङ्ख्याकाः ता न वेध्या इति ज्ञापनार्थं "सैव धन्वन्तरिमते" इति शारीरे प्रतिपादितम् । तदेवायुर्वेदप्रतिपादितार्थमिदमिति विविच्य दर्शनात् 'सैव’ इत्युक्तम् आमपित्तं पक्त्वा पाचककला सुप्रसन्ना सती तदधिष्ठानवर्णानां ज्ञापकत्वात् ग्रहणीत्यभिधीयते । अविरुद्धरसद्रव्यादनाज्जातकला प्रबला सती सुवर्णसुस्वरसुपदसुवाक्यबोधिका । कर्णशष्कुल्यवच्छिन्नाकाशस्य एतेन आयुरारोग्यतेजोधातुप्रतिपादिका भवतीत्यर्थः । अत्र सूत्रवचनं--

उन्मार्गगा यन्त्रनिपीडनेन
स्वस्थानमायान्ति पुनर्न यावत् ।
दोषाः प्रदुष्टा रुधिरं प्रपन्ना
तावद्धिताहारविहारभाक्स्यात् ॥

नात्युष्णशीतं लघुदीपनीयं रक्तेऽपनीते हितमन्नपानम् ।
तदा शरीरं ह्यनव[३]स्थितास्रमग्निर्विशेषादिति रक्षणीयः ॥[४]

 सव्याधिनिदानहेतुभूतस्य शब्दोच्चारणादवगम्य तद्व्याधिविधिरिति ज्ञानमुपलभ्य चिकित्सां कारयेदिति । यद्यन्तस्स्थितविकारं शब्दोच्चारणादेव ज्ञात्वा साध्यविधिं विज्ञाय कारयेदिति तात्पर्यम् । स्वरास्वरं जीर्णहेतुकसिराभिबोधककार्यं दुष्टासृग्विमोचनद्वारा सिराया हेतुत्वं प्रतिपादितमित्यर्थः । रिक्तातिरिक्ता तिपूर्णसिराणामवेध्यत्वज्ञापकं यादृशानां स्वरूपज्ञाने सति वक्तुं शक्यते तत्प्रयोजनमपि तथा । तस्मान्मर्माशयमज्ञात्वा तन्निषेद्धुमशक्यमित्यस्वरसादाह-- ता इति ।

 तास्सिरा मर्माशयगा रिक्ताः ॥ ४७ ॥

 रन्ध्रसञ्चारे पवनस्य योगाधारकत्वात् सरन्ध्रकायसिरावच्छेदनेन दोषप्रकोपो भवति । ता न वेध्याः । या सिरा अतिरिक्ताभ्यन्तरधरदोषसञ्चारार्थं अवकाशाभावद्रव्यत्वात् सरन्ध्रा सती अन्तरिन्द्रियं भूत्वा वर्तते सा सिरा न वेध्या मर्मस्थानतद्गुणहेतुभूतत्वात् । तत्प्रयोजनं यावद्वर्णमात्रोच्चारणं तदन्वयाधीनम् । तास्सिरा न वेध्याः । अतिपूर्णास्सर्वकालेषु पवनपूरितरन्ध्रेषु दोषसंचारहेतुभूताः श्रोत्राकाशस्य स्वभेदप्राप्योपकारकाः ताश्च मर्माशयगा इत्यर्थः ।

 ननु अष्टनवतिसिराणां मध्ये यत्र यत्र स्थाने यत्सिराश्रितवर्णदोषः प्रदृश्यते, किं च विरसादनाज्जातग्रहणीकलादौर्बल्येन तत्रस्थितवर्णदोषः गमनागमनमार्गनिरोधात्पवनादिषु विकारश्च प्रदृश्यते, तत्र तत्तद्वर्णोत्पादकसिराश्रयस्थलेषु तत्तद्धेतुभूतरसविरसजातरोगाः प्राप्नुवन्ति । शिरोऽस्थिविकारेषु सत्सु शिरोरोगा इति व्यवह्रियन्ते । सिराविकारेषु नेत्रदेशेषु सत्सु, तत्रायं नेत्ररोगवानिति व्यवह्रियते । कर्णदेशस्थितसिराविकारेषु सत्सु कर्णरोगवानिति व्यवह्रियते । तत्तत्सिराधिष्ठानस्थितदोषादयः विरसादनजातग्रहणीकलादौर्बल्ये तत्तदधिष्ठानस्थितसिरामार्गगमनाभावजातरोगाः गमनागमनक्षोभवशात् तत्तत्स्थानस्थितसिराविकारान् प्राप्नुवन्ति । तत्तद्विकारान् तावत्सिरा एव बोधयन्ति । तत्तत्प्रदेशाधिष्ठितत्वात्, तत्तद्देशोपाधिना शिरा रोग-नेत्ररोग-कर्णरोग-मुखरोग-नासिकारोग-जिह्वारोग-कण्ठरोग-बाहुरोग-हृत्कुक्षिरोग-अजीर्णाग्निमान्द्यादिरोग-गुल्मरोग-मेहरोग-ग्रहण्यतिसारार्शोरोग-श्वासरोग-रोमराजिप्रदेशोद्भवशोभपाण्डुरोग-अण्डजातरोग-जंघाजानुरोग-श्रोणिकटिप्रदेशोत्थितरोगबोधकसिरा एव तत्तत्प्रदेशेषु व्याधीन्संसृज्य तत्तत्पदेशस्थितसिरा एव व्याधीन् ज्ञापयितुं पवनगत्या तावत्सिरा एव तत्तद्व्याधिलक्षणानि विज्ञापयन्ति । तत्तद्रोगहेतुभूतविरसादनात् कलादौर्बल्यात् आमप्रकोपे सति तत्तद्रसाभिवर्धकरसा एव तत्तद्रोगनिर्वर्तका इत्याशयं मनसि निधाय "तास्सिरा मर्माशयगाः" इत्याह । ननु अष्टनवतिसिरास्सप्तशतसिरा रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्या इति प्रतिपादितम् । इदानीं सर्वरोगेषु तत्तद्विधिचोदितसिरागतासृग्विमोचनमेव रोगनिवर्तकसामग्रीति तत्कार्यापेक्षितत्वात् वेधार्हसिराणां प्रतिपादनं युक्तम् । तास्सिराः कीदृशाः ? तद्ज्ञानानन्तरं तत्प्रतिपादकं तदेव ज्ञातुमावश्यकमित्यस्वरसादाह--सिरेति ।

 सिरासृग्विभागविधिं ज्ञात्वा विमोचयेत् ॥ ४८

 सिरागतासृग्विमोचनमात्रविधिः । काश्चिदवेध्याः । तस्मात् वेध्यावेध्यत्वप्रतिपादनकर्मणः प्रस्तुतत्वात् तत्तत्सिरागतासृग्गतकार्यस्य तत्सिरागतासृग्गतरोगस्य निवृत्त्यर्थं सिरासृग्विमोचनं कुर्यादित्यर्थः । न च तत्तद्रोगनिवृत्त्यर्थं तद्धेतुकसिराभेदनं अवसरत्वात् मर्मस्थानाधिष्ठितसिराव्यतिरेकेण तद्धेतुकसिराभेदविज्ञानविषयकज्ञानं ग्रहीतुमशक्यमिति वाच्यम् । यत्र विरुद्धरसादनात् जाताजीर्णजन्यामया एव दोषविकारगतयो भवन्तीति तस्माद्दोषपचनपर्यन्तं लङ्घनं कार्यमिति । यत्र विरुद्धरसादना ज्जाताजीर्णजन्यामयविकारो विरुद्धधातुप्रभवो भवति तत्र तेनोच्चारितशब्दभेदात्सिरा विज्ञाय तत्स्थानगतवर्णविरुद्धमिदं वर्णमिति तद्वर्णजनकसिरास्थितिं विज्ञाय दोषधातुगत्याऽसृग्विकारो यत्र दृश्यते तत्र दुष्टाशयं विज्ञाय तत्तद्धेतुकसिराजालं च विज्ञाय तद्धेतुकृतामयाधिष्ठानस्थलं विज्ञाय सिरावेधनकर्मणां तद्धेतुजन्यामयो निवर्त्य इति "सिरासृग्विभागविधिं ज्ञात्वा विमोचयेत्” इति सूत्रमीरितमित्यर्थः । तत्सर्वमायुर्वेदद्वितीयप्रश्ने उक्तमित्यलमतिप्रसङ्गेन ॥

 ननु प्रजाजननहेतुभूतं वार्धिकद्रव्यमेव भवति । इत्थमेव प्रथमसूत्रे प्रतिपादितम् । यावद्विकारो यत्र दृश्यते तदानीमेव तन्निवर्तकेन स निवर्तितो भवतीति प्रतिपादितम् । यावद्विकारेऽपि लङ्घनेनैव निवर्तत इति कथं प्रतिपादितम् ? कथमेतत्सिरासृग्विमोचनेन कार्यमित्यस्वरसादाह-- नीरुजेति ।

 नीरुजावयवादीदृशौ पितरौ ॥ ४९ ॥

 तयोश्च सर्वावयवाः पुष्टास्सन्तः प्रजोत्पादका भवन्तीति तेषामवयवानां रक्तधातुविकारे सति प्रतिबन्धकं भवति । तदविकारकरणार्थमयं विधिरिति, तथा मातापित्रोरवयवाः अविकारफलं प्रयच्छन्तीति सूत्रमीरितम् ।

प्रसन्नवर्णेन्द्रियमिन्द्रियार्थान् इच्छन्त इत्याहतरक्तवेगम् ।
सुखान्वितं पुष्टिबलोपवर्णं विशुद्धरक्तं पुरुषं वदन्ति ॥

एतद्वचनानुसारेण पुरुषपदं मिथुनोपयोगिपदप्रतिपादकत्वात् स्त्रियमपि विषयीकरोति, प्रजाजनने उभयोरपि संयोगस्य हेतुत्वात् । ननु पूर्वोक्तरीत्या अरोगकार्यजन्यफलप्रदानमेव सिरासृग्विमोचनकर्मणः प्रयोजनमित्युक्तम् । एतेन तयोः कार्यकरण भावः प्रतिपादितः । मातापित्रोश्च शरीरविषयकशास्त्रविज्ञानजन्यकर्मणः फलं शरीरावयवदार्ढ्यकरणसामग्रीसम्पादनानुभवावयवावयवित्वं सम्पद्यते । तयोः स्त्रीपुरुषयोश्शुक्लं चार्तवं च तौ तथाभूतौ गर्भाशये पिण्डत्वेन प्रतिष्ठितौ । ताभ्यामेव बीजात्मकाभ्यामविकारभूताभ्यां प्रजाजननहेतुभूताभ्यां सत्वमाविर्भवति । तत्र शारीरवचनं--

शुद्धे शुक्रार्तवे सत्त्वः स्वकर्मक्लेशचोदितः ।
गर्भस्सम्पद्यते युक्तिवशादग्निरिवारणौ ॥

 ननु आमयकारकसिरागतासृग्विमोचनमात्रेण शुक्लार्तवौ । परिशुद्धावित्युक्तम् । न तावन्मात्रेण सङ्गच्छतेऽदुष्टाशयः । अविरुद्धदोषशुद्धेन्द्रियशुद्धानला एते वार्धिकद्रव्यादनाद्भाव्या एतत्सूत्रगतसिरागतदुष्टरक्तविमोचनमात्रादेव । इदानीं शुक्रार्तवौ बीजोत्पादकहेतुभूताविति पार्थिवद्रव्यादनं विना कथं भवेतामित्यस्वरसादाह-- शुद्धोति ।

 शुद्धाशयशुद्धदोषशुद्धानलशुद्धेन्द्रियगुणहेतुकपार्थिवद्रव्यैः प्रजाः प्रजायन्ते ॥ ५० ॥

 वार्धिकद्रव्यादनादेव सर्वाशयाः परिशुद्धा भवन्ति । इन्द्रियाणि चाविकारदोषाणि । तथा पञ्चानिलाश्च पञ्च पाचपित्तानि चादुष्टास्सन्तः लघुगुणकारकवार्धिकद्रव्यादनाद्भवन्ति । किं च सात्विकद्रव्यादनं सात्त्विकगुणहेतुकम् । राजसद्रव्यादनं राजसगुणकारकम् । तामसद्रव्यादनं च तामसगुणकारकम् । वार्धिकद्रव्यादनाज्जाताशयादिकं विना बीजोत्पादनं न भवतीत्यर्थः ।

 इदानीं शरीरजननकार्ये तत्प्रतिपादकसामग्री सम्पादनीया । सा आवश्यकी भवति । आशयाश्च दोषाश्च अनलाश्च इन्द्रियाणि च वार्धिकद्रव्यादनात्ते तु परिशुद्धास्सन्तः शरीरं पुष्णन्ति न ते शरीरोत्पादका इति आदौ शरीरोत्पादनकार्ये तदुत्पादकसामग्रीसम्पादनं विना कथं शरीरोत्पादनस्य आशयादीनां च सम्बन्धो घटते ? इत्यस्वरसादाह-- शुक्रेति ।

 शुक्रशोणितसन्निपातो योनिः ॥ ५१ ॥

 पुरुषजन्यं शुक्रम् । स्त्रीजन्यं शोणितम् । तयोर्हेतुभूतं योनिः । सानिपात्यं संसर्गहेतुभूतात्मकं तयोस्सान्निपात्यमभिधीयते । शुक्रस्य सर्वदा बीजोत्पादकत्वं वक्तुमशक्यम् । किन्तु आशयाः परिशुद्धास्सन्तः तथा प्रजाजननहेतुभूता भवन्ति । स्त्रीजन्यशोणितस्यापि तथैव । योग्यकालस्त्रीपुरुषसंयोगव्यापारहेतुभूतदिव्ययोनिदृढतरसंपर्कात् बीजाधारप्रदेशो गर्भाशय इति तज्जनकत्वस्य च सुप्रसिद्धत्वात् । योनावेव सत्वः गर्भस्सन् तदनन्तरं गर्भाशयं प्रविश्य विवर्धत इत्यर्थः । ननु अस्मिन्कार्ये आशयाः परिशुद्धा भवन्तु । तद्द्वारा शुक्रशोणिते अपि परिशुद्धे च तयोरेव बीजात्मकत्वात् । कथं तदेधते ? कथं विवर्धते ? कथं चेष्टाश्रयं चलनामकं चेति वक्तुं शक्यते ? इत्यस्वरसादाह-- योन्यामिति ।

 योन्यामाविरभूदजो विधिचोदितः ॥ ५२ ॥

 अजो जीवात्मा योनिं प्रविश्य गर्भाशये आविरभूत् अदृश्यत ।

 "रेतोमात्रं विजहति । योनिं प्रविशदिन्द्रियं गर्भो जरायुवृतः । उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रियम् ।" इति श्रुतेर्विद्यमानत्वात् ।

 ननु शुक्लशोणितसन्निपाते पिण्डे सत्वं प्रविश्य गर्भाशये यत्स्थितं तदेव शरीरम् । लक्षणं तु "पञ्चभूतात्मकं शरीरम्" इति । तत्पिण्डानां आविर्भावः केन कारणेन भाव्यः ? एवं गगनं नित्यद्रव्यम् । पृथिव्यादिचतुष्टयमनित्यम् । तत्र रूपद्रव्यग्राहकं तेजः । तत्तेजश्चक्षुर्गोलके स्थित्वा सर्वार्थान् पश्यति । तद्विषयकज्ञाने चक्षुः कारणम् । तज्जनकीभूतं च लवणरसद्रव्यं कारणम् । तद्विषयज्ञानकार्यस्य हेतुहेतुमद्भावप्रतिपादनं विना पञ्चभूतात्मकं शरीरमिति लक्षणं न सङ्गच्छत इत्यत आह--यावदिति ।

 यावदाहारानुगुणरूपवान् भवति ॥ ५३ ॥

 यावद्द्रव्यादनयावत्कार्यानुगुणानलादिद्रव्यं यावद्रसवद्द्रव्यादनजन्यस्वादुरसोद्भूतद्रव्यगुणकम् । रसनेन्द्रियविषयकं तच्च जिह्वाग्रवर्ति सर्वरसादिभेदं विविच्य गृह्णाति । स्वादुरसवद्द्रव्यादनजन्याल्पद्रव्याभिवर्धककार्यानुगुणकस्वादुरसवद्द्रव्ये स्वादुरसवद्विषयकज्ञानवानयमिति । यावद्द्रव्यादनजन्यस्वादुरसाभिवर्धकनासाग्रवर्ति घ्राणेन्द्रियं गन्धरसवद्ग्राहकं सर्वगन्धाभिव्यञ्जकपार्थिवद्रव्यविशिष्टगन्धवद्विषयकज्ञानवानयमिति । यावल्लवणरसद्रव्यादनजन्यानलाभिवर्धकचक्षुरिन्द्रियं नेत्रान्तर्गोलवर्तिरूपादिभेदविषयकज्ञानगोचरज्ञानवानयमिति । तिक्तरसद्रव्यादनजन्यपवनभूताभिवर्धककार्यानुगुणपवनं भूतद्रव्यस्पर्शवद्विषयकज्ञानगोचरज्ञानवानयमिति । एवमुक्तरीत्या पार्थिवादिचतुष्टयाभिवर्धककार्यानुगुणवद्द्रव्यं तत्तज्जिह्वेन्द्रियविषयकज्ञानगोचरज्ञानकार्यहेतुकं यावद्रसवद्द्रव्यादनजन्यं यत्तत्तदिन्द्रियविषयकज्ञानगोचरज्ञानहेतुकमिति प्रदर्शितम् । व्यतिरेकव्याप्तेः दृष्टत्वात् । तस्मादन्वयव्यतिरेकाभ्यां कार्यकारणभावो गृहीत इत्यर्थः । तदर्थं सर्वमनुमानप्रमाणेन विविच्य ज्ञाप्यते ।

 पृथिवीत्वविशिष्टद्रव्यं पृथिव्यसंयोगजन्यस्वादुरसवद्ज्ञान विषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति तद्विषयकज्ञानगोचरप्रत्ययहेतुकत्वात्, यन्नैवं तन्नैवं, यथा कालादिः ।

 अनलत्ववद्द्रव्यविशिष्टपृथिवीद्रव्यं आम्लरसवद्विषयकज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति आम्लरसवद्द्रव्यविषयकज्ञानगोचरज्ञानकार्यहेतुकत्वात्, यन्नैवं तन्नैवं, यथा कालादिः ।

 अब्द्रव्यविशिष्टानलत्ववद्द्रव्यं लवणरसज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति लवणरसवद्विषयकज्ञानगोचरज्ञानकार्यहेतुकत्वात्, यन्नैवं तन्नैवं यथा कालादिः ।

 गगनविशिष्टानलत्ववद्द्रव्यं तिक्तरसवद्ज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति तिक्तरसवद्द्रव्यविषयकज्ञानगोचरप्रत्ययकार्यकारणत्वात्, यन्नैवं तन्नैवं, यथा कालादिः ।

 अनलत्वविशिष्टानलद्रव्यं ऊषणरसवद्द्रव्यविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति ऊषणरसवद्द्रव्यविषयकज्ञानगोचरज्ञानकार्यहेतुकत्वात्, यन्नैवं तन्नैवं यथा कालादिः ।

 पृथिवीत्वविशिष्टानलद्रव्यं कषायरसवज्ज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति कषायरसवदर्थविषयकज्ञानगोचरकार्यदहेतुकत्वात्, यन्नैवं तन्नैवं, यथा कालादिः

 अत्र सूत्रवचनम्--

क्ष्माम्भोऽग्निक्ष्माम्बुतेजःखवाय्वग्न्यनिलगोऽनिलैः ।
द्वयोल्बणैः क्रमाद्भूतैः मधुरादिरसोद्भवः ॥

 नन्वस्यानुमानस्यानुमितिग्रहे सति व्याप्तिग्रहपूर्वकत्वं वक्तव्यम् । अत्रानुमितिस्वरूपंपृ--थिवीत्ववत्संसर्गद्रव्योल्बणजन्यस्वादुरसवद्द्रव्यविषयकस्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्ववद्द्रव्यविषयकज्ञानगोचरज्ञानत्वं अनुमितिरिति । तत्संसर्गजन्यस्वादुरसस्य रसनेन्द्रियविषयकज्ञानगोचरज्ञानकार्यत्वं, तयोर्व्याप्तिग्रहे सति अनुमित्युदयात् ।

 ननु धूमाग्न्योरिव कार्यकारणभावे गृहीते स्वादुरसस्य पाकदोषनिवर्तकत्वं वक्तुं शक्यते । तत्र धूमत्वावच्छेदेन कार्यकारणभावग्रहे स्वादुरसमात्रस्य व्याधिनिवर्तकत्वे उच्यमाने अतिप्रसङ्गात् इत्यस्वरसादाह-- यावदिति ।

 यावदारोग्यदा रसा निवर्तकाः ॥ ५४ ॥

 स्वाद्वम्ललवणतिक्तोषणकषायरसाः यावच्छब्दार्थबोधकाः ते रसा एव निवर्तकाः आरोग्यदा इत्यर्थः ।

 ननु सर्वशरीरिणां यदा व्याधयस्सम्भवन्ति तदानीमेव तेषां निवर्तकत्वं वक्तव्यम् । करणस्य तु क्रियाविशेषमात्रवैलक्षण्यतया तस्य फलायाव्यवच्छिन्नत्वनियमात् ।

वृथाऽपथ्यं न कुर्वीत वृथा भेषजसेवनम् ।

इति वचनानुसारेण व्याप्तिग्रहं वक्तुमशक्यत्वादित्यस्वरसादाह-- यावदिति ।

 यावदभ्यवहृतरसेभ्यो मातृजं पालयेत् ॥ ५५ ॥

 यावदभ्यवहृतरसेभ्यः यावद्भुक्तरसेभ्यः मातृजं मातृपिण्डं यावत्सप्तधातून् पालयेत् रक्षयेत् । रसेभ्यो जातधातूनां संरक्षणं कारयेदित्यर्थः ।

 ननु स्वाद्वादिषड्रसेभ्यः सप्तधातूनां रक्षणं कारयेदित्युक्तम् । तदेव ज्ञातुमावश्यकम् । अविरुद्धकषायरसादने वक्तव्ये सति कषायरसवद्द्रव्यादनस्य रसासृग्धातुप्रवर्धकपुरुषार्थस्य च हेतुमद्भावस्य सत्त्वात् तयोरेव कार्यकारणभावो नान्येषाम् । सप्तधातुप्रदत्वं तत्तज्जनकरसादीनां वक्तुं शक्यत इत्यत आह-- रेत इति ।

 रेतोऽधिकात्पितुः पुत्रो भवति ॥ ५६ ॥

 यदा पुरुषस्थितं तेजः गर्भे आविर्भवति तत्कालमारभ्य पुरुषविकारकार्यैकफलं सामर्थ्यं रसादयः प्रयच्छन्ति । माता स्वादुरसवद्द्रव्यादनकला स्वादुरसहेतुकशुक्लधातुप्रवर्धनं कुर्वन्ती अद्यात् । तस्मात्पितृसदृशः पुत्रो लभ्यते । "आत्मा वै पुत्रनामासि" इति श्रुतेर्विद्यमानत्वादित्यर्थः ।

 मातुस्स्वादुरसवद्द्रव्यादनजातशोणितस्यापि पिण्डं शरीराभिवर्धकम् । तेन स्वादुरसजन्यकार्यफलप्रदानस्य तस्य स्वभावत्वात् यावदन्तर्वत्नी पत्नी भवति तावत्कालं रसादयः पुरुषाणामिव स्त्रीणामपि धातुप्रदा भवन्तीस्याह-- रक्तेति ।

 रक्ताधिकान्मातुः पुत्रिका भवति ॥ ५७ ॥

 तच्छोणितस्यापि स्वादुरसजन्यत्वेन पिण्डं शरीराभिवर्धककार्यहेतुभूतं भवतीति तात्पर्यार्थः । रक्ताधिकप्रवेशनात् मातृसदृशः अतिरक्तप्रवेशनात् जातपिण्डे दृश्यते ।

मृद्वत्र मातृजं रक्तमांसमज्जासृगादिकम् ।
पैतृकं तु स्थिरं शुक्रं धमन्यस्थिकचादिकम्[५]

 सर्वमपि पैतृकं नाम मातुस्वादुरसवद्द्रव्यादनजातशुक्रमांसमज्जारेतआदिकं मातृरसाहारजातधातवस्सन्तः तत्रैव एधन्ते तथैव पितुस्स्वादुरसद्रव्यादनजाता अपि । पितृसम्बन्धिधमन्यस्थिकचादिकं तन्मिथुनकाले न जायते । किन्तु तथोत्पत्तिहेतुभूतमातुरेव शुक्लशोणितसन्निपातमात्रं तदानीमुपस्थितम् । तदनन्तरमेवाभिवर्धकं मातुः रसाहारादिकं न किमप्यन्यतरम् । यावच्छरीरोत्पत्तिपर्यन्तं आदिमध्यान्तजातरोगारोगैककारणमिति । तस्मात्तदारोग्यैकहेतुकं द्रव्यादनं प्रतिमासं प्रत्येकं निवर्तकं विधिरिति अत्र सूच्यते । पुत्रोत्पादनद्रव्यादनमपि पुत्रिकोत्पादनद्रव्यादनमपि द्वयोर्मिथुनकाले शुक्रशोणिते अपि समे स्यातां चेत्तत्र का गतिरित्याशङ्कायामाह-- द्विसम इति ।

 द्विसमो यत्र षण्डो भवति ॥ ५८ ॥

 अजो नाना जायते ॥ ५९ ॥

 पूर्वोक्तरीत्या मातृरसादनं तत्र हेतुरित्यर्थः । न जायत इत्यजः नानारूपवान् बहुरूपस्सन् स जीवः जायते इति सूत्रार्थः ।

 ननु इदमप्यनुपपन्नम् । एतदुत्पन्नपिण्डः अज इति प्रतिपाद्यते । रोगारोग्यैककारणप्रतिपादकसामग्रीकार्यं व्यर्थं स्यात् । तस्य अजन्यत्वमविनाशित्वं चोभयमपि स्वत एव सिद्धम् । आरोग्यकार्यहेतुभूतकारणप्रतिपादकशास्त्रमपि व्यर्थं स्यात् इत्यस्वरसादाह-- मासीति ।

 मासि मासि रजः स्त्रीणाम् ॥ ६० ॥

 मासे मासे स्रियः रजस्वला भवन्ति । तच्चतुष्टयदिवसपर्यन्तं स्पर्शयोग्या न भवन्तीत्यर्थः । पिण्डोत्पादकसकलसा मग्र्यां सत्यां अजो विधिचोदितस्सन् रजस्वलाशरीरं विशति । अजे आविर्भूते सति तावत्कालोपस्थितसामग्री सफला भवति । तत्सम्पर्कवशात् जीवस्य औपाधिकानित्यत्वं औपाधिकरूपत्वं अज्ञानित्वं आभासज्ञानवत्त्वं जीवात्मनि भासते । तथैव व्यवह्रियते-- वृद्धोऽयं श्यामोऽयं ब्राह्मणोऽयमिति । इदानीं अहं सुखी अहं दुःखीति एतादृशप्रत्ययानुपपत्त्या रजस्वलासंसर्गदोषवशात् जीवात्मनः कथं कर्म फलादेशं प्रयच्छति, औपाधिकसुखदुःखानुभवं प्राप्नोति न तु स्वतस्सिद्धमिति, अत्मत्वात् नित्यत्वाच्च औपाधिकसुखदुःखादिकं लभते न स्वतस्सिद्धमित्यर्थः । तस्य रजस्वलासम्पर्कदोष इति व्यपदेशः । तस्मात्सा चाण्डालीव न तां स्पृशेत् नाभिभाषेत । तत्र श्रुतिः--

 "तस्मान्मलवद्वाससा न संवदेत न सहासीत नास्या अन्नमद्यात् ब्रह्महत्यायै ह्येषा वर्णं प्रतिमुच्यास्तेऽथो खल्वाहुः अभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यं काममन्यत्"

 इत्यारभ्य

 "तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेत् अञ्जलिना वा पिबेत् अखर्वेण वा पात्रेण प्रजायै गोपीथाय "

 एतत्प्रतिपादितार्थः रजस्वलायास्संसर्गदोषमहिम्ना अभूत् । अत्र शारीरवचनं--

क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम् ।
पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी ॥
चतुर्थेऽह्नि ततस्स्नात्वा शुक्लमाल्याम्बरा शुचिः ।
इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम्[६]

इति शास्त्रानुसारेण "अजो नानारूपः पुरुरूप ईयते" इति सूत्रं सार्थकमित्यर्थः, बहुश्रुतिप्रतिपादकत्वात् ।

 चिरात्प्रजोत्पादकसकलसामग्रीसामर्थ्ये सति स जीवः ऋतुमतीं स्त्रियं प्रविश्य सुखदुःखाधिकं पापवशादनुभवति । तत्परिहारार्थं स्नानादि, तेन तत्परिहारो भविष्यतीत्याह-- चतुर्थ इति ।

 चतुर्थेऽह्नि स्नायात् ॥ ६१ ॥

 चतुर्थे दिवसे तत्पापपरिहारार्थं स्नानं कुर्यादित्यर्थः । तदनन्तरं इष्टदेवताभजनं गुरुदेवताभजनं देवब्राह्मणपूजनं प्रजानुग्रहार्थं देवताप्रार्थनं च कुर्यादित्यर्थः । अहं पुत्रकामिनी तत्संपदवाप्त्यर्थं पतिं व्रजामीति परिशुद्धा सती पतिसंसर्गं कुर्यादित्याह-- शुद्धेति ।

 शुद्धा पतिं व्रजेत् ॥ ६२ ॥

 सत्पुत्रावाप्तिर्भूयादित्यर्थः ॥

 ननु यथा स्त्री रजस्वला ऋतुमती जाता सती तत आरभ्य ब्रह्मचर्यादिव्रताचरणेन गर्भोत्पत्तिर्मे भूयादिति सङ्कल्प्य चतुर्थे स्नानं कृत्वा पतिव्रजनं विधिरित्युपलभ्यते । तद्दिनव्यतिरिक्तकाले मिथुने जाते सति गर्भोत्पत्तेरदृष्टत्वात् । तत्र पूर्वदिनकर्तव्यताकार्यमङ्गत्वेनाप्रतिपादितमिति न कोप्यनवसरः ॥

 ननु चतुर्थेऽह्नि स्नायादिति विधिः । तत्पूर्वदिनत्रयं व्रताचरणस्य विधेयत्वात् अदृष्टादिसकलसामग्र्यां सत्यां अविलम्बेन कार्योत्पत्तेर्दृष्टत्वात् चतुर्थदिनपर्यन्तं निरीक्षणस्य च प्रयोजकत्वात् तावत्कालाभावस्य उत्पत्तिरूपकार्याभावस्य हेतुमद्भावस्य दृष्टत्वात् चतुर्थेऽह्नि स्नानं कृत्वा पत्या साकं संसर्गकार्यस्य विधेयस्य बलत्वात् इत्यस्वरसादाह-- प्रजेति ॥

 प्रजाकामास्तावत्प्रयत्नं मिथुनं तावद्धेतुकम् ॥

 प्रजासम्पादनफलमवश्यं मे भूयादिति कामनया प्रवृत्तस्य पुंसः चतुर्दशदिनपर्यंन्तं निरीक्षणस्य को हेतुरित्याकाङ्क्षांयां तत्र हेतुं ब्रूमः-- रजस्वलादिनादारभ्य सप्त धातवः रक्तरूपेण स्रवन्ति । तदा स्त्रीणां सप्तमधातुप्रस्रावणं यतो लभ्यते पुन्निष्ठचरमधातुप्रस्रावणं एककाले योन्यां सन्निपातो यदि भवेत् तदानीमविलम्बेन कार्योत्पत्तिर्भविष्यतीत्यर्थः । पुंसस्तावत्कालनिरीक्षणं युक्तमिति चतुर्दशदिनपर्यन्तं सप्त धातवो रक्तरूपा भवन्ति तावत्कालयोग्यमिति । तथाहि चतुर्थे दिने चरमधातुप्रस्रावणस्य योग्यता । अहश्च रात्रिश्च एककालं एकैकधातुप्रस्रावणकालः यत्रोपलभ्यते तावत्कालो योग्यकाल इति । चतुर्थरात्रौ चरमधातुः स्त्रियः रक्तरूपेण स्रवति । तदानीमेव गर्भोत्पत्तिर्भवति यावत्कालं पुरुषधातुप्रस्रावणनियमो यत्रोपलभ्यते तत्र तावत्कालमुद्दिश्य त्रयोदशदिनपर्यन्तं योग्यं पक्षमात्रं गर्भाशयं प्रापयितुं योनिपद्मस्य विकसिताकारेण स्थितत्वात् । तत्रोभयोस्सान्निपात्यपर्यन्तं विकसितं भवतीत्यर्थः । सान्निपात्ये मुकुळीभवतीत्यर्थः । पक्षमात्रमुन्मीलनीभवति । पक्षमात्रं निमीलनीभवति । पक्षद्वयं मास इति "मासिमासि रजः स्त्रीणां[७]" । इति अत्र स्त्रीणां पक्षमात्रं रक्तस्रावे सति स दोषाय भवतीत्यर्थः । अत्र शारीरसूत्रवचनं-

ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रश्च निन्दिताः ।
एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका ॥
उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम्[८]

 इति शारीरसूत्रवचनानुसारेण युग्मदिनेषु पुत्रोत्पादकसामग्र्यां सत्यां पुत्रो भवति । तदन्यदिनेषु पुत्रिकाजनकसामग्र्यां सत्यां पुत्रिका भवतीत्यर्थ उपलभ्यते । तस्याश्चरमधातुरेव रक्तं भवति । तत्तच्छुक्लसान्निपात्यं यत्काले भवति स कालः पुत्रं पुत्रिकां च प्रयच्छति ।

घृतमाक्षिकतैलाभं सद्गर्भायार्तवं पुनः ।
लाक्षारसशशास्राभं धौतं यच्च विरज्यते ।
शुद्धशुक्रार्तवं स्वच्छं सरकं मिथुनं मिथः [९]

 गर्भोत्पादश्च रक्तविशेषे वक्तव्यः । तद्विशेषस्तु शुक्लविकार एव, सप्तधात्वात्मकं शरीरमिति सर्वसिराणां सप्तधात्वावृतत्वात् । स्त्रीणां शुद्धधातुरेतादृशरक्तरूपो भवतीत्यर्थः । पुरुषजननस्य हेतुः काल एव । किं स्त्रीजननस्यापि तदेवेत्यत आह-- द्वीति ।

 द्विचतुःषष्ठाष्टदशद्वादशेऽहनि जाताः पुत्राः तदितरेऽहनि जाताः पुत्रिकाः ॥ ६४ ॥

 ननु उत्पन्नपिण्डस्य पोषकस्वं वक्तव्यम् । तत्पोषकद्रव्यैर्भाव्यम् । तत्रापि कालविशेषो वक्तव्यः । स कालः पोषको भवतु । ननु शुक्लशोणितसन्निपाते जाते गर्भोऽपि भवति । तत्रैव मासे ऋतुमत्या च प्रदर्शितानि दृष्टानि गर्भचिह्नानि । तद्रक्षणार्थं प्रथमर्तौ पोषकद्रव्यं पाययेदित्यत आह-- प्रथमेति ।

 प्रथमर्तौ पोषकं निवर्तकम् ॥ ६५ ॥

 यदा गर्भलक्षणमपि जातं सैव च ऋतुमतीति दृष्टा, चिकित्सा तत्र पोषकद्रव्यादनं तत्र विधिः । द्वितीयमासे पोषकद्रव्यादनं तत्र प्रतीकारो भवति । एवं च दशमासपर्यन्तं पोषकशोषकचिकित्सा विहिता । तया गर्भं संरक्ष्य सुखेन पुत्रं सूते इत्याह-- तदिति ।

 तदूर्ध्वे ऋतौ शोषकं तदनन्तरमपि शोषकरसाः गर्भाभिवर्धका यावत्कालोपयोग्याः ॥ ६६ ॥

 यथायथोपयोगयोग्यकरणसेवार्हाणि अनिन्दितानि आरोग्यकार्यहेतुभूतानि आगामिरोगाभावकार्यकारणानि यावच्छक्तिदोषाकारकाणि विधिवद्विविच्य ज्ञाप्यते-- प्रथमेति ।

 प्रथमद्वित्रिमासेषु मधुररसाः पवनहरा निवर्तकाः ॥ ६७ ॥

 अम्ललवणरसोपलम्भकद्रव्याभ्यां विशिष्टं स्वादुरसवद्द्रव्यं अन्तर्वत्न्याः प्रथमद्वित्रिमासेषु प्रशस्तं भवति । एतदन्योन्यसंसर्गजातरसवद्द्रव्यं विरुद्धरसजातपवनप्रकोपरोगाङ्कुरहेतुकद्रव्यादनं पवनहरं सकलशरीरोपयोग्यं सकलजीवमात्रसाधारणम् । तत्तज्जातिविहितपदार्थास्सेव्या इत्यर्थः । तावत्कालमात्रं तावद्रसादनेन निवर्तकेन निवर्त्याः निवर्तयन्तीत्युक्तम् । तदितरकालेऽपि विरुद्धरसादनकार्यस्य सम्भावितत्वात् तत्रापि गर्भाभिवर्धकद्रव्यादनस्यावश्यकत्वात् यावत्कालोपयोग्यं यथायथं विधेयकार्यहेतुभूतान्यनिन्दितानि आगामिरोगाभावकार्यकारकाणि तावद्द्रव्याणि विविच्य प्रकाश्यन्ते-- चतुरिति ।

 चतुःपञ्चषट्सु मासेषु अम्लरसाः पित्तहरा निवर्तकाः ॥ ६८ ॥

 स्वादुलवणरसोपलम्भकद्रव्याभावविशिष्टाम्लरसवद्द्रव्यं गर्भिण्याः चतुःपञ्चषट्सु मासेषु पाययितव्यम् । एतदन्योन्याभावप्रतियोग्यभावद्रव्यं अम्लरसवद्द्रव्यं विरुद्धरसाहारजन्यपित्त प्रकोपजातकार्यहेतुकद्रव्याभावात् अन्यद्रव्यादनं सकलपितप्रकोपशमनं सकलशरीरारोग्यकारकं सकलजनोपकारकहेतुभूतं तत्तज्जातिविहिताम्लरसवद्द्रव्यं गर्भिणीं पाययेदित्यर्थः । तेनैव गर्भो वर्धते तत्तदङ्गप्रकोपकारणं भवतीत्यर्थः । अन्तर्वर्त्न्याः आरोग्यविषये यावत्साम्लरसवद्द्रव्याणां निवर्तकत्वं प्रतिपादितम् । तदितररसवद्द्रव्याणां प्रयोज्याभावेन तेषामप्रयोज्यत्वं भवेदित्यस्वरसादाह-- षष्ठेति ।

 षष्ठाष्टनवमासेषूष्णरसाः कफशोषकाः प्रवर्तकाः ॥ ६९ ॥

 षष्ठाष्टनवमासेषु स्वाद्वम्लरसोपलम्भकद्रव्याभावविशिष्टोष्णरसवद्द्रव्यं अन्तर्वत्न्यामयविषये तत्तद्द्रव्यादनं विधेयम् । तत्तदन्योन्याभावप्रतियोग्यभावद्रव्यं उष्णरसद्रव्यमिति । तद्विरुद्धा रसाहारजातकफकोपकार्यं द्रव्याभावद्रव्यादनं सकलकफदोषजातरुक्प्रकोपशमनकार्यं सकलशरीरारोग्यकारकं सकलजीवनोपकारकहेतुभूतं तत्तज्जातिविधिविहितोष्णरसवद्द्रव्यं गर्भिण्याः पाययेदित्यलम् ॥

 ननु वातपित्तकफदोषनिवर्तकत्वं षड्रसानामेव प्रतिपादितम् । उक्तरीत्या स्वाद्वम्ललवणरसवद्द्रव्याणां दोषत्रयस्थितविकारं निवर्तयितुमशक्यत्वात् "तत्राद्या मारुतं घ्नन्ति" इति वचनानुसारेण उपपादितविकारनिवर्तकत्वं स्वाद्वम्ललवणरसवद्द्रव्याणां प्रतिपादितं न तिक्तोषणरसवद्द्रव्याणामिति चेत् न; रसपाके तथ त्रयाणामेव प्रयोजकत्वप्रतिपादनात् तिक्तोषणकषायरसानां तत्रैवान्तर्भावात्, किंच अनिमित्ते निवर्तकद्रव्यस्याप्रयोजकत्वात् ।

न च तत्प्रागभावपरिपालनं निवर्तकं भवेदिति वक्तुं शक्यते, सर्वत्रापि तथात्वे अतिप्रसङ्गादित्यस्वरसादाह-- निवर्त्य इति ।

 निवर्त्यो विकारः ॥ ७० ॥

 निवर्तयितुं योग्यो निवर्त्यः, स विकारः । निवर्तकस्य विकारहरणं विचारणीयम् । सर्वव्याधिप्रागभावस्य सर्वदा विद्यमानत्वात् । तस्येदमिदमिति प्रत्येकावच्छेदेन तत्तन्निवर्तकत्वस्य निर्णेतुमशक्यत्वात् । तस्मात्तदा विकारे जाते सति तत्तन्निवर्तकत्वस्य निर्णेतुमशक्यत्वात् निवर्त्यो विकार इति सूत्रे प्रतिपादित इत्यर्थः ॥

 ननु विकारे सति स्वाद्वम्ललवणरसाः विकारप्रतिकारका इति पूर्वमेव प्रतिपादितम् । तच्चिन्त्यं, "निवर्त्यो विकारः" इत्यत्र रसाद्या निवर्तका न भवन्तीत्यस्वरसादाह-- आमेति ।

 आमवृद्विविकारस्सर्वरोगहेतुभूतः ॥ ७१ ॥

 अत एव यः पाचकपित्तेन तूत्पाद्यते सोऽनलः पक्वाशयगतार्थमेव पचति । तद्विरुद्धरसजन्मामयस्य मलाशयस्थितत्वात् । पार्थिवद्द्रव्यावयवोपाधिकरसोपलम्भकसुगन्धगुणभूयिष्ठपाकौपाधिकयोग्यस्वादुरसद्रव्यं पोषकद्रव्यं, अनलावयवाधिकलवणोष्णरसवद्द्रव्यलघुतूलिकावयवजातक्षारगुणकतदितररसवद्द्रव्यातिरिक्तद्रव्यं अद्रव्याधिकावयवस्नेहवद्द्रव्यं, स्वादुगुणभूयिष्ठपाके जठरानलप्रदं तिक्तज्ञानविषयकं यत् तत्पार्थिवद्रव्यम् । तत्पत्रभेदद्रव्येषु त्रिविधोपकारकत्वं, पुष्पफलभेदद्रव्येषु त्रिविधदोषोपकारकत्वं, फलभेदद्रव्येषु त्रिविधोपकारकत्वम् । तत्तज्जातिविधिविहितद्रव्याणि तत्तद्विकारप्रतिकारकाणीति तत्तल्लक्षणेषु शरीरेषु योग्यानीति विशेषितव्यम् । न तत्र स्थानांतरतत्तज्जातीय विकाराणां निवर्तकभावः । अन्वयव्यतिरेकसहचरगम्यत्वं यत्रोपलभ्यते तत्रायं नियमः । तदर्थं तत्तद्द्रव्यमित्युक्तम् । यावत्कालेषु तत्तत्कालोचितरसवद्द्रव्याणां निवर्तकत्वं नियमेन यत्रोपलभ्यते तत्रायं नियमः । तदर्थमुक्तं तत्तत्कालेति । यावन्तो रोगाः यावन्निवर्तककार्यविषयाः इति नियमेन कार्यकारणभावा यत्र दृश्यन्ते, ‘यत्सत्वे यत्सत्वं यदभावे यदभावः’ इति नियमेन व्याप्तिग्रहो यत्र तत्रायं नियमः । तदर्थमुक्तं तद्विषय इति । तत्तज्जातिविहितविकारेषु निवर्तका इति सूत्रार्थः । नानाजातिस्थरोगानिवर्त्या इत्युक्तम् । सर्वनिवर्तकज्ञाने सति तथा वक्तुं शक्यते । सर्वपदार्थस्वरूपस्य ज्ञातुमशक्यत्वादित्यत आह--निवर्त्य इति । निवर्त्यो विकारः । शोषकपोषकवार्धिकविषयकद्रव्यत्वावच्छेदकज्ञानगोचरज्ञानोपाय इति विज्ञाय सर्वपदार्थविषयकत्वात् पुष्पफलसारादिद्रव्यं तेषु अप्रयोजनम् । कषायचूर्णतैलघृतलेह्यरसायनयोगेषु तत्तद्विधिविहितद्रव्येषु तथोक्तत्वादिदं पथ्यापथ्यविधिविचारज्ञानविषयकद्रव्यादनयोग्यभोज्यक्रमं अग्रे प्रतिपादयिष्याम इत्यर्थः ।

 ननु पत्रपुष्पफलादीनां फलवत्प्रवृत्तिविषयकं कषायतैलचूर्णघृतलेह्यरसायनादिषु भिन्नप्रकारकं पानभोज्यद्रव्येषु तद्भिन्नप्रकारकम् । सर्वद्रव्याणां द्विविधोपकारकत्वं तच्चिन्त्यम् । सर्वजातिषु सर्वकालेषु सर्वद्रव्येषु सर्वव्याधिषु अनुस्यूतप्रकारकतावच्छेदकं एकैकस्यैवेति वक्तव्यम् । अन्वयव्यतिरेकप्रमाणाभ्यां यस्य कस्य कार्यकारणभावो गृहीतः तत्रैवोचितमित्यस्वरसादाह-- तत्तदिति ।

 तत्तद्द्रव्यं तत्तत्काले तत्तद्विषये तत्तन्निवर्त्येषु निवर्तकम् ॥ ७२ ॥

 यावत्पदार्था यावत्कालेषु यावद्रोगविषयेषु निवर्तकत्वेन कार्यकारणत्वेन यावज्जातिषु सन्ति तेषु तत्तज्जातिविहितपदार्था इत्यर्थः ।

 तदेव प्रतिपादयति-- निवर्तकमिति ।

 निवर्तकं भेषजम् ॥ ७३ ॥

 ननु निवर्त्यगुणविशेष्यत्वस्य विकारस्य निवर्तकत्वं ऊर्ध्वाधोविरेककरणमित्युक्तम् । तदनन्तरं यद्दोषहेतुकं भवति तज्जन्यदोषप्रकोपे सति तद्विरेचनकार्यमयोग्यं स्यादित्यस्वरसादाह-- दोषेति ।

 दोषत्रयहेतुकः ॥ ७४ ॥

 दोषत्रयकार्यस्य विरेचनकार्यस्य युक्तत्वात् तत्तन्निवर्तकत्वेन प्रतिपादयितुमशक्यमित्यर्थः ।

 यत्प्रतिपादनेन आमवृद्धेर्दोषजन्यत्वं प्रतिपादितं भवेत् इत्यस्वरसादाह-- सर्वेति ।

 सर्वजन्तूनामनामपालनं निवर्तकम् ॥ ७५ ॥

 सर्वभूतानां अनामपालनं पुरुषार्थः । दोषे प्रथममामविरेचनं करणीयम् । तथाहि-- आमप्रकोपे सति तन्निवृत्तिकरणं जन्तूनामनामपालनं पुरुषार्थकं भवति ।

 ननु अनामपालनं पार्थिवद्रव्यहेतुकं न भवति । तत् अल्पाहारादनं धातुपोषकं दोषोपकारकं च भवेदित्यस्वरसादाह-- वह्नीति ।

 वह्निप्रवर्धकद्रव्यं यावच्छरीरोपबृंहणजठरानलप्रवर्धकद्रव्यम् ॥ ७६ ॥

 धातुपोषकं वह्निप्रवर्धकत्वात् । येनैव अनामपालनमपि अभिवर्धते तेनैव तदेव पोषकं तदेव शोषकं च समशोषककरणपोषककरणम् । द्रव्यभेदे सति तद्वक्तुं शक्यते । वह्नि्प्रवर्धकद्रव्यादनमात्रेण चरितार्थत्वाभावात् । किं तु स्नेहवद्द्रव्यमिति वक्तव्यम्, तद्द्रव्यस्य शोषकार्यहेतुकत्वादित्याह-- तत्तदिति ।

 तत्तदर्थास्स्नेहयोग्याः प्रवर्धकाः ॥ ७७ ॥

 स्नेहवद्द्रव्यं वह्निप्रवर्धकपदार्थतावच्छेदकत्वेन एकप्रकारकत्वेपि स्नेहवद्द्रव्यादने पदार्थभेदसंबंधादित्यर्थः ॥

 निवर्तकपदार्था बहवस्सन्ति । तत्सर्वेषां प्रयोजकत्वं वक्तव्यं, तादृशसर्वद्रव्यादनस्य योग्यत्वात् । शुद्धद्रव्यं स्नेहेन साकं विपाच्य तत्पाचकस्नेहं शोषकपार्थिवकार्यं करोतीत्याह-- विशुद्धेति ।

 विशुद्धस्नेहमयं निवर्तकम् ॥ ७८ ॥

 अभोज्यद्रव्याणि रोगप्रतिपादककारकाणि बहूनि सन्ति । भोज्यद्रव्याणि रोगनिवर्तकानि बहूनि सन्ति । कानि चिद्द्रव्याणि पाके रसान्तरं भूत्वा तत्तद्रोगोपशमनं कुर्वन्ति । द्रव्याणि द्रव्यान्तरसंयोगे सति तत्तत्संयोगजन्यफलं प्रयच्छन्ति । बहुद्रव्यसंयोगे बहुफलं प्रयच्छन्ति । विरुद्धद्रव्यसंयोगे सति विरुद्धद्रव्यफलं प्रयच्छन्ति । तत्सर्वमालोच्य तत्तज्जातीयबहुद्रव्ययोगकरणं शुद्धं भवति । यथा यवक्षारहरितद्रव्यसंयोगेन स्वस्वरूपं विहाय रक्तरूपं भाति । द्रव्यं द्रव्यांतरसंयोगे सति तत्तद्द्रव्यविहिताधिकगुणं विधत्ते । यावद्द्रव्यसंयोगजन्यं विधत्ते । यद्द्रव्यसंयोगजन्यरसवद्द्रव्यं शुद्धमित्युक्तं । तादृशशुद्धद्रव्यैस्साकं पाचितं स्नेहपानाभ्यां सुपाचितं स्नेहगुणं प्रयच्छति । स्वाद्वम्ललवणविशिष्टयावद्द्रव्यसंयोगहेतुकं पवन दुष्कृतकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकरकर्मकारकं तावत्पाककर्मकरणाच्छुद्धं स्नेहं तावद्द्रव्यगुणदायकम् । अतिपाचितं सुपक्वपर्यन्तं पाचितम् । अतिपाचितस्नेहं निवर्तकमित्युक्तम् । पवनप्रकोपहेतुकयावद्रोगशोषकप्रतीकारहेतुकं निवर्तकम् । तत्तु शुद्धस्नेहम् | अपतर्पणं यत्र निवर्तकं भवति तत्रेदं वचनं--

जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे ।
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च ।
शान्तिरामविकाराणां भवति त्वपतर्पणात् [१०]

एतद्वचनानुसारेण शोषकद्रव्यहेतुकं कार्यम् । एतेन शोषकद्रव्याणां प्रयोजकत्वं प्रतिपादितम् । इदानीं शोषकं कथ्यते । तिक्तोषणकषायरसविशिष्टयावद्द्रव्यसंयोगहेतुकं कफरोगप्रतिकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकर्मकारकं यत्तत्कर्मणां यावद्गुणदायकं शुद्धस्नेहं भवति । अतिपाचितमत्यन्तपाचितं सुपाकपर्यन्तम् , तत्तु स्नेहद्रव्यं कफप्रधानरोगजालनिवर्तकम् । पवनजन्यरोगेषु क्वचिन्निवर्तकाः शोषकाः, क्वचिन्निवर्तकाः पोषका इत्यर्थः ।

 तस्य स्नेहस्य प्रयोजनमाह-- अङ्गेति ।

 अङ्गाङ्गसङ्गोऽङ्गविलेपनादङ्गाङ्गविभजनं विभाति ॥ ७९ ॥

अङ्गलग्नरोगाणां तत्तत्स्थलसंसर्गात् रोगो विनश्यति । अत्यन्तवेदनाभावादङ्गेषु लेपनमात्रादेव तन्निवर्तते । दोषसञ्चाराभावजास्थिकर्णनासादिसन्धिजीवनेषु विमर्दनपादघट्टनं सम्यक्कार्यम् । तेन सङ्कुचिताङ्गात्सम्यग्विकारो निवर्तते । गर्भाशयस्थपिण्डस्थसर्वाङ्गजनककार्यं मातुरङ्गहेतुकं, तदन्याहेतुकत्वे सति तद्धेतुकत्वात् । पिण्डाङ्गं मातुरङ्गजन्यमिति प्रतिपादितम् । पिण्डस्थितजठरानलकार्यस्य हेतोर्दृष्टत्वात्, तस्यापि मातुराहाररसजन्यत्वात् । पार्थिवाधिक्यद्रव्यादनात्पार्थिवाङ्गं भवति । अब्द्रव्याङ्गकार्यस्य अब्द्रव्याधिक्यद्रव्यादनं हेतुः । पिण्डस्थितजठरानलकार्यं तैजसद्रव्याधिक्यजन्यम् । तस्मादन्तर्वत्न्या घृतं पाययेदित्याह-- अन्तर्वत्न्येति ।

 अन्तर्वत्नीजन्यजातवेदा अन्तर्वत्नीघृतादनजन्यः ॥ ८० ॥

 अन्तर्वत्नीजन्यजातवेदा एव जठरानलो भवतीत्यर्थः ।

 प्रतत्रिणामङ्गाङ्गहेतुकत्वं अण्डानामङ्गजनकत्वं जठरानलस्यापि अण्डस्थितघृतमेव हेतुः । तत्तज्जातीयद्रव्यस्यापि गर्भाण्डजानां ईदृशकार्यकारणभावः प्रतिपाद्यत इत्याह-- खेचराणामिति ।

 खेचराणां जनयतस्सह सार्पिषा पक्षिशरीरे ॥

 तैजसद्रव्याधिक्याश्रिताः ऊर्ध्वमार्गगत्याश्रितत्वात्, अग्नेः प्रज्वलनवत् । तैजसाधिक्यशरीरादेव ते जीवा अण्डस्था एवाभिवर्धन्ते । अण्डोत्पत्तिहेतुभूतौ पवनानलाधिकद्रव्यशरीरात्मकौ तावेव पितरौ । तज्जातीयपिण्डानि स्वयमेवाभिवर्धन्त इत्यर्थः ।

 खगानां गगनवर्त्मारोहणं केन हेतुना प्राप्तम् ? पञ्चभूतात्मकं शरीरमिति लक्षणस्य सर्वसाधारणत्वात् । गमनागमनचलनात्मकं कर्म शरीरसामान्यमित्यत आह--आरोहणमिति ।

 आरोहणं गगनवर्त्मसु व्रजताम् ॥ ८२ ॥

 खगानामारोहणकर्म अनलानिलात्मकद्रव्यगुणाधिकशरीरत्वात् । खे गमनं सूक्ष्मार्थगोचरत्वं शीतोष्णसुखसहिष्णुत्वं च तेन लभ्यत इयर्थः ॥

 भूचरशरीराणां तु पार्थिवावयवाधिक्यशरीरत्वात् भूमिसञ्चारसहिष्णुत्वं स्नेहद्रव्यादनजातायुस्तेजारेतोधारणं भवतीत्याह-- घृतेति ।

 घृतप्लुतान्नादनाद्वायुस्तेजोरेतांसि दधाति ॥

 खेचराणां शरीराणां स्वतस्सिद्धधातुदार्ढ्यवत्त्वम् । भूचरशरीराणां तन्न रोचते धातुदार्ढ्यं । तत्तद्रसवद्दव्यादनजातौपाधिकधातुदार्ढ्यं न स्वभावतः प्राप्तत्वादित्यर्थः ।

 ननु घृतप्लुतान्नादनं आयुराद्यभिवर्धकमित्युक्तम् । तच्चिन्त्यं, अधिकघृतप्लुतान्नादनस्य अजीर्णकार्यहेतुकत्वात्, आयुस्तेजोरेतसां क्षीणत्वकारणं च, गुरुत्वकार्यस्य च प्रतीतत्वात् । यानि द्रव्याण्यजीर्णकारकाणि तानि तु क्षणत्वकारकाणि । एवमन्वयव्यतिरेकप्रमाणाभ्यां सिद्धत्वादित्यत आह-- योग्येति ।

 योग्यद्रव्योपयोगैरभिवर्धते ॥ ८४ ॥

 व्याधिनिवर्तकत्वं योग्यद्रव्याणां योगः, तन्निवर्तकरसवद्द्रव्यत्वं रोगाभावकार्यस्य निवर्तकत्वं, यद्द्रव्योपयोगनिवर्तकत्वं नाम रोगाभावकार्यस्य हेतुत्वमेव । अभिवर्धन्तामवयवा इत्यर्थः ।

 ननु इदमप्यनुपपन्नं, योग्यायोग्यद्रव्योपयोगकर्मकरणं यावद्रोगाभावकार्यहेतुकाप्रतियोगिकार्यफलप्रापकद्रव्यत्वात् यावद्रो गाभावकार्यस्य कारणत्वप्रतिपादनमात्रे पर्यवसितम् । तावद्रोगनिवर्तकं प्रति हेतुत्वं प्रतिपादितम् । न तद्गर्भसंरक्षणमात्रस्य हेतुत्वप्रतिपादकावस्थेयम् । अत्रेदं द्योत्यते-- पिण्डाभिवर्धककर्ममात्रं प्रतिपादितमित्यस्वरसादाह-- एधन्त इति ।

 एधन्तेऽस्मा ऋतवः ॥ ८५ ॥

 अत्र ऋतव इत्युक्ते षडृतूनां वार्धिकत्वं प्रतिपादितम् । इदं तु ऋतुप्रतिपादकप्रकरणं न भवति, किं तु गर्भाशयस्थपिण्डाभिवर्धककार्यस्य हेतुत्वप्रतिपादकावस्थेयम् । अत्रेदं न द्योत्यते, पिण्डाभिवर्धककार्यमात्रप्रतिपादकत्वात् । तथाहि-- ऋतुकर्मोद्देश्य ऋत्वभावकार्यहेतुत्वाभिवर्धककर्मादिविशिष्टकालज्ञापकत्वं ऋतुरिति । तादृशविशिष्टकालो गर्भाशयस्थपिण्डावयवाभिवर्धकद्रव्यादनादृत्वभावविशिष्टकार्या एधन्त इत्यर्थः ॥

 ननु ऋत्वभावविशिष्टकालाभिवर्धनेन कथं पिण्डावयवाभिवृद्धिः ? तद्योग्याभावकालस्य अदृष्टत्वादित्यस्वरसादाह-- अन्नेति ।

 अन्नाद्भूतानि जायन्ते ॥ ८६ ॥

 पिण्डाङ्कुराविर्भावहेतुकयावद्द्रव्यादनं ऋत्वभावकार्यहेतुकं भवतीति सोर्थोऽत्र विवक्षित इत्यर्थः । सर्वरसद्रव्यादनस्य सर्वेषामपि सम्भावितत्वात्, सर्वत्रापि कार्यस्यादृष्टत्वादित्यस्वरसादाह-- जातानीति ।

 जातान्यन्नेन वर्धन्ते ॥ ८७ ॥

 जातपिण्डाशयः पूर्वोक्तरसद्रव्यादनहेतुरिति प्रतिपादितमित्यर्थः ॥

 अन्नादनं शरीरदार्ढ्यकारकमिति अन्वयव्यतिरेकप्रमाणसिद्धत्वात् । 'यत्सत्वे यत्सत्वं यदभावे यदभावः' इति न्यायेन अन्नादने सति शरीरदार्ढ्यं तदभावे तदभाव न्यायनयसिद्धत्वात् । अन्यथासिद्धेश्च-- दिवा अभुञ्जानस्य देवदत्तस्य सत्वं रात्रिभोजनमन्तरेण न संभवतीति, तस्यापि रात्रिभोजनमन्तरेण सत्वं नोपपद्यते, स्वावयवव्यतिरिक्तपिण्डावयवाभिवर्धकं न भवति, अन्यसाधनस्य अन्यावयवाहेतुकत्वात् इत्यस्वरसादाह-- अद्यत इति ।

 अद्यतेऽत्ति च भूतानि ॥ ८८ ॥

 त्रिविधभूतानि । सात्विकराजसतामसद्रव्यादनात्तत्तद्गुणभूयिष्ठशरीराभिवृद्धिकारणत्वात्त्रिगुणात्मकं शरीरम् । भूतानि तत्तदभिवर्धकद्रव्यादुत्पद्यन्त इत्यर्थः ।

 उक्तार्थमुपसंहरति-- तस्मादिति ।

 तस्मादन्नं तदुच्यत इति ॥ ८९ ॥

 अन्नं धातुप्रदं पुष्टिदं अवयवाभिवर्धनकरं एतादृशगुणं प्रयच्छति । इतिशब्देन हेतुरुच्यते । रसवदन्नमवयवाभिवृद्धिं करोति । तस्मादन्नरसमयं उपसंहृतार्थं शुद्धरसवदन्नं प्राणमयं पिण्डावयवाभिवर्धकं तदुच्यत इत्यर्थः ॥

 अन्नं तु स्वनिष्ठ सगुणं प्रयच्छति, अवयवाभिवृद्धिकरणे सामर्थ्याभावात् । शुष्कान्नादनं विरुद्धफलं प्रयच्छति । कथमन्नं जीवातुरिति वक्तुं शक्यमित्यत आह-- घृतेति ।

 धृतप्लुतान्नमन्तर्वत्याः प्रदापयेत् ॥ ९० ॥  शुष्कान्नं विरुद्धफलं ददाति । घृतप्लुतान्नमेव कार्यकारकम् । तस्मादन्तर्वत्याः घृतप्लुतान्नं दापयेदित्यर्थः ।

 पुनरप्युक्तमर्थमुपसंहरति-- तस्मादिति ।

 तस्मात्स्वावयवविभवं धातुवर्धनं कुर्वत्यः प्रजाः प्रजायन्ते ॥ ९१ ॥

 घृतप्लुतान्नादनं अवयवाभिवर्धकमित्युक्तम् । यत्किंचिद्विकारे सति तन्निवर्तकेन निवर्तनीयम् । तद्धृतप्लुतान्नमेव निवर्तकमिति वक्तुं न शक्यते, गुरुद्रव्यत्वात् । तस्मादसङ्गतमित्यस्वरसादाह-- तदिति ।

 तच्छोषकपोषकद्रव्यं तत्र भेषजम् ॥ ९२ ॥

 विकारे सति शोषकपोषकद्रव्ये कार्यकारके भवतः । जातशिशोश्च प्रथमर्तौ प्रथमं शोषकद्रव्यजातरुजः शोषकद्रव्यं भेषजम्, पोषकद्रव्यजातरुजः पोषकद्रव्यं निवर्तकम् । एवं दशममासपर्यन्तं अन्योन्यं निवर्तकं भवति । गर्भस्थशिशोर्यावद्द्रव्यमभिवर्धकं भवति तावद्द्रव्यमात्रं भेषजमित्यर्थः ॥

 ननु गर्भस्थशिशुवज्जातशिशुरपि भेषजद्रव्यैः पोष्यते । प्रथमोत्पन्नशिशोः द्रव्यादनज्ञानं नैधते । मातुराहाररसाहारजन्यप्रतिकारकरसवद्द्रव्यादनभैषजकर्मणः पोषकद्रव्यत्वात् । तद्वदत्रापि पोषकद्रव्याण्येव हेतुरिति वक्तुमशक्यत्वादित्यस्वरसादाह-- एवमिति ।

 एवमुत्तरोत्तराभिवृद्धिर्मासे र्मासे ॥ ९३ ॥

 यावद्योग्यरसादनं पक्षीकृत्य किंचित्किंचिदेधितव्यम् ।

अवयवाश्च कालश्च देशश्चेति एतानुद्दिश्य तत्तद्योग्यद्रव्यं एधितं हितं निवर्तकं भवतीत्यर्थः । शोषकपोषकद्रव्यस्य इयं व्यवस्था कृता । एवं प्रतिमासं चिकित्साकरणं कर्तुमयोग्यम् । वर्धिष्णोः शरीरस्य वृद्धिकरणद्रव्यादनमेव योग्यमित्यस्वरसादाह-- यावदिति ।

 यावद्वार्धिकास्तत्र भेषजाः ॥ ९४ ॥

 वार्धिकद्रव्यमात्रं प्रशस्तं भवति । तथा चेदतिप्रसङ्गस्स्यात् । यावच्छब्दार्थमहिम्ना यावद्योग्यरसवद्द्रव्यादनं विवक्षितमित्यर्थात् । न केवलं यावद्वार्धिकद्रव्यं वृद्धिकारकं भवति, कालवशात् शोषककार्यगुणस्वभावत्वात् इत्यत आह-सर्पिषेति ।

 सर्पिषा पोष्यपोषकाः ॥ ९५ ॥

 यावद्वार्धिकद्रव्यं सर्पिस्संयोगानलपाकजन्यं संस्कारविशिष्टपाकरसवद्द्रव्यं कार्यकारकं भवति, स्नेहवद्द्रव्यसंयोगजन्यवार्धिकगुणप्रापकद्रव्यत्वादित्यर्थः ॥

 लङ्घनादिना दोषे क्षीणे सति धातुशोषे सति तत्र पोषकद्रव्यं कार्यकारकं "असौ पोषणकरो भवतीति" । तत्र शोषकद्रव्येण निवर्तककरणं अयोग्यमित्यत आह-- नेति ।

 न पोषककाले शोषकाः ॥ ९६ ॥

 पोषककार्यकरणयोग्यकाले शोषकद्रव्यकालोचितकरणं अयोग्यमित्यर्थः । ननु पोषकाश्च शोषकाश्च लोके व्यवहारयोग्याः षड्रसा एव । एकैकरसवद्द्रव्यस्य एकैकधातुपोषकत्वप्रयोजकत्वमागतम् । तावत्पोषकत्वस्य स्वत एव सिद्धत्वात् । रसवद्द्रव्यातिरिक्तद्रव्याभावादित्यस्वरसादाह--षड्रसा इति ।

 षड्रसास्सप्तधातुपोषकाः ॥ ९७ ॥

 रसासृजोरेकैकवत्कषायरसवत्पोषकतया जनयिता च ? तस्मादेकरसप्रधानत्वादित्याशयं मनसि निधाय षड्रसानां सप्तधातुपोषकत्वं वक्तुं सुकरमित्यर्थः ॥ तथाहि-- सप्तधातुगुणकं तस्योपकारकं, तेषां षड्रसपोषकत्वस्य स्वत एव सिद्धत्वात् । तस्मादिदमसङ्गतमित्यस्वरसादाह-- रस इति ।

 रसो ह्यसृक् ॥ ९८ ॥

 रसो वै सः ॥ ९९ ॥

 रसधातुरसृग्भवति एकरसजन्यत्वात् । अन्तस्स्थितस्सन् रक्तमित्यभिधीयते । स एव बहिर्गतश्चेत् स्वेदरूपेण स्रवति । तद्रसनेन्द्रियं ऊष्मणा बहिर्गतं भवति । रसो लालारूपः स एव रश्मिः । तज्ज्ञानवानात्मा । तद्विषयकज्ञानमानन्दहेतुकम् । रसनेन्द्रियज्ञानग्राहकज्ञानगोचरज्ञानं यस्यास्ति तस्यैवानन्दो भवतीत्यर्थः ॥

 द्विरसार्थ जङ्घयोः नासिकायाः शुद्धाशयं मासि मासि प्रथमर्तौ वृद्धिस्सर्वजन्तूनां योग्ययोगो नव ॥

इत्यायुर्वेदस्य द्वितीयप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसम्मतं प्रतिसूत्रव्याख्यानपूर्वकं
अयुर्वेदभाष्यं लोकोपकारकं संपूर्णम्.



  1. अष्टाङ्गसूत्रस्थान. XII. 4--5.
  2. अष्टाङ्गशारीर. III. 11.
  3. स्थितासृगग्नि.
  4. अष्टाङ्गहृदयम्, सू. ५२.
  5. अष्टाङ्ग. शारीर. III. 4-5

  6. अष्टाङ्ग. शारीर. I. 25-26.
  7. अष्टाङ्ग. शारीर. I. 7
  8. अष्टाङ्ग. शारीर. I. 27-28
  9. अष्टाङ्ग. शारीर. I. 18-19.
  10. अष्टाङ्ग. सूत्र. VIII. 19--20.