उद्धवगीता ७
अथ एकत्रिंशः अध्यायः।
श्रीशुकः उवाच।
अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः।
महेन्द्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः॥१॥
पितरः सिद्धगन्धर्वाः विद्याधर महोरगाः।
चारणाः यक्षरक्षांसि किंनर अप्सरसः द्विजाः॥२॥
द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः।
गायन्तः च गृणन्तः च शौरेः कर्माणि जन्म च॥३॥
ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः।
कुर्वन्तः संकुलं राजन् भक्त्या परमया युताः॥४॥
भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः।
संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत्॥५॥
लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम्।
योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम्॥६॥
दिवि दुन्दुभयः नेदुः पेतुः सुमनः च खात्।
सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः॥७॥
देव आदयः ब्रह्ममुख्याः न विशन्तं स्वधामनि।
अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः॥८॥
सौदामन्याः यथा आकाशे यान्त्याः हित्वा अभ्रमण्डलम्।
गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः॥९॥
ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः।
विस्मिताः तां प्रशंसन्तः स्वं स्वं लोकं ययुः तदा॥१०॥
राजन् परस्य तनुभृत् जननाप्ययेहा मायाविडम्बनम् अवेहि यथा नटस्य।
सृष्ट्वा आत्मना इदम् अनुविश्य विहृत्य च अन्ते संहृत्य च आत्म महिना उपरतः सः आस्ते॥११॥
मर्त्येन यः गुरुसुतं यमलोकनीतम् त्वां च आनयत् शरणदः परम अस्त्र दग्धम्।
जिग्ये अन्तक अन्तकम् अपि ईशम् असौ अवनीशः किं स्वावने स्वरनयन् मृगयुं सदेहम्॥१२॥
तथा अपि अशेशा स्थिति सम्भव अपि अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक्।
न इच्छत् प्रणेतुं वपुः अत्र शेषितम् मर्त्येन किं स्वस्थगतिं प्रदर्शयन्॥१३॥
यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम्।
प्रयतः कीर्तयेत् भक्त्या ताम् एव आप्नोति अनुत्तमाम्॥१४॥
दारुकः द्वारकाम् एत्य वसुदेव उग्रसेनयोः।
पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः॥१५॥
कथयामास निधनं वृष्णीनां कृत्स्नशः नृप।
तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः॥१६॥
तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः।
व्यसवाः शेरते यत्र ज्ञातयः घ्नन्तः आननम्॥१७॥
देवकी रोहिणी च एव वसुदेवः तथा सुतौ।
कृष्ण राम अवपश्यन्तः शोक आर्ताः विजहुः स्मृतिम्॥१८॥
प्राणान् च विजहुः तत्र भगवत् विरह आतुराः।
उपगुह्य पतीन् तात चिताम् आरुरुहुः स्त्रियः॥१९॥
रामपत्न्यः च तत् देहम् उपगुह्य अग्निम् आविशन्।
वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः।
कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः॥२०॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः।
आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः॥२१॥
बन्धूनां नष्टगोत्राणाम् अर्जुनः साम्परायिकम्।
हतानां कारयामास यथावत् अनुपूर्वशः॥२२॥
द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात्।
वर्जयित्वा महाराज श्रीमत् भगवत् आलयम्॥२३॥
नित्यं संनिहितः तत्र भगवान् मधुसूदनः।
स्मृत्या अशेषा अशुभहरं सर्व मङ्गलम् अमङ्गलम्॥२४॥
स्त्री बाल वृद्धान् आदाय हतशेषान् धनञ्जयः।
इन्द्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत्॥२५॥
श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः।
त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम्॥२६॥
यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च।
कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते॥२७॥
इत्थं हरेः भगवतः रुचिर अवतार वीर्याणि बालचरितानि च शन्तमानि।
अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः भक्तिं परां परमहंसगतौ लभेत॥२८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे मौसलोपाख्यानं नाम
एकत्रिंशोऽध्यायः॥३१॥
॥इति उद्धवगीता नाम एकादशस्कन्धः समाप्तः॥
संबंधित कड़ियाँ
सम्पाद्यताम्- गीता
- उद्धवगीता
- उद्धवगीता १ (अध्याय ०१-०५)
- उद्धवगीता २ (अध्याय ०६-१०)
- उद्धवगीता ३ (अध्याय ११-१५)
- उद्धवगीता ४ (अध्याय १६-२०)
- उद्धवगीता ५ (अध्याय २१-२५)
- उद्धवगीता ६ (अध्याय २६-३०)
- उद्धवगीता ७ (अध्याय ३१)