आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/षष्ठप्रश्नः

अथ षष्ठः प्रश्नः.


लवणरसोऽस्थिदृढ़करः ।
 
लवणविरसोऽस्थिमृदुकरः ।
 
तिक्तरसो मेदःप्रवर्धकः ।
 
तिक्तरसविरसो मेदोऽभिघातकः ।
 
ऊषणरसो मांसाधिक्यप्रदः ।
 
ऊषणविरसो मांसहीनताप्रदः ।
 
कषायरसोऽसृग्धात्वाधिक्यप्रदः ।
 
विरसकषायो निर्गतरसासृक्प्रवर्धकः ।
 
असृगेव रसः ।
 
असृगेव रसासृक् ।
१०
 
विरुद्धद्रव्ययोगाद्विरसो भवति ।
११
 
विषमोत्पादको भवति ।
१२
 
सोऽविपक्वो भवति ।
१३
 
तस्माद्विषमानलो भवति ।
१४
 
यद्रसाज्जातोऽनलस्तद्रसं पचति ।
१५
 
रसानुसरो [१]दोषः ।
१६
 
दोषानुसरो रोगः ।
१७
 
रोगानुसरो धातुः ।
१८
 
धातुप्रचरा दोषाः ।
१९
 
आद्यास्त्रयः ।
२०
 
पवनप्रकोपं हरन् तद्रसानुसरो धातुपोषकः ।
२१
 
आद्यास्त्रयो विरसैकताभावात् तदनुगतरोगाः ।
२२
 
पवनप्रकोपजाताश्चासाध्याः ।
२३
 
आद्याज्जातरोगस्सद्यो मारकः ।
२४
 
द्वितीयाज्जातश्चतुरहः ।
२५
 
तृतीयष्षड्रात्रम् ।
२६
 
तत्रैकरसो विरसोऽष्टमे प्राणघातकः[२]
२७
 
आद्यरसाद्विरसो दशमेऽहनि ।
२८
 
अन्यरसाद्विरसश्चतुर्दशाहनि ।
२९
 
अन्त्यद्विरसरस एकरसो विरसोऽष्टादशेऽहनि ।
३०
 
तिक्तास्त्रयो मेदोमांसासृक्प्रचारं प्रवर्धयन्ति ।
३१
 
विरसा रसविषमप्रदा भवन्ति ।
३२
 
तिक्तास्त्रय एकदा रसा विरसा भूत्वैकैकमनेकगुणरसान्प्र[३]दर्शयन् नान्यरसोत्पादकोऽनलो भवेत् त्रिस्सप्ताहान्निवर्तते ।
३३
 
तत्तद्रोगास्सुसाध्याः ।
३४
 
तिक्तरसाद्विरसष्षोडशाहस्सुसाध्यः ।
३५
 
तिक्तरसाद्विरसैकरसविरस एकादशाहस्सुसाध्यः ।
३६
 
अधिकरसवद्द्रव्य[४]मामयहेतुकम् ।
३७
 
[५]यद्दोषाहारसातिमात्रका रसास्तद्दोषजनकाः ।
३८
 
यावदजीर्णं तावद्रोगः ।
३९
 
यावज्जीर्णं समयो निवर्तकः[६]
४०
 
मधुररसादि[७]सन्निपातज्वरापहम् ।
४१
 
गोघृतं सर्वरोगहृत् ।
४२
 
आजमाविकं बालरोगविनाशनम् ।
४३
 
क्ष्माल्पानलाम्बुजस्वादुरसं पित्तहरम् ।
४४
 
पाकाम्लरसः पवनानुगमन्दाक्षिरोगहारकः ।
४५
 
सिद्धपाकाद्धि स्वादुरसः पवनहारकः ।
४६
 
[८]अभिपाकरसवद्द्रव्यमनिलामयनिवर्तकम् ।
४७
 
स्वादुबीजलवणाम्लकद्रव्यं सकलपवनापहरम् ।
४८
 
आम्लबीजलवणकाण्डस्वादुपत्रादिकं पित्तावृतानिलनिवारकम् ।
४९
 
लवणबीजस्वाद्वम्लगात्रद्रव्यं कफावृतानिलगदापहम् ।
५०
 
कषायरसनिभं आम्लगात्रभूरुहं सकलामयापहारकम् ।
५१
 
कषायरसश्शुक्लशरीरनाशहेतुकः ।
५२
 
स्वादुरसाश्चरमधातुनाशकरसविनाशकाः ।
५३
 
ऊषणरसवत्पोषकमज्जाप्रबोधकपवनहराम्लरसः तदुद्भूतरोगघातकः ।
५४
 
तिक्तरसवदस्थिशोषकामयनिवर्तकम्[९]
५५
 
लवणरसोऽन्तस्स्थितामयापहः ।
५६
 
लवणरसगुणकमेदोधातु[१०]दूषकनिवर्तकः ।
५७
 
तिक्तबीजं कटुशाखाशरीरं कफरोगजालामयरसाज्जाताजीर्णज्वरस्य[११]सप्ताहान्निवर्तकम् ।
५८
 
तावदजीर्णरसो रसान्तरं भवति ।
५९
 
तत्तद्रसस्तत्तद्रोगनिवर्तकः ।
६०
 
तद्विषमो भवति ।
६१
 
[१२]पित्तहेतुकाम्लरसाजीर्णं षड्रात्रात्तद्रसान्तरं भवति ।
६२
 
तद्रसस्तद्दोषजनकः ।
६३
 
कफहेतुकलवणरसाजीर्णं नवरात्रं तावद्रसान्तरं भवति ।
६४
 
तद्रसस्तद्दोषजनकः ।
६५
 
विरसान्नजाताजीर्णेऽपि ज्वरः ।
६६
 
यद्विरसानलापाच्यः स्वादुरसः, कषायो यद्भवेदनिलहेतुकः, आम्लविरस[१३]स्तिक्तरसः पित्तहेतुकः तद्विरसास्तद्भेषजाः ।
६७
 
अनल[१४]एव निवर्तकः ।
६८
 
जीर्णाजीर्णविवेको जिह्वायां विद्यते नृणाम् ।
६९
 
स्वाञ्जल्यां दृश्यते रसः ।
७०
 
यत्रस्था ये रसास्तत्रैव भान्ति ।
७१
 
तस्मात्पाचकपित्तं पचत्याहारम् ।
७२
 
धातून्पचत्यनिलः[१५]
७३
 
स एव ज्वरः ।
७४
 
धातुक्षयो भवति ।
७५
 
पित्तो ह्यूष्मा ज्वरो नास्त्यूष्मणा विना ।
७६
 
कषायतिक्तमधुराः पित्तनिवर्तकाः ।
७७
 
[१६]यद्वह्निस्स्वस्थाने ज्वलितो[१७] भवति तदाहारो धातुप्रदो भवति तदानलस्स्वस्थः ।
७८
 
तदाहारविहारौ धातुपोषकौ ।
७९
 
रसासृक्स्वादुमांसाम्लमेदोलवणोऽस्थि तिक्तमज्जोषणशुक्लकषायाः प्रतिपक्षकाः ।
८०
 
शुक्ले स्वादु मज्जाम्लः लवणमेदस्तिक्तमांसोषणकषायरसा रसासृग्धातुप्रबर्धकाः ।
८१
 
दोषप्रकोपहेतूद्भवदोष एव विकारः ।
८२
 
यदा विकारमङ्गे पश्यति तदाऽविकारकरणं कुर्यात् ।
८३
 
आप्यं तापहारि ।
८४
 
धातुधारणस्वादुरसवद्द्रव्यं अनिलजातानलामयभेषजम् ।
८५
 
यद्रसाधिक्यभूतोऽस्ति तद्रसाधिक्यरसो गुणदायकः ।
८३
 
प्रातः पीत्वाऽम्बु आमाशयस्थरोगं विशोधयत् सर्वरोगहारकम् ।
८७
 
पयः पित्तकफपवनस्पन्दहरं श्वासखासज्वरविनाशनम् ।
८८
 
गव्यं धातुविवर्धनम् ।
८९
 
आजं श्वासकासजित् ।
९०
 
औष्ट्रकं कफपित्तनुत्[१८]
९१
 
मानुष्यं सर्वदोषघ्नं सन्निपातज्वरनिवारणम् ।
९२
 
कटुकादिः रक्तरोगादिकषायकाण्डदेहकफावृत्तरुजापहः ।
९३
 
सर्वदेशकालदेहगतैकरसस्तत्तद्धातुगतरोगविनाशकः ।
९४
 

इत्यायुर्वेदस्य षष्ठः प्रश्नः समाप्तः.


  1. रोगः--A.
  2. तत्रैकरसो द्विरसो–-रसाद्विरसः--A&B.
  3. मनेकरसगुणान्प्रद--B.
  4. मामहेतु.
  5. यद्दोषहार.
  6. Bकोशे नास्त्येतत्.
  7. रोगादिसन्निपात--A.
  8. अधिकंपात–-A.
  9. विवर्धकम्--A.
  10. पोषक--B.
  11. ज्वर:--A&B.
  12. दीप्ति--A.
  13. विरसः कटु--A.
  14. अनिल--A.
  15. नलः--B.
  16. यो वह्नि--A.
  17. ज्वरो--A.
  18. नैतत् A. कोशेऽस्ति.