प्रमुखा विकल्पसूचिः उद्घाट्यताम्

आयुर्वेदे तृतीयप्रश्नः.


 ननु रसज्ञानं लब्ध्वाऽऽनन्दी भवतीति सूत्रव्याख्यानं कृतम् । तच्चिन्त्यं जीवात्मनां आनन्दानुभववत्त्वं, बाह्येन्द्रियाणां बाह्यार्थविषयकगोचरज्ञानं आनन्दहेतुकं न भवति, तद्विषयकज्ञानानुभवस्य इन्द्रियार्थसंयोगकालमात्रं आनन्दहेतुकं, तद्विनाशे सति तन्नाशात् । बाह्येन्द्रियविषयानुभवस्य तत्संसर्गनाशे सति तन्नाशात् इत्यस्वरसादाह-- अथेति ।

 अथ योगानुशासनम् ॥ १ ॥

 अथशब्देनानन्तर्यं सूच्यते । षड्रसवद्द्रव्यादनस्य शरीरदार्ढ्यकार्यहेतुत्वं सम्प्रतिपादितम् । तस्माद्दृढतरधातव आत्ममनस्संयोगसम्पादनार्थं हेतुभूतास्संतः तद्विषयकज्ञानानुभवानन्दं अन्तरिन्द्रियात्मसंयोगजन्यं भवतीति मनसि निधायाह जीवात्मनः परमात्मानुसन्धानमानन्दहेतुकं भवतीति ।

 ननु योगानुशासनमपि अजीर्णाभावसम्पादनार्थं कारणं भवतु । तथा सति आमनिवृत्तेरेव फलत्वात् अनिष्टपरिहारमात्रं फलं लभ्यत इत्यत आह-- तस्मादिति ।

 तस्माद्योगः फलदः ॥ २ ॥

 विषयानुभवो विषयानन्दहेतुकः । आत्मानुभवोऽप्यात्मानन्दहेतुकः, आनन्दहेतुककार्यस्य उभयोरपि समानत्वात् । योगानुशासनेन किमधिकफलं लभ्यत इत्याशङ्क्य अनित्यविषयकज्ञा नगोचरज्ञानजन्यकार्यमनित्यं भवति । आत्मनो नित्यद्रव्यत्वात् नित्यद्रव्यविषयकज्ञानगोचरज्ञानमेव आनन्दो भवति । अन्तरिन्द्रियस्य मनसः आत्मगोचरस्वभावत्वेन सर्वकाले आनन्दानुभवो लभ्यत इति आत्ममनस्संयोगस्यैव योगत्वात् योगः शाश्वतं फलं प्रयच्छतीत्यर्थः ।

 ननु परमात्मनो नित्यद्रव्यत्वाद्विभुत्वाच्च सर्वदा मनसः आत्मना समवेत्य स्थितत्वात् सर्वदा आनन्दानुभव एव भवेत् । इन्द्रियस्यार्थेन समवेत्य प्राप्यप्रकाशत्वनियमात् । तजूज्ञानगोचरज्ञानं आत्मनो विषयीकृतं भवतीत्यत आह-- प्रकृतीति ।

 प्रकृतिपुरुषान्तर्मुखज्ञानगोचरप्रत्ययप्रकृतिपरिणामो योगः ॥ ३ ॥

 प्रकृतिविशिष्टपुरुषं विषयीकृत्य अन्तरिन्द्रियेण मनसा गुणविशिष्टपरमात्मनि विषयीकृते सति बाह्येन्द्रियार्थविषयज्ञानविरामेण तादृशगुणविशिष्टपरमात्मानुभवस्य परमानन्दहेतुकत्वात् तद्विषयकज्ञानयोगः परिणामयोग इत्यर्थः । प्रकृतिपुरुषविशिष्टद्रव्यं यदा विषयो भवति तदा आनन्दानुभव इत्यर्थः । तथा सति विषयानन्दमुद्दिश्य प्रकृतिविशिष्टात्मविषयकज्ञानं परमानन्दहेतुकमिति सर्वदा अयमानन्दानुभवं विषयीकरोतु, किं बाह्येन्द्रियविषयगोचरज्ञानेन, अल्पानन्दानुभवहेतुकत्वादित्यत आह-- रज इति ।

 रजउद्रेकादस्थिरं बहिर्मुखात्सुखदुःखहेतु ॥ ४ ॥

 परमात्मा कंचित्कालं राजसगुणविशिष्टो भवति । कंचित्कालं सात्विकगुणविशिष्टो भवति । कंचित्कालं तामसगुणविशिष्टो भवति । यदा जीवात्मनि राजसादिगुणाः आत्मभावा भवन्ति तद्गुणविशिष्ट आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यप्रकाशत्वनियम इति न्यायस्य दृष्टत्वात् । राजसगुणसंस्पृष्टदोषवशात् आत्मानुभवं पिधाय बाह्यविषयकसुखमनुभूयत इत्यर्थः । यदा सत्वो जीवः तामसगुणविशिष्टो भवति तदा तामसगुणविशिष्टस्सन् दुःखानुषङ्गं सुखमनुभवतीत्याह-- तम इति ।

 [१]तमउद्रेकात्कृत्याकृत्याज्ञानात्क्रोधादिभिर्नियमितो मूढः ॥ ५ ॥

 तामसगुणाधिक्यात् कार्यविवेकज्ञानराहित्येन मूढमनाः क्रोधद्वेषादिभिः तद्विषयकज्ञानमनुभवति । ईषणत्रयविशिष्टतद्विषयकसुखमनुभूयत इत्यर्थः । यदा सत्वस्य सात्विकगुणाविर्भावो भवति, तदा धर्मप्रतिपादकवेदान्तशास्त्रेष्वासक्तः स्वधर्मशास्त्रप्रतिपाद्यकर्माचरणेन सुकर्मजन्यसुखमनुभूयत इत्याह-- सात्विकेति ।

 सात्विकोदयात्सुखम् ॥ ६ ॥

 [२]दुःखाभावसाधकशब्दादिप्रवर्तकं सात्विकम् । जीवः सात्विकगुणाविर्भावे सति तद्धर्मप्रतिपादककार्यकरणेन स्वर्गविषयकसुखं भुङ्क्त इत्यर्थः ।

 ननु जीवात्मनः कदाचिद्राजसगुणानुभवः, कदाचित्तामसगुणानुभवः, कदाचित्सात्विकगुणानुभवो दृश्यत इति प्रतिपादितम् । नियमेन त्रिगुणानुभवस्य को हेतुरित्याकाङ्क्षायामाह-- मधुरेति

 मधुररसान्नादनादनुसात्विकगुणहेतुकम् ॥ ७ ॥

 मधुररसविशिष्टमन्नं यो भुङ्क्ते स सात्विकगुणवान्भवति । स जीव औपाधिकगुणं भुङ्क्ते ।

 त्रिगुणा मधुराम्लकटुरसादनहेतुका इत्याह-- अम्लीति ।

 अम्लीभूतान्नादनं राजसगुणकारकम् ॥ ८ ॥

 कटुकास्तमोगुणहेतुकाः ॥ ९ ॥

 यस्य मधुररसे प्रीतिरास्ते स मुमुक्षुर्भवति । स इतररसान्नादनं विहाय मधुररसवद्द्रव्यं भुङ्क्त इत्याह मुमुक्षोरिति ।

 मुमुक्षोर्माधुर्यम् ॥ १० ॥

 मधुररसवद्द्रव्यं मोक्षहेतुः राजसतामसजनकरसाभावत्वे सति सात्विकगुणहेतुकरसवद्द्रव्यत्वात् । यो रसः सात्विकगुणप्रदो न भवति स मोक्षदोऽपि न भवति, कटुरसवत् । सर्वदा मुमुक्षुभिः माधुर्यरसः पानयोग्यो भवति सात्विकगुणहेतुकमोक्षफलप्रदो भूत्वा सात्विकगुणकारकत्वात् । सात्विकगुणस्य मोक्षहेतुकत्वाच्च ।

 ननु राजसगुणेन सुखानुभवे सति सुखहेतुभूतार्थतत्वज्ञाने सति सुखविषयकतारतम्यानुभवो भवति । नित्यानन्दानुभवं मोक्षहेतुकसुखं मधुररसजन्यम् । आम्लरसजन्यं राजसगुणविषयकसुखमनुभूयते । तस्माद्धेयोपादेयविवेकज्ञानं राजसगुणजन्यसुखानुभवव्यतिरेकेण मोक्षहेतुकज्ञानजन्यसुखं ज्ञातुमशक्यमित्यस्वरसादाह-- आम्लेति ।

 आम्लरसादनात्सुखमेकमनुभूयते ॥ ११ ॥

 अम्लरसजन्यसुखं दृष्टानुभवदेशदेहकालान्तरभाव्यमोक्षविषयकसुखं प्रत्यक्षानुभवमित्यर्थः । तस्मादिदमेव मुख्यमिति एकशब्देन ज्ञाप्यते ।

 सुखदुःखाभावप्रयोजकत्वं तद्दुःखानुभवं विना ज्ञातुमशक्यमित्यत आह-- उष्णेति ।

 [३]उष्णरसो दुःखानुषङ्गात्सुखं जनयति ॥ १२ ॥

 सुखानुभवो दुःखानुभवाभावस्य सुखत्वादित्यर्थः । ननु दुःखकार्यकारककरणजातदुःखं अनुभवैकनाश्यम् । सुखज्ञानं तु दुःखानुभवपूर्वकम् । सुखानुभवस्य दुःखाभावकार्यप्रतियोगिकाभावानुभवज्ञानपूर्वकत्वात् । दुःखानुषङ्गवत्सुखमपि दुःखहेतुकमपि भवति । सुखदुःखहेतुकार्यहेतुकसामग्रीपरिपालनमेव पुरुषार्थ एव फलं भवेदित्याशयं मनसि निधायाह-- तदेति ।

 [४]}तदा द्रष्टुस्स्वरूपावस्थानम् ॥ १३ ॥

 द्रष्टुरीश्वरस्य स्वरूपावस्थानं जगत्स्वरूपं यस्यास्ति, स ईश्वरस्तु जगत्स्वरूपो भूत्वा तिष्ठति । तस्य सुखानुभवस्य दुःखाभावकार्यप्रतियोगिकाभावानुभवस्यैव पुरुषार्थत्वात् । द्रष्टुः स्वरूपावस्थानं सुखदुःखानुरूपं भवतीत्यर्थः । तस्य जगत्स्वरूपशरीरं भोगायतनम् सुखदुःखानुभवो भोग इत्यर्थः ।

 ननु परमात्मन ईश्वरस्य निर्लेपनत्वात् निर्गुणत्वात् नित्यानन्दानुभववत्त्वात् तस्य सुखदुःखादिवैचित्र्यं कथं संभवति, शरीराधिष्ठानत्वस्य जीवात्मपरमात्मनोः समानत्वादित्यत आह-- सुखेति ।

 [५]सुखदुःखमोहात्मिकाद्यास्त्रयः प्रादुर्भवन्ति ॥ १४

 अहं सुखी अहं दुःखी कर्माधीनकर्मौपाधिकरूपः प्रकृत्यात्मकत्वात् । यदा जीवात्मनि आवृत्ते सति आत्मनः मायाशबलितत्वात् तावन्तो धर्मा उपलभ्यन्त इत्यर्थः । अत एव कर्माधिकारित्वं जीवात्मन उपलभ्यते । आत्मन एव मोक्षाधिकारिस्वादुरसन्नादनं तस्यैव लभ्यते । तज्जन्यसात्विकगुणो मोक्षोपकारको भवति । यदा आम्लरसादनं उपलभ्यते तदा राजसगुणाविर्भावो भवति । तेन केवलं सुखं भुङ्क्ते । कटुरसद्रव्यादनं यदा भवति तदा दुःखानुषक्तसुखमनुभूयत इत्यत आह-- तदिति ।

 तद्रजस्तद्धेतुगुणभूतजातम् ॥ १५ ॥

 तद्रज इति तच्छब्देन सत्वरजस्तमोगुणा विवक्षिताः । तेषां मध्ये प्रथमगुणरजोगुणकार्यं हि आम्लरसवद्द्रव्यम् । रजोगुणभूतस्य आम्लरसवद्द्रव्यं कारणं भवतीत्यर्थः । तत्तु सत्वगुणकार्यस्य स्वादुरसलवणरसजन्यत्वं तमंस्सत्वगुणयोः हेतुभूतादित्यर्थः । सूत्रे हेतव इति बहुवचनयोगस्य विद्यमानत्वात् तमस्सत्वयोरपि ग्रहणम् ।

 ननु उक्तरीत्या स्वाद्वम्ललवणरसानां योजकं सत्वरजस्तमोगुणजनकमात्रं प्रतिपादितम् । वातपित्तकफजन्यरोगाणां निवर्तकरसद्रव्यस्य अन्यथासिद्धत्वात् तन्निवर्तकद्रव्याद्धीनेन जन्यरोगाः कथं निवर्तन्त इत्यत आह--यथेति ।

 यथारोगनिवर्तकाः शोषकपोषकाः ॥ १६ ॥

 स्वादुरसवद्द्रव्यं सत्वगुणहेतुकम् । आम्लरसवद्द्रव्यं रजोगुणहेतुकम् । लवणोष्णरसवद्द्रव्यं तमोगुणहेतुकम् । न ते रोगनिवर्तकाः । किन्तु शोषकपोषकद्रव्यादनादेव अनेकद्रव्ययोगत्वेन बहुरसवद्द्रव्यं रोगनिवर्तकं भवेदिति वक्तव्यम् । रोगस्तु यदा आविर्भूतो भवति तदा सः अनेकामयाननुजायते । तत्र तद्रोगनिवर्तकेन अनेकरसवद्द्रव्यबाहुळ्येन भाव्यमित्यर्थः ।

 ननु अत्र सत्वरसवद्द्रव्यं वा रोगनिवर्तकम् ? यत्किंचिद्रसवद्द्रव्यं वा ? नाद्यः अतिप्रसङ्गात् । यत्किंचिद्द्रव्यादनमिति चेत् तदा एकरसवद्द्रव्यादनेनापि भाव्यम् । तथा सति अन्यथा सिद्धमिति अस्वरसादाह-- योग्येति ।

 योग्ययोगो योगः ॥ १७ ॥

 यावद्रोगानुसारिनिदानज्ञानं तत्तद्द्रसवद्द्रव्यनिदानज्ञानपूर्वकं अनेकरोगामगतरोगस्य बहुरसवद्द्रव्ययोगनिवृत्तिसामग्रीकत्वात् इति ।

ऋषिरेव हि जानाति द्रव्यसंयोगजं फलम् ।

भेषजकल्पवचनं तु--

देशकालानुगुण्येन सङ्गृहीतं यथाविधि ॥
स्थापितं भेषजं तैस्तैः कल्पनैरमृतायते ॥

यथारोगानुसारितत्तद्विधिचोदितरसबाहुळ्ययोगत्वं रोगनिवर्तकं भवतीत्यर्थः ॥

 ननु "आधिकं नैव दूष्यते" इति न्यायेन अनेकस्वादुरसवद्द्रव्यं वायुनिवर्तकम् । अनेकाम्लरसवद्द्रव्यमेलनं पित्तरोगनिव र्तकम् । अनेकलवणोष्णरसवद्द्रव्यं कफनिवर्तकम् । एतादृशयोगकल्पनमेव योग्ययोगो भवेदित्यस्वरसादाह-- चित्तेति ।

 चित्तविभ्रमो विपर्ययः ॥ १८ ॥

 यावद्रोगपित्तरसवद्द्रव्यमेळनव्यतिरेकेण योगकरणं विरुद्धयोगो भवति । तत्तु चित्तविभ्रमो भवति । चित्तं मनः । तयोरैक्येन रजतत्वाभाववति शुक्तौ रजतं यत्र भासते तत्र चित्तविभ्रमो भवतीत्यर्थः ।

 ननु रजतत्वप्रकारकज्ञानग्राहकसामग्रीविशिष्टपुरोवर्तिनं यदा विषयीकरोति रजतत्वप्रकारकज्ञानग्राहकसामग्र्या तद्विशिष्टमेव भासते हट्टपट्टणादौ । तथा दृष्टत्वात् । यावज्ज्ञानगोचरसामग्र्या अभावात् चित्तविभ्रमः कथं स्यादित्यस्वरसादाह-- अतदिति ।

 अतस्मिंस्तदिति प्रत्ययः ॥ १९ ॥

 यत्र रजतत्वाभाववति शुक्तौ रजतत्वं भासते तत्तत् । अतस्मिन् अन्यस्मिन् तदिति भ्रमो जायते । तत्र विकल्पः, तद्विषयकज्ञानग्राहकसामग्री तद्विशिष्टार्थमेव गोचरीकरोति, पुरोवर्तिग्राहकसामग्र्या सत्वादित्यत आह-- पित्तेति ।

 पित्ताधिकैकजातात्पीतश्शङ्खः ॥ २० ॥

 पित्तप्रकोपरसादनेन पितरोगोद्भवो भवति । तत्र काचकामालादिरोगवशात् श्वैत्यगुणविशिष्टपुरोवर्तिनि पीतगुणविशिष्टोऽयमिति ज्ञानं जायते, तत्तद्दोषवशात् । तच्च तद्दोषविरुद्धादनाद्भवति । तदा पीतश्शङ्ख इति ज्ञानं जायते ।

 ननु सर्वे व्याधयः दोषत्रयजन्याः । ते सर्वेऽपि तत्तद्द्रसादनजन्याः । अतः सूत्रे पित्तविरुद्धद्रव्यादनाच्चित्तविभ्रमो भवतीति यत्तच्चिन्त्यम् । श्वैत्यगुणविशिष्टे शङ्खे पीतोऽयमिति ज्ञानं भासते । तदयुक्तमित्यस्वरसादाह-- सेति ।

 सा प्रतीतिः पित्तविरुद्धाहारजन्या[६] ॥ २१ ॥

 भ्रमविषयकज्ञानं च पित्तजन्यम् । पीतश्शङ्ख इति ज्ञानं च शुद्धपित्तविरुद्धाहारजन्यम् । पवनपित्तरोगजनकविरुद्धरसजन्यत्वे सति तद्विरुद्धाहारजन्यत्वात्, यन्नैवं तन्नैवं यथा घटादिः ।

 ननु शुक्तौ इदं रजतमिति भ्रमविषयकज्ञानं जायते । पीतश्शङ्ख इत्यत्रापि तथा प्रतीयते । तदुभयं यावद्द्रव्यरसवद्द्रव्यादनजन्यनिवर्त्यभावकार्यहेतुभूतद्रव्यं तद्विरुद्धरसवद्द्रव्यादनकार्यहेतुपूर्वकं रसविरसजन्यरोगाभावकारकद्रव्यत्वात्, यन्नैवं तन्नैवं यथा घटः ।

 ननु यत्किंचिद्द्रव्यं विषयीकृत्य अत्यन्तनिरीक्षणात् पूर्वं प्रमाणत्वेनानुभूतमपि तत्रैव संशयो जायते । तत्र रसवद्द्रव्यादनं हेतुर्न भवति इत्यत आह-- अतीति ।

 [७]अतिनिरीक्षणे दोषप्रमायां संशयो भवति ॥ २२

 इन्द्रियार्थसन्निकर्षे सति तदर्थविषयकज्ञानं जायते । तद्विषये तत्रैव तत्काले अतिनिरीक्षणदोषवशाद्भ्रमो भवति । तत्रापि पूर्वजातरजतप्रमाविषयकज्ञानं अतिनिरीक्षणदोषजन्यं न संशयज्ञानस्य निवर्तकं भवतीत्यर्थः ।

 ननु यद्विरुद्धरसवद्द्रव्यादनं यावद्रोगहेतुकं तद्विरुद्धद्रव्यादनं तत्तद्रोगनिवर्तकमिति वक्तव्यम् । तथा सत्यमधुररसजन्यरोगाणां निवर्तको मधुररस एव भवति । यथा कदळीफलविरसजन्यरोगस्य अजीर्णस्य कदलीफलरसद्रव्यादनं निवर्तकमिति वक्तुमशक्यमित्यर्थः । किंतु आम्लरसाद्या निवर्तका भवेयुरिति तात्पर्यम् । यावद्द्रव्यादनज्ञानं यत्काले यथोपलब्धं तत्काल एव पूर्वदिनान्नापेक्षया लघुतरान्नादनं पथ्यं भवतीति तत्कालयोग्यद्रव्येण प्रथमदिनजन्यरोगस्य तत्कालोचितरोगाभावकार्यस्य प्रागभावपरिपालनं पुरुषार्थ इत्यर्थः ।

 ननु रसविरसान्नादनाज्जातप्रमाप्रतीतस्थले यथा घटज्ञानगोचरज्ञानानन्तरं तत्रैवातिनिरीक्षणेन चक्षुर्दोषवशात् तत्प्रतीतिविषयतद्विषयतात्कालिकसंशयः कथं स्यादित्यस्वरसादाह-- अत्यन्तेति ।

 [८]अत्यन्तानिमिषदृष्ट्या चक्षुरिन्द्रियदोषस्सम्भवति ॥ २३ ॥

 तद्दोषवशात् तत्प्रमा अतत्प्रतीतिविषयस्थले दोषग्रस्तेन्द्रियगोचरज्ञानजन्यप्रमायाः संशयज्ञानस्य अप्रतिबन्धकत्वात् तत्र संशयो भवतीत्यर्थः ।

न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् ।

एतद्वचनानुसारेण इन्द्रियातिलालनमेव अनिमिषदृष्टिरिति न संशयः । विरुद्धरसादनजन्यं न भवतीति विशेषदर्शनसामग्रीसंशयप्रतिबन्धकात् तन्निवर्तकरसादनसामग्री ? तस्य जनकत्वाभा वात् । यदा यस्य भ्रमो भवति तस्य राजसतामसगुणप्रतिपादकसामग्र्या भिन्नत्वादित्यस्वरसादाह रज इति ।

 रजस्तमोगुणहेतुकद्रव्यपरिणामकात् [९]पित्ताद्विभ्रमो भवति ॥ २४ ॥

 राजसगुणजनकाम्लरसविरसद्रव्यादनं तद्गुणप्रधानजनकभ्रमहेतुकम् । तामसगुणजनकलवणकटुरसविरसवद्द्रव्यादनं तद्गुणप्रधानजनकभ्रमहेतुकम् । तस्माद्भ्रमस्तु रसविरसजन्यः । संशयस्तु न तथाभूत इत्यर्थः ।

 ननु यत्संशयव्यतिरेकनिश्चयौ यत्प्रवृत्तिप्रतिबन्धकौ तन्निश्चयस्तद्धेतुरनुमितौ व्याप्तिरिवेति न्यायशास्त्रानुसारेण अनिमिषदृष्टिदोषवशादेव भ्रमज्ञानं सम्भवतीत्यत आह-- तदिति ।

 तद्विषये चाक्षुषाण्यनुभूतार्थेषु ॥ २५ ॥

 अन्येषां प्रमात्वेनानुभूतार्थे स एव विषयो यस्य तस्मिन् तद्विषये भ्रमो यस्य भवतीति स भ्रमो निवर्तकेन निवर्त्यः ।

 ननु इन्द्रियार्थसन्निकर्षानन्तरं अयं घट इति ज्ञानानुभूतार्थे जाते सति ममोत्पन्नं ज्ञानमप्रमाणमिति यो मानसिकभ्रमो जायते तद्यावद्रसवद्द्रव्यादनजन्यरोगग्रस्तेन्द्रियज्ञानगोचरत्वाभावादित्यस्वरसादाह-- यावदिति ।

 यावद्गर्भाशयस्थं पिण्डं तावद्द्रव्यपरिपालनम् ॥

 यावद्गर्भाशयस्थं मन इत्यर्थः । अस्मिन्मनसि चक्षुरिन्द्रियज्ञानगोचरघटविषयकमनसि अन्योत्पन्नज्ञानं अतद्विषयकं तदर्थप्रवृत्तौ न समर्थं प्रवृत्तिजनकत्वाभावात् भ्रमविषयकप्रमावत् ।

यावद्विरसद्रव्यादनजन्यरोगग्रस्तेन्द्रियगोचरभ्रमज्ञानं मनोविषयकं मानसिकभ्रमानुभवज्ञानगोचरसामग्रीविशिष्टत्वात् । तज्ज्ञानविषयकं पिण्डं तद्भ्रमनिवर्तकरसवद्द्रव्यादनपरिपालनम् । भ्रमविषयकं ज्ञानं तन्निवर्तकरसद्रव्येभ्यो [१०]रक्षणीयमित्यर्थः ॥

 ननु भ्रमोत्पादकविरसद्रव्यादनाभावकार्यहेतुभूतार्थादने सति अदोषास्सन्तः तत्तदिन्द्रियार्थसन्निकर्षे जाते सति तद्वति तत्प्रकारकत्वानुभवात् तत्र भ्रमो न जायते, संशयज्ञानजनकसामग्र्यभावात् । भ्रमप्रत्ययविषयगोचरार्थविषयकज्ञानगोचरज्ञानानुभवेन तस्य भ्रमाद्यभावविषयकत्वात् । तज्ज्ञानविषयकपिण्डस्य भ्रमसंशयज्ञानविषयकत्वेन यत्किंचिद्द्रव्यादनकार्यासंभव इत्याह-- अदोषेति ।

 अदोषजातपिण्डं [११]क्वचिन्निवर्तयेत् ॥ २७ ॥

 आशया दुष्टास्सन्तः इन्द्रियार्थसन्निकर्षे सति भ्रमविषयकमेव गोचरीकुर्वन्ति । तत्साधारणज्ञानविषयकस्य अदोषग्रस्तेन्द्रियविषयकज्ञानगोचरत्वादित्यर्थः ॥

 निमित्ते हि पथ्यं भेषजम् ॥ २८ ॥

 ननु निमित्ते सति रोगो जायते । तत्रैव पथ्यं कार्यम् । तत्र लघ्वन्नादनं पथ्यम् । तथाच यदा आशया दोषदुष्टा भवन्ति तत्र हीनादने आशयानां रिक्तत्वमस्तीति वक्तव्यम् । 'रिक्ते वायुः प्रकुप्यते’ इति सूत्रार्थानुसारेण तत्र वायोः प्रबलत्वात् सम्यग्गत्याशयाभावत्वाच्च इन्द्रियाणि सविकाराणि भवान्त । तत्र पथ्यं भेषजमिति सू्त्रं न सङ्गतमित्यस्वरसादाह-- यावदिति ।

 यावदाहारपरिणामजाताः क्लिष्टाः ॥ २९ ॥

 यावद्दिनभोजनमपि आशयानां क्लेशकारकम् । हीनभोजनमपि आशयानामतिक्लेशकारकम् । तदुभयमपि पथ्यं न भवतीति कृत्वा सूत्रमेव आक्षिपतीत्यर्थः ॥

 क्लिष्टाः क्लेशाः, अक्लिष्टा अक्लेशाः ॥ ३० ॥

 क्लिष्टाः क्लेशा भवन्ति । अक्लिष्टा अक्लेशा भवन्तीत्यर्थः ॥

 ननु हीनभोजनाज्जातरोगस्य अतिभोजनमपि पथ्यं न भवति । अतिभोजनाज्जातरोगस्य हीनभोजनमपि पथ्यं न भवति । उभयोरपि निवर्तकं वक्तुं न शक्यत इत्यस्वरसादाह-- यावदिति ।

 यावत्प्रस्तुतमहरहर्भेषजम् ॥ ३३ ॥

 अहरहर्भुक्तानामजीर्णाभावकरणेन आशयानां भुक्त्तत्वं यत्र भाति । आशया निर्दुष्टास्सन्तः यत्रेन्द्रियाणामरोगत्वप्रतिपादनं तावद्गोचरज्ञानमेव तद्वति तत्प्रकारकत्वं वक्तुं शक्यत इत्यर्थः ॥

 ननु आशयेषु रिक्तेषु वातप्रकोपो भवतीति पूर्वं प्रतिपादितम् । इदानीमपि यावद्रोगाणां प्रस्तुतत्वं नाम आमाशयस्य भुक्तकरणत्वं वक्तव्यम् । तथा सति प्रत्यहं रिक्तकरणत्वं न योग्यमित्यस्वरसादाह-- यावदिति ।

 यावदुद्भूतशोषकगुणजाता रुजः [१२]तत्तदुद्भूतपोषकद्रव्यं तत्र भेषजम् ॥ ३२ ॥

 यावत्कार्याणां कारणीभूतरसवद्द्रव्याविर्भूतशोषकद्रव्यजातरुजां निवर्तकीभूतनिष्ठपोषकद्रव्यं तावद्रोगाणां भेषजं निवर्तकं भवतीत्यर्थः ॥

 पूर्वसूत्रस्यास्वारस्यं निस्सारयन् आह-- आमेति ।

 [१३]आमनिस्सरणकार्यं कर्तव्यम् ॥ ३३ ॥

 प्रत्यहं आमनिस्सरणकार्यं कर्तव्यमिति बोद्धव्यम् । "मम आमवृद्धिः जाता" इति ज्ञानानन्तरं आमनिस्सरणकार्यं विधिरिति ज्ञापनार्थं आमनिवृत्तिकरणमेव "प्रत्यहं मम आमवृद्धिर्जायते" इति यस्य ज्ञानमस्ति तादृशं प्रति इदं भेषजं भवतीत्यर्थः ।

 ननु शोषकद्रव्यादनजातरोगाणां पोषकद्रव्यं तत्र भेषजमिति वक्तुं न शक्यते । शोषकद्रव्यादनं नाम शुष्कद्रव्यादनम् । तेन अजीर्णे जाते सति तन्निवृत्यर्थं लङ्घनमेव कर्तव्यम् । तत्र निवर्तकीभूतपोषकद्रव्यं भेषजं भवतीति रुक्प्रदर्शनानन्तरं लङ्घनेन दोषप्रकोपनिवृत्तिं कृत्वा धात्वभिवृद्ध्यर्थं पोषकद्रव्यं तत्र भेषजं भवतु, आदावेव रुक्प्रदर्शने जाते प्रथमत एव पोषकद्रव्यप्रदानेन दोषाः प्रकुपिता भवेयुरित्यस्वरसादाह-- यावदिति ।

 यावद्धात्वङ्कुराभिवर्धकद्रव्याभावजातरोगाः तत्पोषकसंस्कारयुक्तस्नेहादयो निवर्तकाः ॥ ३४ ॥

 किंचिद्विरुद्धरसद्रव्यादनज्ञानेन रोगाविर्भावात्पूर्वमेव तन्निवर्तकेन निवर्तयितुं सुकरमेव । तद्द्रव्यान्नादनादेव निवर्तयितुं शक्यते । अन्यथा रोगाङ्कुरे जाते सति तन्निदानहेतुभूताङ्गाविर्भावपर्यन्तं निवर्तकेन ते निवर्त्या भवेयुः । धातुषु व्याध्यङ्कुराविर्भावकार्याभावकारणाज्जातरुजः तत्र पोषकद्रव्ययुक्तस्नेहादयो निवर्तकाः । अन्यथा तत्पोषकद्रव्ययुक्तस्नेहाद्याः तद्द्रव्यैस्सहिताः तत्पानाभ्यङ्गावलेपनात् व्याधीन्निवर्तयन्तीत्यर्थः ।

 ननु सर्वेषां सर्वपदार्थादनस्य प्रस्तुतत्वात् सर्वद्रव्यादनं रोगहेतुकं भवति । यावद्रोगाणां यावद्द्रव्याणां कार्यकारणभावे ज्ञाते सति इदं व्याधिहेतुकं द्रव्यं इदं व्याधिनिवर्तकं द्रव्यं इति तयोर्व्याप्तिग्रहे सति तथा वक्तुं शक्यते । सर्वत्रापि तथाप्यननुभवेन तयोर्व्याप्तेरभावादित्यस्वरसादाह-- मातुरिति ।

 मातुराहाररसाहारजनितावयवस्थितरसाः प्रवर्तकाः ॥ ३५ ॥

 तत्र शिशूनां स्तन्यपानादनेन यावद्धातुषु व्याध्यङ्कुराविर्भावकार्याभावकरणाज्जातरोगाणां तन्निवर्तकीभूताः शोषकपोषकादयो मातुः रसाहारपरिणामेन सर्वरोगप्रागभावपरिपालनम् । स्तन्यपानेन अरोगास्सन्तः "शतायुः पुरुषश्शतेन्द्रियः" इति रोगकार्यप्रतिबन्धकस्य विद्यमानत्वात् निवर्तकनिवर्त्यानुमितौ व्याप्तिर्गृहीतुं शक्यत इत्यर्थः ।

 ननु मातुराहाररसाहारजन्यावयवस्थितरसा वा आमयनिवर्तका इति प्रतिपाद्यन्ते । विरसादनेन मातुर्विकारे जाते सति तत्र पयस्स्थितरसाः अनिवर्तका भवन्ति प्रवृत्त्यादिहिता इत्यस्वरसादाह-- अविकारमिति ।

 अविकारं निरीक्ष्यैनां मातृजं पाययेत् ॥ ३६ ॥

 मातुस्स्तन्यपानं शिशोरामयनिवर्तकं न प्रवर्तकं यदा भवति तदा एनां मातरं रोगनिवर्तकद्रव्येभ्यः अविकारो यथा भवति तथा कुर्वन् तज्जन्यशिशून् मातृजं स्तन्यं पानयोग्यं पाययेदित्यर्थः ।

 शिशोः पोषकशोषकद्रव्यमपि प्रवर्तकं भवति । केवलं स्तन्यपानमात्रं न प्रवर्तकमित्यत आह-- योग्येति ।

 योग्यद्रव्येण च तान्पोषयेत् ॥ ३७ ॥

 योग्यद्रव्येणैव च तान् पोषयेत् । मातृस्तन्यपानादिना अजीर्णे जाते न स्नेहद्रव्यं तत्र प्रयोजकं भवति । तत्तद्रोगोपयोगयोग्ययोगयुक्तं घृतं च तैलं च निवर्तकं भवतीत्यर्थः । तदेव योग्यद्रव्यमिति तात्पर्यम् । तान् शिशून् प्रत्यहं पोषयेदित्यर्थः ।

 ननु मातृस्तन्यपयः तज्जन्यशरीराणां रोगग्रस्तानां तत्पयो निवर्तकं भवतीत्युक्तम् । इतः पूर्वं षड्रसवद्द्रव्याणां निवर्तकत्वं प्रतिपादितम् । इदानीं मातृस्तन्यमेव सर्वव्याधीनां निवर्तकं भवतीत्युक्तम् । तथा चेत् षड्रसवद्द्रव्याणां निवर्तकत्वं न स्यादित्यस्वरसादाह-- यावदिति ।

 यावत्स्तन्यपाः तावद्बालकाः स्तन्यपानम् ॥

 स्तन्यपानं शिशूनां धातुपोषकं अन्नादनाहेतुकत्वे सति रसवद्द्रव्यपोषकहेतुकत्वात् । अन्नादनं तु न धातुपोषकं अन्नादनायोग्यधातुपोषकत्वात् पोषकद्रव्यजन्यत्वाच्च इत्यनुमानविधया मातृजन्यपयसां शिशोर्धातुपोषकत्वं अन्वयव्यतिरेकप्रमाणसिद्धम् । यावत्स्तन्यपानोपजीव्यं शिशोश्शरीरमिति । सर्वदा मातृपुत्रत्वमात्रं शिशुत्वज्ञापकं न भवतीत्यर्थः । मातुरजीर्णेजाते सति तच्छिशोस्तदजीर्णवशात् तत्सदृशा आमयास्सम्भवन्ति । तत्प्रतीकारस्तु केन कारणेन भाव्यः । तेषां शिशूनां चूर्णघृततैलादीनामसंभावित्वात्, अयोग्यत्वाच्च । तत्तदामजन्यामयानां तत्तद्विधिविहितेन निवर्तयितुमशक्यत्वात् इत्यस्वरसादाह-- बालेति ।

 बालयोग्यनिवर्तकं कुर्यात् ॥ ३९ ॥

 स्तन्यपानाहारोपजीव्यकार्यविशिष्टबालामयानां निवर्तकं ब्रूमः । तन्निवर्तकं रेचकप्रसाध्यम् । मातुराहारजातस्तन्यपानेन अमितत्वेन जातरुज उभयशरीरजन्यत्वात् । प्रायश आमप्रवृद्ध्या तत्तद्विरेचकं सुकुमारद्रव्ययोग्यकर्मकरणात् तत्तद्व्याधीनां निवर्तकमित्यर्थः ।

 ननु चाक्षुषप्रतीतिजन्यप्रमाप्रतिबन्धकलवणोष्णरसवद्द्रव्यसंशयविभ्रमौ चक्षुरिन्द्रियदोषजन्यौ । तन्निवर्तकैस्तु कथं निवर्तत इत्यत आह-- श्रोत्रेति ।

 श्रोत्रेन्द्रियाच्छब्दज्ञानम् ॥ ४० ॥

 श्रोत्रेन्द्रियजन्यशाब्दप्रमाप्रतिबन्धकतिक्तरसवद्द्रव्यादनं तत्संशयव्यतिरेकान्वयौ यज्ज्ञानप्रमाप्रतिबन्धकौ ।कषायतिक्तमधुररसाः परिशुद्धास्सन्तः निवर्तका भवेयुरिति वक्तव्यत्वात् । तथा सति रसनेन्द्रियविषयकरसज्ञानजन्यप्रतीतिप्रतिबन्धकसंशयविभ्रमौ केन कारणेन निवर्तनीयावित्यत आह-- रसनेति ।

 रसनेन्द्रियजन्यभ्रमादामविरसदोषादिकैकरसात्संशयविभ्रमौ भवतः ॥ ४१ ॥

 रसनेन्द्रियजन्यशुद्धरसज्ञानप्रतिबन्धकौ स्वादुरसवद्द्रव्यादनविभ्रमादिहेतुकौ यत्संशयव्यतिरेकनिश्चयौ यावदिन्द्रियज्ञानगोचरप्रमाप्रतीतिप्रतिबन्धकौ तद्विरुद्धद्रव्यादनं तद्धेतुरित्यर्थः ।

 घ्राणेन्द्रियविषयकगन्धज्ञानजन्यप्रमाप्रतिबन्धकसंशयविभ्रमौकेन हेतुना निवर्त्येते इत्यत आह-- घ्राणेति ।

 घ्राणेन्द्रियाद्गन्धप्रतीतिस्तथा ॥ ४२ ॥

 घ्राणेन्द्रियजन्यशुद्धगन्धज्ञानप्रमाप्रतिबन्धकाम्लरसवद्द्रव्यादनं भ्रमसंशयहेतुकम् । तन्निश्चयस्तद्धेतुरित्यर्थः ॥

 श्रोत्रेन्द्रियविषयकशब्दज्ञानजन्यशाब्दप्रमाप्रतिबन्धकसंशयभ्रमौ कथं निवर्त्येते इत्यत आह-- श्रोत्रेति ।

 श्रोत्रेन्द्रियाच्छब्दज्ञानं तथा ॥ ४३ ॥

 श्रोत्रेन्द्रियजन्यशाब्दप्रमाप्रतीतिप्रतिबन्धककषायविरसद्रव्यादनं शाब्दिकसंशयभ्रमहेतुकं भवतीत्यर्थः ।

 त्वगिन्द्रियविषयकस्पर्शज्ञानजन्यप्रमाप्रतीतिप्रतिबन्धकतिक्तरसवद्द्रव्यादनं तत्संशयभ्रमजनकम् । यत्संशयव्यतिरेकनिश्चयौ प्रतिबन्धकौ तन्निश्चयस्तद्धेतुरिति न्यायेनैव निश्चय इत्यर्थः ।

 त्वगिन्द्रियविषयकज्ञानप्रमाप्रतीतिप्रतिबन्धकदोषनिवृत्त्यर्थं पोषकाधिक्यशोषकद्रव्ययोग्यकारणं तन्निवर्तकं भवतु । पोषकद्रव्याणां निवर्तकत्वं स्वादुद्रव्ययुक्तयोगकरणं यस्य भेषजं निवर्तकं भवति तदेव त्वगिन्द्रियमित्यत आह-- शोषकेति ।

 शोषकद्रव्याधिक्यजातासृक्प्रतिबन्धकपवनानलगतिजातदोषविषयकविपर्ययज्ञानं प्रमाप्रतिबन्धकहेतुकम् ॥ ४४ ॥

 ननु पञ्चेन्द्रियविषयकज्ञानं प्रतिबन्धकरुङ्निवर्तकं भवतु । पोषकद्रव्ययोगार्थशोषकद्रव्ययोगकरणं कथं भवेदित्यस्वरसादाह-- सार्द्रमिति ।

 सार्द्रद्रव्यं तत्र भेषजम् ॥ ४५ ॥

 सार्द्रद्रव्यं नाम अप्पयश्च मूत्रं च मधु च तैलं च घृतं च, इदं सार्द्रद्रव्यं भवति । एतद्योगकरणं विशिष्य ज्ञाप्यत इत्यर्थः ।

 ननु पोषकद्रव्ययुक्ताल्पशोषककल्पकद्रव्ययोगं भेषजं निवर्तकं भवेदिति प्रतीयते । इदानीं केवलं सार्द्रद्रव्ययोगकरणेन किं फलं भवेदित्यस्वरसादाह--सस्नेहमिति ।

 सस्नेहमार्द्रं कार्यम् ॥ ४६ ॥

 स्नेहयुक्तद्रव्यं निवर्तकमिति यथोच्यते तथा पोषकद्रव्याधिक्यजातपार्थिवद्रव्यं चूर्णीकृत्यावपेत् । तत्पाककरणेन निर्द्रवं यथा भवति तथा अग्नौ विपाच्य तत्पानलेपनाभ्यङ्गावगाहनात्तत्तज्जन्यपञ्चेन्द्रियविषयकप्रमाप्रतिबन्धकं निवर्तयितुं तदेव भेषजं भवतीति न वक्तव्यम् । तत्र प्रत्यक्षप्रमाणेन संशयभ्रमयोर्निवारणस्य शक्यत्वात्, इत्याशयं मनसि निधाय प्रत्यक्षप्रमाणस्वरूपं विविच्यते-- चाक्षुषेति ।

 [१४]चाक्षुषप्रतीतीतरजन्यभिन्नविषयकज्ञानप्रमा प्रमाणम् ॥ ४७ ॥

 चक्षुरिन्द्रियविषयकज्ञानानुभवे सति तदभाववति तत्प्रकारकत्वं तज्ज्ञानस्य यथा विषयो भवति तथा जाक्षुषप्रतीतिजन्येतरत्वं तद्भिन्नविषयकज्ञानं प्रमाणमिति ताद्दशप्रमाणेन भ्रमनिवृत्त्यां सत्यां तन्निवर्तकभेषजं विना तत्प्रमाणस्य ज्ञातुं शक्यत्वादित्यर्थः ।

 ननु कामिलारोगग्रस्तचक्षुषः अस्मिन् शङ्खे पीतविषयकज्ञाने जाते शङ्खः श्वेतः शंखत्वात् इत्यनुमानप्रमाणेन न पीतत्व भ्रमः, निवर्तके पुरोवर्तिनि पीतत्वानुभवस्य बलवत्त्वादिति तत्तद्दोषराहित्यमेव भ्रमसंशयप्रतिबन्धकं भवेदित्यत आह-- निर्दोषेति ।

 निर्दोषचक्षुस्तत्र जनकम् ॥ ४८ ॥

 तद्वति तत्प्रकारकत्वं दोषरहितचक्षुषा गृह्यत इत्यर्थः ।

 ननु भूयोदर्शनेन धूमाग्न्योर्व्याप्तिग्रहे सति धूळीपटलं दृष्ट्वा यत्र वह्निभ्रमो जायते तत्र पूर्वानुभवव्याप्तिग्रहस्य अदोषविषयकत्वात् बाह्यज्ञानविषयकज्ञानगोचरसामग्रीविरहादेव भ्रमो जायते । तद्भ्रमस्य दोषजन्यत्वं न वक्तव्यमित्यस्वरसादाह-- चक्षुरिति ।

 चक्षुर्गृहीतलैङ्गिकज्ञानं प्रमाणम् ॥ ४९ ॥

 निर्दोषचक्षुषा भूयो भूयः धूमं दृष्ट्वा वह्निं पश्यति, यत्र धूमस्तत्राग्निरिति । तत्र दोषजनकरसवद्द्रव्यादनं न कारणम् । तदभावेऽपि भ्रमदर्शनात् । बाह्येन्द्रियविषयज्ञानगोचरसामग्रीवैकल्यादेव भ्रमो जायते । तत्र रोगोत्पादकसामग्र्या अदृष्टत्वात् । भ्रमसंशयौ रोगोत्पादकसामग्रीजन्यौ भ्रमजनकसामग्रीजन्यत्वात् । तत्र विरसजन्यरोगोत्पादकसामग्र्या नियमेन दृष्टत्वात् । आगमप्रमाणेनापि भ्रमनिवृत्तेः भ्रमो निवर्त्य इत्याह-- भ्रमेति ।

 [१५]भ्रमाभावजनकमाप्तवचनमागमः ॥ ५० ॥

 आप्तवचनजन्या प्रमा स्वदोषजन्यप्रमाप्रतिबन्धिका न भवति । आप्तवचनस्य भ्रमाभावप्रतीतिजनकत्वात् । तस्माद्रसविरसजन्यदोषहेतुना इन्द्रियगोचरभ्रमविषयकज्ञानं प्रत्यक्षेण वा अनुमानेन प्रमाणेन वा आगमप्रमाणेन वा दोषजन्यभ्रमज्ञानं निवर्तते । तत्र दोषाणामेव कारणत्वप्रतिपादनादित्यर्थः ॥

 ननु धूळीपटलं दृष्ट्वा धूमभ्रमो यत्र भवति तत्र दोष एव हि कारणम्, न तत्प्रमाजनकसामग्री । तथा सति दोषोत्पन्नकाले दोषसामग्रीसत्वात् सर्वत्रापि भ्रम एव स्यादित्यत आह-- दोषेति ।

 दोषजन्यज्ञानविषयको विपर्ययः ॥ ५१ ॥

 विपर्ययज्ञानमात्रस्य दोषजन्यत्वात् पीतश्शङ्ख इति भ्रमस्थले श्वैत्यानुमानं भ्रमनिवर्तकं भवतीत्यर्थः । ननु शुक्तीन्द्रियविषयकसंसर्गानन्तरं शुक्तिविषयकज्ञाने जाते सति अहं शुक्तिविषयकज्ञानवानिति प्रतीतिर्भवति । तदनन्तरं तत्रैव अन्यस्य भ्रमो जायते । अन्यपुंसः अतस्मिन् तदिति ज्ञानमुत्पन्नमिति अन्येन वाक्ये प्रयुक्ते सति शक्तिज्ञानानुभवाद्देवदत्तस्य च शब्दज्ञानानन्तरं ममोत्पन्नं शुक्तिज्ञानं प्रमाणं वा न वेति पूर्वानुभूतविषयिकायां देवदत्तस्य च शुक्तिज्ञानविषयकप्रतीतौ विकल्पो जायते । तद्भ्रमज्ञानं रसविरसजन्यरोगहेतुजं न भवतीत्यस्वरसादाह-- शब्देति ।

 [१६]शब्दप्रयोगजनितज्ञानप्रतीतिविषयो विकल्पः ॥

 मदिन्द्रियार्थगोचरयोग्यपुरोवर्तिद्रव्यं शुक्तित्वज्ञानविषयकज्ञानं भवितुमर्हति समर्थप्रवर्त्तकत्वात् । अस्मिन्विषये तदुत्पन्नं ज्ञानं रजतविषयकं संशयज्ञानग्राहकसामग्रीव्यतिरिक्तसामग्रीजन्यत्वात्, एतद्रजतविषयकज्ञानं अप्रमाणं असमर्थप्रवृत्तिजनकत्वात् इत्यनुमानविधया संशयनिवृत्तेः कर्तुं शक्यत्वात् । अत्र संशयभ्रमजनकरसविरसद्रव्यादनस्य अदृष्टत्वात् परप्रयुक्तवाक्यजन्यज्ञानं प्रमाविषयकं भवतीत्यर्थः ।

 ननु इदं पुरोवर्तीन्द्रियविषयकं प्रमाप्रमागोचरोभयज्ञानग्राहकसामग्रीविषयकं शुक्तिरजतोभयविषयकज्ञानग्राहकसामग्रीजन्यत्वादित्यस्वरसादाह-- सदिति ।

 सदसत्सम्बन्धविवेकविधिरहितज्ञानविषयकम् ॥

 अस्मिन्विषये देवदत्तस्य ज्ञानं शुक्तिविषयकम् । यज्ञदत्तस्य ज्ञानं रजतविषयकम् । एतस्मिन्विषये सदसज्ज्ञानगोचरज्ञानमिदमिति निर्णेतुमशक्यत्वात् इदं ज्ञानं न रोगजन्यं, किं तु अन्यप्रयुक्तवाक्यजन्यं, तदन्यज्ञानस्य रोगजन्यत्वात् । ममोत्पन्नज्ञानस्य अरोगजन्यत्वादेव सदसद्विधिविरहितज्ञानविषयकः स एव संशयो भवतीत्यर्थः ।

 इतः परं कैश्चिद्व्याख्यातं व्याचष्टे-- सच्छब्दस्य पुरोवर्तिशुक्तिकाशकलं इन्द्रियविषयकमर्थो भवति । तत्पदार्थमुद्दिश्य हट्टपट्टणस्थितरजतसदृशचाकचक्यादिसामग्रीजातपुरोवर्तिज्ञानविषयकशुक्तौ अन्यस्य इदं रजतं इति ज्ञानं तदज्ञानविषयकं असद्विषयकं वा साध्यं, तत्सम्बन्धविवेकज्ञानमित्युच्यते । तद्विरहितज्ञानस्य यः पदार्थो विषयो भवति स एवार्थो ज्ञानविषयक इत्यर्थः ।

 ननु इतरपदार्थज्ञानरहितज्ञानविषयकं प्रमात्वमिति वक्तव्यम् । तथा सति अस्मिन् ज्ञानविषयकज्ञानकाले सर्वपदार्थसामग्र्यभावात् कथं पुरोवर्तिज्ञानं प्रमात्वेन ज्ञातुं शक्यत इत्यस्वरसादाह-- अभावेति ।

 [१७]अभावप्रत्ययावलम्बना वृत्तिः निद्रा ॥ ५४ ॥

 नितरां पुरोवर्तिविषयकज्ञानगोचरज्ञानग्राहकसामग्रीकाले तदितरपदार्थज्ञाने सति इतराभाववति प्रमाणत्वं ज्ञातुं शक्यत एवेत्यर्थः ।

 सा प्रतीतिः तिक्तकटुरसवद्द्रव्यादनाद्भवति ॥

 ननु सर्वपदार्थेन्द्रियसन्निकर्षसामग्र्यां सत्यां तत्तत्सामग्र्या तत्तदर्थो ग्रहीतुं शक्यते । तस्मात् सर्वपदार्थविषयकज्ञानग्राहकसामग्री यावज्ज्ञानसामग्री शुक्तिविषयकज्ञानग्राहकसामग्री तावत्सामग्र्याः तदानीमसंभावितत्वात् काचित्सामग्री वक्तव्या । सा समग्री तिक्तकटुरसद्रव्यादनसामग्री यस्यास्ति सा सामग्री सर्वपदार्थग्राहिका भवतीत्यर्थः ।

 ननु सर्वपदार्थेतरत्वं शुक्तौ कथं सम्भवति सर्वपदार्थानां सान्निध्याभावात् । उक्तरीत्या पुरोवर्तिनं ग्रहीतुं न शक्यत एवेत्यस्वरसादाह-- प्रमाणेति ।

 [१८]प्रमाणेनानुभूतार्थासंप्रमोषः स्मृतिः ॥ ५६ ॥

 प्रमात्वेन पूर्वानुभूतार्थं पुरोवर्तिविषयकज्ञानग्राहककाले पदार्थत्वावच्छेदेन पूर्वानुभूतपदार्थं उपस्थिता भवन्तीत्यत्र न शङ्काविषया भवन्तीत्यर्थः । तावदर्थान् मनसि स्मृत्वा प्रमोषराहित्यं कर्तुं शक्यत एवेत्यर्थः । सात्विकगुणोदयसामग्री मधुररसवद्द्रव्यादनसामग्री । तेन हेतुना मनसा पदार्थत्वावच्छेदेन सर्वपदार्थान्सङ्गृह्य स्मर्तुं शक्यत एवेत्याह-- मधुरेति ।

 मधुररसपरिणामाज्जातसात्विकोदयात् सोऽयमिति व्यपदेशः ॥ ५७ ॥

 मधुररसवद्द्रव्यादनं यस्यास्ति तत्परिमाणवशात् सात्विकगुणोदयो भवति । तत्सात्विकगुणमहिम्ना सर्वपदार्थोपस्थितिं मनसा सङ्ग्रहीतुं शक्यत एवेत्यर्थः । तस्मात्सोऽयमिति व्यपदेशो भवतीति प्रतीयते ।

 ननु शुद्धरसपरिणामेन सात्विकगुणोदयात् इन्द्रियार्थसंयोगे सति तद्वति तत्प्रकारकतया तन्निष्ठप्रामाण्यं ग्रहीतुं शक्यते । विरसान्नादनेन रोगी भवन् अतद्वति तत्प्रामाण्यं गृह्णाति, तत्र दोषसामग्र्या बलवत्त्वात् इति रसविरसद्रव्यादनं प्रामाण्याप्रमाण्यग्राहकसामग्री इत्युक्ते इदानीं योगाभ्यासवशात्प्रामाण्यं ग्रहीतुं शक्यत एवेत्यस्वरसादाह-- इतरेति ।

 [१९]इतरेन्द्रिययोगविरामोऽन्तर्नियमितोऽभ्यासः ।

 स्वस्य इन्द्रियार्थसन्निकर्षे सति तज्ज्ञानविषयकज्ञाननिष्ठाप्रामाण्यज्ञानप्रतिबन्धकाः इतरपदार्थारोपणसामग्रीसंपादनविषयार्थाः इतरशब्देन प्रतिपादिताः । स्वेन्द्रियविषयज्ञानग्राहकसामग्र्यां सत्यां तद्विषयकज्ञानं तद्विषयकज्ञानाभावश्च । एवमितरेन्द्रिययोगविरामः । तद्विरामः अन्तरिन्द्रियेण मनसा अन्तरात्मनि अभ्यासवशात् नियमितः, तस्य प्रत्ययेन नियमेन पुरोवर्तिनि प्रामाण्यं गृह्यत एवेत्यर्थः ॥

 इदंत्वेन ज्ञातं वस्तु इतरभिन्नं भासते । ममोत्पन्नं ज्ञानं संशयभ्रमान्यविषयकं समर्थप्रवृत्तिजनकत्वात्, इत्यनुमानविधया प्रामाण्ये गृहीते विरसद्रव्यादनस्य अन्तस्स्थितदोषजन्यरोगस्य बलवत्त्वात् पुरोवर्तिनि संशयनिवृत्तिः कथं स्यादित्यस्वरसादाह-- विषयेति ।

 [२०]विषयविरागतः प्रवाहोत्साहात् पुनःपुनरभिनिवेशनं वैराग्यम् ॥ ५९ ॥

 अस्यार्थः-स्वचक्षुरिन्द्रियगोचरविषयकज्ञानस्याविषयो रजतम् । अस्मिन् भ्रान्तिराहित्यं विरागत्वं, अन्तश्चित्तप्रवाहे शुक्तिरियमिति धारावाहिकज्ञानम् । तद्ध्यानाहितज्ञाने उत्साहः प्रीतिः, पुनः पुनरभिनिवेशनं पौनःपुन्यं भृशार्थो वा । इयं शुक्तिः नेदं रजतमिति (संशय) क्रियादिराहित्यं विरागसम्बन्धि वैराग्यम् । पुरोवर्तिविषयः शुक्तिर्भवितुमर्हति रजतविषयकज्ञानाविषयकत्वे सति सविषयकत्वात् । मनसि उत्पन्नशुक्तिविषयकज्ञानस्य अप्रामाण्याभावत्वं सिध्यतीत्यर्थः ।

 ननु धारावाहिकज्ञानानां गृहीतग्राहिणामपि पुरोवर्तिनीदन्त्वेन रजतत्वेन अप्रमाजनकवाक्यज्ञानेन शुक्तौ संशयभ्रमज्ञानविषयकं स्वत एव तद्भवतीत्यस्वरसादाह-- दृष्टेति ।

 [२१]दृष्टानुश्रविक[२२]विषयतृष्णावशीकरणसंज्ञास्तथा ॥

 पूरोवर्तिनीदन्त्वेन ज्ञानोत्पत्तिं विना इदं शुक्तिविषयकं शुक्तिविषयकज्ञानग्राहकसामग्रीजन्यत्वात् इत्यनुमानेन पुरोवर्तिशुक्तिकाशकले विगततृष्णा यस्यास्सापि विगततृष्णा, तस्या वशीकरणसंज्ञकं विषयो भवतीत्यर्थः ।

 ननु पुरोवर्तिनि शुक्तौ इन्द्रियार्थसकलसामग्र्यां सत्यां तद्वति तत्प्रकारकानुभवे सति सोऽनुभवो न भ्रमसंशयज्ञान प्रतिबन्धकः भ्रमजनकभ्रमगोचरसामग्रीसत्वात् । तथा हि-- भवदुत्पन्नं ज्ञानं न शुक्तिविषयकं, किन्तु तद्रजतविषयकं, हट्टपट्टणस्थितरजतनिष्ठचाकचक्यादिरूपगुणवत्त्वस्य समानधर्मत्वात्, तस्मादित्यनुमानप्रमाणेन ममोत्पन्नं ज्ञानं भ्रमविषयकं इत्यनुमानप्रमाणेनापि तद्वति तत्प्रकारकत्वस्य ज्ञातुमशक्यत्वात् । प्रत्यक्षजन्यप्रमाणज्ञानस्य अनुमितिजन्यप्रमाप्रतिबन्धकत्वात् । तस्मादुभयत्रापि प्रामाण्याग्रहादित्यस्वरसादाह-- ताभ्यामिति ।

 ताभ्यां चित्तवृत्तिनिरोधः ॥ ६१ ॥

 चित्ते मनसि वर्तत इति चित्तवृत्तिः । ताभ्यां प्रमाणाभ्यां तद्वति तत्प्रकारकत्वाग्रहः रसविरसजन्यरोगहेतुकत्वादित्यर्थः ॥

 ननु अयं शुद्धरसवद्द्रव्यादनवान् भवति । सोऽप्रामाण्याभावज्ञानवान् भवति । एवमाकारेण उभयोर्व्याप्तिग्रहे सति अप्रमाज्ञानं वक्तुमशक्यम् । तथा हि-- प्रमाप्रतीकारकसामग्रीशुद्धरसवद्द्रव्यादनसामग्रीति वक्तुं न शक्यते । पुरोवर्तिनि तद्वति तत्प्रकारकज्ञानानन्तरं तस्मिन्विषये अन्यस्य दोषवशाद्भ्रमो जायते । तेन हेतुना वाक्यप्रयोगो जातः । एतदुत्पन्नज्ञानं अप्रमाणविषयकमिति वाक्यश्रवणानन्तरं एतस्यापि प्रामाण्यविषयज्ञाने सति संशयो भवति । विरसादनमपि अप्रामाण्यप्रतिपादकसामग्री भवति, इत्याशयं मनसि निधाय भ्रमोत्पादकसामग्र्यन्तरं प्रतिपादयति-- यावदिति ।

 यावद्धातुसिरादिसञ्चरत्प्राणापानव्यानोदान[२३]समानानिलनिरोधनं भ्रमहेतुकम् ॥ ६२ ॥


 प्राणादिपञ्चकानां निरोधनं यत्र दृश्यते तत्र रोगोत्पत्तिर्भवति । तत्पवननिरोधनेन आशया दुष्टा भवन्ति । धातवोऽपि दुष्टा भवन्ति । तज्जन्यकाचकामिलादिवशात् संशयविभ्रमौ भवत इत्यर्थः ।

 ननु सर्वत्रापि संशयभ्रमजनकसामग्र्यां प्रामाण्यज्ञानोच्छेदस्स्यात् इत्यस्वरसादाह-- आसन्नेति ।

 आसन्नविषयकज्ञानहेतुकान्तरात्माऽन्तःकरणयोगाभ्यासवशात् पवननिरोधनादरोगी स चिरायुर्भवति ॥ ६३ ॥

 ननु घटेन्द्रियसन्निकर्षानन्तरं तज्ज्ञानग्राहकसामग्र्यां सत्यां भ्रमज्ञानानुभवो भवेत् । तन्निष्ठप्रामाण्यमपि गृह्यतां नाम, इतरेन्द्रियविषयेषु तज्ज्ञानविषयकप्रामाण्यं कथं गृह्यते ? पञ्चेन्द्रियविषयज्ञानेषु विरागो नाम विशेषेण रागो विराग इत्यर्थः । तस्मात्पञ्चेन्द्रियविषयज्ञानेषु विशेषेण रागो भवतीत्यर्थः । इन्द्रियार्थसन्निकर्षानन्तरं आत्ममनस्संयोगसकलसामग्र्यां सत्यां यावद्विषयकज्ञानमुत्पद्यते, तद्धेतुकं प्रामाण्यं अप्रामाण्यग्राहकसामग्रीव्यतिरिक्तसामग्रीजन्यत्वात्, मदुत्पन्नघटज्ञानविषयकप्रामाण्यवत् । आत्मा जीवः । अन्तःकरणं चित्तम् । तस्य जीवात्मना योगः । तद्वशात् तत्कारणवशात् तद्विषयकज्ञानगोचरज्ञाननिष्ठप्रामाण्यप्रतिबन्धकं भ्रमजनकसामग्री पवननिरोधनं अरोगकारणं, अप्रामाण्याभावसामग्रीजन्यत्वात् इत्यर्थः ।

 ननु विषयपञ्चकेषु विरागो नाम विशेषेण रागो विरागः । शास्त्रस्य विषयानुभवमात्रफलं लभ्यते । तेन मोक्षविरोधो भवति । प्रत्युत स व्याधिकारको भवति । एतेन चिरायुष्ट्वं कथं प्राप्यते ? इत्यस्वरसादाह-- तस्मादिति ।

 तस्मात्प्राणादिपञ्चकफलीभूतं कार्यम् ॥ ६४ ॥

 अस्यार्थः-- शरीरं दोषधातुमलाशयात्मकम्, प्राणादिपञ्चकोपजीव्यप्रकृत्याधारकत्वात्, यन्नैवं तन्नैवं, यथा घटः । चेष्टाश्रयं शरीरमिति चेष्टाश्रयत्वं शरीरावच्छेदकम् । चेष्टा तु सा यद्धिताहितप्राप्तिपरिहारार्थं स्पन्दनरूपा । तस्मात् शरीरं प्राणादिपञ्चकं फलीभूतं भवति । सा चेष्टाश्रया प्रकृतिरिति । इदं सर्वं श्रुत्या प्रतिपादितम् । सा श्रुतिः-- "प्राणापानव्यानोदानसमानसप्राणा श्वेतवर्णात्मिका सा त्रिपदा व्याहृतित्रयात्मिका" । तत्र श्रुतिवचनं प्रमाणम्-- "भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । एतैर्महच्छिरो भवति । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते ।" इति तस्मात् प्राणादिपञ्चकं संरक्षणीयं रोगाभावकार्यहेतुकं मोक्षहेतुः कथं भवेत् । यस्य प्राणादिपञ्चकं स्ववशं भवति, तस्य चिरायुष्ट्वमपि लभ्यते । तस्मात्प्राणादिपञ्चकं फलीभूतं कार्यमित्युक्तम् । तस्माच्छुद्धरसवद्द्रव्यादनं शरीरसंरक्षणं करोति, विरसवद्द्रव्यादनं प्राणघातं करोतीति पर्यवसितार्थः ।

 ननु प्राणादिपञ्चकस्य फलीभूतं नाम-- प्राणवायुः देहचलनकर्म विधत्ते । स पवनः अविकृतस्सन् पादाभ्यां गतागतत्वं च कर्म निमेषोन्मेषादिकं च आपादमस्तकं कर्म कुर्वन् चलनात्मकं कर्म कुरुते । अपानवायोश्च प्रयोजनमस्ति-- मेढ्रगुदप्रदेशेषु स्थितस्सन् स्वयमविकृतस्सन् तथा विक्रियते । व्यानानिलस्य कार्यं च–- पाचकपित्तेन स्वयमपि पञ्चधा भूत्वा पाचकपित्तमपि पञ्चधा कुर्वन् अन्नं गृह्णाति, पचति, विवेशयति । सारकिट्टतया भुक्तान्नं विभज्य मुञ्चति । आशयप्रवेशं करोति । स सर्वशरीरं व्याप्य तिष्ठति । उदानवायोश्च प्रयोजनं--नासादिपर्यन्तं सञ्चरन् वाक्प्रवृत्तिं करोति । बलवर्णयोश्च वृद्धिं विधत्ते । समानवायोश्च प्रयोजनं-- जठरानिलस्य समीपे स्थितस्सन् भुक्तान्नरसं पक्वान्नं कायं प्रवेशयन् प्रतिमुञ्चति । एवं पञ्चवायूनां फलम् । तेषां मोक्षफलप्रदानस्य अनावश्यकत्वादित्यस्वरसादाह-- अदृष्टेति ।

 अदृष्टेनेन्द्रियेणात्मा मनसा संयुज्यते ॥ ६५ ॥

 अदृष्टः ईश्वरः, तेन प्रेरितस्सन् अर्थसंसर्गगोचरेन्द्रियेण तद्विषयकगोचरफलं विज्ञाय औपाधिकहेयोपादेयविधिफलं विज्ञाय मन इतरपदार्थविषयकविज्ञानं विसृज्य आत्मज्ञानगोचरज्ञानफलं आमुष्मिकफलं च जीवात्मनो विधत्ते । एवं मनः आत्मसंयोगजन्याधिकफलं जीवस्य प्रयच्छतीत्यर्थः ।

 ननु आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यकारित्वनियमात् । तत आत्मा इन्द्रियविषयकज्ञानगोचरफलं भुङ्क्ते । न तत्फलमामुष्मिकं विषयसंयोगजन्यज्ञानफलस्य बलवत्वात्, इत्यस्वरसादाह-- सर्वेति ।

 सर्वधातवः सत्ववशं गताः ॥ ६६ ॥

 मनोनिरोधनेन श्वासोच्छ्वासनिरोधनेन च मुखमार्गेण बहिः पवननिरोधनेन च स्वोदरपूरणकर्मकरणेन च पृष्ठमार्गेणापि बहिः पवनापहारणम् । तत्पवनं नाभिप्रदेशेऽपि कृतकर्मकरणान्तरम् पवनेन कुक्षिस्थितसिरामार्गस्यानुबन्धनं निश्वासोच्छ्वासानां कण्ठप्रदेशनिरोधनं आपादमस्तकं सञ्चरतीत्यर्थः ।

 ननु बाह्येन्द्रियविषयज्ञानगोचरज्ञाने वैराग्यं मनोविषयकं आत्मविषयज्ञानहेतुकं भवतीति तत्र बाह्येन्द्रियविषयज्ञाननिष्ठभ्रमाभावानुभवग्राहकसामग्र्येव भ्रमोत्पादकसामग्रीव्यतिरिक्तसामग्रीजन्येति वक्तव्यम् । तथाहि रोगाभावकार्यं पञ्चेन्द्रियनिरोधनजन्ययोगाभ्यासपवनवशात् भवति । तथा सति धातवो दृढतरास्सन्तः ? रोगाभावकार्यकारणवशात् श्रुतिप्रतिपादितफलं लभ्यत इत्यस्वरसादाह-- यत्कालेति ।

 यत्काले यद्योगे [२४]यथाविधि फलप्रदाः प्रजाः प्रजायन्ते ॥ ६७ ॥

 तत्संयोगजातधातवः प्रवर्तकाः ॥ ६८ ॥
 (यां कामयेत दुहितरं प्रिया स्यादिति ।
 [२५]तां निष्ठाय दद्यात् । प्रियैव भवति ।
 स न तु पुनरागच्छति ।

 अत्र तु अरोगत्वसम्पादनवशात् शतायुः पुरुषः शतेन्द्रियत्वं च लभते ।

 ननु मातापित्रोः दौहित्रजननं मोक्षकरम् । तयोर्धातुदार्ढ्यकरणस्य आवश्यकत्वेन रोगाभावकार्यकरणद्वारा मोक्षप्राप्तिर्भवतीति दुहितृशिशुस्साक्षात्सामग्री स्त्रीप्रयुक्तरक्ताधिक्यसामग्र्या भवतीत्यस्वरसादाह-- स्त्रीपुंसाविति ।

 स्त्रीपुंसावात्मभागौ भिन्नमूर्तेस्सिसृक्षया ॥ ६९ ॥

 स्त्रीपुंसोर्मध्ये पुत्रोत्पादकहेतुभूतरेतस आधिक्यं पुत्रजननहेतुकम् । पुत्रिकोत्पादनहेतुभूतं रक्ताधिक्यं पुत्रिकाजननहेतुकम् । स्वस्माद्भिन्नमूर्तेरेव पुत्रादिरिति स्मृतौ । मोक्षार्थिनः प्रवृत्तिः पुत्रिकाजननसामग्रीसंपादनपूर्विका दानयोग्यकन्याजननसामग्र्या एव हेतुत्वात् । यन्नैवं तन्नैवं यथा घटः । पुत्रिका जननसामग्री सम्पन्नपुत्रिकाजननसामग्री स्वसुखहेतुकमिथुनानुभवकार्यौपकार्यकत्वात् । प्रजाजननसामग्री लैकिकसामग्रीसंपादनं विना कथं लभ्यत इत्यस्वरसादाह-- प्रकृतीति ।

 प्रकृतिपुरुषौ पितराविति स्मृतौ ॥ ७० ॥

 तथा सति गुणविशिष्टपुरुषत्वात् मायाशबलित ईश्वरः आमुष्मिकफलं दत्त इत्यस्वरसादाह-- वृत्तीति ।

 [२६]वृत्तिव्यवहितस्वरूपनिष्ठमनउत्साहात्पुनःपुनरभिनिवेशनं योगाभ्यासः ॥ ७१ ॥

 वृत्तिव्यवहितपुरुषः औपाधिकसंसर्गजातः प्रजाजनकसंसर्गहेतुभूतत्वात् । स्वभावतः तस्य गुणप्रोतद्रव्यत्वादेव वृतिव्यवहितत्वं भवति । तदेव तत्स्वरूपम् । तस्मिन् निहितं मनः । तस्य मनस उत्साहः प्रीतिः । प्रीतेरेव हृदयेऽभिनिवेशनम् । इतरपदार्थेषु विरागस्सन् य आत्मानं ध्यायति स तं ध्यातारं संसारसागरनिमग्नं तारयति । तदेवोत्तमफलम् । तदर्थमेवायुर्वेदप्रवृत्तेः प्रयोजनम् । इदमेव बहुपुरुषार्थप्रदानहेतुकं भवतीत्यर्थः । यस्य मनस उत्साहो जायते तस्य मनसः पुनरभिनिवेशनं तृप्तिकारकम् । सर्वदा अभ्यासपाटववशात् सर्वस्मिन्विषये अध्यात्मनिष्ठा मनः प्रसाद्य मोक्षप्रदा भवति ।

 आदरातिशयोद्भूतभूयोभूयोनिरीक्षायोगादिषु भूमिः ॥ ७२ ॥

 तत्र भूयो निरीक्षणात् स्वरूपं च प्रतिपद्यते । परमानन्दहेतुकत्वात् इह लोके परमसुखप्रदानत्वात् भूयोनिरीक्षणयोगादिषु भूमिः अपरिमितानन्दस्य भूरित्यर्थः ।

 ननु आत्मविषये यावद्विषयनाशे सति तन्नाशादित्यस्वरसादाह-- तामिति ।

 तां निष्ठाय दद्यात् ॥ ७३ ॥

 सालङ्काररूपादिविशिष्टां कन्यां यो दद्यात् सत्कुलप्रसूताय श्रोत्रियाय, कन्यादाने यः प्रवर्तते तस्य सुखं मोक्षफलं लभ्यते, ऐहिकसुखमपि भुङ्क्त इत्यर्थः ।

 कन्यादानफलमाह प्रियेति ।

 प्रियैव भवति ॥ ७४ ॥

 कन्यादानफलप्रदानस्य प्रतिभूः ईश्वरो भवतीत्यर्थः । ईश्वरप्रीत्यर्थं यः कन्यादानं करोति तस्य ऐहिकफलमामुष्मिकफलं च दीयत इत्यर्थः ।

 ननु कन्याजननमेव कामयन् स्वकर्मक्लेशचोदितस्सन् ईश्वरप्रीत्यर्थं दानं करोति । तेन ईश्वरस्सुप्रीतो भूत्वा स्वयमेव प्रतिभूस्सन् फलं ददातीत्युक्तम् । तत्र कन्यादानकर्मणः ईश्वरप्रीतिरेव फलं भवति । तेनापि तस्य किं फलमासीदित्यस्वरसादाह-- नेहेति

 नेह पुनरागछति ॥ ७५ ॥

 यत्तस्य इहलोकसुखदुःखादिकं तदीश्वरो नाददीत, ईश्वरकैवल्यं पुनराददीत । इहलोकं प्रति स पुनर्नागच्छति गर्भदुःखादिकं न भुङ्क्ते । तस्माद्योगाभ्यासवशात् सप्तधातुमयं शरीरमिति शरीरस्य ऐहिकफलं मोक्षफलं च । तयोर्वैराग्यमेव उभयफलं विधत्त इत्याह-- ऐहिकेति ।

 ऐहिकामुष्मिकविषयानुभाव्यभोगैकनाश्यमिति ज्ञानं वैराग्यम् ॥ ७६ ॥
 अविषयानन्दात्मकनैरन्तर्यज्ञानानन्दहेतुकं वैराग्यम् ॥ ७७ ॥

 ऐहिकामुष्मिकफलजन्येतरपदार्थविषयकफलान्युद्दिश्य आत्मा अनुभवविषयकमनोजन्यत्वात् तद्वैराग्यनैरन्तर्यज्ञानानन्दजन्यं विषयानन्दानुभवं विहाय आत्मज्ञानानुभवः परमपुरुषार्थ इति इतरविषयकज्ञानानुभवं निरस्यति । ऐहिकामुष्मिकफले नाश्ये इति ज्ञानं वैराग्यम् । ऐहिकामुष्मिकफलं विषयानुभाव्यं तत्तुच्छं कर्म प्रयासादनुभवे सति तन्नाशात् । तस्मादधिकफलदं वैराग्यमेव हि मोक्षफलहेतुकं भवतीत्यर्थः ।

 ननु परमात्मनोऽतीन्द्रियत्वेन इन्द्रियार्थसन्निकर्षाभावात् आत्मविषयकज्ञानाभावात् तज्ज्ञानविषयकानुभवानन्दस्सुतरामप्रसिद्ध एव, किन्तु इन्द्रियार्थसन्निकर्षाद्यादृशार्थोपलब्धिः सैव सुखविषयकज्ञानानुभवोपलब्धिश्चेत् तज्ज्ञानमेव आनन्दानुभवहेतुकम् । तदेव कार्यं यावद्धात्विन्द्रियदार्ढ्यापादकशुद्धरसान्नादनजन्यज्ञानं आनन्दहेतुकमिति प्रमाणत्रयोपलब्धिरित्यत आह-- तस्मादिति ।

 तस्माद्धातवस्तद्रोगभूम्यावष्टम्भाः ॥ ७८ ॥

 इन्द्रियार्थसन्निकर्षजन्यज्ञानं आनन्दहेतुकमिति उक्तम् । तस्मादिति-– तत्कारणवशात् धातवः पञ्चेन्द्रियाणि तद्रोगकार्यकारकाणीत्यर्थः ।

 ननु भोगायतनं शरीरमिति प्रसिद्धम् । तथा सति विषयमात्रफलोद्देश्यकार्यकारणविषयनाश्यैकनाश्यं इति तन्निषेद्धुमशक्यम् । यावद्विषयानुभवकाल एव भोगकाल इत्याशयं मनसि निधायाह-- भोगेति ।

 भोगायतनं शरीरम् ॥ ७९ ॥

 सर्वार्थविषयकभोग्ययोग्यानां द्रव्याणां आयतनम् । सुखदुःखानुभवो भोग इति दुःखस्यापि भोगयोग्यविषयकामनात्मकद्रव्योपलम्भकत्वात् । तस्माद्भोगायतनं शरीरमिति । शरीरत्वस्य भोगायतनत्वावच्छेदकत्वादीति वक्तुं शक्यत्वात् ।

 ननु सुखविषयकप्रवृत्तिकमनोविषयकसुखानुभवज्ञानविषयकप्रवृत्तिमुद्दिश्य प्रवृत्तेस्तद्विषयानुभवजानन्दः मत्कामनाविषयकः दुःखविषयकज्ञानस्य मत्कामनाविषयकत्वाभावात् । तदर्थमेव भोगोपकार्यजनकसंपादनसामग्र्यैव फलितार्थत्वात् ।

 ननु सुखस्यापि दुःखानुषङ्गत्वात् सुखमपि दुःखमेव । विषयदुःखानुभवस्तु दुःखजनककर्मव्यतिरिक्तकर्मणा साध्यः । तस्मादुक्तरीत्या आनन्दहेतुकं बाह्येन्द्रियविषयोपलब्धिज्ञानानुभवकार्यं न भवेदित्यस्वरसादाह-- तदिति ।

 [२७]तत्परमपुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ ८० ॥

 तदेव परमपुरुषार्थः, यन्नित्यद्रव्यजन्यज्ञानविषयकज्ञान आनन्दहेतुकं भवति, सा ख्यातिः सच्चिदानन्दात्मिका । आनन्दविषयकज्ञानं यस्यास्ति स एव जीवन्मुक्त इत्यभिधीयते । स सर्वदाऽऽनन्दानुभववान् भवति । मत्प्रवृत्तिस्तु दुःखव्यतिरिक्ता, कामनाप्रयुक्तत्वात्, सुखात्मिका कामना परमपुरुषार्थिका । गु णवैतृष्ण्यं नाम मधुररसादनप्रयुक्तपुरुषविषयकज्ञानजन्यज्ञानं आनन्दहेतुकमिति विवक्षितमित्यर्थः । पुरुषख्यातिः परमपुरुषज्ञानविषयकख्यातिः । विषयज्ञानानन्दहेतुकवैराग्यं बाह्येन्द्रियविषयकज्ञानं परमपुरुषगोचरं न भवति, इन्द्रियार्थसन्निकर्षाभावात्, किं तु अन्तरिन्द्रियगोचरज्ञानविषयकं यावद्विषयकज्ञानं यावदनुभवहेतुकं भवेदित्यस्वरसादाह-- यावदिति ।

 [२८]यावदिन्द्रियविषयज्ञानानां यदार्थोल्लेखिभावना क्रियते स वितर्कः ॥ ८१ ॥

 तर्को विचार इत्यर्थः । यावदिन्द्रियविषयज्ञानानां याववद्विषयानुभव आनन्दहेतुक इति विचारः, तर्कसहकृतज्ञानकार्यकर्मेत्यर्थः । यदार्थोल्लेखिभावनाक्रमस्तर्कज्ञानेन भाव्यः तद्भावनायाः यथायथं यावदिन्द्रियविषयकज्ञानानां यावद्विषयानुभव आनन्दहेतुको भवतीत्यर्थः ।

 ननु यावद्विषयानुभवज्ञानं यावदानन्दहेतुकम् । परमात्मानुभवज्ञानं परमानन्दहेतुकं, शरीरस्य उभयोरप्यायतनत्वात् । तत्र विषयानुभवस्य विषयैकनाश्यत्वेन परमात्मानुभवस्य परमात्मविषयकत्वेन अयं नित्यानन्दानुभव इत्याशयं मनसि निधायाह--पूर्वेति ।

 पूर्वापरानुसन्धानशब्दार्थोल्लेखभावना निर्विकल्पः ॥ ८२ ॥

 बाह्येन्द्रियज्ञानानुभववान् सवितर्कः । सवितर्को नाम सविकल्पः । सविकल्पज्ञानानुसन्धानमेव परमात्मानुसन्धानम् । तदनिर्वाच्यज्ञानविषयकम् । शब्दार्थोल्लेखभावनाशून्यत्वम् । तदेव निर्विकल्पकर्म । देवदत्तो जीवन्मुक्तो भवितुमर्हति परमात्म विषयकज्ञानानुभवात् । नित्यनैमित्तिककर्मद्वारा परमात्मानुभवज्ञानमुपलक्ष्यते । तस्यापि शरीरदार्ढ्यकरणहेतुत्वेन तदेव आरोग्यकार्यकरणमावश्यकं भवति । अत एव भोगायतनं शरीरमिति यथार्थं भवतीत्यर्थः । तत्र स्मृतिवचनं--

नित्यनैमित्तिकं कर्म दुरितक्षयकारकम् ।
ज्ञानं च विमलीकुर्वन् अभ्यासेन तु वेदवित् ।
अभ्यासपक्वविज्ञानः कैवल्यं लभते नरः ।

तत्र सूत्रस्थानवचनं—

[२९]अन्नपानं विषाद्रक्षेत् विशेषेण महीपतेः ।
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥

इति । तस्माच्छरीरदार्ढ्यकरणहेतुकं भवतीत्यर्थः ॥

 ननु परमात्मा मनोविषयको न भवति, निर्गुणत्वात् निरवयवद्रव्यत्वात् निष्कायकत्वात् कालवत्, मनस आत्मगोचरत्वस्य वक्तुमशक्यत्वादित्यस्वरसादाह-- अन्तरिति ।

 [३०]अन्तःकरणधर्मावच्छिन्नविषयावलम्बितदेशकालभावनायोगः सविचारः ॥ ८३ ॥

 परमात्मा विचारणीयः अत एव सवितर्क तर्कसहकृतप्रमाणेन ज्ञातव्यः । तथाहि-- अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत्, इति तर्कसहकृतानुमानेन ज्ञातव्यः । अन्तःकरणधर्मावच्छिन्नविषयावलम्बितत्वं मनोविषयकधर्मत्वं, सर्वदा आत्मानुभवत्वात् । तस्य अवच्छेदकं शरीरं सत् विषयानुभवार्हं भवति । तस्यापि शरीरदार्ढ्यकरणमावश्यकमित्यर्थः । मनःआत्मानं विषयीकरोति । तस्य स्वरूपमा नन्दस्वरूपम् । एवं गुणविशिष्टपरमात्मानं विषयीकृत्य अवलम्बते । एवं विचाररूपतर्कस्य रोगाभावकार्यजनकप्रयोजनप्रयतनं फलं भवति । तस्माद्देशकालभावना योगस्य विचार इत्युक्तम् । देशस्तु द्रव्योपाधिना त्रिधा भवति । क्वचिद्देशविशेषजन्यद्रव्यादनेन तद्देशीयानां वाताधिक्यं भवति । क्वचिद्देशविशेषजातद्रव्यादनात्पित्तप्रकोपो भवति । क्वचिद्देशविशेषजन्यद्रव्यादनेन कफप्रकोपो भवति । तत्तद्देशीयानां तत्तद्रोगनिवर्तकद्रव्याणां तत्तद्देशस्थितानां शरीरदार्ढ्यकरणं विचारयेदित्यर्थः । तत्तत्कालद्रव्यादनमपि पित्तरोगनिवर्तकमिति तत्तत्प्रयोजनानि विचारहेतुकानि संपाद्य कालं प्रापयेदित्यर्थः ॥

 ननु मनस आत्मप्रकाशार्थं आत्मव्यतिरिक्तसर्वपदार्थज्ञानस्यावश्यकत्वात् तर्कसहकृतज्ञानमावश्यकं भवति । स तर्क आत्माज्ञानार्थं परंपरया हेतुर्भवति । सविचार इत्युक्तम् । तर्हि निर्विचारोऽपि मोक्षप्रपादको भवतीत्युच्यमाने सति विचाराभावो निर्विचारः कथं भवतीत्यस्वरसादाह-- अस्मिन्निति ।

 अस्मिन्देशकालधर्मावच्छिन्नधर्ममात्रावभासनं निर्विचारः ॥ ८४ ॥

 अस्मिन् ब्रह्मणि देशतः कालतः वस्तुतश्च परिच्छेदराहित्यं तस्मिन्नारोपितधर्ममात्रं इदं भासते । तत्र इतरपदार्थविषयकज्ञानराहित्यस्य उपस्थितत्वात्, तत्रेतरपदार्थविचाराभावो निर्विचार इत्यर्थः ॥

 ननु सर्वविषयज्ञाने जाते सति आनन्दो भवति । एतदभावो निर्विचारः, तर्ह्यानन्दानुभवोपलब्धिः कथं स्यादित्यस्वरसादाह-- सुखेति ।

 [३१]सुखप्रकाशोद्रेकाच्चिच्छक्तिविषयकस्स आनन्दः ॥[३२]

 सुखानन्दानुभवार्थोऽपि यत्सुप्ते सति प्रकाश्यते स एवानन्दो भवति । निर्विचारभाव्यमनोद्रेकस्य हेतुर्भवति । तस्माच्चिच्छक्तिविषयकः चित्स्वरूपज्ञानशक्तिविषयकः आनन्दो भवतीत्यर्थः ।

 ननु परब्रह्मणः निर्गुणत्वेऽपि स एव गुणवान्भवति । निर्गुणत्वं नाम निरवयवत्वस्य अवच्छेदकत्वम् । आत्मनोऽपि निर्गुणत्वात् मनसस्तद्गोचरत्वं वक्तुं न शक्यते । निर्गुणत्वस्य निरवयवद्रव्यत्वात्, मनसोऽपि निर्गुणत्वात्, इन्द्रियत्वेन आत्मविषयकज्ञानग्राहकत्वं वक्तुमशक्यत्वात्, इति आत्मनः अगोचरत्वादेव इन्द्रियाणामपि तत्प्राप्यत्वासंभवेन मनसोऽप्यप्रयोजकत्वापत्तिरित्यत आह--अस्मिन्निति ।

 अस्मिन्ग्राह्यसत्यसत्तामात्रविषयकत्वेन समाधिः सा स्मृता ॥ ८६ ॥

 अस्मिन्ब्रह्मणि ग्रहीतुं योग्यो जीवः तस्य परमात्मविषयकत्वेन ब्रह्मसत्ता स्वयं जगस्त्वरूपकारणत्वेन प्रकाश्यत इति सत्यं ब्रह्म मनसोऽप्यविषयो भवति । गुणरहितब्रह्मणः मनोग्राह्यत्वस्य वक्तुमशक्यत्वात् । सत्तेति सत्तामात्रविषयकं ज्ञानमुपलभ्यते । आत्मना सह मनस्समाधीयत इति समाधिः सा स्मृता ।

 ननु निर्गुणब्रह्मणः जगत्कारकत्वं वक्तुमयोग्यमिति चेत्, न, निर्गुणब्रह्मणः करचरणाद्यवयवाभावात् न जगत्स्वरूपत्वं वक्तुं शक्यते । तथा श्रुतौ तस्त्वरूपं प्रतिपाद्यते--

एतं मनोमयमात्मानमुपसङ्क्रामति ।
एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।

एतच्छ्रुत्यनुसारेण जगस्त्वरूपत्वं ब्रह्मणः प्रतिपाद्यते, परब्रह्मणः निर्गुणत्वं प्रतिपाद्यते । शुद्धनिर्गुणपक्षे योगिनामप्यगोचरत्वेन समाधिरेव न स्यात् । किं च मनसः आत्मगोचरत्वानुपपत्तिश्च । जगतोऽनित्यत्वेन तस्याप्यनित्यत्वप्रसङ्गात्, इति नाशङ्कनीयम्, जीवात्मनो मायाशबलितत्वेन तथा प्रतीतेः । अतस्तु मायानिवृत्तिपर्यन्तं वस्तुभेदोऽस्ति । सर्वथा यस्य समाधिना माया न निवर्तते तावत्पर्यन्तं वस्तुभेदो नास्ति, तत्समाधिना मायानिवृत्तेः । यदा मनस आत्मसाक्षात्कारोऽस्ति तदा आत्मनो मनोविषकत्वस्य वक्तुं शक्यत्वादित्यर्थः । यदा जीवात्मनि मायानिवृत्तिरुपलभ्यते तस्य परब्रह्म जगदाकारेण परिणमति । अयं घट इत्यत्र घटज्ञानविषयकत्वमिव निर्गुणब्रह्म मनोविषयकं भवति । सैव प्रमा भवति । अत एवोक्तं "सा स्मृता" इति । प्रकृतिरेव स्मृतेत्यर्थः । सर्वेषां मोक्षहेतुस्समाधिः । तस्य सर्वेषामसम्भावितत्वात् तत्प्रमाफलकसामग्र्या अभावाच्च । तेषां मधुररसवद्द्रव्यादनस्य सात्विकगुणप्रदायकत्वात् सात्विकगुणस्समाधिहेतुः, राजसतामसगुणजनकाम्लोषणरसव्यतिरिक्तसात्विकगुणहेतुमधुररसजन्यत्वात् । तस्मान्मधुररस एव समाधिहेतुरित्यत आह-- मधुरेति ।

 मधुररसो रसासृग्गतपवनाविकृतमधुप्रवोहात्साहोदयः पूरयन् अङ्गुष्ठं च समाश्रितः ॥ ८७ ॥

 मधुररसस्तु रसासृग्धातुचरपवनस्य अविकारं कुर्वन् कुण्डलीस्थितः श्वासोच्छ्वासाभ्यां शिरःकमलस्थामृतमाहृत्य आपादमस्तकं तर्पयन् इडामार्गगमनेन पवनेन कुम्भकं कृत्वा अङ्गुष्ठपर्यन्तं सञ्चार्य तत्तदङ्गं प्रसिञ्चेदित्यर्थः ।

 ननु कला प्रबला सती मधुरसजन्यपवनस्य श्वासोच्छ्वासानिलाभ्यां शिरस्स्थितामृतमाहृत्य शिरस्सन्तर्पणं विधत्त इति वक्तव्यम् । कला अबला सती तेन आपादमस्तकसन्तर्पणेन धातुपोषणं कथं विधत्त इत्यस्वरसादाह-- तत्रेति ।

 तत्र स्थितकला दशदलकमलं विकासयन्ती प्रचलति ॥ ८८ ॥

 कुण्डल्युद्भवपित्तकलाधारदशदळपद्मं विकासयन्ती अमृतं विसृजतीत्यर्थः ।

 ननु पवनस्तु शिरःकमलस्थामृतमाहृत्य धातुसन्तर्पणं करोतीत्युक्तम् । इदं तु समाधिसामग्रीसम्पादनप्रकरणम् । समाधिफलं तु आत्मसाक्षात्कारानुभवरूपम् । तत्सामग्री शरीरविकाराभावकार्यं सम्पादयति । तेन आत्मसाक्षात्कारो लभ्यत इत्यस्वरसं ज्ञापयन् अवतारान्तरमाह--अङ्गुष्ठेति ।

 अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ॥ ८९ ॥

  [३३]ईश्वरस्सर्वस्य जगतश्शरीरं वहति ॥ ९० ॥

 अमृतेनापादमस्तकं सन्तर्पणं रोगाभावकार्यसम्पादकसामग्रीप्रतिपादितशरीरदार्ढ्यजन्यं समाधिकार्यहेतुकत्वात्, यन्नैवं तन्नैवं यथा घटः, इत्यनुमानविधया शरीरदार्ढ्यप्रयुक्तयोगसम्पादनेन मोक्षप्राप्तिर्भवति । "अङ्गुष्ठमात्रः पुरुषः" इत्यत्र लिङ्गशरीरं पादमात्रम् । तत्र श्रुतिः--

"पादोऽस्य विश्वा भूतानि त्रिपाद-
स्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः"

इति । एषा श्रुतिः अङ्गुष्ठमात्रं प्रतिपाद्य तिष्ठति । स एवेश्वरो भवति । सोऽपीश्वरः त्रिपादेन दिवि स्थितामृतमाहृत्य स्वशरीरं सन्तर्प्य जगच्छरीरमपि वहति । विराड्रूपेश्वरगोचरज्ञानसाधक अन्तरिन्द्रियात्मगोचरज्ञानसामग्रीसम्पादनापेक्षया जगच्छरीरात्मविषयकज्ञानगोचरज्ञानग्राहकसामग्र्या आत्मसाक्षात्कारो भवेदित्यर्थः ॥

 ननु योगिनामपि मूलाधारमादिभूतं सकलधातुपोषकं श्वासोच्छ्वासाभ्यां शिरस्स्थितममृतमाहृत्य शरीरसन्तर्पणं विधत्ते तस्य सर्वधारणत्वात् । योगं विनापि तत्कर्म कर्तुं शक्यत एवेत्य, स्वरसान्तरमाह-- मूलेति ।

 मूलाधारमादिभूतं सकलधातुपोषकम् ॥ ९१ ॥

 मूलाधारस्य कुण्डलिनीरूपस्य अनिलानलचक्रात्मकस्य तन्निष्ठश्वासोच्छ्वासाभ्यां धातूनामृतादनम् । योगाभ्यासजन्यपवनेन मूलाधारमादिभूतं यावत्कालं धातुदार्ढ्यकरणं जठरानिलप्रदं चिरायुःप्रापकं यावदिन्द्रियाणां अर्थविषयकज्ञानानुभवसार्थकरणं च लभ्यत इत्यर्थः ।

 ननु शरीरपादपः अमृतजलपोष्योपकारकः । अमृतातिविरिक्तव्यानपवनस्य शरीरव्यापकतावच्छेदकत्वात् । ननु मूलाधारपद्मस्य सकलधातुपोषकसकलशरीरव्याप्यपवनसंयोगे सति तत्पोषकत्वं वक्तुं शक्यते, तस्य कुण्डल्याधारमात्रोपयोगिकत्वात्, सर्वशरीरव्यापकत्वाभावेन तत्पोषकत्वमपि न रोचत इत्यस्वरसादाह-- सिरेति ।

 सिरापथगतपवनश्शिरःकमलस्थामृतमाहरान्सिञ्चति ॥ ९२ ॥

 सिरामार्गेषु सर्वदा सञ्चारभूः पवनो व्यानपवनस्य मूलाधारस्थितत्वेन तत्र स्थितामृतमाहरन् शरीरशाखिबीजोत्पादकपादपद्ममूले पूर्वरसासृग्धातुषु चरन् पवनः प्रभवतीत्यर्थः ।

 ननु सकलामृतात्मकानलानिलचक्रात्मककुण्डल्युद्भवप्रकाशमानप्रथमप्रयाणाधिगतश्वासानिलोष्मणो जातामृतमाहृत्य उच्छ्वासानिलेन तत्सर्वं सङ्ग्राह्य धातुसन्तर्पणं करोतीति यत्तदेव शरीरदार्ढ्योपकारकं भवतीति व्यानवायुना पादपद्मपूरकेन किं फलं भवेदित्यस्वरसादाह-- शरीरेति ।

 शरीराङ्कुरशाखानामादिभूतं [३४]तथा ॥ ९३ ॥

 पञ्चशाखं शरीरमिति शरीरमेव अङ्कुरं पञ्चशाखान्वितं मूलाधिष्ठानपद्माधारभूतम् । तस्य शाखा एव अवयवा इत्यर्थः ।

 ननु मूलाधारपद्ममेव शरीराङ्कुरस्य आलवालमित्युक्तम् । तत् तदङ्गस्थितवर्णानां तत्तदधिष्ठानदैवतानां अमृतपोषकत्वभावनचलनात्मककर्मोपकारकं नोपपद्यत इत्यत आह-- तत्तदिति ।

 तत्तदधिष्ठानवर्णदेवतानां सिरामार्गगतामृतं पोषकम् ॥ ९४ ॥

 तत्तद्देवतात्मकं अकारादिक्षकारान्तं तत्तदङ्गाधिष्ठानाधिष्ठितम् । तस्य तत्तत्सिरामार्गगतामृतं पोषकं भवति । तस्य आपादमस्तकं सञ्चारितव्यानपवनोऽपि पोषको भवति । अवर्णोत्पादकपादपद्मं शाखावेलारूपम् । तावत्पर्यन्तं सहस्रारपद्मगतामृतं रक्षकं भवतीत्याह-- तदिति ।

 तत्पादपद्माधारे सरित्प्रवहति ॥ ९५ ॥

 पादपद्मपर्यन्तं सिरासन्धानमनुसृत्य अमृतप्रवाहो भवतीत्यर्थः ।

 ननु कुण्डलिनीगतश्वासोच्छ्वासमहिम्ना आगतामृतस्य आधारपद्मालवालपर्यन्तं प्रवाहकरणस्योचितत्वात् कथं ह्याधारपद्मपर्यन्तं प्रवाहकरणं नोपपद्यत इत्यत आह-- मांसेति ।

 मांसानुसृतसिरामार्गगतपवनेन कलाः पूरयन् अमृतं सेचयेत् ॥ ९६ ॥

 तन्मार्गमनुसृत्य इडापवनेन पादपद्मपर्यन्तं सेचयेदित्यर्थः । तेन तदधिष्ठानस्थितवर्णदेवताः सन्तोष्य पालयेदित्यर्थः । ननु रसासृग्धातुपवनेन अमृतपोषकत्वं तद्धातूनामेवेति वक्तव्यम् । तदितररक्तधातोरमृतपोषकत्वाभावेन जीवनं नोपपद्यत इत्यस्वरसादाह-- मांसेति ।

 मांसानुसृतसिराभावास्सन्ति[३५] ॥ ९७ ॥

 इडामार्गगतश्वासपवनः सहस्रारकमलस्थामृतमाहरन् मांसधातुं सन्तर्प्य शरीरपोषको भवतीत्यर्थः । रसासृग्धातुपवनस्य शरीराङ्गविभागकार्यकारकनियमस्थापकत्वात् मांसधातुगतसिराणां अप्रयोजकत्वेन रक्तधातुपोषकत्वं पवनस्य कथं सङ्गच्छते । पवनसिरासृग्धातुमात्रप्रदानं चरन् तत्पोषकत्वमात्रस्यैवोचितत्वात् न रक्तधातुपोषको भवतीत्यस्वरसादाह-- द्वीति ।

 द्विसहस्रसिराशाखावत् पादपद्ममूलकम् ॥ ९८ ॥

 द्विसहस्रसिराशाखिनः पादपद्मालवालं सिराङ्कुराणामाधारकं पादपद्मप्ररोहाङ्कुराणामेव अमृतमाहरत् धातुपोषकं भवतीत्यर्थः । द्विसहस्रसिरोद्भवाङ्कुराणां सप्तधातुपोषकत्वेन शरीराधारकत्वं कथं स्यादित्यस्वरसादाह-- सप्तेति ।

 सप्तधातुमयं शरीरम् ॥ ९९ ॥

 षड्रसा इत्यत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः । ततः षट्सङ्ख्याद्रव्यमाश्रित्य तिष्ठतो गुणवत्पोषकत्वस्य सुप्रसिद्धत्वात् । धातुर्नाम ‘रसासृङ्मांसमेदोस्थिमज्जाशुक्लानि धातवः' इति । ततो धातुमयं शरीरमित्युक्तम् ॥

 इदानीं प्रतिपादितप्रश्नो योगशास्त्रं भवति । तन्मध्ये सप्तधातुमयं शरीरमिति प्रतिपादनं योगाभ्यासस्यापि धातुपोषकत्वमेव फलमिति द्योतनार्थं तथा प्रतिपादितम्-– आयुर्भवतीत्यर्थः । धातवः रसादिपोषिताः शुद्धरसद्रव्योपजीवकत्वात् । तस्माद्धातूनां रसादिपोषितत्वं सुप्रसिद्धमिति भावः ॥

इत्यायुर्वेदस्य तृतीयप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसम्मतं प्रतिसूत्रव्याख्या-
नपूर्वकं आयुर्वेदभाष्यं लोकोपकारकं
संपूर्णम्.



  1. तम उद्रेकात्सत्याज्ञानात् क्रोधादिभिर्नियमितं मूढम्
  2. दयाद्दुःखाभावसाधकशब्दादिप्रवर्तकं सात्विकम्
  3. ऊषण
  4. तदा द्रष्टुस्स्वरूपावस्थानावृत्त्यसारूप्यमितरत्र.--A
    तदा द्रष्टुस्स्वरूपावस्थानं । वृत्तिसारूप्यमितरत्र-}

    योग I.3
  5. सुखदुःखमोहात्मिका निवृत्तयः प्रादुर्भवन्ति. C.
  6. चक्षुर्दोषजाता च । तत्कालोचितकार्यकारणम् । इत्यधिकपाठः--A.B.
  7. अतिनिरीक्षणदोषात्प्रभूतायां संशयो भवति-- A.B.
  8. A. B.कोशद्वयेऽप्येतत्सूत्रं न दृश्यते.
  9. पित्ताद्भ्रमो भवति-- A.B.
  10. निवर्तनीयमित्यर्थः-- इति सुपठः.
  11. क्वचिन्निवर्तकैर्न निवर्तयति 1--B
  12. तत्तद्भूतहितगुणवत्पोषकद्रव्यं.
  13. कोशान्तरे इदं सूत्रं न दृश्यते.
  14. चाक्षुषप्रतीतिजन्येतरभिन्नविषयकज्ञानं प्रमाणम्.
  15. भ्रमाभावप्रतीतिकः
  16. योग. I. 9.
  17. योग. 1. 10.
  18. योग. 1.11
  19. योग. 1.13.
  20. विषयदोषविकारकान्तः प्रवाहोत्साहपुनःपुनरभिनिवेशनं वैराग्यम् A.
    विषयदोषविकारगतः प्रवाहोत्साहासनः पुनःपुनरभिनिवेशनं वैराग्यम्--B.
  21. योगः. I. 1, 15.
  22. 'विषयवितृष्णा' इति पाठान्तरम्.
  23. समानानिलेभ्यो निरोधनो योगः--A & B.
  24. यथाविधि फलप्रदानुप्रजाः A & B.
  25. कुण्डलान्तर्गतसूत्राणि A. B. कोशयोरत्रैव पठितानि । व्याख्याता तु पृथक्कृत्योत्तरत्र 132 पुटे व्याचष्टे ।
  26. वृत्तिर्व्यवहितः--A & B
  27. तत्परं पुरुष. योग I. 16.
  28. योग. 1. 32.
  29. अष्टाङ्ग. सूत्र VII. 2.
  30. अन्तःकरणविषयावलम्बितदेशकालधर्मावच्छिन्नभावना सविचारः A & B.
  31. सुखप्रकाशमानभाव्यमनोद्रेका-- A & B.
  32. एतदुपरि 'रजस्तमोवैशारद्यान्तःकरणसत्वमनोद्रेकात्सानन्दः' इत्याधिकं सूत्रं A B. कांशयोः दृश्यते. तच्च न व्याख्यातं भाष्यकृता.
  33. ईश्वरस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् । शरीरं वहति । A & B.
  34. तथा । 'पञ्चशाखाः पञ्चाङ्गुलाः' इत्यधिकः पाठः-- A & B.
  35. A.B. कोशेषु एतन्न दृश्यते.