आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः १०

सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः

द्वितीयस्याग्निं वो देवमित्याज्यं । कुविदंग नमसा ये वृधासः पीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्रा इत्येकपातिन्य उशन्ता दूता नदभाय गोपा यावत्तरस्तन्वो यावदोज इत्येका द्वे च प्रति वाँ सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्राह्मण इन्द्रो पयाहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदु तस्या नः सरस्वती जुषाणेति प्रउगं १ हिरण्यपाणिमूतय इति चतस्रो मही द्यौः पृथिवी च नो युवाना पितरा पुनरिति तृचौ देवानामिदव इति वैश्वदेवं २ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं । अजस्रं घर्ममीमहे । दिवि पृष्टो अरोचताग्निर्वैश्वानरो महान् । ज्योतिषा बाधते तमः । अग्निः प्रत्नेषु धामसु कामो भूतस्य भव्यस्य । सम्राडेको विराजति । क्रीडं वः शेर्द्धाग्ने मृडेत्याग्निमारुतं ३


८.१०।१ द्वितीयस्य अग्निम् वो देवम् इत्य् आज्यम् कुविद् अङ्ग नमसा ये वृधासः पीवो अन्नान् रयिवृधः सुमेधा उच्छन्न् उषसः सुदिना अरिप्रा इत्य् एक पातिन्य । (सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः)( पीवो अन्नाम् रयिवृधः )
८.१०।१ उशन्ता दूता नदभाय गोपा यावत्तरस् तन्वो यावद् ओज इत्य् एका द्वे च प्रति वाम् सूर उदिते सूक्तैर् धेनुः प्रत्नस्य काम्यम् दुहाना ब्रह्माण इन्द्र उपयाहि विद्वान् ऊर्ध्वो अग्निः सुमतिम् वस्वो अश्रेद् उत स्या नः सरस्वती जुषाणा इति प्रउगम् । (सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः)
८.१०।२ हिरण्य पाणिम् ऊतय इति चतस्रो मही द्यौः पृथिवी च नो युवाना पितरा पुनर् इति तृचौ देवानाम् इद् अव इति वैश्वदेवम् । (सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः)
८.१०।३ ऋतावानम् वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रम् घर्मम् ईमहे । दिवि पृष्ठो अरोचत अग्निर् वैश्वानरो महान् । ज्योतिषा बाधते तमः । अग्निः प्रत्नेषु धामसु कामो भूतस्य भव्यस्य । संराळ् एको विराजति । क्रीळम् वः शर्धो अग्ने मृळ इत्य् आग्निमारुतम् । (सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः)