← अध्यायः ८ आर्षेयकल्पः
अध्यायः ९
मशकः
अध्यायः १० →

द्वादशाहस्य षोडशिमन्तावतिरात्रौ ९-१-१

त्रयोदशरात्रे प्रथमस्य छन्दोमस्य कण्वरथंतरस्य लोके सोमसाम पुनानः सोम धारयेत्येतत् ९-१-२

सांवत्सरिकं व्रतँ सत्त्रेषु ९-१-३

यत्रातिरात्रात्पृष्ठ्यमुपयन्ति प्रथमस्याह्नोऽस्यप्रत्नानुरूपो यत्र वा त्रिकद्रुकेभ्यो ९-१-४

यत्र ज्योतिर्गौरायुस्त्र्यह ऐकाहिकास्ते गौरीवितस्वरा एत एवावृत्ता यत्रायुर्गौर्ज्योतिरतिरात्रः ९-१-५

एते एव गोआयुषी रात्रिसत्त्रेष्वन्यत्र यमातिरात्राभ्यश्च सम्वत्सरसंमिताभ्यश्च ९-१-६

कॢप्तं प्रथमं पञ्चदशरात्रं ९-१-७

द्वितीयस्य पञ्चदशरात्रस्यातिरात्रस्त्रिवृदग्निष्टुदग्निष्टोमो यस्य वायव्यास्वग्निष्टो-मसाम तस्याग्निः प्रत्नेन जन्मनेति होतुराज्यं गौरीवितमनुष्टुभि ९-१-८

उएष एवोत्तरासु तस्य स्वान्याज्यानि ९-१-९

कॢप्तमा सप्तदशरात्रात् ९-१-१०

सप्तदशरात्रे चत्वार्याभिप्लविकान्यहानि श्यैतनौधससामानि पौष्कलश्रुध्यौ-ष्णिहानि प्रथमस्याह्न एषप्रत्नानुरूपः पञ्चमस्याह्नो द्वे सवने षष्ठस्य तृतीयसवनं तस्य नौधसं ब्रह्मसाम श्रुध्यमुष्णिहि यजिष्ठं त्वा ववृमह इत्यैध्मवाहं त्रैककुभं नार्मेधमैध्मवाहँ सौश्रवसं मारुतमिति वा ९-२-१

यत्रातिरात्रादभिप्लवमुपयन्ति प्रथमस्याह्न एषप्रत्नानुरूपो यत्र वा त्रिकद्रुकेभ्यो यत्राभिप्लवो रात्रिसत्त्रेषु श्यैतनौधसब्रह्मसाम पौष्कलश्रुध्यौष्णिहोऽन्यत्र संवत्सरसंमिताभ्यः कॢप्तमा विँशतिरात्रात् ९-२-२

विँशतिरात्रे सांवत्सरिकौ विश्वजिदभिजितावभितो यथा पूर्दशरात्र एवं बृहती ९-३-१

पूर्वस्यैकविँशतिरात्रस्याषोडशिकावतिरात्रावभितः षोडशिमान्मध्ये सर्वे वा-षोडशिकाः सर्वे त्वेव षोदशिमन्तः ९-३-२

उत्तरस्यैकविँशतिरात्रस्य संवत्सरकॢप्तान्यहान्यनुकॢप्ताभीवर्तकालेयः पृष्ठ्यः श्यैतनौधसब्रह्मसामानः स्वरसामानः पौष्कलश्रुध्यौष्णिहा विशुवतः सामतृचस्य लोक आभीशवँ श्रायन्त इव सूर्यमिति विकर्ण ँ! समानमितरं ९-३-३

कॢप्तमा सँसद्भ्यः ९-३-४

सँसदमतिरात्रः पृष्ठ्यस्तोमः षडहः प्रथमस्याह्न एषप्रत्नानुरूपो गौरीवितमनुष्टुभ्यन्वहमविकॢप्तं चतुर्थमहः पञ्चमस्यह्न आकूपारस्य लोके त्वाष्ट्रीसाम यद्द्व्यनुतोदं ९-३-५

पवस्वेन्दो वृषा सुत एते असृग्रमिन्दव उत नो गोषणिं धियँ शशमानस्य वा नर उप नः सूनवो गिरः प्र स्वानसो रथा इवा-सृग्रमिन्दवः पथा पवमानस्य ते वयं पवमानस्य ते कवे स्वान्याज्यानि पवमानस्य जिघ्नत इति गायत्रं चामहीयवं चै डं च सौपर्ण ँ! रोहितकूलीयं च संतनि पुनानः सोम धारयेति समन्तं च कन्वरथंतरं च दैर्घश्रवसं च बार्हदुक्थं च यौधाजयँ स्वमन्त्यँ स्वानि पृष्ठानि पवमानो अजीजनदिति गायत्र सँहिते जराबोधीयं च सौश्रवसं च स्वे उष्णिक्ककुभावभी नो वाजसातममिति गौरीवितं च कार्तयशं च श्यावाश्वा न्धीगवे अञ्जत इति कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ९-४

उपास्मै गायता नर उपो षु जातमप्तुरं बभ्रवे नु स्वतवस एते सोमा अभि प्रियँ सोमः पुनानो अर्षति पवमानस्य ते कवे ऽग्न आ यहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं च सोमसाम चाशु च भार्गवं मार्गीयवं प्र सोम देववीतय इति पज्रं च द्वैगतं च पौरुहन्मनं च हारायणं च यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयति गायत्र सँहिते काक्षीवतं च भासं च पवस्वेन्द्रमच्छेति सफाक्षारे प्र सुन्वानायान्धस इति गौरीवितं च पदनिधनं च शुद्धाशुद्धीयम् औदल गौतमे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ९-५

एष उ स्य वृषा रथ एष वाजि हितो नृभिरिति पुरस्तात्पर्यासस्य षडृचे यौक्ताश्वादुत्तरे सुरूपं चर्षभश्च पावमान आयास्याभ्यां पूर्वे पृष्ठकौल्मलबर्हिषे वृषा शोण इति पार्थमन्त्यमेष स्य धारया सुत पवस्व देववीतय इति शङ्कुसुज्ञाने गौरीवितादुत्तरे यद्वाहिष्ठीया सिते समानमितरं द्वितीयेनाह्ना द्वादशाहस्य ९-६-१

उत्ते शुष्मासो अस्थुरिति पुरस्तात्पर्यासस्य चतुरृचमथैतदेव तृतीयम-हस्तृचकॢप्तमेकविँशं ९-६-२

प्रज्ञत उत्तरस्त्र्यहो अथैतदेव त्रयस्त्रिँशमहरनिरुक्तमाहरति तस्य कण्वरथंतरस्य लोक वाशं पार्थस्यौशनं बृहतो रथंतरँ श्यैतस्य नौधसँ श्रुध्यस्य पौष्कलं ९-६-३

पृष्ठ्य स्तोमः षडह आवृत्तः ९-६-४

त्रिवृदहरनिरुक्तं तस्य पवस्वेन्दो वृषा सुत उत नो गोषणिं धियँ शशमानस्य वा नर उप नः सूनवो गिरः पवमानस्य ते कव इति बहिष्पवमानं पवमानस्य जिघ्नत इति गायत्रमेकस्यामामहीयवमेकस्यामैडँ सौपर्णमेकस्यां पुनानः सोम धारयेति यौधाजयं तिसृषु श्यावाश्वस्य लोके गौरीवितँ समानमितरमुपहव्येन सर्वं त्रिवृत् ९-६-५

ज्योतिष्टोमोऽग्निष्टोमस्तस्यानुष्टुब्यथर्षभस्य ९-६-६

ज्योतिष्टोमोऽतिरात्रः समानमितरम् ९-६-७

कॢप्तमा नानाब्रह्मसामभ्यः ९-६-८

नानाब्रह्मसाम्नामतिरात्रस्त्रयः पञ्चाहाः पञ्चाहकॢप्ता नानाब्रह्मसामानः प्रथमस्य पञ्चाहस्य यथालोकं बृहद्रथंतरे नौधसँ श्यैतं महावैष्टम्भं १८
त्रैशोकमुभयँ शृणवच्च न इति वाशमेतानि ब्रह्मसामानि द्वितीयस्य पञ्चाहस्यान्योन्यस्य लोकं बृहद्रथंतरे त्वमिन्द्र प्रतूर्तिष्वित्यभीवर्तस्त्वामिदा ह्यो नर इति मानवं यत्पृष्ठ्ये छन्दस्यं पञ्चमेऽहनि क ईं वेद सुते सचेत्याष्कारणिधनं काण्वँ स्वासु यौक्तस्रुचँ स्वासु श्रायन्तीयमेतानि ब्रह्मसामानि तृतीयस्य पञ्चाहस्य यथालोकं बृहद्रथंतरे शग्ध्यू षु शचिपत इति मानवं यच्छन्दस्यं नित्यं पञ्चमेऽहनि वयमेनमिदा ह्य इति वासिष्ठम् आ त्वा सहस्रमा शतमिति भारद्वाजं यो राजा चर्षणीनामिति जनित्रं त्वमिन्द्र यश असीतीन्द्रस्य यश एतानि ब्रह्मसामानि ९-७-१

विश्वजिदतिरात्रस्तस्य गौरीवितस्य लोके नानदमग्निर्मूर्धा दिवः ककुदिति सत्रासाहीयं त्रैककुभं नार्मेधं गौरीवितँ षोडशिसाम रात्रिः संधिः ९-७-२

अथैष एव पञ्चाह आवृत्त आवृत्तस्य पञ्चाहस्यान्योन्यस्य लोकं बृहद्रथंतरे पिबा सुतस्य रसिन इति जमदग्नेरभीवर्तो यदिन्द्र प्रागपागुदगिति नैपातिथमा मन्द्रैरिन्द्र हरिभिरित्यभिनिधनं काण्वं यथा गौरो अपाकृतमिति गौतमस्य मनाज्यं त्वमङ्ग प्र शँसिषमिति पौरुमीढमेतानि ब्रह्मसामानि ९-७-३

द्वादशाहस्य दशाहान्यतिरात्रो ९-७-४

मध्यमस्य त्रयस्त्रिँशद्रात्रस्य सर्वे षोडशिमन्तोऽतिरात्राः ९-७-५

उत्तमस्य त्रयस्त्रिँशद्रात्रस्यातिरात्रस्त्रयः पञ्चाहाः पञ्चाहकॢप्ताः श्यैतनौधस-ब्रह्मसामानो यथालोकंबृहद्रथंतरा यथा वा नानाब्रह्मसामसु कॢप्तो विश्वजिद्यो नानाब्रह्मसामस्वथैत एव पञ्चाहा आवृत्ता आवृत्तानां पञ्चाहानां प्रथमस्य पञ्चाहस्य प्रथमस्याह्नोऽभि सोमास आयव इति मानवमेकस्यां तस्यामेवानूपं बृहन्निधनं वार्कजम्भमेकस्यां मैधातिथमेकस्यां वाम्रं तिसृष्वग्नेस्त्रिणि-धनमध्यास्यायां समानमितरं ९-७-६

कॢप्तमा विधृतिभ्यः ९-७-७

विधृतीनां ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः कौत्सस्य लोक उद्वँशीयम् आ त्वा विशन्त्विन्दव इत्येतासु जराबोध तद् विविड्ढि प्रति ष्या सूनरी जन्येषो उषा अपूर्व्येत्येतासु गायत्रीषु जराबोधीयँ संधिषामा ९-८-१

अथ यदेव कुसुरुबिन्दस्य राथंतरं त्रिवृदहस्तदेतत्तस्य गौरीवितमनुष्टुभि यद्बार्हतं त्रिवृदहस्तदुत्तरं पवमानस्य ते कव इति पर्यासो यौक्ताश्वस्य लोके हाविष्मतं माधुच्छन्दसस्य कालेयँ हाविष्मतस्य मौक्षं गौरीवितमनुष्टुभि साकमश्वँ सौभरमाष्टादँष्ट्रमित्युक्थानि समानमितरं या पूर्वा सोत्तरा तस्याः प्रमँहिष्ठीयँ हारिवर्णमुद्वँशीयं तैरश्च्यं वेत्युक्थानि ९-८-२

ज्योतिष्टोमोऽतिरात्रः षोडशिमान् कौत्सस्य लोक उद्वँशीयमा त्वा विशन्त्विन्दव इत्येतास्वग्ने वाजस्य गोमत उषस्तच्चित्रमाभराश्विन वर्तिरस्मदेत्येतासूष्णिक्षु श्रुध्यँ संधिषामा ९-८-३

अथ यदेव कुसुरुबिन्दस्य राथंतरं पञ्चदशमहस्तदेतत् तस्य गौरीवितमनुष्टुभि यद्बार्हतं पञ्चदशं तदुत्तरं पवमानस्य ते कव इति पर्यासो माधुच्छन्दसस्य लोके कालेयं गौरीवितमनुष्टुभ्येताभ्यामेव विपर्यासमा दशमादह्नो दशमस्याह्न आष्टादँष्ट्रस्य लोके नार्मेधं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम ९-८-४

ज्योतिष्टोमोऽतिरात्रः षोडशिमानविकॢप्तो ९-८-५

अथ यदेव कुसुरुबिन्दस्य राथंतरँ सप्तदशमहस्तदेतत्तस्य मैधातिथस्य लोके बृहन्निधनं वार्कजम्भँ रौरवस्य मैधातिथमग्नेरर्कस्य सँहितं गौरीवितमनुष्टुभि यद्बार्हतँ सप्तदशं तदुत्तरं पवमानस्य ते कव इति पर्यासो माधुच्छन्दसस्य लोके कालेयँ स्वाशिरामर्कस्य मौक्षं गौरीवितमनुष्टुभ्येताभ्यामेव विपर्यासमा द्वादशादह्न उद्धरत्युत्तरेभ्यो वार्कजम्भं यथालोकं मैधातिथरौरवे द्वादशस्याह्न उद्वँशीयान्तान्युक्थानि ९-८-६

ज्योतिष्टोमोऽतिरात्रः षोडशिमान् कौत्सस्य लोक उद्वँशीयमा त्वा विशन्त्विन्दव इत्येतात्वग्निं तं मन्ये यो वसुर्महे नो अद्य बोधय प्रति प्रियतमँ रथमित्येतासु पङ्क्तिषु रायोवाजीयँ संधिषाम ९-८-७

पृष्ठ्यः षडहः समूढो वा व्यूढो वा व्यूढस्त्वेव ९-९-१

ज्योतिष्टोमोऽतिरात्रः षोडशिमानौशनस्यर्क्षु वैश्वज्योतिषमन्त्यं यत्प्र गायतेत्य-बोध्यग्निः समिधा जनानामिदँ श्रेष्ठं ज्योतिषां ज्योतिरागादभात्यग्निरुष-सामनीकमित्येतासु त्रिष्टुप्स्वौशनँ संधिषाम ९-९-२

बभ्रवे नु स्वतवस इति पुरस्तात्पर्यसस्य षडृचमामहीयवादुत्तरमाशु भार्गवँ रौरवयौधाजये अन्तरा मैधातिथँ स्वासु सफपौष्कले समानमितरमेतस्यैव राथंतरेण पञ्चदशेन प्र यद्गावो न भूर्णय इति पुरस्तात्पर्यासस्य षडृचँ हाविष्मतादुत्तरँ स्वारँ सौपर्णम् आयास्ये अन्तरा दैर्घश्रवसं त्वँ ह्यङ्ग दैव्य पवस्व देववीतय इति सत्रासाहीयश्रुध्ये समानमितरमेतस्यैव बर्हातेन पञ्चदशेनै-ताभ्यामेव विपर्यासमा द्वादशादह्नो नवमस्याह्नः स्वादिष्ठया मदिष्ठयेति गायत्रं चाग्नेश्चार्को दशमस्याह्नो यस्ते मदो वरेण्य इति गायत्रं च स्वाशिरां चर्क एकादशस्याभि प्रियाणीति दीर्घतमसोऽर्कोऽन्त्यो द्वादशस्याह्नो ऽन्तरोत्सेध-निषेधौ दैर्घश्रवसं तस्यैवाह्न उद्वंशीयान्तान्युक्थानि ९-९-३

ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः कावस्यर्क्षु वासिष्ठमन्त्यं यदेष प्रकोश इति जनस्य गोपा अजनिष्ट जागृविरेता उ त्या उषसः केतुमक्रताबोध्यग्निर्ज्म उदेति सूर्य इत्येतासु जगतीषु कावँ संधिषाम ९-९-४

यमातिरात्रासु गोष्टोमस्य दैर्घश्रवसस्य लोके कण्वरथंतरं बार्हदुक्थस्य दैर्घश्रवसं गौरीवितमनुष्टुभ्यसोदशिकोऽतिरात्रः आयुष्टोमस्य मैधातिथस्य लोके बृहन्निधनं वार्कजम्भँ रौरवस्य मैधातिथं गौरीवितमनुष्टुभि हारिवर्णस्यर्क्षु सौभरमषोडशिकोऽतिरात्रो ऽभिजितो यथा पूर्दशरात्र एवं बृहती गौरीवितमनुष्टुभि हारिवर्णस्यर्क्षु सौभरँ षोडशिमानतिरात्रः कॢप्तो विश्वजित्कॢप्तः सर्वस्तोमो नवसप्तदशस्याभि सोमास आयव इति जनित्रं तिसृषु रौरवमेकस्यां बृहन्निधनम्वार्कजम्भमेकस्यां मैधातिथमेकस्यां यौधाजयमध्यास्यायां गौरीवितमनुष्टुभ्याषोडशिकोऽतिरात्रः ९-१०-१

कॢप्ता आञ्जनाभ्यञ्जनाः ९-१०-२

संवत्सरकॢप्ताः संवत्सरसंमिता एकषष्टिरात्रं च ९-१०-३

विधृतिभिः कॢप्ताः सवितुः ककुभो राथंतरेणाह्ना त्रिवृतः प्रतिपद्यते बार्हतेन पञ्चदशान् राथंतरेण सप्तदशान् बार्हतेनैकविँशान् यत्राग्निष्टोमो बार्हतमहर्यौक्ताश्वं मध्यंदिने हाविष्मतमार्भव उद्धरत्यर्कं यो विधृतिषु समानमितरं ९-१०-४

कॢप्तमा मध्येपृष्ठ्यादा मध्येपृष्ठ्यात् ९-१०-५


विवृति

नवमोऽध्यायः
सत्राणि
द्वादशरात्रं सत्रम्
अथ त्रयोविंशमुखैरध्यायैर्ब्राह्मणे त्रिभिः ।
सत्राण्युक्तानि तान्यत्र कल्पान्ते नवमादिभिः ॥
सूत्रकारेण दीक्षाक्रयप्रसवोत्थानानि सर्वसत्रेषु पूर्वपक्षे उपपादयेयुर् (ला. श्रौ० १०.१.१) इत्यादिना तेषां दीक्षाकालादिकमुक्तम् । निदानं तु अथातः सत्राणि । तेषां द्वादशाहः प्रथम: (नि० सू० ९. १०) इत्यादि । तत्र द्वादशाहस्य ब्राह्मणोक्तां क्लृप्तिमुपजीव्य विशेषमाह --
द्वादशाहस्य षोडशिमन्तावतिरात्रौ ॥ १॥
इति । स च व्यूढसमूढरूपत्वेन द्विविधः सन् सत्राहीनात्मकत्वेन पुनर्द्वैविध्याच्चतुर्विध इत्युक्तम् । तत्र व्यूढः सत्रात्मकः पुरस्तादुक्तः । अहीनात्मकस्तु गौरीवितस्वरो नानास्वरो वेति पक्षद्वयम् । संभवे गौरीवितस्वरस्य सामकल्पे विशेषो नास्तीति कर्मकल्पके विशेषः प्रागेवोक्तः। नानास्वरस्य तु पौण्डरीकव्यूढनवरात्रवत् स्वरक्लृप्तिः। अहीनन्यायादन्यत् सर्वं सत्रभूतव्यूढद्वादशाहवत्। समूढश्च द्वादशाहो न कल्पकारेणोक्त इति न्यायेन कल्पनीयः । तत्र पृष्ठ्यषडहस्य समूढक्लृप्तिः गवामयनोक्ता । छन्दोमानां छन्दोमवद्दशरात्रोक्ता। प्रथमस्याह्नोऽस्य प्रत्ना-(सा० १४९४-५०२)
नवर्चमेव बहिष्पवमानम् । नवाहयोगस्य विद्यमानत्वात् । द्वितीयस्याह्नो वृषा शोण ( सा० ८०६-८) इति पार्थं (ऊ० ७. १. ६) माध्यंदिनान्त्यम् । तृतीयेऽह्नि न विशेषः । चतुर्थस्याह्नः पवमानो अजीजनत् ( सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) इति स्तोत्रीयानुरूपौ। अग्निर्वृत्राणि (सा० १३९६-८) इति होतुराज्यम् । सोमः पवत (सा० ९४३-५) इति जनित्रं (ऊ० ८.२. १) माध्यंदिनान्त्यम् । प्र त आश्विनी-( सा० ८८६-८ )रिति लौश(ऊ० ८. २. २)मार्भवान्त्यम् । पञ्चमस्याह्नः पवमानस्य विश्वजित् ( सा० ९५८-६० ) यत्सोम चित्रमुक्थ्यम् ( सा० ९९९-१००१) इति स्तोत्रीयानुरूपौ । अग्ने स्तोमं मनामहे (सा० १४०५-७) इति होतुराज्यम् । इन्दुर्वाजी-( सा० १०१९-२१)ति सम्पान्त्यान्त्यं (ऊ० ८. २. ५) माध्यंदिनस्य । पार्थस्य लोके त्वाष्ट्रीसाम (ऊ० ८. २. ६) यद्यनुतोदम् । गोवित्पवस्वे-(सा० ९५५-७)ति द्व्यभ्याघातं लौश-(ऊ० ८. २. ७)मार्भवान्त्यम् । षष्ठस्याह्नोऽसृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिप (सा० १०८१-३) इति स्तोत्रीयानुरूपौ । यमग्ने पृत्सु मर्त्य-(सा० १४१५-७)मिति होतुराज्यम् । अया पवा पवस्वैना वसूनी-(सा०११०४-६)तीहवद्वासिष्ठं (ऊ० ८.२.१०) माध्यंदिनान्त्यम् । ज्योतिर्यज्ञस्ये-(सा० १०३१-३)ति मरुतां धेन्वा-(ऊ० ८.२.११)र्भवान्त्यम् । सप्तमस्याह्नो ये सोमासः परावती (सा० ११६३-५)ति प्रतिपत् । ऋतावनं वैश्वानर-(सा० १७०८-१०)मिति होतुराज्यम् । प्र काव्यमुशनेव ब्रुवाण (सा० १११६-८) इति पार्थं (ऊ० १६.२.५) माध्यंदिनान्त्यम् । प्रो अयासी-(सा० ११५२-४)दिति यज्ञसारथ्या-(ऊ० १६. २. ५)र्भवान्त्यम् । कण्वरथन्तरं (ऊ० ४. १. ४) स्वस्थानस्थमेव । सोमसामकल्पनस्य जामिप्रयुक्तत्वात् इह च जामिसद्भावात् । स्वरान्तक्लृप्तिश्चाहीनप्रयुक्तेत्यात्रेयं नात्र

461
सत्राणि-द्वादशरात्रम् [अ. ९. ख.१]

कार्यम् । अष्टमस्याह्नो हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति प्रतिपत् । विश्वेभिरग्ने अग्निभि-(सा० १६१७-९)रिति होतुराज्यम् । उहु वाइ शिशु-(सा० ११७५-७)मिति वासिष्ठं (ऊ. १६. २. ७) माध्यंदिनान्त्यम् । हाउ धर्ते-(सा० १२२८-३०)ति शार्ङ्ग-(ऊ० १६. २. २०)मार्भवान्त्यम् । नवमस्याह्नः। उपोषु जातमप्तुरम् (सा० १३३५-७) इति प्रतिपत् । उप त्वा रण्वसदृश-(सा० १७०५-७)मिति होतुराज्यम् । पृष्ठस्योत्तरे दीर्घतमसोऽर्को (र० १. ३. ७)माण्डवं चैड-(ऊ० ९.३. ९)मिति सामतृचः कार्यः। सामराजान्त्यपक्षेऽपि दीर्घतमसोऽर्कोऽस्यानुग्रहाय स उक्तः । हाउ उहु वाइ अक्रानि-(सा० १२५३-५)ति वासिष्ठ-(ऊ० ७.१.१)मन्त्यम् । असावि सोमो अरुषो वृषा हरि-(सा० १३१६-८)रित्यैडं याम-(ऊ० १७.१.१४)मार्भवान्त्यम्। दशमस्याह्नः उत्सेध-(ऊ० ६. १. ११)निषेधयो-(ऊ० ६.१.१३)र्मध्ये मैधातिथम् (ऊ० १३.१.७)। आजागृवि-(सा० १३५७-९)रित्यौशनं माध्यंदिनान्त्यम् । स्वासु रथन्तर-(र० १. १. १ )वामदेव्ये (ऊ० १. १. ५)। पर्यूष्वि-(सा० १३६४-६)ति गौरीवितमेकस्याम् (ऊ० २०. २. ५)। श्यावाश्वमेकस्याम् (ऊ० ६. १. १८)। आन्धीगवं (ऊ० ६. १. १९) तिसृषु । इत्यनुष्टुभः क्लृप्तिः । तथैव हि छन्दोमवद्दशरात्रस्य दशममतिदिश्य तस्य सदृशप्रयुक्तं गौरीवितं न कल्पनीयं इति वक्ष्यति । केचित् आजागृविरिति गौरीवितं (ऊ० ६. १. १४) माध्यंदिनान्त्यमिच्छन्तोऽनुष्टुभि न विकारमिच्छन्ति । तदयुक्तम् । माध्यंदिने गौरीवितकल्पस्याप्यूहप्रयुक्तत्वात् समूहप्रयुक्तस्यौशनस्य लोपप्रसङ्गाच्च । तथा च द्वादशाहे निदानम् --यज्ञायज्ञीयगौरीवितरथन्तरवामदेव्यान्येवंयुक्तानि सामव्यूह इत्याचक्षते ( नि० सू० ४.९) इति छन्दोमवद्दशरात्रे च समापद्यन्ते । दशमेऽहनि सामानि समूहेदिति । तस्मादनुष्टुभो यथोक्ता क्लृप्तिः कर्तव्या। परि प्र धन्वे-( सा० १३६७-९ )ति सौहविष-(ऊ० १४.१. ४)स्थाने वाजजित् (ऊ ० १७. १.६)। सूर्यवतीषु (सा० १३७०-२) काव-(ऊ० ९. २. ११)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १. १. १४ )मग्निष्टोमसाम । इतरत्सर्वं सत्रभूतव्यूढद्वादशाहवत् इति सत्रभूतः समूढ उक्तः । अहीनभूतस्य समूढस्य पृष्ठ्यः षडह ऋतुषडहवत् कार्यः । प्रथमस्याह्नोऽस्य प्रत्ना-( सा० ७५५-६३) नवर्चमेव बहिष्पवमानम् । छन्दोमास्तु यथा छन्दोमवद्दशरात्रे तथैव विकृताः कर्तव्या इति द्वादशाहविधा उक्ताः ॥
इति द्वादशरात्रं सत्रं समाप्तम्॥१॥


त्रयोदश रात्रे द्वे सत्रे
तत्र प्रथमम्
अथ त्रयोदशरात्रे द्वे सत्रे । अतिरात्रः पृष्ठ्यः षडहः सर्वस्तोमोऽतिरात्रश्चत्वारश्छन्दोमा अतिरात्र (तां० ब्रा० २३. १) इत्यनुवाकेन पूर्वं त्रयोदशरात्रमुक्तम् । तस्य कल्पः --

463
सत्राणि-चतुर्दशरात्राणि [अ. ९. ख. ४)

त्रयोदशरात्रे प्रथमस्य छन्दोमस्य कण्वरथन्तरस्य लोके सोमसाम ( ऊ० १७. १. १६ ) पुनानः सोम धारये-( सा० ६७५-६)त्येतत् ॥ १ ॥
इति । षष्ठस्याह्नः प्रथमस्य छन्दोमस्य सर्वस्तोमोऽतिरात्रेण व्यवधानात् जाम्यभावात् सोमसाम विहितम् । अन्यत् सर्वं सत्रभूत- व्यूढद्वादशाहवत् । सर्वस्तोमोऽतिरात्रस्त्वहीनोक्तः । तस्य सात्रिकी रात्रिः सत्रेषु प्रायणीयोदयनीययोरतिरात्रयोर्यत्र षोडशी नादिश्यते न च प्रतिषिध्यते तत्र तस्य प्रकृतिवद्यथाकामी। यत्र तु विधिर्निषेधो वा विद्यते तत्र तौ नियमार्थाविति (तु० ला० श्रौ० १०.३.१०-११) सूत्रे निर्णयः ॥१॥
इति प्रथमं त्रयोदशरात्रम् ।। २ ।।


द्वितीयं त्रयोदशरात्रम्
अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चे-(तां० ब्रा० २३. २.१)ति द्वितीयं त्रयोदशरात्रमुक्तम् । तस्य सर्वं सत्रभूतव्यूढद्वादशाहवत्। विशेषमाह --
सांवत्सरिकं व्रतं सत्रेषु ॥१॥
इति ॥ १॥
इति द्वितीयं त्रयोदशरात्रम् ॥३॥


चतुर्दशरात्राणि
अथ चतुर्दशरात्राणि त्रीणि । अतिरात्रः पृष्ठयःषडहः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणेऽतिरात्रः ( तां० ब्रा० २३. ३) इत्यनुवाकेन प्रथमं चतुर्दशरात्रम् । पृष्ठ्यावनुलोमप्रतिलोमौ समूढौ गवामयनवत् । तत्र प्रथमस्य पृष्ठस्य विशेषमाह --
यत्रातिरात्रात् पृष्ठ्यमुपयन्ति प्रथमस्याहोऽस्य प्रत्नानुरूपो यत्र वा त्रिककुद्रुकेभ्यः ॥ २ ॥
इति । अनुरूपो बहिष्पवमानस्य द्वितीयस्तृचः । उपास्मै गायता नरः (सा० ६५१-३) अस्य प्रत्नामनुद्युतम् (सा० ७५५-६३) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानमित्यर्थः। अतिरात्रस्य पृष्ठ्यस्त्रिकद्रुकाद्ययोश्चाह्नोः राथन्तरत्वात् अजाम्यर्थं प्रत्नवत्याः अस्यप्रत्नायाः कल्पनम् । पूर्वस्मिन् त्रयोदशरात्रे नवाहयोगसद्भावादस्य प्रत्ना-नवर्चं स्थितमेवेति सिद्धमजामित्वम् । तथा च सूत्रम् --प्रत्नावच्चाद्यबहिष्पवमानं परेण त्वेतदस्य प्रत्नानुरूप इत्याह दृष्टं च दशमार्थमप्यवच्छेदे । नवाहयोगाच्चे-(ला० श्रौ० १०. ३. १७-९)ति । अत्र त्रयस्त्रिंशयोरह्नोः संनिपातेऽप्यजामित्वं निदाने प्रतिपादितम् । अथ खल्वत्र त्रयस्त्रिंशे अहनी संनिपततः केनाजामीत्यह्न एव सामान्यादपि वा कण्वरथन्तरमनुकल्पयेत् । पूर्वस्याह्न आर्भव उत्तरस्य वा मध्यंदिने (नि० सू० ९.१०) इति ।
इति प्रथमं चतुर्दशरात्रम् ।। ४ ।।


द्वितीयं चतुर्दशरात्रम्
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्यः षडह आयुर्गौर्ज्योतिरतिरात्रः ( तां० ब्रा० २३. ४. १) इति द्वितीयं चतुर्दशरात्रमुक्तम् । तत्र कल्पः –
 
465
सत्राणि--चतुर्दशरात्राणि [अ. ९. ख. ६]

यत्र ज्योतिर्गौरायुस्त्र्यह ऐकाहिकास्ते गौरीवितस्वराः ॥ १ ॥
इति । अत्र त्र्यहग्रहणं ज्योतिर्गौरायुस्त्र्यह इत्येतेनैव संनिवेशेन यत्र ज्योतिरादयो विधीयन्ते तत्रैवास्य वचनस्य प्रवृत्तिर्यथा स्यात् । यत्र तु ज्योतिर्गौरायुर्गौरायुः पञ्चाह इत्यादि प्रकरणान्तरेण संनिवेशस्तत्र मा भूदित्येवमर्थम् ॥१॥
अत एवायुर्गौर्ज्योतिरतिरात्र इति चोदनायां स्यादित्याह --
एते एवावृत्ता यत्रायुर्गौर्ज्योतिरतिरात्रः ॥ २ ॥
इति। अत्राप्यतिरात्रग्रहणं संनिवेशविवक्षाप्रतिपादनार्थम् । अत्र यद्यपि अतिरात्राद्राथन्तराद्राथन्तरं ज्योतिरुपयन्ति तथापि ज्योतिषः पुनानः सोम धारये-( सा० ६७५-६ )ति प्रत्नवती बृहतीत्यजामि । पृष्ठयः षडहः समूढो गवामयनवत् । तस्य प्रथमस्याह्नोऽस्य प्रत्नामनुद्युत(सा० ७५५-७)मित्यनुरूपः । यत्र वा त्रिकद्रुकेभ्य (आ०क० ६. ख०४.१) इत्युक्तत्वात् ॥ २॥
इति द्वितीयं चतुर्दशरात्रम् ॥५॥


तृतीयं चतुर्दशरात्रम्
अतिरात्रो गौश्चायुश्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्र ( तां० ब्रा० २३. ५. १) इति तृतीयं चतुर्दशरात्रमुक्तम् । तस्य कल्पः ---
एते एव गोआयुषी रात्रिसत्रेष्वन्यत्र यमातिरात्राभ्यश्च
संवत्सरसंमिताभ्यश्च ॥ १ ॥
इति । एते एवेति ऐकाहिके गौरीवितस्वरे इत्यर्थः। त्रयोदशरात्रप्रभृतिशतरात्रपर्यन्तानि सत्राणि रात्रिसत्राणीत्युच्यन्ते । रात्रिशब्देन चोदितत्वात् । अन्यत् सर्वं व्यूढद्वादशाहवत् ॥ १॥
इति तृतीयं चतुर्दशरात्रम् ॥ ६॥
चतुर्दशरात्राणि समाप्तानि ।


पञ्चदशरात्राणि
अथ पञ्चदशरात्राणि चत्वारि । अतिरात्रः पृष्ठ्यःषडहो महाव्रतं पृष्ठ्यःषडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रः (तां० ब्रा० २३. ६.१) इति प्रथमं पञ्चदशरात्रम् । तस्य कल्पः --
क्लृप्तं प्रथमं पञ्चदशरात्रम् ॥१॥
इति । पृष्ठ्यःषडहावनुलोमप्रतिलोमौ समूढौ गवामयनवत् । प्रथमस्य षडहस्य प्रथमस्याह्नोऽस्य प्रत्नामनुरूपः । सांवत्सरिकं व्रतम् ॥१॥
इति प्रथमं पञ्चदशरात्रम् ॥ ७ ॥


द्वितीयं पञ्चदशरात्रम्
अतिरात्रस्त्रिवृदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहः । पृष्ठ्यःषडह आयुर्गौर्ज्योतिरतिरात्रः (तां० ब्रा० २३. ७. १) इति द्वितीयं पञ्च-
 
467
सत्राणि-पञ्चदशरात्राणि [अ. ९. ख. ९]

दशरात्रम् । ऊर्ध्वमतिरात्रादाग्नेय्येका द्वितीये पञ्चदशरात्रे द्वे वेति सुब्रह्मण्यायां विशेष उक्तः। तस्य कल्पः --
द्वितीयस्य पञ्चदशरात्रस्यातिरात्रः त्रिवृदग्निष्टुदग्निष्टोमो यस्य वायव्यास्वग्निष्टोमसाम । तस्याग्निः प्रत्नेन जन्मनेति होतुराज्यम् ।
गौरीवितमनुष्टुभि ॥ १॥
इति । राथन्तरयोरतिरात्राग्निष्टुतोरजाम्यर्थमग्निः प्रत्नेने-(सा० १७११-३)त्येतद्विहितम् । त्रिकद्रुका अनुलोमा आवृत्ताश्चैकाहिका गौरीवितस्वराः। पृष्ठ्यः षडहः समूढः प्रथमस्याह्नोऽस्य प्रत्नामनुद्युत-(सा० ७५५-७)मिति अनुरूपः ॥ १॥
इति द्वितीयं पञ्चदशरात्रम् ॥ ८॥


तृतीयं पञ्चदशरात्रम्
त्रिवृदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः ( तां० ब्रा० २३. ८) इत्यनुवाकेन तृतीयं पञ्चदशरात्रमुक्तम् । त्रिकद्रुकेभ्यः प्राक् सर्वा एव सुब्रह्मण्या आग्नेय्यः। सर्वाः प्राक् त्रिकद्रुकेभ्यस्तृतीये (ला० श्रौ० १. ४. २२) इति वचनात् । तस्य कल्पः --
एष एवोत्तरासु । तस्य स्वान्याज्यानि ॥ १ ॥
उत्तरासु रात्रिषु तृतीयेयं पञ्चदशरात्रे पूर्वोक्त एव त्रिवृदग्निष्टुदग्निष्टोमः । तस्य अग्न आयाही-( सा० ६६०-७१) त्यादीन्येवाज्यानि। अतिरात्रस्याद्यस्याभावात् । जाम्यभावादित्यर्थः ।।१॥
इति तृतीयं पञ्चदशरात्रम् ॥ ९ ॥


चतुर्थं पञ्चदशरात्रम्
क्लृप्तमा सप्तदशरात्रात् ॥ १॥
इति । ज्योतिर्गौरायुरैकाहिका गौरीवितस्वराः । व्यूढो द्वादशाहोऽतिरात्रिकः । अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्र (तां० ब्रा० २३. ९. १) इति चतुर्थं पञ्चदशरात्रं । व्यूढद्वादशाहवत् । ज्योतिर्गौरायुरित्यैकाहिका गौरीवितस्वराः ॥ १ ॥
इति चतुर्थं पञ्चदशरात्रम् ।। १०॥


षोडशरात्रम्
एता एव समहाव्रताः ( तां० ब्रा० २३. १०. १) इत्यनुवाकेन षोडशरात्रमुक्तम् । अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चेति षोडशरात्रम् । सांवत्सरिकव्रतमिति विशेषः पूर्वस्मात्सत्रात् ।।
इति षोडशरात्रम् ॥


सप्तदशरात्रम्
अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २३. ११) इति सप्तदशरात्रमुक्तम् । तस्य कल्पः --
सप्तदशरात्रे चत्वार्याभिप्लविकान्यहानि श्यैतनौधसब्रह्मसामानि पौष्कल श्रुध्यौष्णिहानि । प्रथमस्याह्न एष प्रत्नानुरूपः ॥१॥

469
सत्राणि--सप्तदशरात्रम् [अ. ९. ख. ११]

इति। ज्योतिरादिपच्चाहो गवामयनिकाभिप्लवपञ्चाहवत् कर्तव्यः । तत्रादितश्चतुर्णामह्नामयं विशेष उक्तः । तद्यथा प्रथमस्याह्नः--एष प्रत्नेन जन्मन-(सा० ७५८-६०)ति तृचोऽनुरूपः। अत्र निदानम् --प्रथमस्याह्न एष प्रत्नानुरूप इत्यजाम्यर्थो व्यावृत्तये पृष्ठ्याभिप्लवयो-(नि० सू० ६. ११)रिति । नौधसं (ऊ० १.१.६) ब्रह्मसाम । पौष्कल-(ऊ० १.१.१०)मुष्णिहि। द्वितीयस्याह्नः --श्यैतं (ऊ० २. १. ३) ब्रह्मसाम। श्रुध्य-(ऊ० १८. १. २)मुष्णिहि । तृतीयस्याह्नो नौधसं (ऊ० १. १. ९) ब्रह्मसाम। पौष्कल-( ऊ० १. १. १२) मुष्णिहि । चतुर्थस्याह्नः श्यैतं (ऊ० २. १. ३) ब्रह्मसाम। श्रुध्य(ऊ० १८. १. २)मौष्णिहमिति। सर्वत्र श्यैतनौधसे स्वास्वेव । स्वासु त्वावर्तनी-(ला० श्रौ० )ति वचनात् ॥१॥
पञ्चमस्याह्नो विशेषमाह --
पञ्चमस्याह्नो द्वे सवने । षष्ठस्य तृतीयसवनम् । तस्य नौधसं (ऊ० १. १. ९) ब्रह्मसाम । श्रुध्यमुष्णिहि (ऊ० १८. १. २)। यजिष्ठं त्वा ववृमहे (सा० १४१३-४) इत्यैध्मवाहं (ऊ० १८. १. ३) त्रैककुभं (ऊ० ६. १. ७) नार्मेधम् (ऊ० १.१. १७)। ऐध्मवाहम् (ऊ० १८. १. ३) सौश्रवसं (ऊ० ४. १. १८) मारुतम् (ऊ० ५. १. १३) इति वा ॥२॥
इत्युक्थानि ॥
आयुषो द्वे सवने । ज्योतिषस्तृतीयसवनं पञ्चमस्याह्नः । तस्य नौधसं (ऊ० १.१.६) ब्रह्मसाम । श्रुध्य-(ऊ० १८.१.२)मुष्णिहि । यजिष्ठं त्वा ववृमह ( सा० १४१३-४) इत्यैध्मवाहं (ऊ० १८. १. ३) त्रैककुभं (ऊ० ६. १. ७) नार्मेध-( ऊ० १.१.१७) मित्युक्थानि । ऐध्मवाहं (ऊ० १८.१.३) सौश्रवसं (ऊ० ४.१. १८) मारुत-(ऊ० ५. १. १३ )मिति वा । अत्र निदानम् -– पञ्चमेऽहनि षष्ठस्याह्नस्तृतीयसवनं प्रत्याहरति । षडहाविलोपाय । सकल ? स त्वेव स्तोमो यः पञ्चमस्य सा संस्थे-(नि०सू० ९.११)ति । एवं पञ्चाह उक्तः । अन्यत्सर्वं व्यूढद्वादशाहवत् । अतिरात्रौ सषोडशिकावषोडशिकौ वा ॥ २ ॥
इति सप्तदशरात्रं समाप्तम् ॥ ११॥


अष्टादशरात्रम्
अतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २३. १२) इत्यष्टादशरात्रम् उक्तम् –
यत्रातिरात्राद् अभिप्लवमुपयन्ति प्रथमस्याह्न एष प्रत्नानुरूपो यत्र
वा त्रिकद्रुकेभ्यः । यत्राभिप्लवो रात्रिसत्रेषु श्यैतनौधसब्रह्मसाम -
पौष्कल श्रुध्यौष्णिहोऽन्यत्र संवत्सरसंमिताभ्यः क्लृप्तमाविंशतिरात्रात् ॥१॥
इति अभिप्लवस्य प्रथमस्याह्नः एष प्रत्नानुरूपः । नौधस-(ऊ०
१. १. ९)श्यैते (ऊ० २. १.३) ब्रह्मसामनी व्यत्यासम् । पौष्कल-(ऊ० १.१.१०) श्रुध्ये (ऊ० १८. १. २) चौष्णिहे । अन्यत्सर्वं यथा गवामयने ॥१॥
इति अष्टादशरात्रम् ॥ १२॥


एकोनविंशरात्रम्
एता एव समहाव्रता एताभिर्वै वायुः (तां० ब्रा० २३. १३. १) इत्यनुवाकेनैकोनविंशतिरात्रमुक्तम् । अतिरात्रोऽभिप्लवः षडहो

471
सत्राणि --विंशतिरात्रम् [अ. ९. ख. १४

द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चेत्यहःक्लृप्तिः । सांवत्सरिकं व्रतं पूर्वस्माद्विशेषः ॥
इति एकोनविंशरात्रम् ॥१३ ।।


विंशतिरात्रम्
अतिरात्रोऽभिप्लवः षडहोऽभिजिच्च विश्वजिच्च द्वे अहनी द्वादशाहस्य द्वादशाहान्यतिरात्रः (तां० ब्रा० २३. १४) इति विंशतिरात्रम् । उक्तावतिरात्रौ । अभिप्लवश्यैतनौधसब्रह्मसामपौष्कलश्रुध्यौष्णिहाः प्रथमस्याह्नः । एष प्रत्नानुरूप इति विशेषः ॥
विंशतिरात्रे सांवत्सरिकौ विश्वजिदभिजितौ अभितः । यथा पूर्दशरात्र
एवं बृहती ॥ १॥
इति । पूर्दशरात्रे ह्युक्तं तस्याभिजितः पुनानः सोम धारयेत्यभीवर्तस्तिसृषु । रौरवमेकस्याम् । कण्वरथन्तरमेकस्याम् । मैधातिथमेकस्याम् । यौधाजयं तिसृष्वि-( आ० क० ८.११. ५ )त्यादि । अत्राभिप्लविकस्य षष्ठस्याह्नोऽभिजितश्च बार्हतत्वाज्जामिता मा भूदित्यभिजितो मध्यंदिने कण्वरथन्तरस्यानुकल्पनम् । गवामयनिकमितरत्सर्वम् ॥ १॥
इति विंशतिरात्रम् ॥१४॥


एकविंशतिरात्रम्
प्रथमम्
अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽभिप्लवः षडहोऽतिरात्रः ( तां० ब्रा० २३. १५) इति पूर्वमेकविंशतिरात्रमुक्तम् । तस्य कल्पः --
पूर्वस्यैकविंशतिरात्रस्याषोडशिकावतिरात्रावभितः । षोडशिमान् मध्ये । सर्वे वा षोडशिकाः । सर्वे त्वेव षोडशिमन्तः ॥१॥
इति विशेष उक्तः । अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः प्रथमयोरभिप्लवयोः। प्रथमस्याह्नः एष प्रत्नानुरूपः । उत्तमोऽभिप्लवोऽनुलोम इति केषांचिन्मतम् । प्रतिलोम इत्यन्येषाम् । तदुक्तम् -- पूर्वस्मिन्नेकविंशतिरात्रेऽभिप्लवं तृतीयमनुलोमं शौचिवृक्षिः । न ह्यावृत्तिर्विज्ञायते। प्रतिलोमं शाण्डिल्यः। द्वावभिप्लवाविति वचनात् ॥१॥
इति प्रथममेकविंशतिरात्रम् ॥ १५ ॥


उत्तरमेकविंशतिरात्रम्
अतिरात्रः पृष्ठ्यःषडहस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः
स्वरसामानः पृष्ठयःषडहस्त्रयस्त्रिंशारम्भणोऽतिरात्र (तां० ब्रा० २३.१६)
इति उत्तरमेकविंशतिरात्रम्। तस्य कल्पः—
उत्तरस्यैकविंशतिरात्रस्य संवत्सरक्लृप्तान्यहानि ॥१॥

473
सत्राणि--द्वाविंशतिरात्रम् [अ. ९. ख. १७]

तत्र विशेषमाह --
अनुक्लृप्ताभीवर्तकालेयः पृष्ठ्यः ॥ २ ॥
इति । पृष्ठ्यस्य सर्वा बृहत्यो द्वादशाहवत् कार्याः । न तु संवत्सरवदित्यर्थः ॥ २॥ स्वरसाम्नां विशेषमाह
श्यैतनौधसब्रह्मसामानः स्वरसामानः पौप्कलश्रुध्यौष्णिहाः ॥ ३ ॥
इति ॥३॥
विषुवतो विशेषमाह --
विषुवतः सामतृचस्य लोके आभीशवम् (ऊ० २. २. १०)। श्रायन्त इव सूर्यम् (सा० १३१९-२०) इति विकर्णम् (र० २.३.६) ॥ ४॥
समानमितरम् ॥ ५ ॥
इति ॥५॥
इति उत्तरमेकविंशतिरात्रम् ॥ १६ ॥
एकविंशतिरात्रे समाप्ते॥


द्वाविंशतिरात्रम्
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च (तां० ब्रा० २३. १७) इति द्वाविंशतिरात्रम् । तस्य कल्पः --
क्लृप्तमा संसद्भ्यः ॥ १॥
इति । अतिरात्रौ सात्रिकौ । त्रिकद्रुका ऐकाहिका गौरीवितस्वरा अभिप्लवः श्यैतनौधसं ब्रह्मसाम । पौष्कलश्रुध्यौष्णिहाः । प्रथमस्याह्नः एष प्रत्नानुरूपः। यत्रातिरात्रादभिप्लवमुपयन्ति । प्रथमस्याह्न एष प्रत्नानुरूपो यत्र वा त्रिकद्रुकेभ्य (आ० क० ९.४.१) इत्युक्तत्वात् । अन्यत् सर्वं सांवत्सरिकम् ॥ १॥
इति द्वाविंशतिरात्रम् ॥ १७ ॥


त्रयोविंशतिरात्रम्
अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः ( तां० ब्रा० २३. १८) इति त्रयोविंशतिरात्रम् । सप्तदशरात्रः पञ्चाहवत् पञ्चाहः कर्तव्यः । इतरत् सर्वं पूर्ववत् कर्तव्यम् ॥
इति त्रयोविंशतिरात्रम् ॥


चतुर्विंशतिरात्रं पूर्वं संसदामयनाख्यम्
प्रथमादिसप्तमान्तान्यहानि
अथ दे चतुर्विंशतिरात्रे । अतिरात्रः पृष्ठ्यः स्तोमः षडहस्त्रयस्त्रिंशमहरनिरुक्तमुपहव्यस्य तन्त्रे क्लृप्तं तस्य कण्वरथन्तरं माध्यंदिनेऽथ त्रयस्त्रिंशं निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशमहर्निरुक्तं त्रयस्त्रिंशमहरनिरुक्तं पृष्ठ्यः स्तोमः षडहः प्रत्यङ् त्रिवृदहरनिरुक्तं ज्योतिष्टोमोऽग्निष्टोमोऽतिरात्रः (तां० ब्रा० २३. १९) इत्यनुवाकेन संसदाख्यं चतुर्विंशतिरात्रमुक्तम् । अत्र कल्पः --
संसदामतिरात्रः पृष्ठ्यस्तोम षडहः ॥ १ ॥
इति । संसदामिति बहुवचनं रात्रीणां विशेष्यत्वात् । अतिरात्रः प्रथममहः। अथ पृष्ठ्यः स्तोमः षडहोऽनहीनोक्तः ॥१॥
तस्यात्र विशेषमाह --
प्रथमस्याह्न एष प्रत्नानुरूपो गौरीवितमनुष्टुभ्यन्वहम् । अविक्लृप्तं

475
सत्राणि--चतुर्विंशतिरात्रे अष्टममहः [अ. ९. ख. १९]

चतुर्थमहः । पञ्चमस्याह्न आकूपारस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदम् ॥२॥ इति । अविक्लृप्तं चतुर्थमहरिति गौरीवितं नानदस्थाने न कार्यमित्यर्थः । त्रयस्त्रिंशमहरनिरुक्तमुपहव्यस्य तन्त्रे क्लृप्तम् । तस्य कण्वरथन्तरं मध्यंदिन इत्युक्तम् ॥ २ ॥
इति प्रथमादिसप्तमान्तान्यहानि ॥१८॥


अष्टममहः
अष्टममहराह --
पवस्वेन्दो वृषा सुत (सा० ७७८-८०) एते असृग्रमिन्दव (सा० ८३०-२) उत नो गोषणिं धियम् (सा० १५९३- ) शशमानस्य वा नरः ( सा० १५९४) उप नः सूनवो गिरः (सा० १५९५) प्र स्वानासो रथा इव (सा० १११९-२७) असृग्रमिन्दवः पथा (सा० ९२८-३६) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
स्वान्याज्यानि ॥२॥
इति । उपहव्यस्य तन्त्रे क्लृप्त-( तां० ब्रा० २३. १९. १)मिति वचनात् स्वानीति उपहव्यसंबन्धीनीत्यर्थः । होता देवो अमर्त्यः (सा० १४७७-९) प्र वां महिद्यवी (सा० १५९६-८) अयमु ते समतसि ( सा० १५९९-६०१ ) गाव उपवदावट ( सा० १६०२-४ ) इत्याज्यानि ॥२॥
पवमानस्य जिघ्नतः (सा० १३१०-२) इति गायत्रं चामहीयवं (ऊ० १२.१.८) चैडं च सौपर्णं (ऊ० १८. १. ४) रोहितकूलीयं (ऊ० १८. १. ५) च सन्तनि (ऊ० १८. १. ६) । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६.२.२) च कण्वरथन्तरं (ऊ० ४.१. ४ ) च दैर्घश्रवसं (ऊ० ११. २. १६) च बार्हदुक्थं (ऊ० १८. १. ७) च यौधाजयं (ऊ० १. १. ३) स्वम् (ऊ० १२. १. ९) अन्त्यम् ॥ ३ ॥
[ इति माध्यंदिनः पवमानः ।। ]
साकमुक्ष ( सा० १४१८) इति पार्थं (ऊ. १२. १.९) माध्यंदिनान्त्यम् ॥ ३॥
स्वानि पृष्ठानि ॥४॥
मा भेम मा श्रमिष्मे-(सा० १६०५-६)ति बृहत् (र० ३.२. ३)। स्वासु वामदेव्यम् (ऊ० १. १. ५) । इमा उ त्वा पुरूवसो (सा० १६०७-८) यस्यायं विश्व आर्य ( सा० १६०९-१०) इति श्यैतं (ऊ० १२. १. १०) च कालेयं (ऊ० १२. १. ११) चेति पृष्ठानि ॥४॥
पवमानो अजीजनत् (सा० ८८९-९१) इति गायत्र-संहिते (ऊ० १२. १. १२) जराबोधीयं ( ऊ० १८. १. ८) च सौश्रवसं (ऊ० १८. १. ९) च । स्वे उष्णिक्ककुभौ (ऊ. १२. १.१३, १४)। अभी नो वाजसातमम् (सा० १२३८-९) इति गौरीवितं (ऊ० ५. १. ३) च कार्तयशं (ऊ० १८. १. १०) च श्यावाश्वा-(ऊ० १२. १. ५)न्धीगवे (ऊ० १२.१.१६)। अञ्जत (सा० १६१४-५) इति कावम् (ऊ० १२. १. १७) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः ॥]
 
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) ॥६॥
सर्वाणि स्तोत्राणि त्रयस्त्रिंशानि । अत्रोपहव्यस्य सप्तदशत्वादस्य चाह्नस्त्रयस्त्रिंशत्वादौपहव्येषु पवमानेषु यथास्थानमावापः कृतः ।

477
सत्राणि--चतुर्विंशतिरात्रे नवममहः [अ. ९. ख. २०]

अन्यत्सर्वमुपहव्यवदेव क्लृप्तम् । विष्टुतिनेत्राण्यावर्त्तीनि भवन्तीति ॥६॥
इति चतुर्विंशतिरात्रे अष्टममहः ॥ १६ ॥


 
चतुर्विंशतिरात्रे नवममहः
अथ त्रयस्त्रिंशमहर्निरुक्तमाह --
उपास्मै गायता नरः (सा० ६५१-३) उपोषु जातमप्तुरम् (सा० १३३८-७) बभ्रवे नु स्वतवसे (सा० १४४४-९) एते सोमा अभि प्रियम् (सा० ११७८-८६) सोमः पुनानो अर्षति (सा० ११८७-९५) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
अग्न आयाही-(सा० ६६०-७१)त्याज्यानि ॥ २ ॥
प्र सोमासो विपश्चित ( सा० ७६४-६ ) इति गायत्रं चाश्वं (ऊ० ६. २. १२) च सोमसाम (ऊ० १४. १. १३) चाशु च भार्गवम् (ऊ० ११. २. ११) मार्गीयवम् (ऊ० १८. १. ११) । प्र सोम देववीतय ( सा० ७६७-८) इति पज्रं (ऊ० ६.२. १३) च द्वैगतं (ऊ० १८. १. १२) च पौरुहन्मनं (ऊ० १८. १. १३) हारायणं (ऊ० १८. १. १४) च यौधाजयम् (ऊ० १. २. १३) औशनम् (ऊ० १. १. ४) अन्त्यम् ॥ ३॥
[ इति माध्यंदिनः पवमानः ।। ]
रथन्तरं (ऊ० ४.१.१५) च वामदेव्यं (ऊ० १.१.५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १. १. ७) च ॥ ४ ॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१)ति गायत्र-संहिते (ऊ. १. १. ८) काक्षीवतं (ऊ० १८. १. १५) च भासं (ऊ. १८. १. १६ ) च । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफा(ऊ० १. १. ९)क्षारे (ऊ० १४. १. १७)। प्र सुन्वानायान्धस ( सा० १३८६-८) इति गौरीवितं (ऊ० ६. २. १७) च पदनिधनं च शुद्धाशुद्धीयम् (ऊ० १८. १. १७) औदल-(ऊ० ११. २. ३)गौतमे (ऊ० ११. २. १३) कावम् (ऊ० १. १. १३) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः ।। ]
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ ६ ॥
सर्वं त्रयस्त्रिंशम् ॥ ६॥
इति चतुर्विंशतिरात्रे नवममहः ॥ २०॥


चतुर्विंशतिरात्रे दशममहः
त्रिणवमहराह -
एष उ स्य वृषा रथ ( सा० १२७४-९) एष वाजी हितो नृभिर् ( सा० १२८०-५) इति पुरस्तात् पर्यासस्य षडृचे यौक्ताश्वादुत्तरे । सुरूपं (ऊ० १८. १. १८) चर्षभश्च पावमान: (ऊ० १८. १. १९) आयास्याभ्यां पूर्वे पृष्ठ-कौल्मलबर्हिषे (ऊ० १. २०; २१) । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० २. १. ६) अन्त्यम् ॥ १॥
एष स्य धारया सुतः (सा० ११३४-५) पवस्व देववीतये (सा० १३२६-८) इति शङ्कु-(ऊ० १८. २. १)सुज्ञाने (ऊ० ११. २. १९) गौरीवितादुत्तरे । यद्वाहिष्ठीया-(ऊ० १५. १. १४)सिते (ऊ० ११. २. २०) ॥२॥

479
सत्राणि--चतुर्विंशतिरात्रे द्वादशमहः [अ. ९. ख. २३]
 
समानमितरं द्वितीयेनाह्ना द्वादशाहस्य ॥ ३ ॥
इति ॥ ३॥
इति दशममहः ॥ २१ ॥


एकादशमहः
अथ द्वे एकविंशे अहनी। तयोराद्यमाह –
उत्ते शुष्मासो अस्थुर् (ऊ० १७१४-७) इति पुरस्तात्पर्यासस्य चतुर्ऋच । अथैतदेव तृतीयमहस्तृचक्लृप्तमेकविंशम् ॥ १॥
इति। एतदेवेति । द्वादशाहीयमित्यर्थः। द्वादशाहिकस्य तृतीयस्याह्नः सप्तदशत्वात् तस्यैकविंशत्वसंपादनार्थमुक्तं तृचक्लृप्तम् । ततश्च बृहत्यां पौरुमद्गादीनि चत्वार्यपि सामानि तृच एव कार्याणि । अध्यास्या नु लुप्यन्ते। तथा च सत्रेष्वाष्कारनिधनं काण्वमभिसोमतृचेऽधीमहे । एवमार्भवे वाचश्च साम शौक्तं च तृच एव कार्ये ॥ १ ॥
इति एकादशमहः ॥ २२ ॥


द्वादशादिचतुर्दशान्तान्यहानि
अथोत्तरमेकविंशमहरारभ्य त्रयाणामह्नां क्लृप्तिमाह --
प्रज्ञात उत्तरस्त्र्यहः ॥ १ ॥
इति। एकविंशं त्रिणवं त्रयस्त्रिंशमिति त्र्यहः प्रज्ञातः द्वादशीयः प्रसिद्ध एव । तत्र न कश्चिद्विशेष इत्यर्थः। सोऽयमनन्तरोक्तः षडहो विशालः पृष्ठ्यः इत्युच्यते । तथा च निदानम् -- स एष आवृत्तस्तोमः पूर्वस्त्र्यहोऽनुपूर्वस्तोम उत्तर एतं विशाल: पृष्ठ्य इत्याचक्षते (नि० सू० ९. १२) इति । चतुर्दशाहानि क्लृप्तानि । त्रयस्त्रिंशमहरनिरुक्तमित्युक्तम् ॥ १ ॥
द्वादशादिचतुर्दशान्तान्यहानि ॥२३॥


पञ्चदशमहः
पञ्चदशमहराह --
अथैतदेव त्रयस्त्रिंशमहरनिरुक्तमाहरति ॥ १ ॥
एतदेवेति पवस्वेन्दो वृषा सुतः (सा० ७७८) इत्यादिनानन्तरमेवाष्टमत्वेन क्लृप्तमित्यर्थः । तस्य विशेषमाह --
तस्य कण्वरथन्तरस्य लोके वाशं (ऊ० १८. २. ३) पार्थस्यौशनं (ऊ० १८.२.४) बृहतो रथन्तरं (र० ३. १. १३) श्यैतस्य नौधसं
(ऊ० १८. २. ५) श्रुध्यस्य पौष्कलम् (ऊ० १८. २. ६)॥ २ ॥
इति ॥ २ ॥
इति पञ्चदशमहः ॥ २४ ॥


षोडशादि-एकविंशान्तान्यहानि
पृष्ठ्यः स्तोम: षडहः प्रत्यङिङ-(तां० ब्रा० २३.१९.१)त्युक्तं षडहमाह --
_पृष्ठयः स्तोमः षडह इत्यावृत्त: ॥ १ ॥
इति ॥ १ ॥
इति षोडशादि-एकविंशान्तान्यहानि ॥ २५ ॥


द्वाविंशमहः
द्वाविंशमहराह --
त्रिवृदहरनिरुक्तम् । तस्य पवस्वेन्दो वृषा सुत (सा० ७७८-८०) उत नो गोषणिं धियम् (सा० १५९३ ) शशमानस्य वा नरः (सा० १५९४) उप नः सूनवो गिरः (सा० १५९५) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
  
481
सत्राणि--चतुर्विंशतिरात्रं पूर्वम् [अ. ९. ख. २८

पवमानस्य जिघ्नतः (सा० १३१०-२) इति गायत्रमेकस्याम् । आमहीयवमेकस्याम् (ऊ. १२. १. ८) ऐडं सौपर्णमेकस्याम् (ऊ. १८. १. ४)। पुनानः सोम धारये-(सा० ६७५-६)ति यौधाजयं तिसृषु (ऊ० १.१.३)। श्यावाश्वस्य लोके गौरीवितम् (ऊ. ५. १. ३) ॥ १ ॥
समानमितरमुपहव्येन ॥२॥
सर्वं त्रिवृत् ॥३॥
इति । बहिष्पवमाने प्रथमान्त्यौ तृचौ । एकर्चा इतरे । इतरयोः पवमानयोरन्त्यमेव तृचे ॥ ३ ॥
इति द्वाविंशमहः ॥ २६ ॥
त्रयोविंशमहः
त्रयोविंशमहराह --
ज्योतिष्टोमोऽग्निष्टोमस्तस्यानुष्टुब् यथर्षभस्य ॥ १ ॥
इति । ऋषभस्य क्रतोर्यथानुष्टुप्सु पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवित-(ऊ० ४. १. १३)मेकस्याम्। आन्धीगव-(ऊ० १. १. १२)मेकस्याम् । श्यावाश्व-(ऊ० १. १. ११)मेकस्याम् । बृहत् (र० २. ४. २) तिसृष्विति । तथास्यापीत्यर्थः ॥ १॥
इति त्रयोविंशमहः ।। २७ ॥
चतुर्विंशमहः
अत्रानुष्टुभि बृहतः करणमुत्तरस्याह्नो ज्योतिरात्रत्वात् अजाम्यर्थम् । तदेवाह --
ज्योतिष्टोमोऽतिरात्रः । समानमितरम् ॥ १ ॥
इति ॥ १ ॥
इति चतुर्विंशमहः ॥ २८ ॥
इति चतुर्विशतिरात्रं पूर्वं समाप्तम् ।।




उत्तरं चतुर्विंशतिरात्रम्
पञ्चविंशति रात्रादि-द्वात्रिंशद्रात्रान्तानि सत्राणि
अतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २३. २०) इति द्वितीयं चतुर्विंशतिरात्रम् ॥
क्लृप्तमा नानाब्रह्मसामभ्यः ॥१॥
इति । अभिप्लवौ श्यैतनौधसौ ब्रह्मसामानौ पौष्कलश्रुध्यौष्णिहौ । प्रथमस्याभिप्लवस्य प्रथमस्याह्नः एष प्रत्नानुरूपः । अत्र सूत्रम् -- संवत्सरादेशाद्रात्रिसत्रेषु तथैवाभिप्लवानामभ्यासः स्यादिति गौतम: (ला० श्रौ० १०. ३. २०) इति । तस्यार्थः --गवामयनेऽभिप्लवस्यादिष्टत्वाद्रात्रिसत्रेष्वभिप्लवानां तत्प्रकृतिकत्वात् गवामयनाभ्यासवदभ्यास इति । ततश्च यथासंभवं द्वितीयादिष्वभिप्लवेषु द्वितीयेऽह्नि मध्यंदिने हाविष्मतस्य (ऊ.० ७. १. १) स्थाने यौक्ताश्वमुत्तरं (ऊ० ७.१.२) । भर्गयशसो-( र० १.३. ५-६ )र्विषुवत्के सत्रे सूत्रोक्ता व्यवस्था । अन्यत्र विकल्प एव । आर्भवे मौक्षस्य (ऊ० ४. १. १०) स्थाने हाविष्मतम् (ऊ० २.१. ५)। चतुर्थे वीङ्क-(ऊ० ४.१. १९) शुद्धाशुद्धीये ( ऊ० ७. २. १२) अपि भर्गयशोभ्यां (र० १. ३. ५-६) व्याख्याते । पञ्चमेऽहनि यण्वस्थाने (र० १. २. १) द्वितीयाद्यभिप्लवक्रमेणापत्यं (र० २. १. ४) सन्तनि (ऊ० ७.२. १३) शाक्वरवर्णं (र० २.१.५) च । तत्र यदा ग्रामेगेयं सन्तनि ( ग्रा० १७. ११. ५८४. २) स्यात्तदा मानवात् पूर्वं वाम्रं कार्यमजाम्यर्थम् । षष्ठेऽहनि पृष्याथानन्तर्ये सत्याश्वसूक्तम् । त्रिणि धनायास्ययोः (ऊ० १.२.२०, २.१.१) स्थाने यथाक्रममिषो

483
सत्राणि--चतुर्विंशतिरात्रमुत्तरम् [अ ९. ख. २९]

वृधीय-(ऊ० १३. १. १९)समन्ते (ऊ० ६. २. २) इति विशेषः । दशाहातिरात्रावुक्तौ ॥

एता एव समहाव्रताः (तां० ब्रा० २३. २१. १) इति पञ्चविंशतिरात्रम् । सांवत्सरिकं व्रतं पूर्वस्माद्विशेषः । तस्य तदेव स्थानं यत्संवत्सरे ॥
अतिरात्रो गौश्चायुश्च द्वे अहनी द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २३. २२. १) इति षड्विंशतिरात्रम् । गोआयुषी ऐकाहिके गौरीवितस्वरे । अभिप्लवौ श्यैतनौधसब्रह्मसामानौ पौष्कलश्रुध्यौष्णिहौ । द्वादशाहो व्यूढः । उक्तावतिरात्रौ ॥
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहौ द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्र (तां० ब्रा० २३. २३. १) इति सप्तविंशतिरात्रम् । ज्योतिरादय ऐकाहिका गौरीवितस्वराः । पूर्ववदभिप्लवौ । प्रथमस्याभिप्लवस्य प्रथमस्याह्नः एष प्रत्नानुरूपः। इतरं व्यूढद्वादशाहवत् ॥
एता एव समहाव्रताः (तां० ब्रा० २३. २४. १) इत्यष्टाविंशतिरात्रमुदयनीयातिरात्रात्पूर्वं सांवत्सरिकं व्रतम् । पूर्वस्माद्विशेषः ॥
अतिरात्रो ज्योतिर्गौरायुर्गौरायु पञ्चाहो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः ( तां० ब्रा० २३. २५.१) इति एकान्नत्रिंशद्रात्रम् । सप्तदशरात्रसदभिप्लवं चाह-- अभिप्लवौ पूर्ववत् । एष प्रत्ना न कर्तव्या। इतरे व्यूढद्वादशाहवत् ॥
अतिरात्रस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्र (तां० ब्रा० २३. २६.१) इति त्रिंशद्रात्रम् । अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः। प्रथमस्याभिप्लवस्य प्रथमस्याह्न एष प्रत्नानुरूपः । इतरदुक्तम् ॥
 एता एव समहाव्रताः ( तां० ब्रा० २३. २७. १) इति एकत्रिंशद्रात्रम् । सांवत्सरिकं व्रतं पूर्वस्माद्विशेषः ॥
अतिरात्रो गौश्चायुश्च द्वे अहनी त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः ( तां० ब्रा० २३. २८. १) इति द्वात्रिंशद्रात्रम् । गोआयुषी ऐकाहिके गौरीवितस्वरे । अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः। इतरे व्यूढद्वादशाहवत् ॥ १ ॥
इति पञ्चविंशतिरात्रादि-द्वात्रिंशद्रात्रान्तानि सत्राणि ।। २९ ।।
इति उत्तरं चतुर्विंशतिरात्रम् ॥


त्रयस्त्रिंशद्रात्रं प्रथमम्
प्रथमादि-षोडशान्तान्यहानि
अथ त्रयस्त्रिंशदात्राणि त्रीणि। अतिरात्रस्त्रयः पञ्चाहाः । विश्वजिदतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २४. १. १) इति प्रथमं त्रयस्त्रिंशद्रात्रम् । एता रात्रयो नानाब्रह्मसामान इत्युच्यन्ते । पञ्चाहानां नानाब्रह्मसामकत्वात् । तदाह—
नानाब्रह्मसाम्नामतिरात्रस्त्रयः पञ्चाहाः पञ्चाहक्लृप्ताः ॥१॥
इति । नानाब्रह्मसामान इति अतिरात्रानन्तरं त्रयः पञ्चाहाः सप्तदशरात्रस्य पञ्चाहेन क्लृप्ताः ॥ १॥

485
सत्राणि--त्रयस्त्रिंशद्रात्रं प्रथमम् [अ. ९ ख. ३०]
  
तत्र विशेषः
नानाब्रह्मसामानः ॥ २॥
इति ॥ २॥
प्रथमस्य पञ्चाहस्य यथालोकं बृहद्रथन्तरे ॥ ३ ॥
इति । यथालोकं यथास्थानम् । एतच्चोत्तर [त्र] विपर्यस्य वक्ष्यमाणत्वात् इह तथेति विस्पष्टप्रदर्शनार्थमुक्तम् ॥३॥
नौधसं (ऊ० १.१.६) श्यैतं (ऊ० २. १.३) महाविष्टम्भं (ऊ० २. १. १८) त्रैशोकम् (ऊ० २. २. १३)। उभयं शृणवच्च न ( सा० १२३३-४ ) इति वाशम् (ऊ० १८. २. ७) । एतानि ब्रह्मसामानि ॥४॥
इति । प्रथमस्य पञ्चाहस्य नौधसादीनि क्रमात् ब्रह्मसामानि ॥ ४ ॥
द्वितीयस्य पञ्चाहस्यान्योन्यस्य लोकं बृहद्रथन्तरे । त्वमिन्द्र प्रतूर्तिषु (सा० १६३७-८) इति अभीवर्तः (ऊ० १२. २. १८)। त्वामिदाह्यो नर (ऊ० ८१३-४) इति मानवं यत् पृष्ठ्ये (ऊ० १८. २. ८)। छन्दस्यं पञ्चमेऽहनि (ऊ० १३. २. १०)। क ईं वेद सुते सचे-(सा० १६९६-८)त्याष्कारणिधनं काण्वम् (ऊ० १८. २. ९)। स्वासु यौक्तस्रुचम् (ऊ० ११. २. १२) । स्वासु श्रायन्तीयम् (ऊ० ५. २.९)। एतानि ब्रह्मसामानि ॥५॥
इति । अन्योन्यस्य लोकमिति आपद्यते इति शेषः । श्रूयते हि यद्रथन्तरस्य लोकं बृहदापद्यते बृहतो रथन्तरमिति । अत्र बृहद्रथन्तरयोरन्योन्यलोकापादनमजाम्यर्थम् । यत्पृष्ठ्य इति पृष्ठ्ये षडहे यद्विहितं तदुत्तरं मानव-(ऊ० १८. २. ८)मित्यर्थः। ननु यद्यत्र द्वितीयेऽहनि उत्तरं मानवं ब्रह्मसामत्वेन विधीयते तर्हि पञ्चमेऽहनि पवमानेऽभिसोमायां (सा० ८५६-८) मानवस्य संचारप्रसङ्ग इत्यत उक्तम् । छन्दस्यं पञ्चमेऽहनीति । पूर्वमानवमित्यर्थः । ज्योतिष्टोमातिरात्रयोर्यानि सामानि विनियुक्तानि ततोऽन्यानि छन्दसानीति छन्दस्यानीति चोच्यन्ते । तथा च प्रायणीये चतुर्विंशे निदानम्--अथ खलु य ऊर्ध्वं ज्योतिष्टोमदशाहाभ्यां यज्ञक्रतवः सप्तभिः पर्यायैस्तेषु ज्योतिष्टोमानां च दाशरात्रिकाणां च द्रव्याणामागमो भवति । स्तोमान्वितानि स्थानान्वितानि पृष्ठान्वितानि तन्त्रान्वितानि भागान्वितानि संस्थान्वितानि आशीःसंप्रयाणीति रूपाच्छान्दसान्यायन्ति (नि० सू० ४. १२) इति । त्रिककुब्दशरात्रे च नानामध्येनिधनानि न दाशरात्रिकाणि । मध्येनिधनान्यनुभवन्ति । अतश्छन्दस्यान्युपयुङ्क्त (नि० सू० ९.३) इति ॥५॥
तृतीयस्य पञ्चाहस्य यथालोकं बृहद्रथन्तरे । शग्ध्यूषु शचीपते ( सा० १५७९-८० ) इति मानवं यच्छन्दस्यं (ऊ० १८. २.११) नित्यं पञ्चमेऽहनि (ऊ० ७.२.१४, ३.१.५) वयमेनमिदाह्य (सा० १६९१-२) इति वासिष्ठम् (ऊ० १६. २. ५) आ त्वा सहस्रमा शतम् (सा० १३९१-३) इति भारद्वाजम् (ऊ० १८. २. १२)। यो राजा चर्षणीनाम् (सा० ९३३-४) इति जनित्रम् (ऊ० १८. २. १३)। त्वमिन्द्र यशा असि (सा० १४११-२) इन्द्रस्य यशः (ऊ. १८. २. १४) एतानि ब्रह्मसामानि ॥६॥
इति । नित्यं पञ्चमेऽहनीति द्वितीयेऽहनि छन्दस्यमानवस्य विधानात् । संचाराप्रसङ्गात् पञ्चमेऽहनि नित्यतया विहितमुत्तरमेव मानवं स्थितमित्यर्थः ॥६॥
इति प्रथमादि-षोडशान्तान्यहानि ॥ ३० ॥


487
सत्राणि--त्रयस्त्रिंशद्रात्रं प्रथमम् [अ. ९. ख. ३२]
 
सप्तदशमहः
विश्वजिदतिरात्रः। तस्य गौरीवितस्य लोके नानदम् (ऊ० २. २. १८)। अग्निर्मूर्धा दिवः ककुद् (सा० १५३२-४) इति सत्रासाहीयम् (ऊ० १८. २. १५) त्रैककुभं (ऊ० ६.१. ७) नार्मेधम् (ऊ० १. १. १७) गौरीवितं षोडशिसाम 5 (ऊ० ३. १. २) ॥ १॥
रात्रिः संधिः ॥ १ ॥
इति । सांवत्सरिकस्य विश्वजितो विशेषकथनं एतदहर्विषुवत्स्थानीयम् । अत्र तृतीयपञ्चाहान्त्यस्य राथन्तरस्याह्नो वैश्वजिते पवमाने बृहत्यां स्थितेन रथन्तरेण संनिपातात् प्रसक्तं जामित्वं तत्रैव स्थितया अस्य प्रत्नेति प्रत्नवत्या गायत्र्या परिहृतम् ॥१॥
इति सप्तदशमहः ॥३१।


अष्टादशादि-द्वाविंशान्तान्यहानि
अथैष एव पञ्चाह आवृत्तः ॥ १ ॥
पञ्चममहरारभ्य प्रातिलोम्येन कार्य इत्यर्थः । अस्य चावृत्तत्वमुपपादितं निदाने--उत्तमः पञ्चाह आवृत्तो भवतीत्यनावृत्त (नि० सू० ? ) इति व्याख्यातम् । पूर्वस्मिन्नेकविंशतिरात्र इति ॥१॥
आवृत्तस्य पञ्चाहस्यान्योन्यस्य लोकं बृहद्रथन्तरे । पिबा सुतस्य रसिन (ऊ० १४२१-२) इति जमदग्नेरभीवर्तो (ऊ० १८. २.१६) यदिन्द्र प्रागपागुदग् ( सा० १२३१-२) इति नैपातिथम् (ऊ० ४. २. १५)। आमन्द्रैरिन्द्र हरिभिर (सा० १७१८-२०) इति अभिनिधनं काण्वम् (ऊ० १८. २. १७) यथा गौरो अपाकृतम् (सा० ११२१-२) इति गौतमस्य मनाद्यम् (ऊ० १३. २. १८) । त्वमङ्ग प्रशंसिषम् (सा० १७२३-४ )
इति पौरुमीढम् (ऊ० १३. २. १६)। एतानि ब्रह्मसामानि ॥२॥
इति । अत्र पञ्चमस्याह्नः प्रथमस्य सतो रथन्तरस्य स्थाने बृहत् । चतुर्थस्याह्नो द्वितीयस्य सतो बृहतः स्थाने रथन्तरमित्येव व्यत्यासः । २॥
इति अष्टादशादि-द्वाविंशान्तान्यहानि । ३२॥


त्रयोविंशादि-त्रयस्त्रिंशान्तान्यहानि
द्वादशाहस्य दशाहान्यतिरात्रः ॥ १ ॥
इति । व्यूढद्वादशाहवदित्यर्थः ॥ १॥
इति त्रयोविंशादि-त्रयस्त्रिंशान्तान्यहानि ॥ ३३ ॥
इति त्रयस्त्रिंशद्रात्रं प्रथममं समाप्तम् ॥


त्रयस्त्रिंशद्रात्रं द्वितीयम्
अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च ( तां० ब्रा० २४. २.) इति मध्यमं त्रयस्त्रिंशद्रात्रम् । अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः । सर्वेषां प्रथमस्याह्नः एष प्रत्नानुरूपः ॥
मध्यमस्य त्रयस्त्रिंशदात्रस्य सर्वे षोडशिमन्तोऽतिरात्राः ॥ १ ॥
इति विशेषः ॥ १॥
इति द्वितीयं त्रयस्त्रिंशद्रात्रम् ।। ३४।।



489
सत्राणि--तृतीयं त्रयस्त्रिंशद्रात्रम् [अ. ९, ख. ३५]

त्रयस्त्रिंशद्रात्रं तृतीयम्
अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्रस्त्रयः पञ्चाहा अतिरात्रः (तां० ब्रा० २४. ३) इति उत्तमं त्रयस्त्रिंशद्रात्रम् । तस्य कल्पः --
उत्तमस्य त्रयस्त्रिंशद्रात्रस्यातिरात्रः । त्रयः पञ्चाहाः - पञ्चाहक्लृप्ताः ॥१॥
इति । तस्य विशेषमाह—
श्यैतनौधसब्रह्मसामानो यथालोकं बृहद्रथन्तराः ॥ २ ॥
इति । अत्र नानाब्रह्मसामत्वस्य श्रवणादिति भावः ॥
पक्षान्तरमाह--
यथा वा नानाब्रह्मसामसु ॥३॥
इति । प्रथमत्रयस्त्रिंशदात्रोक्त एवायं पञ्चाह इति यस्य बुद्धिस्तन्मतेनेति भावः। तथा च निदानम् -- यस्य तु स्यात् स एवायं पञ्चाह (नि० सू० १०.१) इति । तथैव तस्य बृहद्रथन्तरे तथा ब्रह्मसामानीति ॥३॥
क्लृप्तो विश्वजिद्यो नानाब्रह्मसामसु ॥ ४ ॥
इति । अत्रापि सप्तदशमहो विषुवत्स्थानीयम् ॥४॥
अथैत एव पञ्चाहा आवृत्ताः ॥ ५ ॥
इति । तत्र पौर्वपक्षिकाः पञ्चाहा यदि यथा लोकबृहद्रथन्तरास्तत
आवृत्ता अपि तथा अयथा लोकबृहद्रथन्तरास्तेऽत एतेऽपि तथैवेति व्यवस्था ॥ ५ ॥
आवृत्तानां पञ्चाहानां प्रथमस्य पञ्चाहस्य प्रथमस्याह्नोऽभि सोमास आयवः ( सा० ८५६-८) इति मानवमेकस्याम् (ऊ. ७. २. १४)। तस्यामेवानूपम् (ऊ० ७. २. १५)। बृहन्निधनं वार्कजम्भमेकस्याम् (र० ४.१.८)। मैधातिथमेकस्याम् (ऊ० ९.३.६)। वाम्रं तिसृषु (ऊ० ७. २. १६)। अग्नेस्त्रिणिधनमध्यास्यायाम् (ऊ० ७. २. १४) ॥ ६॥
समानमितरम् ॥ ७॥
इति । अत्र वैश्वजितस्य राथन्तरस्य संधेः पूर्वस्मिन् पक्षसि पञ्चाहानां पञ्चमेनोत्तरस्मिन् प्रथमतां गतेन राथन्तरेणाह्नां संनिपाते जामि स्यादिति तन्निवृत्त्यर्थं बृहन्निधनस्य वार्कजम्भस्य कल्पनमिति स्थिते निधनवतो मानवस्य पुरस्तादुपरिष्टाच्च तन्निधनवतस्तस्य करणं जामिप्रसङ्गादेवायुक्तमिति स्वारादानूपादूर्ध्वं तत् कल्पितम् । स्तोमोपपत्त्यर्थं चैषां मैधातिथस्य चागन्तोरेकर्चकरणम् । चतुर्णां प्रथमायां द्वावितरौ नानोत्तरयोरिति न्यायान्मानवमेकस्यां तस्यामेवानूपमित्यादिक्रमो ज्ञातव्यः । वाम्राग्नेये यथापूर्वमेव
तृचाध्यास्ययोः स्थिते । ननु पञ्चाहस्याभिप्लवप्रकृतिकत्वात् संवत्सरादेशाद्रात्रिसत्रेषु इत्युक्तेन न्यायेन पौर्वपक्षिकस्य तृतीयस्य पञ्चाहस्य पञ्चमेऽहनि सन्तनिनः करणात् आवृत्तप्रथमभूतेऽस्मिन्नहनि संतनिमानवयोर्निधनवतोः संनिपातात् जामि स्यात् । तदुक्तम्--आवृत्तानां पञ्चाहानां प्रथमस्य पञ्चाहस्य प्रथमस्याह्नो

491
सत्राणि--चतुस्त्रिंशद्रात्रम् [अ. २९, ख. ३६]
 
मानवादिर्बृहती तज्जामि स्यात् संतनिने-(ला० श्रौ० १०. ४. १)ति । न चेदत्र वक्तुं शक्यं पञ्चमेऽहनि यदहर्ग्रामगेयं संतनि स्यात् । पूर्वं वाम्रं स्यादिति । तथा हि--मानवात् वाम्रमानवानूपवार्कजम्भेषु पूर्ववदेकर्चेषु कृतेषु मैधातिथं तृचे कर्तव्यं स्यात् । न चागन्तुनस्तृचे करणं क्वचिदपि दृष्टम् । एवं तर्हि वैकृतत्वात् पञ्चाहानां न तेषु संवत्सरवदभ्यासः प्रवर्तते । अपि तु प्रथमस्यैवाधिकारेण अभिप्लवांस्तु न प्रसृजेत् । संवत्सरवदभ्यासः । तदुक्तम्--वैकृतत्वात्तु निवृत्तिः । पञ्चाहेषु अभिप्लवान् न प्रसृजेदि-(ला० श्रौ० १०.४.२-३)ति । अत्र च यथालोकं बृहद्रथन्तरत्वे द्वयोरपि पक्षसोः प्रतिपञ्चाहमाद्यन्तरयोरपि पक्षसोः प्रतिपञ्चाहमाद्यन्तयोरह्नोः राथन्तरत्वात् जामि स्यादिति। तन्निवृत्तये पूर्वस्मिन् पक्षसि प्रथमस्याह्न एष प्रत्नानुरूपः कार्यः। उत्तरस्मिन् प्रतिपञ्चाहमावृत्तप्रथमेऽहनि पूर्ववद्वार्कजम्भं कार्यम् । तदुक्तम्--एष प्रत्नावार्कजम्भे वा प्रतिपञ्चाहं यथा लोकबृहद्रथन्तराश्चेदेष प्रत्ना पूर्वपक्षसि वार्कजम्भम् उत्तर (cf. ला० श्रौ० १०. ४. ६) इति ॥ ७ ॥
इति त्रयस्त्रिंशद्रात्रं तृतीयम् ॥३५ ।।


चतुस्त्रिंशद्रात्रं
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च (तां० ब्रा० २४.४.१) इति चतुस्त्रिंशद्रात्रम् ॥
क्लृप्तमा विधृतिभ्यः ॥ १॥
इति । अतिरात्रौ सात्रिकौ त्रिकद्रुका ऐकाहिका गौरीवितस्वराः । अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः । प्रथमस्याभिप्लवस्य प्रथमस्याह्न एष प्रत्नानुरूप इति विशेषः । इतरत्सर्वं सांवत्सरिकम् ॥ १॥
इति चतुस्त्रिंशद्रात्रम् ॥ ३६॥


पञ्चत्रिंशद्रात्रम्
अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्र (तां० ब्रा० २४. ५) इत्यनुवाकेन पञ्चत्रिंशद्रात्रं । सप्तदशरात्रवत् । अभिप्लवः पञ्चाहः पूर्ववद् । एष प्रत्ना न कर्तव्या। इतरदुक्तम् ।
इति पञ्चत्रिंशद्रात्रम् ॥


षट्त्रिंशद्रात्रम्
अतिरात्रश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्र (तां०ब्रा० २४.६) इत्यनुवाकेन षट्त्रिंशद्रात्रमुक्तम् । प्रथमस्याभिप्लवस्य
प्रथमस्याह्नः एष प्रत्नानुरूपः। अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः। अन्यत् सांवत्सरिकम् ॥
इति षट्त्रिंशद्रात्रम् ॥


493
सत्राणि--चत्वारिंशद्रात्रम् [अ. ९, ख. ३७]

सप्तत्रिंशद्रात्रम्
एता एव समहाव्रताः (तां० ब्रा० २४. ७) इति सप्तत्रिंशद्रात्रम् । सांवत्सरिकं व्रतं पूर्वस्मात्सत्राद्विशेषः ॥
इति सप्तत्रिंशद्रात्रम् ॥


अष्टात्रिंशद्रात्रम्
अतिरात्रो गौश्चायुश्च द्वे अहनी चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २४. ८.१) इत्यष्टात्रिंशद्रात्रमुक्तम् । गोआयुषी ऐकाहिके गौरीवितस्वरे । अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः । व्यूढो द्वादशाहः । अतिरात्रौ सात्रिकौ ॥
इति अष्टाचत्वारिंशद्रात्रम् ॥


एकान्नचत्वारिंशद्रात्रम्
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २४. ९. १) इत्येकान्नचत्वारिंशद्रात्रम् । तस्य सर्वमुक्तम् ॥
इति एकान्नचत्वारिंशद्रात्रम् ॥


चत्वारिंशद्रात्रम्
एता एव समहाव्रता ( तां० ब्रा० २४. १०. १ ) इति चत्वारिंशद्रात्रम्। सांवत्सरिकं व्रतम् । उपान्त्यमहः । अन्यत् सर्व पूर्ववत् ॥
इति चत्वारिंशद्रात्रम् ॥


एकान्नपञ्चाशद्रात्रं
प्रथमम्
[प्रायणीयोऽतिरात्रः ]
अथैकान्नपञ्चाशद्रात्राणि सप्त। अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यग्निष्टोममुखान्यतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद्दशममहरतिरात्रो द्वादश सप्तदशा उक्थ्याः अतिरात्रः पृष्ठ्यः षडहोऽतिरात्रो द्वादशैकविंशा उक्थ्या अतिरात्रः (तां० ब्रा० २४. ११. १) इति विधृतिसंज्ञमेकान्नत्रिंशद्रात्रम् । तस्य प्रायणीयातिरात्रे विशेषमाह --
विधृतीनां ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः कौत्सस्य लोक उद्वंशीयम् (ऊ० १९. १. १) आ त्वा विशन्त्विन्दवः ( सा० ११६०-२) इत्येतासु । जराबोध तद्विविढ्ढि (सा० १६६३-५ ) प्रतिष्या सूनरी जनि (सा० १७२५-७) एषो उषा अपूर्व्ये-( सा० १७२८-३०) त्येतासु गायत्रीषु जराबोधीयं संधिषाम (ऊ० १४. १. ५, १९. १. ३-४) ॥ १ ॥
इति । विधृतीनामिति बहुवचनं संसदादिवद्रात्रिबहुत्वापेक्षम् । अत्र निदानम् - ऐडं चेत्संधिषाम स्यात् कौत्सस्य लोक उद्वंशीयमेतेनेडाकामश्च सिध्यत्यजामिकल्पश्च इति । तद्यदेतासु आ त्वा विशन्त्विन्दव ( सा० १६६०-२) इति एता रात्रेर्विकृतौ दृष्टा इति । नित्यासु वे-(नि०सू० १०.२)त्यस्य स्थानेऽध्यर्धेडाया विधानादिडाकामः

495
सत्राणि--त्रिवृन्ति अहानि [अ. ९., ख. ३९]

सिध्यति स्वारत्वादजामिकल्पश्च । इन्द्र सुतेष्वि-( सा० ७४६-८) त्येतास्वेवोद्वंशीयं (ऊ० १८.२.१) कार्यमित्यन्ये । यदाह--नित्यासु वेति विचारयन्त्यर्थकारितमुद्वंशीयं स किमर्थो नित्याश्चावपे-(नि०सू०१०.२)दिति । तथा च सूत्रेषु--आ त्वे-(सा० १६६०-२)न्द्र सुतेषु ( सा० ७४६-८) इति द्वयोरपि तृचयोरुद्वंशीय-(ऊ० १८. २. १-२)मधीमहे । गायत्रीषु जराबोधीय-(ऊ० १८. २. ३-४ )मित्यादिब्राह्मणानुसारेण गायत्रीषु संधिषाम विहितम् । तन्मूलत्वसूचनार्थमेव कल्पे गायत्रीष्विति छन्दःकीर्तनम् । एवमुष्णिक्षु श्रुध्य-( ऊ० १८. २. ५)मित्यादावपि द्रष्टव्यम् ॥ १ ॥
इति प्रायणीयोऽतिरात्रः ॥ ३८ ॥


त्रिवृन्ति अहानि । तेषां प्रथमम्
अथाग्निष्टोमसंस्थमेकं द्वे उक्थसंस्थे इति त्रीणि त्रिवृन्त्यहानि । तेषां प्रथममाह--
अथ यदेव कुसुरुबिन्दस्य राथन्तरं त्रिवृदहस्तदेतत् । तस्य
गौरीवितमनुष्टुभि (ऊ० ४. १. १३) ॥ १ ॥
इति । उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । उच्चा ते जातमन्धसः ( सा० ६७२-५) इति गायत्रमामहीयवं (ऊ० १.१.१) जराबोधीय ( ऊ० ११. १. १४ )मिति सामतृचः । पुनानः सोम धारये-(सा० ६७५-६)ति यौधाजयं (ऊ० १.१.३) तिसृषु । औशन-(ऊ० १.१. ४)मन्त्यम् । रथन्तरं ( र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च नौधसं (ऊ० १. १.६) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि। स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८)। अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् ( सा० ७७३) इति सफ-(ऊ० १. १. ९) पौष्कले (ऊ० १. १. १०)। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीविता-( ऊ० ४.१. १३ )न्धीगवे (ऊ० १.१. १२)। काव-( ऊ० १. १. १३ )मन्त्यम् । अन्त्यमेव तृचे । यज्ञायज्ञीय-(ऊ० १. १. १४)मग्निष्टोमसाम । सर्वं त्रिवृत् ॥ १॥
द्वितीयं त्रिवृदहराह—
यद् बार्हतं त्रिवृदहस्तदुत्तरम् ॥२॥
इति । कुसुरुबिन्दस्येत्येव ॥ २ ॥
तत्र विशेषमाह --
पवमानस्य ते कवे (सा० ६५७-९) इति पर्यासः । यौक्ताश्वस्य (ऊ० १. २. १९) लोके हाविष्मतम् (ऊ० ७.१.१) माधुच्छन्दसस्य (ऊ० ७. १.३) कालेयम् (ऊ० ९. २. ४) हाविष्मतस्य (ऊ० २. १. ५) मौक्षम् (ऊ० ४. २. १०) । गौरीवितमनुष्टुभि (ऊ० २. १.८)। साकमश्वम् (ऊ० १. १. १५) सौभरम् (ऊ० १. १. १६) आष्टादंष्ट्रम् (ऊ० २. १. १२) इत्युक्थानि ॥ ३ ॥
समानमितरम् ॥ ४ ॥
इति । पवस्व वाचो (सा० ७७५-७) पवस्वेन्दो (सा. ७७८-८०) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्निं दूत-(सा० ७९०-२)मित्याज्यानि । वृषा पवस्व धारये-(सा० ८२३-५)ति गायत्रं हाविष्मत-(ऊ० ७. १. १)माजिग-(ऊ० १. २. १४ )मिति

497
सत्राणि--अतिरात्रः [अ. ९., ख. ३९]
 
सामतृचः । पुनानः सोम धारये-( सा० ६७५-६ )ति त्रिणिधनमायास्यं (ऊ० २. १. १) तिसृषु । वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १.६)मन्त्यम् । बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१.५) च श्यैतं ( ऊ० २.१.३) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्र-मौक्षे (ऊ० ४. १. १०) । पवस्वेन्द्रमच्छे-(सा० ६९२, ६९४)ति सत्रासाहीय-(ऊ० ९. २. ७)श्रुध्ये (ऊ० ९. १. २०) । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति गौरीवित-क्रौञ्चे (ऊ० २. १. ८-९)। वृषा मतीना-(सा० ८२१-३) मिति याम-(ऊ० २. १. १०)मन्त्यम् । यामवर्जमेकर्चाः । यज्ञायज्ञीय- (ऊ० १.१.१४)मग्निष्टोमसाम। साकमश्वं (ऊ० १.१.१५) सौभर-(ऊ० १.१.१६)माष्टादंष्ट्र-(ऊ० २.१.१२)मित्युक्थानि ॥ ४ ॥
प्रथमस्य त्रिवृतो या क्लृप्तिः सैव तृतीयस्येति अतिदिशँस्तत्र विशेषमाह--
या पूर्वा सोत्तरा । तस्याः प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्णम् (ऊ० २. २.६) उद्वंशीयं (ऊ० ६.१.८) तैरश्च्यम् (ऊ० २. २. ७) इत्युक्थानि ॥५॥
इति त्रिवृन्ति अहानि ॥ ३८ ॥


 
अतिरात्रः
त्रिवद्भ्य उत्तरमतिरात्रमाह --
ज्योतिष्टोमोऽतिरात्रः षोडशिमान् । कौत्सस्य (ऊ० १. २. १०) लोक उद्वंशीयम् (ऊ० १९. १. २) आ त्वा विशन्त्विन्दवः (सा० १६६०-२) इत्येतासु । अग्ने वाजस्य गोमतः (सा० १५६१-३) उषस्तच्चित्रमाभर (सा० १७३१-३) अश्विना वर्तिरस्मद् ( सा० १७३४-६ ) इत्येतासूष्णिक्षु श्रुध्यं संधिषाम (ऊ० ११.१. ७; १९. १. ५, ६) ॥ इति ॥१॥
इति अतिरात्रः ॥ ३९॥
 
दश पञ्चदशा: उक्थ्याः
पञ्चदशानां दशानां प्रथममाह --
अथ यदेव कुसुरुबिन्दस्य राथन्तरं पञ्चदशमहस्तदेतत् । तस्य
गौरीवितमनुष्टुभि ॥ १॥
इति । उपास्मै गायता नरो-दविद्युतत्या रुचा (सा० ६६१-६) एते असृग्रमिन्दवो-राजा मेधाभिरीयते (सा० ८३०-५) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च । पुनानः सोम धारये-(सा० ६७५-६)ति रौरव-(ऊ० १. १. २)यौधाजये (ऊ० १.१.३) । औशन-( ऊ० १. १. ४) मन्त्यम्। रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१.५) च नौधसं (ऊ० १. १. ६) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-१)ति गायत्र-संहिते (ऊ० १. १.८)। अया पवस्व देवयुः ( सा० ७७२ ) पवते हर्यतो हरिर् (सा० ७७३) इति सफ-(ऊ० १.१. ९)पौष्कले (ऊ. १. १. १०)। पुरोजिती वो अन्धस
(सा० ६६७-९) इति गौरीविता-(ऊ. ४. १. १३ )न्धीगवे (ऊ. १. १. १२)। काव-( ऊ० १. १. १३ )मन्त्यम् । उष्णिक्ककुभौ गौरीवितं चैकर्चाः । यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम । प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्णं (ऊ. २. २. ६) तैरश्च्य (ऊ० २. २. ७)मित्युक्थानि । सर्वं पञ्चदशम् ॥ १॥

499
सत्राणि--पञ्चदशा उक्थ्याः [अ. ९., ख. ४०]

द्वितीयं पञ्चदशमाह - यद् बार्हतं पञ्चदशं तदुत्तरम् । पवमानस्य ते कवे (सा० ६५७-९) इति पर्यासो माधुच्छन्दसस्य (ऊ० ७.१.३) लोके कालेयम् (ऊ० ९.१.४ )। गौरीवित-(ऊ० ४.१.१३)मनुष्टुभि ॥ २ ॥
इति । पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि ( सा० ७५५-८४) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्निं दूत-(सा० ७९०-२)मित्याज्यानि । वृषा पवस्व धारये-(सा०८०३-५)ति गायत्रं च हाविष्मतं (ऊ० ७. १. १) च । पुनानः सोम धारये(सा० ८०३-५)ति आयास्ये (ऊ० १. २. २० । २. १. १)। वृषा शोण (सा० ८०६-९) इति पार्थ-(ऊ० ७. १.६)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० २. १. ३) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७ ) इति गायत्र-मोक्षे (ऊ० ४. १. १०)। पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सत्रासाहीय-(ऊ० ९. २. ७)श्रुध्ये (ऊ० ९. १. २०)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं (ऊ० २. १. ८) च क्रौञ्चं (ऊ० २.१.९ ) च । वृषा मतीना-(सा० ८२१-३)मिति याम-(ऊ. २. १. १०)मन्त्यम् । ककुबुष्णिहौ गौरीवितं चैकर्चाः । यज्ञायज्ञीय-(ऊ० १.१.१४) मग्निष्टोमसाम । साकमश्वं (ऊ० १. १. १५) सौभर-(ऊ० १. १. १६)माष्टादंष्ट्र-( ऊ० २. १. १२ )मित्युक्थानि । सर्वं पञ्चदशम् ॥ २॥ उत्तराणि पञ्चदशान्याह --
एताभ्यामेव विपर्यासमादशमादह्नः ॥३॥
इति । राथन्तरेण पञ्चदशेन तृतीयम्, बार्हतेन चतुर्थम् इत्येवं व्यत्यासेन दशमं पञ्चदशेन समम् । यावत् क्लृप्तिः ॥ ३॥
तत्र दशमस्य विशेषमाह--
दशमस्याह्नः आष्टादंष्ट्रस्य लोके नार्मेधम् (उ० १. १. १७) । प्रत्यस्मै पिपीषत ( सा० ७९०-३) इति नानदं (ऊ० १०. १. १) षोडशिसाम ॥४॥
इति । षोडशिसंस्थमेतदहः । उक्थ्यत्वं विधाय षोडशिमद्दशम (आप० श्रौ० २३. ७. ३)मिति वचनात् । अनुष्टुप्सु नानदमित्येतदस्मिन्नहनि ॥४॥
इति दश पञ्चदशा उक्थ्याः ॥ ४० ॥


उत्तरः अतिरात्रः
पञ्चदशेभ्य उत्तरमतिरात्रमाह--
ज्योतिष्टोमोऽतिरात्रः षोडशिमानविक्लृप्तः ॥ १ ॥
इति। अत्र संधिषामाभिप्रेत्य बृहतीषु रथन्तर-(तां० ब्रा० २४.११.७)मिति श्रुतावुक्तम् ॥
इति उत्तरः अतिरात्रः ॥४१॥


द्वादश सप्तदशा उक्थ्याः
 सप्तदशानां प्रथममहराह--
अथ यदेव कुसुरुबिन्दस्य राथन्तरं सप्तदशमहस्तदेतत् । तस्य मैधातिथस्य लोके बृहन्निधनं वार्कजम्भम् (र० २. ४. ६)। रौरवस्य मैधातिथम् (ऊ. ९. ३.६)। अग्नेरर्कस्य संहितम् ( ऊ० १. १. ८) । गौरीवित-( ऊ० ४.१. १३)मनुष्टुभि ॥ १ ॥

501
सत्राणि--सप्तदशा उक्थ्याः [अ. ९, ख. ४२]

इति । उपास्मै गायता नरो दविद्युतत्या रुचा ( सा० ६५१-६) एते असृग्रमिन्दवः (सा० ८३०-२) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ।
अग्न आ याहि वीतये (सा० १५५२- ) इत्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-५) इति गायत्रं चामहीयवं (ऊ० १.१.१) च । अभि सोमास आयव ( सा० ८५६-८) इति द्विहिंकारं (ऊ० ४. २. ७) च वार्कजम्भं यौधाजयं (ऊ० १.१.३) चौशन-(ऊ० १.१. ४)मन्त्यम् । द्विहिंकारमाद्यायाम् । यौधाजयमध्यास्यायाम् । रथन्तरं (र० १.१.१) च वामदेव्यं (र० १. १. ५) च यद् बृहन्निधनं (र० २.४. ७) मैधातिथं (ऊ० ९. ३. ६) च नौधसं (ऊ० १.१. ६) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि । स्वादिष्ठये-( सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८)। पवस्वेन्द्रमच्छे-(सा० ६९२ ; ६९४)ति सफ-(ऊ० १. १.९) पौष्कले (ऊ० १.१.१०)। पुरोजिती वो अन्धस ( सा० ६९७-९) इति गौरीविता-(ऊ० ४. १. १३)न्धीगवे (ऊ० १.१.१२)। काव-(ऊ० १. १. १३)मन्त्यम् । सफपौष्कले एकर्चयोः । यज्ञायज्ञीय(ऊ० १. १. १४)मग्निष्टोमसाम । प्रमँहिष्ठीयं (ऊ० २. २. ५ ) हारिवर्णं (ऊ० २. २. ६) तैरश्च्य-(ऊ० २. २. ७)मित्युक्थानि । सर्वं सप्तदशम् । अस्याह्नो राथन्तरस्य पूर्वेण ज्योतिष्टोमातिरात्रेण रथन्तरसंधिना संनिपाताज्जामिता मा भूदिति मध्यंदिने वार्कजम्भं कल्पितम् । तद्वशाच्च रौरवस्य मैधातिथम् ( ऊ० ९. ३.६)। त्रिवृत्पञ्चदशयोस्तु रौरवयोः पूर्वस्मिन् ज्योतिष्टोमातिरात्रे सौभर-(ऊ० १.१. १६)मुक्थानां ब्रह्मसामेत्यजामि ॥ १ ॥
द्वितीयं सप्तदशमाह--
यद् बार्हतं सप्तदशं तदुत्तरम् । पवमानस्य ते कवे (सा० ६५७-९) इति पर्यासः । माधुच्छन्दसस्य लोके कालेयं (ऊ० ९. २. ४) स्वाशिरामर्कस्य (र० ३.१. २) मौक्षम् (ऊ० १२. २. ४)। गौरीवित-(ऊ० ४. १. १३)मनुष्टुभि ॥२॥
इति । पवस्व वाचो अग्रियः -पवस्वेन्दो वृषा सुतो-वृषा सोम (सा. ७७५-८३) उत्ते शुष्मास ईरते (सा० १२०५-७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्निं दूत-(सा० ७९०-९)मित्याज्यानि । वृषा पवस्व धारये-( सा० ८०३-५ )ति गायत्रं च हाविष्मतं (ऊ० ७. १. १) च। परीतो षिञ्चता सुत-(सा० १३१३- )मिति समन्तं (ऊ० ९.१.३) च दैर्घश्रवसं (ऊ० ५. २. ४) चायास्ये (ऊ० ७. १. ४) । वृषा शोण (सा० ८०६-८) इति पार्थ-( ऊ० ७. १. ६)मन्त्यम् । शशकर्णक्लृप्ता बृहती। बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० १. १. ३) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि । यस्ते मदो वरेण्यम् ( सा० ८१५-७) इति गायत्र-मौक्षे (ऊ० ४. १. १०)। पवस्वेन्द्रमच्छे-( सा० ६९२-४ )ति सत्रासाहीय-(ऊ. ९. २. ७)श्रुध्ये (ऊ० ९.१.२०)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं (ऊ० २. १. ८) च क्रौञ्चं (ऊ. २. १. ९) च। वृषा मतीना-(सा० ८२१-३)मिति याम-(ऊ० २. १. १०)मन्त्यम् । ककुबुष्णिहावेकर्चौ । यज्ञायज्ञीय-(ऊ. १. १. १४) मग्निष्टोमसाम । साकमश्वं (ऊ० १.१.१५) सौभर-(ऊ.० १.१.१६) माष्टादंष्ट्र-(ऊ० २. १. १२)मित्युक्थानि । सर्वं सप्तदशम् ॥ २ ॥
पराणि सप्तदशान्याह --
एताभ्यामेव विपर्यासमाद्वादशादह्नः उद्धरत्युत्तरेभ्यो वार्कजम्भम् (र० २.४. ६)। यथालोकं मैधातिथ-(ऊ० ९.३.६)रौरवे (ऊ० १.१.२) ॥३॥

503
सत्राणि--पृष्ठयः षडहः [अ. ९., ख. ४४]

इति । तृतीयादिषु सप्तदशेषु पूर्वस्याह्नो बार्हतत्वाज्जाम्यभावाद्वार्कजम्भ-(र० २. ४. ६) मुद्धार्यम् । ततश्च यथास्थानं मैधातिथ-(ऊ० ९. ३. ६)रौरवे (ऊ० १.१. २) इत्यर्थः। तत्रेयं बृहत्यां क्लृप्तिः। अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारं (ऊ० ४. २. ७) च मैधातिथं (ऊ० ९. ३. ६) च रौरव-यौधाजये (ऊ० १. १. २-३) इति । इतरत् समानम् ॥ ३ ॥
द्वादशस्याह्नो विशेषमाह --
द्वादशस्याह्न उद्वंशीयान्तान्युक्थानि ॥ ४ ॥
इति ॥ ४॥
इति द्वादश सप्तदशा उक्थ्याः ॥४२।।


अतिरात्रः
सप्तदशेभ्यः परमतिरात्रमाह--
ज्योतिष्टोमोऽतिरात्रः षोडशिमान् । कौत्सस्य लोक उद्वंशीयम् (ऊ० १९. १.१)। आ त्वा विशन्त्विन्दवः (सा० १६६०-२) इत्येतास्वग्निं तं मन्ये यो वसु-( सा० १७३७-९)र्महेनो अद्य बोधय (सा० १७४०-२) प्रति प्रियतमं रथम् (सा० १७४३-५)
इत्येतासु पङ्क्तिषु रायोवाजीयं (र० ५. १. ४)संधिषाम ॥ १ ॥
इति। तदेवमेकान्नत्रिंशदहान्युक्थानि ॥१॥
इति अतिरात्रः ॥४३॥


पृष्ठ्यः षडहः
पृष्ठ्यः षडहः समूढो वा व्यूढो वा । समूढस्त्वेव ।।
इति । व्याख्यातोऽयं ग्रन्थ ऋतुषडहे। प्रथमस्याह्नोऽस्य प्रत्नानुरूप इति केचित् । नेति वयम् । पूर्वस्मिन्नतिरात्रे क्रियमाणेन सौभरेणैवाजामितायाः सिद्धत्वात् ॥ १॥
इति पृष्ठ्यः षडहः ॥४४॥


अतिरात्रः
पृष्ठ्यात् परमतिरात्रमाह --
ज्योतिष्टोमोऽतिरात्रः षोडशिमान् । औशनस्यर्क्षु वैश्वज्योतिषमन्त्यं (ऊ० १९. १. ७) यत्प्रगायते-( सा० ५३५ )ति । अबोध्यग्निः समिधा जनानाम् ( सा० १७४६-८) इदं श्रेष्ठं ज्योतिषां ज्योतिरागाद् (सा० १७४९-५१) अभीत्यग्निरुषसामनीकम् (सा० १७५२-४) इत्येतासु त्रिष्टुप्स्वौशनं (ऊ० १९. १. ८-१०) संधिषाम (ऊ० १९. १. ८-१०) ॥१॥ इति। औशनस्यासंचारार्थं तत्स्थाने वैश्वज्योतिषं कल्पितम् ॥१॥
इति अतिरात्रः ।।४५।।


द्वादश एकविंशा उक्थ्याः
एकविंशानां द्वादशानामाद्यमाह --
बभ्रवे नु स्वतवसे (सा० १४४४ ) इति पुरस्तात् पर्यासस्य षडृचम् । आमहीयवा-( ऊ० १.१.१)दुत्तरमाशुभार्गवम् (ऊ. १९. १. ११)। रौरवयौधाजये ( ऊ० १.१. २-३ ) अन्तरा मैधातिथम् (ऊ० १३. १. ७) स्वासु सफपौष्कले (ऊ० १. १. ९-१०) ॥ १॥
समानमितरमेतस्यैव राथन्तरेण पञ्चदशेन ॥२॥
इति । उपास्मै गायता नरो-दविद्युतत्या रुचा ( सा० ६५१-६ ) एते असृग्रमिन्दवो-राजा मेधाभिरीयते (सा० ८३०-५) बभ्रवे नु स्वतवसे (सा० १४४४) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्न आ याहि वीतये (सा० ६६०-७१) इत्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-५) इति गायत्रं चामहीयवं

505
सत्राणि--एकविंशा उक्थ्याः [अ. ९., ख. ४६]

(ऊ० १.१.१) चाशुभार्गवं (ऊ० १९. १. ११) च । पुनानः सोम धारये ( सा० ६७६-९ )ति रौरवं ( ऊ० १.१. २) च मैधातिथं ( ऊ० १३. १. ७) च यौधाजयं (ऊ० १.१.३) चौशन-(ऊ० १.१. ४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १. १. ६) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि । स्वादिष्ठये-( सा० ६८९-९१ )ति गायत्र-संहिते (ऊ ० १.१.८)। पवस्वेन्द्रमच्छे (सा० ६९२, ६९४)ति सफपौष्कले (ऊ० १.१.९-१०)। पुरोजिती व (सा० १३१३-५) इति गौरीविता-(ऊ० ४. १. १३)न्धीगवे (ऊ० १. १. १२) । काव( ऊ० १.१.१३ )मन्त्यम् । यज्ञायज्ञीय ( ऊ० १. १. १४) मग्निष्टोमसाम । प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्णं (ऊ० २. २. ६) तैरश्च्य (ऊ० २.२.७)मित्युक्थानि । सर्वमेकविंशम् ॥ २ ॥
द्वितीयमेकविंशमाह --
प्रयद्गावो न भूर्णयः ( सा० ८९२-७) इति पुरस्तात् पर्यासस्य षडृचम् । हाविष्मता-(ऊ० ७. १. १)दुत्तरं स्वारं सौपर्णम् (ऊ० ११. २. १५) आयास्ये (ऊ. १. २. २०, २. १. १) अन्तरा दैर्घश्रवसम् (ऊ० ११. २. १६) । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देववीतये ( सा० १४२६-८) इति सत्रासाहीय-श्रुध्ये (ऊ० १९. १. १२-३) ॥३॥
समानमितरमेतस्यैव बार्हतेन पञ्चदशेन ॥ ४ ॥
इति। पवस्व वाचो-पवस्वेन्दो-वृषा सोमः-वृषा ह्यसि (सा० ७७५-८६) प्रयद्गावो न भूर्णयः ( सा० ८९२-७ ) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्निं दूत-(सा० ७९०-८०२) मित्याज्यानि । वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं च हाविष्मतं ( ऊ० ७. १. १) च स्वारं च सौपर्णम् (ऊ० ११. २.१५)। पुनानः सोम धारये-(सा० ६७५-६)ति ऐडं चायास्यं (ऊ० ७. १. ४) दैर्घश्रवसं (ऊ० ११. २.१६) च त्रिणिधनं चायास्यम् (ऊ० ७. १. ५) । वृषा शोण ( सा० ८०६-८) इति पार्थ-(ऊ० ७.१. ६) मन्त्यम् । बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१.५) च श्यैतं (ऊ० २. १. ३) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५ ) इति गायत्रमौक्षे (ऊ० ४.१.१०)। त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देव वीतये (सा० १४२६-८) इति सत्रासाहीयश्रुध्ये (ऊ०. १९. १. १२-१३)। अयं पूषा रयिर्भग ( सा० ८१८-२० ) इति गौरीवितं (ऊ० २.१.८) च क्रौञ्चं (ऊ० २.१.९ ) च । वृषा मतीना-(सा० ८२१-३)मिति याम-(ऊ० २.१.१०)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १.१. १४)मग्निष्टोमसाम । साकमश्वं (ऊ० १.१. १५) सौभर-(ऊ० १. १. १६)माष्टादंष्ट्र-(ऊ० २. १. १२)मित्युक्थानि । सर्वं सप्तदशम् ॥ ४ ॥
तृतीयादीन्येकविंशान्याह --
एताभ्यामेव विपार्यासमा द्वादशादह्नः ॥ ५ ॥
इति । तत्र नवमादीनां विशेषमाह --
नवमस्याह्नः स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१)ति गायत्रं चाग्नेश्चार्को (र० ४. ३. ९) दशमस्याह्नो यस्ते मदो वरेण्यः ( सा० ८१५-७ ) इति गायत्रं च स्वाशिरामर्कः (र० ३. २. ४) एकादशस्याभि प्रियाणी-( सा० ७००-२)ति दीर्घतमसोऽर्कोऽन्त्यो (र० ५.१. ५) द्वादशस्याह्नोऽन्तरोत्सेधनिषेधौ (र० ६. १. १३) दैर्घश्रवसम् (ऊ० ११. २. १६) ॥ ६॥
तस्यैवाह्न उद्वंशीयान्तान्युक्थानि ॥ ७ ॥

507
सत्राणि—एकान्नपञ्चाशद्रात्रं द्वितीयम् [अ. ९., ख. ४४]

इति । नवमेऽहनि संहितस्य (ऊ० १.१.८) स्थानेऽग्नेरर्कः (र० ४. ३. ९) । दशमेऽहनि मौक्षस्य (ऊ० ४. १. १०) स्वाशिरामर्कः ( र० ३. २. ४)। एकादशेऽहनि कावस्य (ऊ० १. १. १३) दीर्घतमसोऽर्कः ( र० ५. १. ५)। द्वादशेऽहनि आयास्ययोः (ऊ० १. २. २०; २. १. १) स्थाने उत्सेध-(ऊ० ६.१.११)निषेधौ ( ऊ० ६. १. १३ ) आष्टादंष्ट्रस्यो (ऊ० १४.१.२)द्वंशीयम् (ऊ० १९.१.१)। समानमितरत् ॥ ७॥
 इति द्वादश एकविंशा उक्थ्याः ।। ४६॥


अतिरात्रः
उदयनीयातिरात्रमाह --
ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः । कावस्यर्क्षु वासिष्ठम् (ऊ० १९. १.१४) अन्त्यम् यदेष प्रकोश (सा० ५५६) इति । जनस्य गोपा अजनिष्ट जागृविर् (सा० ९०७-९) एता उ तस्या उषसः केतुमक्रत (सा० १७५५-७) अबोध्यग्निर्ज्म उदेति सूर्य (सा. १७५८-६०) इत्येतासु जगतीषु कावं संधिषाम (ऊ० १९.१. १५-१७ ) ॥ १॥
इति । अत्रापि कावस्य संचारो मा भूदिति तत्स्थाने वासिष्ठक्लृप्तिः ॥ ४७॥


एकान्नपञ्चाशद्रात्रं द्वितीयम् (यमातिरात्रा:)
अतिरात्रौ द्वावभिप्लवौ षडहौ गौश्चायुश्चातिरात्रौ द्वावभिप्लवौ । षडहावभिजिच्च विश्वजिच्चातिरात्रावेकोऽभिप्लवः षडहः सर्वस्तोमश्च नव सप्तदशश्चातिरात्रौ द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च (तां० ब्रा० २४. १२. १) इति यमातिरात्रा उक्ताः । प्रायणीयोदयनीयावतिरात्रौ षोडशिमन्तावषोडशिकौ वा । प्रथमस्याभिप्लवस्याह्न एष प्रत्नानुरूपः । तत्र गोआयुषी ऐकाहिके । एते एव गोआयुषी रात्रसत्रेष्वन्यत्र यमातिरात्राभ्यश्च सांवत्सरसंमिताभ्यश्चेत्युक्तत्वात् ॥
तत्र गोष्टोमस्य विशेषमाह--
यमातिरात्रासु गोष्टोमस्य । दीर्घश्रवसस्य (ऊ० ५. २. ४) लोके कण्वरथन्तरम् (ऊ० १९.१.१८) बार्हदुक्थस्य (ऊ० ९. ३. ७) दैर्घश्रवसम् ( ऊ० ५. २. ४)। गौरीवितमनुष्टुभि (ऊ० ४. १. १३) अषोडशिकोऽतिरात्रः ॥ १ ॥
इति । आभिप्लविकस्य षष्ठस्याह्नो गोश्च बार्हतत्वादजाम्यर्थं कण्वरथन्तरक्लृप्तिः ॥ १ ॥
आयुष्टोमस्य विशेषमाह--
आयुष्टोमस्य मैधातिथस्य (ऊ० ५. ३. ६) लोके बृहन्निधनं वार्कजम्भं (र० २. ४. ६) रौरवस्य (ऊ० १. १. २) मैधातिथं (ऊ० १३. १. ७) गौरीवितमनुष्टुभि (ऊ० ४. १. १३) । हारिवर्णस्यर्क्षु (ऊ० २. २. ६) सौभरम् (सा० ८८०-२; ऊ० १९. १. १९) अषोडशिकोऽतिरात्रः ॥२॥
इति । गोष्टोमसंबन्धिनः संधेरायुषश्च राथन्तरत्वाद् अजाम्यर्थं
वार्कजम्भम् (र० २. ४. ६) आयुष्येव च पृष्ठ्यसंध्यो रथन्तरयोरजाम्यर्थं हारिवर्णस्य (ऊ० २. २. ६) स्थाने तस्यर्क्षु (सा० ८८०-२) सौभरं ( ऊ० १९. १. १९ ) विहितम् । श्रूयते हि - यदि रथन्तरसाम्ना सौभरं कुर्यादजामिता (तां.ब्रा. ८.८.१२) इति ॥ २॥
 
509
सत्राणि—एकान्नपञ्चाशद्रात्रं द्वितीयम् [अ. ९., ख. ४८]

अभिजितोऽतिरात्रस्य विशेषमाह--
अभिजितो यथा पूर्दशरात्र एवं बृहती गौरीवितमनुष्टुभि (ऊ० ४. १. १३) हारिवर्णस्य-( उ० २. २. ६ )र्क्षु (सा० ८८०-२) सौभरम् (ऊ० १९. १. १९) । षोडशिमानतिरात्रः ॥ ३ ॥
इति । अत्रापि कण्वरथन्तरसौभरयोरजाम्यर्थं क्लृप्तिः ॥ ३ ॥ विश्वजित्सर्वस्तोमयोः क्लृप्तिमाह--
क्लृप्तो विश्वजित् ॥ ४॥
क्लृप्तः सर्वस्तोमः ॥ ५ ॥
इति । एकाहप्रकरणे क्लृप्तावेतौ । तयोः सात्रिकी रात्रिः ॥ ५ ॥ नवसप्तदशस्यातिरात्रस्य विशेषमाह --
नवसप्तदशस्याभि सोमास आयवः ( सा० ८५६-.८) इति जनित्रं (ऊ० १४. १. ९) तिसृषु । रौरवमेकस्याम् (ऊ० ७. १. १३) बृहन्निधनं वार्कजम्भमेकस्याम् (र० २. ४.६) । मैधातिथमेकस्याम् (ऊ० ९. ३.६) यौधाजय-(ऊ० ८. २. १९) मध्यास्यायाम् । गौरीवितमनुष्टुभि (ऊ० ४.१.१३) । अषोडशिकोऽतिरात्रः ॥ ६ ॥
इति । अत्राप्यजाम्यर्थं बृहन्निधनं वार्कजम्भं (र० २. ४. ६) तद्वशेनागुन्तुनो मैधातिथस्य (ऊ० ९. ३.६) कल्पनं सामतृचकरणं च। उक्तमन्यत् ॥६॥
इति एकान्नपञ्चाशद्रात्रं द्वितीयं (यमातिरात्राः) समाप्तम् ॥४८॥


आञ्जनाभ्यजनाः
तृतीयमेकान्नपञ्चाशद्रात्रम्
अतिरात्रश्चत्वारोऽभिप्लवाः षडहाः सर्वस्तोमोऽतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः ( तां० ब्रा० २४. १३. १) इत्यञ्जनाभ्यञ्जना उक्ताः । आञ्जनाभ्यञ्जनासु गार्हपत्य उपसत्सु (ला० श्रौ० १०. ४. १०) इत्यादि सूत्रम् ॥
क्लृप्ता आञ्जनाभ्यञ्जनाः ।। १॥
इति । प्रथमस्याभिप्लवस्य प्रथमस्याह्नः एष प्रत्नानुरूपः । उत्तमाभिप्लवौ प्रतिलोमौ । एतेनोक्ते विधृत्यादीनां तृतीयषष्ठे (द्रा० श्रौ० ? ) इति वचनात् । सर्वेऽभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः। प्रज्ञातमितरत्सर्वम् ॥ १ ॥
इति आञ्जनाभ्यञ्जनाः ।।
तृतीयमेकान्नपञ्चाशदात्रम् समाप्तम् ॥ ४९॥


संवत्सरसंमिताः
चतुर्थमेकान्नपञ्चाशद्रात्रमेकषष्टिरात्रं च
अतिरात्रश्चतुर्विंशं प्रायणीयमहस्त्रयोऽभिप्लवाः षडहाः अभिजित्त्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजिदेकोऽभिप्लवः षडहः आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च संवत्सरसंमिताः (तां० ब्रा० २४. १४. १) उक्ताः ॥
संवत्सरक्लृप्ताः संवत्सरसंमिताः एकषष्टिरात्रं च ॥ १ ॥
इति । गवामयनेन क्लृप्ता इत्यर्थः। अतश्चाभिप्लवाः अभीवर्तब्रह्मसामानः सुज्ञानौष्णिहाः। उक्तं च-- श्यैतनौधसब्रह्मसामपौष्कलश्रुध्यौष्णिहो अन्यत्र संवत्सरसंमिताभ्य (आ० क० ९.१२. १) इति ।

511
सत्राणि--एकान्नपञ्चाशद्रात्रं पञ्चमम् [अ. ९., ख. ५१]

गोआयुषी च सांवत्सरिके । उक्तं च--एते एव गोआयुषी रात्रिसत्रेष्वन्यत्र यमातिरात्राभ्यश्च संवत्सरसंमिताभ्यश्च (आ० क० ९. ६. १) इति । तृतीयेऽभिप्लवे इषोवृधीयसंमते कुर्यान्न वा कुर्यादिति विचारे कुर्यादेवेति सिद्धान्तो निदाने स्थापितः । यस्तु विश्वजितः परोऽभिप्लव आवृत्तस्तस्य प्रथमेऽहनि यण्वापत्यसंतनि- शाक्वरवर्णानाम् , कतमत् कुर्यादिति विचारे यण्वं (र० १. २. १) तु स्यादिति निर्णयः सूत्रोक्तः ॥ १ ॥
इति संवत्सरसंमिता: समाप्ताः ।।
चतुर्थमेकान्नपञ्चाशद्रात्रमेकषष्टिरात्रं च समाप्तम् ।। ५० ॥


 
पञ्चममेकान्नपञ्चाशद्रात्रम्
सवितुः ककुभो वा
अतिरात्रो नव त्रिवृन्त्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहानि अग्निष्टोमावभितः उक्थ्यं मध्यतो नवपञ्चदशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नव सप्तदशान्यहानि अग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नवैकविंशान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च (तां० ब्रा० २४.१५.१) इति सवितुः ककुभ उक्ताः । तत्र प्रायणीयादतिरात्रात् पराणि नव त्रिवृन्त्यहानि । तेषामाद्यमग्निष्टोमसंस्थम् । पञ्चोक्थानि । अवशिष्टे त्र्यहे प्रथमोत्तमे अहनी अग्निष्टोमसंस्थे । मध्यममुक्थ्यम् । एवं पञ्चदशान्यपि नवाहानि द्रष्टव्यानि । स्तोत्रक्लृप्तिमाह--
विधृतिभिः क्लृप्ताः सवितुः ककुभः ॥१॥
इति । तत्र विशेषमाह--
राथन्तेरणाह्ना त्रिवृतः प्रतिपद्यते । बार्हतेन पञ्चदशान् । राथन्तरेण सप्तदशान् । बार्हतेनैकविंशान् ॥ २ ॥
इति। प्रतिपद्यते अरभत इत्यर्थः । एतदुक्तं भवति। विधृतिषु त्रिवृदादीनां सर्वेषां राथन्तरैरहोभिरारम्भः । इह तु न तथा । किन्तु वैधृतं यद्राथन्तरं त्रिवृदहस्तदत्र त्रिवृतं प्रथमं बार्हतं द्वितीयमित्येवं व्यत्यासेन नवमान्तं कुर्यात् । नवममहो राथन्तरं भवति । ततश्चाजाम्यर्थं वैधृतं यद् यद् बाहतं पञ्चदशं तदत्र पञ्चदशानां प्रथमं राथन्तरं द्वितीयमित्येवं व्यत्यासेन नवपञ्चदशानि कुर्यात् । बार्हतं नवमं भवति । अथ वैधृतेन राथन्तरेण सप्तदशेन सप्तदशानारभ्य व्यत्यासमा नवमात् कुर्यात् । बार्हतेनैकविंशेनैकविंशानिति ॥ २ ॥
यत्राग्निष्टोमो बार्हतमहर्यौक्ताश्वं (ऊ. १. २. १९) मध्यंदिने हाविष्मत-(ऊ० ७. १. १)मार्भवः ॥ ३॥
इति । उक्तेन प्रकारेण राथन्तरबार्हतयोरह्नोर्व्यत्यासेन क्रियमाणयोर्यत्राग्निष्टोमसंस्थं बार्हतमहर्भवति । यथा पञ्चदशैकविंशेषु च प्रथमसप्तमनवमानि । तत्र तेषां मध्यंदिने पवमाने हाविष्मतस्य (ऊ० ७. १. १) स्थाने यौक्ताश्वं (ऊ० १. २. १९) कार्यम् ।
  
513
सत्राणि--एकान्नपञ्चाशद्रात्रे षष्ठसप्तमे [अ. ९., ख. ५१]

आर्भवे मौक्षस्य (ऊ० ४. १. १०) स्थाने हाविष्मतम् (ऊ० ५. १. ५)। तथा च कुसुरुबिन्ददशरात्रे निदानम् - बार्हतेष्वहःसु यौक्ताश्वहाविष्मते अग्निष्टोमेषु हाविष्मतमौक्ष उक्थेषु । मौक्ष उक्थसामेति (नि० सू० ९. ४) ॥ ३ ॥
उद्धरत्यर्कं यो विधृतिषु ॥ ४ ॥
इति । विधृतिषु एकविंशानां नवमाद्यहःसु त्रयोऽर्काः विहिताः । तत्र दशमैकादशयोरत्राभावात् द्वर्कौ लुप्तौ । योऽपि नवमेऽग्नेरर्को विहितः स्वादिष्ठयेति गायत्रमग्नेश्चार्कः (आ० क० ९. ९. ३) इति तमुद्धृत्य संहितं (ऊ० १. १.८) तस्य स्थाने कुर्यात् । दशरात्रेऽर्काणां कार्त्स्न्येन । करिष्यमाणत्वादित्यर्थः। तथा च निदानम्--उद्धरत्यर्कं यो विधृतिषु दशरात्रे ह्यर्कान् करिष्यन् भवती-(नि० सू० १०. ४)ति ॥४॥
समानमितरम् ॥५॥
इति । विधृतिभिरिति शेषः ॥ ५ ॥
इति पञ्चममेकान्नपञ्चाशद्रात्रम् (सवितुः ककुभो वा) समाप्तम् ॥५१॥



षष्ठसप्तमे एकान्नपञ्चाशद्रात्रे
अतिरात्रश्चत्वारोऽभिप्लवाः षडहा महाव्रतं द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः (तां० ब्रा० २४. १६. १) इति षष्ठमेकान्नपञ्चाशद्रात्रमुक्तम् ।
क्लृप्तमा मध्येपृष्ठ्याद् आ मध्येपृष्ठ्याद् ॥१॥
इति । आवृत्तावुत्तमाभिप्लवौ । प्रज्ञातमितरत् ॥
अतिरात्रः षडभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च (तां०ब्रा० २४.१७.१) इति सप्तममेकान्नपञ्चाशद्रात्रस्य सर्वमुक्तम्।।१।।
इति षष्ठसप्तमे एकान्नपञ्चाशद्रात्रे समाप्ते ॥ ५२ ॥


एकषष्टिरात्रम्
अतिरात्रश्चतुर्विंशं प्रायणीयमहस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहोऽभिजित् त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भण एकोऽभिप्लवः षडह आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च (तां०ब्रा० २४. १८. १) इति एकषष्टिरात्रम्। तस्य गवामयनवदहानि कर्तव्यानि। संवत्सरक्लृप्ताः संवत्सरसंमिता एकषष्टिरात्रं च (आ० क० ९.१०.३) इत्युक्तत्वात् । आवृत्तेऽभिप्लवे च स्वयमेवैतेनोक्तम् । एकषष्टिरात्रम् इति वचनात् ॥
इति एकषष्टिरात्रम् ॥


शतरात्रम्
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चतुर्दशाभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च (तां० ब्रा० २४. १९. १)

515
सत्राणि--संवत्सररात्रम् [अ. ९., ख. ५२]

इति शतरात्रमुक्तम् । प्रथमस्याभिप्लवस्य प्रथमस्याह्नः एष प्रत्नानुरूपः। अभिप्लवाः श्यैतनौधसब्रह्मसामानः पौष्कलश्रुध्यौष्णिहाः । सांवत्सरिकं व्रतम् । सिद्धमितरत् ॥
इति शतरात्रम् ॥


संवत्सररात्रम्
अथ संवत्सरसत्राणि षट् । अतिरात्रश्चतुर्विंशं प्रायणीयमहर् (तां० ब्रा० २४. २०. १) इत्यारभ्य संवत्सरब्राह्मणं ब्राह्मणम् (तां. ब्रा० २४. २०. २) इत्यन्तेन गवामयनमुक्तम् । तस्य क्लृप्तिः पूर्वमेवोक्ता ॥
इति संवत्सररात्रं समाप्तम् ॥


इति श्रीवामनार्यसुतवरदराजविरचितायामार्षेयकल्पव्याख्यायां सत्रेषु प्रथमोऽध्याय आदितो नवमः समाप्तः ॥९॥



}}