प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ७ आर्षेयकल्पः
अध्यायः ८
मशकः
अध्यायः ९ →

अग्न आयूँषि पवस इत्यनुरूपः शग्ध्यू षु शचीपत इत्यभीवर्तो ब्रह्मसाम प्र सुन्वानायान्धस इत्यौदलदैवोदसे अभि प्रियाणीति यज्ञायज्ञीयमन्त्यं नमस्ते अग्न ओजस इति जराबोधीयमग्निष्टोमसाम स्वासु वा समानमितरं प्रथमेनाह्ना जनकस्य सप्तरात्रस्य ८-१-१

वृषा मतीनां पवत इति यज्ञायज्ञीयमन्त्यँ सौभरमग्निष्टोमसाम स्वासु समानमितरं द्वितीयेनाह्ना देवानां पञ्चरात्रस्य ८-१-२

दविद्युतत्या रुचै ते असृग्रमिन्दव इषे पवस्व धारयाग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रमेकस्यां वैरूपमेकस्याँ सौमित्रमेकस्यामा सोम स्वानो अद्रिभिरित्यन्तरिक्षं तिसृषु तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च नौधसं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं च क्षुल्लकवैष्टम्भं चा-सोता परिषिञ्चत सखाय आ निषीदतेति वाचश्च साम शौक्तं च सुतासो मधुमत्तमा इति त्वाष्ट्रीसाम चान्धीगवं च पवित्रं त इति यज्ञायज्ञीयमन्त्यँ श्रुध्यमग्निष्टोमसाम स्वासु ८-२

पवमानो अजीजनत्पुनानो अक्रमीदभि राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतं हिन्वन्ति सूरमुस्रयो ऽग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गायत्रं च त्वाष्ट्रीसाम च यदीङ्खयन्तीरित्यभि सोमास आयव इत्याष्टादँष्ट्रं चाथर्वणं चाभीशवं च स्वःपृष्ठमाङ्गिरसमु हु वा अस्येति वासिष्ठमन्त्यं बृहच्च वामदेव्यं च वयमेनमिदा ह्य इति वासिष्ठँ स्वासु पृश्नि परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च त्वँ ह्यङ्ग दैव्य सोमः पुनान ऊर्मिणेति बृहत्क क्रोशे पुरोजिती वो अन्धस इति यज्ञायज्ञीयं च क्षुल्लककालेयं च प्र त आश्विनीः पवमान धेनव इति लौशमन्त्यं विशोविशीयमग्निष्टोमसाम स्वासु ८-३

पवमानस्य विश्वविद्यत्सोम चित्रमुक्थ्यं प्र यद्गावो न भुर्णय आशुरर्ष बृहन्मते यास्ते धारा मधुश्चुतोऽग्ने स्तोमं मनूमह इति होतुराज्यँ स्वान्युत्तरानि अर्षा सोम द्युमत्तम इति गायत्रँ यण्वँ शाकलँ सोम उ ष्वाणः सोतृभिरिति वाम्रमनूपमग्नेस्त्रिणिधनमभि त्रिपृष्ठमिति संपान्त्या रथंतरं च वामदेव्यं चे न्द्रमिद्देवतातये त्वमिन्द्र यशा असीति यौक्तश्रुचं च द्विहिंकारं चासा०व्यँशुर्मदायेति गायत्रं च गौषूक्तं चाभि द्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति च्यावन वार्शे पवस्व वाजसातय इति यज्ञायज्ञीयं च रयिष्ठं च गोवित्पवस्वेति द्व्यभ्याघातं लौशमन्त्यमग्निं नर इति बृहदाग्नेयमग्निष्टोमसाम तृतीयस्याह्न उक्थानि ८-४

असृक्षत प्र वाजिन एतमु त्यं दश क्षिपो बभ्रवे नु स्वतवस इति षडृचस्य तृचमुत्ते शुष्मास ईरत एते सोमा असृक्षत यमग्ने पृत्सु मर्त्यमिति होतुराज्यँ स्वान्युत्तराणि पवमानस्य जिघ्नत इति गायत्रं चादारसृच्च परीतो षिञ्चता सुतमिति शौक्तं च यशश्चाभीशवं च प्रतोदश्च साकमुक्ष इतीहवद्वासिष्ठमन्त्यं बृहच्च वामदेव्यं च श्रायन्तीयं च पृष्ठं च त्वँ सोमासि धारयुरिति गयत्रं चा-श्वसूक्तं च स सुन्वे यो वसूनां तं वः सखायो मदायेति दीर्घं च कार्णश्रवसं च सोमाः पवन्त इन्दव इति क्रौञ्चे त्रिरस्मै सप्त धेनवो दुदुह्रिर इति मरुतां धेन्वन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ८-५

ये सोमासः परावत्यमित्रहा विचर्षणिः प्र स्वानासो रथा इवासृग्रमिन्दवः पथा ते दक्षं मयोभुवँ होता देवो अमर्त्यः प्र वो मित्राय गायतेन्द्रा याहि चित्रभानविन्द्राग्नी रोचना दिवो ऽध्वर्यो अद्रिभिः सुतमिति गायत्रं च मार्गीयवं चैडं च सौपर्ण ँ! रोहितकूलीयं च तवाहँ सोम रारणेति पौरुहन्मनं च द्वैगतं च गौङ्गवं च द्विनिधनं चायस्यं प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यँ रथंतरं च वामदेव्यं च वाशं च वैयश्वं च पवस्व देव आयुषगिति गायत्रँ स्वाशिरां चार्क ऐडँ सैन्धुक्षितमेष स्य धारया सुतो गोमन्न इन्द्र अश्ववदिति शार्कर त्रैते पुरोजिती वो अन्धस इति क्रौञ्चं गौतमं यज्ञायज्ञीयं प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यमा ते अग्न इधीमहीति स्रौग्मतमग्निष्टोमसाम ८-६

पवमान असृक्षतापघ्नन्पवते मृधः पवस्व देववीरति सना च सोम जेषि च तरत्स मन्दी धावत्यया वीती परि स्रव विश्वेभिरग्ने अग्निभिर्यदस्य सूर उदिते महाँ इन्द्रो य ओजसा तोशा वृत्रहणा हुव इन्द्रायेन्दो मरुत्वत इति दार्ढच्युतपञ्चमानि मृज्यमानः सुहस्त्येति गोष्ठपञ्चमानि हा उ हु वा इ शिशुमिति वासिष्ठमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च वैखानसं च परि स्वानो गिरिष्ठा इति गायत्रं च त्रीणि च वैदन्वतानि त्वँ ह्यङ्ग दैव्य पवस्व देववीतय इति सौपर्णं च वैश्वमनसं च परि त्यँ हर्यतँ हरिमित्याकूपारं च त्वाष्ट्रीसाम च यज्ञायज्ञीयं च यद्वाहिष्ठीयं च धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो ऽग्निं वो देवमग्निभिः सजोषा इति रायोवाजीयमग्निष्टोमसाम सैन्धुक्षितं त्रैककुभमुद्वँशीयम् ८-७

उपो षु जातमप्तुरमेष देवो अमर्त्य एष धिया यात्यण्व्यैष कविरभिष्टुत उप त्वा रण्वसंदृशमा नो मित्रावरुणा तमिन्द्रं वाजयामसीन्द्राग्नी आ गतँ सुतमुच्चा ते जातमन्धस इति गायत्रं चामहीयवं चा जिगं चाभीकं च पुनानः सोम धारयेति पौरुमद्गं चाष्कारणिधनं च काण्वं मैधातिथं चो त्सेधश्चौ शनमन्त्यँ रथंतरं च वामदेव्यं च नैपातिथं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्रं चा ग्नेश्चार्को भि द्युम्नं बृहद्यश इन्द्रमच्छ सुता इम इत्यैशिरं च रोहितकूलीयं चाभी नो वाजसातममिति श्यावाश्वं च निषेधश्च साध्रं च यज्ञायज्ञीयं च कावमन्त्यमिमँ स्तोममर्हते जातवेदस इति समन्तमग्निष्टोमसाम ८-८-१

विश्वजिदतिरात्रः ८-८-२

या बृहस्पतिसवस्य सा कुसुरुबिन्दस्य प्रथमा तस्यै जनुषैकर्चौ ८-९-१

हाविष्मतस्य लोके यौक्ताश्वँ स्वाशिरामर्कस्य हाविष्मतँ शङ्कुसुज्ञानयोः सत्रासाहीयश्रुध्ये उद्धरत्युक्थानि समानमितरं द्वितीयेनाह्ना जनकसप्तरात्रस्य ८-९-२

या पूर्वा सोत्तरा ८-९ -३

पवस्वेन्द्रमच्छेति सत्रासाहीय श्रुध्ये वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरआष्टादँष्ट्रमित्युक्थानि समानमितरं द्वितीयेनाह्ना त्रिककुभः ८-९-४

एते असृग्रमिन्दवो राजा मेधाभिरीयत इति पुरस्तात्पर्यासस्य तृचे जनुषैकर्चयोः सफपौष्कले तृतीयस्याह्न उक्थानि समानमितरं ज्योतिष्टोमेन ८-९-५

या पूर्वा सोत्तरा ८-९-६

तीव्रसुत आज्यबहिष्पवमानं मध्यंदिनश्च सँहितस्य लोकेऽग्नेर्रकः समानमितरमेतस्यैव राथंतरेण पञ्चदशेन ८-९-७

द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानं बृहती च पवमानस्य ते वयमिति पर्यासो मौक्षस्य लोके स्वाशिरामर्कः समानमितरमेतस्यैव बार्हतेन पञ्चदशेन ८-९ -८

या पूर्वा सोत्तरा तस्याग्नेरर्कस्य लोके सँहितं कावस्य दीर्घतमसोऽर्क उद्वँशियान्तान्युक्थानि ८-९-९

एकविँशोऽतिरात्रो य एकस्तोमानामुत्तमस्तस्य स्तोमान्वयी षोडशी ८-९-११

पृष्ठ्यावलम्बस्य पञ्चाहः प्रथमस्याह्नः प्रत्नवद्बहिष्पवमानम्पञ्चमस्याह्नो ऽसृक्षतेत्यनुरूपो ८-१०-१

ये सोमासः परावतीति प्रतिपदृतावाणं वैश्वानरमिति होतुराज्यं कण्वरथंतरस्य लोके सोमसाम प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यमत्रेयँ स्वरः प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यँ समानमितरँ सप्तमेनाह्ना द्वादशाहस्य ८-१०-२

हिन्वन्ति सूरमुस्रय इति प्रतिपद्विश्वेभिरग्ने अग्निभिरिति होतुराज्यमु हु वा इ शिशुमिति वासिष्ठमन्त्यँ कौत्सँ स्वरो हा उ धर्तेत्यैडँ शार्गमन्त्यँ समानमितरमष्टमेनाह्ना द्वादशाहस्यो ८-१०-३

उपोषु जातमप्तुरमिति प्रतिपदुप त्वा रण्वसंदृशमिति होतुराज्यँ हा उ हु वा अक्रानिति वासिष्ठमन्त्यं परि त्यं हर्यतँ हरिमिति गौरीवितलोक आसितमेकस्यां दीर्घतमसोऽर्क एकस्यामाकूपारमेकस्यां यत्स्वयोन्यसावि सोमो अरुषो वृषा हरिरित्यैडं यामँ समानमितरं नवमेनाह्ना द्वादशाहस्य ८-१०-४

अन्तरोत्सेधनिषेधौ मैधातिथआ जागृविरित्यौशनमन्त्यँ स्वासु रथंतरवामदेव्ये परि प्र धन्वेति वाजजित्सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम समानमितरं दशमेनाह्ना द्वादशाहस्य ८-१०-५

विश्वजिदतिरात्रः ८-१०-६

त्रिष्टोमोऽग्निष्टोमोऽयमेव तस्य सवनभाज स्तोमाः समावद्भाजो वा ८-११-१

ज्योतिरुक्थ्यस्तस्य साहस्रं बहिष्पवमानं यथा प्रथमस्य सँहितस्य लोके मौक्षं नार्मेधस्याष्टादँष्ट्रमुद्धरति रात्रिँ समानमितरं द्वितीयेनैकस्तोमेन ८-११-२

या पूर्वा सोत्तरा ८-११-३

गौरुक्थ्यो ८-११-४

अभिजिदग्निष्टोमस्तस्याभिजितः पुनानः सोम धारयेत्यभीवर्तस्तिसृषु रौरवमेकस्यां कण्वरथंतरमेकस्यां मैधातिथमेकस्यां यौधाजयं तिसृषु यद्यु वै कण्वरथंतरं तृचस्थं चिकीर्षेदभीवर्तकण्वरथंतरे अन्योन्यस्य स्थानं व्यतिहरेत्कण्वरथंतरयौधाजये वा समानमितरं ८-११-५

या पूर्वा सोत्तरा ८-११-६

विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्र एकाहकॢप्ताः ८-११-७

पृष्ठ्यावलम्बस्य पञ्चाहः पृष्ठ्यस्तोमस्य षष्ठमहर्वैदन्वतेभ्य उत्तरम्पयः षट्त्रिँशं तृतीयसवनँ सोक्थं त्रयश्छन्दोमा एवमेव समूढाः पुनः कण्वरथंतरँ स्वं लोकमेति चतुष्टोमयोः पूर्वो विश्वजिदतिरात्रो विश्वजिदतिरात्रः ८-११-८

विवृति

अष्टमोऽध्यायः
त्रिककुब्दशरात्रः
अथ दशरात्राश्चत्वारः । त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः त्रिवृदग्निष्टोमः सप्तदशोऽग्निष्टोम एकविंश उक्थ्यः । सप्तदशोऽग्निष्टोमस्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिंश उक्थ्यस्त्रिणवोऽग्निष्टोमो विश्वजिदतिरात्रः (तां० ब्रा० २२. १४) इत्यनुवाकेन त्रिककुब्दशरात्र उक्तः । तत्र प्रथमस्याह्नः कल्पः --
अग्न आयूंषि पवसे (सा० १५१८-२०) इत्यनुरूपः । शग्ध्यूषु शचीपते (सा० १५७९-८०) इत्यभीवर्तो (ऊ० ११. २.६) ब्रह्मसाम । प्र सुन्वानायान्धस (सा० १३८६-८) इत्यौदल-(ऊ० ७. २. १९) दैवोदासे (ऊ० १६. १. १४) । अभि प्रियाणी-(सा० ७००-२)ति यज्ञायज्ञीयम् (ऊ. १६.१.१५) अन्त्यम् ॥ १ ॥
नमस्ते अग्न ओजस (सा० १६४८-५०) इति जराबोधीयमग्निष्टोमसाम (ऊ० १६. १. १६) स्वासु वा (सा० १६६३- ५, ऊ० १४. १. ५) ॥ २॥
समानमितरं प्रथमेनाह्ना जनकस्य सप्तरात्रस्य ॥३॥
इति । उपास्मै गायता नर (सा० ६५१-३) अग्न आयूंषि पवसे ( सा० १५१८-२०) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । अग्न आ याहि वीतये (सा० ६६०-७१) इत्याज्यानि । प्र सोमासो विपश्चितः (सा० ७६४-६) इति गायत्रमाश्वं (ऊ० ६.२.१२) सोमसामे-(ऊ० १४.१.१३)ति सामतृचः । प्र सोम देववीतये (सा० ७३७-८) इति यौधाजयं (ऊ० १. २. १३) तिसृषु । औशन-(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च । शग्ध्यूषु शचीपते (सा० १५७९-८०) इत्यभीवर्तः (ऊ० ११.२.६) स्वासु कालेय-(ऊ० १.१.७)मिति पृष्ठानि । स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१)ति गायत्रसंहिते (ऊ० १.१.८)। अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरि-(सा० ७७३)रिति सफ-(ऊ० १.२.१५) पौष्कले (ऊ० १.२.१६) । प्र सुन्वानायान्धस (सा० १३८६-८) इत्यौदल-(ऊ० ११.२.३)दैवोदासे (ऊ० १६.१.१४) । अभि प्रियाणीति यज्ञायज्ञीयमन्त्यम् । अन्त्यमर्जमेकर्च्चाः । नमस्ते अग्न ओजसः (सा० १६४८-५०) इति जराबोधीय-(ऊ० १६.१.१६)मग्निष्टोमसाम। स्वासु वा (ऊ० १६६३-५, ऊ० १४.१.५) । तस्य गायत्री छन्दः। सर्वं त्रिवृत् ॥ ३॥
इति प्रथममहः ।।१।।
 ---------
द्वितीयमहः
द्वितीयस्याह्नः कल्पः --
वृषा मतीनां पवते (सा० ८२१-३) इति यज्ञायज्ञीयमन्त्यम् (ऊ० १६.१.१७) । सौभरम् ( ऊ० १.१.१६) अग्निष्टोमसाम स्वासु ॥१॥
समानमितरं द्वितीयेनाह्ना दवोनां पञ्चरात्रस्य ॥ २॥
इति । पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि-पवमानस्य ते वयम् ( सा० ७७५-८९ ) इति बहिष्पवमानम् । अग्निं दूतं वृणीमहे ( सा० ७९०-८०२) इत्याज्यानि । वृषा पवस्त्र धारये-(सा० ८०३-५)ति गायत्रं च हाविष्मतं (ऊ० ७.१.१) च । पुनानः सोम धारये-(सा० ६७५-७)त्यायास्ये । वृषा शोण (सा० ८०६-८) इति पार्थ-( ऊ० ७.१.६ )मन्त्यम् । बृहच्च (र०

407
अहीनः-त्रिककुब्दशरात्रः [अ. ८. खं. ३)

१. १. ५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० २. १. ३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्र-मौक्षे (ऊ० ४.१.१०)। पवस्वेन्द्रमच्छे-(सा० ६१२, ४)ति शङ्कु-(ऊ० २.१.६)सुज्ञाने (ऊ.० २. १.७) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति आसित-(ऊ० ११. २.२०) क्रौञ्चे (ऊ० २.१.९) । वृषा मतीना-(सा० ८२१-३ )मिति यज्ञायज्ञीय-(ऊ०१६.१.१७)मन्त्यम्। शङ्कुसुज्ञानासीतान्येकर्च्चानि । सौभर-(ऊ० १.१.८)मग्निष्टोम स्वासु । तस्य ककुप्छन्दः । औशन-(ऊ० १.१.४)मौपगव-(ऊ०१०.२.१)माष्टादंष्ट्र-(ऊ० २.१.१२) मित्युक्थानि । सर्वं पञ्चदशम् ॥ २ ॥
इति द्वितीयमहः ॥२॥
तृतीयमहः
तृतीयस्याह्नः --
दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः (सा० ८३०-२) इषे पवस्व धारय (सा० ८४१-३) अग्निनाग्निः समिध्यते (सा० ८४४-५५) इत्याज्यानि ॥ १ ॥
इति बहिष्पवमानम् ॥
उच्चा ते जातमन्धसः ( सा० ६७२-४) इति गायत्रमेकस्याम् वैरूपमेकस्याम् (ऊ० ७.१.१२) । सौमित्रमेकस्याम् (ऊ० १६. १. १९)। आ सोम स्वानो अद्रिभिर् (सा० १६८९-९०) इत्यन्तरिक्षं तिसृषु (र० ४.१.९)। तिस्रो वाच -(सा० ८५९-६१) इत्यङ्गिरसां संक्रोशोऽ-( ऊ० २.१. १७)न्त्यः ॥ २॥
[इति माध्यंदिनः पवमानः ॥

रथन्तरं (र० १.१.१) च वामदेव्यं च (ऊ० १.१. ५) नौधसं (ऊ० १.१.६) च रौरवं (ऊ० १. १. २) च ॥३॥
इति पृष्ठानि ॥
तिस्रो वाच उदीरत (सा० ८६६-७१) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० ७. १. १६) चा सोता परि षिञ्चत (सा० १३९४-५) सखाय आ निषीदते-( सा० ११५७-९ )ति वाचश्च साम (ऊ० ७. १. १७) शौक्तं (ऊ० ७.१.१८) च । सुतासो मधुमत्तमा (सा० ८७२-४) इति त्वाष्ट्रीसाम (ऊ. १५. २. १०) चान्धीगवं (ऊ० ६.१.२०) च । पवित्रं त ( सा० ८७५-७) इति यज्ञायज्ञीयम् (ऊ० १५.१.१) अन्त्यम् ॥ ४ ॥
[इत्यार्भवः पवमानः ॥]
अन्त्यव्यतिरिक्ता एकर्चाः ॥ ४॥
श्रुध्यम् (ऊ० ११.१.७) अग्निष्टोमसाम स्वासु (सा० १५६१-३) ॥५॥
तस्योष्णिक्छन्दः। सर्वं त्रिवृत् ॥ ५ ॥
इति तृतीयमहः ॥३॥


चतुर्थमहः
चतुर्थस्याह्नः --
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) राजामेधाभिरीयते (सा० ८३३-५ ) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) ॥१॥
इति बहिष्पवमानम् ॥

409
अहीनः --त्रिककुब्दशरात्रः [अ. ८. ख.४]

अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८) इति होतुराज्यम् । स्वान्युत्तराणि ॥२॥
अयं वां मित्रावरुणा-इन्द्रो दधीचो अस्थभिः-इयं वामस्य मन्मनः (सा० ९१०-१८) इत्याज्यानि ॥२॥
पवस्व दक्षसाधनः (सा० ९१९-२१) गायत्रं च त्वाष्ट्रीसाम च (ऊ० १६. २. १)। यदीङ्खन्तीर् (सा० १७५) इत्यभि सोमास आयव (सा० ८५६-८) इत्याष्टादंष्ट्रं (ग्रा० गे० ५.७.१७५.१ , ऊ० १६.२.२) चार्थवणं (र० ४.३.७) चाभीशवं (ऊ० १६.२.३) च स्वःपृष्ठमाङ्गिरसम् (ऊ० १६. २.४)। उहुवा वासिष्ठम् (ऊ० ७. २. ६) अन्त्यम् ॥३॥
 [इति माध्यं दिनः पवमानः ॥]
आष्टादंष्ट्रं प्रथमायाम् । स्वःपृष्ठमाङ्गिरसमध्यास्यायाम् ॥३॥
बृहच्च (र० १.१. ५) वामदेव्यं ( ऊ० १.१.५) च वयमेनमिदाह्य (सा० १६६१-२) इति वासिष्ठम् ( ऊ० १६. २.५ ) । स्वासु (सा० ९३३-४) पृश्नि (ऊ० २.२.१४)॥४॥
 इति पृष्ठानि॥
परि प्रिया दिवः कविर् (सा० ९३५-७) इति गायत्रं चौर्णायवं च (ऊ० ७. २. ८) त्वं ह्यङ्ग दैव्य (सा० ९३८-९) सोमः पुनान ऊर्मिणे-( सा० ९४०-२ )ति बृहत्क-(ऊ० २. २. १६ )क्रोशे (ऊ० १५. २. ११) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति यज्ञायज्ञीयं (ऊ० ८. २. १६) च क्षुल्लककालेयं (ऊ० १६.२.६ ) च। प्र त आश्विनीर् (सा० ८८६-८) इति लौशम् (ऊ० ८.२.२) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः ।।]
बृहत्कक्रोशे एकर्चयोः ॥ ५ ॥
विशोविशीय-( ऊ० १५. १. २)मग्निष्टोमसाम स्वासु (सा०
१५६४-६ ) ॥६॥
तस्यानुष्टुप्छन्दः । सर्वं सप्तदशम् ॥६॥
इति चतुर्थमहः ।। ४ ॥


पञ्चममहः
पञ्चमस्याह्नः --
पवमानस्य विश्वविद् (सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् (सा० ९९९-१००१) प्र यद्गावो न भूर्णयः (सा० ८९२-७) आशुरर्ष बृहन्मते (सा० ८९८-९०३) यास्ते धारा मधुश्चुतः (सा० ९७९-८१) ॥१॥
इति बहिष्पवमानम् ॥
अग्ने स्तोमं मनामहे (सा० १४०५-७ ) इति होतुराज्यम् । स्वान्युत्तराणि ॥ २॥ पुरूरुणा चिद्धयस्ति-उत्तिष्ठन्नोजसा सह-इन्द्राग्नी युवामिमे ( सा० ९८५-९) इत्याज्यानि ॥२॥
अर्षा सोम द्युमत्तम (सा० ९९४-६ ) इति गायत्रं यण्वं (र० १. २. १) शाकलम् (ऊ० १३. १.३)। सोम उष्वाणः सोतृभिर् (सा० ९९७-८ ) इति वाम्रम् (ऊ० ३.१.७) आनूपम् (ऊ० ३.१.६) अग्नेस्त्रिणिधनम् (ऊ० ३.१.८)। अभि त्रिपृष्ठम् (सा० १४०८-१०) इति सम्पा-(ऊ० ७. २. १७)न्त्या ॥३॥
[इति माध्यंदिनः पवमानः ॥]
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) चेन्द्रमिद्देवतातये ( सा० १५८७-८) त्वमिन्द्रयशा असी-(सा०

411
अहीनः --त्रिककुब्दशरात्रः [अ. ८. ख. ६]

१४११-२)ति यौक्तस्रुचं (ऊ० ११. २. १२) च द्विहिंकारं (ऊ० १६. २. ७) च ॥ ४ ॥
 इति पृष्ठानि ॥
असाव्यंशुर्मदाये-( सा० १००८-१०)ति गायत्रं च गोषूक्तं (ऊ० ७. २. १९) चाभिद्युम्नं बृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति च्यावन-( ऊ० ३. १. ११)वार्शे (ऊ० १६. २. ८)। पवस्व वाजसातये (सा० १०१६-८) इति यज्ञायज्ञीयं (ऊ० १६. २. ९) च रयिष्ठं (ऊ० ८. १. १) च । गोवित्पवस्वे-( सा० ९५५-७ )ति द्व्यभ्याघातं लौशम् (ऊ० ८. २. ७) अन्त्यम् ॥ ५ ॥
[ इत्यार्भव: पवमानः ॥]
अग्निं नर (सा० १३७३-५) इति बृहदाग्नेयमग्निष्टोमसाम ( ऊ० १६. २. १०) ॥६॥ तस्य विराट् छन्दः ॥ ६॥
तृतीयस्याह्न उक्थानि ॥ ७॥
प्रमंहिष्ठीयं हारिवर्णं तैरश्च्य-( ऊ० २. २. ५-७ )मित्युक्थानि । सर्वमेकविंशम् ॥ ७ ॥
इति पञ्चममहः ॥ ५॥


षष्ठमहः
षष्ठस्याह्नः --
असृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) बभ्रवे नु स्वतवसे (सा० १४४४-९) इति षडृचस्य तृचम् ( सा० १४४४-६)। उत्ते शुष्मास ईरते (सा० १२०५-९) एते सोमा असृक्षत (सा० १०६१-३) ॥ १ ॥
इति बहिष्पवमानम् ॥

यमग्ने पृत्सु मर्त्यम् (सा० १४१५-७) इति होतुराज्यम् । स्वान्युत्तराणि ॥२॥
प्रति वां सूर उदिते-भिन्धि विश्वा अपद्विषः-यज्ञस्य हि स्थ ऋत्विजे-(सा० १०६७-७५)त्याज्यानि ॥२॥
 
पवमानस्य जिघ्नतः (सा० १३१०-२) इति गायत्रं चादारसृच्च (ऊ. ५. १. १४)। परीतो षिञ्चता सुतम् (सा० १३१३-५) इति शौक्तं (ऊ० ) च यश-(र० १. ३.६)श्चाभीशवं (ऊ० ५. २. ६) च प्रतोदश्च (ऊ. १६. २. ११)। साकमुक्ष (सा० १४१८-९) इतीहवद्वासिष्ठम् (ऊ० ८. १. ७) अन्त्यम् ॥ ३ ॥
[इति माध्यंदिनः पवमानः ॥]
शौक्तं प्रथमायाम् । प्रतोदोऽध्यास्यायाम् ॥ ३ ॥
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च श्रयन्तीयं (ऊ० ५. २. ९) च पृष्ठं (ऊ० १६. २. १२) च ॥४॥
इति पृष्ठानि ॥
 
त्वं सोमसि धारयुर् (सा० १३२३-५) इति गायत्रं चाश्वसूक्तं (ऊ० ५. २. ११) च । स सुन्वे यो वसूनाम् (सा० १०९६-७) तं वः सखायो मदाये-( सा० १०९८-१०० )ति दीर्घं (ऊ० ३. २. ११) च कार्णश्रवसं (ऊ० ३. २. १२) च । सोमाः पवन्त इन्दवः ( सा० ११०१-३) इति क्रौञ्चे (ऊ० ३. २. १५-६) । त्रिरस्मै सप्त धेनवो दुदुहिरे ( सा० १४२३-५ ) इति मरुतां धेनु (ऊ. ८. १. १२) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः ॥]

413
अहीनः--त्रिककुब्दशरात्रः [अ. ८. ख.७]
 
दीर्घकार्णश्रवसे एकर्चे ॥५॥
यज्ञायज्ञीय-(ऊ० १.१. १४)मग्निष्टोमसाम । ६ ॥
सर्वं सप्तदशम् ॥६॥
इति षष्ठमहः ॥ ६॥


सप्तममहः
सप्तमस्याह्नः --
 
ये सोमासः परावति ( सा० ११६३-५) अमित्रहा विचर्षणिः (सा० १३४७-९) प्र स्वानासो रथा इव (सा० १११९-२७ ) असृग्रमिन्दवः पथा (सा० ११२८-३६) आ ते दक्षं मयोभुवम् ( सा० ११३७-९ ) ॥१॥
इति बहिष्पवमानम् ॥
बभ्रवे नु स्वतवस ( सा० १४४४-९ ) इति षडृचस्य पूर्वस्तृचः पूर्वस्मिन्नहनि विनियुक्तः। उत्तम उत्तरस्मिन्नहनि विनियुज्यते अमित्रहाविचर्षणि-(सा० १४४७-९)रिति । तथा च निदानम् --बभ्रवे नु स्वतवसे इति षडृचः षष्ठसप्तमयोर्विहरति सन्तानार्थ (नि०सू० ९.३) इत्यादि ॥१॥
होता देवो अमर्त्यः (सा० १४७७-९) प्र वो मित्राय गायत (सा० ११४३-५ ) इन्द्रायाहि चित्रभानव् ( सा० ११४६-८) इन्द्राग्नी रोचना दिवः (सा० १६९३-५) ॥२॥
इत्याज्यानि ॥
अध्वर्यो अद्रिभिः सुतम् ( सा० १२२५-७) इति गायत्रं च मार्गीयवं (ऊ० ४. २. २) चैडं च सौपर्णम् (ऊ० १६.२.१३) रोहितकूलीयं (ऊ० १६. २. १४) च। तवाहं सोम रारणे(सा० ९२२-३)ति पौरुहन्मनं (ऊ. १६. २. १५ ) च द्वैगतं (ऊ० १६. २. १६) च गौङ्गवं (ऊ० १६. २. १७) च द्विनिधनमायास्यम् (ऊ० १६. २. १८)। प्र काव्यमुशनेव ब्रुवाण (सा० १११६-८) इति वाराहम् (ऊ० १६. २. १९) अन्त्यम् ॥३॥
[इति माध्यंदिनः पवमानः ॥]
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च वाशं (ऊ० १६९६-८, १६. २. २०) च वैयश्वं (ऊ० ४. २. १६) च ॥४॥
इति पृष्ठानि ॥
पवस्व देव आयुषग् (सा० १२३५-७) इति गायत्रं स्वाशिरामर्कः (र० १. ३. २) ऐडं सैन्धुक्षितम् (ऊ० १७.१.१) । एष स्य धारया सुतो ( सा० १२३४-५) गोमन्न इन्द्र अश्ववद् (सा० १६११-३) इति शार्कर-(ऊ० ४. १. ११) त्रैते (ऊ० १७. १. २)। पुरोजिती वो अन्धस (सा० ६९७-९) इति क्रौञ्चं (ऊ० १७. १. ३) गौतमं ( ऊ० १७. १. ४) यज्ञायज्ञीयम् (ऊ० ८. २. १६)। प्रो अयासीद् (सा० ११५२-४) इति ऐडं यज्ञसारथि (ऊ० १७. १. ५) अन्त्यम् ॥५॥
[इति आर्भव: पवमानः ॥]
आ ते अग्न इधीमही-(सा० १०२२-४ )ति स्रौग्मत-(ऊ० १७.१.६)मग्निष्टोमसाम ॥६॥ तस्य पङ्क्तिश्छन्दः। सर्वं त्रिणवम् ॥ ६ ॥
इति सप्तममहः ॥७॥



415
अहीनः--त्रिककुब्दशरात्रः [अ. ८. ख. ८)

अष्टममहः
अष्टमस्याह्नः --
पवमाना असृक्षत (सा० १६९९-७०० ) अपघ्नन् पवते मृधः (सा० १२१३-५) पवस्व देववीरति (सा० १०३७-४६) सना च देव जेषि च ( सा० १०४७-५६) तरत् स मन्दी धावति (सा० १०५७-६० ) अया वीती परिस्रव ( सा० ११५०-२) ॥१॥
इति बहिष्पवमानम् ॥
 
विश्वेभिरग्ने अग्निभिर् ( सा० १६१७-९ ) यदद्य सूर उदिते (सा० १३५१-३) महाँ इन्द्रो य ओजसा (सा० १३०७-९) तोशा वृत्रहणा हुवे (सा० ११०२-४) ॥२॥
इत्याज्यानि ॥
इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८) इति दार्ढच्युतपञ्चमानि
(ऊ० ३. १. १६-२०, ३. २. १ , १६. १. १३) ॥
गायत्रं चेषोवृधीयं (ऊ० ३.१.१९) च क्रौञ्चं (ऊ० ३.१.२०) च वाजदावर्यश्च (ऊ० ३.२.१) दार्ढच्युतम् (ऊ० १६.१.१३)।
मृज्यमानः सुहस्त्ये-( सा० १०७९-८० )ति गोष्ठपञ्चमानि (ऊ० ३. २. १-५) ॥ औक्ष्णोरन्ध्रे (ऊ० ३. २. १-२) च वाजजित् (ऊ० ३. २. ३) वरुणसाम (ऊ० ३. २. ४) गोष्ठं (ऊ० ३. २. ५) च ॥
हा उहुवाइ शिशु-(सा० १३७५-७)मिति वासिष्ठम् (ऊ० १२.१.७) अन्त्यम् ॥३॥
[इति माध्यंदिनः पवमानः ॥]
बृहच्च (र० १. १. ५) वामदेव्यं च (ऊ० १.१. ५) त्रैशोकं च (ऊ० २. २. १३) वैखानसं च (ऊ० ४. १. ९) ॥४॥
। इति पृष्ठानि ॥
परि स्वानो गिरिष्ठा ( सा० १०९३-५ ) इति गायत्रं च त्रीणि च वैदन्वतानि (ऊ० ३. २. ८-१०) त्वँ ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देववीतय (सा० १३२६-८) सौपर्णं च (ऊ० ५. २. १६) वैश्वमनसं (ऊ० ५. २. १७) च । परि त्यं हर्यतं हरिम् (सा० १३२९-३१) इति आकूपारम् (ऊ० ६. १. ३) च त्वाष्ट्रीसाम (ऊ० १७. १.८) च यज्ञायज्ञीयं (ऊ० १७.१.९) च यद्वाहिष्ठीयं (ऊ० ५.२.२०) च । धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽ-(र० ३. १.१०)न्त्यः ॥ ५ ॥
- [इति आर्भवः पवमानः ॥]
अग्निं वो देवमग्निभिः सजोषा (सा० १२१९-२०) इति रायोवाजीयमग्निष्टोमसाम (र० ४. २. १) ॥६॥
सैन्धुक्षितं (ऊ० २. २. २०) त्रैककुभम् (ऊ० ६.१.७) उद्वंशीयम् (ऊ० ६. १.८) ॥७॥
इत्युक्थानि॥
सर्वं त्रयस्त्रिंशम् ॥ ७ ॥
इति अष्टममहः ॥ ८॥


नवममहः
नवमस्याह्नः ---
उपोषु जातमप्तुरम् ( सा० १३३५-७) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) एष कविरभिष्टुतः (सा० १२८६-९१) ॥१॥
इति बहिष्पवमानम् ॥

417
अहीनः --त्रिककुब्दशरात्रः [अ.८ . ख. ९]
 
उप त्वा रण्वसंदृशम् (सा० १७०५-७) आ नो मित्रावरुणा ( सा० ६६३-५) तमिन्द्रं वाजयामसि (सा० १२२२-४) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) ॥ २ ॥
इत्याज्यानि ॥
उच्चा ते जातमन्धस (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) चाजिगं (ऊ० ६. १. ९) चाभीकं (ऊ० ६.१.१०) च । पुनानः सोम धारये-( सा० ६७५-६ )ति पौरुमद्गं (ऊ० १७. १. १०) चाक्षारणिधनं च काण्वं (ऊ. १७.१.११) मैधातिथं (ऊ० १३. १. ७) चोत्सेधश् (ऊ० ६. १. २)चौशनम् (ऊ० १.१. ४) अन्त्यम् ॥३॥
[ इति माध्यंदिनः पवमानः ॥]
रथन्तरं च (र० १.१.१) वामदेव्यं ( ऊ० १.१.५) च नैपातिथं (ऊ० ४. २. १५) च कालेयं (ऊ० १.१.७) च ॥४॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१)ति गायत्रं चाग्नेश्चार्कोऽ(र० ४. १. १२)भि द्युम्नं बृहद्यशः ( सा० १०११-२) इन्द्रमच्छा सुता इमे (सा० ५.१.१) इत्यैषिरं (ऊ० ५. १. १) च रोहितकूलीयं ( ऊ० ६.१. १७) चाभी नो वाजसातमम् (सा० १२३८-४०) इति श्यावाश्वं (ऊ० १२. १. १५) च निषेधश् (ऊ. १७. १. १२) च साध्रं (ऊ० १७. १. १३) च यज्ञायज्ञीयं (ऊ० १७. १. १४) च कावम् (ऊ० १.१.१३) अन्त्यम् ॥५॥
[ इत्यार्भवः पवमानः॥]
इमं स्तोममर्हते जातवेदसे ( सा० १०६४-६ ) इति समन्तमग्निष्टोमसाम (ऊ० १७. १. १५) ॥६॥
तस्य जगती छन्दः। सर्वं त्रिणवम् ॥६॥
इति नवममहः ॥६॥


दशममहः
दशममहराह ---
विश्वजिदतिरात्रः ॥१॥
इति ॥१॥
इति दशममहः॥ १०॥
इति त्रिककुब्दशरात्रः समाप्तः ।।


कुसुरुबिन्ददशरात्रः
प्रथममहः
त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः सप्तदश उक्थ्या एकविंशोऽतिरात्रः (तां० ब्रा० २२. १५. १) इत्यनुवाकेन कुसुरुबिन्ददशरात्र उक्तः । तस्य कल्पः ---
या बृहस्पतिसवस्य सा कुसुरुबिन्दस्य प्रथमा । तस्यै जनुषैकर्चौ ॥१॥ उप-दवि-पवे-( सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च जराबोधीय(ऊ० ११. १. १४)मिति सामतृचः। पुनानः सोम धारये (सा० ६७५-६)ति यौधाजयं (ऊ० १.१.३) तिसृषु । औशन(ऊ० १. १. ४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं

419
अहीनः- कुसुरुबिन्ददशरात्रः [अ. ८. ख. १२]

(ऊ० १.१.५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१. ८)। अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् ( सा० ७७३ ) इति सफ-(ऊ. १. ३. १५)पौष्कले (ऊ० ९. २. २)। पुरोजिती वो अन्धस ( सा० ६६७-९) इति श्यावाश्वा-(ऊ० १. १. ११-२)न्धीगवे । काव-(ऊ० १.१.१३ ) मन्त्यम् । अन्त्यवर्जमेकर्चाः । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १.१४)। सर्वं त्रिवृत् ॥
इति प्रथममहः ।। ११॥


द्वितीयमहः
द्वितीयमहराह --
हाविष्मतस्य लोके यौक्ताश्वम् (ऊ० १. २. १९) स्वाशिरामर्कस्य हाविष्मतम् (ऊ० २. १. ५) शङ्कुसुज्ञानयोः सत्रासाहीय-(ऊ० ९. २. ७)श्रुध्ये (ऊ० ९.१.२०)। उद्धरत्युक्थानि ॥ १ ॥
समानमितरं द्वितीयेनाह्ना जनकसप्तरात्रस्य ॥ २ ॥
इति । पवस्व वाचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) पवमानस्य ते वयम् (सा० ७८७-९) इति बहिष्पवमानम् ।
अग्निं दूतं वृणीमह (सा० ७९०-८०२) इत्याज्यानि । वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं च हाविष्मतं (ऊ० ७.१.१) च । पुनानः सोम धारये-(ऊ० ६७५-६)ति आयास्ये-(ऊ० १. २. २०, २.१.१ । वृषा शोण ( सा० ८०६-८) इति पार्थ(ऊ० ७. १. ६)मन्त्यम् । बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० २.१.३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्र-मौक्षे (ऊ० ४. १. १०)। पवस्वेन्द्रमच्छे( सा० ६९२-६)ति सत्रासाहीय-( ऊ० ९. २. ७ )श्रुध्ये (ऊ० ९. १.२०)। अयं पूषा रयिर्भग ( सा० ८१८-२०) इति आसितं (ऊ० ११. २. २०) च क्रौञ्चं (ऊ० १५. १. १७) च। वृषामतीना-( सा० ८२१-३)मिति याम-(ऊ० २.१. १०)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम। सर्वं त्रिवृत् ॥
इति द्वितीयमहः ॥ १२॥


तृतीयमहः
तृतीयमहराह ---
या पूर्वा सोत्तरा ॥१॥
या प्रथमस्याह्नः क्लृप्तिः सैव तृतीयस्येत्यर्थः ॥१॥
इति तृतीयमहः ॥ १३ ॥


चतुर्थमहः
चतुर्थमहराह --
पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सत्रासाहीय-(ऊ० ९. २. ७) श्रुध्ये (ऊ० ९. १. २०)। वृषा मतीनां पवत (सा० ८२१-३) इति यामम् (ऊ० २.१. १०) अन्त्यम् ॥ यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। साकमश्वं (ऊ. १.१.१५ ) सौभरम् (ऊ० १.१.१६) आष्टादंष्ट्रम् (ऊ. २. १. १२) इत्युक्थानि ॥१॥
समानमितरं द्वितीयेनाह्ना त्रिककुभः ॥ २ ॥

421
अहीनः –कुसुरुबिन्ददशरात्रः [अ. ८. ख. १५]

इति । पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि-पवमानस्य ते वयम् ( सा० ७७५-८९ ) इति बहिष्पवमानम् । अग्निं दूत-(सा० ७९०-८०२) मित्याज्यानि । वृषा पवस्वे-( सा० ८०३-५ )ति गायत्रं च हाविष्मतं (ऊ० ७.१.१) च । पुनानः सोम धारये-(सा० ६७५-६)ति आयास्ये (ऊ० १. २. २०, २.१.१) । वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १. ६)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१.५) च श्यैतं (ऊ० २.१.३) च माधुच्छन्दसं ( उ० २.१. ४) चेति पृष्ठानि । यस्ते मदो वरेण्य-( सा० ८१५-७) इति गायत्र-मौक्षे (ऊ० ४.१.१०) । पवस्वेन्द्रमच्छे (सा० ६९२-६)ति सत्रासाहीय-( ऊ० ९. २. ७)श्रुध्ये ( ऊ० ९.१.२० ) एकर्च्चयोः । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति आसित-(ऊ० ११. २. २०)मेकस्याम् । क्रौञ्चं (ऊ० २. १. ९) तिसृषु । वृषा मतीना-( सा० ८२१-३ )मिति याम-(ऊ० २. १. १०)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १.१. १४) मग्निष्टोमसाम। साकमश्वं (ऊ० १.१.१५) सौभर-(ऊ० १. १. १६ )माष्टादंष्ट्र-( ऊ० २. १. १२ )मित्युक्थानि । सर्वं पञ्चदशम् ॥
इति चतुर्थमहः ॥१४॥


पञ्चममहः
पञ्चममहराह --
एते असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५) इति पुरस्तात् पर्यासस्य तृचे । जनुषैकर्चयोः (सा० ७७२-३) सफ-(ऊ० १. २. १५)पौष्कले (ऊ० ९. २.३)। तृतीयस्याह्नः उक्थानि ॥१॥
समानमितरं ज्योतिष्टोमेन ॥२॥
इति । उपास्मै-दविद्युतत्या रुचा ( सा० ६५१-६) एते असृग्रमिन्दवो-राजा मेधाभिरीयते (सा० ८३०-५) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्न आ याहि वीतये ( सा० ६६०-७१ ) इत्याज्यानि । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ. १. १. १) च । पुनानः सोम धारये-( सा० ६७५-६ )ति रौरवयौधाजये (ऊ० १.१. २-३)। औशन-(ऊ० १.१. ४)मन्त्यम् । रथन्तरं ( र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च नौधसं (ऊ० १.१.६ ) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि। स्वादिष्ठये-( सा० ६८९-९१ )ति गायत्र-संहिते (ऊ० १.१.८)। अया पवस्व देवयुः ( सा० ७७२) पवते हर्यतो हारि(सा० ७७३)रिति सफ-(ऊ० १. २. १५)पौष्कले (ऊ० ९.२.२)। पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वान्धीगवे
(ऊ० १. १. ११-२)। काव-( ऊ० १.१.१३ )मन्त्यम् । सफपौष्कलश्यावाश्वान्येकर्चेषु । यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम । प्रमँहिष्ठीयं हारिवर्णं तैरश्च्य-( ऊ० २. २. ५-७ )मित्युक्थानि । सर्वं पञ्चदशम् ॥
इति पञ्चममहः ॥१५॥


षष्ठमहः
चतुर्थस्याह्नः क्लृप्तिः षष्ठस्यातिदिशति --
 या पूर्वा सोत्तरा ॥१॥
इति।
इति षष्ठमहः ॥१६॥



423
अहीन:-कुसुरुबिन्ददशरात्रः [अ. ८.ख. १७]

सप्तममहः
सप्तममहराह --
तीव्रसुत आज्य बहिष्पवमानं माध्यंदिनश्च । संहितस्य लोकेऽग्नेरर्कः ॥१॥
समानमितरमेतस्यैव रथन्तरेण पञ्चदशेन ॥२॥
इति । उपास्मै गायता नरो दविद्युतत्या रुचा (सा० ६५१-६) एते असृग्रमिन्दवस् (सा० ८३०-२) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) पवमानस्य ते कवे (सा० ७८७-९) इति बहिष्पवमानम् ।
अग्न-आ नो मित्रात्याहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च। अभि सोमास आयव ( सा० ८५६-८) इति द्विहिंकारं (ऊ० ४. २. ७) च मैधातिथं (ऊ. ९. ३. ६) च रौरवं (ऊ० ७. १. १३) च यौधाजयं (ऊ० १.१.३) चौशन-(ऊ० १. १. ४)मन्त्यम्। द्विहिंकारमाद्यायाम् । यौधाजयमध्यास्यायाम् । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१)ति गायत्रं चाग्नेश्चार्कः (र० ४. ३.९)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-पौष्कले (ऊ. १. १.९-१०) एकर्चयोः । पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वा- (ऊ० १. १.११-२)न्धीगवे । काव-(ऊ० १.१.१३)मन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । प्रमँहिष्ठीयं स्वारं हारिवर्णं तैरश्च्य-(अ० २. १. ५-७)मित्युक्थानि । सर्वं सप्तदशम् ॥
इति सप्तममहः ॥ १७ ॥


अष्टममहः
अष्टममहराह--
द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानं बृहती च । पवमानस्य ते वयम् (सा० ७८७-९) इति पर्यासः । मौक्षस्य लोके स्वाशिरामर्कः (र० १. २. १) ॥१॥
समानमितरमेतस्यैव बार्हतेन पञ्चदशेन ॥२॥
इति । पवस्व वाचो-पवस्वेन्दो-वृषा सोम द्युमाँ असि (सा० ७७५-८३) उत्ते शुष्मास ईरते (सा० १२०५-९ ) पवमानस्य ते वयम् (सा० ७८७-९) इति बहिष्पवमानम् । अग्निं दूत-( सा० ७९०-८०२) मित्याज्यानि। वृषा पवस्व धारये-( सा० ८०३-५)ति गायत्रं च हाविष्मतं (ऊ० ७. १.१) च। परीतो षिञ्चता सुत-(सा० १३१३-५ )मिति समन्तं (ऊ० ९. १. ३) च दैर्घश्रवसं (ऊ० ५. २. ४) चायास्यं (ऊ० ७. १. ४) च। वृषा शोण ( सा० ८०६-९) इति पार्थ-( ऊ० ७. १.६)मन्त्यम् । ककुबुष्णिहावेकर्चौ । यज्ञायज्ञीय-(ऊ० १. १. १४)मग्निष्टोमसाम । साकमश्वं (ऊ० १.१.१५) सौभर-(ऊ० १.१.१३ )माष्टादंष्ट्र-(ऊ० २. १. १२)मित्युक्थानि । सर्वं सप्तदशम् ॥
इति अष्टममहः ॥१८॥


नवममहः
या सप्तमस्याह्नः क्लृप्तिः सैव नवमस्येत्याह—
या पूर्वा सोत्तरा ॥१॥

425
अहीनः--कुसुरुबिन्ददशरात्रः [अ. ८. ख. २०]

इति । तत्र विशेषमाह --
तस्याग्नेरर्कस्य लोके संहितम् (ऊ० १.१.८) कावस्य दीर्घतमसोऽर्कः (र० ४.१.९)। उद्वंशीयान्तान्युक्थानि ॥ २ ॥
स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते ( ऊ० १. १.८)। पवस्वेन्द्रमच्छे-(सा० ६९७-६)ति सफपौष्कले (ऊ० १. १.९-१०) एकर्चयोः । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा(ऊ० १.१.११-१२) न्धीगवे । कावस्यर्क्षु दीर्घतमसोऽर्कोऽन्त्यः (र० ३. १. १०) इत्यार्भवः। प्रमँहिष्ठीयं हारिवर्णं तैरश्च्य-(ऊ० २. १. ५-७)मित्युक्थानि । इतरत् सप्तमेनाह्ना समम् ॥२॥
इति नवममहः । १६॥


दशममहः
दशममहराह--
एकविंशोऽतिरात्रः । य एकस्तोमानामुत्तमस्तस्य स्तोमान्वयी
षोडशी ॥ १ ॥
इति । अत्र निदानम्-- तस्य स्तोमान्वयी षोडशीत्यविचारमेकविंश (नि०सू० ९. ४) इति ॥१॥
इति दशममहः ।। २० ॥
इति कुसुरुबिन्ददशरात्रः समाप्तः ।।




छन्दोमवान् दशरात्रः
[ प्रथमादिपञ्चमान्तान्यहानि]
अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा विश्वजिदतिरात्रः (तां० ब्रा० २२.१६) इत्यनुवाकेन छन्दोमवान् दशरात्र उक्तः । तस्य कल्पः-
पृष्ठ्यावलम्ब्यस्य पञ्चाहः । प्रथमस्याह्नः प्रत्नवद्( सा० ७५ ५- ६३) बहिष्पवमानम् ।। १ ।
पञ्चमस्याह्नोऽसृक्षते-(सा० १०३४-६ )प्यनुरूपः ।। २ ।।
इति । अत्र विश्वजिता छन्दोमानां प्रत्यूहितत्वात् षष्ठस्याह्नो लोपान्नवाहयोगाभावेऽपि दशमस्य विद्यमानत्वात्तदर्थं प्रत्नवतो नवर्चस्य विधानार्थं षाष्ठिकश्चानुरूपो दशमार्थमेव पञ्चमे विधीयते । उक्तं हि---दशमस्य बहिष्पवमानम् । द्वितीयप्रभृतीनां पञ्चानामह्नामनु-रूपा. । प्रथमाच्च बहिष्पवमानम् । तन्नवर्च-( ला० श्रौ० ३.७. १)मित्यादि ।।
प्रथमस्याह्नः - अस्य प्रत्ना-(सा० ७५५-६३ )नवर्चं बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रमाश्वं (ऊ० १.२.११) सोमसामे( ऊ० १.२.१२ )ति सामतृचः । प्र सोम देववीतये ( सा० ७६७-८) इति यौधाजयं ( ऊ० १. १.१३) तिसृषु । औशन-(उ० १. १. ४)मन्त्यम् । रथन्तरं (र० १. १.१) च वामदेव्यं (ऊ० १. १ . ५) च नौधसं (ऊ० १.१.६) च कालेयं ( ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठये-( सा० ६८९-९१ )ति गायत्र संहिते ( ऊ० १. १. ८) । अया पवस्व देवयुः

427
अहीनः-छन्वोमवान् दशरात्रः अ. ८. ख. २१)

सा० ७७२) पवते हर्यतो हरि -(सा० ७७३ )रिति सफा-(ऊ० १.२.१५-६ )क्षारे । प्र सुन्वानायान्धस (सा० ७७४) इति औदल- (ऊ० ११. २.३ )गौतमे (ऊ० १. २.१८) । काव(ऊ० १. १.१३ )मन्त्यम् । सफाक्षारौदलान्येकर्चानि । यज्ञायज्ञीय(ऊ० १. १. १४) मग्निष्टोमसाम । द्वे त्रिवृती सवने । पञ्चदशमेकम् ।।
द्वितीयस्याह्नः- पवस्व वाचो-पवस्वेन्दो-वृषा ह्यसि-पवमानस्य ते वयम् (सा० ७७५-८९) इति बहिष्पवमानम् । अग्निं दूतं-मित्रं हुवे इन्द्रमिद्गाथिन-इन्द्र अग्ने-(सा० ७९०-८०२ )त्याज्यानि । वृषा पवस्व धारये-(सा० ८०३-५ )इति गायत्रं च यौक्ताश्वं (ऊ० १. २. १९) च । पुनानः सोम धारये- ( सा० ६७५ -६ )ति आयास्ये (ऊ० १. १. २०; १. २.१) । वृषा शोण ( सा० ८०६-८) इति इहवद्वासिष्ठ- (ऊ० २.१. २) मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतं ( ऊ० २.१. ३) च माधुच्छन्दसं (ऊ० २. १. ४) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २.१. ५) च । पवस्वेन्द्रमच्छे-(सा० ६९२; ६९ ४)ति एकर्चयोः शङ्कु(ऊ० २.१.६-७) सुज्ञाने । अयं पूषा रयिर्भग (सा० ८१८-२०) इति आसितं (ऊ० ११. २.२०) च क्रौञ्चं ( ऊ० २.१. ९) च । वृषा मतीना-(सा० ८२१ -२ )मिति याम-( ऊ० २.१. १०) मन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । साकमश्व-(ऊ० १. १.१५ )मामहीयव-( ऊ० १. १. १ )माष्टादंष्ट्र-( अ० २. १. १२) मित्युक्थानि । द्वे पञ्चदशे सवने । सप्तदशमेकम् ।।
तृतीयस्याह्नः-दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्र-मिन्दवो-राजा मेधाभिरीयते-तं त्वा नृम्णानि बिभ्रतम्-इषे पवस्व धारये-(सा० ८३०-४३ )ति बहिष्पवमानम् । अग्निना-मित्रं हुवे-इन्द्रेण-ता हुवे (सा० ८४४-४५) इत्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ०२. १. १३) च । अभि सोमास आयव (सा० ८५६-८) इति पौरुमद्ग-( ऊ० २. १.१ ४ )माद्यायाम् । गौतमा-(ऊ० २.१. १५ )न्तरिक्षे (र० १. १. ६) तृचयोः । आष्कारणिधनमध्यास्यायाम् (ऊ० २. १. १६) । तिस्रो वाच (सा० ८५९-६१) इति अङ्गिरसां संक्रोशोऽन्त्यः (ऊ० २.१. १७) । रथन्तरं (र० १. १. १) च वामदेव्यं ( ऊ० १. १. ५) च महावैष्टम्भं (ऊ० २.१ . १८) च रौरवं (ऊ० २.१. १९) चेति पृष्ठानि । तिस्रो वाच उदीरत ( सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २.१. २०) च । आ सोता परि षिञ्चत (सा० १३९४) सखाय आ निषीदते-(सा० ११५ ७)ति वाचश्च साम (ऊ० २.२.१) शौक्तं (ऊ० २.२.२) च । सुतासो मधुमत्तमा (ऊ. ८७२-४ इति त्वाष्ट्रीसामनी स्वाराद्यत्रिणिधने (ऊ० १५. २.१; २. २.४) पवित्रं त ( सा० ८७५-७) इत्यरिष्ट-( र० १. १. ८ )मन्त्यम् । यज्ञायज्ञीय( ऊ० १. १. १४ )मग्निष्टोमसाम । प्रमँहिष्ठीयं ( ऊ० २.२.५) हारिवर्णं (ऊ० २.२. ६) तैरश्च्य-(ऊ० २.२.७) मित्युक्थानि । द्वे सप्तदशे सवने । एकविंशमेकम् ।।

चतुर्थस्याह्नः-पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्रयद्गावो न भूर्णयः (सा० ८९२-७) आयुरर्ष बृहन्मते ( सा० ८९८-९०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) । अयं वां मित्रावरुणा-इन्द्रो दधीचो अस्थभिर्-इयं वामस्य मन्मनः ( सा० ९१०-८) इत्याज्यानि । पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १. १. ९) च निधनकामं ( ऊ० २.२.८) च । तवाहं सोम रारणे-( सा० ९२२-३) त्याष्टादंष्ट्र-( ऊ० २. २.९ )माभीशवं ( ऊ० २.२.१०) स्वः- पृष्ठमाङ्गिरसम् (ऊ० २.२.११) । सोमः पवते जनिता मतीना- (सा० ९४३-५) मिति जनित्र-( ऊ० ८.२.१ )मन्त्यम् । बृहच्च (र० १. १ . ५) वामदेव्यं ( ऊ० १. १. ५) च त्रैशोकं (ऊ० २.२.१३) च पृश्नि (ऊ० २.२. १४) चेति पृष्ठानि । परि-प्रिया दिवः कवि- ( सा० ९३५ -७ ) रिति गायत्रं चौर्णायवं (ऊ ० २.२.१५) च । बृहच्च (र० १ . १. ५) भारद्वाजं (ऊ० ९.

429
अहीनः-छन्दोमवान् दशरात्रः अ. ८. ख. २१

२.१५) च । त्वं ह्यङ्ग दैव्य ( सा० ९३८-९) सोमः पुनान ऊर्मिणे-( सा० ९४०-२) ति वृहत्का-( ऊ० २.२.१६ )तीषादीये (ऊ० २.२.१७) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति नानदं ( ऊ० २.२.१८) चान्धीगवं ( ऊ० १. १. १२) च शुद्धाशुद्धीयं ( ऊ० २०.१. १८) च । प्र त आश्विनी-(सा० ८८६-८)रिति लौश-(ऊ ०८.२.२ )मन्त्यम् । यज्ञायज्ञीय-(ऊ० १. १. १४) मग्निष्टोमसाम । सैन्धुक्षितं ( ऊ० २.२.२०) सौभरं (ऊ० १. १. १६) वसिष्ठस्य प्रिय ( ऊ० ३. १. १ )मित्युक्थानि । षोडशिन उद्धारः । द्वे एकविंशे सवने । त्रिणवमेकम् ।।

पञ्चमस्याह्नः-पवमानस्य विश्वविद् (सा० ६५८-६०) असृक्षत प्र वाजिनः ( सा० १०३४-६) प्र सोमासो अधन्विषुः ( सा० ९६१-७) प्र कविर्देववीतये (सा० ९ ६८-७४) यवं यवं नो अन्धसा (सा० ९७५ -७८) यास्ते धारा मधुश्चुतः ( सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा० १४०५ -) पुरूरुणा-चिद्ध्यस्ति-उत्तिष्ठन्नोजसा सह-इन्द्राग्नी युवाम् ( सा० ९ ८५-९६) इत्याज्यानि । अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्रं च यण्वं (र० १. २.१) च शाकलं (ऊ० ३. १. ३) च वार्शं (ऊ० ३. १. ४) च । सोम उष्वाणः सोतृभि ( सा० ९९७-८ )रिति मानवं (ऊ० ३. १ .५) चानूपं (ऊ० ३. १.६) च वाम्रं (ऊ० ३ . १. ७) चाग्नेस्त्रिणिधनम् (ऊ० ३. १. ८) । इन्दुर्वाजी-( सा० १०१९-२१)ति सम्पान्त्य-(ऊ० ८.२.५ )मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं ( ऊ० १. १ . ५) च बार्हद्गिरं ( र० १. २.२) च रायोवाजीयं (र० १. २.४) चेति पृष्ठानि । असाव्यंशुर्मदाये-(सा० १०० ८- १० )ति गायत्रं च संतनि ( ऊ० ३. १. १०) च ऐडं च सैन्धुक्षितं (ऊ० १६. १. ४) गौषूक्तं (ऊ० ७.१. १९) च । अभिद्युम्नं बृहद्यशः ( सा० १०११-२) प्राणा शिशुर्महीना-(सा० १०१३-५ मिति च्यावन(ऊ० ३. १. ११ क्रोशे ( ऊ० ३.१. १२) । पवस्व वाजसातये ( सा० १०१६-८) इति त्वाष्ट्रीसाम च यत्साभ्यासम् (ऊ० ८.२.६) । ऋषभश्च शाक्वरः (र० १.२.५) पार्थं (ऊ० ३. १. १४) चाष्टेडं च पदस्तोभः (र० १.२.६) । गोवित्पवस्वे-( सा० ९५५-७ )ति द्वयभ्याघातं लौश (र० ८.२. ७)मन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १ ४)मग्निष्टोमसाम । संजयं (ऊ० ३. १. १६) च सौमित्रं (ऊ० ३. १. १७) च वैश्वामित्रं (ऊ० ३.१ .१ ८)चेत्युक्थानि । द्वे त्रिणवे सवने । त्रयस्त्रिंशमेकम् ।। २ ।। इति पञ्चममहः ।। २१ ।।

षष्ठमहः
अथ चत्वारश्छन्दोमाः । दशरात्रे सप्तमादीनि चत्वार्यहानि । तान्यत्र षष्ठादीनि । तेषां प्रथमस्य समूढक्लृप्तिमाह- ये सोमासः परावतीति (सा० ११६३-५) प्रतिपत् । ऋतावनं वैश्वानरम् (सा० १७०८-१०) इति होतुराज्यम् । कण्वरथन्तरस्य लोके सोमसाम (ऊ० १७.१.१६) प्र काव्यमुशनेव ब्रुवाण (सा० १११ ६-८) इति वाराहमन्त्यम् ( ऊ० १६.२.१९) । आत्रेयं स्वरः (ऊ० १७.१.१७) । प्रो अयासीद् (सा० ११५२-४) इति ऐडं यज्ञसारथि ( ऊ० १७.१.५) अन्त्यम् ।। १ ।।
समानमितरं सप्तमेनाह्ना द्वादशाहस्य ।। २ ।।
इति । ये सोमासः परावति (सा० ११ ६३-५) प्र स्वानासो रथा इव (सा० १ १ १९-२७) असृग्रमिन्दवः पथा (सा० ११२८-३९) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति बहिष्पवमानम् । ऋतावनं वैश्वानरं । प्र वो मित्राय गायत-इन्द्रायाहि चित्रभानो-तमीडिष्व यो अर्चिष(सा० ११४३-५१) त्याज्यानि । वृषा पवस्व धारयेन-( सा० ८०३-५ )ति गायत्रं च सन्तनि ( ऊ० ४.१. १) च स्वारं सौपर्णं (ऊ० ११.२.१५) च रोहितकूलीयं (ऊ० ४.१. ३)

431
अहीनः-छन्दोमवान् दशरात्रः अ. ८. ख. २३

च । पुनानः सोम धारये-(सा० ६७५-६) ति सोमसाम (ऊ० १६.२.१६) च गौङ्गवं ( ऊ० ४.१. ५) च द्विनिधनमायास्यम् (ऊ० ४.१. ६) । प्र काव्यमुशनेव ब्रुवाण ( सा० १११६-९) इति वाराह-(ऊ० १६. २. १९)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) चाभिनिधनं काण्वं ( ऊ० ४.१. ८) च वैखानसं (उ० ४. १ . ९) चेति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं मौक्ष-( ऊ० ४.१. १० )मध्यर्धेडं सोमसामे-(ऊ० ८.३. ८)ति सामतृचः । अग्नेरर्कस्तिसृषु (र० १. ३. १) । एष स्य धारया सुत-(सा० ५८४) सखाय आ निषीदते-(सा० ११५७-९ )ति शार्क-(ऊ० ४.१ .१ १) प्लवौ (ऊ० ४.१. ११-२) । पुरोजिती वो अन्धस (सा० ६९७-९) इति आत्रेयं (ऊ० १६.२. १७) च कार्तयशं (ऊ० ४. १. १४) च । प्र वाज्यक्षा (सा० ११६ ०-२) इति सौहविषम् ( ऊ० ४.१.१५) । प्रो अयासी- ( सा० ११५२-४) दित्यैडं यज्ञसारथ्य-( ऊ० १६. २.५) न्त्यम् । यज्ञायज्ञीय-(ऊ० १. १. १ ४)मग्निष्टोमसाम । वात्सं (ऊ० ४.१. १७) च सौश्रवसं (ऊ० ४.१. १८) च वीङ्कं (ऊ० ४.१. १९) चेत्युक्थानि । सर्वं चतुर्विंशम् ।। २ ।। इति षष्ठमहः ।। २२ । ।

सप्तममहः
द्वितीयस्य छन्दोमस्य समूढक्लृप्तिमाह-
हिन्वन्ति सूरमुस्रयः ( सा० ९०४-६) इति प्रतिपत् । विश्वे-भिरग्नेरग्निभिर् ( सा० १६१ ७-९) इति होतुराज्यम् । उहुवाइ शिशु- (सा० १ १७५-७)मिति वसिष्ठम् (ऊ० १७.१. १८) अन्त्यम् ।। १।। कौत्सं स्वारो (ऊ० १७.१. १९) हाउ धर्ते(सा० १२२८-३०) त्यैडं शार्ङ्गम् (ऊ० १७.१. २०) अन्त्यम् ।। २ ।।
समानमितरमष्टमेनाह्ना द्वादशाहस्य ।। ३ ।।
इति । हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) एते सोमा अभि प्रियम् ( सा० ११७८-८६) सोमः पुनानो अर्षति ( सा० ११८७-९५) सोमा असृग्रमिन्दवः ( सा० ११९६-२०४) उत्ते शुष्मास ईरते (सा० १२०५-९) अयावीती परिस्रव ( सा० १२१०-२) अपघ्नन् पवते मृधः (सा० १२१३-५) अया पवस्व धारये(सा० १२१ ६-८)ति बहिष्पवमानम् । विश्वेभिरग्ने अग्निभिर् ( सा० १६१७-९ )मित्रं वयं हवामहे ( सा० ७९३-५) तमिन्द्रं वाजयामसि ( सा० १२२२-४) इन्द्रे अग्ना नमो बृहत् ( सा० ८००-२) इत्याज्यानि । अध्वर्यो अद्रिभिः सुतम् (सा० १ २२५-७) इति गायत्रं च वैरूपं (ऊ० ४.१. २०) च्राशुभार्गवं (ऊ० ४.२. १) च मार्गीयवं (ऊ० ४.२.२) च सौमित्रं (ऊ० ४.२.३) चैटतं (ऊ० ४.२.४) च साकमश्वं ( ऊ० ४.२.५) च विलम्बसौपर्णं ( ऊ० ४.२.६) च । अभि सोमास आयवः ( सा० ८५६-८) इति द्विहिंकारं च वामदेव्यं (ऊ० ४.२.७) च गायत्रपार्श्वं (ऊ० ४.२.८) च पौरुहन्मन (ऊ० ४.२.९) च द्वैगतं (ऊ० ४.२. १०) च हारायणं (ऊ० ४.२.११) चाच्छिद्रं ( ऊ० ४.२. १२) च बार्हदुक्थं ( ऊ० ४.२.१३) च । हाइ उहु वाइ शिशु(सा० १ १७५-७)मिति वासिष्ठ-(ऊ० १७.१. ७)मन्त्यम् । द्विहिंकारं प्रथमायाम् । बार्हदुक्थमध्यास्यायाम् । रथन्तरं ( र० १. १.१) च वामदेव्यं (र० १. १.५) च नैपातिथं (ऊ० ४. १. १५) च वैयश्वं (ऊ० ४.१. १६) चेति पृष्ठानि । पवस्व देवः आयुष-(सा० १२ ३५-७)गिति गायत्रं च स्वाशिरामर्कः (र० १.३.२) सुरूपं (ऊ० ४. २.१७) भासं (ऊ० ४.२. १८) च काक्षीवतं (ऊ० ४.२. १९) च गायत्रसामासितं (ऊ० ४.२.२०) च । अभिद्युम्नं बृहद्यशः (सा० १०११) प्राणा शिशुर्महीना-(सा० १०१३) मिति ऐषिरत्रैते ( ऊ० ५. १. १२) । अभी नो वाजसातमम् (सा० १ २३८-४०) इति स्वारं च कौत्स-( ऊ० १६.२.१९ )मैडं

433
अहीनः-छन्दोमवान् दशरात्रः अ. ८. ख. २४

च कौत्सं (ऊ० ५.१.४) वा । शुद्धाशुद्धीयं( ऊ० ४.१.५) च क्रौञ्चं ( ऊ० ५.१.६) च रयिष्ठं (ऊ० ५. १.७) च औदलं (ऊ० ५.१. ८) च । पवस्व सोम महान्त्समुद्र (सा० १२४१-३) इति धर्म (ऊ० ४.२.९) । हाउ धर्ते-(सा० १२२८-३ ०)त्यैडं शार्ङ्ग-( ऊ० १७.१.२० )मन्त्यम् । ऐषिरत्रैते एकर्चे । यज्ञायज्ञीय-(ऊ० १.१ . १४)मग्निष्टोमसाम । गायत्रौशनं (ऊ० ५. १. ११) सांवर्तं (ऊ० ५ .१ .१ २) मारुत (ऊ० ५.१. १३ )मित्युक्थानि । सर्वं चतुश्चत्वारिंशम् । तत्र समीषन्तीप्रयोगावुक्तौ ।। ३ ।।
इति सप्तममहः ।। २३ ।।

अष्टममहः
तृतीयस्य छन्दोमस्य समूढक्लृप्तिमाह- उपोषु जातमप्तुरम् (सा० १३३५-७) इति प्रतिपत् । उप त्वा रण्वसंदृशम् (सा० १७०५ -७ )) इति होतुराज्यम् । हाउ हु वा अक्रान् (सा० १२५३ -५) इति वासिष्ठम् (ऊ० १७.२. १) अन्त्यम् । परि त्यं हर्यतं हरिम् (सा० १३२९-३१) इति गौरीवितलोके आसित-( ऊ० १७.२ . २) मेकस्याम्। दीर्घतमसोऽर्क (र० ४. १. १३) एकस्याम् । आकूपारमेकस्याम् यत् स्वयोनिं ( ऊ० १७.२. ३) । असावि सोमो अरुषो वृषा हरिर् (सा० १३१६-८) इति ऐडं यामम् (ऊ० १७.२.४) ।। १ ।। समानमितरं नवमेनाह्ना द्वादशाहस्य । । २ ।।
इति । उपोषु जातमप्तुरम् ( सा० १३३५-७) एष देवो अमर्त्य ( सा० १२५६-६५) एष धिया यात्व्यण्या ( सा० १२६६-७३) एष उ स्य वृषा रथः ( सा० १२७४-९) एष वाजी हितो नृभिर् (सा० १२८०-५) एष कविरभिष्टुत (सा० १२८६-९१) स सुतः पीतये वृषा (सा० १२९२-७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । उप त्वा रण्वसदृशं (सा० १७०५-७) मित्रं हुवे पूतदक्षम् (सा० ८४७-९) महाँ इन्द्रो य ओजसा (सा० १३०७-९) ता हुवे ययोरिदम् ( सा० ८५३-५) इत्याज्यानि । पवमानस्य जिघ्नतः (सा० १३१०-१२) इति गायत्रं चादारसृच्च (ऊ० ५ .१ .१ ४) सुरूप (ऊ० ५. १ . १५) च हरिश्रीनिधनं ( ऊ० ५.१ . १६) च सैन्धुक्षितं (ऊ० ५. १. १७) च बाभ्रवं (ऊ० ५. १. १८) चेडानां संक्षार-(ऊ० ५. १. १९ )मृऋषभश्च पवमानः (ऊ० ५. १. २०) । परीतो षिञ्चता सुत-(सा० १३१३-५) मिति पृष्ठं (ऊ० ५. २.१) तिसृषु । कौल्मलबर्हिष-(ऊ० ४. २.२ )मर्कपुष्पं (ऊ० ५. २.३) दैर्घश्रवस(ऊ० ५. २. ४)मिति सामतृचः । देवस्थानं (र० १.३.३) तिसृषु । संकृतिं तृचे (र० १ . ३. ४) । वैयश्व-मेकस्याम् (ऊ० ५. २.५) । भर्गस्तिसृषु (र० १. ३. ५) । आभीशवमेकस्याम् (ऊ० ७.२.४) । यशस्तिसृषु (र- १ .३.६) । ' वासिष्ठ- (ऊ० २.१ .२ )मध्यास्यायाम् । हाउ उहु वा अक्रानिति। वासिष्ठ-(ऊ० १६. २. १ )मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च श्रायन्तीयं (ऊ० ५. २.९) च समन्तं ( ऊ० ५.२.१०) चेति पृष्ठानि । त्वं सोमासि धारयु-(सा० १३२३-५ )रिति गायत्रं चाश्वसूक्तं (ऊ० ५ . २. ११) च शाम्मदं (ऊ० ५. २.१२) च दावसुनिधनं (ऊ० ५ .२. १३) च प्रतीचीनेडं च काशीतं (ऊ० ५.२.१४) च हाविष्कृतं ( ऊ० ५. २. १५) च । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देववीतये( सा० १३२६-८) इति सौपर्णं (ऊ० ५. २ .१६) च वैश्वमनसं ( ऊ० ५. २.१७) च ।

435
अहीनः-छन्दोमवान् दशरात्रः [ अ. ८ ख २५

परि त्यं हर्यतं हरि-( सा० १३२९-३१)मिचि आसितोत्तरं (ऊ० १७ १. २) दीघतमसोऽर्कः (र० १.३. ४) स्वयोन्याकूपार-(ऊ० १. २.४) मिति सामतृचः । निहवं (ऊ० ५.२.१९) तिसृषु । यद्वाहिष्ठीय (ऊ० ५ .२. २०) चासितं (ऊ० ६.१. १) च साध्रं (ऊ० ६. १. २ चाकूपारं (ऊ० ६. १. ३) च । पवस्व सोम महे दक्षाये-(सा० १३३ २-४)ति विधर्म (ऊ० ६. १. ४) । असावि सोमो अरुषो वृषा हरिर् (सा० १३१ ६-८) इत्यैडं याम-(ऊ० १७.१ .४)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १ .१. १ ४)मग्निष्टोमसाम । ऐध्मवाहं (ऊ० ६. १ . ६) त्रैककुभ-(ऊ० ६. १. ७)मुद्वंशीय-(ऊ० ६. १. ८)मित्युक्थानि । सर्वमष्टाचत्वारिंशम् ।। २ ।। इत्यष्टममहः ।। २४ ।।

नवममहः
चतुर्थस्य छन्दोमस्य क्लृप्तिमाह-
अन्तरोत्सेधनिषेधौ मैधातिथम् । आ जागृविर् (सा० १३ ५७-९) इत्यौशनम् (ऊ० १७.२.५) अन्त्यम् । स्वासु रथन्तरम् (र० १. १. १) वामदेव्ये (ऊ० १. १. ५) । परि प्र धन्वे-(सा० १३६७-९) ति वाजजित् (सा० १७.२.६) । सूर्यवतीषु (सा० १३७०-२) कावम् (ऊ० ९.२.११) अन्त्यम् ।। १ ।। यज्ञायज्ञीय-(ऊ० १. १. १४ )मग्निष्टोमसाम ।। २ ।। समानमितरं दशमेनाह्ना द्वादशाहस्य ।। ३ ।। इति । असृक्षत प्र वाजिनः (सा० १०३४-६) पवमानस्य विश्वजित् (सा० ९५८-६०) पवमानो अजीजनत् ( सा० ८८९-९१) एते असृग्रमिन्दवः (सा० ८३०-२) पवस्वेदो वृषा सुतः (सा० ७७८- ८०) अस्य प्रत्ना (सा० ७५५-६३) नवर्चम् इति बहिष्पवमानम् ।
सुषमिद्धो न आवह (सा० १३४७-५०) यदद्य सूर उदिते (सा० १३५१-३) उ त्वा उन्दन्तु सोमा ( सा० १३५४-६) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि । उच्चा ते जातमन्धसः ( सा० ६७२-४) इति गायत्रं चामहीयवं ( ऊ० १ १.१) चाजिगं ( ऊ० ६.१.९) चाभीकं ( ऊ० ६. १. १०) च । पुनानः सोम धारये (सा० ६७५-६ )त्युत्सेधश्च (ऊ० ६.१.११) मैधातिथं ( ऊ० १३.१.७) च निषेधं ( ऊ० ६.१.१३) चाजागृवि-( सा० १३५७-९ )रित्यौशन-(ऊ० १७.१.५ )मन्त्यम् । रथन्तरं ( र० १.१.१) च वामदेव्यं ( ऊ० १.१.५) च । उदु त्ये मधुमत्तमा (सा० १३६२-३) इत्यभीवर्तः (ऊ० ६.१.१६) स्वासु कालेय( ऊ० १.१. ७) मिति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रसंहिते ( ऊ० १.१.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ-( ऊ० १. १. ९ )रोहितकूलीये (ऊ० ६.१.१७) । पर्यूष्वि-(सा० १३६४-६ )ति श्यावाश्वा-(ऊ० ६.१.१८)न्धीगवे (ऊ० ६.१.१९) । परि प्र धन्वे(सा० १३ ६७-९)ति वाजजित् (ऊ० ७.१.६) । सूर्यवतीषु (सा० १ ३७०-२) काव-(ऊ० ९.२.११ )मन्त्यम् । सर्वं चतुर्विशम् । यज्ञायज्ञीय-( ऊ० १. १.१४ )मग्निष्टोमसाम । त्रयस्त्रिंशम् । अत्र दशमधर्मा मानसं च कर्तव्याः । सह धर्मैः सर्वत्र पृष्टः स्याद्दशमव्रते (ला० श्रौ० ३.६.१ ६-७) चेति वचनात् । दशमस्याह्नोऽनङ्गमेके मानसं ब्रुवते (ला० श्रौ० १०.३.१) इत्युपक्रम्या-गन्तु स्यादधिकृत्याम्नाना-(ला० श्रौ० १ ०.३.४)दिति वचनाच्च ।। ३ ।।
इति नवममहः ।। २५ ।।


437
अहीनः-देवपूर्दशरात्रः [अ. ८, ख. २७]

दशममहः
दशममहराह
विश्वजिदतिरात्र ।। १ ।।
इति ।। १ ।।
इति दशममहः ।। २६ ।।
इति छन्दोमवान् दशरात्रः समाप्तः ।।



देवपूर्दशरात्रः
प्रथममहः
त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो गौरुक्थ्यो-ऽभिजिरग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्नि-ष्टोमस्य सर्वस्तोमोऽतिरात्रः (तां० ब्रा० २२.१७) इत्यनुवाकेन देवपूर्दशरात्र उक्तः । तस्य कल्पः-
त्रिष्टोमोऽग्निष्टोमोऽयमेव ।। १ ।। अयमिति सर्वप्रकृतिभूतो ज्योतिष्टोमः परामृश्यते ।। १ ।।
तस्य त्रिष्टोमत्वं यथा स्यात् तथा दर्शयति- तस्य सवनभाज स्तोमाः समावद्भाजो वा ।। २ ।।
त्रिवृत्पञ्चदशसप्तदशास्त्रयस्तोमा यथाक्रमं त्रीणि सवनानि भजन्त इति सवनभाजः । चत्वारि स्तोत्राणि त्रिवृन्ति । चत्वारि पञ्चदशानि चत्वारि सप्तदशानीत्येवं समानि स्तोत्राणि भजन्त इति समावद्भाजो वा स्युरित्यर्थः । समावच्छब्दः समानापरपर्यायइति प्रथममहरुक्तम् ।।२।।
इति प्रथममहः ।।२७।।


द्वितीयमहः
द्वितीयमहराह--
ज्योतिरुक्थ्यः । तस्य साहस्रं बहिष्पवमानं यथा प्रथमस्य । संहितस्य लोके मौक्षम् (ऊ० १२. २. ४) नार्मेधस्याष्टादंष्ट्रम् (ऊ० २. १. १२)। उद्धरति रात्रिम् ॥ १॥
समानमितरं द्वितीयेनैकस्तोमेन ॥ २ ॥
इति । पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवमानस्य ते कवे (सा० ७८७-९) इति बहिष्पवमानम्। अग्निं दूतं-मित्रं वयमिन्द्रमिद्गाथिनो-इन्द्रे अग्ने-(सा० ७९०-८०२) त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-५) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६. २. २) च यौधाजयं (ऊ० १. १. ३) च । वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १.६)मन्त्यम् । बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१.५) च श्यैतं (ऊ० २.१.३) च कालेयं ( ऊ० १.१.७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्रमौक्षे (ऊ० १२. २. ४)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १.१.९) श्रुध्ये (ऊ० ८.१.२०)। पुरोजिती वो अन्धस ( सा० ६९७-९ ) इति श्यावाश्वान्धीगवे (ऊ०१.१.११-२)। सूर्यवतीषु (सा० १३७०-२) काव(ऊ० ९. २. ११)मन्त्यम् । सफश्रुध्ये एकर्चयोः । यज्ञायज्ञीय-(ऊ० १. १. १४)मग्निष्टोमसाम। साकमश्वं (ऊ० १. १. १५) सौभर-(ऊ० १. १. १६)माष्टादंष्ट्र -(ऊ० २. १. १२)मित्युक्थानि । ज्योतिरिति समाख्यया ज्योतिष्टोमा स्तोमाः । उक्थ्य इति वचनाद्रात्रेः षोडशिनश्चोद्धारः । अत्र निदानम्-- उक्थ्यसंस्थं ज्योतिषं बृहत्पृष्ठं बार्हतं तन्त्र-(नि० सू० ९.६)मित्यादि ॥२॥
इति द्वितीयमहः ।। २८॥



439
अहीनः--देवपूर्दशरात्रः [अ. ८. ख. ३१]
 
तृतीयमहः
या प्रथमस्य क्लृप्तिः सैव तृतीयस्येत्याह—
या पूर्वा सोत्तरा ॥१॥
इति ॥१॥
इति तृतीयमहः ॥२९॥


चतुर्थमहः
चतुर्थमहराह ---
गौरुक्थ्यः ॥ १॥
इति । ऐकाहिकोऽयम् ॥ १॥
इति चतुर्थमहः ॥ ३०॥


पञ्चममहः
पञ्चममहराह --
अभिजिदग्निष्टोमः । तस्याभिजितः पुनानः सोम धारये-(सा० ६७५-७)ति अभीवर्तस्तिसृषु (ऊ० ८. २. १३)। रौरवमेकस्याम् (ऊ० १. १. २)। कण्वरथन्तरमेकस्याम् (ऊ० ४. १. ४)। मैधातिथमेकस्याम् ( ऊ० ८. १. ७) । यौधाजयं तिसृषु (ऊ० १.१.३)। यद्यु वै कण्वरथन्तरं तृचस्थं चिकीर्षेदभीवर्तकण्वरथन्तरे अन्योन्यस्य स्थानं व्यतिहरेत् कण्वरथन्तरयौधाजये वा ॥१॥
इति । पुनानः सोम धारयेत्यभीवर्तो रौरवयौधाजये इति पूर्वमुक्तम् । इह तु रौरवस्थाने रौरवं कण्वरथन्तरं मैधातिथमिति सामतृचः कार्यः । यदि तु कण्वरथन्तरस्य रथन्तरपरोक्षत्वेनापचितत्वात् तृचे करणमिष्टं तदा पुनानः सोम धारयेति कण्वरथन्तरं तिसृषु । रौरवमभीवर्तो मैधातिथमिति सामतृचो यौधाजयं तिसृष्विति अभीवर्तस्तिसृषु रौरवं यौधाजयं मैधातिथमिति सामतृचः । कण्वरथन्तरं तिसृष्विति वा ॥ १॥ समानमितरम् ॥ २॥ _
इतरत् सर्वमैकाहिकेनाभिजिता समम् । अत्र गौरभिजितोर्द्वयोरपि बृहत्पृष्ठत्वात् जामितामाहुरित्यभिजितोर्मध्यंदिने कण्वरथन्तरं कल्पितम्। तथा च निदानम्--कण्वरथन्तरमभियन्ति रथन्तरनिधनानीति बृहत्संनिपातेषु-अजामिकरणानी-(नि० सू० १. १३)ति ॥ २ ॥
इति पञ्चममहः॥


षष्ठमहः
षष्ठमहराह --
या पूर्वा सोत्तरा ॥१॥
इति। गौरुक्थ्य एकाहः क्लृप्त इत्यर्थः ॥ १ ॥
इति षष्ठमहः ॥ ३२॥


सप्तमादिदशमान्तान्यहानि
सप्तमादीनि चत्वार्यहानि ---
विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः ।
एकाहक्लृप्ताः ॥ १॥
इति ॥ १॥
इति सप्तमादीन्यहानि ॥ ३३ ।।
इति देवपूर्दशरात्रः समाप्तः ।।


441
अहीनः-पौण्डरीक एकादशरात्रः [अ. ८. ख. ३४

पौण्डरीक एकादशरात्रः
अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमाश्चतुष्टोमोऽग्निष्टोमो विश्वजिदतिरात्र ( तां० ब्रा० २२.१८) इत्यनुवाकेन पौण्डरीक एकादशरात्र उक्तः ।
तस्य द्वादशाहोपसत्कत्वपक्षे द्वादशाहे सुत्यामित्याद्ि द्वादशाहवत् ।
षडुपसत्कत्वपक्षे षडह सुत्यामित्यादि । सुत्यासु यज्ञसारथिगानम् । लोकद्वारं सुब्रह्मण्या च प्रकृतिवदेव । स्तोमक्लृप्तिमाह--
प्रथमादिपञ्चमान्तान्यहानि पृष्ठयावलम्बस्य पञ्चाहः ।। १ ।।
इति । एष एव पञ्चाहो य ऋतूना-( आ० क० ७.१२.४)मित्यादिना पृष्ठ्यावलम्बस्य पञ्चाह उक्तः । तस्य प्रथमस्य क्लृप्तिः-उपास्मै गायता नरः (सा० ६५१-३) उपोषु जातमप्तुरम् ( सा० १३३५-७) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । विश्वरूपा ज्योतिर्गानयोर्धूर्गानानां च निवृत्तिः । अहिंकारविसृष्टहिंकारभकाराः प्रवर्तन्ते । अग्न-आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१ )त्याज्यानि । प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं प्रथमायाम् । आश्वं (ऊ० ६. २.१२) द्वितीयायाम् । सोमसाम (ऊ० १४.१. १३) तृतीयायाम् । प्र सोम देववीतये ( सा० ७६७-८) इति यौधाजयं ( ऊ० १४.१. १५) तिसृषु । औशन-(ऊ० १. १. ४)मन्त्यम् । रथन्तरं ( र० १. १. १) च वामदेव्यं (ऊ० १. १ .५) च नौधसं (ऊ० १. १ .६) च कालेयं (ऊ० १ . १.७) चेति पृष्ठानि । अस्मिन् षडहे बृहद्रथन्तरयोस्तोत्रे पृष्ठ्ये रथमतिवहेयुर् ( ला० श्रौ० ३.५. १-२) इत्यादिनोक्तौ रथदुन्दुभिघोषौ न कार्यौ । रथन्तरादिषट्पृष्ठसंप्रयोगे विहितत्वाद्रथघोषादीनाम् ।
तदुक्तमुपग्रन्थे- कथं विप्रयुक्तानामिति क्रियेरन्नित्येके । संप्र-युक्तानामाम्नानात् । कथं विप्रयुक्तानां प्रतियामेत्यथापि बृहद्रथन्तरयोः संप्रयुक्तयोरेव तत्पृष्ठे रथव्यतिवर्तनं च दुन्दुभ्याहननं च भवति नासंप्रयुक्तयो-(उ० ग्रा० सू० ३.५ )रिति । अयं च षडहो वृहद्रथन्तर० पृष्ठ इति षट्पृष्ठसंप्रयोगोऽत्र नास्ति ।।
अथार्भवः । स्वादिष्ठये-(सा०६ ८९-९१ ति गायत्र-संहिते (ऊ०१.१.८) । अया पवस्व देवयुः ( सा० ७७२) पवते हर्यतो हरि-(सा० ७७३ )रिति एकर्चयोः सफा-(ऊ० १.२.१५-६ क्षारे । प्र सुन्वानायान्धस (सा० ७७४) इत्यौदलं ( ऊ० ११.२.३) प्रथमायाम् । गौतमं (ऊ० १. २.१८) तिसृषु । काव(ऊ० १ .१.१ ३)मन्त्यम् । यज्ञायज्ञीय(ऊ० १.१. १४)मग्निष्टोमसाम । द्वे त्रिवृती सवने । पञ्चदशमेकम् । प्रागुदयनीयादतिरात्राद्दधिभक्षान्तानि सर्वाण्यहानि । अहरन्तेषु वसतीवरीपरिहरणकाले श्वःसुत्याप्रवचनी- सनामग्रहा सुब्रह्मण्या कार्या । हारियोजनातिप्रैषकालेऽपि श्वः-सुत्याप्रवचनीं सुब्रह्मण्यां केचिदिच्छन्ति । तत्सूत्रकारस्य नाभिमतमिति पूर्वमेव प्रतिपादितम् ।। द्वितीयस्याह्नो यज्ञसारथ्यादि सुब्रह्मण्यान्तं पूर्ववत् । पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि-पवमानस्य ते वयम् (सा० ७७५-८९) इति बहिष्पवमानम् । द्वितीयादीनामह्नां बहिष्पवमानैः सदसि स्तुवीरन् । प्राक्धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृति चात्वाले समापयेयुः । अग्निं दूतं-मित्रं वयम्-इन्द्रमिद्गा- चतुर्चम् । इन्द्रे अग्ने- (सा० ७९ ०-८०२)त्याज्यानि । चतुर्ऋचेऽन्त्यामुद्धरेत् । वृषा पवस्व धारये-(सा० ८०३-५ )ति गायत्रं यौक्ताश्वं (ऊ० ७. १.२) च

443
अहीनः-पोण्डरीक एकादशरात्रः (अ.८. ख. ३४)

यत् पूर्वम् । पुनानः सोम धारये- (सा० ६७५-६) ति ऐडं त्रिणि-धनमायास्ये (ऊ० १. २.२०; २.१. १) । वृषा शोण (सा० ८० ६-८) इति वासिष्ठ-(ऊ० २.१. २ )मन्त्यम् । पार्थ(ऊ० ७.१. ६ )मन्त्यं केचिदिच्छन्ति । तदार्षेयकल्पस्य नेष्टम् । द्वितीयस्याह्नो वासिष्ठमन्त्य-( आ० क० ७.१२.४) मिति पृष्ठ्यावलम्बे वचनात् अस्य च तत्प्रकृतिकल्पत्वात् । बृहच्च (र० १. १.५) वामदेव्यं (ऊ ० १. १. ५) च श्यैतं ( ऊ० २.१. ३) च माधुच्छन्दसं ( ऊ० २.१. ४) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं ( ऊ० २.१. ५) च । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )त्येकर्चयोः शङ्कुसुज्ञाने (ऊ० २. १.६-७) । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति आसितं (ऊ० ११. २.२०) च क्रौञ्चं (ऊ० १५ . १. १७) च यदुत्तरम् । वृषा मतीना-(सा० ८२१-३) मिति याम- (ऊ० २.१. १० )मन्त्यम् । यज्ञायज्ञीय-( सा० १. १ . १४ )मग्निष्टोमसाम । एह्यूष्वि-(सा० ७० ५-७)ति साकमश्वम् ( ऊ० १. १. १५) । एवाही (सा० ८२४-६ )त्यामहीयवम् (ऊ० २.१. ११) । इन्द्रं विश्वा (सा० ८२७-९) इत्याष्टादंष्ट्रम् ( ऊ० २.१. १२) इत्युक्थानि । द्वे पञ्चदशे सवने । सप्तदशमेकम् । स्तोमविमोचनादिदधिभक्षान्तं सुब्रह्मण्या च पूर्ववत् ।।
तृतीयस्याह्नः --- दविद्युतत्या रुचा (सा० ६५४-६) एते असग्र-मिन्दवो - राजा मेधाभिरीयते-तं त्वा नृम्णानि बिभ्रतम् - इषे पवस्व धारये-( सा० ८३०-४३)ति बहिष्पवमानम् । अग्निना-मित्रं हुवे-इन्द्रेण-ता हुवे (सा० ८४४-५५) इत्याज्यानि । उच्चा ते जातमन्धस(सा० ६७२-५) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१ . १३) च । अभि सोमास आयवः (सा० ८५ ६-८) इति पौरुमद्गं (ऊ० २.१.१४) प्रथमायाम् । गौतमं (ऊ० २.१.१५) तिसृषु । अन्तरिक्षं ( र० १.१.६) तिसृषु । प्र हिन्वान (सा० ५३६) इत्यध्यास्यायाम् आष्कारणिधनं (ऊ० २.१.१६) । तिस्रो वाच (सा० ८५९-६१) इति अङ्गिरसां संक्रोशोऽन्त्यः (ऊ० २.१.१७) । रथन्तरं (र० १.१. १) च वामदेव्यं ( ऊ० १.१. ५) च । वयं घत्वे-(सा० ८६४-६ )ति महावैष्टम्भं (ऊ० २.१.१८) च । तरणिरित् सिषासती-(सा० ८६७-८)ति रौरवं (ऊ० २. १.१९) चेति पृष्ठानि । तिस्रो वाच उदीरते(सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २.१. २०) च । आ सोता परि षिञ्चत ( सा० १३९४-५) सखाय आ निषीदते-( सा० ११५७-९)ति वाचश्च साम शौक्तं (ऊ० २.२. १-२) च । सुतासो मधुमत्तमा (सा० ८७२-४) इति त्वाष्ट्रीसामनी स्वाराद्यत्रिणिधने (ऊ० १५. २.१; २.१.४) । पवित्रं त (सा० ८७५-७) इत्यरिष्ट-( र० १.१.८) मन्त्यम् । यज्ञायज्ञीय(ऊ० १. १.१ ४)मग्निष्टोमसाम । प्रमँहिष्ठीयं (ऊ० २.२.५) हारिवर्णं (ऊ० २.२.६) तैरश्च्य- (ऊ० २.२. ७)मित्युक्थानि । द्वे सप्तदशे सवने । एकविंशमेकम् । स्तोमविमोचनादि पूर्ववत् ।।
चतुर्थस्याह्नः-पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णयः (सा. ८९२-७) आशुरर्ष बृहन्मते ( सा० ८९८-९०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-९) अयं वां मित्रावरुण-इन्द्रो दधीच अस्थभिर् -इयं वामस्य मन्मनः (सा० ९१ ०-१८) इत्याज्यानि । पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं ( र० १. १.९) च निधनकामं (ऊ० २.२.८) च । तवाहं सोम रारणे-(सा० ९ २२- ३ )त्याष्टादंष्ट्र-(ऊ० २.२.९)माभीशवम्(ऊ० २.२.१ ० )स्वःपृष्ठमाङ्गिरसम् ( ऊ० २.२.९) । सोमः पवते जनिता मतीना-(सा० ९४३-५ )मिति

445
अहीनः-पौण्डरीक एकादशरात्रः [ अ ८. ख. ३४

जनित्र-(ऊ० ८.२. १)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च त्रैशोकं (ऊ० २.२.१३) च पृश्नि (ऊ० (ऊ० २.२. १४) चेति पृष्ठानि । परि प्रिया दिवः कवि-(सा० ९३५-७)रिति गायत्रं चौर्णायवं ( ऊ० २.२. १५) च बृहद्भारद्वाजं ( ऊ० १५. २.१०) च । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) सोमः पुनानः ऊर्मिणे-(सा० ९४०-२) ति बृहत्कातीषादीये (ऊ० २.२.१६-७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदं (ऊ० २.२.१८) चान्धीगवं (ऊ० १. १. १२) च शुद्धाशुद्धीयं च यत्पदनिधनम् (ऊ० १६. १. ३) । प्र त आश्विनी-(सा० ८८६-८)रिति लौश-( ऊ० ८.२.२ )मन्त्यम् । यज्ञायज्ञीय-(ऊ० १. १. १४) मग्निष्टोमसाम । अग्निं व (सा० ९४६-८) इति सैन्धुक्षितम् (ऊ० २.२.२०) । वयमु त्वे-(सा० ७०८-९)ति सौभरम् (ऊ० १. १. १६) । इममिन्द्रे- ( सा० ९४९-५१) ति वसिष्ठस्य प्रियम् ( ऊ ० ३. १. १) । इत्युक्थानि । उद्धरति षोडशिनम् । सूत्रेऽपि तथैव सिद्धान्तितम्-पौण्डरीकचतुर्थे षोडशी षष्ठाभावा-(ला० श्रौ० )दित्यादिना । द्वे एकविंशे सवने । त्रिणवमेकम् ।।

पञ्चमम्याह्नः-पवमानस्य विश्वविद् (सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् ( सा० ९९९ -१ ००१) प्र सोमासो अधन्विषुः (सा० ९६ १-७) प्र कविर्देववीतये ( सा० ९६८-८४) यवं यवं नो अन्धसा ( सा० ९७५-८) यास्ते धारा मधुश्चुतः ( सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा ० १४०५ -७) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) उत्तिष्ठन्नोजसा सह (सा० ९८८-९०) इन्द्राग्नी युवाम् ( सा० ९९१ -३) इत्याज्यानि । अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्रं च यण्वं ( र० १. २.१) च शाकलं (ऊ० ३ . १. ३) च वार्शं (ऊ० ३. १. ४) च । सोम उष्वाणे-(सा० ९९ ७-८)ति मानवं (ऊ० ३. १ .५) चानूपं (ऊ०३.१ .६) वाम्र-(ऊ० ३. १. ६-७)मग्नेस्त्रिणिधनं (ऊ० ३.१ .८) च । इन्दुर्वाजी- (सा० २०१९-२१ )ति संपान्त्य-(ऊ० ८.२. ५)मिति माध्यंदिनः । रथन्तरं (र० १ . १.१) च वामदेव्यं (ऊ० १. १. ५) च । इन्द्रो मदाय(सा० १०० २-४)ति बार्हद्गिरम् ( र० १. २.२) । स्वादोरित्ये-( सा० १००५-७ )ति रायोवाजीय-( र० १. २.४ )मिति पृष्ठानि । असाव्यंशुर्मदाये-(सा० १००८-१० )ति गायत्रं च सन्तनि ( ऊ० ३. १. १०) चैडं च सैन्धुक्षितं ( ऊ० १६. १. ४) गौषूक्तं (ऊ० ७.२.१९) चाभिद्युम्नं बृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीना-( सा० १०१३-५ )मिति च्यावनक्रोशे (ऊ० ३. १. ११-२) । पवस्व वाजसातये (सा० १०१६-८) इति त्वाष्ट्रीसाम च ( ऊ० ८.२.६) यत्स्वारयोरुत्तरमृषभश्च शाक्वरः (र० १. २.५) पार्थं (ऊ० ३.१. १४) चाष्टेडश्च पदस्तोभः (र० १. २.६) । गोवित्पवस्वे-( सा० ९५५ -७ )ति द्व्यभ्याघातं लौश-( ऊ० ८.२.७ )मन्त्यम् । यज्ञायज्ञीय-( ऊ० १. १. १४) मग्निष्टोमसाम । आ ते अग्न इधीमही- ( सा० १०२२-४ )ति संजयम् (ऊ० ३.१. १६) । इन्द्राय साम गायते-(सा० १०२ ५-७)ति सौमित्रम् ( ऊ० ३ . १. १७) । असावि सोम इन्द्र त (सा० १०२८-३०) इति महावैश्वामित्र-(ऊ० ३. १. १ ८)मित्युक्थानि । द्वे त्रिणवे सवने । त्रयस्त्रिंशमेकम् । । १ ।। इति प्रथमादिपञ्चमान्तान्यहनि ।।
षष्ठमहः
पृष्ठ्यस्तोमस्य षष्ठमहः । वैदन्वतेभ्य उत्तरं पय । षड्विंशं तृतीय-सवनं सोक्थम् । । २ ।।
इति षष्ठमहरुक्तम् । तस्य द्वे त्रयस्त्रिंशे सवने । षटत्रिंशमेकमिति

447
अहीनः-पौण्डरीक एकादशरात्रः अ. ८. ख. ३४।

स्तोमक्लृप्तिः । अभ्यासङ्ग्यः षडह (तां०ब्रा० २२.१८.१) इत्यभ्यासङ्ग-विधानात् षट्त्रिंशं तृतीयसवनं सोक्थमिति कल्पवचनाच्च ।
षष्ठस्याह्नः---असृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिपः - पवस्व देववीरति ( सा० १०३७-४६) सना च सोम जेषि च ( सा० १०४७-५६) तरत्समन्दी धावति (सा० १०५७-६०) एते सोमा असृक्षते-(सा० १०६१-३ )ति बहिष्पवमानम् । यमग्ने पृत्सु मर्त्यम् ( सा० १४१५-७) प्रति वां सूर उदिते (सा० १० ६७-९)भिन्धि विश्वा अप द्विषः (सा० १०७०-२) यज्ञस्य हि स्थ ऋत्विजः (सा० १०७३-५) इत्याज्यानि । इन्द्रायेन्दो मरुत्वत (सा० १ ०७६-८) इति गायत्रं चेषोवृधीयं ( ऊ० ३.१.१९) च क्रौञ्चं (ऊ० ३.१. २०) च वाजदावर्यश्च ( ऊ० ३.२.१) दार्ढ्यच्युतं (ऊ० १६.१. १३) । मृज्यमानः सुहस्त्ये-(सा० १०७९-८०) त्यैडस्वारे औक्ष्णोरन्ध्रे ( ऊ० ३.२.२-३) । वाजजि-(ऊ० ३. २. ४)द्वरुणसाम (ऊ० ३.२.५) । गोष्ठं ( ऊ० ३.२.६) च । अया पवा पवत्वे-(सा० १२१ ६-८)ति इहवद्वासिष्ठ-( ऊ० ८.२.१०) मन्त्यम् । बृहच्च (र० १. १.५) वामदेव्यं ( ऊ० १.१.५) च । सुरूपकृत्नुमूतये ( सा० १०८७-९) इत्यृषभं च रैवतम् (र० १.२.८) । उभे यदिन्द्र रोदसी(सा० १०९०-२ )ति अरण्येगेयं च श्येन-(अ०गे० ३.४.१३० )मिति पृष्ठानि । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च वैदन्वतानि त्रीणि तृतीयाद्य-चतुर्थान्तानि ( ऊ० ३.२.९-११) । पयश्च (र० ४.३.११) । स सुन्वे यो वसूनाम् ( सा० १०९६-७) तं वै सखायो मदाये-( सा० १०९८-१००१) ति दीर्घं (ऊ० ३.२.१२) च कार्णश्रवसं (ऊ० ३. २.१३) च । सोमाः पवन्त इन्दवः (सा० ११०१-३) इति क्रौञ्चं ( सा० १६. १. १) च यत्त्रयाणामाद्यम् । मधुश्चुन्निधनं (ऊ० ३. २.१५) च क्रौञ्चे वाङ्निधनैडे (ऊ० ३.२.१ ६-७) । ज्योतिर्यज्ञस्ये-( सा० १०३१-३)ति मरुतां धेन्व(ऊ० ८.२.११ )न्त्यम् । यज्ञायज्ञीय-( ऊ० १.१.१४)मग्निष्टोमसाम । द्वादशभ्यो हिंकरोति स तिसृभिः सोऽष्टाभिः स एकया । द्वादशभ्यो हिंकरोति स एकया स तिसृभिः सोऽष्टाभिः । द्वादशभ्यो हिंकरोति सोऽष्टाभिः स एकया स तिसृभिरिति षट्त्रिंशस्य विष्टुतिः । त्रिणवाद्यावत्समा (ला०श्रौ० ) इति वचनात् । अग्ने त्वं न ( सा० ११०७-९) इति गूर्दम् (ऊ० ३.२.१९) । इमानुक-( सा० १११०-२ )मिति भद्रम् (र० १.२.१०)। प्र व इन्द्रे-( सा० १११३-५ )त्युद्वंशपुत्र (ऊ० ३.२.२०) इत्युक्थानि । स्तोमविमोचनादि पूर्ववत् । अस्मिन्नहनि संस्थिते प्रागुत्तरस्याह्नः उपकरणात् बहुभाषणं स्वाध्यायाध्ययनं च वर्जयेयुः । सर्पिर्मधुभ्यामृत्विजो भोजयेदिति षडहः संपूर्णः ।। २ ।।
इति षष्ठमहः ।।
सप्तमाष्टमनवमान्यहानि
त्रयश्छन्दोमा एवमेव समूढाः । पुनः कण्वरथन्तरं स्वं लोकमेति ।। ३ ।।
अथ छन्दोमास्त्रय एवमेव समूढा इति । यथा छन्दोमवति दशरात्रे तथेत्यर्थः । पुनः कण्वरथन्तरं स्वलोकमेतीति द्वादशाहे षष्ठसप्तमयोरह्नोर्बार्हतयोर्जामिप्रसङ्गात् सप्तमस्य माध्यंदिने कण्व-रथन्तरं कल्पितम् । यथा च श्रुतिः । जामि द्वादशाहस्यास्तीति स्माहोग्रदेवो राजनि बार्हतं सप्तम- (तां० ब्रा० १४. ३.१७)मित्यादि । छन्दोमवद्दशरात्रे षष्ठस्य लोपाज्जाम्यभावादित्यारम्भणाद् बृहती यथा स्यादिति कण्वरथन्तरस्य लोके सोमसामे-(आ० क० ८.१०. २)त्युक्तम् । इह तु षष्ठस्य सद्भावाज्जामिता स्यादिति तन्निवृत्त्यर्थं स्वस्थाने कण्वरथन्तरं कार्यमित्यर्थः । तत्र सप्तमस्याह्नो

449
अहीनः---पौण्डरीक एकाहः (अ. ८. ख. ३६ )

बहिष्पवमानम् - ये सोमासः परावति (सा० ११६३-५) हिन्वानासो रथा इव (सा० ११२०-७) असृग्रमेन्दवः पथा (सा० ११२८-३९) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति ऋतावनं वैश्वानरम् (सा० १७०८-१०) । प्र वो मित्राय गायत (सा० ११४३-५) इन्द्रा-याहि चित्रभानो (सा० ११४६ -८) तमीडिष्व यो अर्चिषे(सा० ११४९-५१ )त्याज्यानि । अष्टाभ्यो हिंकरोतीति विष्टुतिः । वृषा पवस्व धारये-(सा० ८०३-५ )ति गायत्रं च संतनि (ऊ० ४. १. १) चैडं च सौपर्णं (ऊ० ४. १.२) रोहित-कूलीयम् (ऊ० ४.१.३) । पुनानः सोम धारये-(सा० ६७५-७)ति कण्वरथन्तरं (ऊ० ४. १. ४) च गौङ्गवं (ऊ० ४. १.५) च द्विनिधनं चायास्यम् (ऊ० ४. १. ६) । प्र काव्यमुशनेव ब्रुवाण (सा० १११६ -२७) इति वाराह-( ऊ० १६.२. १९ )मन्त्यम् । बृहच्च (र० १. १. १) वामदेव्यं (ऊ० १. १. ५) च । वयं घ त्वे-(सा० ८६ ४- )ति अभिनिधनं काण्वम् (ऊ० ४.१. ८) । न किष्ट-(सा० ११५५-६ )मिति वैखानसं (ऊ० ४.१. ९) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं तिसृषु । अग्नेरर्को-( र० १. ३. १ )ऽध्यर्धेडं सोमसाम (ऊ० १४.१. १३) मौक्षं-(ऊ० ४. १. १० )मिति सामतृचः । अपि वा गायत्रं मौक्षं सोमसामेति सामतृचः । अग्नेरर्कस्तिसृषु । एष स्य धारया सुतः (सा० ५८४) सखाय आ निषीदते-(सा० ११५७-९ )ति शार्करप्लवौ (ऊ० ४.१. ११-२) । पुरोजिती वो अन्धस (सा० ६९७-८) इति आत्रेयं (ऊ० १६.२. १७) च कार्तयशं (ऊ० ४. १. १४) च । प्र वाज्यक्षा (सा० ११६ ०-२) इति सौहविषम् (ऊ० ४.१. १५) । प्रो अयासी-( सा० ११५२-४) दित्यैडं यज्ञ-सारथ्यन्तम् (ऊ० १६.२.५) । यज्ञायज्ञीय( ऊ० १. १. १४) मग्निष्टोमसाम । आ ते वत्स (सा० ११६ ६-८) इति वात्सम् (ऊ० ४. १. १७) । त्वं न इन्द्रे-( सा० ११६९-७१ )त्यौपगवम् (ऊ० ४. १. १ ८) । यदिन्द्र-चित्र म इह ने-( सा० ११७२-४ )ति वीङ्क-(ऊ० ४.१. १ ९)मित्युक्थानि । सर्वं चतुर्विंशम् ।।
अष्टमस्याह्नः-हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) एते सोमा अभि प्रियम् ( सा० ११७८-८६) सोमः पुनानो अर्षति ( सा० ११८७-९५) सोमा असृग्रमिन्दवः ( सा० ११९६-१२०४) उत्ते शुष्मास ईरते (सा० १२०५-९) अयावीती परिस्रव (सा० १२१०-१२) अपघ्नन् पवते मृधः (सा० १२१३-५) अया पवस्व धारये-(सा० १ २ १ ६-८)ति बहिष्पवमानम् । विश्वेभिरग्ने अग्निभिः (सा० १६ १७-९) मित्रं वयं हवामहे (सा० ७९३-५) तमिन्द्रं वाजयामसि ( सा० १२२२-४) इन्द्रे अग्ना नमो बृहद् ( सा० ९००-२) इत्याज्यानि । अध्वर्यो अद्रिभिः सुतम् ( सा० १२२५-७) इति गायत्रं च वैरूपं (ऊ० ४. १. २०) चाशुर्भागवं (ऊ० ४.२.१) च मार्गीयवं च ( ऊ० ४.२. २) सौमित्रं ( ऊ० ४.२.३) चैटतं (ऊ० ४.२.४) च साकमश्वं (ऊ० ४.२.५) च विलम्ब-सौपर्णं ( ऊ० ४.२.६) च । अभि सोमास आयव (सा० ८५ ६-८) इति द्विहिंकारं (ऊ० ४.२.७) च गायत्रपार्श्वं (ऊ० ४. २. ८) च पौरुहन्मनं ( ऊ० ४.२.९) च द्वैगतं (ऊ० ४. २.१०) च हारायणं (ऊ० ४.२.११) चाच्छिन्द्रं (ऊ० ४.२.१२) च बार्हदुक्थं (ऊ० ४.२. १३) च । उहु वाइ शिशु-(सा० १ १७५-७)मिति वासिप्ठ-( ऊ० १६.२.७ )मन्त्यम् । द्विहिंकारं प्रथमायाम् । बार्हदुक्थमध्यास्यायाम् । रथन्तरं ( र० १ . १. १) च वामदेव्यं ( ऊ० १. १. ५) च । यदिन्द्र प्रागुदगि-( सा० १२३१-२) ति नैपातिथं ( ऊ० ४.१.१५) च । उभयं शृणवच्चने-(सा० १२३ ३-४)ति वैयश्व (ऊ० ४.१. १६) चेति पृष्ठानि । पवस्व देव आयुष-(सा० १२३ ५-७]गिति गायत्रं च स्वाशिरामर्कः (र० १ . ३.२) सुरूपं (ऊ० ४.२.१७) च भासं (र० २.३.९) च काक्षीवतं ( ऊ० ४.२.१९) च गायत्रीसामासितं (ऊ० ४.२.२०) च । अभि द्युम्नं बृहद्यशः (सा० १०१ १-२) प्राणा

451
अहीनः-पौण्डरीक एकाहः अ. ८. ख. ३६

शिशुर्महीनाम् (सा० १०१३-५) इत्यैषिरत्रैते (ऊ० ५.१. १-२) एकर्चे । अभी नो वाजसातम(सा० १२ ३८-४०)मिति स्वारैड-(ऊ० १६.२.१९ )कौत्से ( ऊ० ५.१. ४) शुद्धाशुद्धीयं (ऊ० ५. १.५) च क्रौञ्चं ( ऊ० ५.१. ६) च रयिष्ठौदले (ऊ० ५.१. ७-८) च । पवस्व सोम महान्त्समुद्र ( सा० १२४१-३) इति धर्म (ऊ० ५. १. ९) । हाउ धर्ते-(सा० १२२८-३० )ति ऐडं शार्ङ्ग-( ऊ० १३.१. २० )मन्त्यम् । यज्ञायज्ञीय( ऊ० १. १. १४)मग्निष्टोमसाम । प्रेष्ठं व (सा० १२४४-६) इत्यौशनम् (ऊ० ५. १. ११) । एन्द्र नो गधि प्रिये-( सा० १२४७-९) ति सांवर्तम् (ऊ ० ५. १. १२) । पुरां भिन्दुर्युवा कवि-( सा० १२५०-२ )रिति मारुत-( ऊ० ५. १. १३ )मित्युक्थानि । सर्वं चतुश्चत्वारिंशस्तोमम् । तस्य चतुश्चत्वारिंशस्तोमस्य तिस्रो विष्टुतयः आम्नाताः । तासु आज्यानां प्रथमा । पृष्ठानां द्वितीया । अग्निष्टोमसाम्नां च तृतीयेत्येकः पक्षः । पक्षान्तरमपि द्वादशाहे दर्शितम् ।।

नवमस्याह्नः-उपोषु जातमप्तुरम् ( सा० १३३५-७) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या ( सा० १२६६-७३) एष उ स्य वृषा रथ (सा० १२७४-९) एष वाजी हितो नृभिः (सा० १२८०-५) एष कविरभिष्टुतः (सा० १२८६-९१) स सुतः पीतये ( सा० १२९२७) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । उप त्वा रण्व संदृशं (सा० १७०५-७) मित्रं हुवे पूतदक्षं (सा० ८४७-९ महां इन्द्रो य ओजसा (सा० १३ ०७-९) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि । पवमानस्य जिघ्नत ( सा० १३१०-२) इति गायत्रं चादारसृच्च (ऊ० ५. १. १४) सुरूपं (ऊ० ५. १. १५) च हरिश्रीनिधनं (ऊ० ५. १. १६) च सैन्धुक्षितं (ऊ० ५. १. १७) च । गत-निधनं बाभ्रवं ( ऊ० ५. १. १८) चैडानां संक्षार (ऊ० ५. १. १९) ऋषभश्च पवमानः (ऊ० ५. १. २०) । परीतो षिञ्चता सुतम् (सा० १३१३-५ )मिति पृष्ठं (ऊ० ५.२.१) तिसृषु ।
कौल्मलबर्हिषं (ऊ० ५. २.२) प्रथमायाम् । अर्कपुष्पं (ऊ० ५. २.३१ द्वितीयायाम् । दैर्घश्रवसं (ऊ० ५ . २.४) तृतीयायाम् । देवस्थानं ( र० १. ३.३) तिसृषु । संकृति (र० १. ३.४) तिसृषु । वैयश्वं ( ऊ० ५. २.५) प्रथमायाम् । भर्गस्तिसृषु (र० १.३.५) । आभीशवं (ऊ० ५. २.६) प्रथमायाम् । यश-( र० १. ३. ६ )स्तिसृषु । वासिष्ठमध्यास्यायाम् । हाइ उहु वाइ अक्रानि- ( सा० १२५३-५ )ति वासिष्ठ-(ऊ० १७.१. १)मन्त्यम् । तस्य बृहत्यामरण्येगेयानि तृचेष्वि-(ला० श्रौ० ३.६. २८) त्यादिवचनादेवं क्लृप्तिः । बृहच्च ( र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च श्रायन्तीयं (ऊ० ५. २.९) च । यत इन्द्र भयामह (सा० १३२१-२) इति समन्तं (ऊ० ५.२.१०) चेति पृष्ठानि । त्वं सोमासि धारयु-( सा० १३२३-५ )रिति गायत्रं चाश्वसूक्तं (ऊ० ५. २.११) च शाम्मदं (ऊ० ५. २.१२) च यद्दावसुनिधनं ( ऊ० ५. २.१३) च प्रतीचीनेडं च काशीतं (ऊ० ५. २.१४) हाविष्कृतं (ऊ० ५. २.१५) च । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देववीतये ( सा० १३२६-८) इति सौपर्णं (ऊ० ५. २.१६) च वैश्वमनसं (ऊ० ५. २.१७) च । परि त्यं हर्यतं हरि-( सा० १३२९ -३ १ )मित्यासितोत्तरं (ऊ० १७. १.२) प्रथमायाम् । दीर्घतमसोर्को (ऊ० ४.३. १०) द्वितीयायाम् । आकूपारं (ऊ० १७.१. ३) तृतीयायाम् यत्स्वयोनि । निहव-( ऊ० ५. २.१९) यद्वाहिष्ठीया-( ऊ० ५. २.२० )सिताद्यसाध्रा- कूपाराणि ( ऊ० ६. १. १ -३) तृचेषु । पवस्व सोममहे दक्षाये-(सा० १३३ २-४)ति विधर्म (ऊ० ६. १. ४) । असावि सोमो अरुषो वृषा हरि (सा० १३१६-८ )रिति ऐडं याम- ( ऊ० १७. १. ४ )मन्त्यम् । यज्ञायज्ञीय-( ऊ० १. १.१४ )मग्निष्टोमसाम । आ घा य (सा० १३३८-४०) इत्यैध्मवाहम् (ऊ० ६. १. ६) ।

453
अहीनः-पौण्डरीक एकाहः अ ८. ख. ३७

य एक इ-( सा० १३४१-३ )दिति त्रैककुभम् (ऊ० ६.१.७) । गायन्ति त्वे-(सा० १३४४-६) ति उद्वंशीय-(ऊ० ६. १. ८)मित्युक्थानि । सर्वमष्टाचत्वारिंशम् । अष्टाचत्वारिंशस्योत्तरया मैत्रावरुणस्यैवाज्यं विदध्यात् । प्रथमयैवान्त्यानि स्तोत्राणि । ३ ।।
इति सप्तमष्टमनवमान्यहानि ।। ३६ ।।

दशममहः
चतुष्टोमयोः पूर्वः ।। १ ।।
चतुष्टोमयोः पूर्वं दशममहः । तस्य क्लृप्तिः-अयं पूषा रयिर्भगः (सा० ८१८-२०) इति तिस्रोऽनुष्टुभः । चतस्रो गायत्रीः करोति । अयं पूषा रयिर्भगोम् इति त्रिष पादेषु रेतस्या । व्याख्यद्रोदसी उभोमिति द्वितीया स्तोत्रीया । सोमासः कण्व ते पथोमिति तृतीया । पवमान श्रवा धियोमिति रथन्तरवर्णा इति चतसृभिः बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी( सा० ६६०-७१) त्याज्यानि । तेषामष्टिस्तोमश्चतुःपर्यायः कर्तव्यः । द्वाभ्यां हिंकरोति स प्रथमया । द्वाभ्यां हिंकरोति स प्रथमया । द्वाभ्यां हिंकरोति स मध्यमया । द्वाभ्यां हिंकरोति स उत्तमयेति विष्टुतिः । चतुष्टोमयोः चतुष्पर्यायाः । तत्र चतुष्कं द्वौ प्रथमायां पर्यायौ स्याताम् इत्यारभ्य तथाष्टिनि द्विकास्तुतस्य पर्याया (ला० श्रौ ० ६.८.२-४) इति वचनात् । तत्र प्रथमद्वितीयौ तृचभागस्थानयोर्विधाय द्वितीयस्य तृचभागस्थानस्योत्तरतः प्रत्यगग्रेण कुशाद्वयेन तृतीयं पर्यायं विदध्यात् । तस्योत्तरतस्तृचभागस्थाने चतुर्थम् । अथ माध्यंदिनः--उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १.१) च । पुनानः सोम धारये(सा० ६७५-७)ति रौरवं (ऊ० १. १.२) मैधातिथं (ऊ० १३.१.७) यौधाजय-( ऊ० १. १.३ )मिति सामतृचः । प्र तु द्रवे-(सा० ६७७-९ )त्यौशन-( ऊ० १.१.४ )मन्त्यमिति द्वादशः । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च श्रायन्तीयं (ऊ० ५.२.९) च कालेयं ( ऊ० १.१.७) चेति पृष्ठानि षोडशानि । षोडशस्तोमस्य विष्टुतिः । चतसृभ्यो हिंकरोति स द्वाभ्यां स एकया स एकया । चतसृभ्यो हिंकरोति स एकया स द्वाभ्यां स एकया । चतसृभ्यो हिंकरोति स एकया स एकया स एकया स द्वाभ्यामिति । षोडशे चत्वारो द्वादशपर्याया-स्तेषां मध्यमो सदृशा-( ला० श्रौ० ६. ८.८ )विति वचनात् । उत्तरोत्तराः पर्यायाः । स्वादिष्ठये( स० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-( सा० ६९२; ६९४ )ति सफ-( ऊ० १. १. ९ )पौष्कले (ऊ० १.१. १०) एकर्चयोः । पुरोजिती वो अन्धसः (सा० ६९७९) इति श्यावाश्वान्धीगवे (ऊ० १. १. १ १-२) । यज्ञायज्ञीयं (ऊ० १.१.१४) च काव-(ऊ० १.१. १३ )मन्त्यमिति विंशत्यार्भवः । यज्ञा (सा० ७०३-४) एष (सा० ७०५-७) तं ते (सा० ८८०-२) श्रुधी हव-( सा० ८८३-५) मिति वारवन्तीयं (ऊ० १३. १.११-४) चतुर्षु तृचेषु षड्भिः षड्भिः स्तोत्रीयाभिः । चतुर्विंशमग्निष्टोमसाम । चतुर्विंशस्य विष्टुतिः षद्भ्यो हिंकरोति स द्वाभ्यां स द्व्याभ्यां स द्वाभ्यामिति प्रथमः पर्यायः । एवमुत्तरे त्रयः पर्यायाः । चतुर्विंशे चत्वारः षट्काः पर्यायाः ( ला० श्रौ० ६.८.९) इत्यादिवचनात् । अस्मिन्नहनि दशमधर्मा मानससंयुक्तेभ्योऽन्ये कर्तव्या इति निदाने प्रतिपादितम् । के पुनर्दशमधर्माः । ऋचं साम दधिक्राव्ण इत्यनयोरुत्तमपादाभ्यासः । आयुर्मे प्राणा इति मन्त्रे पुनरस्मासु दध्मसीत्यभ्यासः । अन्येऽपि धर्मा अप्रतिग्रहामे

455
अहीनः-पौण्डरीक एकाहः अ.८. ख. ३८

त्यस्मिन्नहनि अनुष्टुभं मात्रां कृत्वापक्षीरन्नित्यादिनोक्ताः मानस-संयुक्तेभ्योऽन्ये द्रष्टव्याः ।। १ ।।
इति दशममहः ।। ३७ ।।
एकादशमहः
विश्वजिदतिरात्रो विश्वजिदतिरात्र ।। १ ।।

एकादशमहर्विश्वजिदतिरात्रः । तस्य त्रिवृद् बहिष्पवमानम् । उप त्वा जामयो गिरो ( सा० १५७०-२) जनीयन्तो न्वग्रवः (सा० १४६०) उत नः प्रियाः प्रियासु (सा० १४६१) तत्सवितुर्वरेण्यम् (सा० १४६२) सोमानां स्वरणं (सा० १४६३) अग्न आयूंषि पवसे (सा० १४६४ )पवमानस्य ते कवे (स० ६५७-९) इति बहिष्पवमानम् । उत्तम एव तृचे । इतरे एकर्चाः यथालिङ्गं देवताभेदः । सुषमिद्धो न आवह ( सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४६ ५-७) युञ्जन्ति ब्रध्नमरुषं चरन्तम् ( सा० १४६८) तमीडिष्व यो अर्चिषे(सा० ११४९-५१ )त्याज्यानि । सुषमिच्चतुर्ऋचे । यथा-गोत्रमुद्धारः । पञ्चदशं होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । पञ्चदशमच्छावाकस्य । अस्य प्रत्ने-(सा० ७५५-७ )ति गायत्रं चामहीयवं ( ऊ० ९. २.३ ) च। परीतो षिञ्चता सुत-(सा० १३१३-५ )मिति कालेयं (ऊ० ९.२.४) प्रथमायाम् । रथन्तरं (र० १.१. १) तिसृषु । यौधाजय(ऊ०- १.१.३ )मध्यास्यायाम् । अयं सोम (सा० १४७१-३) इति पार्थ-(ऊ० ९ .२.५ )मन्त्यमिति सप्तदशो माध्यंदिनः । रथन्तरस्तुतिकाले पृष्ठ्ये रथमतिवहेयुर् (ला०श्रौ० ३.५ .१-२ )इत्यादिनोक्तो रथघोषः कर्तव्यः । षट्-पृष्ठ प्रयोगसद्भावात् । विश्वजिति वैराजधर्मान् कुर्यादितरेष्वपि पृष्ठेष्विति आचार्यमति-(ला० श्रौ० ३.६.२०-१)रिति वचनाच्च । वैराजं (र० १.१.१०) च महानाम्न्यश्च वैरूपं (ऊ० ४. १.२०) च रेवत्य(र० १.२. ७)श्चेति पृष्ठानि । एकविंशं होतुः पृष्ठम् । त्रिणवं मैत्रावरुणस्य । सप्तदशं ब्राह्मणाच्छंसिनः । एकविंशमच्छा-वाकस्य । वैराजस्य स्तोत्र उपाकृत (ला० श्रौ० ३.५.५) इत्यादिना वैराजस्य धर्मा उक्ताः । अपस्सावका उप निधाये-(ला० श्रौ० ३.५ .१ ३ )त्यादिना महानाम्नीनाम् । उप वाजयमाना (ला० श्रौ० ३.५ .३) इत्यादिना वैरूपस्य । वारवन्तीयस्य स्तोत्रे धेनुः (ला० श्रौ० ३.६.१) इत्यादिना रेवतीनाम् । परिस्वानो गिरिष्ठा (सा० १०९३५) इति गायत्र-संहिते( ऊ० ९.२.६) । पवस्वेन्द्रमच्छे(सा० ६९२-६ )ति सफ-(ऊ० १. १. ९)श्रुध्ये (ऊ० ९. १.२०) । पर्यूष्वि-( सा० १३६४-६ )ति वामदेव्यम् (ऊ० ९.२.९) । पुरोजिती वो अन्धस (सा० ६९७-९) इति आन्धीगवं (ऊ० १.१.१२) यज्ञायज्ञीये (ऊ० ८. २.१६) । परि प्र धन्वासु(सा० १ ३६७-९) द्विपदासु वारवन्तीयम् (उ० ९. २.१०) । सूर्यवतीषु ( सा० १३७०-२) काव-(ऊ० ९. २.११ )मन्त्यमिति त्रिणव आर्भवः । त्वमग्ने यज्ञानां होते-( सा० १४७४-६ )ति वृहदग्निष्टोमसाम ( र० २.४.५) त्रयस्त्रिंशम् । बृहतः स्तोत्रे दुन्दुभिमाहन्युः । साकमश्वं (ऊ० १. १. १५) सौभरं (ऊ० १.१.१६) नार्मेध-( ऊ० १.१.१७)मित्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे । इन्द्र जुषस्वे-(सा० ९ ५२-४)ति गौरीवितं ( ऊ० ३. १.२) षोडशिसामैकविंशम् । आहीनिकी रात्रिः पञ्चदशी । संधिस्त्रिवृत् । स्तोमविमोचनाद्युद वसनीयान्तम् । आहरन्तिकी सुब्रह्मण्यात्र न कर्तव्या उत्तरार्थाऽ-ऽहरन्तिकी-(ला० श्रौ० १.४.९ )ति वचनात् ।।
अथापस्तम्बेन पौण्डरीकस्य प्रकारान्तरेणाहःकलृप्तिरुक्ता- अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा महाव्रतं विश्वजित् सर्वपृष्ठोऽतिरात्र

457
अहीनः-पौण्डरीक एकाहः [ अ. ८. ख. ३७

(आप०श्रौ० २२.२४.१२) इति । अत्र महाव्रतव्यतिरिक्तं यथा छन्दोमवद्दशरात्रे तथा कर्तव्यम् । महाव्रतं तु ऐकाहिकम् । अत्र स्युर्मानसा धर्माः । तथा दाशमिकाः इति केचिदाचक्षते । तत्र निर्णयं ब्रूमह वयम् --
व्रतं यदूर्ध्वं दशमाद् व्रतान्ते मानसं सदा ।
वदन्ति सांवर्गजिता गौतमा इति सूत्रतः ।। १ ।।
सांवर्गजितपक्षेण व्रतान्ते मानसं भवेत् ।
येऽन्ये दाशमिका धर्माः कार्याः पूर्वत्र तेऽहनि ।। २ ।।
पक्षान्तरेण पूर्वे हि धर्माः कार्याः समानसाः ।
तत्सर्पराज्ञादन्येषां धर्माणां करणं व्रते ।। ३ ।।
पक्षेऽपि न च कस्मिंश्चिद् दृष्टमित्यवधार्यताम् ।
परस्मिन् पौण्डरीके तु न धर्मा नापि मानसम् ।। ४ ।।
इति । अथ व्यूढो नवरात्रो महाव्रतं वैश्वानरः (आ०श्रौ० १०.४.१) इत्याश्वलायनोक्तः पौण्डरीकः । तत्र व्यूढो नवरात्रो व्यूढद्वादशाहवत् कर्तव्यः । विशेषस्तूच्यते । औदलमासितं त्वाष्ट्रीसामाविकृतं चतुर्थमहस्त्वाष्ट्रीसाम क्रौञ्चमेते स्वराः पृष्ठ्यस्य गौरीवितलोके । आत्रेयं सप्तमस्याह्नः स्वारं कौत्समष्टमस्य । नवमस्याह्रः- परि त्यं हर्यतं हरि-( सा० १३२९-३१ )मिति गौरीवितलोके । आसित-(ऊ० ७.१. २)मेकस्याम् । दीर्घतमसोऽर्कः (र० ४.३.१०) एकस्याम् । आकूपारमेकस्याम् ( ऊ० ६.१.३) यत्स्वयोनि कर्तव्यम् । एवं माध्यंदिनान्त्यं सामराजमेव नियतम् । न तु दीर्घतमसोऽर्कः । बृहत्यां चासौ नानुकल्पनीयोऽसंचाराय । महा- व्रतमैकाहिकं वैश्वानरशब्देन ज्योतिष्टोमोऽतिरात्र उच्यते । तस्याहीनिकी रात्रिः ।। ४ ।।
इति एकादशमहः ।। ३७ ।।
इति पौण्डरीकएकादशरात्रः ।।
इत्थं वरदराजेन वामनार्यस्य सूनुना ।
अहीनकल्पो व्याख्यातो गोविन्दः प्रीयतामिति ।।

इति श्रीवामनार्यसुतवरदराजविरचितायामार्षेय-कल्पव्याख्यायामष्टमोऽध्यायः ।। ८ ।।