प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ एकविंशः अध्यायः।
श्रीभगवान् उवाच।
यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान्।
क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते॥१॥

स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः।
विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः॥२॥

शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ॥३॥

धर्मार्थं व्यवहारार्थं यात्रार्थम् इति च अनघ।
दर्शितः अयं मया आचारः धर्मम् उद्वहतां धुरम्॥४॥

भूमि अम्बु अग्नि अनिल आकाशाः भूतानां पञ्च धातवः।
आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः॥५॥

वेदेन नामरूपाणि विषमाणि समेषु अपि।
धातुषु उद्धव कल्प्यन्तः एतेषां स्वार्थसिद्धये॥६॥

देश काल आदि भावानां वस्तूनां मम सत्तम।
गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम्॥७॥

अकृष्णसारः देशानाम् अब्रह्मण्यः अशुचिः भवेत्।
कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम्॥८॥

कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा।
यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः॥९॥

द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च।
संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा॥१०॥

शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने।
अघं कुर्वन्ति हि यथा देश अवस्था अनुसारतः॥११॥

धान्य दारु अस्थि तन्तूनां रस तैजस चर्मणाम्।
काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः॥१२॥

अमेध्यलिप्तं यत् येन गन्धं लेपं व्यपोहति।
भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते॥१३॥

स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः।
मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः॥१४॥

मन्त्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम्।
धर्मः संपद्यते षड्भिः अधर्मः तु विपर्ययः॥१५॥

क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः।
गुणदोषार्थनियमः तत् भिदाम् एव बाधते॥१६॥

समानकर्म आचरणं पतितानां न पातकम्।
औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधः॥१७॥

यतः यतः निवर्तेत विमुच्येत ततः ततः।
एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः॥१८॥

विषयेषु गुणाध्यासात् पुंसः सङ्गः ततः भवेत्।
सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम्॥१९॥

कलेः दुर्विषहः क्रोधः तमः तम् अनुवर्तते।
तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम्॥२०॥

तया विरहितः साधो जन्तुः शून्याय कल्पते।
ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च॥२१॥

विषयाभिनिवेशेन न आत्मानं वेद न अपरम्।
वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन्॥२२॥

फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम्।
श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम्॥२३॥

उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च।
आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु॥२४॥

न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि।
कथं युञ्ज्यात् पुनः तेषु तान् तमः विशतः बुधः॥२५॥

एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः।
फलश्रुतिं कुसुमितां न वेदज्ञाः वदन्ति हि॥२६॥

कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः।
अग्निमुग्धा धुमतान्ताः स्वं लोकं न विन्दन्ति ते॥२७॥

न ते माम् अङ्गः जानन्ति हृदिस्थं यः इदं यतः।
उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः॥२८॥

ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः।
हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना॥२९॥

हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखएच्छया।
यजन्ते देवताः यज्ञैः पितृभूतपतीन् खलाः॥३०॥

स्वप्न् उपमम् अमुं लोकम् असन्तं श्रवणप्रियम्।
आशिषः हृदि सङ्कल्प्य त्यजन्ति अर्थान् यथा वणिक्॥३१॥

रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः।
उपासतः इन्द्रमुख्यान् देवादीन् न तथा एव माम्॥३२॥

इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि।
तस्य अन्तः इह भूयास्मः महाशाला महाकुलाः॥३३॥

एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम्।
मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते॥३४॥

वेदाः ब्रह्मात्मविषयाः त्रिकाण्डविषयाः इमे।
परोक्षवादाः ऋषयः परोक्षं मम च प्रियम्॥३५॥

शब्दब्रह्म सुदुर्बोधं प्राण इन्द्रिय मनोमयम्।
अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत्॥३६॥

मया उपबृंहितं भूम्ना ब्रह्मणा अनन्तशक्तिना।
भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते॥३७॥

यथा ऊर्णनाभिः हृदयात् ऊर्णाम् उद्वमते मुखात्।
आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा॥३८॥

छन्दोमयः अमृतमयः सहस्रपदवीं प्रभुः।
ओङ्कारात् व्यञ्जित स्पर्श स्वर उष्म अन्तस्थ भूषिताम्॥३९॥

विचित्रभाषाविततां छन्दोभिः चतुर उत्तरैः।
अनन्तपारां बृहतीं सृजति आक्षिपते स्वयम्॥४०॥

गायत्री उष्णिक् अनुष्टुप् च बृहती पङ्क्तिः एव च।
त्रिष्टुप् जगती अतिच्छन्दः हि अत्यष्टि अतिजगत् विराट्॥४१॥

किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत्।
इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन॥४२॥

मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम्।
एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम्।
मायामात्रम् अनूद्य अन्ते प्रतिषिध्य प्रसीदति॥४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवद्द्धवसंवादे
वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः॥२१॥

अथ द्वाविंशः अध्यायः।
उद्धवः उवाच।
कति तत्त्वानि विश्वेश संख्यातानि ऋषिभिः प्रभो।
नव एकादश पञ्च त्रीणि आत्थ त्वम् इह शुश्रुम॥१॥

केचित् षड्विंशतिं प्राहुः अपरे पञ्चविंशतिम्।
सप्त एके नव षट् केचित् चत्वारि एकादश अपरे।
केचित् सप्तदश प्राहुः षोडश एके त्रयोदश॥२॥

एतावत् त्वम् हि संख्यानाम् ऋषयः यत् विवक्षया।
गायन्ति पृथक् आयुष्मन् इदं नः वक्तुम् अर्हसि॥३॥

श्रीभगवान् उवाच।
युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा।
मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम्॥४॥

न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा।
एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः॥५॥

यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम्।
प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति॥६॥

परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ।
पौर्व अपर्य प्रसंख्यानं यथा वक्तुः विवक्षितम्॥७॥

एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः॥८॥

पौर्व अपर्यम् अतः अमीषां प्रसंख्यानम् अभीप्सताम्।
यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसंभवात्॥९॥

अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम्।
स्वतः न संभवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत्॥१०॥

पुरुष ईश्वरयोः अत्र न वैलक्षण्यम् अणु अपि।
तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः॥११॥

प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः।
सत्त्वं रजः तमः इति स्थिति उत्पत्ति अन्तहेतवः॥१२॥

सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानम् इह उच्यते।
गुणव्यतिकरः कालः स्वभावः सूत्रम् एव च॥१३॥

पुरुषः प्रकृतिः व्यक्तम् अहंकारः नभः अनिलः।
ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव॥१४॥

श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः।
वाक् पाणि उपस्थ पायु अंघ्रिः कर्माण्यङ्ग उभयं मनः॥१५॥

शब्दः स्पर्शः रसः गन्धः रूपं च इति अर्थजातयः।
गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः॥१६॥

सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी।
सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते॥१७॥

व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया।
लब्धवीर्याः सृजन्ति अण्डं संहताः प्रकृतेः बलात्॥१८॥

सप्त एव धातवः इति तत्र अर्थाः पञ्च खादयः।
ज्ञानम् आत्मा उभय आधारः ततः देह इन्द्रिय आसवः॥१९॥

षड् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान्।
तैः युक्तः आत्मसंभूतैः सृष्ट्वा इदं समुपाविशत्॥२०॥

चत्वारि एव इति तत्र अपि तेजः आपः अन्नम् आत्मनः।
जातानि तैः इदं जातं जन्म अवयविनः खलु॥२१॥

संख्याने सप्तदशके भूतमात्र इन्द्रियाणि च।
पञ्चपञ्च एक मनसा आत्मा सप्तदशः स्मृतः॥२२॥

तद्वत् षोडशसंख्याने आत्मा एव मनः उच्यते।
भूतेन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदशः॥२३॥

एकादशत्वः आत्मा असौ महाभूतेन्द्रियाणि च।
अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ॥२४॥

इति नाना प्रसंख्यानं तत्त्वानाम् ऋषिभिः कृतम्।
सर्वं न्याय्यं युक्तिमत्वात् विदुषां किम् अशोभनम्॥२५॥

उद्धवः उवाच।
प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ।
अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः।
प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि॥२६॥

एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि।
छेत्तुम् अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः॥२७॥

त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः।
त्वम् एव हि आत्म मायाया गतिं वेत्थ न च अपरः॥२८॥

श्रीभगवान् उवाच।
प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ।
एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः॥२९॥

मम अङ्ग माया गुणमयी अनेकधा विकल्पबुद्धीः च गुणैः विधत्ते।
वैकारिकः त्रिविधः अध्यात्मम् एकम् अथ अधिदैवम् अधिभूतम् अन्यत्॥३०॥

दृक् रूपम् आर्कं वपुः अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे।
आत्मा यत् एषम् अपरः यः आद्यः स्वया अनुभूत्य अखिलसिद्धसिद्धिः।
एवं त्वक् आदि श्रवणादि चक्षुः जिह्व आदि नास आदि च चित्तयुक्तम्॥३१॥

यः असौ गुणक्षोभकृतौ विकारः प्रधानमूलात् महतः प्रसूतः।
अहं त्रिवृत् मोहविकल्पहेतुः वैकारिकः तामसः ऐन्द्रियः च॥३२॥

आत्मापरिज्ञानमयः विवादः हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः।
व्यर्थः अपि न एव उपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात्॥३३॥

उद्धवः उवाच।
त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो।
उच्च अवचान् यथा देहान् गृह्णन्ति विसृजन्ति च॥३४॥

तत् मम आख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः।
न हि एतत् प्रायशः लोके विद्वांसः सन्ति वञ्चिताः॥३५॥

श्रीभगवान् उवाच।
मनः कर्ममयं नृणाम् इन्द्रियैः पञ्चभिः युतम्।
लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते॥३६॥

ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ।
उद्यत् सीदत् कर्मतन्त्रं स्मृतिः तत् अनुशाम्यति॥३७॥

विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः।
जन्तोः वै कस्यचित् हेतोः मृत्युः अत्यन्तविस्मृतिः॥३८॥

जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद।
विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः॥३९॥

स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ।
तत्र पूर्वम् इव आत्मानम् अपूर्वं च अनुपश्यति॥४०॥

इन्द्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि।
बहिः अन्तः भिदाहेतुः जनः असत् जनकृत् यथा॥४१॥

नित्यदा हि अङ्गः भूतानि भवन्ति न भवन्ति च।
कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते॥४२॥

यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः।
तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः॥४३॥

सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम्।
सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा आयुषाम्॥४४॥

मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान्।
म्रियते वामरः भ्रान्त्या यथा अग्निः दारु संयुतः॥४५॥

निषेकगर्भजन्मानि बाल्यकौमारयौवनम्।
वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव॥४६॥

एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः।
गुणसङ्गात् उपादत्ते क्वचित् कश्चित् जहाति च॥४७॥

आत्मनः पितृपुत्राभ्याम् अनुमेयौ भवाप्ययौ।
न भवाप्ययवस्तूनाम् अभिज्ञः द्वयलक्षणः॥४८॥

तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ।
तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक्॥४९॥

प्रकृतेः एवम् आत्मानम् अविविच्य अबुधः पुमान्।
तत्त्वेन स्पर्शसंमूढः संसारं प्रतिपद्यते॥५०॥

सत्त्वसङ्गात् ऋषीन् देवान् रजसा असुरमानुषान्।
तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः॥५१॥

नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान्।
एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते॥५२॥

यथा अम्भसा प्रचलता तरवः अपि चलाः इव।
चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः॥५३॥

यथा मनोरथधियः विषयानुभवः मृषा।
स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः॥५४॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा॥५५॥

तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत् इन्द्रियैः।
आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम्॥५६॥

क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा।
ताडितः संनिबद्धः वा वृत्त्या वा परिहापितः॥५७॥

निष्ठितः मूत्रितः बहुधा एवं प्रकम्पितः।
श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानम् उद्धरेत्॥५८॥

उद्धवः उवाच।
यथा एवम् अनुबुद्ध्येयं वद नः वदतां वर।
सुदुःसहम् इमं मन्यः आत्मनि असत् अतिक्रमम्॥५९॥

विदुषम् अपि विश्वात्मन् प्रकृतिः हि बलीयसी।
ऋते त्वत् धर्मनिरतान् शान्ताः ते चरणालयान्॥६०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
द्वाविंशोऽध्यायः॥२२॥

अथ त्रयोविंशः अध्यायः।
बादरायणिः उवाच।
सः एवम् आशंसितः उद्धवेन भागवतमुख्येन दाशार्हमुख्यः।
सभाजयन् बृत्यवचः मुकुन्दः तम् आबभाषे श्रवणीयवीर्यः॥१॥

श्रीभगवान् उवाच।
बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः।
दुरुक्तैः भिन्नम् आत्मानं यः समाधातुम् ईश्वरः॥२॥

न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः।
यथा तुदन्ति मर्मस्थाः हि असतां परुषेषवः॥३॥

कथयन्ति महत्पुण्यम् इतिहासम् इह उद्धव।
तम् अहं वर्णयिष्यामि निबोध सुसमाहितः॥४॥

केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः।
स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम्॥५॥

अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया।
वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः॥६॥

ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः।
शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः॥७॥

दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः।
दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम्॥८॥

तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः।
धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः॥९॥

तत् अवध्यान विस्रस्त पुण्य स्कन्धस्य भूरिद।
अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः॥१०॥

ज्ञातयः जगृहुः किंचित् किंचित् अस्यवः उद्धव।
दैवतः कालतः किंचित् ब्रह्मबन्धोः नृपार्थिवात्॥११॥

सः एवं द्रविणे नष्टे धर्मकामविवर्जितः।
उपेक्षितः च स्वजनैः चिन्ताम् आप दुरत्ययाम्॥१२॥

तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः।
खिद्यतः बाष्पकण्ठस्य निर्वेदः सुमहान् अभूत्॥१३॥

सः च आह इदम् अहो कष्टं वृथा आत्मा मे अनुतापितः।
न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः॥१४॥

प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन।
इह च आत्मोपतापाय मृतस्य नरकाय च॥१५॥

यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः।
लोभः स्वल्पः अपि तान् हन्ति श्वित्रः रूपम् इव इप्सितम्॥१६॥

अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये।
नाश उपभोगः आयासः त्रासः चिन्ता भ्रमः नृणाम्॥१७॥

स्तेयं हिंसा अनृतं दम्भः कामः क्रोधः स्मयः मदः।
भेदः वैरम् अविश्वासः संस्पर्धा व्यसनानि च॥१८॥

एते पञ्चदशान् अर्थाः हि अर्थमूलाः मताः नृणाम्।
तस्मात् अनर्थम् अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत्॥१९॥

भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा।
एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः॥२०॥

अर्थेन अल्पीयसा हि एते संरब्धा दीप्तम् अन्यवः।
त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम्॥२१॥

लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम्।
तत् अनादृत्य ये स्वार्थं घ्नन्ति यान्ति अशुभां गतिम्॥२२॥

स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकम् इमं पुमान्।
द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि॥२३॥

देवर्षि पितृ भूतानि ज्ञातीन् बन्धून् च भागिनः।
असंविभज्य च आत्मानं यक्षवित्तः पतति अधः॥२४॥

व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम्।
कुशलाः येन सिध्यन्ति जरठः किं नु साधये॥२५॥

कस्मात् संक्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत्।
कस्यचित् मायया नूनं लोकः अयं सुविमोहितः॥२६॥

किं धनैः धनदैः वा किं कामैः वा कामदैः उत।
मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः॥२७॥

नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः।
येन नीतः दशाम् एतां निर्वेदः च आत्मनः प्लवः॥२८॥

सः अहं कलौ अशेषेण शोषयिह्ह्ये अङ्गम् आत्मनः।
अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि॥२९॥

तत्र माम् अनुमोदेरन् देवाः त्रिभुवनेश्वराः।
मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत्॥३०॥

श्रीभगवान् उवाच।
इति अभिप्रेत्य मनसा हि आवन्त्यः द्विजसत्तमः।
उन्मुच्य हृदयग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः॥३१॥

सः चचार महीम् एतां संयत आत्मेन्द्रिय अनिलः।
भिक्षार्थं नगर ग्रामान् असङ्गः अलक्षितः अविशत्॥३२॥

तं वै प्रवयसं भिक्षुम् अवधूतम् असज्जनाः।
दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः॥३३॥

केचित् त्रिवेणुं जगृहुः एके पात्रं कमण्डलुम्।
पीठं च एके अक्षसूत्रं च कन्थां चीराणि केचन॥३४॥

प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः।
अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित् तटे॥३५॥

मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि।
यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत्॥३६॥

तर्जयन्ति अपरे वाग्भिः स्तेनः अयम् इति वादिनः।
बध्नन्ति रज्ज्वा तं केचित् बध्यतां बध्यताम् इति॥३७॥

क्षिपन्ति एके अवजानन्तः एषः धर्मध्वजः शठः।
क्षीणवित्तः इमां वृत्तिम् अग्रहीत् स्वजन उज्झितः॥३८॥

अहो एषः महासारः धृतिमान् गिरिः आडिव।
मौनेन साधयति अर्थं बकवत् दृढनिश्चयः॥३९॥

इति एके विहसन्ति एनम् एके दुर्वातयन्ति च।
तं बबन्धुः निरुरुधुः यथा क्रीडनकं द्विजम्॥४०॥

एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत्।
भोक्तव्यम् आत्मनः दिष्टं प्राप्तं प्राप्तम् अबुध्यत॥४१॥

परिभूतः इमां गाथाम् अगायत नराधमैः।
पातयद्भिः स्वधर्मस्थः धृतिम् आस्थाय सात्विकीम्॥४२॥

द्विजः उवाच।
न अयं जनः मे सुखदुःखहेतुः न देवतात्मा ग्रहकर्मकालाः।
मनः परं कारणम् आमनन्ति संसारचक्रं परिवर्तयेत् यत्॥४३॥

मनः गुणान् वै सृजते बलीयः ततः च कर्माणि विलक्षणानि।
शुक्लानि कृष्णानि अथ लोहितानि तेभ्यः सवर्णाः सृतयः भवन्ति॥४४॥

अनीहः आत्मा मनसा समीहता हिरण्मयः मत्सखः उद्विचष्टे।
मनः स्वलिङ्गं परिगृह्य कामान् जुषन् निबद्धः गुणसङ्गतः असौ॥४५॥

दानं स्वधर्मः नियमः यमः च श्रुतं च कर्माणि च सद्व्रतानि।
सर्वे मनोनिग्रहलक्षणान्ताः परः हि योगः मनसः समाधि॥४६॥

समाहितं यस्य मनः प्रशान्तम् दानादिभिः किं वद तस्य कृत्यम्।
असंयतं यस्य मनः विनश्यत् दानादिभिः चेत् अपरं किमेभिः॥४७॥

मनोवशे अन्ये हि अभवन् स्म देवाः मनः च न अन्यस्य वशं समेति।
भीष्मः हि देवः सहसः सहीयान् युञ्ज्यात् वशे तं सः हि देवदेवः॥४८॥

तं दुर्जयं शत्रुम् असह्यवेगं मरुन्तुदं तत् न विजित्य केचित्।
कुर्वन्ति असत् विग्रहम् अत्र मर्त्यैः मित्राणि उदासीन रिपून् विमूढाः॥४९॥

देहं मनोमात्रम् इमं गृहीत्वा मम अहम् इति अन्ध धियः मनुष्याः।
एषः अहम् अन्यः अयम् इति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति॥५०॥

जनः तु हेतुः सुखदुःखयोः चेत् किम् आत्मनः च अत्र ह भौमयोः तत्।
जिह्वां क्वचित् सन्दशति स्वदद्भिः तत् वेदनायां कतमाय कुप्येत्॥५१॥

दुःखस्य हेतुः यदि देवताः तु किम् आत्मनः तत्र विकारयोः तत्।
यत् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे॥५२॥

आत्मा यदि स्यात् सुखदुःखहेतुः किम् अन्यतः तत्र निजस्वभावः।
न हि आत्मनः अन्यत् यदि तत् मृषा स्यात् क्रुध्येत कस्मात् न सुखं न दुःखम्॥५३॥

ग्रहाः निमित्तं सुखदुःखयोः चेत् किम् आत्मनः अजस्य जनस्य ते वै।
ग्रहैः ग्रहस्य एव वदन्ति पीडाम् क्रुध्येत कस्मै पुरुषः ततः अन्यः॥५४॥

कर्माः तु हेतुः सुखदुःखयोः चेत् किम् आत्मनः तत् हि जडाजडत्वे।
देहः तु अचित्पुरुषः अयं सुपर्णः क्रुध्येत कस्मै न हि कर्ममूलम्॥५५॥

कालः तु हेतुः सुखदुःखयोः चेत् किम् आत्मनः तत्र तत् आत्मकः असौ।
न अग्नेः हि तापः न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम्॥५६॥

न केनचित् क्व अपि कथंचन अस्य द्वन्द्व उपरागः परतः परस्य।
यथाहमः संसृतिरूपिणः स्यात् एवं प्रबुद्धः न बिभेति भूतैः॥५७॥

एतां सः आस्थाय परात्मनिष्ठाम् अध्यासितां पूर्वतमैः महर्षिभिः।
अहं तरिष्यामि दुरन्तपारम् तमः मुकुन्द अङ्घ्रिनिषेवया एव॥५८॥

श्रीभगवान् उवाच।
निर्विद्य नष्टद्रविणः गतक्लमः प्रव्रज्य गां पर्यटमानः इत्थम्।
निराकृतः असद्भिः अपि स्वधर्मात् अकम्पितः अमुं मुनिः आह गाथाम्॥५९॥

सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः।
मित्र उदासीनरिपवः संसारः तमसः कृतः॥६०॥

तस्मात् सर्वात्मना तात निगृहाण मनो धिया।
मयि आवेशितया युक्तः एतावान् योगसंग्रहः॥६१॥

यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः।
धारयन् श्रावयन् श्रुण्वन् द्वन्द्वैः न एव अभिभूयते॥६२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः॥२३॥

अथ चतुर्विंशोऽध्याय:।
श्रीभगवान् उवाच।
अथ ते संप्रवक्ष्यामि सांख्यं पूर्वैः विनिश्चितम्।
यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम्॥१॥

आसीत् ज्ञानम् अथः हि अर्थः एकम् एव अविकल्पितम्।
यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे॥२॥

तत् मायाफलरूपेण केवलं निर्विकल्पितम्।
वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत्॥३॥

तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका।
ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते॥४॥

तमः रजः सत्त्वम् इति प्रकृतेः अभवन् गुणाः।
मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च॥५॥

तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः।
ततः विकुर्वतः जातः यः अहंकारः विमोहनः॥६॥

वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत्।
तन्मात्र इन्द्रिय मनसां कारणं चित् अचित् मयः॥७॥

अर्थः तन्मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च।
तैजसात् देवताः आसन् एकादश च वैकृतात्॥८॥

मया संचोदिताः भावाः सर्वे संहति अकारिणः।
अण्डम् उत्पादयामासुः मम आयतनम् उत्तमम्॥९॥

तस्मिन् अहं समभवम् अण्डे सलिलसंस्थितौ।
मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः॥१०॥

सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात्।
लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा॥११॥

देवानाम् ओकः आसीत् स्वः भूतानां च भुवः पदम्।
मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम्॥१२॥

अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम्॥१३॥

योगस्य तपसः च एव न्यासस्य गतयः अमलाः।
महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः॥१४॥

मया कालात्मना धात्रा कर्मयुक्तम् इदं जगत्।
गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति॥१५॥

अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति।
सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च॥१६॥

यः तु यस्य आदिः अन्तः च सः वै मध्यं च तस्य सन्।
विकारः व्यवहारार्थः यथा तैजस पार्थिवाः॥१७॥

यत् उपादाय पूर्वः तु भावः विकुरुते अपरम्।
आदिः अन्तः यदा यस्य तत् सत्यम् अभिधीयते॥१८॥

प्रकृतिः हि अस्य उपादानम् आधारः पुरुषः परः।
सतः अभिव्यञ्जकः कालः ब्रह्म तत् त्रितयं तु अहम्॥१९॥

सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः।
महान् गुणविसर्ग अर्थः स्थिति अन्तः यावत् ईक्षणम्॥२०॥

विराट् मया आसाद्यमानः लोककल्पविकल्पकः।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह॥२१॥

अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते।
धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते॥२२॥

अप्सु प्रलीयन्ते गन्धः आपः च स्वगुणे रसे।
लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते॥२३॥

रूपं वायौ सः च स्पर्शे लीयते सः अपि च अम्बरे।
अम्बरं शब्दतन्मात्रः इन्द्रियाणि स्वयोनिषु॥२४॥

योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे।
शब्दः भूतादिम् अपि एति भूतादिः महति प्रभुः॥२५॥

सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः।
ते अव्यक्ते संप्रलीयन्ते तत्कले लीयते अव्यये॥२६॥

कालः मायामये जीवे जीवः आत्मनि मयि अजे।
आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः॥२७॥

एवम् अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः।
मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः॥२८॥

एषः सांख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः।
प्रतिलोम अनुलोमाभ्यां परावरदृशा मया॥२९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
प्रकृतिपुरुषसाङ्ख्ययोगो नाम चतुर्विंशोऽध्यायः॥२४॥

अथ पञ्चविंशोऽध्यायः।
श्रीभगवानुवाच।
गुणानाम् असमिश्राणां पुमान्येन यथा भवेत्।
तन्मे पुरुषवर्य इअदम् उपधारय शंसतः॥१॥

समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः।
तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः॥२॥

कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम्।
मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः॥३॥

क्रोधः लोभः अनृतं हिंसा याञ्चा दम्भः क्लमः कलिः।
शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः॥४॥

सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः।
वृत्तयः वर्णितप्रायाः संनिपातम् अथः श्रुणु॥५॥

संनिपातः तु अहम् इति मम इति उद्धव या मतिः।
व्यवहारः संनिपातः मनोमात्र इन्द्रियासुभिः॥६॥

धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः।
गुणानां संनिकर्षः अयं श्रद्धाः अतिधनावहः॥७॥

प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे।
स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा॥८॥

पुरुषं सत्त्वसंयुक्तम् अनुमीयात् शम आदिभिः।
कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम्॥९॥

यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः।
तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा॥१०॥

यदा आशिषः आशास्य मां भजेत स्वकर्मभिः।
तं रजःप्रकृतिं विद्यात् हिंसाम् आशास्य तामसम्॥११॥

सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे।
चित्तजा यैः तु भूतानां सज्जमानः निबध्यते॥१२॥

यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम्।
तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान्॥१३॥

यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम्।
तदा दुःखेन युज्येत कर्मणा यशसा श्रिया॥१४॥

यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम्।
युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया॥१५॥

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः।
देहे अभयं मनोसङ्गं तत् सत्त्वं विद्धि मत्पदम्॥१६॥

विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम्।
गात्रास्वास्थ्यं मनः भ्रान्तं रजः एतैः निशामय॥१७॥

सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम्।
मनः नष्टं तमः ग्लानिः तमः तत् उपधारय॥१८॥

एधमाने गुणे सत्त्वे देवानां बलम् एधते।
असुराणां च रजसि तमसि उद्धव रक्षसाम्॥१९॥

सत्त्वात् जगरणं विद्यात् रजसा स्वप्नम् आदिशेत्।
प्रस्वापं तमसा जन्तोः तुरीयं त्रिषु सन्ततम्॥२०॥

उपर्युपरि गच्छन्ति सत्त्वेन आब्रह्मणः जनाः।
तमसा अधः अधः आमुख्यात् रजसा अन्तरचारिणः॥२१॥

सत्त्वे प्रलीनाः स्वः यान्ति नरलोकं रजोलयाः।
तमोलयाः तु निरयं यान्ति माम् एव निर्गुणाः॥२२॥

मदर्पणं निष्फलं वा सात्विकं निजकर्म तत्।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम्॥२३॥

कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत्।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम्॥२४॥

वनं तु सात्विकः वासः ग्रामः राजसः उच्यते।
तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम्॥२५॥

सात्विकः कारकः असङ्गी रागान्धः राजसः स्मृतः।
तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः॥२६॥

सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा॥२७॥

पथ्यं पूतम् अनायः तम् आहार्यं सात्त्विकं स्मृतम्।
राजसं च इन्द्रियप्रेष्ठं तामसं च आर्तिद अशुचि॥२८॥

सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम्।
तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम्॥२९॥

द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः।
श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि॥३०॥

सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः।
एताः संसृतयः पुंसः गुणकर्मनिबन्धनाः॥३१॥

येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः।
भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते॥३२॥

तस्मात् अहम् इमं लब्ध्वा ज्ञानविज्ञानसंभवम्।
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः॥३३॥

निःसङ्गः मां भजेत् विद्वान् अप्रमत्तः जितेन्द्रियः।
रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः॥३४॥

सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शान्तधीः।
संपद्यते गुणैः मुक्तः जीवः जीवं विहाय माम्॥३५॥

जीवः जीवविनिर्मुक्तः गुणैः च आशयसंभवैः।
मया एव ब्रह्मणा पूर्णः न बहिः न अन्तरः चरेत्॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
गुणनिर्गुणनिरूपणं नाम पञ्चविंशोऽध्यायः॥२५॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. गीता
  2. उद्धवगीता
    1. उद्धवगीता १ (अध्याय ०१-०५)
    2. उद्धवगीता २ (अध्याय ०६-१०)
    3. उद्धवगीता ३ (अध्याय ११-१५)
    4. उद्धवगीता ४ (अध्याय १६-२०)
    5. उद्धवगीता ५ (अध्याय २१-२५)
    6. उद्धवगीता ६ (अध्याय २६-३०)
    7. उद्धवगीता ७ (अध्याय ३१)

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=उद्धवगीता_५&oldid=46973" इत्यस्माद् पुनः प्राप्तिः