प्रमुखा विकल्पसूचिः उद्घाट्यताम्

पञ्चम: प्रपाठकः


रूपभावनाबोध:

अथ हैनमाथर्वणाङ्गिरसशिल्पकाश्यपः पप्रच्छ यदि यज्ञार्थं शुल्वं शिल्पार्थं शिल्पसूत्रञ्च रूपकर्मणि, इत्थं तदिदं ब्रूहीति । पिप्पलादो होवाच । शिल्पमधीयानाः शिल्पोद्गातारः, शृणुत ।

भावस्यारोपणं रूपकर्मणि विधेयम् ॥ ५.१ ॥:
 
यज्ञशालास्थण्डिलार्थं शुल्वज्ञानं श्रेष्ठम् । तत्र श्रोणि2 साधनमंशादिपातनमिष्टकान्यासप्रयोगो भवतीति ध्येयम् । येन रूपेण' यथा रूपकर्मणि त्रिकोणिसाधनं कर्णाकर्षणं कर्णिकाकरणं लब्धक्षेत्रे मुख्यम् । एतदर्थं भावबोधनस्य प्रयोजनं भवति । शृणु , तस्य को भावः, कस्तेषां रूपस्य सन्धा: । देहः कर्माधार इति वदन्ति याज्ञिकाः ।

कर्म भावस्य प्रदायकम् ॥ ५.२ ॥:

भावं प्रददातीति ।

भावस्याऽऽधारो रसः ॥ ५.३ ॥:

स रसः कर्मणश्चोदनेति देहे प्रस्कन्दयति वाङ्मनश्चक्षुः श्रोत्रकरपादादीनाम् उदयक्रमेण , देहृलक्षणं भवति । भावविधानेन देहस्य रसाः प्रसरन्ति ।
रसात्

मनसि वृत्तिर्बहुधा प्रजायते । तदा भिन्नभिन्नरसाद्रूपं नैकं भवति ॥ ५.४ ॥

नवधा रस: ॥ ५.५ ॥
:

नवधा रसार्थं रेखापार्थक्यं जायते । ।


1.महर्षिकात्यायनस्य शुल्वं भगवतः पिप्पलादस्य शिल्पसूत्रमिति ।
 2.रेखाकृतिरिष्टकान्यास इति श्रोणिः । ज्योतिष्टोमे महावेधाः, श्रोणिरित्यादि ।


  • This sentence follows after the Sutra 1 in MSS क, ग., T.

°न रूपेण, ग ।
“Sūtra om. in ग |

186

प्रथमरसः शृङ्गारः ॥ ५.६ ॥:

यथा मोहात् पुरुषस्य नारीं प्रति मैथुनेच्छा प्रभवति तद् जीवमात्रस्य
सत्यम् । यत्र मुदभावो विभाति सा शृङ्गारमूर्तिः’ भवति । तथा द्वौ तनू देवदेव्योश्च क्रीडाङ्गगठनम् ( युगलशरीरे क्रीडोपायेति, अक्षक्रीडादि मुदितविग्रहार्थम् ।

शृङ्गाररूपार्थमब्रेखा ग्राह्याः ॥ ५.७ ॥:

प्रसन्नाननमिति तेषां लक्षणम् । कामनिवृत्तौ मन उल्लसितं भवति । हास्यं
प्रददाति ।

स हासो द्वितीयरसः ॥ ५.८ ॥ :

हास्यभावप्रदायकविग्रहाः जनानां हृदये सुखं सञ्चारयन्ति । कारुप्रयोगे तेषामधर उन्मुक्तः, नेत्रं सौम्यमिति तेष लक्षणम् ।

मुखलक्षणाद् रसं जानन्ति सर्वे ईक्षणेन ॥ ५.९ ॥ :

मनुष्यः मनोसुखार्थमुपासते । जनानां जले च रूपे उभय समानः । यदा दुःखं तदा सुखमिति सत्यं, रात्रिन्दिवमिव । सुखस्य परिणामो विषादः । विषादात् सर्वेन्द्रियाणि शिथिलानि भवन्ति ।

स तृतीयः करुणरस भाव इति ॥ ५.१० ॥:

नयनमर्धमुक्त चेति तेषां लक्षणम् । करुणान् मनो निश्चेष्टं भवति । सोऽवसाद इति । अवसादात् पुनः विषादः सञ्जायते । ततः क्रोधो जायते ।

रौद्रः चतुर्थो रसः ॥ ५.११ ॥:

स रौद्रभावः रूपे उग्र वदन्ति शिल्पकाराः । मुखं प्रशस्तं नेत्राणि स्फारितानि, ह्स्ते योधायुधमिति तेषां लक्षणम् ।

तिर्यग् रेखायां रूपाङ्गभावः प्रकटो भवति ॥ ५.१२ ॥ :

इति विशेषः । रौद्रभावात् तनुषि विकारो जायते ।


  • This sentence follows Sutra 4 in क, ख ग

 *०रूप, ख, ङ ।

  • Additional sentence in ख.

“हास्य, घ ।
 *Two additional sentences in घ, ङ..
Sentence om. in क




187

स वीरभावः’ पञ्चमः ॥ ५.१३ ॥:

तेष्वसमानि कायमुखनेत्राणीति लक्षणम् । कौणपलक्षणान्विता द्रुता पादरेखा समसरला देवराक्षसयोर्मध्ये घातकर्मेव । तेषां मुखे वैरभावस्तल्लक्षणं भवति भयङ्करतूर्वयाण इव ।

वैरभावे उत्कटे भयङ्करो3 भवति । स वैलक्षणः षष्ठरसः ।।५.१४।।:

उभयपार्श्वे रूपस्याङ्गवैषम्यं ध्येयम् । ये वर्धितास्ते बीभत्सा ग्लानियुक्ताः ।

कुरूपाः क्षिप्ताङ्गाः मारुतरेखायामिति स सप्तमः ॥ ५.१५ ॥:

कामे निवृत्ते दैवभाव उपजायत इति शेषोपायः । अवगत्या विरतो भवतीति ।

शान्तभाव: , सोऽष्टमो रसः ॥ ५.१६ ॥ :

एवं जीवस्याष्टविकाररूपेणाष्टभावाः सम्पद्यन्ते4 ।

भावानुगतरूपाणि चतुर्धा मुख्यानि ॥ ५.१७ ॥ :

येषां शान्तास्ते सर्वेऽग्निरेखाश्रयिणः । येषां करुणास्ते सर्वेऽब्रेखाश्रयिणः । अालस्यमूर्तिषु सर्वेऽबाश्रयिणः । येषां सर्वाङ्गानि कर्णरेखाश्रयाणि ते रौद्राः । रौद्रा मिश्रा वैरा मारुतरेखाया आाधारः । इहानुशासनं ध्येयम् । अथ शिल्पकाश्यपो होवाच । किमर्थं भावप्रबोधनार्थं रूपाणि ? कस्तस्य हेतुः ? भेदाद् दैवज्ञानमुपजायतेऽन्यच्च – भगवन्तः सत्यद्रष्टारो भावबोधार्थं ब्रुवन्तु ।
पिप्पलादो होवाच

लोके भावबोधस्य हेतुर्मनः ॥ ५.१८ ॥:

तद्भेदे भेद उपजायते देवयोन्यः , पितरः, सोमः , आाशापालाः , विश्वेदेवाः, राक्षसाः, हि (ङ्)ङ्गादयः ।। सर्वस्य वृत्तिरस्ति । सर्वे पृथक्। कति मित्राणि कत्यरयः । अरिभावस्तेषां सन्धाः । होतारो देवान् यजन्ति ।


3अत्र भयङ्करे अद्भुतभावो विलीयते । शिल्पे अद्भुतभावः ऊह्नीयः ।
4.यद् प्रदर्शयन्ति तनुषि तद्भावः यदीक्षणेन हृदये सञ्चारयन्ति स रसः ।



रसः, ग
मारुतरेखाश्रयिण इति भवितुं युक्तम्




188
पिशाचमोक्षणार्थं तर्दादि5 विमोचनार्थं यज्ञमाचरन्ति । एषा जैवसन्धा । यज्ञात् पिशाचा विनश्यन्ति । अरिसाधनार्थं ब्राह्मणाः पर्णमणिं धारयन्ति कवचे । ब्राह्मणा यज्ञबलेन, क्षत्रिया आयुधबलेन, वैश्या भूमिरसज्ञानेन, शूद्राः परिचर्यया दीप्ता भवन्तीति वर्णभेदे क्रियाः। मोक्षार्थं यथा ब्राह्मणा
यज्ञमाचरन्ति तथा त्रयो वर्णा रूपसपर्यायां मोक्षं लभन्ते । भावान्मुक्ता भवन्ति । एवमारोपणे रूपं ध्येयम् । एतदर्थं रूपध्याने' न बाधः ।

मनुष्याणां वृत्तिर्मुख्येति ॥ ५.१९ ॥:

वृत्तेर्निष्कल - सकल-भावा उपजायन्त इति मार्गः क्रियायाः परिणाम इति । तदर्थं शिल्पज्ञानादूपं ध्यायन्ति, स्थापका ब्राह्मणा भवन्ति ।

सङ्कल्पाद् विकल्पः ॥ ५.२० ॥:

इति विशेषः । यथा सङ्कल्पाद् विकल्पः तथा भोगेच्छान्ते अरिमर्दनेच्छोपजायते । मर्दनान्तो भोगः । एतदिन्द्रियचक्रम् ।
विकल्पभावात् श्रद्धा, श्रद्धायाः सत्ताभावः”, सत्ताभावाद् भावयजनं
प्रसरति । तद्भावेन रूपं रूपं प्रतिरूपाणि जायन्ते ।

एष भुवनकोषो देहानुभूत्याः क्रमः ॥ ५.२१ ॥:

शृणु तत्क्रमं शिल्पश्रोतारः । ततः श्रोतारः पप्रच्छुः - भगवन् को भुवनकोषः ? किं तत्स्वरूपम् ? कस्तस्य क्रमभेदः ? वदतु’ धर्मपुरुषः
पिप्पलादमहामतिः शिल्पकाश्यपाः पृछन्तीति । देहभुवनकोषस्य लक्षणं देहानुभूतिमिति अथ भगवान् पिप्पलादः प्रवचनेन वव्रे। शिल्पकाराः सर्वकर्मणि शतकेशिवृषं प्रार्थयन्ते


ॐरुद्रशतकेशाय रुद्र एतद् नाशय भयं
रुद्र शतशीर्ष शमय भयं
वृषरूपाय शतकेशाय च धर्मरूपाय ते नमः
5.तर्दः (खर्वत) - अथर्व० ६.५०.१ उक्तः, अन्नहानिकरः पतङ्गविशेषः


तृप्ता, ग।
सपर्यायां, घ।
ज्ञानात्, ख।
समभावः, ख।
एष भुवनस्य भावः, ग।
सर्वज्ञ, ङ।


 
189
इति ब्रुवाणान्तरं पिप्पलाद उवाच । शृणुत’, भुवना6स्तरणस्य सन्धाः । होतारो वैश्वानरे प्रजापत्यादिदेवान् यया वाचाऽऽजुह्वन्ति स मन्त्रः7 । स ध्वनिः, ध्वनेर्ब्राह्मणाऽऽत्मज्ञा भवन्ति, ते ध्वनेर्देवेलक्षणानि कल्पयन्ति, ऋषीणां तल्लक्षणम्8, तल्लक्षणं हि ऋतम्, तल्लक्षणाद्रूपं वृणुते मनुष्यलोके।
यज्ञाद् ध्वनिः, ध्वनेर्लक्षणं, लक्षणाद्रूपं, रूपाद् भावः, भावाद् गुणः, गुणात् क्रिया, क्रियाया आचारः, आचारादुपायः, उपायाच्चेष्टा, चेष्टाया मार्गः, मार्गाद्रूपाणि, रूपात् प्रतिरूपाणि9, रूपविद्याबोधाद् रूपक्रिया, एष सपर्याक्रमः वेदस्यायने भुवनकोषः।

अरूपाद्रूपं तस्य फलम् ॥ ५.२२ ॥:

आदित्यो ह वै ब्रह्म , तदर्थं यज्ञः, दिशः पृथिव्याः सम्बन्ध इति मूलम् , आादित्यो ह् वै ब्रह्मेति तस्य ध्वनिः । ध्वनेर्लक्षणं सूर्यस्य रश्मेर्या यत्र देवता पतिरेक आसीत् । तल्लक्षणम् । रश्मिभिर्द्वेिजा यजन्त्यमृतरथेनेति तस्य रूपम् । सूर्यो ज्योतिष्पतिरिति भावः, भावाद् गुण इति. स सूर्यस्तपति विश्वमिति तस्य गुणः, तद्गुणानुसृतौ ब्राह्मणा गायत्रीं जपन्ति, ये च इमे भूम्यामधियजन्ति दिवं प्रयान्तीति तत्क्रियाः, तारकामुपेत्य त उत्तिष्ठन्ते ब्राह्मणा इत्याचारः , त्रिकालेन कालसन्ध्यां प्रयोजयन्ति मन्त्रैः , प्रजायाः संरक्षणे ब्राह्मणा द्रविणं दधति, स उपायः । मन्त्रसंख्यासहितं प्रयोजयन्ति क्रियाः, सा चेष्टा, सा बहुधा श्रूयत इति मार्गः । एवं बहुमत्या दैवत्वे रूपं, रूपेणानेकत्वं जायते ।
तद्रूपं प्रतिरूपमिति तज्ज्ञानं रूपविद्या, तच्छिल्पसूत्रमिति। वेदस्यायने रूपभुवनकोष इति, एतदर्थं रूपार्थं दिशः। अरूपाद्रूपं तस्य फलमिति पूर्वं वेदेनोक्तम्10।

दिशानुसृतेर्दिशापालानुपासन्ते11 ॥ ५.२३ ॥:


6चतुर्दशसंख्यक इत्यर्थः ।
7वाग् वै मन्त्रः शतपथब्राह्मणे उक्तम् । वाक्येन सह् यद् प्रकटयन्ति ।
8यथा अथर्वसंहृितायां लक्षणम्, ६.१४१.३: सहृस्रपोषाय कृणुतं लक्ष्माश्विना ।। इति ।।
9रूपं रूपं वयो वयः संरभ्यैनं परिष्वजे इत्युक्तम् अथर्व’० १९.१.३ । ततः विष्णुरूपं, यदस्ति वचने अप्युक्तम्, पैप्पलादसंहितायां सत्रीणां प्रतिरूपमुपासका तदर्थं प्रतिरूपाणि।
10देवतायतनमिति, तानि न कम्पन्ते, दैवतप्रतिमा हसन्ति रुदन्ति नृत्यन्ति स्फुटन्ति सीदन्ति, उन्मीलन्ति निमीलन्ति, शतपथब्राह्मणे ७.१०. उक्तम् । ऐतरेयब्राह्मणे ४.५ रूपविद्या छन्दोमय देवशिल्पम, रूपेण उक्तम् । तथा शतपथब्राह्मणे ३.२ प्रतिरूपशिल्परूपेण उक्तम् । रूपं वै अर्च्चारूपं, प्रतिरूपाणि उपदेवतानि, अन्या मण्डनमिति ।
11यथा जैमिनीयब्राह्मणे (२.४ ) उक्तम् दिश उ एवं विश्वदेवाः दिशो वै प्राणः इति वाक्यम् ।


  • शतपथिनः, ग: adds ।

लक्षणाद्रूपम् ग।
सूर्यस्य इति अधिकः पाठः, ग।




190
प्राच्यामादित्यः, दक्षिणे यमः , प्रतीच्यां वरुणः, उदीच्यां सोमः
ध्रुवायामग्निः, एवमहल्लिकाः12 वदन्ति, एवं पूर्वं वेदेनोक्तम्, तदा दशप्रचेतसः13आादित्या आशापालाः!4 सन्ति, य एवं वेद ।

एवं दैवभेदान्मार्गभेदा जायन्ते ॥ ५.२४ ॥:

मार्गाद्रूपञ्च, अप्राकृतं नानृतं च । विष्णुदैवताद् वैष्णवाः15, रुद्राद् रौद्राः’, इडाया ऐडाः, अम्बाया अम्बिनः, सवितुः सौरा भवन्तीति ।
एतेन भेदेन ब्राह्मणाः प्रतिरूपाणि यजन्ति, य एतज्जानाति स रूपज्ञः16, ये रूपशैले रूपमाचरन्ति ते रूपकारा: . ते रूपबोधे रूपाण्याचरन्ति । तद्रूपार्थं कामचारा यज्ञं कुर्वन्ति17 कामनया य एवं वेद ।
इति वाङ्कायमनोमार्गेण पिप्पलादकल्पे सम्प्रदानं चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन रूपभावनाबोधाध्याय इति पञ्चमप्रपाठकः ॥


12अहल्लिका भाट इत्यर्थः कुन्तापीय रमणीविशेषः ।
13तारादि देवताः । द्यौश्च म इदं पृथिवीं च प्रचेतसौ शुक्रो बृहृन् दक्षिणया पिपर्तु । अथर्व० ६.५३.१ सूर्य इत्यर्थः ।
14 : आाशानामाशापालेभ्यश्चतुभ्याँ अमृतेभ्यः अथर्ववेदे १.३१.१
15विष्णुयाजकाः । पुरुषो ह नारायणोऽकामयत । यो वैष्णवो वामनः, शतपथे उक्तम् ।
16यथा ज्योतिष्येवं रूपं दधातीति शतपथे उक्तम् ।
17यथा पाकयज्ञे औपासने च प्रजापतिः, स्वीष्टकृत् अङ्गदेवता प्रातः सूर्यः प्रधानो भवति तथा विश्वदेवार्थं दैवयज्ञः ।


दशाशापालाः, ग।
रुद्रियाः, ग।