सोम अभिजित्स्वरसामन्

अभिजिद्बृहत्पृष्ठः १ उभयसामा यद्यपि रथन्तरं यज्ञायज्ञीयस्य स्थाने २ पिबवांस्त्विह सामप्रगाथः ३ पिबा सोमं तमु ष्टुहीति मध्यन्दिनः ४ तयोरैकाहिके पुरस्तादन्ये वा शंसेयुः ५ एते एवेति गौतमः सप्तदशत्वात् पृष्ट्यस्य ६ यावत्यो यावत्यः कुशानां नवतो दशतो वा निष्केवल्ये तावतिसूक्ता मध्यन्दिनाः स्युरिति महान्यायः ७ मरुत्वतीयस्योत्तमे विपरीते ८ चातुर्विंशिकं तृतीयसवनं ९ अभिप्लव त्त्र्यहः पूर्वः स्वरसामानः १० स्वराणि त्विह पृष्ठानि ११ तेषां स्तोत्रिया यज्जायथा अपूर्व्यमत्स्यपायि ते मह एनमेनं प्रत्येत नेति १२ आद्यो वा सर्वेषां १३ वयं घत्वा सुतावन्त इति तिस्रो बृहत्यो यस्ते साधिष्ठोऽवस इति षडनुष्टुभ इत्यनुरूपाः १४ स्तोत्रिये यथा युक्ता बृहती तथाऽनुरूपे १५ स्थायीन्येतानि यथा बृहद्रथन्तरे १६

८.५।१ अभिजिद् बृहत् पृष्ठः । (सोम अभिजित्स्वरसामन्)
८.५।२ उभय सामा यद्य् अपि रथन्तरम् यज्ञायज्ञीयस्य स्थाने । (सोम अभिजित्स्वरसामन्)
८.५।२ पिववांस् त्व् इह साम प्रगाथः । (सोम अभिजित्स्वरसामन्)
८.५।४ पिबा सोमम् तम् उ ष्टुहि इति मध्यंदिनः । (सोम अभिजित्स्वरसामन्)
८.५।५ तयोर् ऐकाहिके पुरस्ताद् अन्ये वा शंसेयुः । (सोम अभिजित्स्वरसामन्)
८.५।६ एते एव इति गौतमः सप्तदशत्वात् पृष्ठ्यस्य । (सोम अभिजित्स्वरसामन्)
८.५।७ यावत्यो यावत्यः कुशानाम् नवतो दशतो वा निष्केवल्ये तावति सूक्ता मध्यंदिनाः स्युर् इति मना न्यायः । (सोम अभिजित्स्वरसामन्)
८.५।८ मरुत्वतीयस्य उत्तमे विपरीते । (सोम अभिजित्स्वरसामन्)
८.५।९ चातुर्विंशिकम् तृतीय सवनम् । (सोम अभिजित्स्वरसामन्)
८.५।१० अभिप्लव त्र्यहः पूर्वः स्वर सामानः । (सोम अभिजित्स्वरसामन्)(र् B ऋ)(Cओञ्चेर्निङ्ग्थे fइर्स्त्पृष्ठ ष्तोत्र)
८.५।११ स्वराणि त्व् इह पृष्ठानि । (सोम अभिजित्स्वरसामन्)
८.५।१२ तेषाम् स्तोत्रिया यज् जायथा अपूर्व्य मत्स्य पायि ते मम एनम् एनम् प्रत्येतन इति । (सोम अभिजित्स्वरसामन्)
८.५।१३ आद्यो वा सर्वेषाम् । (सोम अभिजित्स्वरसामन्)
८.५।१४ वयम् घ त्वा सुतावन्त इति तिस्रो बृहत्यो यस् ते सादिःष्ठो अवस इति षळ् अनुष्टुभ इत्य् अनुरूपाः । (सोम अभिजित्स्वरसामन्)
८.५।१५ स्तोत्रिये यथा युक्तो बृहती तथा अनुरूपे । (सोम अभिजित्स्वरसामन्)
८.५।१६ स्थायीन्य् एतानि यथा बृहद् रथन्तरे । (सोम अभिजित्स्वरसामन्)