आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/पञ्चमप्रश्नः

आयुर्वेदे पञ्चमप्रश्नः.


गुहान्तरनिवासिनीं गुरुकृपाकटाक्षोदयैः
सहायमनुचिन्तयन्सरसिजेषु षट्सु क्रमात् ।
सहासमभिनर्तयन्सततमष्टवाग्वादिनीं
महात्रिपुरसुन्दरीमिह मुहुर्मुहुर्भावये ॥

 ननु नाभेरधस्स्थितशतदळपद्मं प्राणाधारकं सर्वेन्द्रियाधारभूतं च । तत्पञ्चसहस्रसिरावृतपद्मं शिरःकमलस्थामृतमाहृत्य पवनेन पूरितत्वात् आयुरभिवृद्धिकारकमित्युक्तम् । अतस्त्रयो दोषा अविकृताश्चेत् तत्पद्ममेव सकलश्रेयसां हेतुभूतमिति वक्तुं शक्यते । शुद्धरसवद्द्रव्यादनं दोषाणां सम्यग्गतिकारकं भवति । विरसद्रव्यादनं विकारकारकं भवति, तत्तत्प्रदेशस्थितदोषादिविज्ञानं विना तद्ज्ञानविषयकज्ञानग्राहकत्वस्यासम्भवात् । शुद्धरसवद्द्रव्यगुणाः शुद्धधातुवर्धकाः । विरुद्धद्रव्यगुणाविकारकारकाः । अतएव दोषस्थानं तत्स्वरूपं च व्याचष्टे--नाभेरिति ।

 नाभेरधस्तादूर्ध्वं हृदि स्थितवातपित्तकफदोषास्समस्ता असमस्ता असमग्रा अन्योन्यं ते आमयोत्पादकाः ॥ १ ॥

 नाभेरधस्स्थितः पवनः । तदूर्ध्वप्रदेशः नाभेरूर्ध्वस्थानम् । तत्पित्तदोषस्याकरो भवति । तदुपरि हृदयप्रदेशः कफदोषस्य स्थानं भवति । एतत्सर्वं सर्वपदार्थगुणागुणज्ञानं च दोषस्वरूपज्ञानहे तुभूतम् । अतो दोषादेः ज्ञानमावश्यकमिति । दोषादिविज्ञानं विना तत्तदामयानां निर्णेतुमशक्यत्वात् । तथाहि-- स कीदृशो वायुः ? कुण्डलिनीस्थितश्वासोच्छवासरूपमुपपन्नस्सन् द्विविधप्रकारको भवति । स एव वायुः प्राणापानव्यानोदानसमानभेदः उपाधिभेदात्पञ्चविध उपहूयते । स एव आयुस्सर्वसिराभ्यन्तरगतस्सन् तत्तत्पद्माधिष्ठितसर्ववर्णानाहृत्य ताल्वोष्ठपुटव्यापाराघट्टनात् जातपवनस्य उपाधिभेदवशात् तत्तत्पवनगतिशक्त्या सर्ववर्णान् तत्तत्पद्ममवगम्य तत्तत्पद्मस्थितवर्णसमूहात्मकशब्दं श्रोत्रप्रदेशं गमयन् तत्तच्छब्दार्थविषयकज्ञानजन्यज्ञानं करोति । यत्र यत्र विरसद्रव्यादनादजीर्णे जाते सति अनिलात्मकश्वासोच्छवासगतिः सिरारन्ध्रमार्गमुपगतस्य पवनस्य विकारगतिं करोति । यत्र विकारगतिज्ञानं तत्र तदतिवेदनाविषयकम् । तत्तत्सिरागतपवनः तत्तत्पद्मपर्यन्तं विरुद्धगत्या वर्णग्राहकश्चेत् तद्वर्णं श्रोत्रविवरमुपेतं परग्राह्यं यदा भवति तदा विवर्णशब्दात्मकपदं श्रूयते । यावद्वर्णग्राहकपवनमभ्युपेत्य दोषमार्गमुपगम्य पवनश्चरति, तदा समस्तदोषा असमर्था भवन्ति । स एव वायुः विरसादनादजीर्णे जाते सति अल्पमल्पं चरति । सोऽसमग्रगतिरिति । तेषां पवनानामन्येषां संकरगतिर्यत्र दृश्यते स एव रोगो भवतीत्यर्थः ।

 ननु दोषत्रयनिरूपणे धातुपोषकप्रतिपादकशास्त्रं न प्रतीयते । ते दुष्टास्सन्तः धातुदूषका भवन्ति । ते तु अदुष्टाश्चेत् यथापूर्वमनतिक्रम्य स्थित्युपकारका भवन्ति । अतो दोषनिवारणेन किं फलं लभ्यत इत्यस्वरसादाह-- यत्रेति ।

 यत्रस्था ये रसास्तत्तदुद्भूतजातास्ते धातुपोषकाः ॥

 यत्र यावद्भूताधिक्यजातयावद्द्रव्यादनं तत्तद्भूताधीनतत्तन्निवर्तकधातुपोषकम् । यावदुद्भूतभूरुहरसाः यावदुद्भूतभूतजातधा तुशोषकपोषकाः यावदुद्भूतभूरुहविरसादनजातरोगनिवर्तकतत्सजातीयरसवद्द्रव्यत्वात् । यावदुद्भूतभूरुहजातरसात् तदितरशरीरभूताधीनधातुशोषकरुङ्निवर्तकं भेषजं, इत्यनुमानरचना कार्यहेतुकव्याप्तिग्रहवशात् तन्निवर्तकनिवर्त्ययोः व्याप्तिग्रहे सति सर्वत्राप्युत्तरत्रापि तथा वक्तुं शक्यत्वादित्यर्थः ।

 ननु दोषप्रकोपनिवृत्तिद्वारा रसादीनां धातुपोषकत्वं वक्तव्यम् । यावद्भूतनिष्ठरसाः यावद्भूतावयवजन्यरोगनिवर्तका इति पूर्वसूत्रे प्रतिपादितम् । तच्चिन्त्यम् । केचिद्रसाः धातुपोषकाः, केचिद्रसाः धातुदूषका इति वक्तुं शक्यते । विरुद्धरसादजीर्णे जाते सति तत्तद्विधिचोदितरोगा आविर्भवन्ति । ते तु दोषानुगतास्सन्तः धातुगताश्चेत् तेषु तद्विकारा आविर्भवन्ति । यदा अविरुद्धरसादनेन दोषा अदुष्टास्सन्तः धातूनामविकारं कुर्वन्ति, शुद्धदोषाश्च धातून् प्राणांश्च संरक्षन्ति । ते तु दुष्टाश्चेत् धातुप्राणेन्द्रियघातका भवन्ति । रसादीनं दोषप्रकोपकारकत्वं दोषप्रकोपनिवर्तकत्वं च वक्तुमुचितम्, इत्याशयं मनसि निधाय षड्रसानां च तत्तद्गुणान् वर्णयति-- द्वीति ।

 द्विरसार्थरसहीनार्थहीनरसवाननिलनिवारकः ॥

 द्विरसार्थ इति स्वाद्वम्ललवणविशिष्टद्रव्यं पवनप्रकोपनिवर्तकम् । स्वादुरसवद्द्रव्यं पवननिवर्तकं न भवति, इक्षुरसकदळीफलनारिकेलतालफलेषु च व्यभिचारात् । स्वादुरसवत्त्वं आम्लरसवत्त्वं च यस्मिन्द्रब्ये यदा प्रतीयते तत्र तद्रसवद्विशिष्टद्रव्यं पवननिवर्तकं भवतीत्यर्थः । केवललवणरसवद्द्रव्यं पवननिवर्तकं न भवति, ऊषरभूमिजन्यलवणरसस्य पव ननिवर्तकत्वासम्भवात् । सामुद्रजं तु न तथा । स्वादुरसत्वं जलद्रव्यस्यावच्छेदकम् । तथा सति सामुद्रजलवणं तु जलस्य स्वभावनिष्ठस्वादुरसस्य तत्रैवान्तर्भावात् लवणरसविशिष्टभूद्रव्येण जलनिष्ठस्वादुरसस्याभिपूरितत्वात् । तर्हि तथा सति अत्स्ति चेदुपलभ्येत । अनुपलभ्यमानत्वात् तन्नास्तीति न वक्तव्यम् । लवणविशिष्टयोग्यद्रव्यं व्यञ्जनादिद्रव्ये रुचितया प्रतीयते । स्वादुरुचिरेतत्स्वादुतया प्रतीतेति व्यवहर्तुं शक्यत एवेत्यर्थः । काश्चिद्भुवः लवणरसविशिष्टा भवन्ति । काश्चिद्भुवः स्वादुरसविशिष्टा भवन्ति, तत्तद्भूमिजलकूपादौ तथा दृष्टत्वात् । यत्रयत्र लवणरसोपलब्धिः तत्रतत्र ताद्दशभूमिजन्यत्वं तत्रोपाधिः। स्वादुजलविशिष्टकूपजन्यजलगुणस्वादुरसस्य प्रतीतत्वात् तत्र लवणरसजनकभूमित्वाभावविशिष्टभूजन्यलवणत्वस्य तत्र विद्यमानत्वात् । तत्र स्वादुरसप्रतीतेः वक्तुं शक्यत्वात् । सैन्धवदेशजन्यलवणरसविशिष्टद्रव्यस्य शुद्धभूजन्यत्यात् आम्लरसवत्त्वं भूमेरवच्छेदकम् । तत्रतत्र द्रव्यजन्यत्वादेव पवननिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः । तत्र द्विरसार्थभूतद्वयद्रव्यगुणविशिष्टत्वात् तत्र द्विरसार्थप्रवृत्तिः पवननिवर्तिकेत्यर्थः ।

 रसहीनार्थ इति रसहीनद्रव्यं पारदादिद्रव्यम् । तत्र औषधादिरसानां सर्वदा सर्वकालेऽप्रतीतत्वात् । तत्र पवननिवर्तकत्वं सर्वजनसिद्धं सर्वशास्त्रमतसिद्धम् पारद इत्युपलक्षणम् । रसोऽवरलोहादिसाधारणमहारस इति पारदशब्देन सर्वं संगृह्यते । अस्मिन्पारदद्रव्ये रसादय आविर्भूता भवन्ति । हीनरसवत्त्वं त्वन्यद्रव्यस्य विरेककारित्वं सुप्रसिद्धम् । तस्य गुणस्य पवननिवर्तकत्वस्य सुप्रसिद्धत्वादिति बहवः ॥

 सूत्रस्थानवचनस्यापीदमेव तात्पर्यम् । तथाहि अव्यभिचरितत्वं व्याप्तेरवच्छेदकम् । यत्र स्वादुरसवत्त्वं तत्र पवननिवर्तकत्वं इत्येवमाकारेण व्याप्तिग्रहानन्तरं अनुमितौ प्रवृत्तिः । इक्षुकाण्डस्थितस्वादुरसः पवनप्रकोपनिवर्तकः, जलभूम्यात्मकावयवग्रस्तत्वात् उर्वारुकफलरसवत् । एतदनुमानेनापि एकस्वादुरसस्य पवननिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः ।

 ननु आम्लरसवद्द्रव्ये कालपाकवशात् माधुर्ये जाते सति स आम्लरस एव भवति । विरसद्रव्यादनं विकारकारकम् । तद्वदेव द्विरसवद्द्रव्यमिति वक्तुं शक्यते । स पवननिवर्तकरसः कथं स्यादित्यस्वरसादाह-- मधुरेति ।

 मधुरातिमधुरं क्रमाद्वातपित्तघ्नौ कफं कुरुतः ॥

 मधुरत्वं नाम मधुररसवद्द्रव्यातिरिक्तस्वादुरसवद्द्रव्यं पवननिवर्तकम् तत्कालवशात् मधुरीभूतं भवति । तत्स्वादुरसवद्द्रव्यं पित्तप्रकोपनिवर्तकं, तद्विरसवद्द्रव्यं न भवति । एकरसजातिविशिष्टद्रव्यत्वात् एकरसद्रव्यमेवेति । आम्लरसवद्द्रव्यत्वजातिविशिष्टद्रव्यं कालपाकजोपाधिकं मधुररसवद्द्रव्यं भवतीति यदा प्रतीयते तदा तद्विरुद्धरसवद्द्रव्यं न भवति, तद्योग्यकालातीतद्रव्यभावद्रव्यत्वात् । तत्र विरसवद्द्रव्यातीतकालत्वमुपाधिरितिमधुररसवद्द्रव्यं तस्मादेवातिमधुररसवद्द्रव्यं पित्तप्रकोपनिवर्तकं भवतीत्यर्थः । आम्लरसवद्द्रव्यजातिविशिष्टैकरसवद्द्रव्यस्य पवननिवर्तकत्वमात्रे चरितार्थत्वात् पवनव्यतिरिक्तदोषनिवर्तकद्रव्याभावद्रव्यत्वात् इत्यत आह--आम्लेति ।

 आम्लात्याम्लौ च तथा ॥ ५ ॥

 आम्लरसजातिविशिष्टद्रव्यस्य पाककालवशात् अत्याम्लरसे जाते सति तस्य अन्यदोषनिवर्तकत्वं वक्तुं न शक्यते ।

एकरसजातीयद्रव्यत्वात् । तस्मात्पवननिवर्तकत्वमेव सुप्रसिद्धमिति तात्पर्यम् ।

 लवणरसवद्द्रव्यस्यापि तथात्वादित्यत आह--लवणेति ।

 लवणं पवनं हन्ति । कफपित्तकरणम् ॥ ६ ॥

 तिक्तोषणकषायरसप्रतीतेरेवाभावात् क्षारवद्द्रव्यत्वाच्च पित्तप्रकोपकारकं भवतीत्यर्थः ।

 ननु लवणरसस्य पवनप्रकोपकारकत्वं वक्तुमुचितम् । कफप्रकोपकारकमिति वक्तुं नोपयुज्यते । क्षारद्रव्यत्वाच्च पवननिवर्तकं भवेदित्यस्वरसादाह-- हीनेति ।

 हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते ॥ ७ ॥

 स्वादुरसगुणवद्द्रव्यजन्यरसः लवणरसः हीनलवणरसो भवति । ततोऽधिकलवणरसः सिन्धुदेशोद्भवलवणरसः अम्लरसाधिक्यद्रव्यजन्यत्वात् । बडवानलसंयोगवज्जलजन्यलवणरसद्रव्यत्वात्कफनिवर्तकत्वं ब्रूमः ।

 नभ आदित्यभूतशरीरजन्यतिक्तरसस्य कफदोषप्रकोपनिवर्तकत्वं वक्तुं नभोऽनिलद्रव्यजन्यत्वादेव तिक्तरसस्य पवनप्रकोपकारकत्वं कफपित्तरोगनिवर्तकत्वं च व्याचष्टे-- तिक्त इति ।

 तिक्तः कफपित्तं हन्ति मारुतं कुरुते ॥ ८ ॥

 तिक्त इति नभोऽनिलभूजन्यतिक्तरसः आकाशस्य निरवयवद्रव्यत्वात्, वायोश्च निरवयवद्रव्यत्वात् उभाभ्यां जातशरीरं तिक्तरसवद्भवति । तिक्तरसद्रव्यादनं कफप्रकोपनिवृत्तिं करोति । यत्प्रतिपादितं तत्सर्वं सम्यगेव प्रतिपादितम् ।

 पित्तं हन्तीत्यस्य अनिलभूताधिक्यगगनभूतसंयोगजन्यत्वात् रसग्रहणीकलासन्धुक्षणपवनभूतगगनभूतसंयोगाज्जाततिक्तरसः उभयोरपि सर्वागमव्याप्यद्रव्यत्वात् पित्तप्रकोपनिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः ।

 ननु तस्य तिक्तरसस्य पवनप्रकोपकारकत्वं न संभवति स्वजन्यत्वात् । स्वजनकशरीरच्युतनिम्बकुष्ठभूनिम्बशृङ्गिशार्ककर्काटककुटजपटोलकुमारिभूतलततलपोटुकर्कन्धूदेवगुग्गुलाद्याः तिक्तरसपदार्थाः पवनप्रकोपकार्यनिवर्तकद्रव्यत्वात् भोगयोग्यद्रव्यत्वाच्च जठराग्निप्रज्वलनकार्याणां हेतुभूतद्रव्यत्वाच्च । सर्वे ते पवनप्रकोपनिवर्तका इति विज्ञातत्वात्कथं "मारुतं कुरुते" इत्युक्तमिति नाशङ्कनीयम् । तिक्तरसविरसवद्द्रव्यादनं पवनप्रकोपं कुरुत इति तात्पर्यात् । विरसद्रव्यादनं नाम विरुद्धरसद्रव्यादनम् । तदेव विषवद्द्रव्यादनं भवतीत्यर्थः ।

 अनलानिलभूतावयवाधिक्यजातकटुरसः कफप्रकोपनिवर्तक इत्याह--कट्विति ।

 [१] कटु कफं हन्ति । वातपित्तहेतुकम् ॥ ९ ॥

 कटुरसस्य कफनिवर्तकत्वं सुप्रसिद्धमेव । पित्तप्रकोपकारकत्वमपि सुप्रसिद्धमेव । कटुकाः शुद्धरसाः कफरोगनिवृत्तिकारकाः पित्तप्रकोपं च कुर्वते । इत्येतद्द्वयं सुप्रसिद्धम् । अनलानिलभूतजन्यकटुरसद्रव्यत्वेन कफप्रकोपं निवर्तयति, पित्तप्रकोपं च कुरुते । पवनप्रकोपनिवृत्तिं च कुरुते ।

 शुण्ठी रास्ना कर्णग्रन्थिः चव्यं मूलकं तमालपत्रं अर्धकं लशुनं हिञ्गु एतानि कटुरसद्रव्याणि भवन्ति । पवनप्रकोप कारकाणीति सूत्रसिद्धमपि एतद्विरसादनं पवनप्रकोपं करोतीति तात्पर्यम् । अत एव सूत्रान्तरं व्याचष्टे--कटुकेति ।

कटुकातिकटुकः कफानिलं हन्ति । पित्तं कुरुते ॥ १०

शुद्धकटुरसः पित्तप्रकोपं कुरुत इत्यर्थः ।

 कषायः कफपित्तं हन्ति । मारुतं कुरुते । हीनाधिककषायः कफमारुतं हन्ति । पित्तं कुरुते ॥ ११

 कषायः कफपित्तं हन्ति । मारुतं कुरुते' इत्यस्य सुत्रस्य तद्वदेव व्याख्यानं योजनीयम् ।

 ननु षड्रसद्रव्याणां मध्ये एकरसद्रव्यस्य तत्तद्रोगनिवृत्तिकार्यं तत्तत्कर्म तत्तत्फलं च प्रतिपादितम् । इदानीं बहुरसद्रव्याणां योगकार्यस्य तत्तद्रोगनिवृत्तिरेव फलं यत्र दृश्यते तत्र अनेकरसवद्द्रव्याणां समूहकार्यकारकत्वं भवतीति मत्वा एकरोगनिवृर्त्त्यर्थमनेकरसद्रव्याणामनेकत्वयंत्रोपलभ्यते, तत्र बहुरसवद्द्रव्याणां एकरोगनिवर्तकत्वस्यायोग्यत्वात्, तत्तद्व्याधीनां निवर्तकत्वमनेकद्रव्याणामिति तत्तद्व्याधिनिवर्तकत्वावच्छेदकत्वस्य वक्तुमायोग्यत्वात्, एकैकद्रव्यस्य एकरोगनिवृर्तकगुणत्वावच्छेदकस्य भिन्नत्वात् "बहुकल्पं बहुगुणम्" इति न्यायशास्त्रमवलम्ब्य बहुद्रव्ययोगकार्यकारकत्वमुक्तं चेत् अतिप्रसङ्गः स्यात् । एकद्रव्यमेकरोगनिवर्तकमित्यर्थस्य बहुशोदृष्टत्वात् । मलनिरोधनहेतुजन्यरोगे एकस्यैव रेचकद्रव्यस्य तन्निवर्तकसामर्थ्यस्य बहुद्रव्येषु बहुशो दृष्टत्वात् । तत्रापि बहुद्रव्यकल्पनागौरवात् एकद्रव्यस्यैव एकरोगनिवर्तकसामर्थ्यस्य बहुशो दृष्टत्वात् इत्यस्वरसादाह-- दोष इति ।

 दोषे त्रिदोषहेत्वन्यहेतुकविकारविरुद्धयावद्रसैकभावात्मकैकरसादिः निवर्तकः ॥ १२ ॥

 त्रिदोषहेत्वन्यहेतुकेत्यत्र त्रिदोषाणां विकाराभावप्राग्भावपरिपालनार्थं अविरुद्धरसवद्द्रव्यादनस्य फलं अनिष्टपरिहार एव भवति । दोषाणां स्वभावगतिकारकरसवद्द्रव्यं दोषाहेतुकम् । दोषप्रवणकार्यवद्रसविरसद्रव्यादनं विकारकारकम् । तद्विरुद्धकार्यहेतुभूतयावद्रसवद्द्रव्यादनम् तद्यावद्रसवद्द्रव्यैकभावात्मकबहुरसवद्द्रव्यादनयोग्ययोगकरणं एकव्याधिनिवर्तकम् ।

 क्वाथ्यद्रव्ययोग्ययोगजन्यरसवद्द्रव्यादनं तत्तद्रोगनिवर्तकम् । बहुद्रव्ययोग्ययोगजन्यचूर्णीकृतद्रव्यरसवद्द्रव्यादनं तत्तद्रोगनिवर्तकम् ॥

 तैलघृतलेह्यरसायनाद्यैः अनेकैकद्रव्यजन्ययोग्ययोगकृतिजन्यसंस्कारयुक्तानेकरसद्रव्यादनं यावद्रसैकभावात्मकं यत्तदेकरसवद्द्रव्यं भवति । तदनेकद्रव्याणां एकगुणफलं प्रयच्छति । कलियुगे सङ्घे शक्तिर्भवतीति, न तु एकस्य द्रव्यस्य रोगनिवर्तकशक्तिः, कलियुगे अभिभूतत्वात् सङ्घे शक्तिर्भवतीति प्रतिपादितम् । ब्राह्मणाशीर्वादवत् । एकब्राह्मणवदनोच्चारितवाक्ये शक्तेरभिभूतत्वात् तेषां सङ्घे शक्तिर्भवतीतिवत् । तत्तद्रसवद्भूरुहाणां एकस्यैव दृढतरशक्तेरभावात् सङ्घे शक्तिर्भविष्यतीति बहुद्रव्यमेलनं तत्तन्निवर्तककार्यफलम् । बहुयोगजन्यसंस्कार एव तत्क्रतुफलं प्रयच्छति । अस्मिन्कलियुगे अधर्मबाहुळ्यात् व्याधयो बहवस्संभवन्ति । ततश्शरीराणामल्पत्वात् । तन्निवर्तकानि क्वचित्फलं प्रयच्छन्ति । क्वचित्सकलसामग्र्यामसत्यामपि तत् तत्फलं प्रयच्छति । अत एवोक्तं--

 तच्छान्तिरौषधैर्दानैः जपहोमार्चनादिभिः । इति ।
अस्मिन्युगे बहुसामग्रीभिरवश्यं भाव्यमित्यर्थः ॥

 ननु इदं द्रव्यं एतद्द्रव्यादनजातरोगनिवर्तकमिति, अयं रोगः तन्निवर्तककैद्रव्यसाध्यः तन्निवर्तकैकद्रव्यवत्त्वात् इत्यनुमानविधया प्रामाण्ये स्थिते सति तत्र प्रजायते । सा प्रमा समर्थप्रवृत्तिसाधिकेति तयोः कार्यकारणभावं निश्चित्य तत्र प्रवर्तते । तत्र व्याधिनिवर्तकद्रव्यसन्देहे सति तन्निवृत्तिकार्यविषये प्रवृत्तेरभावात्, तयोर्व्याप्तिग्रहस्य सुतरामशक्यत्वात्, अयं रोगनिवर्तक इति निश्चयज्ञाने सति तत्र प्रवृत्तिः, निश्चितार्थे संशयाभावात्, तन्निश्चयस्य तद्धेतुत्वात् । एकपदार्थस्य तन्निवर्तकत्वसन्देहे सति पदार्थान्तरसंग्रहप्रवृत्तौ अतिप्रसंगस्स्यादित्यस्वरसादाह--रसादीति ।

 रसादिद्रव्यसारजा[२]स्सकलामयनिवर्तकाः ॥ १३

 रसासृङ्मांसमेदोमज्जाशुक्लादिधातूनां विकारे जाते सति तद्द्रव्यं तन्निवर्तकमिति निश्चित्य तत्र विरेचनविधिः कार्य इति ज्ञाने जाते सति हरीतकीप्रयोगविधिः क्रियते । तादृशहरीतक्यदनेन तदागतमलनिस्सरणं जायते । तत्र तन्निश्चये स्पष्टे त्वरितव्याप्तिग्रहस्य सुकरत्वात् । तत्र हरीतकीत्युपलक्षणम् । तद्रसगुणविशिष्टद्रव्यजातिमात्रमेव विवक्षितम् । विकारग्रस्तदोषाणां यावद्धातुसंचारित्वं यत्र प्रतीयते तावद्धातुगतरोगनिवृत्त्यर्थं अनेकद्रव्याणां योग्ययोगकरणं विधिरिति तत्र विधीयते । तन्निवर्तकयावद्द्रव्येण रसवद्द्रव्यादनं विवक्षितम् । तन्निवर्तकद्रव्यमात्रस्य तन्निवर्तकत्वावच्छेदकत्वमिति तयोर्व्याप्तिग्रहणानन्तरं समर्थप्रवृ त्तेरपि निश्चितत्वात् । तत्सारजा रसाः सकलामयनिवर्तका इति सूत्रार्थस्सम्यक्प्रतिपादित इत्यर्थः ।

 ननु यावन्निवर्तकानेकयोग्यद्रव्याणि बहूनि सन्ति । तान्येव सन्तु भेषजानि । तत्तत्स्थितानेकरसवद्द्रव्यसमूहात्मकयावद्द्रव्यं महारसं, तादृशरसवद्द्रव्यं महारसवद्द्रव्यं भवति, अनेकरसवद्द्रव्यसमूहत्वात् बहूदीरितशब्दसमूहवत् इत्यनुमानेन बहूनां शब्दानामेकीकरणविधौ यथा महाघोषो जायते तद्वदेव बहुद्रव्यसजातीयमेलनविधौ बहुगुणं विधत्ते । क्वाथचूर्णतैलघृतरसायनादौ योग्यद्रव्याणां एकीकरणपाकजविधौ सकलामयनिवृत्तिरेतद्ज्ञानपूर्विका तत्तद्रोगनिवर्तकरसवद्द्रव्यज्ञानपूर्विका अनेकरसवद्विशिष्टद्रव्यसमूहत्वात् । अन्यथा तत्तद्भूरुहाणां प्रत्येकगुणप्रतिपादकशास्त्रस्य व्यर्थतापत्तेः । तथात्वे बहुद्रव्याणां एकरसवत्त्वासंभवात् रसानामेव गुणप्रधानत्वस्य सुप्रसिद्धत्वात् । तदेकप्रकारत्वेन तदवच्छेदकमेकमेवेति निश्चेतुमशक्यत्वादित्यस्वरसादाह--अदोषेति ।

 अदोष[३]धातुपोषकमनेक[४] सारकम् ॥ १४ ॥

 तत्तद्द्रव्यनिष्ठदोषनिवृत्त्यर्थं तत्तद्विधिचोदितसंस्कारवशात् अदोषद्रव्यं बहुसारवद्बहुरसगुणवत्संभवति यत्तदेव अदोषद्रव्यमिति तद्रसवत्त्वं तत्तद्धातुपोषकयावद्द्रव्यस्यावच्छेदकं भवति । तद्द्रव्यमेकमपि अनेकरसवत्सत् तत्तद्बहुगुणं प्रयच्छतीत्यर्थः ।

 ननु षड्रसवद्द्रव्याणां धातुपोषकत्वं यदा सम्भवति, तदा तेषां रसानां पवनादिप्रकोपकारकत्वस्य तथा तेषां धातूनामपि पोषकत्वस्य वक्तुमशक्यत्वात् ते रसास्तदा अप्रकोपकारका भ वेयुः, तेषां धातुपोषकत्वस्य वक्तुं सुकरत्वात् इत्याशयं मनसि निधाय यद्रसेभ्यो व्याधयस्सम्भवन्ति तैरेव ते निवर्तन्त इति तदुभयमपि व्याचष्टे-- पक्वेति।

 पक्वामाशयगाः पवनाद्याः स्वादुकषायकटुकैस्तिक्ताम्ललवणैः कालपाकजयोग्यैः[५] धारणरेचकात्मकद्रव्यैर्विविधैः [६]द्विविधामयाः प्रवर्धन्ते ॥ १५ ॥

 पक्वामाशयगाः पवनाद्या इति पक्वाशयमलाशयगता दोषाः लवणैः स्वादुकषायकटुकैः केवलं स्वादुरसद्रव्यादनं कफप्रकोपहेतुकं भवति, स्वादुरसजन्यः पवनप्रकोपो जायते, तत्पवनप्रकोपनिवृत्त्यर्थं लवणाम्लरसद्रव्यादनं कुर्यात् । केवलं कटुरसद्रव्यादनं पित्तप्रकोपजनकम् । पित्तप्रकोपनिवृत्त्यर्थं स्वादुरसद्रव्यादनं कुर्यात् तिक्तरसद्रव्यादनं च । उभयं पित्तनिवर्तकं भवतीत्यर्थ इत्येवंप्रकारेण आयुर्वेदप्रणेतृपरब्रह्मतात्पर्यं वर्णितमित्यर्थः । तथाहि--अतिकटुरसद्रव्यादनेन पवनप्रकोपहेतुकरूक्षगुणविशिष्टद्रव्यादनात् पवनप्रकोपो जायते । कटुरसद्रव्यादनात् रूक्षप्रकोपतैजसगुणजन्यग्रहणीकलाप्रकोपस्य दृष्टत्वात् । तेन पवनप्रकोपे सति ग्रहणीकलायाः सन्धुक्षणकारकस्वभाववत्त्वेन पवनः अतिप्रज्वलनहेतुभूतो भवति । अथवा अतिमान्ध्यकारको वा भवति । तस्मात्कटुरसद्रव्यादनं पित्तप्रकोपकारकं रूक्षगुणविशिष्टपवनप्रकोपहेतुभूतकटुरसवद्द्रव्यत्वात् । तेन ग्रहणीकलाया एव पित्तद्रव्यत्वात् तया अनिलसमगत्या ग्रहणीकला शुद्धा सती प्रज्वलिता भवति । तद्विषमगत्या तद्विकारो भूत्वा अनलं मन्दं करोति ।तेनाजीर्णरोगाश्चाविर्भवन्तीति परब्रह्मण आशयश्च वर्णित इत्यर्थः ॥

 कालपाकद्रव्यजरोगस्तत्सर्वरेचनगुणविशिष्टः । सा कला आमनिवर्तकान्तरगुणविशिष्टा । आमकारकद्रव्यं सकलामयहेतुकम् । एतद्गुणविशिष्टद्रव्यादनादामयाः प्रवर्धन्ते ।

 ननु वातपित्तकफदोषैरेव तद्रोगोत्पादकसामग्र्यां सत्यां तत्तद्रोगा आविर्भवन्तीत्युक्तम् । तच्चिन्त्यं, तथाहि--

 पञ्चभूतात्मकं शरीरमिति शरीरसंरक्षणं शरीरस्यैव सर्वरोगालयत्वाच्छरीरमेव यावदुद्भूतात्मकयावद्द्रव्यान्तर्भूतावयवाधिक्यहितकार्यजातगुणकारकं यावद्भूतावयवाभिवर्धकतत्सजातीयरसद्रव्यादनजन्यत्वादिति तत्तद्भूतनिष्ठरोगाणां तत्तद्भूतावयवाधिक्यजातकार्यहेतुकत्वम् ।

 भूगुणौ गुरुमन्दौ । स्निग्धहिमावापः । श्लक्ष्णसान्द्रतराऽग्नेः । मृदुस्थिता गुरुमारुतः । सूक्ष्मविशदा वियतः । विरुद्धविषयकाः प्रतिकारकाः । देशदेहकालद्रव्यकर्मणां यथायोगो यावद्रोगघातकः ॥ १६ ॥

 भ्ववयवाधिक्यगुणोपलम्भकदेहगौरवगुणोपलब्धिः मन्दगुणश्च जायते । उभावपि भूगुणौ भवतः । तत् पार्थिवावयवाधिक्योपलम्भकपञ्चभूतात्मकं शरीरमिति तद्द्रव्यावयवाधिक्योपलम्भकपार्थिवद्रव्यावच्छेदकगन्धवत्त्वज्ञानानुभवात्मकत्वं तत्पार्थिवावयवाधिक्यपञ्चभूतात्मकमिति तादृशरसवद्द्रव्याधीनं तद्विकारविशिष्टद्रव्याधिक्यपञ्चभूतात्मकं शरीरमिति ।

 एवमनलद्रव्यावयवाधिक्योपलम्भकवह्नित्ववद्द्रव्याच्छेदकतैजसगुणवत्त्वं वह्निभूताधिक्यवह्निद्रव्याधिक्यज्ञापकतैजसरूपोपल म्भकज्ञानानुभवात्मकत्वं तत्तैजसावयवाधिक्यपञ्चभूतात्मकमिति ताद्दशगुणविशिष्टपञ्चभूतात्मकद्रव्याधिक्यादनं वह्निभूतावयवविकारहेतुकम् ।

 एवं सर्वद्रव्येषु योजनीयम् । तथाहि--पार्थिवद्रव्यावयवाधिक्यादनं पार्थिवद्रव्यावयवविकारहेतुकम् । जलाधिक्यगुणोपलम्भकरसाधिक्यद्रव्यादनं जलद्रव्यावयवविकारहेतुकम् । वह्निद्रव्यावयवविकारकारकं वह्न्याधिक्यगुणोपलम्भकरसाधिक्यद्रव्यादनम् ।

 इति यथायोगं यावद्रोगघातात्मकषड्रसद्रव्याणां नानारोगनिवर्तकत्वं प्रतिपादितम् । तच्चिन्त्यम्, तथाहि--

 एतत्प्रयोजनं दोषत्रयप्रकोपकारकत्वं दोषत्रयप्रकोपनिवर्तकत्वं च । देशदेहकालभेदेन तत्तद्दोषनिवर्तकमिति प्रतिपादितम् । तन्न क्षोदक्षममित्यस्वरसादाह-- स्वस्थेति ।

 स्वस्थास्वस्थास्सामजामयास्सदोषगा विदोषगाः[७] ॥ १७ ॥

 यावत्पार्थिवद्रव्यादनेन दोषाः स्वस्था भवेयुः, यावद्विरसद्रव्यादनेन अजीर्णे जाते सति अन्योन्यस्थानस्थितत्वात् अस्वस्था भवेयुश्च । निर्दिष्टकार्यव्यतिरिक्तकार्यकारकत्वं तेषामेवावच्छेदकम् । तत्तद्रव्यादनम् दोषाणां स्वस्थत्वकारकम् । विरुद्धगतिकार्यहेतुभूतद्रव्यादनजन्या ये त एव सामजामयाः । तेषां निवर्तकद्रव्यादनेन नीरोगत्वम् ।

 सदोषेति-- तत्र दोषाणां ये विकृतास्ते विकारग्रस्ताः । धातुशोषकशरीरमार्गं गच्छन्तीति ते दोषगाः तद्विकाराभावकार्यहेतुकरसद्रव्यादनेन विदोषगाः विकाररहिता भवन्तीत्यर्थः ।

 इयं दोषविकारगतिः, इयं दोषविकाराभावगतिरिति विरुद्धाविरुद्धरसवद्द्रव्यादनजन्या इति प्रतिपादिताः, विरुद्धाविरुद्धरसवद्द्रव्यादनमात्रज्ञानहेतुकत्वात् इत्यनुमानरचनेन प्रतिपादिता सती वर्तते । बलवद्वह्न्यादिका ये एतत्प्रतिपादितार्थावच्छेदकत्वानुभवास्त एव शरीरं तथा रक्षन्ति तद्भक्षितान्नं तेनानलेन जीर्यते, एतत्प्रतिपादितार्थस्य संभावितत्वादित्यस्वरसादाह--विहितेति ।

 विहितपाक[८]हेतुरसा विपाकान्तस्स्थितविरुद्धरसा विषमदोषधातुमार्गगा[९] विषमदोषाः ॥ १८ ॥

 विरुद्धाविरुद्धरसद्रव्यादनज्ञानं विहितरसविपाकान्तस्स्थरसवद्द्रव्यादनज्ञानपूर्वकं तद्विकारकार्यहेतुभूतरसवद्द्रव्यादनज्ञानजन्यनिवर्तकज्ञानपूर्वकत्वात् । तेऽन्तस्स्थितरसादनविरुद्धरसाः विकारकारकाः तद्विकारग्रस्तदोषा विषमदोषाः, धातुमार्गं गच्छन्तीति धातुमार्गगाः । त एव विषमदोषा इत्यर्थः । तद्विरसवद्द्रव्यादनजन्यविकारज्ञानज्ञापकं स्वहस्ततलमेव घ्राणेन्द्रियविषयकज्ञानग्राहकं तत्प्रत्यहं तत्रैव यावद्द्रसाभावदर्शनं आरोग्यहेतुकमिति प्रत्यहं विज्ञाय तत्तु भूयोभूयो दर्शनेन स्वहस्ते वा अन्तस्स्थितामयानां हेतुभूतरसाः दक्षिणहस्ततले आविर्भवन्ति । आरोग्यज्ञानं यावद्विरसादनजन्यामयहेतुकरसविरसाभावज्ञानविषयकज्ञानं भवितुमर्हति । तथाहि--घ्राणेन्द्रियविषयहस्तगतरसज्ञानं विपाकान्तस्स्थितामयहेतुरसविरसाविर्भावज्ञानविषयकज्ञानहेतुकरसविरसादनजन्यामयज्ञानहेतूपलम्भकं तद्रसवद्द्रव्याधिक्यादनम् । अनिल द्रव्यावयवविकारहेतुकं अनिलद्रव्यादनगुणोपलम्भकतद्रसाधिक्यद्रव्यादनम् । आकाशद्रव्यावयवविकारहेतुकमेव । एवं विरुद्धविषयस्य प्रतियोगित्वेन हेतुत्वात् ।

 ननु तत्तद्द्रव्यगुणविशिष्टरसानुगुणयावद्द्रसवद्द्रव्यं यावद्रोगघातकमिति वर्तते । तथाहि--गगनभूताधिक्यज्ञापककषायरसानुगुणं सत् श्रोत्रविवरप्रदेशगतशब्दज्ञानप्रतिबन्धकश्रोत्राकाशविवरगतनाभसकषायरसाधिक्यद्रव्यं तन्निवर्तकं स्यात् । तस्मात्तद्गगनगुणाधिक्यमिति विज्ञेयम् । तथैव पवनगुणाधिक्यद्रव्यमपि विज्ञेयम् । पवनगुणाधिक्यद्रव्यज्ञापकमृदुस्थिरगुरुद्रवद्रव्यज्ञानं विरुद्धविषयकपवनभूतावयवाधिक्यज्ञापकं पाञ्चभौतिकविरुद्धविषयकद्रव्यमिति । एवमनिलाधिक्यगुणज्ञापकश्लक्ष्णसान्द्रतादिगुणाधिक्यतैजसगुणाभिवर्धकद्रव्यं अनलभूताधिक्यज्ञापकं पाञ्चभौतिकम् । एवं जलभूताधिक्यज्ञापकस्निग्धहैमगुणविशिष्टजलद्रव्यं विरुद्धविषयकम् ।

 एवं पृथिवीत्वज्ञापके गुरुत्वमन्दत्वे । आम्लरसद्रव्यत्वात् । पार्थिवद्रव्यावयवाधिक्यस्वादुरसज्ञापकं यत् तत्पञ्चभूतात्मकं विरुद्धविषयकम् । एतत्सर्वं विज्ञाय चिकित्सा कार्या ।

 ननु चिकित्साज्ञानं विरुद्धविषयकज्ञानपूर्वकम् । विरुद्धविषयकत्वं नाम विरुद्धद्रव्यज्ञानविषयकत्वम् । तत्र विरुद्धद्रव्यज्ञानस्य प्रतियोगित्वेन हेतुत्वात् । तथा सति शरीरस्य लक्षणं पञ्चभूतात्मकत्वम् । तल्लक्षणं तद्ज्ञानपूर्वकम् । तत्र श्रुतिः--

 "आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पाञ्चभौतिकं शरीरमिति ।"

 चिकित्साकाले पण्डितानां द्रव्यज्ञानमावश्यकमिति कालयोगविषयद्रव्यज्ञानं देशयोगविषयद्रव्यज्ञानं देहयोगविषयकद्रव्यज्ञानम्— एतत्सर्वज्ञानं विना पञ्चभूतात्मकरसवद्द्रव्यज्ञानं किमासीदित्याह-- देहेति ।

 देहदेशकालद्रव्यकर्मणां यथायोगकरणं यावद्रोगघातकम्[१०] ॥ १९ ॥

 देशभेदेन द्रव्यभेदं विज्ञाय चिकित्सा कार्या । कालभेदेन द्रव्यभेदं विज्ञाय चिकित्साकरणं विधिः । एतेषां कर्मकरणं यथा--योगकरणं तत्तद्देशीयानां तत्तद्द्रव्यभेदगुणं विधत्ते । तत्तत्कालविशिष्टदेहानां तत्तद्द्रव्यभेदगुणं विधत्ते । एवं देहदेशकालभेदेन रसवद्द्रव्याणां योगः बहुविधगुणान् प्रयच्छतीत्यर्थः । तत्तद्द्रव्यकर्मणां यथायोगो यावद्रोगघातकः ।

 ननु तत्तद्द्रव्यभेदगुणं देशकालभेदज्ञानेन तत्तन्निवर्तकरसवद्द्रव्यकर्मणां कृतिः अनेकधातुसञ्चलितजनितदोषस्यापि एकधातुकत्वात् अयं द्विदोषः त्रिदोषोऽयमिति प्रतीतिः तज्जरसामयभावादेव तद्ज्ञानं कथं स्यादित्यस्वरसादाह--विरसेति ।

 विरसविषमपचनजातद्विदोषैकविधधातुमार्गगा द्विदोषगाः[११] ॥ २० ॥

 विरसविषमपचनं नाम विरुद्धरसवद्द्रव्यसंयोगजयावद्द्रव्यं पक्वाशयं प्रविश्य तद्द्रव्यानुगुणविकारं कुरुते । तत्पाचकानलो ऽपि विकारं भजति । विषमरसपचनमपि करोति । तत्संस्कारजन्यपवनगतिः विस्वरवर्णकशब्दज्ञापकताल्वोष्ठपुटव्यापारं करोति । तत्पदाधारपद्मं मुकुलीकरोति । तदनन्तरमपि पित्तप्रकोपकारकरसवद्द्रव्यान्तरापादनेन तत्तत्संस्कारजातगुणान्वयमेव बिभर्ति । यदा तद्यावद्विकारं करोति तदा पित्तविशिष्टपवनगत्यैव ज्ञाप्यते । रसविषमदोषेण संस्कारजातपित्तविकारयुक्तस्सन् तत्तद्धातुमार्गं संप्राप्य सञ्चरन् तत्तद्धातून् सन्दूष्य तत्तद्विकारज्ञापनं कुरुते । तदा पित्तप्रकोपदोषोऽयमिति ज्ञातुं शक्यत एवेत्यर्थः । एवं कफप्रकोपकारकद्रव्यान्तरादनं संभवति । तदा कफप्रकोपज्ञापकगुणान्विधत्ते । कफपित्तामयगतो देवदत्तः इति तत्तद्रव्यगुणविशिष्टपवनस्य तत्तद्दोषगुणज्ञापकगतिः परेषामपि ज्ञाप्यत इति । अयं कफरोगयुक्तः पवनविकारः द्वन्द्वयुक्तपवनविकारकफज्ञापकगतिं करोति । तदा विषमरसादनजातसंस्कारगुणविशेषपवनदोष एव अनेकधातुमार्गगतिकारकशक्त्या भवति । तत्तद्धातुपोषणं च करोतीत्यर्थः ।

 ननु पित्तप्रकोपरसवद्द्रव्यादनेन पित्तप्रकोपकारकगुणान् गच्छति । स एव पित्तपवनप्रकोपगत्या ज्ञातव्यः । एवं कफप्रकोपकारकरसविरसद्रव्यादनेन कफप्रकोपगुणान्विधत्ते । तदा कफप्रकोपद्वन्द्वगतिरिति व्यवह्रियते । एवमयं त्रिदोषरोग इति एवमाकारज्ञानेन व्यवहर्तुं शक्यते । तत्तज्जनकाङ्गानामदृष्टत्वात् 'अयं त्रिदोषरोगः' इति ज्ञानं चात्र कथं स्यादित्याह--चरमेति ।

 चरमरसपचनरोगस्त्रिदोषगः[१२] ॥ २१ ॥

 चरमरसपचनधातुर्मज्जाधातुश्शुक्लधातुरिति तावुभौ चरमधातू इत्युपलभ्यते । पवनपित्तकफरोगाणामस्थिधातुपर्यन्तं गतिर्भवति । तदा तद्धातुशोषणमात्रं कुरुते । प्राणघातं न करोति । यावद्विरुद्धरसादनसामग्रीजातरोगस्य यदा मज्जाधातुप्रवेशो भवति तदा प्राणान्विमुच्य निर्वाणं गच्छति । तदा त्रिदोषगतिरिति विज्ञेया ।

 ननु तत्तद्विरुद्धरसद्रव्यादनेन तत्तद्दोषाः प्रकुपिता भवन्ति । सर्वे रोगाः दोषप्रकोपजन्याः । तत्तद्द्रोगनिवृत्त्यर्थं दोषपचनं कार्यमित्याह-- यावदिति ।

 यावदादोषपचनं निवर्तकं ॥ २२ ॥

 यावन्तो रोगाः यावद्रसदोषजन्या इति दोषप्रकोपत्वभूयोभूयोदर्शनहेतुभूतव्याप्तिग्रहजन्यानुमानं तत्र प्रमाणमित्यर्थः । पक्वाशये विरसप्रधानास्ते दोषाः विकारं भजन्ति । धातुमार्गे सञ्चरन्ति च । अनलाद्यामरसास्ते प्रादुर्भवन्तो घ्राणेन्द्रियविषया भवन्तीत्युक्तम् । तद्विरुद्धदोषगमनप्रतिबन्धकार्यं तत्पाचनविधिप्रयतनं लङ्घनकरणेन प्रेक्षणीयम् । स एव फलितार्थ इत्याह--यावदिति ।

 यावद्धातुप्रसादाधीनो दोषपचनकालः[१३] ॥ २३ ॥

 विरुद्धरसजातरसासृग्धातुविकारकारकस्यामरसवद्द्रव्यादनजन्याजीर्णजन्यकफरोगः । विरुद्धरसजाततदितरपवनपित्तविकारहेतुकरसविरसद्रव्यादनाभाव कार्यावलम्बिलङ्घनकरणमेव भेषजं भवति । यावद्धात्वधिरोहणपर्यन्तं लङ्घनकरणं भेषजं भवति । तदितरदोषाभावकार्यकरणं सुभेषजं भवतीत्यर्थः । स एव यावद्धातुगतसामयैकधातुगतामय इति ज्ञेयम् ।

 पक्वाशयेन सान्द्रसान्द्रतानलेन दोषविकारपाचनविधि प्रयतनं लङ्घनकरणमेव फलितार्थः ।

 ननु दोषप्रकोपाभावज्ञानं तत्तद्रोगकार्यहेतुभूतविरसादनविषयकज्ञानव्यतिरिक्तज्ञानजन्यज्ञानविषयकं, समर्थप्रवृत्तिजनकज्ञानविषयकत्वात् इत्यनुमानप्रयोगप्रकारेण रोगनिवृत्तिज्ञाने सति रोगाभावज्ञानं जातम् । तेन दोषप्रकोपनं विना तदभावज्ञानं कथं लभ्यत इत्याशयं मनसि निधाय विरुद्धेतिसूत्रस्य अस्वरसान्तरमाह--विरुद्धेति ।

 विरुद्धरसजातयावद्धात्वधिरोहणादेकधातुकः ॥ २४ ॥

 अस्यार्थं व्याचष्टे--

 एकविरुद्धरसवद्द्रव्यादनजन्याजीर्णजन्यसंस्कारविशेषदोषधातुगतिः एकविरसद्रव्यादनजन्या सा गतिः विरसद्रव्यादनजन्याजीर्णजाता सती अनेकधातुसंचारकार्ये दृष्टे सति एकरसविरसद्रव्यादनजाताजीर्णवत्त्वं अनेकविरसादनजन्यत्वाभावेन अयं एकधातुविकारकरोग इति ज्ञानं कथं प्रवर्तते ? तस्माद्विरसादनजातरोगः यावद्धात्वारोहणात् अयं एकधातुगतिजातरोगः, अयं द्विदोषगतिजातरोगः इति ज्ञातुं निवर्तकाभावहेतुरोगाभावस्य तद्धेतुत्वज्ञापकत्वात् तदभावाद्यहेतुत्वात् अजीर्णजन्यरोगाभावकार्यं तद्धेतुनिवर्तकलङ्घनेनैव भाव्यं, इति अनुमानप्रमाणेन यत्र अजीर्णाभावः तत्र रोगाभाव इति तयोः व्याप्तौ सत्यां दोषपचनं निवर्तकं स्यादिति न वाच्यम् । दोषाः दुष्टास्सन्तः क्षुभिता भ वन्ति । तद्धातुक्षोभ एव प्राणघातं करोति । तस्माद्दोषाणां अविकारगतिज्ञानपर्यन्तं लङ्घनकरणं आवश्यकमिति ध्येयम् । तेन दोषप्रकोपनिवृत्तिर्भवतीत्यर्थः ।

 ननु विरुद्धरसवद्द्रव्यादनेन अजीर्णे जाते सति तदजीर्णजीर्णतापर्यन्तं लङ्घनकरणं विधिः दोषप्रकोपनिवृत्तिपर्यन्तं योग्यत्वात् अजार्णजन्यपवनस्य लङ्घनकरणेनाजीर्णनिवृत्तौ सत्यां पवनप्रकोपनिवृत्तेः दृष्टत्वात् । तत्र तैलादिकं निवर्तकं भवति । पित्तदोषप्रवर्तकरसद्रव्यादनादजीर्णे जाते सति तत्प्रकोपो भवति । लङ्घनकरणादेः पित्तनिवर्तकत्वात् क्वाथेन चूर्णेन वा तन्निवृत्तिः । एवं पचनविकारकारकद्रव्यादनेन अजीर्णे जाते सति कफविकारो जायते । कषायकल्कचूर्णादयस्तत्प्रतिकारका भवन्ति ।

 एवं तत्तद्रोगाणां बहूनि निवर्तकानि । दोषा अजीर्णेन प्रकुपितास्सन्तः यावत्कालं धातुक्षोभं कुर्वन्ति । तत्रायं लङ्घनकरणविधिः ।

 अजीर्णजन्यसंस्कारे धातुशोषैककार्ये विकारे दृष्टे सति तत्तज्ज्वरो जायते । तत्र आमदोषपचनरस्य नियामकत्वात् । तदजीर्णजन्यमन्तस्स्थितं सत् तद्विरससर्वरसान्तरं भजति । तत्संस्कारजन्यदोषः दोषान्तरं भजति । स दोषः धातुमार्गं गत्वा धातुक्षोभकार्यकरणं करोतीति यत्तस्य स्वहस्ततले विरसगन्धज्ञानभेदं यदादावुपलभते तदैव तत्तद्दोषाविर्भावकार्यस्य तत्तत्प्रागभावज्ञानाभावज्ञानविच्छेदनपर्यन्तं दोषप्रकोपजन्यरोगान्तरकार्यस्य हेतुभूतत्वात् तादृशज्वरस्य निदानं स्वहस्ततले तत्तद्गन्धज्ञानमेव नियामकं लभ्यते । तावत्पर्यन्तं लङ्घनकरणं भेषजं भवतीत्यर्थः ।

 ननु अस्थिगताजीर्णजन्यरसविरसजन्यभेदविशिष्टज्रभेदज्ञाने जाते सति तावत्कालपर्यन्तं लङ्घनविधिर्भवतु । अगामिजन्यदोषागतिजन्यकार्यं विषमज्वरकार्यम् । तस्य लिङ्गज्ञाने जाते सति तयोर्व्याप्तिं भूयोदर्शनेन तत्सहचरज्ञानं संगृह्य भषजं कर्तुं शक्यते । आगामिरोगस्य लिङ्गज्ञानाभावात् कथं लैङ्गिकज्ञानावधारणं भवेत् ? इत्यत आह-- रसेति ।

 रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिकैकवशाभिभूतस्स्वस्थानच्युतो बहिरुज्ज्वलयन् ज्वरस्सामजातः[१४] ॥ २५ ॥

 ननु दोषाणां पचनमिति विग्रहः । अत्र षष्ठीतत्पुरुषः । तत्पाचनमेव निवर्तकं कर्मेति प्रतिभाति । दोषाणां शरीरस्थितधातुगत्यविकारैकफलस्य संभावितत्वात् लङ्घनेन दोषपचनं अवश्यकं कार्यमित्युक्ते सति बन्धः स्यात् । धातुपोषकपुरुषार्थोपकारककर्मणि तद्दोषपचनार्थं लङ्घनकर्मकरणस्य दोषस्य बलहीनकार्यकर्मणस्समर्थनैकस्वभावत्वात् । कारणबलाधिक्यकार्ये कर्तव्ये सति तद्धेतुबलहीनकार्यकर्मकरणस्य तथात्वात् । धातुपोषकपुरुषार्थोपकारककर्मणि तद्दोषपचनार्थं लङ्घनकर्मकरणस्य तथात्वात् । तेषामन्त्यपवनदोषहीनपचनकार्यं सूच्यते । तस्मात् विरसाज्जाताजीर्णनिवृत्तिपर्यन्तं लङ्घनकरणं विधिरिति । अन्यथा रसाजीर्णेन रसा विरसा भवन्ति । तद्विरसबाहुल्येन दोषा अपि बलहैन्यवन्तो भवन्ति । हीनकारणेन हीनकार्यं भवति । यत्र विरुद्धा रसा आविर्भवन्ति तत्र दोषा अपि दुष्टा भवन्ति । तद्दो षविकाराधिक्यवशात् विरसजन्याजीर्णे वृत्ते सति दोषविकारगत्या अग्निसन्धुक्षणकरणमपि न क्रियते । जठरानलः स्वस्थानं विहाय बहिः प्रज्वलन् स तु सामज्वरमाविर्भावयतीत्यर्थः ।

 ननु लौकिकसामग्रीमात्रं न कारणं सुकर्मकरणविधविद्यादयोऽपि संभवन्ति,

पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।
अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥

 इति वार्तिकवचनानुसारेण ज्ञातव्यम् । रसविरसवद्द्रव्यादने जाते सति केषांचिद्व्याधयस्सभवन्ति । इति सर्वत्र नियमेन वक्तुमशक्यत्वात् "सर्वं बलवतः पथ्यं" इति न्यायवचनानुसारेण बलवद्विषये रसाजीर्णविरसाधिकविरुद्धरसे जाते सत्यपि तत्र रोगो न दृष्टः । लौकिकसामग्रीमात्रमेव क्वचिन्न कारणम् । आमाद्यात्मककार्याणां संभावितत्वात् प्रारब्धकर्मणां बलित्वात् सर्वत्रापि रसाजीर्णजन्यरोगास्सम्भवान्तीत्येतत्प्रतिपादनं व्यर्थं स्यादिति । तेन यत्र रोगोत्पादकामवृद्धिर्भवति तत्र तादृग्रोगकार्यमाविर्भवति । तथाहि--रसाजीर्णविरसधिकविरुद्धरसजकार्यवैचित्र्यात् तत्तद्रोगजनककारणवैचित्र्यं पुनर्वक्तुं शक्यते । यावदजीर्णजन्यामयस्य लङ्घनमेव निवर्तकं रोगनिवर्तकसामग्र्यतिरिक्तसामग्रीनिवर्त्यत्वात्, लङ्घनादिसामग्रीकार्यं विना अनिर्वर्त्यत्वाच्च । तस्माद्विरसद्रव्यादनसामग्री यादृशी भवति तद्रोगकार्यवैचित्र्यं तादृशं संभवति । तथाहि-- सर्वे रोगास्संजातास्स्वजनकाधिक्यवशात्त्रयोदशरूपज्वरास्सन्निपातविकारास्संभवन्ति । स्वादुरसविरसत्वजातयावत्कार्यं शिरःकमलस्थामृतं सर्वसिरान्ध्रभागमुपगम्य विरसविषमदोषसंपर्कवशात् यदा विकारो जायते तदा आमरसः स्वादुरसजाततान्द्रिकदोषनामकरोगाकृतिज्वरं ज्वलयति । रसाजीर्णविरसाधिकविरुद्धरसाजीर्णजातत्वात् । तद्धि स्वादुरसः रसाजीर्णरोगः तान्द्रिकदोषः । स तदधीनरसविरसः संग्रहजातरोगत्वात् पवनगतिवशात् आमविरससंग्रहसंसर्गाज्जायते । तत्र अमृतसंपर्कः पोषको भवति । पवनगत्याधारकाजीर्णजनकसरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनस्य सगन्धिसन्धिदोषप्रयुक्तसामज्वरज्ञापकपादपद्मस्थावर्णोपधगबीजपार्श्वमेढ्रपृष्ठप्रदेशगतकवर्गपञ्चकवर्णसमूहपदव्यञ्जकेतरवर्णोच्चारणपदगतिसाजात्याभावज्ञानविषयकं भवितुमर्हति । रसाजीर्णविरसाधिकविरुद्धरसजन्यदोषाधिक्यवत्त्वात् । यन्नैवं तन्नैवमिति । सन्धिगतदोषप्रयुक्तसामज्वरपादबीजपार्श्वमेढपृष्ठप्रदेशक्रमात् अवर्णोपगतकवर्गपञ्चकात्मकपदज्ञापकचतुस्त्रिंशत्षत्रिंशत्सिरासंस्पर्शवशात् नाभिशूलपादशोभाङ्गवेदनाबलोपद्रवज्ञापककफप्रणवतापान्तरदोषप्रयुक्तसामज्वरज्ञापकजानुपद्मस्थायिपवर्णोपधपृष्ठप्रदेशजठरनाभिपद्मगतचवर्गपञ्चकवर्णपदाभिव्यञ्जकेतरवर्णसाजात्याभिज्ञानविषयकं रसाजीर्णविरसाधिक्यविरुद्धरसजन्यदोषाधिक्यवत्त्वात् अयमान्तरदोषयुक्तसामज्वरः जानुपृष्ठप्रदेशनाभिपद्मगतजानुपद्मगतेवर्णबोधकचवर्गपञ्चकचतुस्त्रिंशत्सिरासंस्पर्शवशात् दाहविदाहविविधमोहयातनातिशिरःकम्पकरातिसारहिक्कातिश्वासादिविगुणविशिष्टान्तरदोषप्रयुक्तसामज्वरः ज्वलयति । सर्वधातुमार्गं दशदिनपर्यन्तं धातुषु सञ्चार्य प्राणान्वियोजयति । तस्मादान्तरदोषोऽयमिति व्यवह्रियते ।

 अयमान्तरदोषः जानुपद्मगतेवर्णबोधकपृष्ठपार्श्वगतनाभिप्रदेशस्थेवर्णोपधचवर्गवर्णपञ्चकात्मकपदार्थावबोधक वर्णसमूहपदकदम्बकवाक्ये चवर्गोचितवर्णेतरेभ्यो भिन्नघोषात्मकवाक्यं श्रावयति । तद्वर्णभेदमवश्यं विज्ञाय तदा तद्विरसार्थजन्यामपित्तसंस्पर्शात् तत्सिरामार्गगतामृतं तत्पद्माधिष्ठितधातुशोषणं करोति । तत्प्रतीकारकमपि भवति । सोऽयमसाध्यरोग इति विज्ञेयम् ।

 विरुद्धाहारदोषप्रयुक्तसामज्वरज्ञापकजङ्घापद्मस्थावर्णबोधकत्रिंशत्सिरावृतनाभ्यावृतचक्रपद्मचतुस्सिरावृतरोमराजिहृत्पद्मचतुस्त्रिंशत्सिरावृतहृदयपद्मं च टवर्गपञ्चकवर्णात्मकपदाभिव्यञ्जकेतरवर्णसाजात्याभावज्ञानविषयकं रसाजीर्णविरसाधिक्यविरुद्धरसजन्यदोषाधिक्यवत्त्वात् यन्नैवं तन्नैवं, इत्यनुमित्या विरुद्धामविशिष्टसामज्वरं जङ्घापद्मनाभ्यावृतपद्मरोमराजिपार्श्वपद्महृदयपद्मानि जङ्घापद्मस्थवर्णप्रयुक्तकवर्गपञ्चकज्ञापकोवर्णैपधगवर्णात्मकपदसमूहवाक्यजन्यज्ञानं जङ्घापद्मावलम्बकविंशतिसिरावबोधकनाभ्यावृतपद्मावलम्बकत्रिंशत्सिरावबोधकरोमराजिपार्श्वाधारकद्विद्विसिरावृतवर्णबोधकहृदयपद्मस्थावलम्बकचतुस्त्रिंशत्सिरावृतवर्णबोधकसकलसिरासंस्पर्शवशात् वेदनासहितरूक्षोपसमर्थं दह्यते । नाभ्यावृतचक्रपद्मस्य वृत्तावृतप्रदेशत्वात् । तत्र ज्वरः ज्वलयति । कुक्षौ च तद्वदेव प्रतिभाति । हृदयपद्ममपि ज्वलयति । दाहं करोति । भ्रमोऽपि भवति । तस्मादेतल्लक्षणलक्षितत्वात् स रोगी जीवति । अयं सामज्वरः पित्तदोषप्रकोपजन्यः, पित्तदोषप्रकोपकार्यकत्वात् । तत्तत्पद्मावलम्बकसिरारन्ध्रगतामृतस्य रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिक्यसंस्पर्शवशात् जङ्घापद्मप्रदेशं ज्वलयति । नाभ्यावृतपद्मप्रदेशश्च तद्वदेव दह्यते । हृदयपद्मप्रदेशे च तथैव दुःखं करोति । तत्पद्मगतवर्णविकारज्ञापकपदार्थात्मकविषमरससंस्कारव्याप्तवर्णामृतपोषकद्रव्यत्वाद्दाहं करोति । मूर्च्छामापादयति । स एव दोषज्वरः विभ्रमदोष इति व्यवह्रियते । ऋवर्णजनकमूरुपद्मं च तवर्गपञ्चकपञ्चाशत्सिरावृतस्तनद्वयपद्मं च त्रिंशत्सिरावृतकण्ठदेशपद्मं च षोडशसिरावृतग्रीवान्तस्स्थितपद्मं च पवनगतिधारकसिरारन्ध्रमार्गं रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिक्यसिरासंस्पर्शवशात् जातदोषः सिराङ्गदोषयुक्तस्सामज्वरः पञ्चदशदिवसपर्यन्तं धातुमार्गेषु संचरन् तत्प्रदेशस्थितपद्मप्रतापकामयत्वात् सदोषसिरागतसर्वाङ्गगतज्वरनिवृत्त्या रसधातुरसाजीर्णविरससंस्पर्शवशात् स रसः धातुविकारो भूत्वा शीताङ्गं करोति । ऋ षवर्णजनकश्रोणिप्रदेशपद्मं त्रिंशत्सिरावृतं पफवर्णबोधकषोडशसिरावृतपद्मं च बभवर्णावलम्बकपञ्चाशत्सिरावृतपद्मं च वर्णोद्वचनप्रलापनकरम् । सामज्वरः अयं प्रलापदोष इति व्यवह्रियते । चतुर्दशदिनपर्यन्तं ज्वरावृत्तिः, दोषप्रकोपकालावधिः । एवर्णजनककटिप्रदेशगतचतुस्सिरावृतं सत् यवरलवर्णानामुपधाभूतं भवद्द्विसिरावृतयवर्णाधिष्ठितरसबन्धनपद्मं च षोडशसिरावृतरेफवर्णज्ञापकोष्ठपद्मप्रदेशं च लवर्णबोधकद्विसिरावृतगन्धवाहपद्मं च रसाजीर्णविरसाधिकविरुद्धरसजन्यदोषाधिक्यवशात् द्विसिरावृतयवर्णज्ञापकरसबन्धनपद्मस्य षोडशसिरावृतरेफवर्णज्ञापकोष्ठप्रदेशपद्मस्य विकारं कुर्वन् कर्णकुब्जदोषविकारात्मकः बहिरेव ज्वलयन् ज्वरस्सामजातः ।

 एककारणजन्यसामग्रीजातज्वरः तत्तद्वर्णाधिष्ठिततत्तत्पद्मावलम्बकसिरासंस्पर्शवशात् तत्तद्वर्णज्ञानभेदविषयकज्ञानं तत्तद्दोषयुक्तसामज्वरभेदविषयकपूर्वकं तत्तद्वर्णाधिष्ठितपद्मावलम्बकसामविषयजन्यसिरासंस्पर्शभेदजन्यज्ञानविषयकत्वात्, यन्नैवं तन्नैवं यथा घट इत्यनुमानप्रमाणेन वर्णभेदज्ञानविज्ञानानुभवस्य दोषजन्यज्वरज्ञानविषयज्ञानानुभववत्त्वादित्यर्थः ।

 ननु सर्वे रोगाः आमरसविरसजातामयाजीर्णविरसविषमात् जातरोगकार्याः एकसामग्रीजन्यसामज्वरसमयभेदात् नानारूपा भवन्तीत्यर्थः । तस्मात् एककारणजातकार्यस्यापि समर्थोपधबाधाछिन्नत्वेऽपि कारणवैचित्र्यसंभावितत्वात् जन्यमप्येकमेव कारणं सर्वस्यं जन्यत्वाविशेषात् । अजीर्णजन्यकार्यावच्छेदकं अजीर्णमात्रनिवर्तकमेव निवर्तकम् । अत एवाजीर्णजन्यामयाश्च अजीर्णजन्यविरसविषमरसजातरोगाश्च तत्तत्करणभेदभिन्ना भवन्ति । अजीर्णजन्यामयेभ्योऽजीर्णविरसविषमादनजातरोगाणां भिन्नत्वात् तत्तन्निवर्तका अपि भिन्ना भवन्तीत्यर्थः । तथाऽपि अजीर्णमात्रजन्यामयानां लङ्घनकरणमात्रमेव केवलं निवर्तकम् । तत्र निवर्तकान्तरसामग्रीमपि नापेक्षते अल्पकारणसामग्रीजन्यत्वात् । तद्विषमरसामयजन्याजीर्णव्यतिरिक्ततद्विरसविषमरसादनात् नानारोगा भवन्तीत्याह--विषमरसेति ।

 विषमरसपचनरसविरसादियावद्धातुप्रसादाधीनो दोषपचनकालः ॥ २६ ॥

 विषमरसादनाज्जातरोगाणां यावन्निवर्तककरणं विषमरसदोषजन्यसंस्कारकार्यस्यैव पुरुषार्थत्वात् । तद्विषनिवृत्तिकार्यस्य विषमरसवद्द्रव्यादनजातकार्यजन्यसंस्कारविशेषध्न एव निवर्तकः । तस्मादजीर्णजन्यामया अपि भिन्नाः अजिर्णजन्यविरसविषमजन्यदोषजन्यत्वात् । अजीर्णस्य उभयत्राप्येकत्वेऽपि तज्जनकीभूतरसानां भिन्नत्वकारणवैचित्र्यात् कार्यमपि भिद्यत इत्यर्थः ।

 ननु सामज्वरस्समयभेदात् भिन्नः बहुरूपवदुपायवैचित्र्यात् । काचिज्ज्वरोत्पादकसामग्री अजीर्णरूपा । काचित्सामग्री अजीर्णजन्यविरसविषमरससिरासंस्पर्शजन्यदोषविषमगतिकारकसामग्री । तन्निवर्तकं तु तद्विरसानेकरस द्द्रव्यादनसामग्री । याव द्दोषजन्यधातुविकाराभावपर्यन्तं दोषविकारगतिनिवृत्तिपर्यन्तं तत्तन्निवर्तकेन तत्तत्पचनं कुर्यादिति वक्तव्यम् । तथा सति अस्थिमज्जाशुक्लधातुगता सती यावद्दोषगतिः प्राणहानिं कुरुते । तेषां निवर्तकानामप्रयोजकत्वात् श्रेयान्प्रसादाधीनो दोषपचनकाल इति तावद्दोषपचनमारोग्यकारकं न भवतीत्यस्वरसादाह--एवमिति ।

 एवमेकधातुगतास्सुसाध्याः[१५] ॥ २७ ॥

 एवमुक्तरीत्या सर्वदोष एकधातुगतिजन्यविकारः यत्र प्रदृश्यते तत्रायं नियमः । न द्वित्रिदोषेषु नियमः । एवंप्रकारेण एकधातुगतव्याधीनां सुसाध्यत्वमित्यर्थः ।

 ननु दोषप्राणागतिः केनोपायेन ज्ञातव्या ? पवनदोषगतिः स्वाभाविकविकारवेद्या । पङ्गुकफः पङ्गुरिति तयोर्गमनस्य वक्तुमशक्यत्वात् ।

 नाभिप्रदेशपर्यन्तं पादपद्मादारभ्य बीजपद्मपर्यन्तं पवनप्रदेशः । बीजपार्श्वपद्ममारभ्य हृदयपद्मपर्यन्तं पित्तदेशः । तदूर्ध्वदेशः शिरःप्रदेशपर्यन्तं कफप्रदेशः । एवं देशभेदं विज्ञाय दोषाणां गमनमीदृङ्निश्चित्य अयं साध्यरोगः अयमसाध्यरोग इति व्यवहर्तुं शक्यते । दोषस्य दोषान्तरेण संसर्गो द्वन्द्व इति । क्वचित्त्रयाणां दोषाणां समाहारत्वं त्रिदोषत्वम् । सर्वं केनाकारेण ज्ञातव्यमित्यस्वरसादाह--द्विरसेति ।

 द्विरसजद्विदोषप्रचारमांसमेदोनुगतरसप्रधानैकदोषपचनद्विदोषजा दुस्साध्याः ॥ २८ ॥

 द्वयोर्वातापित्तयोः प्रकोपकार्यहेतुभूतौ यौ रसौ, अल्पस्वादुरसविरसः पवनप्रकोपहेतुकः । अधिकस्वादुरसविरसः पित्तप्रकोपहेतुकः । तावेव विरसौ कार्यभेदकारकौ । ताभ्यामुत्पन्नो विकारः द्विरसजः । द्विदोषप्रचारेति । चरतीति चरः । प्रकृष्टं चरतीति प्रचरः । रसासृङ्मांसधातुविधा ये ते मांसमेदोनुगता इति । शिरः षट्कमलात्मकं, मांसाधारकं शिरः । मेदोधारकं भिन्नम् । तद्धातुशोषकरसौ भिन्नौ । तत्र स्वानुगतकार्यमुद्दिश्य प्रवर्तकौ यौ रसौ तावेव प्रधानभूतकर्मकारकौ । एवं रसप्रधानैकदोषपचनं यत्रोपलभ्यते तत्रेयं सूत्रप्रवृत्तिः । प्रकारान्तरमपि द्योत्यते । रसविरसजन्यदोषप्रकोपस्य पचनलङ्घनौषधैः प्रकोपराहित्यकरणमेव पचनमिति केचिद्व्याख्यानं व्याचक्षते । रसप्रधानैकदोषपचनं रसोपरसलोहादीनां महारसानां योगकर्म सर्वरोगनिवर्तकमिति विवक्षितम् । तद्द्रव्यनिष्ठरसाः तैजसा इति व्यवह्रियन्ते । तत्सजातीयानलसंयोगेन तद्रसेषु तत्तद्गुणा आविर्भवन्ति । एतत्सर्वं तैजसद्रव्यं आमविरसविषजन्यप्रकोपजन्यरोगाणां निवर्तकम् । रसवद्द्रव्यनिष्ठषड्रसादीनां अनलसंयोगजन्यरसविशिष्टद्रव्यमधिकरसाविर्भावप्रभावहेतुकं, अधिककालरसगुणप्रधानरूपकाकारद्रव्यत्वात् तैलघृतलेह्यादिवत् ।

 अनलसंयोगजन्यमहारसवद्द्रव्यनिष्ठषड्रसादिरसगुणः कालपानयोगकरणजातरसविरसादिविभावादेव रसगुणविशिष्टगुणप्रधानशीलकः अनलसंयोगजन्यगुणाविर्भावगुणविशिष्टकालाधिक्यद्रव्यत्वात् यन्नैवं तन्नैवं यथा कालादिः इत्यनुमानप्रमाणज्ञानस्य तदधिकरणज्ञापकत्वं विवक्षितम् । एवं द्वन्द्वरोगाणां सर्वपदार्थेषु निवर्तकज्ञानमनिवर्तकज्ञानमुभयज्ञानविषयकज्ञानं रोगनिवर्तककार्यहेतुकम् । निवर्तकैकनिवृत्तद्रव्यत्वात् । इतररसोपरस लोहसाधारणमहारसानामन्यद्रव्यसंयोगजन्ययोगकरणं गुणं प्रयच्छति । तद्विरसान्तरप्रापकसामग्रीसान्निध्याभावद्रव्यत्वात् ।

 ननु यावद्दोषप्रकोपहेतुकविरसद्रव्याजीर्णजन्यज्वराः तत्तद्दोषनिवर्तकाः, दोषप्रकोपजनकस्वादुरसविरसद्रव्यजाताजीर्णजन्यज्वराः तत्तद्दोषनिवर्तकाः दोषप्रकोपजनकस्वादुरसविरसद्रव्यजाताजीर्णजन्यत्वात् । अजीर्णजन्यविरसरसाः ज्वरोपद्रवकार्यं कुर्वन्ति, तदुपद्रवविशिष्टज्वरनिमित्तकद्रव्यत्वात् ।

 ज्वरप्रकोपज्ञानजनकदशोपद्रवरोगाणामुत्पत्तिं दर्शयितुं व्याचष्टे--एवमिति ।

 एवमन्योन्यदोषजाताश्च ॥ २९ ॥

 अन्योन्यनिमित्तकज्वरोपद्रवाः दशाविर्भवन्ति । श्वासमूर्छाभ्रमछर्दितृष्णातिसारहिक्काकासाङ्गवेधनमूढातिरोगाः । एते ज्वरोपद्रवा दश । तदुपद्रवाविर्भावजनकसामग्री ज्वरप्रकोपकार्यहेतुभूतामरसविरसविषकृमिसंस्पर्शनं यावद्वर्णाधारकपद्मावलम्बकसिरासंस्पर्शजातपवनगतिविकारजन्यतत्तद्रोगकार्यसिरागतपवनगतिजन्यरोगात्मकान्योन्यसंसर्गहेतुभूतत्वात् । एवमन्योन्यदोषजातरोगाः ज्वरप्रकोपकार्यहेतुका इत्यर्थः ।

 ननु विरसाधिक्यजातज्वरः मांसमेदादोषगत इत्युक्तत्रिविधरसाधिक्यजातज्वरश्चेत् अस्थिमज्जाधातुपर्यन्तं ज्वरोऽनुधावति । दोषत्रयप्रकोपजनकविरसजातज्वरस्य अस्थिमज्जाधात्वधिरोहकत्वात् । अयं त्रिदोषज्वर इति व्यवहर्तुं शक्यत इत्यत आह--द्विरसेति ।

 द्विरसाधिकैकजातत्रिदोषरसरूपानुगुणरोगा असाध्याः[१६] ॥ ३० ॥

 वातपित्तप्रकोपजनका द्विरसाः आमरसस्थितकालजातज्वरप्रकोपकारका भवन्ति । तदा आमरसविरसवत्त्वं विरुद्धकार्यजनकं द्विरसादिविरसान्तरजनककालहेतुकद्रव्यत्वात् । इत्येष ज्वरः सप्तधातुगतस्सन् प्राणघातको भवति । तादृशरोगोऽसाध्यो भवति । तथाहि--

 तत्तज्ज्वरोत्पादकामरसविरससामग्रीकार्यं ज्वरोत्पादककार्यमात्रं सप्तधातून्विशोष्य प्राणान्विमोचयति इति यदुक्तं तच्चिन्त्यम् । आमो ज्वरमात्रोत्पादकसामग्री ज्वरं जनयित्वा स्वयं तत्क्षणजन्यसंस्कारं तत्तत्कार्ये विधाय स्वरूपान्न दृश्यते । तेषु पोप्तदसामग्रीजन्येषुवत् (?) सर्वज्यराणामजीर्णजन्यत्वात् ।

 ज्वरोत्पादकसामग्रीमात्रजन्यज्वरः प्राणान्विमोचयतीति यत्तत् तथाचेदतिप्रसंगस्स्यादित्यस्वरसादाह--एवमिति ।

 एवमेकधातुगताश्चासाध्याः[१७] ॥ ३१ ॥

 एवमुक्तरीत्या तदुपद्रवरोगाश्च प्राणघातकाः । तद्विरसजन्यदोषानुसरितज्वरहेतुकप्राणापकारकद्रव्यत्वात् । विषादनजातरोगवच्छरीरवत् । वर्णपधगपद्मानुसारिकवर्गपञ्चकज्ञापकपद्माधारकसिराः धातुशोषकपोषकाः । तदाधारकरसवदाश्रितशरीर त्वात् । तद्विरसानुसरितसंस्कारोद्बोधकसंसर्गसिराधिगतदोषगतिविकारकार्यकारकोपयोगिरसधातुत्वात् । अधौतधातुं संप्राप्य पवनविकारकारकगतिः तदन्यविकारकारकत्वात् श्वासं च मूर्छां च (करोति) । तदुभयोरपि रसधातुजत्वेन दृश्यत्वात् । एवं रसधातुं संशोष्य अन्यधातुशोषं कर्तुं स एव ज्वरः तद्धातुं संप्राप्योज्जृम्भते । भ्रमच्छर्दी भवतः । एवं मांसधातुं संप्राप्य हिक्कादिशोकौ भवतः । एवमेवान्यधातुं संप्राप्य भ्रमहिक्कारोगौ जायेते । स एव ज्वरः कासमन्वहं जनयन् वर्तते । अस्थि संप्राप्य शोफं करोति । स एव ज्वरः वातपित्तकफानुसरितस्सन्मज्जाधातुमवलम्ब्य विजृम्भते । तदा स दशविधरोगाकारो भवति । एवमन्यदोषजाश्चेति सूत्रव्याख्यानं कृतम् ।

 ननु रसविरसजन्यविरसाधिकविरुद्धरसदोषाः सर्वरोगहेतुकाः । अजीर्णगुणाविर्भावज्ञानाभावजन्यविरसजन्यदोषविकाराभावज्ञापकशुद्धरसज्ञानदोषाः विकाराभावकार्यकारकाः । एवं दोषाः सर्वरोगहेतुकाः ।

 एवं दोषाः दुष्टास्सन्तस्त्रयोऽपि विकारकारका भवेयुः दोषधात्वात्मशरीरिणः । सुकर्मपरिपाकवशात् दोषा अदुष्टास्सन्तः विकारप्रतिबन्धका भवेयुः । सर्वे रोगाः विरसजाता इति यत्प्रतिपादितं तन्न, क्षोदक्षममित्यस्वरसादाह--अदोषा इति ।

 अदोषास्सदोषास्समदोषास्सरुजा रुजः ॥ ३२ ॥

 प्राणापानव्यानोदानसमानाः पञ्च वायवः शरीरकार्योपकारकाः । शरीराधारकस्य अदोषत्वं कथं सम्यक्तया भासते ? पित्तस्यापि दोषत्वादेव सदोषपञ्चरूपोपपन्नं संगृह्णाति पचति, विदे शयति, मुञ्चति--इत्येतेषां पञ्चविधकर्मणां शरीराधारकत्वाच्च कफदोषस्यापि शरीरदार्ढ्यकारकत्वात् दोषत्रयं शरीरं रक्षति । तस्माददोषत्वं कथं शरीरोपकारकमिति नाशङ्कनीयम् ।

 दोषाणां विकारकारकत्वाभावः अदोषशब्दार्थः । सदोषाः विकारकार्यापादकगतिगुणविशिष्टदोषाः । सदोषास्सप्तधातुशोषकारकाः । तस्माच्छरीरस्य सदोषत्वं दुष्कर्मानुभववशाल्लभ्यते । तेन धातवः पीड्यन्ते । दुःखं चानुभूयते । समदोषत्वं नाम तदुभयाभावगतिविशिष्टदोषाप्रविवर्धकत्वम् । तेन धातवः पुष्णन्ति । नीरोगत्वं प्राप्नुवन्ति । तस्मात्समदोषं यथा भवति तथा शरीरं सरंक्षणीयमित्यर्थः । सर्वदा शरीरस्थदोषाणां एकरसहेतुभूतकार्यस्य किंचिन्निमित्तं वक्तव्यम् । तदेतद्रसजन्यविरसपरिणामजातरोगकार्यमेवमिति ज्ञातव्यम् ॥

 ननु विषमगतिविशिष्टो यो दोषः तस्य वैषम्ये रोगः । दोषस्य समा गतिरारोग्यमिति व्यपदेशः कृतः । तथा सति षड्रसाः सप्तधात्वात्मकाः । विरसषट्कस्यादनं धातुशोषकम्, तद्रसात्मकदोषधातुविरसद्रव्यत्वात् इत्यनुमानेन धातुशोषककार्यस्य रसादिहेतुत्वम् । तस्माद्दोषवैषम्यं रोगः । दोषसाम्यमरोग इति । यत्प्रतिपादितं तद्विरुद्धमित्यत आह--त इति ।

 ते त्रयो दोषहेतुभूतास्सप्तधातव इति ॥ ३३ ॥

 सप्तधातव इति व्यपदेशमात्रं भवति । षड्रसा एव निश्चितम् । तेषां सप्तसंख्याकत्वं कथं स्यादिति न वक्तव्यम् । रस एवासृक् इति तयोः पार्थक्याभावविवक्षया सत्यं षड्रसास्सप्तधातव इति व्यवहर्तुं शक्यते । तथाहि--

 स्वादुरसवद्द्रव्यत्वगुणवत् रसद्रव्यमित्यनुभूयते उद्भूतरसव्यतिरिक्तरसवद्द्रव्याभावात् । तस्माद्रसादयो गुणा गुणिनमन्तरेण गुणा नावतिष्ठन्त इति द्रव्यमावश्यकम्, द्रव्याश्रया गुणा इति । सप्तधातुकशरीरद्रव्यत्वात् रसादीनां गुणत्वात् गुणगुणिनोर्भेदस्य अवसितत्वात् रसादयो द्रव्याश्रया भवन्ति । तस्मात्सप्तधात्त्वात्मकष्षड्रसव्यतिरिक्त इति न वाच्यम्, द्रव्यरसात्मकत्वात् । शरीरान्तस्स्थितरसाः धातुरूपेण परिणमन्ति । तावद्धातूनां द्रव्यनिष्ठत्वात् धातूनां द्रव्यगुणत्वात् रूपादिवत् भेदो न दृश्यते । रसवद्द्रव्यं रसनेन्द्रियविषयकम् । रूपवद्द्रव्यं चक्षुरिन्द्रियविषयकम् । रसद्रव्यं रूपरसवद्द्रव्यं सादृश्यात् ! षड्रसविकार एव धातुरिति रससप्त ... नेन्द्रियेण गृह्यते । तत्सजातीयं सप्तधातुसजातीयरसेषु लभ्यते । तेऽन्तस्स्थितास्सन्तः धातुमेव पुष्णन्ति । तद्यथा– इक्षुकाण्डस्थितस्वादुरसः यत्रयत्र भेदवशात् वर्तते तन्निष्ठस्वादुरसं संगृह्य तत्संसर्गजातिद्रव्यं विभजन् रसं करोति । तदनन्तरं तत्स्वादुरसं विहाय तत्संयोगिद्रव्यं पृथक्तया तद्भक्ततया भजते रूपादिवत् । असिगाभवनं बुद्राभावात् ?। नीलो घट इति घटनिष्ठनीलरूपं विहाय अन्यद्रव्यावयवतया स भासते । अत्र रसव्यतिरिक्तद्रव्यस्याभावात् तद्वत् एषु च धातुत्वपृथगाकारकतत्तद्गुणविशिष्टतया चक्षुःप्रतीतिः जायते । तद्वत् लवणोषणकषाया इत्याह्वयन्ते, आश्रयादिवत् । शरीराङ्गस्थितानि भवन्ति । तेन रसादय इत्याहूयन्ते । न वाच्यम्, शरीरं सप्तधात्वात्मकम् । धातवश्च रसात्मकाः शरीरं रसात्मकद्रव्यं सप्तधात्वावृतत्वात् । तदर्थं पृथुबुध्नोदराकारत्वैकभासं तत् । स्वादुरसश्शुक्रश्लेष्मरूपवत्त्वेन परिणमति । आम्लरसः मज्जारूपाकृतिः परिणमति । लवणरसः अस्थिरूपाकृतिः परिणमति । तिक्तरसः मेदोविकाराकृतिस्सन् परिणमति । ऊषणरसः मज्जाधात्वाकारत्वेन परिणमति । कषायरसः रसासृग्धात्वाकृतिस्सन् भासते । तस्मात्पृथक्तया अभिधेयत्वेऽपि आश्रयादिवत् रसादिव्यञ्जकं वक्तुं न शक्यते । बहिःप्रदेशस्थिताः शरीरान्तः प्रविष्टास्सन्तः तत्तत्सजातीयधातुषु विलीयन्ते तत्तद्रसाः । तत्तद्धातूनां पोषणं च कुर्वन्ति । संशयं विना शुद्धगुणविशिष्टबहुरसवद्द्रव्यं शरीरदार्ढ्यकरणं भवतीत्यर्थः ।

 ननु रसवद्द्रव्यादनेन प्रकुपितपवनद्रव्यस्य रसासृग्धातुशोषं कर्तुमिच्छतः पवनभूतस्य प्रकोपनिवर्तकं कषायरसवदेकं भवति । कषायरसस्य रसासृग्धातूनां पवनप्रकोपनिवर्तकत्वं वक्तुमयोग्यमिति पूर्वसूत्रव्याख्यानं न क्षोदक्षममित्यस्वरसादाह--सेति ।

 सानिलाननिलाधिकानिलरूक्षलघुभावितो रसासृग्गतः ॥ ३४ ॥

 अस्यार्थः द्रव्यसंयोगविशिष्टजन्यकषायत्वसजातीयरसा न धातुविकारकारकप्रतिबन्धका इति वक्तुं शक्यते, तत्सजातीयविरोधिप्रतिबन्धकद्रव्यत्वात् । तद्रसासृग्धातुप्रवर्तकोष्णस्वभावगुणवत्त्वं लघुत्वस्वभावगुणवत्त्वं भजत् रसासृग्धातुशोषणं करोति । अतः बहिःप्रदेशस्थितपवनद्रव्यादने तत्संजातविशिष्टरसगुणविशिष्टस्सन् धातुशोषणं करोति । तत्सर्वमेतद्वाक्येन प्रतीयते । न पूर्वसूत्रविरोधश्च । तत्र श्रुतिरेव प्रमाणम् ।

 षड्रसास्सप्तधातुजनकाः रसव्याप्तत्वात् । रसानां धातूनां च उपव्यञ्जकत्वभावसंबन्धात् । रसासृग्धातुजातरसप्रकारजत्वेन भेदस्याप्रतीयमानत्वात् । आम्लशरीरा एव धातव इत्येवं त त्तद्धातुभेदेन तत्तच्छरीरभेदात् रसभेदजन्यस्य तदधीनज्ञानजन्यत्वात् । द्रव्यभेदोऽपि तथा प्रतीयते यत्र रसाधिक्यप्रतीतिः तत्रैव तत्तद्रव्याधिक्यं तत्तद्भूरुहाणां प्रतीयते । स्वादुरसविशिष्टोऽयं वृक्षः । लवणरसविशिष्टोऽयं वृक्षः । कषायरसविशिष्टोऽयं वृक्ष इति तत्तत्सारभेदेन प्रतीयते । तदेतच्छरीरवन्त इति बहुजनसिद्धत्वादित्यर्थः ।

 ननु पित्तदोषप्रदेशाश्रितमांसमेदोधातुस्स्वादुरसाश्रितः । तस्मात्स्वादुरसस्य पित्तप्रकोपनिवर्तकत्वं वक्तुमशक्यम् । विरोधस्स्यात् । रसानां धात्वात्मकत्वात् । धातूनां रसाश्रितमांसाश्रितत्त्वात् । तद्दोषाश्रितरसात्मकधातूनां दोषप्रकोपनिवर्तकत्वं वक्तुमयोग्यमित्यस्वरसादाह--पित्तेति ।

 पित्ताश्रयात्तदधीनपित्तमांसमेदोनुसरन्नस्थिमृदुकारकः ॥ ३५ ॥

 पित्ताश्रितत्वात् मांसमेदोधातुस्स्वादुतिक्तकषायत्त्वात् तदाश्रितपित्तविरोधकत्वं शुद्धस्वादुरसस्य शुद्धतिक्तरसस्य शुद्धकषायरसस्य च वक्तुं न शक्यते, तदाश्रितरसात्मकत्वात् । किंतु पित्तप्रकोपाय विरोधित्वस्य वक्तुमुचितत्वात् पित्ताश्रितत्वादिति तदधीनपित्तमिति पित्तं रसाधीनम् । पित्तप्रकोपे सति तद्रसवद्द्रव्यस्यैव तन्निवर्तकत्वात् स्वादुरसाधीनं पित्तमिति मांसमेदोधातुगतं सत् वर्तते । मृदुस्थौल्यगुणं विधत्ते ।

 ननु दोषत्रयनियुक्तरोगा असाध्याः । तद्दोषप्रकोपकार्यत्वं रसविरसाधीनजन्यविकारहेतुकं दोषवृद्धिक्षयोत्पादनकार्यनिवर्तकद्रव्यत्वात् । अतः कषायप्रकोपयुक्तकार्योपयोगिकेतरदोषाश्रयकार्यं व्यपदिशति--मन्देति ।

 मन्दोष्णादिसमदोषाधिकाक्षीणवृद्धिगुणकास्थिमज्जामेदोऽधिष्ठिताः ॥ ३६ ॥

 मन्दगुणवत्त्वावच्छेदकपवनत्त्वं उष्णगुणवत्त्वावच्छेदकपित्तत्वं तदितरदोषकफावच्छेदकं तत्क्षीणवृद्धिगुणाश्रयत्वम्, तथा सति मज्जाधातुपर्यन्तगतसकलसामग्रीसान्निध्यं सम्पादयन् रोगाभिवृद्धिं कुर्वन् तद्रोगिणमन्त्यसन्निहितं करोतीत्यर्थः ।

 ननु दोषाणां मज्जाधातुपर्यन्तं रोगावरोहणेन सकलधातुदोषगसामग्र्यां सत्यां पञ्चधातुगतप्राणोद्भवानां च वायूनां संञ्चाराभावत्वेन तच्छरीरं विहाय बहिःप्रवेशगतत्वात् स जीवः शरीरावतरितो भवति । दोषाणां कार्यकारित्वस्य तावन्मात्रेणैव चरितार्थत्वात् शुक्लधातुप्रवेशजकार्यकरणस्य प्रयोजकत्वाभावात् । तस्मात्सप्तधातुगणनस्य प्रायोजकत्वाभावेन व्यर्थं स्यादित्यस्वरसादाह--अदोषेति ।

 अदोषधातुरसानुसारानुसरास्थिरसपचनचरमधातुप्रचारकाः ॥ ३७ ॥

 एतत्कार्यकारकस्य पचनत्वं दोषाणां चरमधातुप्रचारणत्वम् । प्रचरन्तीति प्रचारकाः । शुक्लधातुपोषककार्यं शुद्धस्वादुरसादनहेतुकम् । न शोषककार्यम् । अदोषत्वं नाम अदोषधातुरसानुसारानुसरदोषप्रकोपकार्याभाववृद्धिकारकमित्यर्थः । उक्तमर्थमुपसंहरति--भूतेति ।

 भूतपूर्वपदार्थजातधातुहेतुभूतानलसमरसपचनविरुद्धार्थरसपाकयोगाद्विपर्ययः ॥ ३८ ॥

 भूतपूर्वपदार्थजातेति । पञ्च भूताः पूर्वे यस्य स तथा । भूतपूर्वश्चासौ पदार्थश्च । शरीरं पञ्चभूतात्मकमिति सर्वपदार्थो विवक्षितः । तज्जाता धातवः । तेषां हेतुभूतो योऽनलः तेनानलेन समरसपचनं सारकिट्टतया विभज्य पचतीति समरसपचनम् । तस्माच्छुद्धरसवद्द्रव्यादनजातस्संस्कारः । तस्माद्धातवः । पुष्णन्ति । शरीरमभिवर्धते । नीरोगत्वं भजतां पुंस्त्वमभिवर्धत इति तात्पर्यम् । इन्द्रियवान् भवति । विरुद्धार्थरसपाकयोगः विरसादनपाकजातो यो रोगः स धातुविरुद्दकार्यको भवति । स एवं भविष्यन् विपर्ययो भवति ।

 ननु धातूनामाकारज्ञानं विकारज्ञानपूर्वकं तद्विकाराभावकार्याभावज्ञाने सति सृष्टिसंहारक्रमज्ञानात् । विरसादिकार्याभावज्ञानं विकाराभावसाध्यकार्यहेतुकं तद्विकारकार्याभावहेतुभूतद्रव्याधीनत्वात् यन्नैवं तन्नैवं यधा घटः इति न्यायनयेन ब्यतिरेकानुमानसिद्धौ उक्तरीत्या उपसंहारज्ञानं व्यर्थं स्यादित्यस्वरसादाह--षडिति ।

 [१८]षट्कमलानामादिभूतं मूलाधारकम् ॥ ३९ ॥

 अस्य सूत्रस्यायमर्थस्सम्पन्नः--आधारपद्माधिष्ठित आम्लरसः । स्वादुरसकमम्बुतत्त्वम् । ऊषणरसाहितलवणगुणविशिष्टमनलतत्त्वम् । तिक्तरसगुणविशिष्टं वायुतत्त्वम् । कषायरसात्मकमाकाशत्तत्त्वं च । एतानि पद्मानि रसासृङ्मांसमेदोमज्जाशुक्लधात्वात्मकानि पञ्चभूतात्मकानि । प्रकृतिपुरुषाधारसहस्रारपद्मं आकारतत्त्वपद्मजनकम् । तद्वायुतत्त्वपद्मजनकम् । तत्तेजस्तत्वपद्मजनकम् । तदम्बुतत्त्वपद्मजनकम् । तत्पृथिवीतत्त्वपद्मजनकम् । तत्सजातीयाम्लरसविरसवद्विकारो भूत्वा पृथिवीतत्त्वमम्बुतत्वे विलीयते । स्वादुरसात्मकाम्बुतत्त्वं स्वादुरसविरसवद्विकारो भूत्वा तेजस्तत्त्वे विलीयते । कटुरसान्तर्हितलवणरसगुणविशिष्टतेजस्तत्त्वं लवणरसविरसविकारो भूत्वा वायुतत्त्वे विलीयते । तिक्तरसगुणविशिष्टवायुतत्त्वं तिक्तरसविरसादनजन्यरोगग्रस्तं सत् आकाशतत्त्वे विलीयते । कषायरसात्मकाकाशतत्त्वं कषायरसविरसादनजातामयग्रस्तं सत् स्वयमेव विलीयते । अयं संहारक्रमः । तत्तत्पद्मनिष्ठरसाः तत्तत्सजातीयविरसद्रव्यादनजातरोगाः संहारक्रमोपकारकाः । एतादृशार्थं मनसि निधाय षट्कमलानामाधरभूतपद्मं तत्तत्पद्मविनाशपूर्वकं तत्तच्छरीरान्तश्शरीरनाशं कुरुत इयर्थः ।

 ननु पञ्चभूतविकाराः पञ्चेन्द्रियाणि । तद्विकाराः षड्रसाः । सप्त धातवः । इति तत्र रसासृजी एकीकृत्य षड्रसात्मकोऽयमिति उपयुक्तत्वेन रसासृजी एकीकृत्य तथैव प्रतिपादितम् । रसा एव धातवः । धातूनां च रसानां च भेदाभावात् । अतः पञ्चमहाभूतानां इन्द्रियाणां विषयादिवत् रसादीनामपि तद्वदेव भूतविकारत्वं वक्तव्यम् । तस्माद्रसानां षट्संख्यागणनं व्यर्थं स्यादिति ऊषणरसान्तर्हितलवणरसस्य अस्थिधातुजनकत्वात् । एतावत्पर्यन्तं वर्णबोधकसिराणामेव ....... धातुमध्यगतस्सन् उभयपार्श्वधारकत्वेन दशदळपद्मं सहस्रसिरात्मकपद्माधारकषट्कोणचक्रस्य ....... त्वात् । लवणोषणरसयोरेकत्वेन दशदळपद्मात्मकास्थिधातुं सम्पद्य एधते । इत्यनुनयेत् । सकलवर्णोद्बोधकसिराधारचक्रमध्ये अदृष्टत्वात् सहस्रसिराधारक षट्कोणचक्रस्य अमृतोपजन्य.......त्वात् । एतावत्पर्यन्तं वर्णबोधकसिराणामेव तत्पोषकत्वं नान्येषामिति धातुमध्येऽन्तर्गतत्वात् .......सत्त्वेन तत्तद्वर्णबोधकपद्मानां सहस्रसिराधारकत्वात् । तेषाममृतसिरासंसर्गात् । लवणैक.......प्रधानजन्यानलभूतात्मकास्थिधातुजनकषट्कोणचक्रस्य अमृतोपहरणशीलाभावत्वात् इत्यस्वरसादाह--इडेति ।

 इडापिङ्गलापूरितानिलतत्सिरागतामृतं सिञ्चति[१९] ॥ ४० ॥

 इडापिङ्गलपूरितानिलात्मकषट्कोणचक्रबोधककुम्भकानिलपूरणकार्यहेतुकः सः इडापिङ्गलपूरितानिलशिरःकमलादमृतमावृत्य तावत्सिरास्संपूर्य षट्कोणानिलचक्रस्य उन्मीलिनद्रव्यत्वात् अनलानिलद्रव्ययोस्सहसंचारयोः द्रव्य.......पिङ्गलपूरितानिलानलप्रज्वलनकार्यस्य व्यञ्जनानिलत्वात् । तस्मात्पवनपूरणचक्रप्रतिभासहेतुरित्यर्थः ।

 ननु रेचकपूरककुम्भकानिलेन उदरकुम्भमापूर्य अमृतं सिञ्चतीति यत् तच्चिन्त्यम्, षट्कोणचक्रस्य कुण्डल्यधस्स्थितत्वात् । कुण्डल्युपरिगतपद्मानामेव तत्पूरणकार्यकरणप्रतिपादनात् । कुण्डलीडापिङ्गलपवनेन अमृतसेचनकवर्णस्स्यादित्यस्वरसादाह-- पृष्ठेति ।

 पृष्ठोरूदरजङ्घाशिश्नोपस्थदेशाद्यैरभिवर्धते ॥४१ ॥

 लवणोषणजन्यास्थिधात्वाकारभूतषट्कोणचक्रं कुण्डलीप्रदेशादधस्स्थितत्वात् पृष्ठचक्रवत् तदूर्ध्वोदरवत् पृष्ठदेशवत् पाककर्मणि सहस्रसिराभिरभिवर्धते । तेषामपि श्वासोच्छासपवनगतिसंयोगद्वारा अभिवर्धितत्वेन श्वासोच्छासयोरेतत्पोषककर्महेतुकत्वप्रतिपादनात् पृष्ठोदरपद्मवदभिवर्धत इत्यर्थः ।

 अस्थिधात्वन्तर्भावितमज्जाधातोरमृतागमनसंसर्गप्रसंगाभावेन अमृतोपजीव्यत्वं नोपपद्यत इत्यस्वरसादाह--नाभेरिति ।

 नाभेरधस्स्थितं कुण्डल्यादिभूतं शतदळ[२०]पद्मं पञ्चसहस्रसिरावृतं सरोरुहमजायत ॥ ४२ ॥

 कुण्डल्यधस्स्थितरसासृङ्मांसमेदोधातूनां श्वासोच्छासपवनयोः स्पर्शयोग्यत्वाभावात् उपजीव्योपजीवकसंबन्धस्यानवकाशात् तत्पोषककर्मणः आवश्यकत्वेन पञ्चसहस्त्रसिरावृतशतदळपद्मं अजायत तावद्धातुपद्मपोषणार्थम् । एतद्विना पोषकत्वाभावेन तदाधारभूतसरोरुहमजायतेत्यर्थः । मज्जाधात्वन्तर्भूतस्वादुरसोपजीव्यशुक्लधात्वभिवर्धनकार्यं, कथं संगच्छत इत्याह--जठरेति ।

 जठराग्नेरालवालकतया भाति ॥ ४३ ॥

 जठराग्नेराविर्भूतपाचकपित्तकलापक्वादिकस्य आधारभूतत्वेन जठराग्निरूपपित्तकलाप्रज्वलनार्थं आलवालाधारभावत्वेन ज्वलनक्रियायोग्यत्वात् शुक्लधातोरापादतलमस्तकपर्यन्तं सर्वधात्वाधारकतया आलवालकतया भासत एवेत्यर्थः ॥

 सप्तधातूनां षड्रसात्मकत्वं स्वाद्वम्लवणतिक्तोषणकषायरसानाममृतपोषकत्वं कथं स्यादित्यत आह--मधुरेति ।

 मधुररसं प्रचालयन् शुक्लधातुस्थाने स्वतेजसा भाति ॥ ४४ ॥

 मधुररसवद्द्रव्यम्, स च पित्तेन पच्यमानस्सन् तत्पाचकपित्तपाकजन्यक्रियासंस्कारवशात् शुक्लधातुत्वेन वर्धते । कषायरसद्रव्यादनादजीर्णे जाते सति पवनप्रकोपो भवति । पवनदोषप्रकोपः शुक्लधातुगतस्सन् शुक्लशोषणकार्यं करोति । तद्विरसद्रव्यं पाचकपित्तेन पच्यमानं सत् रसासृग्धातुविकारं करोति । शुक्लधातुस्थानं गगनभूतप्रदेशः । गगनभूतगुणाधिक्यद्रव्यसिद्धं तेजः । पित्तकलापचनजातसंस्कारयुक्ततेजस्त्वात् शुक्लधातुरूपगुणो भातीत्यर्थः । तत्स्वादुरसविरसद्रव्यादनादजीर्णे जाते सति सोऽसृग्धातुविकारं करोति । तदनिवर्तने जलमलातिसाररोगादयस्संभवन्तीत्यर्थः । शुक्लधातुवृद्धिरूपलवणरसाधिक्यद्रव्यत्वात् तेजसा भाति । रसासृग्धातुविकारवृद्धिश्च एतद्विरसाधिक्यस्वतेजसा भातीयर्थः ॥

 ननु यावद्रसवदन्नादनं कफप्रदेशहृद्गतमात्रं सत् भुक्तं मधुरीभूतविकारं भजते । ततः पक्वाशयं प्रविश्य आम्लरसविकारं भजन् पाचकपित्तेन पच्यमानं सत् स्वभावाम्लरसवद्रव्यमज्जाधातुमेधते ॥

 धातुगतामयानवहृत्य कालपाकजीतीयजातौपाधिकरसप्रधानगुणान् यच्छति ।  तदाम्लरसद्रव्यं मांसधातुविकारं करोति । तेन कफप्रकोपनकासशोभपाण्डुविसर्पादयस्संभवन्ति । तद्दोषजन्यामयप्रकोपनिवृत्यर्थं कटुरसवद्द्रव्यादनम् । तेन तद्दोषजन्यामयप्रकोपनिवृत्तिं कुर्वत् रसपाचकपित्तेन पच्यमानं सत् शुक्लधातुरूपं गतं पदं नः (?) तेन भ्रमणमूर्छारतिरोगादयः प्राप्नुवन्तीत्यर्थः ॥

 ननु यावद्रसवदन्नादनं कफप्रदेशहृद्गतमात्रं सत् तद्भूक्तान्नं मधुरीभूतं भवति । तत्पक्वाशयं प्रविश्य आम्लीभूतं सत् पाचकपित्तेन पच्यमानं सत् तत्तद्द्रव्यभेदेन पाकं कर्तुं न शक्नोति । मधुररसकार्यमाम्लरसविकारकार्यं च कण्ठमार्गप्रवेशानन्तरं पूर्वान्नानदनजातमधुररसं प्राप्य कफप्रदेशहृद्गतं सत् मधुररसं भजति । तदनन्तरं आम्लरसविकारं कुर्वन् पक्वाशयं प्रविश्य पाकान्तरमधिगम्य तद्रसान्तरं भजति । अतिमधुररसद्रव्यं कथं शुक्लधातुप्रवर्धकमित्यस्वरसादाह--आम्लेति ।

 आम्लरसं विपाचयन् मज्जाधातु[२१]स्थाने स्वतेजसा भाति ॥ ४५ ॥

 आम्लरसद्रव्यं पाचयन् यावदन्नस्य भुक्तस्य प्रथमद्रव्यनिष्ठतत्तद्विधिविहितगुणान्प्रयच्छति । कालपाकजन्योपाधिवशात् तद्रसान्तरं भजन्नपि औपाधिकरसगुणान्न प्रयच्छति । सर्वरससंसर्गयुक्तान्नादनत्वेऽपि तत्पाचकपित्तं तत्तद्रसवद्द्रव्यं एकदा विभज्य पचति । स एव रसः स्वेतररसगुणाधीनफलं प्रयच्छति । तादृशाम्लरसद्रव्यं मज्जाधातुत्वेन प्रवर्धते । तद्धातु गतपवनविकारं हन्ति । तन्नैवाम्लरसद्रव्यं मांसधातुविकारं करोति । तद्विरसद्रव्यादनादजीर्णे जाते सति तत्तद्धातुविधिविहितामयाः प्रजायन्ते । अनिलाधिकाम्लरसद्रव्यं मज्जाधातुपोषकम् अनिलभूतादिरूपोपलम्भकाम्लरसद्रव्यत्वात् । अनिलभूतादिरूपोपलम्भकाम्लरसद्रव्यं मांसधातुविकारकारकमांसधातुशोषणोपकारकद्रव्यत्वात् । इत्यनुमानप्रमाणेन आम्लरसवदनिलद्रव्यं मज्जाधातुबलकारकं मांसधातुविकारकारकं चेत्युभयफलं प्रयच्छति तत्तज्जातीयधातुपोषकत्वं प्रतीयते । मांसधातुविरुद्धरसद्रव्यस्य मांसशोषकत्वं च प्रतीयते । एवं सकलभूतोत्पत्तिक्रमः । एवमेव सकलभूतानां संहारक्रमश्च बोद्धव्यः । अन्योन्यं यावद्धातुपोषकत्वं तदन्योन्ययोरेव धातुनाशकत्वं च ब्रूमः । रसानां धातुपोषकत्वं यत्र प्रतीयते स एव सृष्टिक्रम इति ज्ञातव्यः । एतद्रसानामेव धातुशोषणैककार्यं यत्र प्रतीयते, स एव संहारक्रम इति बोद्धव्यः । तद्वद्दोषाश्च मलाश्चालयाश्च तदन्योन्यकार्यं विशिष्टसृष्टिं सृजति । तदेव सृष्टिनाशं करोति । अत एवात्मानमात्मना सृजति । आत्मकृतनाशत्वमात्मन्येव । यत उभयोरपि धातवः रसा एव ज्ञातव्या इत्यर्थः ॥

 ननु स्वादुरसद्रव्याणि इक्षुकाण्डादीनि बहूनि सन्ति । तद्वदाम्लरसवद्भूरुहो बहवस्सन्ति । अथ स्वादुरसस्य शुक्लधातुपोषकत्वं, आम्लरसस्य मज्जाधातुपोषकत्वं वक्तुं शक्यते । तद्वत् लवणरसवद्भूरुहोऽयं भेषजयोग्य इति अदृष्टत्वात् कथं लवणरसवद्द्रव्यं धातुपोषकमिति व्यवहर्तुं शक्यत इत्यस्वरसादाह--लवणेति ।

 लवणरसं विपाचयन् अस्थिधातुस्थाने स्वतेजसा भाति ॥ ४६ ॥

 इदं लवणरसवद्द्रव्यं पथ्यवर्गेषु औषधयोगकार्येषु लवणरसवद्भूरुह इति व्यवहाराभावेपि सकलरसानां धातुपोषकत्वं लवणरसेन विना पाकं कर्तुं अशक्यमिति लवणरसत्वं लवणद्रव्ये प्रसिद्धमिति भोज्ययोग्यद्रव्यजनकद्रव्यादिषु लवणरसपाकस्य कर्तुं योग्यत्वात् । अत एव अस्थिधातोर्लवणद्रव्यात्मकत्वेन लवणं समुद्रजलविकारबडवानलकार्यान्तःप्रविष्टत्वेन तद्बडवानलात्मकमिति सुप्रसिद्धमिति भावः ॥

 लवणं मेदोरोगहेतुकम् । मेदोधातुशोषकद्रव्यत्वात् । लवणरसः अस्थिधातुपोषकः अनलसजातीयद्रव्यत्वात्, सर्वरसोपकारकत्वात् । अत एव पाचकपित्तं लवणरसं विपाचयत्, अस्थिधातुस्वरूपं भजत सकलभारं वहति । लवणरसयोगद्रव्यादनं अस्थिधातुबलप्रदम् । सकलरसयोगवत्त्वेन हि सकलधातुपोषकत्वम् । अतएव लवणरसस्य षड्रसानामपि बलप्रदायकत्वम् । शुद्धरसवद्द्रव्यादनेऽपि लवणरसं विना पाच्या[२२]भावात् । शुचिशब्दस्य लवणत्वाभिधाने तु लवणरसो मेदोधातुविकारकारकः, लवणाम्बुजन्यलवणरसद्रव्यत्वात् । तद्विरसद्रव्यं अस्थिधातुशोषकं भवतीत्यर्थः ॥

 ननु कषायरसवद्द्रव्यादनादजीर्णे जाते सति शुक्लधातुशोषककार्ये पवनविकारो जायते । तत्पवनप्रकोपनिवृत्त्यर्थं स्वादुरसद्रव्यादनं विधिः । तस्माच्छुक्लधातुविकारे जाते सति स्वादुरसवद्द्रव्यादनं विधीयते । कटुरसद्रव्यादनादजीर्णे जाते मज्जाधातुविकारकारकपवनप्रकोपो जायते । तादृशपचनप्रकोपनिवृत्यर्थं आम्लरसद्रव्यादनं विधीयते । (लवणरसद्रव्यादनादजीर्णे जाते सति), तिक्तरसद्रव्यादनादजीर्णे जाते सति च पवनप्रकोपो जायते । तत्प्रकोपनिवृत्त्यर्थं लवणरसद्रव्यादनं विधीयते । कटुरसद्रव्यादनादजीर्णे जाते सति पवनप्रकोपो जायते । पित्तविकारशुक्लधातुपोषणं करोति । तत्र मूर्छाभ्रमतन्द्रारुचिसर्वाङ्गतोदारतयो जायन्ते । एतद्गुणाविर्भावकपवनपित्तप्रकोपहेतुकरसविरसादनादजीर्णे जाते सति तत्र द्वन्द्वदोषगुणाविर्भावो भवति । तत्र स्वादुरसद्रव्यादनं निवर्तकं भवति । तिक्तरसद्रव्यादनकार्यं अप्रयोजकं स्यादित्यस्वरसादाह--तिक्तेति ।

 तिक्तरसं विपाचयन्[२३] मेदोधातुस्थाने स्वतेजसा भाति ॥ ४७ ॥

 पाचकपित्तं तिक्तरसं विपाचयत् मेदोधातुगतं पित्तविकारं हरत् तत्स्थाने स्वतेजसा पाचकपित्तजन्यतेजसा स्वयमेव भाति । तिक्तरसादनादजीर्णे जाते सति तज्जन्यरोगोऽस्थिधातुशोषं करोति । तत्पित्तविरुद्धलवणरसेन पित्तप्रकोपो भवतीत्यर्थः ॥

 ननु आम्लरसवद्द्रव्यादनादजीर्णे जाते सति कफप्रकोपो दृश्यते । तत्प्रकोपनिवृत्त्यर्थं कटुरसद्रव्यादनं विधिः । आम्लरसविशिष्टगन्धवद्द्रव्यत्वं पृथिवीत्वावच्छेदकम् । पृथिवी अब्द्रव्यजन्या सार्द्रद्रव्यत्वात् । तज्जन्यत्वेन शीतत्वं गुरुत्वम् । ए तल्लक्षणलक्षितकफप्रकोपस्य पृथिवीद्रव्यसंयोगजन्यत्वात् । तद्विरुद्धद्रव्यादनमपि कफप्रकोपहेतुकम् । कटुरसद्रव्यादनेनैव कफप्रकोपनिवृत्तिरित्याशयं मनसि निधायाह--ऊषणेति ।

 ऊषणरसं विपाचयन् मांसधातुस्थाने स्वतेजसा भाति ॥ ४८ ॥

 सर्वत्र सत्त्वात् पवनप्रकोपकारककफप्रकोपनिवर्तकत्वस्य बहुशो दृष्टत्वात् पवनप्रकोपकारकमिति वक्तुमशक्यत्वाच्च । तथा हि--सरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनप्रकोपस्य हतः(?) कफप्रकोपो भवति । कटुरसाधिकद्रव्ये पक्वाशयगते सति तत्कफप्रकोपं हरतीति वक्तव्यम् ॥

 आचार्यस्सर्वचेष्टासु लोक एव हि धीमताम् ।

 एष शिरस्तोदो यत्र प्रकाश्यते तत्र कटुरसवद्द्रव्यविलेपनं शिरस्तोदनिवर्तकं भवति । किंचानलमन्दादजीर्णे जाते सति कुक्षौ वेदना जायते । तत्र कटुरसद्रव्यादनं निवर्तकं भवति । शीतोदकस्नानेन रसाजीर्णे सति सर्वाङ्गेषु पवनप्रकोपो जायते । तत्र अनलसंयोगादिना स्वेदनं आमज्वरादीनां निवर्तकं भवति । तत्र पवनप्रकोपस्य निवृत्तिः यदा भवेत् तत्सिरारन्ध्रमार्गागतपवनगतितिरोधानं सर्वत्रापि मांसधातोः कफग्रस्तत्वात् कफप्रकोपे सति पवनगतितिरोधानं कुरुते । तत्र वेदनाऽपि जायते । तत्र पवनप्रकोपकार्यनिवर्तकद्रव्यं वा भेषजं तज्जनककफप्रकोपनिवर्तकद्रव्यं वा भेषजम् । तत्र पवनप्रकोपनिवर्तकरसवद्द्रव्यादनमन्तरेण तत्पवनप्रकोपनिवृत्तिं कर्तृमशक्यत्वात् । तस्मात्कटुरसवद्द्रव्यं पवनप्रकोपकार्यनिवर्तके विधेयमिति चेष्टा स्वाचार्यः परेषाम् । रोगजनकसमूहाहेतुत्वात् । कटुरसवद्द्रव्यं पवनप्रकोपनिवर्तकमिति व्यपदेशमात्रेरितार्थः । तज्जनकीभूतरसविरसादनादजीर्णजातामपित्तविषक्रिमिनिवर्तनद्वारा कटुरसस्य हेतुत्वमित्यर्थः । कटुरसस्य क्रिमिदोषनिवर्तनमात्रे चरितार्थत्वात् । मांसधातुप्रकोपकारककफोद्रेककार्यं पवनोद्रेककार्यहेतुकं तत्कारणनिवर्तकमन्तरेण तत्कार्यनिवृत्तेरसंभवात् । तत्पवनप्रकोपकार्यनिवर्तकं कफप्रकोपनिवर्तकसामग्रीसंपादनमेव विधेयं भवति । तत्सामग्रीसम्पादनं कटुरसद्रव्यादनमेवेत्यर्थः ।

 ननु मधुररसगुणाधिक्यद्रव्यं अब्द्रव्यतादृशाधिक्यद्रव्यादनादजीर्णे जाते सति रसासृग्धातुविकारं करोति । तदादाननिदानभूताः रोगाः जलातिसारमहामलातिसारग्रहण्यतिसाररक्तपित्तरोगाश्च रक्तवायुश्च संभवन्ति । तन्निवर्तकं कषायरसवद्द्रव्यादनमिति मनसि निधायाह-- कषायेति ।

 कषायरसं विपाचयन् रसासृग्धातुस्थाने स्वतेजसा भाति ॥ ४९ ॥

 पाचकपित्तेन कषायरसद्रव्यादने पक्वाशयगते सति तत्पित्तकलायाः पाकः क्रियते । तत्पाकजन्यसंस्कारेण रसासृग्धातुविकारं हरति । तन्निवर्तककषायरसद्रव्यादानं तत्र हेतुरिति रसासृग्धातुविकारनिवर्तकसामग्रीरूपबलवत्तेजसा समर्थोऽस्मीति प्रतिभातीति अत्र स्वतेजसा भातीति प्रतिपादितम् ॥

 कषायरसविरसादनादजीर्णे जति सति तच्छुक्लधातुगतिविकारं कुर्वत् तच्छुक्लगतपवनप्रकोपे सति तद्धातुगतिविहित रोगास्सम्भवन्ति । मूर्च्छारोगश्च हिक्कारोगश्च भ्रमविकारः रक्तवायुश्च शोभाश्च अङ्गकम्पश्चापस्मारश्च पादस्फुरणं च सम्भवन्तीत्यर्थः ।

 ननु सृष्टिसंहारक्रमद्वयमपि प्रतिपादितम् । पञ्चभूतानामुत्पत्तिक्रमः तत्संहारक्रमश्च ज्ञापितः । तथा सति दृष्टं जगच्छरीरात्मकं जीवच्छरीरात्मकं प्राणादिमत्त्वात् इतीदं जगत्सर्वं शरीरात्मकं प्रपञ्चात्मस्वरूपत्वात् इत्यनुमानप्रमाणेन स्वाङ्गशरीरोत्पत्तिः वक्तव्या । तत्र शरीरोत्पादकसामग्र्यां सत्यां नित्यं शरीरकार्यं जायते । शरीरोत्पादकसामग्र्यामसत्यां तत्कार्योत्पत्तेरशक्यत्वात् इत्यस्वरसादाह-- सकलेति ।

 सकलरसाधारादिभूतमङ्गुष्ठदळं नाभिपद्माधिष्ठितं त्रिकोणं नाम सरोरुहमजायत[२४] ॥ ५० ॥

 सकलरसाधारादिभूतं नाम अङ्गुष्ठदळं षड्रसात्मकं सप्तधात्वात्मकं अवर्णोपधगकवर्गपञ्चवर्णाधारभूतं पञ्चभूतात्मकशरीरोत्पत्तेः आधारभूतत्वेन सकलरसाधारभूतमिति । अङ्गुष्ठदळमात्रविशिष्टनाभ्यधस्स्थितपद्मं त्रिकोणपद्मम्--

 अङ्गुष्ठमात्रः पुरुषोऽङ्गष्ठं च समाश्रितः ।

 इति श्रुत्यनुसारेण प्रकृतिपुरुषयोराधारभूतमिति तावेव प्रजाजननं कुरुतः । तयोरधिष्ठानत्वेन तत्र स्थितः असृगेव रस इति । अत एव शरीराधारभूतमिति सम्यक्प्रतिपादितम् । "रसो वै सः रसँह्येवायं लब्ध्वाऽऽनन्दी भवति" । इति श्रुतेर्विद्यमानत्वात् । तत्रैव त्रिकोणपद्मं पुरुषस्याप्यस्ति । बीजेऽ धःकोणौ, तदुपरिकोणमेकमाधारभूतं कामगिर्यात्मकं रुद्रात्मकशक्तिविशिष्टं कामेश्वरदेवतात्मकम् । एतादृशगुणविशिष्टमूर्ध्वकोणं अधःकोणद्वयस्य दक्षिणपार्श्वकोणस्य सूर्यचक्रात्मकजालंधरपीठे उड्डियाणदेवतात्मकतदितरवामकोणं सोमचकात्मकपूर्णगिरिगह्वरपीठं परब्रह्मात्मकशक्तिविशिष्टं त्रिकोणपद्मं प्रकृतिपुरुषयोरैक्यकर्मणा सर्वदा आनन्दानुभवसुखमनुभूयते । स्त्री प्रकृतिः । पुरुषस्तु ईश्वरः । तयोरैक्यसुखं सर्वदा अनुभूयते । अत एव सर्वरसाधारभूतमिति । सर्वजन्तूनां त्रिकोणपद्मं सर्वरसाश्रयं प्रजाजननहेतुभूतसुखैकाश्रयत्वात् । यन्नैवं तन्नैवं यथा घट इतीदं सर्वं रसाश्रयमिति सर्वप्रमाणसिद्धम् ॥

 प्रजाङ्कुराविर्भाववद्भूमिप्रदेशः रसादीनामाम्लरसवानिति व्यपदिश्यते । अत एव सर्वरसात्मकत्वं ब्रूमः । प्रजाजननहेतुभूतप्रदेशत्वात् पुंसामपि मेढ्रप्रदेशः त्रिकोणवद्भासते । बीजद्वयस्थितत्रिकोणद्वयविकारभूतबीजद्वयाधिष्ठितं तदुपरि मेढ्रप्रदेशमेककोणम् । तस्मात्सर्वपुंसां त्रिकोणपद्मं प्रतीतमिति यत्तदयुक्तम् । अण्डजातपुंवच्छरीराणां मेढ्रात्मकबीजद्वयपद्मस्य अभावात् तेषां त्रिकोणपद्मस्याभावादिति नाशङ्कनीयम् । बीजादुत्पन्नत्वस्य उभयोरपि समानत्वात् । ते अण्डजा इति सर्वशास्त्रसिद्धत्वात् । प्रत्यक्षेण त्रिकोणविकारमेढ्रबीजाभावेऽपि बीजजन्यं पिण्डमित्युभयोरपि समानम् । अत एव अण्डजानां अन्तस्स्थितपेशीति व्यपदिश्यते इति केचित् । अण्डजानां शरीराणां अण्डजत्वं समानमित्यर्थः ।

 ननु सर्वशरीरस्थितपद्मानां सर्ववर्णाधारत्वात्, तेषां प्रयोजनमपि वर्णज्ञापकत्वमात्रमेवेति प्रतिभाति । तत्र त्रिकोणपद्मस्य अगणितत्वात् कथं प्रजाजननहेतुभूतपद्मं न प्रतिभासत इति । तथा सति सर्वकालेऽपि त्रिकोणपद्मस्य यावच्छरीरपर्यन्तं सत्वात् प्रजोत्पत्तिस्स्यात् । स्त्रीपुरुषसंयोगव्यतिरेकेण प्रजोत्पत्तेरदृष्टत्वात् इति नाशङ्कनीयम् । सप्तधातुमयशरीरं शरीरान्तरजनकम् । तस्मात्त्रिकोणपद्मान्तरं जायत इत्यर्थः । इन्द्रियं प्रजाजननहेतुभूतं न वर्णोत्पादकं बाह्यकर्मकृत्याधारभूतत्वात् । तस्मात्प्रजाजन्मप्रतिपादनकथनं सर्वकालेऽपि संभावितमिति यत्तदयुक्तमिति तात्पर्यम् । महाशरीरपिपीलिकाशरीराणां इदं त्रिकोणपद्मं सर्वसुखसाधनमिति निश्चित्य प्रवृत्तेर्दृष्टत्वादित्यर्थः ।

 ननु केवलं त्रिकोणपद्मं न प्रजाजननहेतुकं शुक्लधातोरेव प्रजाजननकार्यहेतुत्वात् । तस्य आधारभूतमात्रत्वेनैव चरितार्थत्वात् । अङ्कुरोत्पादकबीजावापं विना प्रजाजननकार्यस्यायोग्यत्वादित्यस्वरसादाह--तस्मादिति ।

 तस्मात्तनुरजायत । तस्माच्छाखाश्शरीरे भान्ति ॥ ५१ ॥

 तस्मात्पूर्वोक्तरीत्या स्त्रीणां पुंयोगे सति प्रजाजननकार्यं शक्यते । अन्यथा तत्सर्वं शाखाशरीरस्य मेढ्रस्य प्रजाजननहेतुभूतत्वेऽपि (न संभवति) तन्मेढ्रस्यापि शाखाशरीरत्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेढ्रस्यापि प्रजाजननहेतुत्वमिति तन्मेढ्रस्यापि शाखाशरीरत्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेढ्रस्यापि प्रजाजनन हेतुकत्वमिति कृत्वा तस्मादित्युपसंहारपदं सूत्रद्वयेऽपि पठितमिति ॥

इत्यायुर्वेदस्य पञ्चमप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसम्मतं प्रतिसूत्र
व्याख्यानं लोकोपकारकृतं
समाप्तम्.



महादेवस्त्वेनं प्रकटयति तद्वैभवपदं
गदद्विट्साम्राज्यं सततमभवत्तद्विलसितैः ।
स दक्षो वामाक्ष्याऽप्यधिकधनविद्यावितरणे
कटाक्षैः कामाक्षी कलयतु शुभं नः प्रतिदिनम् ॥
जनकश्शंकरस्साक्षात् जननी सर्वमङ्गला ।
रक्षणेऽवहितौ तौ मे को विचारः कुतो भयम् ॥

सर्वेश्वरपदान्तिके समर्पितम्.



[२५]तज्जन्यामृतं तत्पोषकम् ।
५२
 
अचलोऽजो मनोविषयकः ।
५३
 
तद्ज्ञानं तत्पुरुषार्थकम् ।
५४
 
सात्विकद्रव्यादनं तद्बोधकम् ।
५५
 
इतरार्थादनात्तन्न भाति ।
५६
 
रजस्तमोगुणौ आत्मज्ञान[२६] प्रतिबन्धकौ ।
५७
 
सर्वार्थानां हेतुभूतं शरीरम् ।
५८
 
सोऽजस्समं[२७]पश्यति ।
५९
 
स सर्वान्नमत्ति ।
६०
 
तत्पोषकोचितरसास्तच्छाखाफलकाण्डतत्पोषकाः ।
६१
 
प्रातःपूर्वाह्णादनै रसविकारं निरीक्षयेत् ।
६२
 
विसृष्टविण्मूत्राद्विमलाशयः ।
६३
 
अरोगस्याशयास्सर्वशरीरसाधकाः ।
६४
 
रसाशयस्साशयस्सर्वाशयो वा शरीरी ।
६५
 
षट्पञ्चाशद्वसुमतीकला हृद्देशा भान्ति ।
६६
 
नाभ्यामुद्भूतजाताः पञ्चाशत्प्रभाः प्रविभान्ति ।
६७
 
तदूर्ध्वानले द्वाषष्टिमयूखाः प्रतिभान्ति ।
६८
 
चतुःपञ्चाशत्कुक्षौ पवननिष्ठाः प्रभाः प्रपद्यन्ते ।
६९
 
तदूर्ध्वं वियद्गता द्वाषष्टिप्रभाः प्रकाशन्ते ।
७०
 
श्रोत्रनेत्रनासिकामध्यगतमनस्सु मयूखा विकसन्ति ।
७१
 
तदूर्ध्वकायान्तस्स्थितसहस्रारे पद्मे शुक्लरूपद्वयं यत्र प्रतिभाति ।
७२
 
क्षित्यादिमनोऽन्ताः षडृतव इति ।
७३
 
षड्रसास्समरसास्ताः कलारूपाः कलाख्याः प्रत्यहं प्रदृश्यन्ते ।
७४
 
क्षितिमब्भक्तकलाः पुष्णन्ति ।
७५
 
आपोऽनलपोषिताः ।
७६
 
अनिलादनलः ।
७७
 
अनलादाकाशः ।
७८
 
[२८]अनन्तरं मन ।
७९
 
मनोयुगात्मेत्यभिधीयते ।
८०
 
एभिरावृतं शरीरम् ।
८१
 
षट्पदार्थजाताष्षड्रसात्मकास्तत्तद्द्रव्यादेशा इत्युपदेशः ।
८२
 
तत्तद्रसानास्वाद्य विरक्तमनोजः अन्योन्यमन्योन्यमनुभूयते ।
८३
 
स्वतस्स्वयमेवंवित् ।
८४
 
तत्तल्लोकात्प्रेत्य एतमानन्दमयमात्मानमुपसङ्क्रामति ।
८५
 
एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।
८६
 
एतं मनोमयमात्मानमुपसङ्क्रामति ।
८७
 
इमान्लोकान्कामरूप्यनुसंचरन्नेतत्साम गायन्नास्ते ।
८८
 
ऊर्ध्वाऽधस्तिर्यङ्मयूखानलो भवति ।
८९
 
तच्छाखाग्रविराट्पुरुषस्सर्वमश्नुते ।
९०
 
अनामपालनमनामयहेतुकम् ।
९१
 
धातुपोषकमानन्दहेतुकम् ।
९२
 
रसद्रव्यविज्ञानमानन्दहेतुकम्।
९३
 
तदन्योन्यसंयोगज्ञानपूर्वकमात्मस्वरूपविज्ञानमानन्दहेतुकम् ।
९४
 
विज्ञानसामग्री आत्ममनोविषयपूर्वकं तत्तद्विषयविज्ञानस्याश्रयवान् भवति ।
९५
 
रोगपापविसर्जनं साश्रयस्थितस्थापकम् ।
९६
 
ताभ्यामधिभूतं अभयदं सर्वशरीरधारकं धातुल[२९]क्षणम् ।
९७
 
निवर्त्यनिवर्तकविषयविधिं ज्ञात्वा विषये नप्रमत्तं साध्यासाध्यविधिनिषेधज्ञानपूर्विका कार्या चिकित्सा ।
९८
 
एकैकशरीरद्रव्यभेदमेकैकभेषजम् ।
९९
 
पृथिव्युद्भवगुणोऽम्लरसवन्निरसद्रव्ययोश्शोषकपोषकः ।
१००
 
अब्भूतगुणो गतरसवद्द्रव्ययोश्शोषकपोषकः ।
१०१
 
तेजोभूतोद्भवावूषणरसान्तर्हितलवणोषणरसौ अम्बुपवनयोश्शोषकपोषकौ ।
१०२
 
पवनभूतोद्भवः सकलरसावगतस्पर्शयोग्यद्रव्यरसापहृतरसादिकीर्णरक्तरसस्सकलदोषनिवर्तकः ।
१०३
 
गगनभूतोद्भवतच्छायात्मभूनिष्ठतिक्तरसाधीनानिलानलोष्मरुज आकाशाधीनकषायरसा यावत्सर्वदोषस्थामयापहाः ।
१०४
 
यावद्धातुपोषकद्रव्यादनात्तत्तद्रोगनिवर्तकाः ।
१०६
 
विषयविषयाणामात्माभिघातान्मारुतोद्रेकहेतुकम् ।
१०६
 
अदनाभिघातजरुजोऽदनाभिघातहेतोरदनजामनिवर्तकनिवृत्तिः ।
१०७
 
दुस्साध्या अभिघातजाः ।
१०८
 
सिरानिवर्तकाश्शरीरनाशकाः ।
१०९
 
अन्त्यकालव्यसनादभिघातज इति ।
११०
 
क्षयार्शोगुल्मनेत्ररुक्प्रवचनहेतुकम् ।
१११
 
देहशोषाद्देहपाकाद्देहसारोऽतिसरति ।
११२
 
स्वादुरसश्शुक्लपोषकः ।
११३
 
स्वादुरसविरसश्शुक्लशोषकः ।
११४
 
अम्लरसो मज्जाप्रवर्धकः ।
११५
 
अम्लरसविरसो मज्जाहीनताप्रदः ।
११६
 

इत्यायुर्वेदस्य पञ्चमप्रश्नः समाप्तः.


  1. एतत्सूत्रात्प्राक् 'हीनाधिकतिक्तरसः पित्तपवनं हन्ति । कफं कुरुते ।' इति A. B. कोशयोरधिकः पाठः.
  2. रसातिरसविरसातिद्रव्यसारजाः- A.
  3. अदोषक A.
  4. पोषकमेकमनेक–-A & B.
  5. कालपाकजैर्योग्यैः-- A & B
  6. द्विविधैः--A & B
  7. ते दोषगा इति पाठ इति भाति.
  8. वातौहितरसा;
  9. मार्गका--A. & B.
  10. नैतत् A. B.कोशयोर्दृश्यते.
  11. एतत्सूत्रात्प्राक्--यावद्धातुविरुद्ध रसादिगततद्रसाभावदर्शनकालो दोषपचनकालः । विरुद्धरसजातयावद्धात्वधिरोहणादेकधातुकः । इति द्वे सूत्रे A & B कोशयोरधिक दृश्येते.
  12. एतत्सूत्रात्पूर्वं--‘विषमरसानेकपथधातुमार्गगाः द्विदोषगाः । इति A & B कोशयोरधिकः पाठः
  13. रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिकैकवशान्निर्गतस्वस्थानच्युतो बहिरुज्ज्वलयन् ज्वरस्सामजातः । विषमरसपचनरसविरसादियावद्धातुप्रसादाधीनोदोष–-इति A & B कोशयोः पाठः.
  14. एतत्सूत्रं A. B. कोशयोः "यावद्धातु" इत्यादिसूत्रात्प्रागेव दृश्यते.
  15. A & B कोशयोरेतत्सूत्रं चतुर्थप्रश्नस्यान्तिमं सूत्रम्.
  16. एतस्तूत्रात्पूर्वं--"अस्थिमज्जानुगतानुसारितप्रकोपजाता असाध्याः । एवमन्योन्यदोषजाताश्च" इति A & B कोशयोरधिकः पाठः.
  17. A & B कोशयोरेतन्न दृश्यसे.
  18. एतत्सूत्रात्प्राक् "प्रातःपूर्वाह्लादनैरविकारं निरीक्षयेत् । विसृष्टविण्मूत्राद्विमलाशयः इति A & B कोशयोरधिकः पाठः
  19. एतत्सूत्रात्प्राक् "तिक्तोषणरसप्रधानजन्यमेदोधात्वाधारदशदळपद्मं सहस्रसिराधारकं षट्कोणचक्रं प्रतिभाति" इति A कोशे. "षट्कोणचक्रं प्रतिभाति" इत्येतावन्मात्रं B कोशे अधिकः पाठः.
  20. दशदल--B.
  21. मेदोधातु--B.
  22. पाचकाभावात्.
  23. प्रचालयन्.
  24. 'अङ्गुष्ठदळनाभिपद्मं सर्वार्थानां बीजभूतं त्रिकोणमजायत' इति--A & B.
  25. पञ्चमप्रश्ने एकपञ्चाशसूत्रपर्यन्तमेवोपलब्धं भाष्यं यथामातृकं मुद्रितम् । अतःपरं षोडशप्रश्नपर्यन्तं भाष्यानुपलम्भात्सूत्राण्येव केवलं मुद्रितानि.
  26. तद्ज्ञान--B
  27. स्सर्वं‌--B
  28. अनन्तं--A
  29. भूतलक्षणम्--B