आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/षोडशप्रश्नः

अथ षोडशः प्रश्नः.



तद्वत्सगुडादियुक्तलेह्यादयस्तथा ।
 
कपित्थादिद्वाविंशतिपदार्थाः हिध्मामयघातकाः ।
 
तावत्पदार्थास्तैलघृतलेहरूपाः हिध्मामयनिवर्तकाः ।
 
तत्तद्भूतविशुद्धद्रव्यादनाजीर्णजन्यामयधातुशोषकारकयावद्द्रव्यनिवर्तकद्रव्यं तत्तद्धातुपोषकम् ।
 
दशमूलादिपञ्चदशद्रव्यं यथायोगं रसधातुशोषकपोषकम् ।
 
घनादिपञ्चदशद्रव्यं रक्तधातुशोषकपोषकम् ।
 
रास्नादिपञ्चदशद्रव्यं यथायोगं धातुशोषकमांसधातुगतामयहारकम् ।
 
वालुकादिचतुर्दशद्रव्यं मेदोधातुविकारनाशकम् ।
 
निम्बादि[१] पञ्चदशद्रव्यं अस्थिधातुगतरोगप्रकोपहारकम् ।
 
विद्रादिपञ्चदशद्रव्यं मज्जाधातुनिष्ठरोगप्रकोपकारकम्[२]
१०
 
जात्यादिषड्द्रव्यं यथायोगं चरमधातुगतरोगप्रकोपहारकम् ।
 
पवनभूतगुणाधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगतसिराविकारजातं छर्दिरोगहेतुकम् ।
१२
 
तन्निवर्तकवह्निभूतगुणोपलम्भकयावद्द्रव्यादनं छर्द्यामयभेषजम् ।
१३
 
शठधनिजलजाजाजि[३] मुद्गपाठाकटुकमधुकपित्थिशिवायुतामृतामरीच्येलाकार्पासचन्दनमाक्षिकजीरकलवङ्गयत्वक्केसरप्रियङ्गुशशियुतार्थाः चूर्णक्वाथतैललेह्यरूपाः छर्द्यामयनाशकाः ।
१४
 
त्वङ्मांसमेदोवर्धकाधिकरसविरसद्रव्यादनाजीर्णजम्यान्यामपित्तविषक्रिमिग्रस्तसिराविकारकारकगुदाङ्कुरामयप्रकोपहारकद्रव्यादनं तत्तदामयविनाशकम् ।
१५
 
स्वर्जिकानिशावन्तोन्तीमुसलीशिरीषकणातुत्थजाजि(नि)वेण्वर्कस्नुग्भल्लातककरञ्जवकुलधात्रीविभीतकाभयायवानीबिल्वपुनर्नवाशिरिषलि[४]सैन्धव(ति) मरिचसूरण[५] चव्यजीरक वज्रवल्ली मूर्वापामार्गक दशमूललवङ्ग केसर मुरगि[६] मोहा[७] भीरुब्राह्मीघोषाकुष्ठहिंगुसैन्धव भार्ङ्गिरास्नामधूकवचाशिरीषधातुमयूरकोशीरपाठा दुस्पृक्सिद्धार्थपलाण्डवः पदार्थाः भूपरि[८]पक्वगन्धघृततैललेह्यरूपभूता गुदाङ्कुरामयहारकाः ।
१६
 
यावद्भूतविहितविरुद्धरसाधिकधातुवद्द्रव्यादनाजीर्णजातामपित्तविषक्रिमिकारकद्रव्यविरुद्धयावद्द्रव्यादनं रसधातुसारातिसारनिवर्तकम् ।
१७
 
अतो[९] विषघनविरोषण[१०] दिव्यपाठाभयाकुटजाजाज्यजमोदमोचरसधातुचिरिबिल्वतिन्दुकदाडिमपद्मफलिनीमरिचधविकाजाजिकगुणितिन्त्रिणीयवशूर[११] ककपि
 
त्थाम्र चूतजम्बूविजयाबीजफेनुजीरकोलचव्यचित्रकवराम्लघुणप्रियावत्सकबीजयष्टित्रुतृटिकैडर्यशरपुङ्खलशुनहिङ्गुधात्रीविभीतकग्रन्थितलपोटक[१२]तितीरसवद्द्रव्यवद्यावत्पदार्थाः चूर्णक्काथघृततैललेह्यरूपा अतिसारग्रहणीरोगनिवर्तकाः ।
१८
 
पृथिव्यादि[१३] गुणाधिकस्वसमानाधिकरणस्वादुरसोपलम्भक द्रव्यादनजाताजीर्णामयनिवर्तकरजोगुणाधिकोपलम्भकाम्लरसवदम्बुभूतद्रव्यं अजीर्णामयनाशकम् ।
१९
 
पत्थ्याधात्र्यक्षपुनर्नवाहिङ्गुशरपुङ्खव्याघ्रीदुरालभपूगीफलतमालक्षाराम्लजम्बीरार्कस्नुहिशिग्रुपर्वकोग्रगन्धकरञ्जखदिराग्निश्रीपर्णीश्रीभन[१४]जयाग्नेयाः चूर्णक्वाथलेहरूपाः अजीर्णामयनिवर्तकाः ।
२०
 
अग्निभूतद्रव्याधिकस्वसमानाधिकरणाम्लरसोपलम्भकद्रव्यादनजाताजीर्णजातामरोगनिवर्तकं पार्थिवगुणाधिकस्वादुरसवद्द्रव्यम् ।
२१
 
विश्वदेवकुसुमकटुकणाग्निरसोनदीप्यककरञ्ज पुनर्नवायवजीरकहिङ्गुस्तवत्सकवसुकपत्थ्या[१५]जिग्रसुरगीजातिफलतलपोटकटकबर्बुरकुष्ठयावत्सरसवद्द्रव्यं चूर्णक्वाथकल्कादिविकारं सर्वाजीर्णामरोगनिवर्तकम् ।
२२
 
अम्बुपवनभूतस्वसमानाधिकरणरसोपलम्भकद्रव्यादनाजीर्णामपित्तज्वरजन्यमन्दानिलरुङ्निवर्तकपवन
 
भूताधिकसन्धुक्षणकर्मकारकतिक्तरसवद्द्रव्यं अग्निमान्द्यामनिवर्तकम् ।
२३
 
पाठाकरञ्जानलशरपुङ्ग पुनर्नवानिम्बलशुनयवानीचरबन्धन[१६] दीप्यकजीरकबिल्वातिविषावचासैन्धवविश्वचव्यनैतलरास्ना[१७] मृतातसी[१८] भृङ्गकुबेराक्षलोध्रकवचामांसि-एलावतालपत्रिका[१९] केसदारुलुक[२०] ग्रन्ध्याग्नेयाः चूर्णक्वाथघृततैललेहरूपाः मन्दानलामयनिवर्तकाः ।
२४
 
गगनपवनभूतस्वसमानाधिकरणोषणरसोपलम्भकद्रव्यादनजाताजीर्णमपित्तविषरूपोपाधिकग्रहणीरोगहारकगगनभूताधिकगुणोपलम्भककटुरसवद्द्रव्यम् ग्रहणीरोगनिवर्तकम् ।
२५
 
आर्द्रकवत्सकतलपोटकचूतार्जुनवटाश्वत्थबिल्वबदरलशुनविश्वगाङ्गेरुकीनागबलचिञ्चाजमोदरसदाडिमकरञ्जवाशाशुकलोध्रवृद्धदारुशरपुङ्खमरीचदीप्यकजीरकलवङ्गकरुणाभीरुनिम्बकुटजाद्याः चूर्णक्वाथलेहभृता ग्रहणीरुजापहाः ।
२६
 
अनलानिलगुणभूयिष्ठस्वसमानाधिकरणकषायरसोपलम्भकयावद्द्रव्यादनजाताजीर्णपित्तविषक्रिमिगतसिराविकारजातसप्तधातुरसकारक गगनभूयिष्ठद्रव्यं विषूच्यामयनिवर्तकम् ।
२७
 
कट्वादि दशद्रव्यं चूर्णक्वाथभेषनं श्वासछर्द्यामयनिवारकम् ।
२८
 
चन्दनादिसप्तपदार्थाः चूर्णक्वाथोपयुक्ताः श्वासछर्द्यामयनिवारकाः ।
२९
 
स्वर्जिकादिद्वादशपदार्थाः धूपलेपक्वाथीकृताः गुदाङ्कुरामयहारकाः ।
३०
 
करञ्जादेकादशार्थाः धूपलेपक्वाथतैलोपयुक्ताः अर्शोरोगनिवारकाः ।
३१
 
दशमूलाद्येकविंशद्रव्यं धूपलेपकाथतैललेहरूपं सत् गुदाङ्कुरामयताहारकम् ।
३२
 
भार्ङ्ग्यादि[२१] द्वादशभेषजाः चूर्णक्वाथघृततैललेह्यरूपाः गुदाङ्कुरामयहारकाः ।
३३
 
अतिविषादिपञ्चदशपदार्थाः चूर्णक्वाथलेहविकारभूता अतिसारविकारहारकाः ।
३४
 
मरीच्याद्यष्टादशद्रव्यं तद्वदतिसारनिवर्तकम् ।
३५
 
[२२]निष्ठादि दशद्रव्यं तद्वदतिसारनिवर्तकम् ।
३६
 
पथ्यादित्रयोदशद्रव्यचूर्णक्वाथाभ्यां अजीर्णामयो निवर्तते ।
३७
 
[२३]आक्रन्दित्रयोदशपदार्थाः चूर्णक्वाथरूपाः अजीर्णामयहारकाः ।
३८
 
विश्वादिदशद्रव्यं चूर्णक्वाथलेहरूपं सत् अजीर्णामरोगनिवर्तकम् ।
३९
 
मुस्तादिद्वादशद्रव्यं चूर्णक्वाथोपयुक्तं अजीर्णामयरोगनिवर्तकम् ।
४०
 
[२४]वेण्वादि पञ्चदशद्रव्यं चूर्णक्वाथ घृततैलरूपं अग्निमान्द्यामयहारकम् ।
४१
 
सैन्धवादिद्वादशद्रव्यं तद्वद्भेषजं मन्दाग्निरोगनिवर्तकम् ।
४२
 
विश्वादि सप्तपदार्थाः क्वाथरूपा [२५]मन्दानलहारकाः ।
४३
 
आर्द्रकादिदशद्रव्यं क्वाथलेहरूपं ग्रहणीरोगनिवर्तकम् ।
४४
 
लशुनादिद्वादशद्रव्यं चूर्णक्वाथलेहघृतरूपं मन्दानलरोगनिवर्तकम् ।
४५
 
एलादिषट्पदार्था चूर्णक्वाथविकारभूताः मन्दानलरोगनिवर्तकाः ।
४६
 

आयुष्कामयमानेन धर्मार्थसुखसाधनम् ।
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥
विचार्य यत्नात्सर्वस्मान्नित्यं देहं निरीक्षयेत् ।
आ दशाहान्निरीक्ष्यैनं पथ्येनैव तु तं हरेत् ॥
न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् ।
त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन् ॥
वृद्धिस्समानैस्सर्वेषां विपरीतैर्विपर्ययः ।
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु ॥
वर्षादिषु च पित्तस्य श्लेष्मणश्शिशिरादिषु ॥

इत्यायुर्वेदस्य षोडशः प्रश्नः समाप्तः.


  1. निम्बादीति A कोशे न दृश्यते.
  2. नैतत् A कोशे.
  3. for जलाजा of the text--Dr B.S.
  4. शिरिषशलि--Dr. B.S.
  5. पुराण–-C
  6. मुरङ्गि, or सुरङ्गि--Dr. B.S.
  7. मोदा--Dr. B.S.
  8. भूपति--A&C.
  9. अथो--Dr. B.S.
  10. वरोषण--A.
  11. चविकाजाजिकाङ्गुणितिन्त्रिणंणीयवशूक--Dr. B.S.
  12. तिक्तरस--DrB.S.
  13. पृथिव्याद्वि.
  14. श्रीफल--DrB.S.
  15. शिघ्र--DrB.S.
  16. चर्मबन्धन--A.
  17. चव्यानलरास्ना or चवनतलरास्ना--Dr. B.S.
  18. युतांसि–-C.
  19. एलातालपत्रिका--Dr. B.S.
  20. केशदारुशुक--,,
  21. भाज्यादि--A & C
  22. निष्टादि--A.
  23. आर्द्रादि ?
  24. पाठादि ?
  25. मन्दानिल--A & C.