प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रथम : प्रपाठक:
षट्शिल्पविचार:

आथर्वणाङ्गिरस1 शिल्पकाश्यपो2 होवाच पिप्पलादमहामतिम् । षोडशतापिनी3मध्ये वास्तुस्थापकविद्येयम्4 । य एनां वेद । आथर्वणीये होतोद्गातृभिः शिल्पश्रोतॄभिः
वास्तोष्पतिर्ज्ञेय5 इति ॥ १.१ ॥
स विश्वकर्मा देवता । तस्य विद्या षट्शिल्पविचार:6 ।।
केषां शिल्पकारा उपपादयन्ति केषां शिल्पकर्मादय उपजायन्ते, कतिविधानीति तान् ह स आङ्गिरसादीन् निरीक्षमाणान् पिप्पलादो वव्रे । स ह कुवित्सोवलभुजोत्तोलकः7, शिल्पकाश्यपः प्रणिधाय यथाकामं पृच्छामीति । को वास्तोष्पतिर्विश्वकर्मा8, तस्मै होवाच, मन्ये वयं वेदसदस्या ज्ञापयिष्यसीति ।
पिप्पलादो होवाच ये वै के चास्मिंल्लोके प्रयान्ति ज्ञानमेव ते सर्वे कामयन्ते।


1. अथर्व० ११ .४. १६ मण्डलोक्तऋषिविशेषः । १९ काण्डे पञ्चमानुवाकस्य प्रवर्तक ऋषिः अङ्गिराः ।
२.काश्यपशिल्पसूत्रकारः शिल्पकाश्यपनामा ऋषिः ।
३. आथर्वणीय-षोडशविध - तापिनीग्रन्थाः अवधूततापिनी त्रिपुरातापिनी नृसिंहतापिनी पुरुषतापिनी, वृषतापिनी इत्यादयः सर्वे आथर्वणीयाः ।
4. वास्तुविषयकसूत्राणि ।
५. वास्तुदैवत वास्तोष्पतिरित्यर्थः ।
६. काश्यपशिल्पसूत्रस्य दैवशिल्प-प्रासादशिल्प-नगरशिल्प-दुर्गशिल्प-धातुकरणलेखविचारादि विषयाः ।
७.रूपशिलास्थापनार्थं शुभयोगे दर्भोत्पाटक आथर्वणब्राह्मणविशेषः ।
८. शिल्पाधिदैवतम् अर्थंर्ववेदसंहितायामुक्तम् । विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु अथर्व ० ९.१८.७


२१निर्यन्ध्यमाणान् ख ग घ ।
ज्ञापयिष्यामो ग ।


 
160
षट्शिल्पाङ्गप्रयोगेण प्रजनयन्ति रूपाणि9 ॥ १.२ ॥
रूपं शैलेन10 खादिरेण, एवं रूपज्ञानञ्च लोके । वेदे रूपं रूपं प्रतिरूपं भवतीति विशेषः । तज्ज्ञानं दिव्यज्ञानञ्च ।
यूपं इदं ज्योतिः ॥ १.३ ॥
स हि यूपः खादिरेण शैलेन वा वैताने12 उक्तम् । वृत्तं हि यूपमूर्धन्यं स विश्वमिति यूपदण्डादौ । कर्माणि समरूपाणि समरेखायां स यूपस्तम्भो यूपदण्डः । तत् संयोगेन यूपो भवति तज्ज्ञानं विज्ञापयति य एवं वेद स हि विश्वकर्मा शिल्पाधिदैवतम्13 । य एवं जानाति स पुरश्रेष्ठः ।
वृत्तज्ञानं रेखाज्ञानं च यो जानाति स स्थापकः ॥ १.४ ॥
स हि मधुः14, य एवं वेद ।
शिल्पात् प्रतिमा15 जायन्ते ॥ १.५ ॥
प्रतिमायाः श्रद्धा सञ्चरति, श्रद्धातो निष्ठा, ततश्च ज्ञानम्, तस्मान्मोक्षो भवतीति पञ्च वास्तुसोपानानि, य एवं वेद । आथर्वणीये सर्वानुभूतिरित्यनुशासनम् । अथ शिल्पकाश्यपाथर्वणाङ्गिरसकुवित्सा16


9.पैप्पलादसंहितायां प्रथमकाण्डे उक्तम् - श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।
इदमू षु प्र साधय पुना रूपाणि कल्पय ॥ १,२६.५ (शौ० १.२४.४ )
10.मूर्तिश्चतुर्विधा प्रोक्ता मृण्मयी शैली एव च । धातवी दारवी चैव पूजनार्थे विशेषतः। (घ ) ॥
11आदत्यो ग्रूप इति ऐतरेये उक्तं तथा तैत्तिरीये च ।
12अथर्ववेदे वैतानसूत्रमिति । अथर्ववेदे १३.१.४७ उक्तम् । पुनः यूपमुग्रा मरुतः स्कम्भहिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । इन्द्रेण मन्त्रे उक्तम् पुनः अथर्ववेदे यूप स्कम्भरूपेण उक्तश्व दशमकाण्डे दैवत रूपेण ।
13.गृह्यसूत्रे च अथर्ववेदे ७ काण्डे नवमानुवाके ३ सूत्रे उक्तम् । शतपथब्राह्मणे । वास्तु हि तद् यज्ञस्य यद् घृतेषु ह्रविषु इति उक्तम्, तद् देवता वास्तुपुरुषः शिखिन्यादि इति ।
14ब्रह्मसुखं हि मधु इति अथर्ववेदे १.३४.१ उक्तम्
इयं वीरुन्मधुजाता मधुना त्वा खनामसि । मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥
15प्रतिमा अथर्ववेदे ९.४.२ उक्तम् - अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी इति । वाजसनेयिसंहितायामुक्तम् - असौ वै लोकः प्रतिमेषा ह्यन्तरिक्षलोके प्रतिमा इव इति ।
16ऋत्विग्विशेषाः आथर्वणपुरोहिताः ।




161
दयो होद्गीथे17 कुशला बभूवुः । वास्तुषडङ्गकथां यथामति ब्रूहीति प्रोचुः पिप्पलादमिति । तथेति समुपदिदिक्षुः ।
स प्रवहणः शिल्पसूत्राध्यायं स्थापकविद्यां चावदत् ॥ १.६ ॥
सा विद्या श्रेष्ठा, प्रजापतेश्चाग्रा । प्रजापतेर्नारदः, नारदान्मयः, मयाद् वैश्रवणः18, वैश्रवणात् पिप्पलादः । श्रोष्यामीति । एषामुन्मेषः सत्यम् ।
होवाचाङ्गिरसस्त्वां पृच्छामीति । पृच्छेति होवाच । केन प्रतिमा सम्भवति । कथं रूपं रूपं प्रतिरूपाणि लोके सम्भवन्ति । नाहं प्रभो पश्यामीति । स प्राजापत्यमार्गेण पिप्पलाद उवाच । भव त्वं शान्तहृदयः आङ्गिरस, मर्त्ये वा इदं सदासीत् श्रेष्ठयजने ।
अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी । पिता वत्सानां पतिरघ्न्यानां साह्स्रे पोषे अपि नः कृणोतु ॥
इति मन्त्रेण19 तृप्त्यर्थमुपासत इति भावः ।
यजनोपासने च ।
शरीरमूर्तिरहिते मन आवेश्य विशेषेण विकल्पिदोषयुक्तं भवति || १.७ |।
इति । रूपात् क्रमेण [प्रतिमा], प्रतिमायास्तत्त्वबोधो जायते । तत्त्वबोधाद् धारणेति । धारणाया गाथा, कथा प्रसरति लोके । गाथाया रूपाण्युत्पादयन्ति स्थापकाः । तस्मै होवाच रूपकलनार्थ कारुसाधनार्थ विशेषः |
वास्तु षडङ्गमिति श्रेष्ठम् ॥ १.८ ॥
शैलं खिलपञ्जरं20 कीलेन पञ्जराकृतिकोष्ठका रेखावासः तदा रूपाङ्गानि मर्माण्याश्रयन्ते तच्छैलभेदनम् । अङ्गप्रयोग: ; न्यासभावना सम्बन्ध प्रबोधनम् इति । ह्रोवाच आङ्गिरसः


17.अथर्ववेदे २.८.१ काण्डे उक्तम् - उदगातां भगवती विचृतौ नाम तारके इति।।
18.पौलस्त्यस्य अपत्यं विश्रवापुत्रः रावणः ।
19 अथर्व০ ९.४.२
20.प्रयोगात्मकसूत्रमिति खिलम् ।


 
 162
कथं विकाशेन रूपवास्तुषडङ्गं शिल्पं संसिद्धं भवति। भगवतस्तस्यैव मे कामं ब्रूयात् । श्रुत्वाह, येनैवं मे स्थापकविद्या प्रपातिनी समावर्त्तते । स हि षडङ्गक्रममाह ।
[शैलम्]
षड्धा शैलं ज्ञेयम् ॥ १.९ ॥
शिला तद्देशे लोकज्ञाने षड्धा प्रथिता । हिरण्यरेखिका, समवर्णा, ताम्रा, धातुपुटिता बज्रलब्धा सैकतालिकेति । यदा हिरण्यरेखा कुटिला सोऽवलक्षणः । सा प्रतिमार्थ हीना विरूपं प्रददाति । तद्दर्शनेन विकल्पभावो प्रभवति। दर्शनादेता अर्थहीना उच्यन्ते, वदन्ति, भवन्तीति।
 एतदर्थं प्रतिमावैलक्षण्यं भवति। यदा पूर्णशैलमेकवर्णं कृष्णं कृष्णपिङ्गलं हारिद्रं वा मुख्यप्रतिमार्थं ध्येयं सा समवर्णा। कठिनतमगाढपिङ्गलशिला न ध्येया।
यदा शैलं भित्त्याकृतेरपृथक् प्रतिमाशालार्थं21 तद् ध्येयम् । शैलं पृथक्त्वेन हीनं भवति ।
यत्र केवलं लीलाविग्रहा निवसन्ति भित्त्यङ्गे , इति । शिला धातुपुटिता। धूमवर्णा व्रणोपेतारूपार्थं घोरेति । शैलान्तरे स्तराभ्यन्तरे कोमलरसबद्धा रेखा: सन्ति याः पीतप्रभा: सदाऽधमा भवन्ति श्रेष्ठै- शिल्पकारैः ।
शैलादङ्गरागज्ञानं प्रसरति ॥ १.१० ॥
सर्वेषु लोकेषु कामचारो भवति ।
इति आथर्वणीये वाक्कायमनोमार्गेण पिप्पलादकल्पे वास्तुसूत्रसम्प्रदानमिति चर्चाक्षेण मुनिहोतारोपनिधानेन शैलषडङ्गज्ञाननाम प्रथमप्रपाठकः ।


21भीत्याकारे महाशैले दैवलीलादयो यथा । रूपशाला तपस्विनां मोदार्थमभिखोदिता । इति काश्यपवचनम ।
22स्तम्भ इति यूपः यूपः वै स्तम्भ (स्कम्भः) इति अथर्ववेदे १०.७ उक्तम् ॥ प्रयोगभेदे स्कम्भत्रयं ब्रह्मयजने स्कम्भो वै यूपः, पितृयजने वृषस्तम्भः, कामयजने मिथुनस्कम्भ इति भेदः ।


“समावर्तने ख ग ।

  • ग्राह्या सज्ञान वा स्थापकाः, ख । तल्लब्धज्ञानस्थापकाः, ग ।